०३ दिग्वर्गः

मूलम् - ०१.०३.००१

(०१.०३.००१अब्) दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।
(०१.०३.००१च्द्) प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥
(०१.०३.००२अब्) उत्तरा दिगुदीची स्याद् दिश्यं तु त्रिषु दिग्भवे ।

लिङ्ग-सूरी - AK.01.03.001

दिश इति—प्राचीयं दक्षिणेयमिति दिश्यते दिक् । दिशत्यवकाशमिति वा । ʻदिश अतिसर्जने । कमुदकं स्कुभ्नातीति ककुप् । ʻस्कुभु विस्तारे । कं वायुं स्कुभ्नातीति वा । काशते काष्ठा । ʻकाशृ दीप्तौ’ । अश्नुते आशा । ʻअशू व्याप्तौ सङ्घाते च्ö । हरन्त्यनया अप्रतीतमिति हरित् । ʻहृञ् हरणे । दिङ्नामानि ॥ प्रागञ्चति सूर्यः प्राची । अवागञ्चति दक्षिणायनेन सूर्य इति अवाची । अपाचीति वा पाठः । प्रति पश्चादञ्चति सूर्यः अस्तमय इति प्रतीची । उत्तरमञ्चति सूर्यः उत्तरायणेनेति उदीची । ʻअञ्चु गतिपूजनयोः’ । एतानि यथाक्रमं पूर्वदक्षिणपश्चिमोत्तरनामानि । इतरदिग्भ्यश्च आद्या पूर्वा । दक्षते वर्धते इति दक्षिणा । ʻदक्ष वृद्धौ शीघ्रार्थे च्ö । पश्चाद् भवा पश्चिमा । उत्तरति मेर्वादिभूभृत इत्युत्तरा । ʻतॄ प्लवनतरणयोः’ ॥ दिशि भवं दिश्यम् । एतद् दिग्भवस्य इन्द्रायुधादेर्नाम ॥ १ ॥

मल्लि-नाथः - AK.01.03.001

दिशस्तु—त्रिषु दिग्भवे । ता इति लिङ्गानुशासनम् । दिशां नामानि । ʻदिग्दिशाशा ककुब्दीर्णी इति वैजयन्ती (पृ। १७, श्लो। २) । हलन्तत्वाद्वैकल्पिकाष्टापू । प्राच्यवाची—पश्चिमाः । एतानि पूर्वदक्षिणपश्चिमदिशामेव नामानि । प्राचीत्युक्ते पूर्वैव । अवाचीत्युक्ते दक्षिणैव । केचिदमुमेव पवर्गमध्यमं पठन्ति । प्रतीचीति पश्चिमैव । उत्तरा—स्यात् । उदीचीति उत्तरैव । दिश्यं—दिग्भवे । दिग्भवार्थे दिश्यम् । भवार्थे यत्प्रत्ययः ॥ १ ॥

[[०१.०५२]]

(०१.०३.००२च्द्) इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥

मूलम् - ०१.०३.००३

(०१.०३.००३अब्) कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ।

लिङ्ग-सूरी - AK.01.03.002

इन्द्र इति—इन्द्रः, वह्निः, पितृपतिः, नैरृतः, वरुणः, मरुत्, कुबेरः, ईश इति क्रमात् पूर्वादीनां दिशां पतयः ॥ २ ॥

मल्लि-नाथः - AK.01.01.001

इन्द्रो वह्निः—दिशां क्रमात् । इन्द्रादयः पूर्वादीनां दिशां विदिशां च क्रमात् पतयः ॥ २ ॥

[[०१.०५३]]

(०१.०३.००३च्द्) ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥

मूलम् - ०१.०३.००४

(०१.०३.००४अब्) पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।

लिङ्ग-सूरी - AK.01.03.003

ऐरावत इति—इरा आपः अस्मिन् सन्तीति इरावान् समुद्रः, तस्मिन् जातः ऐरावतः । पुण्डरीकवर्णत्वात् पुण्डरीकः । पुणति शोभत इति वा । ʻपुण कर्मणि शुभे । वायुमात्मानं मन्यते वामनः । ʻमन ज्ञाने । वामं वल्गु शरीरमस्यास्तीति वा । वामनत्वाद्वा । कुमुदवर्णत्वात् कुमुदः । कुं पृथिवीं मोदयतीति वा । ʻमुद हर्षे । अञ्जनाभत्वात् अञ्जनः । अनक्ति गच्छतीति वा । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिषु’ । पुष्प्यतीति पुष्पम् । ʻपुष्प विकसने । पुष्पवद् दन्तोऽस्यास्तीति पुष्पदन्तः । सर्वभूम्यां विदितः सार्वभौमः । शोभनाः प्रतीकाः अवयवाः यस्य सः सुप्रतीकः । एतानि यथाक्रममष्टदिग्गजनामानि ॥ ३ ॥

मल्लि-नाथः - AK.01.03.003

ऐरावतः—दिग्गजाः । ऐरावतादयः पूर्वादिक्रमेण दिग्गजाः ॥ ३ ॥

(०१.०३.००४च्द्) करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥

मूलम् - ०१.०३.००५

(०१.०३.००५अब्) ताम्रपर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ।

लिङ्ग-सूरी - AK.01.03.004

करिण्य इति—अभ्रेषु माति वर्तते अभ्रमुः । ʻमा माने । न भ्राम्यति स्ववल्लभं हित्वा क्वचित् न भ्रमतीति अभ्रमुः । ʻभ्रमु अनवस्थाने । काम्यत इति कपिला । ʻकमु कान्तौ’ । कपिलवर्णत्वाद्वा । पिङ्गलवर्णोऽस्या अस्तीति पिङ्गला । न विद्यते उपमा यस्याः सा अनुपमा । ताम्रपर्णाख्यौषधिसाहचर्यात् ताम्रपर्णी । शोभनौ दन्तौ यस्याः सा शुभ्रदन्ती । शोभनान्यङ्गानि यस्याः सा अङ्गना । अञ्जनाकारो वर्णो यस्याः सा अञ्जनावती । एतानि दिग्गजभार्यानामानि ॥ ४ ॥

मल्लि-नाथः - AK.01.03.004

करिण्यो—चाञ्जनावती । क्रमादैरावतादिदिग्गजाङ्गनानामानि ॥ ४ ॥

[[०१.०५४]]

(०१.०३.००५च्द्) क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५ ॥

मूलम् - ०१.०३.००६

(०१.०३.००६अब्) अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ।

लिङ्ग-सूरी - AK.01.03.005

क्लीबेति—दिशोरिदम् अपदिशम् । विशिष्टा दिक् विदिक् । दिङ्मध्यनामानि ॥ अन्तरमवकाशम् अभिगतम् अभ्यन्तरम् । अभ्यन्तर्यन्ते बध्यन्ते अश्वादयः अत्रेति अभ्यन्तरम् । अन्तरम् आलाति अन्तरालम् । ʻला आदाने । अष्टदिगादेरभ्यन्तरनामानि ॥ चक्राकारेण वालते वर्तते चक्रवालम् । ʻवाडृ आप्लाव्ये । डलयोरेकत्वस्मरणात् । मण्डयति भूषयतीति मण्डलम् । ʻमडि भूषायां हर्षे च्ö । दिङ्मण्डलनाम ॥ ५ ॥

मल्लि-नाथः - AK.01.03.005

क्लीबाव्ययं—विदिक् स्त्रियाम् । दिग्वलयमध्यनामानि । आग्नेय्यादिक्रमेण विदिशां नामान्यपि सन्ति ।

