०४ कालवर्गः

मूलम् - ०१.०४.००१

(०१.०४.००१अब्) कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।
(०१.०४.००१च्द्) प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥

लिङ्ग-सूरी - AK.01.04.001

काल इति—कल्यते सङ्ख्यायते कालः । ʻकल सङ्ख्याने । कलयति प्रेरयति वा कालः । ʻकल किल क्षेपे । दिश्यते दिष्टः । ʻदिश अतिसर्जने । न ईहत इति अनेहा । ʻईह चेष्टायाम् । न हन्यते वा । सान्तः पुमान् । कर्मणि समेति समयः । ʻइण् गतौ’ । कालनामानि ॥ पक्षस्य मूलं प्रारम्भदिनं पक्षतिः । प्रतिपद्यते उपक्रम्यतेऽनया प्रतिपत् । ʻपद गतौ’ । पक्षप्रथमदिवसनामनी ॥ तन्यते षष्टिघटिकादिभिरिति तिथिः । ʻतनु विस्तारे । प्रतिपत्प्रभृति पञ्चदशीपर्यन्ततिथिनामानि ॥ १ ॥

मल्लि-नाथः - AK.01.04.001

कालो—समयोऽपि । कालनामानि । अनेहेत्यादन्तं पदम् । अन्यत्र अनेहसौ अनेहसः । हे अनेहः इत्यादि ॥ अथ पक्षतिः—स्त्रीत्वे । प्रतिपन्नामनी ॥ तदाद्यास्तिथयो द्वयोः । आद्यशब्देन पक्षत्यादीनामेव ग्रहणम् । ताश्च पञ्चदशतिथिशब्दवाच्याः । स तिथिशब्दोऽपि स्त्रीपुंसलिङ्गः ॥ १ ॥

[[०१.०७४]]

मूलम् - ०१.०४.००२

(०१.०४.००२अब्) घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ ।
(०१.०४.००२च्द्) प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ २ ॥
(०१.०४.००३अब्) व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ।
(०१.०४.००३च्द्) प्रभातं च दिनान्ते तु सायः सन्ध्या पितृप्रसूः ॥ ३ ॥

लिङ्ग-सूरी - AK.01.04.002-3

घस्र इति—तमो घसतीति घस्रः । ʻघस्लृ अदने । तमो द्यतीति दिनम् । ʻदो अवखण्डने । सूर्येण न हीयते अहः । ʻओहाक् त्यागे । दीव्यन्ति देवा अस्मिन्निति दिवसः । ʻदिवु क्रीडादौ’ । वसन्ति व्यवहर्तारः अस्मिन्निति वासरः । ʻवस निवासे । दिवसनामानि ॥ प्रत्यूषति निशामिति प्रत्यूषः । ʻऊष रुजायाम् । अह्नो मुखम् अहर्मुखम् । कलयति मङ्गलं कल्यम् । ʻकल सङ्ख्याने । काले साधु काल्यम् इति वा पाठः । ओषत्यन्धकारमिति उषः । प्रत्युषश्च । ʻउष प्लुष दाहे । भातुं प्रवृत्तं प्रभातम् । ʻभा दीप्तौ’ । सूर्योदयात् प्राक् घटिकाचतुष्टयात्मकस्य कालस्य नामानि ॥ दिनं स्यतीति सायः । ʻषोऽन्तकर्मणि । दिनस्य पश्चाद्भागे मुहूर्तत्रयात्मककालनाम ॥ सम्यग् ध्यायन्त्यत्रेति सन्ध्या । ʻध्यै चिन्तायाम् । अहोरात्रसन्धौ भवा वा । पितॄणां प्रसूः माता पितृप्रसूः । दिनान्तादुपरि घटिकात्रयात्मकस्य सूर्योदयात् प्राक् पञ्चघटिकात्मकस्य च कालस्य नामानि ॥ २-३ ॥

मल्लि-नाथः - AK.01.04.002-3

घस्रो—वासरौ । दीवसनामानि ॥ प्रत्यूषो—प्रभातं च । सूर्योदयात् प्राग् घटिकाचतुष्टयात्मककालनामानि । वैजयन्त्यां प्रत्यूषशब्दो नपुंसकलिङ्ग इति प्रतिज्ञातम् । ʻव्युष्टं विभातं प्रत्यूषं सांयात्रिकमहर्मुखम् इति (पृ। २२, श्लो। ६८) । शाश्वतकोशे काल्यशब्दो ह्रस्वादिः । ʻकल्यं प्रभातमध्ये च कल्यो नीरोगदक्षयोः’ इति (पृ। ३, श्लो। २४) । ʻगोपीथो गोसर्गस्त्रिघोषः कथ्यते निशान्तश्च्ö एतानि च ॥ दिनान्ते तु सायम् । दिवसावसाननाम । सायमिति नपुंसकत्वेन निर्दिष्टम् । ʻसायमण्डनमभि त्वरयन्त्यः’ इति । सन्ध्या पितृप्रसूः । दिनान्तादुपरि घटिकात्रयात्मकस्य सूर्योदयात् प्राक् पञ्चघटिकात्मकस्य च कालस्य नामनी । सन्धाशब्दोऽप्यस्ति । ʻसन्धा सन्ध्या पितृप्रसूः’ इति वैजयन्ती (पृ। २२, श्लो। ६९) ॥ २-३ ॥

[[०१.०७५]]

मूलम् - ०१.०४.००४

(०१.०४.००४अब्) प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी ।
(०१.०४.००४च्द्) निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ॥ ४ ॥
(०१.०४.००५अब्) विभावरीतमस्विन्यौ रजनी यामिनी तमी ।

लिङ्ग-सूरी - AK.01.04.004

प्राह्ण इति—अह्नः प्रान्ते भवः प्राह्णः । अह्नः अपरो भागः अपराह्णः । अह्नो मध्यो भागः मध्याह्नः । एते त्रयः समाहृताः त्रिसन्ध्यं भवति । तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम् ॥ शृणाति लोकचक्षूंषीति शर्वरी । ʻशॄ हिंसायाम् । नितरां श्यतीति सर्वचेष्टाः निशा । निशीथोऽस्त्यस्यामिति निशीथिनी । राति ददाति सुखमिति रात्रिः । ʻरा दाने । त्रयो यामा यस्याः सा त्रियामा । विश्रमाय क्षणमवसरं ददातीति क्षणदा । ʻदा दाने । क्षपयति आयुरिति क्षपा । ʻक्षि क्षये । तमसावृतत्वात् विभावरी । तमोऽस्यामस्तीति तमस्विनी । तमसा रज्यत इति रजनी । ʻरञ्ज रागे । यामा अस्याः सन्तीति यामिनी । तमयति चक्रवाकान् तमी । ʻतमु ग्लानौ’ । तमा इति वा पाठः रात्रिनामानि ॥ ४ ॥

