०५ धीवर्गः

मूलम् - ०१.०५.००१

(०१.०५.००१अब्) बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
(०१.०५.००१च्द्) प्रेक्षोपलब्धिश्चित् संवित् प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥
[[०१.०९२]]

(०१.०५.००२अब्) धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् ।
(अवधानं समाधानं प्रणिधानं तथैव च ।)

लिङ्ग-सूरी - AK.01.05.001

बुद्धिरिति—बुध्यतेऽनया बुद्धिः । ʻबुध अवगमने । मन्यते मनीषा । ʻमन ज्ञाने । मनस ईषावत् लाङ्गलदण्डवत् सम्बन्धाद्वा । धृष्णोतीति धिषणा । ʻञिधृषा प्रागल्भ्ये । ध्यायतेऽनया धीः । ʻध्यै चिन्तायाम् । प्रज्ञायतेऽनया प्रज्ञा । ʻज्ञा अवबोधने । शेयं मोहं मुष्णातीति शेमुषी । ʻमुष स्तेये । मन्यतेऽनयेति मतिः । ʻमन ज्ञाने । प्रेक्षते यया प्रेक्षा । ʻईक्ष दर्शने । उपलभ्यतेऽनयेति उपलब्धिः । ʻडुलभष् प्राप्तौ’ । चेतन्त्यनयेति चित् । ʻचिती सञ्ज्ञाने । अनया सम्यग्वेत्तीति संवित् । ʻविद ज्ञाने । प्रतिपद्यतेऽनया प्रतिपत् । ʻपद्लृ गतौ’ । ज्ञायतेऽनया ज्ञप्तिः । ʻज्ञा अवबोधने । चेतयतेऽनया चेतना । बुद्धिनामानि ॥ मेधते सर्वमनुभूतमस्यामिति मेधा । ʻमेधृ सङ्गमे । स्मृतिमद्बुद्धिनाम ॥ सम्यक् क्लृप्यतेऽनेनेति सङ्कल्पः । ʻकृपू सामर्थ्ये । मानसव्यापारनाम ॥ १ ॥

मल्लि-नाथः - AK.01.05.001

बुद्धिर्मनीषा—शेमुषी । तालव्यादिः । मतिः—चेतनाः । बुद्धिनामानि । ʻप्रतिभोपलभा पण्डा’ । एतानि च ॥ धीः—मेधा । धारणगुणयुक्ता धीर्मेध स्यात् ।

ʻषोढा धीस्तत्त्वधीः पण्डा मेधा धीर्धारणक्षमा ।

ऊहापोहक्षमा चार्वी गृहीतिर्ग्रहणक्षमा ॥

शुश्रूषा बहुला श्रौती श्रवणज्ञा तु चत्वरी ॥

इति षड्विधबुद्धीनां मध्ये एका ॥ सङ्कल्पः कर्म मानसम् । मानसव्यापारः सङ्कल्पः ॥ १ ॥

(०१.०५.००२च्द्) चित्ताभोगो मनस्कारश्चर्चा सङ्ख्या विचारणा ॥ २ ॥
(विमर्शो भावना चैव वासना च निगद्यते ।)

मूलम् - ०१.०५.००३

(०१.०५.००३अब्) अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः ।
(०१.०५.००३च्द्) सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥

लिङ्ग-सूरी - AK.01.05.002-3

चित्ताभोग इति—चित्तस्य आभोगः परिपूर्णता चित्ताभोगः । मनसि करोतीति मनस्कारः । मनःपरिपूर्णतानाम् ॥ चर्च्यतेऽनया चर्चा । ʻचर्च अध्ययने । सङ्ख्यायतेऽनयेति सङ्ख्या । ʻख्या प्रकथने । विचार्यतेऽनया विचारणा । परामर्शनामानि ॥ अध्याहरतीति अध्याहारः । ʻहृञ् हरणे । तरन्त्यनेन संशयविपर्ययाविति तर्कः । ʻतॄ प्लवनतरणयोः’ । ऊह्यते अनेनेति ऊहः । ʻऊह वितर्के । युक्तिप्रज्ञानामानि ॥ विचिकित्सतीति विचिकित्सा । ʻकित निवासे रोगापनयने च्ö । उभयकोटौ संशेते इति संशयः । ʻशीङ् स्वप्ने । सन्देग्धि सम्यक् बध्नातीति सन्देहः । ʻदिह उपचये । स्थाणुर्वा पुरुषो वेति द्वौ पक्षौ परौ प्रधानभूतावस्मिन्निति द्वापरः । सन्देहनामानि ॥ पुरुषसन्देहाभावं नितरां नयतीति निर्णयः । ʻणीञ् प्रापणे । निश्चिनोतीति निश्चयः । ʻचिञ् चयने । इदमित्थमिति बुद्धिनामनी ॥ २-३ ॥

मल्लि-नाथः - AK.01.05.002-3

चित्ताभोगो मनस्कारः । चित्ताभोगश्चित्तयत्नः । ʻआभोगो यत्नपूर्णता’ इति वैजयन्ती (पृ। २३९, श्लो। ७) । स मनस्कारः स्यात् । तं मनस्कारं मनसि कारमित्युभयथा कथयन्ति ॥ चर्चा—विचारणा । मीमांसानामानि ॥ ʻमीमांसा स्याद् विचारणा’ इति हलायुधः (अ। मा। १। १०) ॥ अधायाहारः—ऊहः । तर्कनामानि ॥ विचिकित्सा—द्वापरौ च । संशयनामानि । ʻवितर्को विशयः शङ्का’ । एतानि च ॥ अथ—निश्चयौ । निश्चयनामनी ॥ ʻनिर्धारणा परिच्छित्तिः’ । एते च ॥ २-३॥

[[०१.०९३]]

मूलम् - ०१.०५.००४

(०१.०५.००४अब्) मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् ।
(०१.०५.००४च्द्) समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥

लिङ्ग-सूरी - AK.01.05.004

मिथ्येति—मिथ्या चासौ दृष्टिश्च मिथ्यादृष्टिः। नास्ति परलोक इति मतिर्यस्य सः नास्तिकः । तस्य भावो नास्तिकता । परलोकाभावबुद्धिनामनी ॥ व्यापाद्यतेऽनेनेति व्यापादः । ʻपद गतौ’ । द्रोहस्य चिन्तनं द्रोहचिन्तनम् । जिघांसाचिन्तानामनी ॥ सिद्धः अन्तो निश्चयोऽत्र सिद्धान्तः । राद्धः अन्तो राद्धः अन्तो यस्य राद्धान्तः । निर्णयविशेषनामनी ॥ भ्राम्यतेऽनयेति भ्रान्तिः । भ्रमश्च । ʻभ्रमु चलने । ʻभ्रमु अनवस्थाने इति वा धातुः । मिथ्या चासौ मतिश्च मिथ्यामतिः । अतस्मिन् तद्बुद्धिनामानि ॥ ४ ॥

मल्लि-नाथः - AK.01.05.004

मिथ्यादृष्टिर्नास्तिकता । नास्तिक्यनामनी ॥ व्यापादो द्रोहचिन्तनम्। द्रोहचिन्तानाम ॥ समौ राद्धान्तौ । स्थिरपक्षनामनी ॥ भ्रान्तिः—भ्रमः । अयथार्थज्ञाननामानि ॥ ʻसङ्केतस्तु समयः’ । देवदत्तडित्थादिव्यहारनामनी । ʻअथाप्रतिपत्तिर्विहस्तता’ । इतिकर्तव्यतावैकल्यनामनी ।