ʻआग्नेयी तु चराशा स्यात् नैरृती तु दिगन्धकी ।

मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता ॥

इति वैजयन्ती (पृ। १७, श्लो। ४-५) । अभ्यन्तरं त्वन्तरालम् । सकलदिङ्भध्यनाम । चक्रवालं तु मण्डलम् । दिक्समूहनाम । अनुक्तम्—ʻदिग्युग्मं मण्डपीठिः स्यात् । दिग्युग्मं मण्डपीठिरित्युच्यते । ʻदिगन्तः करिशालुकम् । दिगन्तः करिशालुकमित्युच्यते ॥ ५ ॥

(०१.०३.००६च्द्) अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥

मूलम् - ०१.०३.००७

(०१.०३.००७अब्) धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
(०१.०३.००७च्द्) घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥

लिङ्ग-सूरी - AK.01.03.006-7

अभ्रमिति—अभ्रति गच्छतीत्यभ्रम् । ʻअभ्र गतौ’ । अपो रातीत्यभ्रम् । ʻरा दाने । न भ्रश्यन्त्यापोऽस्मादिति वा । ʻभ्रंशु अवस्रंसने । मेहतीति मेघः । ʻमिह सेचने । वारि वहतीति वारिवाहः । ʻवह प्रापणे । स्तनयतीति स्तनयित्नुः । ʻस्तन देवशब्दे । बलं न जहातीति बलाहम् उदकम्, तदस्यास्तीति बलाहकः । धाराणां धरो धाराधरः । जलस्य धरो जलधरः । तटितोऽत्र सन्तीति तटित्वान् । वारि ददातीति वारिदः । ʻडुदाञ् दाने । अम्बु बिभर्तीति अम्बुभृत् । ʻडुभृञ् धारणपोषणयोः’ । वायुना हन्यत इति घनः । ʻहन हिंसागत्योः’ । जीवनम् उदकं मूयतेऽत्र जीमूतः । ʻमूङ् बन्धने । मोदन्ते येन कृषीवलाः मुदिरः । ʻमुद हर्षे । जलं मुञ्चतीति जलमुक् । ʻमुच्लृ मोक्षणे । धूमो योनिर्यस्य सः धूमयोनिः । एतानि मेघनामानि ॥ ६-७ ॥

मल्लि-नाथः - AK.01.03.006-7

अभ्रं—धूमयोनयः । मेघनामानि । ʻनभ्राट् तटित्पतिर्देवो नदनुर्जलपोट्टणः’ । एतानि च ॥ ६-७ ॥

[[०१.०५५]]

मूलम् - ०१.०३.००८

(०१.०३.००८अब्) कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् ।
(०१.०३.००८च्द्) स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ८ ॥

लिङ्ग-सूरी - AK.01.03.008

कादम्बिनीति—कमुदकम् आददत इति कादम्बाः मेघाः, तेऽस्यां सन्तीति कादम्बिनी । कादम्बाः कलहंसाः अस्यां सन्तीति वा । कदम्बाः पुष्प्यन्त्यत्रेति वा । मेघमालानाम ॥ अभ्रे भवम् अभ्रियम् । मेघभवस्योदकादेर्नाम ॥ स्तनयतीति स्तनितम् । ʻस्तन गदी देवशब्दे । गर्जतीति गर्जितम् । ʻगर्ज शब्दे । रसति शब्दायते रसितम् । ʻरस शब्दे । मेघनिर्घोषनामानि ॥ ८ ॥

मल्लि-नाथः - AK.01.03.008

कादम्बिनी मेघमाला । मेघमालानाम । अनुक्तम्—ʻऐरावतो राजमेघः’ राजमेघनाम ॥ ʻमोयिलुयेक्किवच्चिमेयलु’ । अभ्रे भवार्थ अभ्रियं स्यात् । स्तनितं रसितादि च । मेघनिर्घोषनामानि । रसितादि चेति चशब्दो व्यभिचारप्रदर्शनार्थः खरस्य रसितं पावकस्य ह्रसितम् इत्यादि ॥ ८ ॥

[[०१.०५६]]

मूलम् - ०१.०३.००९

(०१.०३.००९अब्) शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।
(०१.०३.००९च्द्) तडित् सौदामिनीविद्युच्चञ्चलाचपला अपि ॥ ९ ॥

लिङ्ग-सूरी - AK.01.03.009

शम्पेति—कृषीवलानां दुःखं शमयतीति शम्पा । ʻशमु उपशमने । कर्षकाणां शं सुखं पातीति वा । ʻपा रक्षणे । सम्पेति वा पाठः । समन्तात् पातीति सम्पा । सम्यक् पिबति चाक्षुषं तेज इति वा । ʻपा पाने । शतं ह्रादते शतह्रदा । ʻह्राद अव्यक्ते शब्दे । शतं ह्रदा विद्यन्ते अस्यामिति वा । बडवाज्योतिष्मत्या ह्रादत इति ह्रादिनी । ह्रादुनीति वा पाठः । इरावति मेघे भवा ऐरावती । ऐरावतोऽभ्रनागः, तस्य स्त्री वा । क्षणं प्रभा यस्याः सा क्षणप्रभा । प्रभया नयनानि ताडयतीति तडित् । ʻतड आघाते । सुदामाद्रिणा सह वर्तत इति सौदामिनी । सुदाम्ना अद्रिणा दीव्यतीति सौदामिनी । ʻतेनैकदिक् इति (४। ३। ११२) सादृश्यं व्यज्यते । सुदामवत् दीर्घाकारोऽस्या अस्तीति वा । सौदामनीति वा पाठः । विद्योतत इति विद्युत् । ʻद्युत दीप्तौ’ । चञ्चतीति चञ्चला । ʻचञ्चु गतौ’ । चोपतीति चपला । ʻचुप मन्दायां गतौ’ । चम्पयतीति वा चपला । ʻचपि गतौ’ । एतानि विद्युन्नामानि ॥ ९ ॥

मल्लि-नाथः - AK.01.03.009

शम्पा—सौदामिनी । ʻसौदाम्नी त्वशनिर्विद्युत् इति त्रिकाण्डशेषः (पृ। ५, श्लो। ८७) । विद्युच्चञ्चलाचपला अपि । विद्युन्नामानि । ʻआकालिकी स्याज्जलदा क्षणिकाप्यचिरद्युतिः’ । एतानि च ॥ ९ ॥

मूलम् - ०१.०३.०१०

(०१.०३.०१०अब्) स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः ।
(०१.०३.०१०च्द्) इन्द्रायुधं शक्रधनुस्तदेव ऋजु रोहितम् ॥ १० ॥

लिङ्ग-सूरी - AK.01.03.010

स्फूर्जथुरिति—स्फूर्जतीति स्फूर्जथुः ʻटुओस्फूर्ज वज्रनिर्घोषे । वज्रस्य निर्घोषो वज्रनिर्घोषः । वज्रनिर्घात इति वा पाठः । वज्रनिष्पेष इति च । प्रहरद्विद्युच्छब्दनामानि ॥ इरया अम्भसा माद्यतीति इरमदः । ʻमदी हर्षग्लपनयोः’ । मेघज्योतिर्नाम ॥ इन्द्रस्यायुधम् इन्द्रायुधम् । शक्रस्य धनुः शक्रधनुः । मेघप्रतिफलितनानावर्णस्य धनुराकारेण दृश्यमानस्य सूर्यरश्मेर्नामनी ॥ रोहतीति रोहितम् । ʻरुह वीजजन्मनि प्रादुर्भावे च्ö । एतस्यैवाजिह्मस्य धनुषो नाम ॥ १० ॥