मल्लि-नाथः - AK.01.04.004

प्राह्ण—त्रिसन्ध्यम् । प्राह्ण इति पूर्वाह्णः । अपराह्ण इति सायाह्नः । मध्याह्न इति मध्यन्दिनपर्यायः । एतेषां त्रयाणां समाहारस्त्रिसन्ध्यम् । त्रिसन्ध्यी इति च कतिचित् कथयन्ति । समाहारस्यैकत्वाद् एकवचनम् ॥ अथ शर्वरी—तमी । ʻतमासिता विरात्रः स्याद् वासुरा यामिनी तमी इति रभसकोशपाठात् तमा इत्यपि भवति । रात्रिनामानि ॥ ४ ॥

[[०१.०७६]]

(०१.०४.००५च्द्) तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता ॥ ५ ॥

मूलम् - ०१.०४.००६

(०१.०४.००६अब्) आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ।

लिङ्ग-सूरी - AK.01.04.005

तमिस्रेति—तमोऽस्त्यस्यामिति तमिस्रा । तमोबहुला तामसी । तमोयुक्तरात्रिनामनी ॥ ज्योत्स्ना अस्त्यस्यामिति ज्यौत्स्नी । ज्योत्स्ना ज्योत्स्नीति वा पाठः । चन्द्रिकायुक्तरात्रिनाम ॥ उभयाहनी पक्षाविव यस्याः सा पक्षिणी । उभयतः अहोयुक्तरात्रिनाम ॥ ५ ॥

मल्लि-नाथः - AK.01.04.005

तमिस्रा—रात्रिः । तमोयुक्तरात्रिस्तमिस्रा स्यात् । ज्योत्स्नी चन्द्रिकयान्विता । चन्द्रिकायुक्तरात्रिर्ज्योत्स्नी स्यात् । ʻपूर्णेन्दुस्तु दिनम्मन्या’ । पूर्णचन्द्रयुक्तरात्रिर्दिनम्मन्या स्यात् । आगामि—पक्षिणी । पक्षद्वयवदुभयतोवर्त्यहःसंयुक्ता रात्रिः पक्षिणी स्यात् ॥ ५ ॥

[[०१.०७७]]

(०१.०४.००६च्द्) गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् ॥ ६ ॥

मूलम् - ०१.०४.००७

(०१.०४.००७अब्) अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ।

लिङ्ग-सूरी - AK.01.04.006

गणरात्रमिति—रात्रीणां गणो गणरात्रम् । गणरात्रो वा । समाहारे नपुंसकम् । रात्रिसमूहनाम ॥ प्रकृष्टो दोषः प्रारब्धा दोषा वा अत्रेति प्रदोषः । रजनीमुखनाम ॥ रात्रेरर्धम् अर्धरात्रः । नियतं शेरतेऽत्र निशीथः । ʻशीङ् स्वप्ने । मध्यरात्रनामनी ॥ यातीति यामः । ʻया प्रापणे । प्रह्रियत इति प्रहरः । ʻहृञ् हरणे । दिनस्य रात्रेर्वा चतुर्भागनामानि ॥ ६ ॥

मल्लि-नाथः - AK.01.04.006

गणरात्रं निशा बह्व्यः । रात्रिसमूहः गणरात्रं स्यात् । अथवा बह्व्यः रात्रयो गणरात्रमित्युच्यते । चिररात्रमपि तन्नाम । ʻबह्व्यस्तु गणरात्रं च चिररात्रं च रात्रयः’ इति वैजयन्ती (पृ। २१, श्लो। ५९) । प्रदोषो रजनीमुखम् । रात्रिमुखनाम ॥ अर्धरात्रनिशीथौ द्वौ । रात्रिमध्यनामनी । ʻमध्यरात्रो महारात्रिः’ । एत च । द्वौ—समौ । दिनस्य रात्रेर्वा तुरीयांशनामनी ॥ ६ ॥

(०१.०४.००७च्द्) स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ ७ ॥

मूलम् - ०१.०४.००८

(०१.०४.००८अब्) पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ।
(०१.०४.००८च्द्) कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥ ८ ॥

लिङ्ग-सूरी - AK.01.04.07-8

स इति—प्रतिपत्पञ्चदश्योर्यदन्तरं स सन्धिः, पर्व वा भवति । सन्धीयते सन्धिः । पृणाति पालयति अभिलषितमिति पर्व । ʻपॄ पालनपूरणयोः’ । पर्वसङ्घिरिति एकं पदं वा । शुक्लकृष्णपक्षान्तौ द्वे पञ्चदश्यौ भवतः । पञ्चदश्यौ भवतः । पञ्चदशसङ्ख्यायाः पूरणी पञ्चदशी । पूर्णश्चासौ माश्च पूर्णमाः, पूर्णमसः चन्द्रस्येयं पौर्णमासी । पूर्णो मासोऽस्यामिति वा । पूर्णं मिमीते पूर्णिमा । ʻमाङ् माने । पूर्यते मासः अनयेति वा । ʻपूरी आप्यायने । शुक्लपञ्चदशीनामानि ॥ अनुमन्यते अनुमतिः । ʻमन ज्ञाने । चतुर्दशीमिश्रितपूर्णिमानाम ॥ यज्वभिः रायते राका । ʻरै शब्दे । राति ददाति अभिलषितमिति वा । ʻरा दाने । सम्पूर्णचन्द्रवत्पूर्णिमानाम ॥ ७-८ ॥

मल्लि-नाथः - AK.01.04.007-8

स पर्व—यदन्तरम् । प्रतिपत्पञ्चदश्योरन्तरालकालः पर्वसन्धिरित्युच्यते । पक्षान्तौ—द्वे । पौर्णमास्यमावास्ययोर्नामनी ॥ ʻपर्वणी पञ्चदश्यौ द्वे पक्षान्तौ नन्दिवर्धनौ’ इति वैजयन्ती (पृ। २३, श्लो। ७३) ।