ʻस्नाता तिष्ठति मण्डलाधिपसुता वारोऽङ्गराजस्वसु-

र्द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।

इत्यन्तःपुरसुन्दरीपरिजनैर्विज्ञाय विज्ञापिते

देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः ॥

इति ॥ ४ ॥

[[०१.०९४]]

मूलम् - ०१.०५.००५

(०१.०५.००५अब्) संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ।
(०१.०५.००५च्द्) अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥

लिङ्ग-सूरी - AK.01.05.005

संविदिति—संविद्यतेऽनया संवित् । ʻविद ज्ञाने । आगमनं संवेदनम् आगूः । ऊकारान्तः । आगुरते वा आगूः । ʻगुरी उद्यमने । रेफान्तःस्त्रीलिङ्गः । प्रतिज्ञायतेऽनेन प्रतिज्ञानम् । नियम्यते नियमः । ʻयम उपरमे । आशृणोतीत्याश्रवः । संश्रवश्च । प्रतिश्रवश्च । ʻश्रु श्रवणे । अङ्गीकरणमङ्गीकारः । अभ्युपगमनम् अभ्युपगमः । समाधीयते समाधिः । ʻडुधाञ् धारणपोषणयोः’ । सम्प्रतिपत्तिनामानि ॥ ५ ॥

मल्लि-नाथः - AK.01.05.005

संविदागूः । आगूरिति पक्षे रेफान्तस्त्रिलिङ्गः, ऊकारान्तो वा ॥ प्रतिज्ञानम् । पुनर्ज्ञाननामानि ॥ नियम—समाधयः । अङ्गीकारनामानि ॥ ५ ॥

[[०१.०९५ ]]

मूलम् - ०१.०५.००६

(०१.०५.००६अब्) मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
(०१.०५.००६च्द्) मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥
(०१.०५.००७अब्) मोक्षेऽपवर्गोऽथाज्ञानमविद्याहम्मतिः स्त्रियाम् ।

लिङ्ग-सूरी - AK.01.05.006

मोक्ष इति—ज्ञायतेऽनेन ज्ञापम् । ʻज्ञा अवबोधने । मोक्षबुद्धिनाम ॥ विरूपं ज्ञानं विज्ञानम् । शिल्पशास्त्रादिबुद्धिनाम ॥ आत्मनः पाशाभ्यां मुक्तत्वं मुक्तिः । आत्मानं पाशेभ्यो मोचयतीति वा । ʻमुच्लृ मोक्षणे । केवलावस्था कैवल्यम् । निर्वाति निष्प्रपञ्चं गच्छत्यस्मिन्निति निर्वाण् । निर्वान्ति सर्वाणि कर्माणि अत्रेति वा । ʻवा गतिगन्धनयोः’ । अतिशयेन प्रशस्यं श्रेयः । निश्चितं श्रेयोऽत्र निश्रेयसम् । नास्ति मृतं मरणमस्मिन्निति अमृतम् । आत्मानं पाशेभ्यो मोचयतीति मोक्षः । मोक्षते वा अस्मान् मोक्षः । ʻमोक्ष निरसने । पाशेभ्योऽपवर्जनम् अपवर्गः । ʻवृजी वर्जने । मोक्षनामानि ॥ विरुद्धं ज्ञानम् अज्ञानम् । विरुद्धा विद्या अविद्या । अहमित्यव्ययम् । अहमिति मतिः अहम्मतिः । अनात्मनि देहादावहम्बुद्धिनामानि ॥ ६ ॥

मल्लि-नाथः - AK.01.05.006

मोक्षे—धीर्ज्ञानम् । मोक्षविषया धीः बुद्धिर्ज्ञानं स्यात् ॥ अन्यत्र—शास्त्रयोः । तदतिरिक्तकलाशास्त्रविषया बुद्धिर्विज्ञानं स्यात् ॥ मुक्तिः—अपवर्गः । मोक्षनामानि ॥ अथाज्ञानम्—स्त्रियाम् । विषयेन्द्रियादौ आत्मबुद्धिनामानि ॥ ६ ॥