मल्लि-नाथः - AK.01.03.010

स्फूर्जथुर्वज्रनिर्घोषः । प्रहारकविद्युद्ध्वनिनाम । ʻश्रुत्वा तु स्फूर्जथुप्रख्यं निनादं परिदेविनी इति भट्टिः (५। ५३) । मेघज्योतिरिरम्मदः । प्रहारकविद्युदग्निनाम ॥ अनुक्तम्—ʻनिर्घातः षडिको वज्र्ö । प्रहारकविद्युन्नामानि ॥ भाषया ʻपिडुगु’ । इन्द्रायुधं शक्रधनुः । मेघप्रतिफलितनानावर्णस्य धनुराकारेण दृश्यमानस्य सूर्यकिरणस्य नामेति केचित् । कामधनुरिति केचित् । मणिधनुरित्यन्ये । तदेव ऋजु रोहितम् । तदेवावक्रं चेद्रोहितमित्युच्यते । एतस्यैवावक्रस्य धनुषो नाम ॥ भाषया ʻकोरडु’ । ʻवक्रमिन्द्रधनुर्ज्ञेयं ऋजु रोहितमिष्यते इत्युत्पलमाला । अथवा तदेव ऋजुरोहितमित्युच्यते । ʻऋजुरोहितमिच्छन्ति बुधाः शक्रशरासनम् इति हलायुधः (अ। मा। १। ५७) ॥ १० ॥

[[०१.०५७]]

मूलम् - ०१.०३.०११

(०१.०३.०११अब्) वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ ।
(०१.०३.०११च्द्) धारासम्पात आसारः शीकरोऽम्वुकणाः स्मृताः ॥ ११ ॥
(०१.०३.०१२अब्) वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् ।

लिङ्ग-सूरी - AK.01.03.011

वृष्टिरिति—वर्षतीति वृष्टिः । वर्षं च । वर्षशब्दः अस्त्री । ʻवृषु सेचने । वर्षनामनी ॥ अवगृह्णातीत्यवग्रहः । अवग्राहश्च । ʻग्रह उपादाने । वर्षप्रतिबन्धकनामानि ॥ आ समन्तात् सरतीति आसारः । ʻसृ गतौ’ । धाराणां सम्पातः धारासम्पातः । धारासन्तानस्य नामानि ॥ शीकते सिञ्चतीति शीकरः । ʻशीकृ सेचने । शीतं करोतीति वा शीकरः । ʻडुकृञ् करणे । सीकर इति वा पाठः । अम्बुकणनाम ॥ कृणाति सस्यमिति करका । ʻकॄ हिंसायाम् । कीर्यते वायुना भुवीति वा । ʻकॄ विक्षेपे । वर्षशिलानाम ॥ दुष्टं दिनं दुर्दिनम् । मेघच्छन्नाहोरात्रनाम ॥ ११ ॥

मल्लि-नाथः - AK.01.03.011

वृष्टिर्वर्षं । वृष्टिनामनी ॥ तद्वघाते—समौ । वर्षप्रतिबन्धनामानि ॥ वग्रहावग्रहाविति पाठान्तरम् । धारासम्पात आसारः । धारावर्षनाम ॥ शीकरोऽबुकणाः स्मृताः । वायुवशाद्विशीर्णाम्बुकणाः शीकरः स्यात् । वर्षोपलस्तु करकः । वर्षशीलानाम । घनोपल इति पाठान्तरम् । ʻघनोपलस्तु करकः पुञ्जिका मटचीति च इति दृश्यते इति रुद्रः । मेघच्छन्नेऽह्नि दुर्दिनम् । मेघच्छन्नदिननाम । ʻदुर्दिनं जलदध्वान्तम् इति रत्नकोशादयः ॥ ११ ॥

[[०१.०५८]]

(०१.०३.०१२च्द्) अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥

मूलम् - ०१.०३.०१३

(०१.०३.०१३अब्) अपिधानतिरोधानपिधानाच्छादनानि च ।

लिङ्ग-सूरी - AK.01.03.012

अन्तर्धेति—अन्तर्धीयतेऽनयेति अन्तर्धा । व्यवधीयतेऽनया व्यवधा । अन्तर्धानम् अन्तर्धिः । ʻडुधाञ् धारणपोषणयोः’ । अपवार्यत इत्यपवारणम् । ʻवृञ् वरणे । अपिदधातीत्यपिधानम् । तिरोदधातीति तिरोधानम् । छादयतीति छादनम् । ʻछद अपवारणे । मेघाद्यैश्चन्द्रादेरन्तर्धाननामानि ॥ १२ ॥

मल्लि-नाथः - AK.01.03.012

अन्तर्धा—छादनानि च । मेघाद्यैश्चन्द्रादेरन्तर्धाननामानि ॥ १२ ॥

[[०१.०५९]]

(०१.०३.०१३च्द्) हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥

मूलम् - ०१.०३.०१४

(०१.०३.०१४अब्) विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।
(०१.०३.०१४च्द्) अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥
(०१.०३.०१५अब्) द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।

लिङ्ग-सूरी - AK.01.03.013-14

हिमांशुरिति—हिमा अंशवो यस्य हिमांशुः । चन्द्रेण कर्पूरेण मीयते उपमीयते चन्द्रमाः । ʻमाङ् माने । चन्दतीति चन्द्रः ʻचदि आह्लादने दीप्तौ च्ö । मिमीते कालमस्येति परिमाणं करोतीति माः, चन्द्रश्चासौ माश्च चन्द्रमाः । तुषारकिरणैः उनत्ति क्लेदयतीति इन्दुः । ʻउन्दी क्लेदने । कुमुदानां बान्धवः कुमुदबान्धवः । देवा एनं विशेषेण धयन्तीति विधुः । ʻधेट् पाने । सुधारूपा अंशवो यस्य सुधांशुः । शुभ्रा अंशवो यस्य शुभ्रांशुः । ओषधीनाम ईशः ओषधीशः । निशायाः पतिः निशापतिः । अप्सु जातः अब्जः । ओषधीः जीवयतीति जैवातृकः । ʻजीव प्राणवारणे । सौति अमृतं सोमः । ʻषु प्रसवैश्वर्ययोः’ । ग्लायतीति ग्लौः । ʻग्लै हर्षक्षये । मृगः अङ्को यस्य सः मृगाङ्कः । कलानां निधिः कलानिधिः । द्विजानां राजा द्विजराजः । शशस्य धरः शशधरः । नक्षत्राणाम् ईशः नक्षत्रेशः । क्षपां करोतीति क्षपाकरः । (रोहीणीशः सुधामूर्तिरात्रेयोऽमृतनिर्गमः । समुद्रनवनीतं च) । एतानि चन्द्रनामानि ॥ १३-१४ ॥

मल्लि-नाथः - AK.01.03.013-14

हिमांशुः—क्षपाकरः । चन्द्रनामानि । अनुक्तम्—

ʻशुचिरोचिः सुधासूतिरात्रेयोऽमृतनिर्गमः ।

पुनर्युवा निशाकेतुः प्राचीनस्तिलकः शशी ॥

शशाङ्को रोहिणीकान्तो जलात्मा यज्वनां पतिः ।

नक्षत्रनेमिरब्जारिश्चन्दिरः श्रीसहोदरः ।

यथासुखः स्मरसखः समुद्रनवनीतकम् ॥

एतानि च ॥ १३-१४ ॥

[[०१.०६०]]