पौर्णमासी तु पूर्णिमा । शुक्लपञ्चदशीनामनी ॥ पूर्णमासी च भवति । ʻपूर्णा च पूर्णमासी च पौर्णमासी च पूर्णिमा’ इति वैजयन्ती (पृ। २३, श्लो। ७३) । कलाहीने—निशाकरे । यस्यां चन्द्रः कलाहीनः स्यात् सा पूर्णिमा अनुमतिः स्यात् । यस्यां पूर्णश्चन्द्रः सा राकेत्युच्यते । अनुक्तम्—ʻचैत्री तु मदनध्वजा’ । पौषीमाघीप्रभृतयस्तत्तन्मासपूर्णिमासु ॥ ७-८ ॥

[[०१.०७८]]

मूलम् - ०१.०४.००९

(०१.०४.००९अब्) अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ।
(०१.०४.००९च्द्) सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ ९ ॥

लिङ्ग-सूरी - AK.01.04.009

अमावास्येति—चन्द्रार्कौ अमा सह वसतः अत्रेति अमावास्य अमावस्या च । दृश्येते सूर्याचन्द्रमसावत्रेति दर्शः । ʻदृशिर् प्रेक्षणे । सूर्येन्दू सङ्गच्छेते अत्रेति सूर्येन्दुसङ्गमः । ʻगम्लृ सृट्लृ गतौ’ । कृष्णपञ्चदशीनाम ॥ वालते चलतीति वालः । ʻवाडृ आप्लाव्ये । वालेन चन्द्रेण सिनी सिता सिनीवाली । दृष्टचन्द्रदर्शनाम ॥ कुहयते विस्मापयति तमसा कुहूः । ʻकुह विस्मापने । तमसा कुं भुवं हन्तीति वा । नष्टचन्द्रदर्शनाम ॥ ९ ॥

मल्लि-नाथः - AK.01.04.009

अमावास्या—सङ्गमः । कृष्णपञ्चदशीनामानि ॥ अमावासी, अमावसी इत्यपि स्यात् । ʻदर्शोऽमावास्यमावसी इति वैजयन्ती (पृ। २२, श्लो। ७०) अमावसेत्यप्यस्ति । ʻअमावास्या त्वमावसा’ इति वैजयन्ती (पृ। २२, श्लो। ७१) । सा दृष्टेन्दुः सिनीवाली । सा अमावसा दृष्टचन्द्रा चेत् सिनीवालीत्युच्यते । सा लक्ष्मीरस्यामस्तीति सिनी चन्द्रकला । सा बाला अस्यामिति सिनीवालीति व्युत्पत्त्या दन्त्यादिः । सा नष्टेन्दुकला कुहूः । सा अमावसी नष्टेन्दुकला चेत् कुहूरित्युच्यते ॥ ९ ॥

[[०१.०७९]]

मूलम् - ०१.०४.०१०

(०१.०४.०१०अब्) उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ।
(०१.०४.०१०च्द्) सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः ॥ १० ॥
(०१.०४.०११अब्) एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ।

लिङ्ग-सूरी - AK.01.04.010

उपराग इति—उपरज्येते सूर्याचन्द्रमसावनेनेति उपरागः । ʻरञ्ज रागे । गृह्येते सूर्याचन्द्रमसावनेन ग्रहः । ʻग्रह उपादाने । ग्रहणनामनी ॥ उपप्लवेन सहितः सोपप्लवः । उपरज्यते उपरक्तः । राहुग्रस्ते इन्दौ पूष्णि च द्वौ शब्दौ वर्तेते । अग्नेरुत्पातः अग्न्युत्पातः । उप समीपे आहितमत्र उपाहितः । धूमकेतुनाम ॥ पुष्पं विकासः तद्वन्तौ पुष्पवन्तौ । सूर्याचन्द्रसोरपृथङ्नाम ॥ १० ॥

मल्लि-नाथः - AK.01.04.010

उपरागो ग्रहः । ग्रहणनामनी ॥ राहुग्रस्ते—द्वौ । राहुग्रस्तचन्द्रसूर्यनामनी ॥ अग्न्युत्पात उपागहितः । धूमकेतुनाम ॥ एकयोक्त्या—निशाकरौ । एकयोक्त्या सूर्याचन्द्रमसौ पुष्पवन्ताविति कथ्येते ।

ʻजातौ स्वकिरणसञ्चयपटावृतौ वियति पुष्पवन्तौ सन्तौ ।

बाणासनौ च घनरवपटावृतौ वियति पुष्पवन्तौ सन्तौ ॥

इति हरिप्रबोधयमके ॥ पुष्पदन्तावपि भवतः । ʻप्राक्प्रत्यग्धरणीधरशिखरस्थितपुष्पदन्ताभ्याम् इति धर्मशर्माभ्युदये ॥ १० ॥

(०१.०४.०११च्द्) अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ ११ ॥

मूलम् - ०१.०४.०१२

(०१.०४.०१२अब्) तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ।

लिङ्ग-सूरी - AK.01.04.011

अष्टादशेति—निमिषतीति निमेषः । ते अष्टादश काष्ठा भवति । काशत इति काष्ठा । ताः काष्ठाः त्रिंशत् कला भवति । कालं कलयतीति कला । ताः कलाः त्रिंशत् क्षणो भवति । क्षिणोति हिनरतीति क्षणः । ʻक्षिणु हिंसायाम् । ते क्षणाः द्वादश मुहूर्तो भवति । मुहुर्मुहुरियर्तीति मुहूर्तः । ʻऋ गतौ’ ॥ ११ ॥

मल्लि-नाथः - AK.01.041.011

अष्टादश—काष्ठा । मनुष्याक्षिपक्ष्मपरिक्षेपकालो निमेषो निम्षश्च भवति । ʻनिमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने इति विश्वप्रकाशिका (पृ। १७२, श्लो। १५) । निमेषा अष्टादश स्युश्चेत् काष्ठा ॥ त्रिंशत्तु ताः कला । काष्ठात्रिंशच्चेत् कला । तास्तु त्रिंशत् क्षणः । त्रिंशत्कलाः क्षणः । ते तु—अस्त्रियाम् । क्षणाः द्वादश स्युश्चेत् मुहूर्तः ॥ ११ ॥

[[०१.०८०]]

(०१.०४.०१२च्द्) ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥ १२ ॥

मूलम् - ०१.०४.०१३

(०१.०४.०१३अब्) पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ।

लिङ्ग-सूरी - AK.01.04.012

ते त्विति—ते तु मुहूर्ताः त्रिंशत् अहोरात्रो भवति । अह्ना सहिता रात्रिः अहोरात्रः । तेऽहोरात्राः पञ्चदश पक्षो भवति । पचति भूतानि पक्षः । ʻडुपचष् पाके । पक्ष्यते वा पक्षः । ʻपक्ष परिग्रहे । पूर्वापरौ पक्षौ क्रमेण शुक्लकृष्णनामकौ भवतः । उभौ तौ मासो भवति ॥ १२ ॥