(०१.०५.००७च्द्) रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥

मूलम् - ०१.०५.००८

(०१.०५.००८अब्) गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
(०१.०५.००८च्द्) कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥

लिङ्ग-सूरी - AK.01.05.007-8

रूपमिति—रूप्यते चक्षुषा निरूप्यते रूपम् । ʻरूप रूपक्रियायाम् । शपं ददातीति शब्दः । ʻशप आक्रोशे । गं गमनं धयतीति गन्धः । ʻधेट् पाने । गन्ध्यतेऽनेनेति वा । ʻगन्ध अर्दने । रस्यतेऽनेनेति रसः । ʻरस आस्वादने । स्पृश्यते स्पर्शः । ʻस्पृश संस्पर्शने । अमी पञ्च विषयगोचरेन्द्रियार्थनामानो भवन्ति ॥ विसिन्वन्ति बध्नन्दि स्वानुभवाय पुरुषं विषयाः । ʻषिञ् बन्धने । गावः इन्द्रियाणि चरन्त्यत्र गोचराः । ʻचर गतिभक्षणयोः’ । इन्द्रियैरर्थ्यन्त इति इन्द्रियार्थाः । ʻअर्थ उपयाच्ञायाम् । हृष्यतीति हृषीकम् । ʻहृष तुष्टौ’ । विषयोऽस्यास्तीति विषयि । इन्द्रस्य आत्मनो लिङ्गम् इन्द्रियम् । इन्द्रियनामानि ॥ कर्मणः साधनम् इन्द्रियं कर्मेन्द्रियम् । पायुवाक्पाणिपादोपस्थनामानि ॥ धियः साधनमिन्द्रियं धीन्द्रियम् । नेत्रघ्राणरसनत्वक्श्रोत्रपञ्चकस्य नामानि ॥ मनस्तूभयात्मकम् ॥ ७-८ ॥

मल्लि-नाथः - AK.01.05.007-8

रूपं—इन्द्रियार्थाश्च । रूपादीनां पञ्चानां नामानि ॥ हृषीकं—इन्द्रियम् । इन्द्रियसामान्यनामानि । पूर्वापरसाहचर्याद् विषयिशब्दो नपुंसकः ।

ʻविषयी राज्ञि कन्दर्पे विषयस्थजने च ना ।

अर्थवद्विषयोपेत इन्द्रिये तु नपुंसकम् ॥

इति वैजयन्ती (पृ। २६३, श्लो। ७५-६) ॥ कर्मेन्द्रियं—धीन्द्रियम् । पायूपस्थपाणिपादवाचः पञ्च कर्मेन्द्रियाणि । नेत्रश्रोत्रजिह्वाघ्राणत्वचः पञ्च बुद्धीन्द्रियाणि । काकाक्षिन्यायान्मनः कर्मेन्द्रिय बुद्धीन्द्रियं च भवति ॥ ७-८ ॥

[[०१.०९६]]

मूलम् - ०१.०५.००९

(०१.०५.००९अब्) तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।
(०१.०५.००९च्द्) तिक्तोऽम्ब्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥

लिङ्ग-सूरी - AK.01.05.009

तुवर इति—तौति हृदयमिति तुवरः । ʻतु गतिवृद्धिहिंसासु । कषति पित्तमिति कषायः । ʻकष हिंसायाम् । खदिरादिरसनामनी ॥ मधु माधुर्यम् अस्यास्तीति मधुरः । इक्ष्वादिरसनाम ॥ लुनाति वातं लवणः । ʻलूङ् छेदने । सैन्धवादिरसनाम ॥ कटति क्रिमिविषादि गच्छत्यनेन कटुः । ʻकटी गतौ’ । शुण्ठ्यादिरसनाम ॥ श्लेष्माणं तेजयतीति तिक्तः । ʻतिज निशाने । निम्बादिरसनाम ॥ वातममति रुजतीत्यम्व्लः । अम्ल इति वा पाठः । ʻअम रोगे । अम्बते मुखशब्दहेतुर्भवतीति अम्ब्लः । ʻअवि शब्दे । जम्बीरादिरसनाम ॥ अमी षड् गुणेषु पुंसि, तद्वत्सु विशेष्येषु त्रिषु वर्तन्ते ॥ ९ ॥