(०१.०३.०१५च्द्) कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥

मूलम् - ०१.०३.०१६

(०१.०३.०१६अब्) भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेऽंशके ।

लिङ्ग-सूरी - AK.01.03.015

कलेति—कलयति सङ्ख्यातीति कला । ʻकल गतौ सङ्ख्याने च्ö । षडधिका दश षोडश, षोडशानां पूरणः षोडशो भागः । चन्द्रस्य षोडशांशस्य नाम ॥ बिम्बति विस्तारं प्राप्नोतीति बिम्बः । ʻबिम्ब आभोगे । मण्डति व्याप्नोतीति मण्डलम् । ʻमडि भूषायां व्याप्तौ च्ö । चन्द्रमण्डलनामानि ॥ भिद्यत इति भित्तम् । ʻभिदिर् विदारणे । शक्यते भेत्तुमिति शकलम् । ʻशक्लृ शक्तौ’ । खण्ड्यत इति खण्डम् । ʻखडि भेदने । अर्धति भेदं गच्छतीत्यर्धः । अर्धं च । ʻअर्ध गतौ’ । शकलनामानि ॥ १५ ॥

मल्लि-नाथः - AK.01.03.015

कला तु षोडशो भागो । चन्द्रस्य षोडशांशनाम ॥ बिम्बोऽस्त्री मण्डलं त्रिषु । चन्द्रस्य समग्रशरीरनामनी ॥ ते द्वे आदित्यादिनामन्यपि भवतः । ʻजलनिधिजलप्रतिबिम्बितरविबिम्बराजताम्बरान्तावलम्बागृहीतार्द्रमांसभारेव बभासे वासरावसानवेला वैताली । किं च—

ʻआदित्यवर्मणा साम्यमादित्यः कथमश्नुते ।

विभिन्नमण्डलो वीरैर्भिन्दता रविमण्डलम् ॥ इति ।

भित्तं—पुंस्यर्धः । असमभागनामानि । शकलखण्डे वा पुंसि । शकलं, शकलः । खण्डं, खण्डः ʻवा पुंसीति अर्धेऽप्यन्वेति । तेन त्रिलिङ्गः । अर्धः कम्बलः, अर्धा शाटी, अर्धं वस्त्रम् । खण्डार्धशब्दौ गुणवचनौ । छेदभङ्गदलादयोऽप्यसमभागार्थकाः । ʻबिसकिसलयच्छेदपाथेयवन्तः’ (मेघ। १। ११), ʻपुष्पोच्चयः पल्लवभङ्गभिन्नः’ (कु। सं। ३। ६१) इत्यादि । अर्धं समेऽंशके । नपुंसकलिङ्गाभिधायी अर्धशब्दः समभागार्थः ।

ʻमातापितृत्वं जगतामाविष्कर्तुमिवेच्छत्तः ।

अर्धं नारी पुमानर्धं यस्य तस्य पदे पदे ॥ इति ॥ १५ ॥

[[०१.०६१]]

(०१.०३.०१६च्द्) चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥

मूलम् - ०१.०३.०१७

(०१.०३.०१७अब्) कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।

लिङ्ग-सूरी - AK.01.03.016

चन्द्रिकेति—चन्द्रो नियुक्तोऽत्रास्तीति चन्द्रिका । कुमुदानामियं कौमुदी । ज्योतिरस्या अस्तीति ज्योत्स्ना । चन्द्रप्रकाशनामानि ॥ प्रसीदतीति प्रसादः । ʻषद्लृ विशरणगत्यवसादनेषु’ । प्रसन्नस्य भावः प्रसन्नता । नैर्मल्यनामानि ॥ कल्यते ज्ञायतेऽनेनेति कलङ्कः । ʻकल सङ्ख्याने । अङ्क्यते इत्यङ्कः । ʻअकि लक्षणे । लाञ्छूयते लक्ष्यतेऽनेनेति लाञ्छनम् । ʻलाच्छि लक्षणे । चह्यते कल्यत इति चिह्नम् । ʻचह कलने । लक्ष्यते लक्ष्म । लक्षणं च । ʻलक्ष दर्शनाङ्कनयोः’ । चिह्ननामानि ॥ १६ ॥

मल्लि-नाथः - AK.01.031.016

चन्द्रिका कौमुदी ज्योत्स्ना । कौमुदीनामानि ॥ ʻचान्द्री चन्द्रातपोऽपि च्ö । एते च ॥ प्रसादस्तु प्रसन्नता । प्रसादगुणनामनी ॥

ʻक्षीरक्षालितचन्द्रेव नीलधौताम्बरेव च ।

टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत्ö ॥ इति ।

लाञ्छनं—लक्ष्मणम् । क्षकारमध्यः क्ष्मकारमध्यश्च भवति ।

ʻलक्षणं नाम्नि चिह्ने च सौमित्रौ चापि लक्षणः ।

लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥

इति विश्वप्रकाशिका (पृ। ५०, श्लो। ४२) । चिह्ननामानि ॥ १६ ॥

[[०१.०६२]]

(०१.०३.०१७च्द्) सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥

मूलम् - ०१.०३.०१८

(०१.०३.०१८अब्) अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।
(०१.०३.०१८च्द्) प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥

लिङ्ग-सूरी - AK.01.03.017-18

सुषमेति—सुष्ठु समा सुषमा । उत्कृष्टशोभानाम । शोभत इति शोभा । ʻशुभ शोभने । ʻशुभ शुम्भ शोभार्थे इति वा धातुः । काम्यते यया कान्तिः । ʻकमु कान्तौ’ । द्योतत इति द्युतिः । ʻद्युत दीप्तौ’ । छ्यति नाशयति अन्धकारमिति छविः । ʻछो छेदने छ्यति अशोभामिति वा । कान्तिमात्रनामानि ॥ अवश्यायतेऽवपततीत्यवश्यायः । ʻश्यैङ् गतौ’ । नितरां ह्रियतेऽग्निना नीहारः । ʻहृञ् हरणे । तप्तं तोषयतीति तुषारः । ʻतुष तुष्टौ’ । तोहति पद्ममिति तुहिनम् । ʻतुहिर् अर्दने । हिनोति वर्धत इति हिमम् । ʻहि गतौ वृद्धौ च्ö । तापं हन्तीति वा हिमम् । ʻहन हिंसागत्योः’ । प्रलयात् शरदन्तादागतं प्रालेयम् । मेहति भुवमिति मिहिका । ʻमिह सेचने । हिमिकेति वा पाठः । हिनोति वर्धते हिमिका । ʻहि गतौ वृद्धौ च्ö । हिमनामानि ॥ हिममहत्त्वं हिमानी, हिमस्य संहतिः । हिमसमूहनाम ॥ १७-१८ ॥

मल्लि-नाथः - AK.01.03.017-18

सुषमा परमा शोभा । अधिकशोभा सुषमा स्यात् । ʻराधा शोभा विभूषा स्यादभिख्या सुषमा तथा’ इति केषाञ्चिच्छोभामात्रमेवाभिमतम् ॥ शोभा—छविः । शोभानामानि ॥ अवश्यायस्तु—मिहिका च । हिमनामानि ॥ अथ हिमानी हिमसंहतिः । हिमसमूहनाम ॥ १७-१८ ॥

मूलम् - ०१.०३.०१९

अक्।०१.०३.०१९अब् शीतं गुणे तद्वदर्थाः सुषिमः शिशिरो जडः ।
अक्।०१.०३.०१९च्द् तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥

लिङ्ग-सूरी - AK.01.03.019

शीतमिति—गुणे जाड्ये शीतं क्लीबे बोध्यम् । श्यायत इति शीतम् । ʻश्यैङ् गतौ’ । शैत्यगुणनाम ॥ तद्वदर्थाः शीतपर्यायार्थाः अभिधेयवल्लिङ्गाः सप्त । सुष्ठु सिनोति बध्नाति व्यापारमिति सुषिमः । ʻषिञ् बन्धने । सुष्ठु श्यायते सुशीम इति वा पाठः । ʻश्यैङ् गतौ’ । शिनोति पद्मशोभाः शिशिरः । ʻशिञ् निशातने । जडतीति जडः । ʻजल शून्ये । डलयोरेकत्वस्मरणात् । तुष्यत्यनेनेति तुषारः । शीतं लातीति शीतलः । ʻला आदाने । श्यायत इति शीतः । हिनोति वर्धते हिमः । ʻहि गतौ वृद्धौ च्ö । एते अभिधेयलिङ्गाः । शीतवद्द्रव्यनामानि ॥ १९ ॥

मल्लि-नाथः - AK.01.03.019

शीतं गुणे । गुण इति स्पर्शविशेषे शीतं नपुंसकम् । देवदत्तस्य शीतं वर्तते । तद्वदर्थाः—सप्तान्यलिङ्गकाः । सुषिमादयः शीतगुणविशिष्टाथर्या विशेष्यलिङ्गका भवन्ति । सुषिमशब्दो ह्रस्वेकारः मूर्धन्यमध्यः । दीर्घेकारस्तालव्यमध्य इति केचन पठन्ति । ʻशीफरो मेलकः स्थिरः’ । एतानि च ॥ १९ ॥

[[०१.०६३]]

मूलम् - ०१.०३.०२०

अक्।०१.०३.०२०अब् ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः ।
अक्।०१.०३.०२०च्द् मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥

लिङ्ग-सूरी - AK.01.03.020

ध्रुव इति—ध्रुवति स्थिरीभवतीति ध्रुवः । ʻध्रुव गतिस्थैर्ययोः’ । उत्तानपादस्यापत्यम् औत्तानपादिः । ध्रुवनामनी ॥ अगं विन्ध्यं गिरिं स्त्यायति स्तम्भयतीति अगस्त्यः । अगस्तिरिति वा पाठः । ʻस्त्यै शब्दसङ्घातयोः’ । कुम्भः सम्भवो यस्य कुम्भसम्भवः । मित्रावरुणयोरपत्यं मैत्रावरुणिः । अगस्त्यमुनिनामानि ॥ विरहे सति शुश्रूषालोपेऽमुद्रा न मुदं रातीति लोपामुद्रा । ʻरा दाने । समानो धर्मोऽस्त्यस्याः सधर्मिणी । अगस्त्यभार्यानाम ॥ २० ॥

मल्लि-नाथः - AK.01.03.020

ध्रुवः—स्यात् । ध्रुवनामनी ॥ अगस्त्यः—मैत्रावरुणिः । अगस्त्यनामानि ॥ अगस्तिरित्यप्यस्ति । ʻअगस्तिनाध्यासितविन्ध्यशृङ्गम् इति भट्टिकाव्ये (१२। ७१) । ʻऔर्वशेयः कुम्भयोनिरगस्तिर्विन्ध्यकूटनः’ इति वैजयन्ती (पृ। ९५, श्लो। १५१) । अस्यैव—सधर्मिणी । तस्य भार्या लोपामुद्रा स्यात् ॥ २० ॥

[[०१.०६४ ]]

मूलम् - ०१.०३.०२१

अक्।०१.०३.०२१अब् नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् ।
अक्।०१.०३.०२१च्द् दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥

लिङ्ग-सूरी - AK.01.03.021

नक्षत्रमिति—न क्षरति नक्षत्रम् । ʻक्षर सञ्चलने । न क्षीयत इति वा । ʻक्षि क्षये । न क्षदत इति वा नक्षत्रम् । ʻक्षद गतिहिंसनयोः’ । नक्षतीति वा । ʻणक्ष गतौ’ । ऋक्षति तमो नाशयतीति ऋक्षम् । ʻऋक्ष हिंसायाम् । ऋषतीति वा ऋक्षम् । ʻऋषी गतौ’ । भा अस्यास्तीति भम् । तरत्यनयेति तारा । तारैव तारका । ʻतॄ प्लवनतरणयोः’ । अवतीत्युडु । ʻअव रक्षणेत्यादि । नक्षत्रनामानि ॥ दक्षस्यापत्यानि स्त्रियः दाक्षायण्यः । अश्विन्यादिरेवत्यन्तनक्षत्रसाधारणनाम । अश्वा युज्यन्ते ऽस्यामिति अश्वयुक् । ʻयुजिर् योगे । अश्ववत्त्वादश्विनी । अश्विनीनक्षत्रनामनी ॥ २१ ॥

मल्लि-नाथः - AK.01.03.021

नक्षत्रं—स्त्रियाम् । नक्षत्रनामानि ॥ अपिशब्दात् तारकाशब्दः नपुंसकश्च स्यात् । ʻभं नक्षत्रं तारकं तारका च्ö इति हलायुधः (अ। मा। १। ५१), ʻतारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रमुडुर्न ना’ इति वैजयन्ती (पृ। २०, श्लो। ३८) । दाक्षायण्यो—ताराः । अश्विन्यादितारा दाक्षायण्य इत्युच्यन्ते । सुभूतिटीकायां तत्क्रमोद्देशः कृतः । अश्विनी, भरणी, कृत्तिकाः षड् बहुषु, रोहिणी, मृगशिरा स्त्रीक्लीबयोः, आर्द्रा, पुनर्वसू द्वौ, पुष्यः, आश्लेषमघाः स्त्रियां बहुत्वे च, पूर्वोत्तरफल्गुन्यौ, हस्तः, चित्रा, स्वातिः स्त्रीपुंसयोः, विशाखे द्वे, अनूराधा, ज्येष्ठा, मूलं नपुंसकम्, पूर्वाषाढा, उत्तराषाढा, श्रवणः पुमान्, धनिष्ठा, शतभिषक् स्त्री, पूर्वभाद्रपदे द्वे, उत्तरभाद्रपदे द्वे, रेवती इति ॥ अश्वयुगश्विनी । अश्विनीनक्षत्रनामनी ॥ २१ ॥

मूलम् - ०१.०३.०२२

अक्।०१.०३.०२२अब् राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।
अक्।०१.०३.०२२च्द् समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥

लिङ्ग-सूरी - AK.01.03.022

राधेति—राध्यते पूज्यते राधा । ʻराध साध संसिद्धौ’ । विशाखति कान्त्येति विशाखा । ʻशाखृ व्याप्तौ’ । विशाखानक्षत्रनामनी ॥ पुष्णात्यभिलषितमिति पुष्यः । ʻपुष पुष्टौ’ । सिध्यन्त्यर्था अस्मिन्निति सिध्यः । ʻषिधु संराद्धौ’ । साध्नोत्यस्मिन्नर्थानिति सिद्धः । ʻसाध संसिद्धौ’ । तुष्यन्त्यस्मिन् तिष्यः । त्वेषते प्रभया वा तिष्यः । ʻत्विष दीप्तौ’ । पुष्यनक्षत्रनामानि ॥ शुभकर्मणि श्रूयते श्रविष्ठा । ʻश्रु श्रवणे । दधन्ति धनं करोति धनिष्ठा । ʻधन धान्ये । धनिष्ठानामनी ॥ प्रोष्ठे सारे पद यासां ताः प्रोष्ठपदाः । प्रोष्ठस्येव गोरिव पदे यासां ताः इति वा प्रोष्ठपदाः । भाद्रे सारे पदे यासां ताः भाद्रपदाः । प्रोष्ठपदानामनी ॥ २२ ॥