अमरपदपरिजत><AK.01.04.0012>

ते तु त्रिंशदहोरात्रः । मुहूर्तत्रिंशत् अहोरात्रः । अत्रापि अस्त्रियाम् इति लिङ्गमन्वेति । अहोरात्रं, द्विरात्रं, त्रिरात्रमिति वामनलिङ्गानुशासने (पृ। १३, श्लो। १६) तथैवोदाहृतत्वात् ॥ पक्षस्ते दश पञ्च च । अहोरात्राणि पञ्चदश चेत् पक्षः ॥ पक्षौ—कृष्णौ । अत्र पूर्वपक्षः शुक्लपक्षः स्यात् । अपरपक्षः कृष्णपक्षोऽपि भवति ॥ मासस्तु तावुभौ । पक्षौ द्वौ चेन्मासः । माःशब्दोऽपि स्यात् । ʻमासौ मासनिशाकरौ’ इति वैजयन्ती (पृ। २७०, श्लो। ६१) । माः सान्तः ॥ १२ ॥

[[०१.०८१]]

(०१.०४.०१३च्द्) द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः ॥ १३ ॥

मूलम् - ०१.०४.०१४

(०१.०४.०१४अब्) अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ।

लिङ्ग-सूरी - AK.01.04.013

द्वाविति—मस्यति परिणमतीति मासः । ʻमसी परिणामे । मासः चन्द्रस्यायं मास इति वा । इयर्तीति ऋतुः । ʻऋ गतौ’ । तौ मार्गादिमासौ द्वौ द्वौ ऋतुः भवति । तैः त्रिभिः ऋतुभिः अयनम् । अयते यात्यनेन सूर्यः दक्षिणामुत्तरां चेति अयनम् । ʻअय पय गतौ’ । ते द्वे अयने अर्कस्य उदग्दक्षिणागतिश्च वत्सरो भवति । वसन्त्यस्मिन् ऋतवः वत्सरः । ʻवस निवासे ॥ १३ ॥

मल्लि-नाथः - AK.01.04.013

द्वौ द्वौ—ऋतुः । मार्गशीर्षादिमासद्वयम् ऋतुः स्यात् । तैरयन त्रिभिः । ऋतवस्त्रयश्चेद् अयनम् । अयने—वत्सरः । अर्कस्य उदक् उदीच्याम् अयनं गतिरुत्तरायणम् । दक्षिणा दक्षिणस्यामयनं गतिर्दक्षिणायनम् । ते त्वयने वत्सरः ॥ १३ ॥

(०१.०४.०१४च्द्) समरात्रिन्दिवे काले विषुवद् विषुवं च तत् ॥ १४ ॥
(पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ।

नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥ )

मूलम् - ०१.०४.०१५

(०१.०४.०१५अब्) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ।

लिङ्ग-सूरी - AK.01.04.014

समेति—रात्रिश्च दिवा च रात्रेन्दिवम् । समं रात्रिन्दिवं यस्मिन् काले स समरात्रिन्दिवः । अस्मिन् काले विषुवत् विषुवं च भवतः । अहोरात्रयोः विषु साम्यमत्रास्तीति विषुवत् । विषुवं च । पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी, सा यत्रास्ति मासे स नाम्ना पौषः । अपरे एकादश माघाद्या एवमूह्याः । कथम् ? मघानक्षत्रयुक्ता पौर्णमासी माघी । सा यत्रास्ति स माघः । मृगशीर्षनक्षत्रयुक्ता मार्गशीर्षी, सा यस्मिन्नस्ति स मार्गशीर्षः । शीतोष्णे सह्येतेऽत्र सहाः । सान्तः ʻषह मर्षणे । मृगशिरोनक्षत्रयुक्ता पौर्णमासी मार्गी, सा यत्रास्ति स मार्गः । आग्रहायणी यत्रास्ति स आग्रहायणिकः । मार्गशीर्षनामानि ॥ १४ ॥

मल्लि-नाथः - AK.01.04.014

समरात्रिन्दिवे—तत् । समं रात्रेदिवं यस्मिन् तस्मिन् काले विषुवत् विषुवं च शब्दौ भवतः । समकालनामनी ॥ पुष्ययुक्ता—अपरे । पुष्ययुक्ता पौर्णमासी पौषी । पुष्ययुक्तपूर्णिमानाम ॥ पौषस्तन्मासनाम ॥ अपरे एकादश चैवं माघाद्याः माघादिपदवाच्याः ॥ मार्गशीर्षे—च सः । मार्गशीर्षमासनामानि ॥ १४ ॥

[[०१.०८२]]

(०१.०४.०१५च्द्) पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ॥ १५ ॥

मूलम् - ०१.०४.०१६

(०१.०४.०१६अब्) स्यात् तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ।

लिङ्ग-सूरी - AK.01.04.015

पौष इति—पौषी यत्रास्ति पौषः, तैषी यत्रास्ति तैषः । सहोऽस्यास्तीति सहस्यः । पौषमासनामनी ॥ स्नानादिना पापं तपत्यत्रेति तपाः । सान्तः । ʻतप सन्तापे । मा न विद्यमानम् अघमस्मिन्निति माघः । माघी अत्रास्तीति वा । माघमासनामनी ॥ फाल्गुनी अत्रास्तीति फाल्गुनः । फाल्गुनिकश्च । तपसि साधुः तपस्यः । फाल्गुनमासनामानि ॥ चैत्री अत्रास्तीति चैत्रः । चैत्रिकश्च । मधुना पुष्परसेन योगान्मधुः । मधुर्वसन्तोऽत्रास्तीति वा मधुः । चैत्रमासनामानि ॥ १५ ॥

मल्लि-नाथः - AK.01.04.015

पौषे—द्वौ । पौषमासनामनी ॥ तपा माघे । माघमासनामनी ॥ अथ—फाल्गुनिकः । फाल्गुनमासनामनी ॥ स्यात्—मधुः । चैत्रमासनामानि ॥ १५ ॥

[[०१.०८३]]