मल्लि-नाथः - AK.01.05.009

तुवरस्तु—रसाः । अत्राद्ये द्वे अपक्वदाडिमादिरसनामनी । ʻवोगरुपेरु’ ॥ मधुर इक्ष्वादिरसनाम । ʻतीपिपेरु’ ॥ लवणः सैन्धवादिरसनाम । ʻउप्पुपेरु’ ॥ कटुः शुण्ठ्यादिरसनाम । ʻकारमुपेरु’ ॥ तिक्तो निम्बादिरसनाम । ʻचेदुपेरु’ ॥ आम्लः । अम्ब्ल इति वा पाठः । जम्बीरादिरसनाम । ʻपुलुसु’ ॥ एते रसशब्दवाच्याः पुंसि ॥ तद्वत्सु षडमी त्रिषु । षडमी इत्यनेन कषायशब्दं विना रसवत्सु त्रिलिङ्गाः । तुवरा हरीतकी । मधुरं क्षीरम् । इत्यादि ॥ ९ ॥

[[०१.०९७]]

मूलम् - ०१.०५.०१०

(०१.०५.०१०अब्) विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।
(०१.०५.०१०च्द्) आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमा गुणात् ॥ १० ॥

लिङ्ग-सूरी - AK.01.05.010

विमर्दोत्थ इति—सुरभिमाल्यगन्धादिसम्मर्दादुत्पन्ने जनमनोहरे गन्धे परिमलः स्यात् । परिमलत इति परिमलः । ʻमल मल्ल धारणे । आ समन्तात् मोदयतीत्यामोदः । ʻमुद हर्षे । दूरव्यापि मनोहारिपरिमलनाम ॥ वाच्यलिङ्गत्वमा गुणात् । गुणवाचिशुक्लशब्दपर्यन्तं वाच्यलिङ्गता भवति ॥ १० ॥

मल्लि-नाथः - AK.01.05.010

विमर्दोत्थे—जनमनोहरे । माल्यसम्मर्दोत्पन्नमनोज्ञगन्धनाम ॥ आमोदः सोऽतिनिर्हारी । दूरव्यापिपरिमलनाम ॥ ʻआमोदो वापि पद्मस्य्ö ॥ वाच्यलिङ्गत्वमा गुणात् । गुणवचनशुक्लशब्दावधि इतः परं वक्ष्यमाणाः शब्दा वाच्यलिङ्गा भवन्ति ॥ १० ॥

[[०१.०९८]]

मूलम् - ०१.०५.०११

(०१.०५.०११अब्) समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।
(०१.०५.०११च्द्) इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
(०१.०५.०१२अब्) पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् ।

लिङ्ग-सूरी - AK.01.05.011

समाकर्षीति—समाकर्षति चित्तमाकर्षतीति समाकर्षी । ʻकृष विलेखने । निर्हरति आकर्षत्यवश्यं चित्तमिति निर्हारी । सम्यगाकर्षणशीलकर्पूरादिगन्धद्रव्यनाम ॥ तर्पयितुं सुष्ठु रभते आरभते सुरभिः । ʻरभ राभस्ये । घ्राणतर्पणगन्धद्रव्यनाम ॥ शोभनो गन्धो यस्य सुगन्धिः । अपेक्षितगन्धवद्वस्तुनाम ॥ आमोदोऽत्रास्तीति आमोदी । मुखं वासयतीति मुखवासनः । मुखवासनयोग्ययक्षकर्दमादेर्नाम ॥ दुर्गन्धोऽस्यास्तीति दुर्गन्धिः । पूतिगन्धोऽस्यास्तीति पूतिगन्धिः । दुर्गन्ध इति वा पाठः । दुष्टगन्धिनामानि ॥ विस्यति विस्रम् । ʻविस उत्सर्गे । आमगन्धिनो नाम ॥ ११ ॥