[[०१.०६५]]

मूलम् - ०१.०३.०२३

अक्।०१.०३.०२३अब् मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी ।
अक्।०१.०३.०२३च्द् इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥

लिङ्ग-सूरी - AK.01.03.023

मृगशीर्षमिति—मृगस्येव शीर्षमस्य मृगशीर्षम् । एवं मृगशिरः । अग्रे हायना नवव्रीहयोऽस्याः सन्तीति आग्रहायणी । हायनस्य वत्सरस्य अग्रमादिः अस्या अस्तीति वा । मृगशिरोनक्षत्रनामानि ॥ शिवबाणेन इल्यन्ते प्रेर्यन्त इति इलवलाः । ʻइल स्वप्नप्रेरणयोः’ । इन्वका इति वा पाठः । इल्वका इति वा । ʻइल प्रेरणे । मृगशिरःसमीपस्थतारकानाम ॥ २३ ॥

मल्लि-नाथः - AK.01.03.023

मृगशीर्षं—आग्रहायणी । मृगशिरोनक्षत्रनामानि ॥ इल्वलाः—याः । तदिति तच्छब्देन प्रत्यासन्नमृगशिर एव परामृश्यते । तच्छिरोभागे याः स्वल्पतारकाः सन्ति ता इल्वला इत्युच्यन्ते । इन्वका इति पाठोऽप्यस्ति । ʻइन्वकास्तच्छिरोदेशे तारका इल्वला अपि इति वैजयन्ती (पृ। २०, श्लो। ३९) । अनुक्तम् । ʻज्येष्ठा ज्येष्ठघ्नी । ज्येष्ठानक्षत्रनामनी ॥ ʻअथो निष्ठ्या स्वातिः’ । स्वातीनक्षत्रनामनी ॥ ʻआर्द्रा नक्षत्रशाखिनी आर्दानाम ॥ २३ ॥

[[०१.०६६]]

मूलम् - ०१.०३.०२४

अक्।०१.०३.०२४अब् बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।
अक्।०१.०३.०२४च्द् जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥

लिङ्ग-सूरी - AK.01.03.024

बृहस्पतिरिति—बृहतां वेदमन्त्राणां पतिः बृहस्पतिः । सुराणामाचार्यः सुराचार्यः । गिरां पतिः गीष्पतिः । गीर्पतिर्वा । बुद्धिरस्यास्तीति धिषणः । गृणाति पुरुषार्थान् गुरुः । ʻगॄ शब्दे । जीव्यते मृतोऽनेनेति जीवः । ʻजीव प्राणधारणे । अङ्गिरसोऽपत्यं पुमानाङ्गिरसः । वाचां पतिः वाचस्पतिः । चित्रशिखण्डिनोऽङ्गिरसो जातः चित्रशिखण्डिजः । बृहस्पतिनामानि ॥ २४ ॥

मल्लि-नाथः - AK.01.03.024

बृहस्पतिः—गीष्पतिः । ʻअहरादीनां पत्यादिषु वा रेफः’ (वा। ८। २। ७०) इति पाक्षिकरेफादेशात् गीर्पतिरपि । धिषणो—चित्रशिखण्डिजः । बृहस्पतेर्नामानि ॥ २४ ॥

मूलम् - ०१.०३.०२५

अक्।०१.०३.०२५अब् शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।
अक्।०१.०३.०२५च्द् अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥

लिङ्ग-सूरी - AK.01.03.025

शुक्र इति—शुक्लवर्णत्वात् शुक्रः । शक्रात् रुद्रद्वारा आगत इति वा । रुद्रस्य स्वशुक्लद्वारेण निर्यातत्वाद्वा । शुचं दुःखं देवेभ्यो रातीति वा शुक्रः । ʻरा दाने । दैत्यानां गुरुः दैत्यगुरुः । कवेरपत्यं पुमान् काव्यः । दैत्येभ्यः पुष्टिं वष्टि कामयते उशना । ʻवश कान्तौ’ । अयं शब्दः सान्तः । भृगोरपत्यं भार्गवः । कवयति चातुर्येण वर्णयतीति कविः । ʻकवृ वर्णने । शुक्रनामानि ॥ अङ्गारवर्णत्वात् अङ्गारकः । अङ्गानि आरयति पीडयतीति वा । ʻआर पीडने । कोः भूमेर्जातः कुजः । भूमेरपत्यं पुमान् भौमः । लोहितम् अङ्गं यस्य सः लोहिताङ्गः । मह्याः सुतो महीसुतः । मङ्गलनामानि ॥ २५ ॥

मल्लि-नाथः - AK.01.03.025

शुक्रो—कविः । शुक्रनामानि । उशनेत्यत्र ऋदुशनेत्यादिना (७। १। ९४) सौ परे चानङ् स्यादसम्बुद्धौ । सम्बोधने तु उशनसस्त्रिरूपम् । सान्तं, तथा नान्तं, तथाप्यदन्तम् । हे उशनः, हे उशनन्, हे उशन ॥ अङ्गारकः—महीसुतः । अङ्गारकनामानि । ʻवक्रो मङ्गल आरश्च्ö । एतानि च ॥ २५ ॥

[[०१.०६७]]

मूलम् - ०१.०३.०२६

अक्।०१.०३.०२६अब् रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ ।
अक्।०१.०३.०२६च्द् तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥

लिङ्ग-सूरी - AK.01.03.026

रौहिणेय इति—रोहिण्या अपत्यं पुमान् रौहिणेयः । बुध्यत इति बुधः । ʻबुध अवगमने । सोमस्यापत्यं पुमान् सौम्यः । बुधनामानि ॥ सूर्यस्यापत्यं सौरिः । सौरो वा । शनैः चरतीति शनैश्चरः । ʻचर गतिभक्षणयोः’ । शनिनामनी ॥ तम आयुधं यस्य तमः । सान्तनपुंसकलिङ्गम् । सूर्याचन्द्रमसौ तमयतीति वा । ʻतमु ग्लानौ’ । रहयति रिक्तीकरोति सूर्याचन्द्रमसौ राहुः । रहयति त्यजति भुक्त्वा चन्द्रार्काविति वा । ʻरह त्यागे । स्वः अन्तरिक्षे भाति स्वर्भानुः । ʻभा दीप्तौ’ । सिंहिकाया अपत्यं सैंहिकेयः । विधुमिन्दुं तुदतीति विधुन्तुदः । ʻतुद व्यथने । (ग्रहकल्लोलः अभ्रपिशाचकश्चः । एतानि राहुनामानि ॥ २६ ॥

मल्लि-नाथः - AK.01.03.026

रौहिणेयो—सौम्यः । बुधनामानि ॥ समौ—शनैश्चरौ । ʻशनिमन्दखोडकोणच्छायापुत्रासितक्रोडाः’ । एतानि च ॥ तमस्तु—विधुन्तुदः । राहोर्नामानि । ʻस एव ग्रहकल्लोलः स एवाभ्रपिशाचकः’ । एते च ॥ २६ ॥

[[०१.०६८]]

मूलम् - ०१.०३.०२७

अक्।०१.०३.०२७अब् सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
अक्।०१.०३.०२७च्द् राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥

लिङ्ग-सूरी - AK.01.03.027

सप्तर्षय इति—मरीच्यत्रिमुखाः सप्तर्षयः चित्रशिखण्डिनः स्युः । चित्राः शिखण्डा जटा येषां ते चित्रशिखण्डिनः । के ते ।

ʻमरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

वसिष्ठश्चेति सप्तर्षीनाहुश्चित्रशिखण्डिनः ॥

इति सप्तर्षिनामानि ॥ राति ददाति कल्यादिफलमिति राशिः । तेषामुदयो लग्नमित्युच्यते । लगति ग्रहैः सम्बध्नाति लग्नम् । ʻलगि सङ्गे । राशयः मेषवृषादयः ॥ २७ ॥

मल्लि-नाथः - AK.01.03.027

सप्तर्षयो—चित्रशिखण्डिनः । मरीच्यत्रिप्रमुखाः समुदायोक्त्या चित्रशिखण्डिनः । राशीनामुदयो लग्नम् । राशीनामुदयनाम ॥ ते तु मेषवृषादयः । ते त्विति राशयो मेषवृषभमिथुनकर्कटकसिंहकन्यातुलावृश्चिकधनुर्मकरकुम्भमीना इति द्वादश । एते सर्वे तत्तत्पर्यायनामलिङ्गभाजः ॥ २७ ॥

मूलम् - ०१.०३.०२८

अक्।०१.०३.०२८अब् सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।
अक्।०१.०३.०२८च्द् भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥
अक्।०१.०३.०२९अब् भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।
[[०१.०६९]]

अक्।०१.०३.०२९च्द् विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥
अक्।०१.०३.०३०अब् द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।
अक्।०१.०३.०३०च्द् विभावसुर्ग्रहपतिस्त्विषाम्पतिरहर्पतिः ॥ ३० ॥
अक्।०१.०३.०३१अब् भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।
*(पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ।

कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ॥

प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ।

इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ॥ )

लिङ्ग-सूरी - AK.01.03.028-30

सूरेति—सुवति कर्मणि सूरः । सूर्यश्च । ʻषू प्रेरणे । इयर्ति ऋच्छति इति अर्यमा । ʻऋ गतौ’ । अदितेरपत्यं पुमानादित्यः । द्वादश आत्मानो यस्य द्वादशात्मा । दिवा अहनि प्राणिनः चेष्टावतः करोतीति दिवाकरः । भासं करोतीति भास्करः । अहः करोतीति अहस्करः । अन्यतेजो वध्नाति प्रतिबध्नाति ब्रध्नः । ʻबन्ध बन्धने । प्रभां करोतीति प्रभाकरः । विभां करोतीति विभाकरः । भासः सन्त्यस्य भास्वान् । विवस्ते प्रभया छादयतीति विवस्वान् । ʻवस आच्छादने । विवः तेजोऽस्यास्तीति वा विवस्वान् । सप्त अश्वा यस्य सः सप्ताश्वः । हरितः अश्वा यस्य सः हरिदश्वः । उष्णा रश्मयो यस्य उष्णरश्मिः । तमः विकृन्ततीति विकर्तनः । ʻकृती छेदने । अर्क्यते वालखिल्यादिभिरिति अर्कः । ʻअर्क स्तवने । अर्च्यते वा अर्कः । ʻअर्च पूजायाम् । अर्च्यते सेव्यते वा । ʻअर्च सेवायाम् । मृतण्डस्यापत्यं मार्तण्डः । मृतमण्डं ब्रह्माण्डं जीवयतीति वा मार्ताण्डः मेहति वर्षति मिहिरः । ʻमिह सेचने । इयर्तीति अरुणः । ʻऋ गतौ’ । पुष्णातीति पूषा । ʻपुष पुष्टौ’ । दिवि मणिः द्युमणिः । तरति नभः तरणिः । ʻतॄ प्लवनतरणयोः’ । मेद्यति स्निह्यतीति मित्रः । ʻञिमिदा स्नेहने । सर्वस्य मित्रत्वाद्वा । चित्रा भानवो यस्य चित्रभानुः विरोचते विरोचनः । ʻरुच दीप्तावभिप्रीतौ च्ö । विभैव वसु यस्य सः विभावसु । ग्रहाणां पतिः ग्रहपतिः । त्विषां पतिः त्विषाम्पतिः । अह्नः पतिः अहर्पतिः, अहःपतिः । भातीति भानुः । ʻभा दीप्तौ’ । तमो हन्तीति हंसः । ʻहन हिंसागत्योः’ । सहस्रम् अंशवो यस्य सः सहस्रांशुः । तपतीति तपनः । ʻतप सन्तापे । सुवति सुप्तं सविता । ʻषू प्रेरणे । रूयते श्रूयते रविः । ʻरु शब्दे । एतानि सूर्यनामानि ॥ २८-३० ॥

मल्लि-नाथः - AK.01.03.028-30

सूर—विभाकराः । भास्कराहस्करेत्यत्र ʻकस्कादिषु’ (८। ३। ४८) इति पाक्षिकसादेशात् भाःकराहःकरौ इत्यपि भवतः । भास्वत्—रविः । आदित्यनामानि ॥ ʻवारुणीवारुणीभूतसौरभा सौरभास्पदम् इति दण्ड्यलङ्कारयमकपाठात् (३। १८) सूरशब्दो दन्त्यादिः । ʻमार्ताण्डः सविता भानुरिनः पूषा दिनप्रणीः’ इति वैजयन्तीपाठात् (पृ। १७, श्लो। १०) मार्ताण्डशब्दो दीर्घमध्यमः । ʻतर्षुमार्तण्डमुण्डीर पाथिपेरुगभस्तयः’ इति वैजयन्तीपाठात् (पृ। १८, श्लो। १३) मार्तण्डशब्दो ह्रस्वमध्य इति केचित् । ʻकुमुदाकार इवासोढशूरभासः स्थिता राजपुत्राः’ इति वासवदत्ताश्लेषात् शूरशब्दस्तालव्यादिः ।

ʻकर्मसाक्षी जगच्चक्षुरंशुमाली त्रयीतनुः ।

प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥

सुरोत्तमो धामनिधिः पद्मिनीवल्लभश्च सः ।

पद्मबन्धुरशीतांशुर्मातण्डो जलतस्करः ॥

रश्मिमाली दृगध्यक्षः’ ॥ एतानि च ॥ २८-३० ॥

[[०१.०७०]]

अक्।०१.०३.०३१च्द् माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥

मूलम् - ०१.०३.०३२

अक्।०१.०३.०३२अब् सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
अक्।०१.०३.०३२च्द् परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥

लिङ्ग-सूरी - AK.01.03.031-32

माठर इति—चण्डांशोः सूर्यस्य परिवर्तमानाः यमाग्नीन्द्राः क्रमेण माठरः पिङ्गलः दण्ड इत्युच्यन्ते । मठरस्यापत्यं पुमान् माठरः । मन्यते वा । ʻमन ज्ञाने । पिङ्गलवर्णत्वात् पिङ्गलः । दण्डोऽस्यास्तीति दण्डः । पारिपार्श्वगा इति वा पाठः । परितः पार्श्वे वर्तन्त इति पारिपार्श्वकाः । सूरस्य सूतः सूरसूतः । अरुणवर्णोऽस्यास्तीति अरुणः । न विद्येते ऊरू यस्य सः अनूरुः । कश्यपस्यापत्यं पुमान् काश्यपि । काश्यप इति वा पाठः । गरुडस्याग्रजो गरुडाग्रजः । सूर्यसारथिनामानि ॥ परितो विष्यतेऽनेन परिवेषः । ʻविष्लृ व्याप्तौ’ । परितो धीयतेऽनेन परिधिः । ʻधि धारणे । परिवेषनामनी ॥ समीपे सूर्यस्य प्रतिकृतिः उपसूर्यकम् । मण्ड्यतेऽनेन मण्डलम् । ʻमडि भूषायां व्याप्तौ च्ö । प्रतिसूर्यनामानि । चत्वार्यपि नामानि परिवेषस्यैवेति केचित् ॥ ३१-२ ॥