(०१.०४.०१६च्द्) वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ॥ १६ ॥

मूलम् - ०१.०४.०१७

(०१.०४.०१७अब्) आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ।

लिङ्ग-सूरी - AK.01.04.016

वैशाख इति—वैशाखी अत्रास्तीति वैशाखः । मधौ साधुः माधवः । राधी अत्रास्तीति राधः । वैशाखनामानि ॥ ज्येष्ठी अत्रास्तीति ज्येष्ठः । शोचयति तापेन प्राणिन इति शुक्रः । ʻशुच शोके ज्येष्ठमासनामनी ॥ जनान् तापेन शोचयतीति शुचिः । आषाढाभियुक्ता पौर्णमासी आषाढी । सा अत्रास्तीति आषाढः । आषाढमासनामनी ॥ श्रावणी अत्रास्तीति श्रावणः । श्रावणिकश्च । न बभस्ति न भाति मेघैः नभाः । ʻभस भर्त्सनदीप्त्योः’ । न भासते मेघैरिति वा । ʻभासृ दीप्तौ’ । तपोऽत्र नभ्यते नश्यतीति वा नभाः । सान्तः । नभोऽत्राभिभवतीति वा । ʻणभ हिंसायाम् । श्रावणनामानि ॥ १६ ॥

मल्लि-नाथः - AK.01.04.016

वैशाखे—राधः । वैशाखमासनामानि ॥ ज्येष्ठे शुक्रः । ज्येष्ठमासनामनी ॥ शुचिस्त्वयम् आषाढे । आषाढमासनामनी ॥ श्रावणे—सः । श्रावणमासनामानि ॥ १६ ॥

(०१.०४.०१७च्द्) स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः ॥ १७ ॥

मूलम् - ०१.०४.०१८

(०१.०४.०१८अब्) स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्त्तिके ।
अक्।०१.०४.०१८च्द् बाहुलोर्जौ कार्त्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ॥ १८ ॥

लिङ्ग-सूरी - AK.01.04.017-18

स्युरिति—नभसि साधुः नभस्यः । प्रोष्ठपदी अत्रास्तीति प्रोष्ठपदः । भद्राभ्यां युक्ता पौर्णमासी भाद्री । सा अत्रास्तीति भाद्रः । भाद्रपदी अत्रास्तीति भाद्रपदः । भाद्रपदनामानि ॥ अश्विनीनक्षत्रयुक्ता पौर्णमासी आश्विनी । सा अत्रास्तीति आश्विनः । दीक्षितैरिष्यत इति इषः । ʻइषु इच्छायाम् । आश्वयुजी अत्रास्तीति आश्वयुजः । आश्वयुजमासनामानि ॥ कार्त्तिकी अत्रास्तीति कार्त्तिकः । कार्त्तिकिकश्च । बाहुली अत्रास्तीति बाहुलः । ऊर्जमन्नमत्रास्तीति ऊर्जः । कार्त्तिकमासनामानि ॥ हिमेन हन्तीति हेमन्तः । हेमन्तऋतुनाम ॥ शीतेन गात्राणि शिनोति तनूकरोतीति शिशिरः । ʻशिञ् निशातने । शिशिरऋतुनाम ॥ १७-१८ ॥

मल्लि-नाथः - AK.01.04.017-18

स्युः—समाः । भाद्रपदमासनामानि ॥ स्यादाश्विन—अपि । आश्वयुजमासनामानि ॥ स्यात्तु—कार्त्तिकिकः । कार्त्तिकमासनामानि ॥ हेमन्तः । हेमन्तर्तुनाम । शरदत्ययहिमागमादिशब्दाः कविप्रयुक्ताः । ʻपतितमेव हिमागमगङ्गिनां वपुषि कान्तिहरं शरदत्यये । ʻतपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च्ö । (शिशु। १। ६६) इत्यादि ॥ शिशिरोऽस्त्रियाम् । शिशिरर्तुनाम ॥ १७-१८ ॥

[[०१.०८४]]

मूलम् - ०१.०४.०१९

अक्।०१.०४.०१९अब् वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ।
अक्।०१.०४.०१९च्द् निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ॥ १९ ॥

लिङ्ग-सूरी - AK.01.04.019

वसन्त इति—वसन्त्यस्मिन् सुखं वसन्तः । ʻवस निवासे । पुष्पाणां समयः पुष्पसमयः । सुष्ठु रभते आह्लादनं कर्तुमारभतेऽत्र सुरभिः । ʻरभ राभस्ये । वसन्तऋतुनामानि ॥ जलं गिरतीति ग्रीष्मः । ʻगॄ निगरणे । ऊष्माणं करोतीति ऊष्मकः । निदह्यते जनोऽत्र निदाघः । ʻदह भस्मीकरणे । उष्णस्योपगमः उष्णोपगमः । ओषति तापेनेति उष्णः । ʻउष प्लुष दाहे । ऊष्मणः आगमः ऊष्मागमः । तपतीति तपः । ʻतप सन्तापे । अकारान्तोऽयम् । ग्रीष्मऋतुनामानि ॥ १९ ॥

मल्लि-नाथः - AK.01.04.019

वसन्ते—सुरभिः । वसन्तर्तुनामानि ॥ ग्रीष्म—तपः । अकारान्तोऽयं तपः । ग्रीष्मर्तुनामानि ॥ १९ ॥

मूलम् - ०१.०४.०२०

अक्।०१.०४.०२०अब् स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा शरत् स्त्रियाम् ।
अक्।०१.०४.०२०च्द् षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ॥ २० ॥

लिङ्ग-सूरी - AK.01.04.020

स्त्रियामिति—प्रवर्षतीति प्रावृट् । ʻवृष सेचने । अनुवर्षमस्तीति वर्षाः । बहुवचनमेव स्त्रियां वर्तते । वर्षर्तुनामनी ॥ शृणाति पङ्कं जलं च शरत् । ʻशृ हिंसायाम् । शरदृतुनाम । अमी षट् मार्गादीनां मासानां युगैः युग्मैः मासैः क्रमात् हेमन्तादिऋतवो भवन्ति ॥ २० ॥

मल्लि-नाथः - AK.01.04.020

स्त्रियां—वर्षाः । वर्षर्तुनामानि । प्रावृषाशब्दोऽप्यस्ति । ʻप्रावृषा तु जलार्णवः’ इति त्रिकाण्डशेषः (पृ। ६, श्लो। ११५) ॥ अथ शरत् स्त्रियाम् । शरदृतुनाम । शरदाशब्दोऽप्यस्ति । ʻकलाप्रभातं शरदा’ इति त्रिकाण्डशेषः (पृ। ६, श्लो। ११५) ॥ षडमी—क्रमात् । हेमन्तादयः षडपि मार्गशीर्षादियुग्मक्रमेण ऋतुशब्दवाच्याः पुंलिङ्गाः । यद्वा ऋतुशब्दः पुंलिङ्गः । कार्त्तिकादियुग्मक्रमात् व्यवस्था मा भूदिति मार्गग्रहणम् ॥ २० ॥