मल्लि-नाथः - AK.01.05.011

समाकर्षी—तर्पणः । गन्धद्रव्यनामानि ॥ सुरभ्यादयो गन्धविशेषवाचकाश्च भवन्ति । यथा—

ʻनो जिघ्रासति चम्पकेषु सुरभिं नो चन्दने चन्द्रिकां

नोशीरे मुखवासनं हिमरुचौ नो वासनं पङ्कजे ।

नो वा गन्धिकमुत्पले विचकिले वो लिप्सते मङ्गलं

दायं दायमपावृणोति हि शकृद्विस्रार्थिनी मक्षिका ॥

इचि ॥ इष्टगन्धः—मुखवासनः । अभिलषितगन्धवन्नामानि । ʻगन्धस्येदुत्पूतिसुसुरभिभ्यः’ (५। ४। १३५) इत्येकवचनग्रहणात् शोभना गन्धा अस्य सुगन्धो वायुरिति भवति ॥ पूतिगन्धस्तु दुर्गन्धः । यद्दृष्टगन्धवत् तन्नामनी । दुर्गन्धि इति तु लघुवाच्यधर्मः । तथा च शृङ्गारप्रकाशिका (पृ। ३१०-११) ʻद्विविधो वाच्यधर्मः । लघुर्गुरुश्चेति । तत्र बहुव्रीहिणा लघुः । कर्मधारयान्मत्वर्थीयेन गुरुः । तयोरादिमो यथा—

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥

इति (मेघ। १। १) । अन्तिमो यथा—

आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः

सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥

इति (मेघ। १। ११) । विस्रं स्यादामगन्धि यत् । यन्मत्स्यादिगन्धवत्तन्नाम ॥ ११ ॥

[[०१.०९९]]

(०१.०५.०१२च्द्) शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः ॥ १२ ॥

मूलम् - ०१.०५.०१३

(०१.०५.०१३अब्) अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।
(०१.०५.०१३च्द्) हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥

लिङ्ग-सूरी - AK.01.05.012-13

शुकलेति—शोकति गच्छति मनोऽस्मिन्निति शुक्लः । ʻशुक गतौ’ । शुक्रेति वा पाठः । शोभत इति शुभ्रः । ʻशुभ दीप्तौ’ । शोचति शुच्यतीति वा शुचिः । ʻशुच शोके । धातूनामनेकार्थत्वात् । श्वेतते श्वेतः । ʻश्विता वर्णे । श्वयति मनोऽस्मिन्निति वा । ʻटुओश्वि गतिवृद्ध्योः’ । चित्तं विशतीति विशदः । ʻविश प्रवेशने । श्यायते जनमनांसि गच्छतीति श्येतः । ʻश्यैङ् गतौ’ । पण्यते स्तूयते पाण्डरः । ʻपण व्यवहारे स्तुतौ च्ö । पण्डते मनोऽस्मिन्निति वा । ʻपडि गतौ’ । पाण्डुः । पाण्डुरश्च । अवदायते अवदातः । ʻदैप् शोधने । सिनोतीति मनः सितः । ʻपिञ् बन्धने । गुरते मनोऽस्मिन् उद्युङ्क्ते गौरः । ʻगुरी उद्यमने । अवलक्ष्यत इति वलक्षः । ʻलक्ष दर्शनाङ्कनयोः’ । बलति पाणित्यनेन बलम् । ʻबल प्राणने । बले रक्षो वा वलक्षः । ʻलक्ष दर्शनाङ्कनयोः’ । बलति प्राणित्यनेन बलम् । ʻबल प्राणने । बले रक्षो वा वलक्षः । रेफलोपः । धूयते मलोऽत्रेति धवलः । ʻघूञ् कम्पने । अर्ज्यते सर्वैरित्यर्जुनः । ʻअर्ज सर्ज अर्जने । मनो हरतीति हरिणः । ʻहृञ् हरणे । एतानि क्षीरशङ्खादिसवर्णनामानि ॥ धुनोति कुरूपतया चित्तं धूसरः । ʻधूञ् कम्पने । अव्यक्तधवलनाम ॥ १२-१३ ॥

