०१ स्वर्गवर्गः

मूलम् - ०१.०१.००१

(०१.०१.००१अब्) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः ।
(०१.०१.००१च्द्) सेव्यतामक्षयो धीराः स श्रियै चामृताय च ॥ १ ॥

लिङ्ग-सूरी - AK.01.01.001

[[०१.००३]]

अमरपदविवृतिः लिङ्गयसूरिकृता

शिवं हरिं विधातारं तत्पत्नीस्तत्सुतान् गुरून् ।

नत्वा समस्तप्रत्यूहशान्तये मङ्गलाय च ॥

पदवाक्यप्रमाणज्ञैः क्षीरस्वाम्यादिसूरिभिः ।

कृतान् ग्रन्थान् समालोच्य बालानां सुखबुद्धये ॥

यत् कृतं सुरसिंहेन नामलिङ्गानुशासनम् ।

तत्रस्थायाः पदावल्या विवृतिर्वक्ष्यते मया ॥

यस्येति—हे धीराः विद्वांसः यस्य गुणाः अनघाः निर्मलाः स देवः श्रियै च अमृताय च मोक्षाय च सेव्यताम् आराध्यताम्, भुक्तिमुक्तिफलावाप्त्या इत्यर्थः । किंविशिष्टस्य ? ज्ञानं च दया च तयोः सिन्धुः तस्य ज्ञानदयासिन्धोः । अगाधस्य विषय लिप्साविरहितस्य । किंविधः ? अक्षयः क्षयरहितः । श्लोकोऽयं समुद्रपक्षेऽप्यूहनीयः । अस्य विष्णोः क्षयो निवासः अक्षयः ॥ १ ॥

मल्लि-नाथः - AK.01.01.001

अमरपदपारिजातः मल्लिनाथसूरिकृतः

आकण्ठपौरुषमतो वारणतां विघ्नवारणेनैव ।

प्रथितां बिभ्रदशेषत्रिदशोपास्यं परं महः सेवे ॥

उक्तानुक्तनिरुक्तचिन्तनफलां टीकां सुभूतेः परा-

मालोच्यामरभाष्यवार्त्तिकमुखान् ग्रन्थान् बहूनादरात् ।

व्याचक्षेऽमरसिंहनामकमहं श्रीवत्सगोत्रोद्भवो

बोल्लाटिन्मिनृसिंहसूरितनयः श्रीमल्लिनाथो मुदा ॥

इह खलु निखिलफणिपतिविततमतकमलनिलयकबलनकलशतनयः कविवरकरटिनिकरसिंहामरसिंहः प्रक्रम्यमाणनिबन्धनरत्नपरिपन्थिनिरन्तरान्तरायतिमिरपटलनियुतमिहिरसमानामभिनवाधिकृतदेवतोपासनामनेन निबध्नाति यस्येति—तत्र देवतायाः परममहत्त्वख्यापनार्थं समुद्रत्वमारोपितम् । तत् कथम् । यस्यागाधस्य मन्दरगिरिमूलकर्षणेनाकलुषितस्य ज्ञानदयासिन्धोः । क्षीरस्य सिन्धुः क्षीरसिन्धुरिति यावत् । ज्ञानदययोः सिन्धुः ज्ञानदयासिन्धुरिति आधाराधेयभावसम्बन्धेन । समस्त विषयकानुभवस्य सकलजगदुद्धारकदयायाश्चाधारभूतसिन्धोर्गुणा अलङ्घ्यत्वादयः । अनघाः तरुचरनिकरलङ्घितत्वादिदोषेणादूषिताः । अक्षयः कलशसुतकरतलाचुलुकितः । स शैवानां शिवः वैष्णवानां विष्णुः, जैनानां जिनः, बौद्धानां बुद्ध इति तत्तदधिदेवतापूर्वसिन्धुः । हे श्र्यमृतयोः । भवद्भिः सेव्यताम् । त्रिवर्गसम्पत्तेर्मोक्षस्य चाराध्यतामित्यर्थः । किं च । यस्यागाधस्य शेषवाचस्पतिप्रभृतिभिरपि वर्णितुमशक्यस्य । ज्ञानदया ज्ञानदानसम्पत्त्या । ज्ञानस्य दाः दानम् ईः सम्पत्तिः । तया ज्ञानदयेत्युपलक्षणतृतीयया उपलक्षितस्येत्यर्थः । सिन्धोर्गुणाः प्रसादमाधुर्यादयः । अनघाः पापरहिताः । अक्षयः सकलजनैरुम्भितोऽप्यक्षीणः । स विद्वज्जनाधिदेवतापूर्वसिन्धुः । धीराः श्रियै चामृताय च । सिन्धुर्लक्ष्मीसुधयोः सेव्यः । ʻएकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति (च्फ़्। महाभाष्य, ६.१.८४) इत्यागमात् । वाचस्तत्साध्यस्वर्गस्य च भवद्भिः सेव्यताम् ।