[[०१.०८५]]

मूलम् - ०१.०४.०२१

अक्।०१.०४.०२१अब् संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समाः ।
अक्।०१.०४.०२१च्द् मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥ २१ ॥

लिङ्ग-सूरी - AK.01.04.021

संवत्सर इति—संवसन्ति ऋतवोऽत्र संवत्सरः । वत्सरश्च । ʻवस निवासे । आप्यते अधिकमासेनेत्यब्दः । ʻआप्लृ व्याप्तौ’ । अपो ददातीति वा । ʻडुदाञ् दाने । जहाति क्रमेण ऋतूनिति हायनः । ʻआहाक् त्यागे । शीर्यते जगदत्रेति शरत् । ʻश हिंसायाम् । समयन्तीति जनान् समाः । ʻषम वैक्लव्ये । अयं शब्दः स्त्रीलिङ्गो बहुवचनान्तः । एकवचनान्तो वा । संवत्सरनामानि ॥ मानुषेण मासेन पैत्रः अहोरात्रः स्यात् । पितॄणामयं पैत्रः । मानुषेण वर्षेण दैवतः अहोरात्रः स्यात् । देवतानामयं दैवतः ॥ २१ ॥

मल्लि-नाथः - AK.01.04.021

संवत्सरो—समाः । संवत्सरनामानि । अस्त्रीशब्दो हायनशब्दविशेषणम् । शरच्छब्दस्य, समाशब्दसाहचर्यात् स्त्रीलिङ्गतैव । ʻवर्षोऽस्त्री स्त्री शरत्समाः’ इति वैजयन्ती (पृ। २४, श्लो। ९१) । समाशब्दोऽस्मिन् शास्त्रे बहुप्रकृतिकः । वामनलिङ्गानुशासनेऽप्येवमेवोक्तम् । ʻबहवश्च समाः सिकता वर्षा आपः सुमनसो जलौकसोऽप्सरस्ö इति (पृ। १६, श्लो। २३) ॥ मासेन—पैत्रः । मानुषेण मासेन पितॄणामहोरात्रः । अत्र पक्षाभ्यां दिवारात्रिविभागः ॥ वर्षेण दैवतः । मानुषेण वर्षेण देवतानामहोरात्रः स्यात् । अत्रायनाभ्यां दिवारात्रिविभागः ॥ २१ ॥

[[०१.०८६]]

अक्।०१.०४.०२२अब् दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।
अक्।०१.०४.०२२च्द् मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ २२ ॥
दैवे इति—दैवे द्वे युगसहस्रे ब्राह्मः अहोरात्रः स्यात् । ब्रह्मणोऽयं ब्राह्मः । तौ नृणां स्थितिक्षयात्मकौ कल्पौ भवतः । कल्पयति नृणां नाशं करोतीति कल्पः । ʻकृपू सामर्थ्ये । दिव्यानां युगानामेकसप्ततिः मन्वन्तरं भवति । मनोरन्तरं मन्वन्तरम् ॥ २२ ॥

मल्लि-नाथः - AK.01.04.022

दैवे—ब्राह्मः । दैवयुगमित्युक्ते मनुष्यचतुर्युगम् । ते युगे द्वे सहस्रे चेत् ब्रह्मणः अहोरात्रो भवति । अत्र कल्पाभ्यां दिवारात्रिविभागः ॥ कल्पौ—नृणाम् । स्थितिक्षयात्मकौ कल्पौ भवतः । तावित्यनेन बुद्धिस्थदिवारात्र्योः परामर्शः ॥ मन्वन्तरं—एकसप्ततिः । चतुर्दशदलनस्य कल्पस्य एकैको भागो मन्वन्तरं भवति । मानुषचतुर्युगं दिव्यं युगम् । तेषामेकाधिका सप्ततिः ॥ २२ ॥

मूलम् - ०१.०४.०२३

अक्।०१.०४.०२३अब् संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।
अक्।०१.०४.०२३च्द् अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् ॥ २३ ॥
अक्।०१.०४.०२४अब् कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।
अक्।०१.०४.०२४च्द् स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ २४ ॥

लिङ्ग-सूरी - AK.01.04.023-24

संवर्त इति—संवर्तते क्षीयते जगदत्रेति संवर्तः । ʻवृतु वर्तने । प्रलीयते जगदत्रेति प्रलयः । ʻलीङ् श्लेषणे । जगन्नाशः कल्प्यतेऽत्रेति कल्पः । ʻकृपू सामर्थ्ये । क्षीयते जगदत्र क्षयः । ʻक्षि क्षये । कल्पस्यान्तः कल्पान्तः । संहारकालनामानि ॥ कम्पते अस्मात् पङ्कः । अक्षरविपर्ययः । ʻकपि चलने । सभामध्ये पच्यते वा । ʻपचि विस्तारे पच्यते व्यक्तीक्रियते वा पङ्कः । ʻपचि व्यक्तीकरणे । पतति येन नरके पाप्मा । ʻपत्लृ गतौ’ । पान्त्यस्मादिति वा पाप्मा । पापं च । ʻपा रक्षणे । कल्यते चित्रगुप्तेन गण्यते किल्बिषम् । कल्मषं कलुषं च । ʻकल सङ्ख्याने । कलयति नरके वा कलुषम् । ʻकल किल क्षेपे । वर्ज्यते वृजिनम् । ʻवृजी वर्जने । नरकमेत्यनेनेति एनः । ʻइण् गतौ’ । कर्तारमङ्घत इत्यघम् । ʻअघि गत्याक्षेपे । अंहते नरमनेनेति अंहः । ʻअहि गतौ’ । दुष्टमेतीति दुरितम् । दुष्क्रियत इति दुष्कृतम् । ʻडुकृञ् करणे । पापनामानि ॥ ध्रियत इति धर्मः । पुणति शुभं करोतीति पुण्यम् । ʻपुण कर्मणि शुभे । शुभेन श्रीयते श्रेयः । ʻश्रिञ् सेवायाम् । सुष्ठु क्रियते स्म सुकृतम् । अभिलषितं वर्षतीति वृषः । ʻवृष सेचने । पुण्यनामानि ॥ २३-४ ॥