मल्लि-नाथः - AK.01.05.012-13

शुक्लशुभ्र—पाण्डुः । बलक्ष इति वा । धवलनामानि ॥ ईषत्पाण्डुस्तु धूसरः । किञ्चिद्धवलनाम ॥ १२-१३ ॥

[[०१.१००]]

मूलम् - ०१.०५.०१४

(०१.०५.०१४अब्) कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।
(०१.०५.०१४च्द्) पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥

लिङ्ग-सूरी - AK.01.05.014

कृष्ण इति—कृषति चित्तमाकर्षतीति कृष्णः । ʻकृष विलेखने । नीलवर्णत्वान्नीलः । ʻनील वर्णे । सितादन्योऽसितः । श्यायते श्यामः । ʻश्यैङ् गतौ वृद्धौ च्ö । कलयति प्रेरयतीति कालः । ʻकल किल क्षेपे । श्यामद्रव्यमत्रास्तीति श्यामलः । मचति वर्णान्तरेण मिश्रीभवितुमर्हतीति मेचकः । ʻमच मुचि कल्कने । मयूरकण्ठादिवर्णनाम ॥ पिबति चित्तं पीतः । ʻपा पाने । गुरतीति गौरः । ʻगुरी उद्यमे । हरिद्राया इव आभा यस्य सः हरिद्राभः । हरिद्रादिवर्णनामानि । पलाशवर्णस्यायं पालाशः । हरति मनोऽत्रेति हरितः । हरिच्च । पलाशादिवर्णनामानि ॥ १४ ॥

मल्लि-नाथः - AK.01.05.014

कृष्णे—मेचकाः । कृष्णवर्णनामानि । ʻकल्माषश्च सितेतरः’ । एति द्वे च ॥ पीतो—हरिद्राभः । हरिद्रावर्णनामानि ॥ पालाशो—हरित् । पलाशपत्रसदृशवर्णनामानि ॥ १४ ॥

मूलम् - ०१.०५.०१५

(०१.०५.०१५अब्) लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।
(०१.०५.०१५च्द्) अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥
(०१.०५.०१६अब्) श्यावः स्यात् कपिशो धूम्रधूमलौ कृष्णलोहिते ।

लिङ्ग-सूरी - AK.01.05.015

लोहित इति—रोहति प्रादुर्भवति सन्ध्यादौ रोहितः । लोहितश्च । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । रज्यते रक्तः । ʻरञ्ज रागे । शोणतीति शोणः । ʻशोणृ वर्णगत्योः’ । कोकनदस्य रक्तोत्पलस्येव छविर्यस्य सः कोकनदच्छविः । रक्तोत्पलवर्णनामानि ॥ आसां द्रव्यादियर्ति शीघ्रं गच्छतीत्यरुणः । ʻऋ गतौ’ । अव्यक्तरागवर्णनाम । पाटलपुष्पवर्णत्वात् पाटलः । श्वेतमिश्ररक्तवर्णनाम ॥ श्यायते आगच्छतीति श्यावः । शावो वा । श्यामश्च । कपिवर्णयोगात् कपिशः । वानरवर्णनाम ॥ धूमवर्णं रातीति धूम्रः । ʻरा दाने । धूमलः । ʻला दाने । कृष्णमिश्रितलोहितवर्णनाम ॥ १५ ॥