मल्लि-नाथः - AK.01.03.031-32

माठरः—पारिपार्श्विकाः । रथरक्षणार्थमादित्यस्य पार्श्वे स्थितदेवतानामानि ॥ सूरसूतो—गरुडाग्रजः । काश्यप इति पाठान्तरम् । अनूरुनामानि ॥ परिवेषस्तु—मण्डले । परिवेषनामानि ॥ अत्र चतुर्णां मध्ये प्रथमे द्वे परिवेषनामनी, उत्तरे द्वे प्रतिसूर्यनामनी इति केचित् । परिवेषशब्दो मूर्धन्यस्तालव्यश्च ।

ʻपरिवेशं विजानीयादुपसूर्यकमण्डले ।

परिवेष्टनमप्याहुः परिवेषं मनीषिणः ॥

इति शाश्वतः (पृ। ११, श्लो। ११८) ॥ ३१-२ ॥

[[०१.०७१]]

मूलम् - ०१.०३.०३३

अक्।०१.०३.०३३अब् किरणोस्रमयूखांशुगभस्तिघृणिपृश्नयः ।
अक्।०१.०३.०३३च्द् भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥

लिङ्ग-सूरी - AK.01.03.033

किरणेति—तमः कृणातीति किरणः । ʻकॄ हिंसायाम् । आपो वसन्त्यत्र उस्रः । ʻवस निवासे । मिनोति अवक्षिपति तम इति मयूखः । ʻडुमिञ् प्रक्षेपणे । अश्नुते अंशुः । ʻअशू व्याप्तौ’ । गां दिशं वभस्ति दीपयति गभस्तिः । ʻभस भर्त्सनदीप्त्योः’ । जिघर्ति हरति जलमिति घृणिः । ʻघृ क्षरणदीप्त्योः’ । दीप्यत इति वा । स्पृशतीति पृश्निः । वृष्टिरिति पाठपक्षे वर्षतीति वृष्टिः । वृष्णिरिति पाठपक्षे वर्षति क्ष्मामिति वृष्णिः । ʻवृष सेचने । घृष्यत इति घृष्णिः । ʻघृष सङ्घर्षे । इति बहवः पाठाः अवधारणीयाः । भातीति भानुः । ʻभा दीप्तौ’ । तमः कृणातीति करः । ʻकॄ हिंसायाम् । भुनि कीर्यते वा । ʻकॄ विक्षेपे । तमो म्रियतेऽनेन मरीचिः । स्त्रीपुंसयोः । दीधीते दीप्यते दीधितिः । ʻदीधीङ् दीप्तिदेवनयोः’ । रश्मिनामानि ॥ ३३ ॥

मल्लि-नाथः - AK.01.03.033

किरणोस्र—स्त्रियाम् । किरणनामानि ॥ ३३ ॥

[[०१.०७२]]

मूलम् - ०१.०३.०३४

अक्।०१.०३.०३४अब् स्युः प्रभारुग् रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।
अक्।०१.०३.०३४च्द् रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥

लिङ्ग-सूरी - AK.01.03.034

स्युरिति—प्रभातीति प्रभा । रोचते रुक् । रुचिश्च । ʻरुच दीप्तौ’ । त्वेषते त्विट् । ʻत्विष दीप्तौ’ । भाति भा । ʻभा दीप्तौ’ । भासते भाः । सकारान्तः । ʻभासृ दीप्तौ’ । छविरुक्ता । द्युतिश्च । दीप्यत इति दीप्तिः । ʻदीपी दीप्तौ’ । रोचत इति रोचिः । रुचिश्च । शुच्यते शोचिः । ʻशुचिर् पूतीभावे । उभे क्लीबे । दीप्तिनामानि ॥ प्रकाशते प्रकाशः । ʻकाशृ दीप्तौ’ । द्योतते द्योतः । ʻद्युत दीप्तौ’ । आ समन्तात् तपति इत्यातपः । ʻतप सन्तापे । आतपनामानि ॥ किरणादीनि आतपान्तानि नामानि रश्मीनामेवेति केचित् ॥ ३४ ॥

मल्लि-नाथः - AK.01.03.034

स्युः प्रभा—दीप्तयः ।

ʻजृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै-

र्भाभिर्भानोर्नृपतय इव स्पृशयमाना विबुद्धाः ।

इति वेणीसंहारे (२। ७) भाःशब्दस्य पुंस्त्वं दृष्टम् । रोचिः—आतपः । प्रकाशनामानि ।ʻभल्यातिपालिकाकलिकलशिवेशित्विषि वासेः’ (?) इत्यरुणदत्तलिङ्गानुशासने त्विषिशब्दो दृष्टः । ʻइन्दुं विनान्यस्य न विद्यते द्युत् इति धर्मशर्माभ्युदये (१। १६) द्युत्शब्दो दृष्टः ॥ ३४ ॥

[[०१.०७३]]

मूलम् - ०१.०३.०३५

अक्।०१.०३.०३५अब् कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।
अक्।०१.०३.०३५च्द् तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥
इति दिग्वर्गः

लिङ्ग-सूरी - AK.01.03.035

कोष्णमिति—किञ्चिद् उष्णं कोष्णम् । ईषदुष्णं कवोष्णम् । मन्दं च तदुष्णं च मन्दोष्णम् । किञ्चिदुष्णं कदुष्णम् । ईषदुष्णनामानि ॥ एषां धर्ममात्रे क्लीबत्वम् । धर्मिवृत्तित्वे अभिधेयलिङ्गत्वम् । तेजयतीति तिग्मम् । ʻतिज निशातने । तीक्ष्णं च । खनतीति खरम् । ʻखनु अवदारणे । खुरमिति वा पाठः । खुरतीति खुरम् । ʻखुर छेदने । अत्युष्णनामानि ॥ मृगाणां तृष्णास्ति अस्यामिति मृगतृष्णिका । म्रियन्ते मृगा अनयेति मरीचिका । ʻमृङ् प्राणत्यागे । जलवत्प्रतीयमानसूर्यरश्मिनामनी ॥ ३५ ॥

इति श्रिलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ दिग्वर्गविवृतिः

मल्लि-नाथः - AK.01.03.035

कोष्णं—तद्वति । कोष्णादयोऽल्पोष्णवाचकाः, ते गुणे नपुंसकलिङ्गाः गुणिनि तु त्रिलिङ्गा भवन्ति । तिग्मं—तद्वत् । तिग्मादयोऽत्युष्णवाचकाः तद्वदिति कोष्णादय इव गुणे नपुंसकलिङ्गाः गुणिनि त्रिलिङ्गा भवन्ति ॥ मृगतृष्णा मरीचिका । सलिलवत्प्रतीयमानरविकिरणनामनी । आन्ध्रभाषायां ʻयण्डमावुलु’ ॥ ३५ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथविरचितेऽमरपदपारिजाते दिग्वर्गः