मल्लि-नाथः - AK.01.04.023-24

संवर्तः प्रलयः । मन्वन्तरान्ते जातावान्तरप्रलयनामनी ॥ कल्पः—इत्यपि । महाप्रलयनामानि ॥ ʻमहाप्रलयकल्पान्तौ युगान्तो भूतसम्प्लवः’ इति वैजयन्ती (पृ। २४, श्लो। ९४) ॥ अस्त्री—दुष्कृतम् । पापनामानि ॥ स्याद् धर्मं—वृषः । पुण्यनामानि ॥ २३-४ ॥

[[०१.०८७]]

मूलम् - ०१.०४.०२५

अक्।०१.०४.०२५अब् मुत् प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ।
अक्।०१.०४.०२५च्द् स्यादानन्दथुरानन्दः शर्मसातसुखानि च ॥ २५ ॥

लिङ्ग-सूरी - AK.01.04.025

मुदिति—मोदयतीति मुत् । प्रमोदश्च । आमोदश्च । ʻमुद हर्षे । प्रीणातीति प्रीतिः । ʻप्रीञ् तर्पणे कान्तौ च्ö । प्रमदयति हर्षयतीति प्रमदः । ʻमदी हर्षे । हृष्यतेऽनेनेति हर्षः । ʻहृष तुष्टौ’ । आनन्दयतीति आनन्दथुः । आनन्दश्च । ʻटुनदि समृद्धौ’ । शृणाति दुःखमिति शर्म । ʻशॄ हिंसायाम् । स्यति दुःखं सातम् । ʻषोऽन्तकर्मणि । श्यति दुःखं शातमिति वा पाठः । ʻशो तनूकरणे । शातिर्वा । शाम्यति दुःखमनेनेति शान्तम् । ʻशमु उपशमे । अयमपि पाठः । शोभनानि खानि इन्द्रियाणि अस्मिन्निति सुखम् । सन्तोषनामानि ॥ २५ ॥

मल्लि-नाथः - AK.01.04.025

मुत् प्रीतिः—सुखानि च । शर्मसाहचर्यात् शातम् । ʻशितं शातं च निशिते कृशे शान्तं च शर्मणि इति विश्वप्रकाशिका (पृ। ५७, श्लो। ९) । सुखसाहचर्यात् सातम् । ʻसूतिः साततता तु सा’ इति देवीशतकम् । एतानि सुखनामानि ॥ २५ ॥

[[०१.०८८]]

मूलम् - ०१.०४.०२६

अक्।०१.०४.०२६अब् श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ।
अक्।०१.०४.०२६च्द् भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ॥ २६ ॥
अक्।०१.०४.०२७अब् शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ।

लिङ्ग-सूरी - AK.01.04.026

श्वःश्रेयसमिति—श्वः आगामि श्रेयोऽत्र श्वःश्रेयसम् । अरिष्टं शिनोति तनूकरोतीति शिवम् । ʻशिञ् निशाने । भन्दते भद्रम् । ʻभदि कल्याणे । कल्यं नीरुजत्वमणति कल्याणम् । ʻअण शब्दे । मङ्गति सुखं लातीति मङ्गलम् । ʻमगि गतौ’ । ʻला दाने । शोभते शुभम् । ʻशुभ दीप्तौ’ । भवतीति भावुकम् । प्रशस्तो भवोऽत्र भविकम् । भवनार्हं भव्यम् । कुत्सितं श्यतीति कुशलम् । कुशान् लातीति वा । ʻशो तनूकरणे । क्षिणोति क्लेशमिति क्षेमम् । ʻक्षिणु हिंसायाम् । शस्यते स्मेति शस्तम् । ʻशंसु स्तुतौ’ । शुभनामानि ॥ पापपुण्यसुखादिशब्दाः । द्रव्ये गुणिनि त्रिषु वर्तन्ते ॥ २६ ॥

मल्लि-नाथः - AK.01.04.026

श्वःश्रेयसं—भव्यम् । शुभनामानि ॥ कुशलं—शस्तं च । क्षेमनामानि ॥ अथ—सुखादि च । पापपुण्यशब्दाः सुखादिशब्दाश्च द्रव्ये त्रिलिङ्गा भवन्ति । ʻपापा ऋतुमती कन्या पापो राजाप्यरक्षकः’ । पापग्रहणमर्थपरमिति कतिचित् कथयन्ति । दुष्कृतोऽयं व्यापारः । कल्मषोऽयममेध्याहारः । पुण्यं तीर्थमिदम् । पुण्या नदी । पुण्योऽयमाश्रमः । ʻसुखं कामिकुलं द्रव्यात् सुखो वासः सहाम्बया’ । सुखादयः स्वार्थप्रधानाश्चेन्निजलिङ्गा एव । दारिद्र्येऽपि धनित्वेऽपि वशः परिजनः सुखम् ॥ २६ ॥

अक्।०१.०४.०२७च्द् मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ॥ २७ ॥

मूलम् - ०१.०४.०२८

अक्।०१.०४.०२८अब् प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ।
अक्।०१.०४.०२८च्द् दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ २८ ॥

लिङ्ग-सूरी - AK.01.04.027-28

मतल्लिकेति—मतल्लिका, मचर्चिका, प्रकाण्डम् अस्त्री, उद्धः, तल्लजः, अमूनि प्रशस्तवाचकानि । अश्वमतल्लिका प्रशस्ताश्व इत्यर्थः । प्रशस्तः पुरुषः पुरुषतल्लजः । शुभमेत्यनेन अयः । शुभावहविधिनाम ॥ देवस्येदं दैवम् । शुभाशुभं दिशतीति दिष्टम् । ʻदिश अतिसर्जने । भगस्य ऐश्वर्यस्येदं भागम् । भागमेव भागधेयम् । भजनीयं भाग्यम् । ʻभज सेवायाम् । नियम्यतेऽनया पुरुष इति नियतिः । ʻयम उपरमे । विधीयते प्रेर्यतेऽनेन विधिः । अयं पुमान् । शुभाशुभफलनिमित्तदैवनामानि ॥ २७-८ ॥

मल्लि-नाथः - AK.01.04.027-28

मतल्लिका—अमूनि । मतल्लिकादीनि पदानि प्रशस्तवाचकानि भवन्ति । यस्य कस्यचिद्विशेषणानि सन्त्यपि आविष्टलिङ्गान्येव । अश्वो मतल्लिका अश्वमतल्लिका । प्रशस्ताश्व इत्यर्थः । गोप्रकाण्डम् । पुरुषतल्लजः । प्रशस्तपुरुष इत्यर्थः । पुरुषमतल्लिका इत्यादि । प्रकाण्डमस्त्री । ʻप्रकाण्डोऽस्त्री पुमानुद्धः’ इति त्रिकाण्डशेषः ॥ अयः—विधिः । शुभावहदैवम् अय इत्युच्यते ॥ दैवं—विधिः । दैवनामानि ॥ ʻभविष्यं भवितव्यं च्ö । एते च । भागधेयशब्दव्युत्पत्त्या भागशब्दसिद्धिः ॥ २७-८ ॥