मल्लि-नाथः - AK.01.05.015

लोहितो—रक्तः । रक्तवर्णनामानि । ʻताम्रो निरक्तो माञ्जिष्ठः’ । एतानि च । शोणः कोकनदच्छविः । रक्तोत्पलच्छवी रक्तवर्णः शोण इत्युच्यते ॥ अव्यक्तरागस्त्वरुणः । अव्यक्तरागः रक्तवर्णोऽरुणः स्यात् ॥ श्वेतरक्तस्तु पाटलः । श्वेतमिश्ररक्तवर्णः पाटलः स्यात् ॥ श्यावः स्यात् कपिशः । हरिद्रावर्णाधिकरक्तवर्णनामनी । वानरवर्णनामनी वा ॥ अनुक्तम्—ʻपीतरक्तस्तु पिञ्जरः’ । रक्तवर्णाधिकहरिद्रावर्णः पिञ्जरः इत्युच्यते ॥ धूम्र—लोहिते । कृष्णवर्णाधिकरक्तवर्णनामानि ॥ अनुक्तम्—ʻरक्तकृष्णस्तु जोनलः’ । रक्तवर्णाधिककृष्णवर्णः जोनल इत्युच्यते ॥ १५ ॥

[[०१.१०१]]

(०१.०५.०१६च्द्) कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥

मूलम् - ०१.०५.०१७

(०१.०५.०१७अब्) चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।
(०१.०५.०१७च्द्) गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
इति धीवर्गः

लिङ्ग-सूरी - AK.01.05.016-17

कडार इति—कडति प्रकर्षेण लक्ष्यत इति कडारः । ʻकड लक्षणे । कपिवर्णं लातीति कपिलः । पिङ्क्ते पिङ्गः । ʻपिजि वर्णे । पिंशतीति पिशङ्गः । ʻपिश अवयवे । कुत्सितं द्रावयतीति कद्रुः । ʻद्रा कुत्सायां गतौ’ । पिङ्गवर्णं लातीति पिङ्गलः । गोरोचनादिवर्णनाम । चीयन्ते वर्णा अत्रेति चित्रम् । ʻचिञ् चयने । नानावर्णाः कीर्यन्तेऽत्रेति किर्मीरः । ʻकॄ विक्षेपे । कलयति काङ्क्षतीति कल्माषः । कलतिरनेकार्थः । शवति नानावर्णान् शबलः । ʻशव गतौ’ । एति नानावर्णत्वम एतः । ʻइण् गतौ’ । कीर्यन्ते नानावर्णा अत्रेति कर्बुरः । नानावर्णद्रव्यनामानि ॥ गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति । त्रिषु इत्यर्थः ॥ १६-१७ ॥

इचि श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ धीवर्गविवृतिः

मल्लि-नाथः - AK.01.05.016-17

कडारः—पिङ्गलौ । कपिलवर्णनामानि ॥ चित्रं—कर्बुरे । तिलतण्डुलन्यायेन दृश्यमानमिश्रवर्णनामानि ॥ गुणे—तद्वति । शुक्लादिशब्दा गुणे पुंलिङ्गा भवन्ति । गुणिनि तु त्रिलिङ्गा भवन्ति । अत्र रोहितादिशब्दानां स्त्रीत्वे रूपभेदोऽस्ति ।

ʻरोहिणी रोहिता रक्ता लोहिनी लोहिता च सा ।

लोहितिका लोहिनिका रागात् कोपादिनापि वा ॥

शोणी शोणा च पिङ्गा स्यात् पिशङ्गी हरिणी तु या ।

हरितैनी तथैता च श्येनी श्येता सिता च सा ॥

नीलैव वस्त्रे वा नाम्नि नीली प्राणिनि चौषधौ ।

शबली चैव कल्माषी कल्माषेत्यर्शआद्यचि ॥ १६-१७ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते धीवर्गः

[[०१.१०२]]