०२ व्योमवर्गः

मूलम् - ०१.०२.००१

(०१.०२.००१अब्) द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
(०१.०२.००१च्द्) नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी ।

इति व्योमवर्गः

लिङ्ग-सूरी - AK.01.02.001

द्योदिवाविति—दीव्यतीति द्यौः । दिवि च । द्वे स्त्रियाम् । न भ्राजते अभ्रम् । ʻभ्राजृ दीप्तौ’ । विशेषेण अवति अवकाशदानेन व्योम । ʻअव रक्षणे । पुष्णातीति पुष्करम् । ʻपुष पुष्टौ’ । पुष्कमुदकं रातीति वा पुष्करम् । ʻरा दाने । अम्बते शब्दायते इत्यम्बरम् । ʻअबि शब्दे । मेधैर्न भातीति नभः । ʻभा दीप्तौ’ । अन्तः ऋक्षाणि यत्न अन्तरिक्षम् । द्यावापृथिव्योरन्तरीक्ष्यत इति वा । ʻईक्ष दर्शने । गच्छन्त्यत्र खगा इति गगनम् । ʻगम्लृ गतौ’ । न विद्यतेऽन्तो यस्य तदनन्तम् । सुराणां वर्त्म मार्गः सुरवर्त्म । खन्यते खम् । ʻखनु अवदारणे । वियच्छति न विरमतीति वियत् । ʻयम उपरमे । विष्णोः पदं विष्णुपदम् । आ समन्तात् काशन्ते सूर्यादयोऽत्र आकाशम् । न काशते वा । ʻकाशृ दीप्तौ’ । विजहाति सर्वं विहायः । विहायाश्च । ʻओहाक् त्यागे । ʻओहाङ् गतौ’ ॥ १ ॥

मल्लि-नाथः - AK.01.02.001

द्योदिवौ—सुरवर्त्म खम् । अन्तरिक्षमित्यत्र विशेषः । अमरवार्त्तिककारेण वर्णनिर्देशनायां दीर्घेकारान्तरिक्षशब्द इति प्रत्यपादि । अन्तरीक्ष्यते जगदत्रेत्यन्तरीक्षम् । द्यावापृथिव्योरन्तरीक्ष्यत इति वा । वेदे तु ह्रस्वेकारो दृश्यते । तत्रापि छान्दसमेव ह्रस्वत्वमिति । वियद् विष्णुपदं—विहायसी । वैजयन्त्यामदन्तविहायसशब्दः कथितः । ʻवायुवर्त्म विहायसम् इति (पृ। १७, श्लो। १) । आकाशनामानि ॥

ʻविहायसोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम् ।

तारापथोऽन्तरीक्षं च मेघद्वारं महाबिलम् ॥

एतानि च ॥ १ ॥

इति व्योमवर्गः

[[०१.०५१]]