[[०१.०८९]]

मूलम् - ०१.०४.०२९

अक्।०१.०४.०२९अब् हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ।
अक्।०१.०४.०२९च्द् क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ॥ २९ ॥

लिङ्ग-सूरी - AK.01.04.029

हेतुरिति—हिनोति वर्धते हेतुः । ʻहि गतौ वृद्धौ च्ö । कार्यतेऽनेन कारणम् । बीज्यतेऽनेन बीजम् । ʻबीज रोहणे । निमित्तनामानि ॥ निदीयते निदानम् । ʻदाण् दाने । मूलनिमित्तनाम ॥ क्षीयत इति क्षेत्रम् । ʻक्षि निवासगत्योः’ ʻक्षि क्षये वा धातुः । क्षेत्रं शरीरं जानातीति क्षेत्रज्ञः । ʻज्ञा अवबोधने । अत्ति स्वकृतं शुभाशुभम् आत्मा । ʻअद भक्षणे । अतति शरीरेषु संवसतीति वा । ʻअत सातत्यगमने । पुरि देहे सीदति तिष्ठतीति पुरुषः । ʻषद्लृ विशरणगत्यवसादनेषु’ । देहादिकं पिपर्तीति वा । ʻपॄ पालनपूरणयोः’ । अहम्प्रत्ययस्य विषयिणो जीवात्मनो नामानि ॥ प्रधत्ते सर्वं प्रधानम् । पृथक् क्रियते आत्मन इति वा । प्रारम्भः क्रियतेऽनया प्रकृतिः । प्रकृतिनाम ॥ २९ ॥

मल्लि-नाथः - AK.01.04.029

हेतुर्ना—बीजम् । कारणनामानि ॥ निदानं त्वादिकारणम् । आदिकारणं निदानं स्यात् ॥ क्षेत्रज्ञः—पुरुषः । आत्मतत्त्वनामानि ॥ प्रधानं—स्त्रियाम् । प्रकृतितत्त्वनामानि ॥ २९ ॥

[[०१.०९०]]

मूलम् - ०१.०४.०३०

अक्।०१.०४.०३०अब् विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ।
अक्।०१.०४.०३०च्द् जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ॥ ३० ॥

लिङ्ग-सूरी - AK.01.04.030

विशेष इति—अविकृतौ तिष्ठतीत्यवस्था । ʻष्ठा गतिनिवृत्तौ’ । कालकृतयौवनादिविशेषनाम ॥ सतो भावः सत्त्वम् । प्रकाशज्ञानहेतुः । रागात्मनि दुःखहेतुत्वात् रजः । ताम्यत्यनेन तमः । ʻतमु ग्लानौ’ । गुणाभिधानप्रकृतिधर्मनामानि ॥ जन्यतेऽनेन जनुः । सान्तोऽयम् । जननं च । जन्म च । जनिश्च । ʻजनी प्रादुर्भावे । उत्पत्स्यते इत्युत्पत्तिः । ʻपद्लृ गतौ’ । उद्भवतीत्युद्भवः । ʻभू सत्तायाम् । जन्मनामानि ॥ ३० ॥

मल्लि-नाथः - AK.01.04.030

विशेषः कालिकोऽवस्था । कालकृतविशेषोऽवस्था स्यात् । बाल्यजरादि ॥ गुणाः—तमः । सत्त्वरजस्तमांसि प्रकृतिगुणा इत्युच्यन्ते ॥ जनुः—उद्भवः । जन्मनामानि । जनिशब्दोऽर्धर्चादिपाठादुत्पत्तिलिङ्गभागुद्भवलिङ्गभाक् च भवति । उभयत्रोदाहरणम्—

ʻकर्त्रादिना जनिरियं च न युक्तरूपा'

ʻतस्या वा जनिरस्तु मातरवमा जीवस्य मा जीवतो

भूयाद्वा जननिः किमम्ब जनिना जन्तोर्वृथा जन्मनः’ ।

इति । अनुक्तम्—ʻसंसारस्त्वाजवं जवः (?) । संसारनामानि ॥ ३० ॥

[[०१.०९१]]

मूलम् - ०१.०४.०३१

अक्।०१.०४.०३१अब् प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ।
अक्।०१.०४.०३१च्द् जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता ॥ ३१ ॥
अक्।०१.०४.०३२अब् चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥
इति कालवर्गः

लिङ्ग-सूरी - AK.01.04.031

प्राणीति—प्राणोऽस्यास्तीति प्राणी । चेततीति चेतनः। ʻचिती सञ्ज्ञाने । जन्मास्यास्तीति जन्मी । जायते जन्तुः । जन्युश्च । ʻजनी प्रादुर्भावे । शरीरमस्यास्तीति शरीरी । प्राणिनामानि ॥ जायते जातिः । जातं च । ʻजनी प्रादुर्भावे । समानस्य भावः सामान्यम् । जातिनामानि ॥ व्यज्यत इति व्यक्तिः । पृथगात्मनो भावः पृथगात्मता । व्यक्तिनामनी ॥ चेतयतेऽनेन चित्तम् । चेतश्च । ʻचिती सञ्ज्ञाने । ʻचिच्चिन्तायाम् । विषयैः ह्रियते हृदयम् । हृच्च । ʻहृञ् हरणे । शोभनोऽन्तो यस्य स्वान्तम् । स्वनतीति वा स्वान्तम् । ʻस्वन शब्दे । मन एव मानसम् । मन्यतेऽनेन मनः । ʻमन ज्ञाने । मनोनामानि ॥ ३१ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ कालवर्गः

मल्लि-नाथः - AK.01.04.031

प्राणी—शरीरिणः । प्राणिनामानि ॥ जातिः—सामान्यम् । जातिनामानि ॥ व्यक्तिस्तु पृथगात्मता । व्यक्तिनामनी ॥ चित्तं—मनः । अन्तःकरणनामानि ॥ ʻस्वान्तमास्वनितं चित्तं चेतोऽन्तःकरणं मनः’ इति धनञ्जयः ॥ ३१ ॥

इति श्रीवत्स नृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते कालवर्गः