लक्ष्मीसरस्वतीधात्रीत्रिवर्गसम्पत्तिविभूतिशोभासु ।

उपकरणवेषरचनावसुधासु श्रीरिति प्रथिता ।

ʻअमृतं दिवि खे मोक्षे, ʻयज्ञशेषेऽमृताशने इत्युभयत्र व्याडिः । अनेन परब्रह्मशब्दब्रह्मणोरुपास्तिराचरिता ॥ १ ॥

मूलम् - ०१.०१.००२

(०१.०१.००२अब्) समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः ।
(०१.०१.००२च्द्) सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥

लिङ्ग-सूरी - AK.01.01.002

समाहृत्येति—अन्यतन्त्राणि निघण्ट्वन्तराणि समाहृत्य एकीकृत्य सङ्क्षिप्तैः सङ्कुचितैः प्रतिसंस्कृतैः पर्यायपदैः वर्गैः सजातीयसमूहैः साङ्गोपाङ्गशब्दसमूहैश्च नाम्नां वृक्षादिपर्यायाणां लिङ्गानां सत्रीपुन्नपुसकानाम् अनुशासनं शिक्षा सम्पूर्णं रूढपर्यायपरित्यागेनोच्यते ॥ २ ॥

मल्लि-नाथः - AK.01.01.002

शास्त्रप्रारम्भे विशिष्य प्रयोजनं प्रथयति—समाहृत्येत्—अन्यतन्त्राणि समाहृत्य कतिचिल्ल्ङ्गहीनानि कतिचिदसङ्क्षिप्तानि कानिचिदप्रतिसंस्कृतानि कानिचिद्वर्गहीनानि । तस्मादन्यतन्त्राण्येकीकृस्य । सङ्क्षिप्तैः स्तोकाद्भूयोऽभिधानं सङ्क्षेप इति लक्षणस्याश्रयैः प्रतिसंस्कृतैः असूक्तिपरिहारः प्रतिसंस्कार इति लक्षणस्य विषयैः वर्गैः सजातीयपदसमूहैः नामलिङ्गानुशासनमित्येतत्तन्त्रं सम्पूर्णं लिङ्गाद्यविकलं यथा तथोच्यते ॥ २ ॥

मूलम् - ०१.०१.००३

(०१.०१.००३अब्) प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।
(०१.०१.००३च्द्) स्त्रीपुन्नपुसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥

लिङ्ग-सूरी - AK.01.01.003

प्रायश इति—स्त्रीपुन्नपुसकं प्रायशः प्रायेण रूपभेदेन ज्ञेयम् । तद्यथा—ʻबुद्धिर्मनीषा धिषणा’ इति (१। ५। १) । कुत्रचित् साहचर्यात् ज्ञेयम् । तद्यथा—ʻतटित् सौदामिनी इति (१। ९। ३) । क्वचित् तेषां लिङ्गानां विशेषविधेः ज्ञेयम् । कथम् ? ʻभेरी स्त्री दुन्दुभिः पुमान् इति (१। ७। ६) । एवं लिङ्गत्रयेऽपि ऊहनीयम् ॥ ३ ॥

मल्लि-नाथः - AK.01.01.003

सङ्क्षेपप्रकारं प्रदर्शयति प्रायश इति—प्रायशः प्रचुरं रूपभेदेन नियतरूपेण, कुत्रचित् रूपभेदाप्रतीतस्थले साहचर्यात्, तद्विशेषविधेः क्वचित्, यत्र रूपभेदप्रतीतिर्नोदेति, यत्र साहयर्यं च न निमित्तं, यत्र साहचर्यलिङ्गापवादः, यत्रानेकलिङ्गत्वं, तत्र विशेषविधेः स्त्रीपुन्नपुंसकं ज्ञेयम् । रूपभेदस्योदाहरणम्—

ʻहरीतकी हैमवती रेचकी श्रेयसी शिवा’ (२। ४। ५९)

ʻउन्मत्तः कितवो धूर्तो दुत्तूरः काञ्चनाह्वयः’ । (२। ४। ७७)

ʻअभयं नलदं सेव्यममृणालं जलाशयम् । (२। ४। १६४)

इत्यादि । साहचर्यस्योदाहरणम्—ʻस्याद्वितर्दिस्तु वेदिका’ (२। २। १६) । ʻपञ्चशाखः शयः पाणिः’ (२। ६। ८१) । ʻविष्टपं भुवनं जगत् (२। १। ६) । चशब्दः प्रत्ययाद्युपलक्षणार्थम् । ʻविभूतिर्भूतिरैश्वर्यम् (१। १। ३९) इत्यत्र प्रत्ययो लिङ्गस्य गमको भवति । ʻपुञ्जराशी तूत्करः कूटमस्त्रियाम् (२। ५। ४२) इत्यत्र समासो लिङ्गस्य गमको भवति । विशेषविधेरुदाहरणम्—ʻचञ्चुस्त्रोटिरुभे स्त्रियाम् (२। ५। ३६) । ʻस्त्रियः सुमनसः पुष्पम् (२। ४। १७) ʻखनिः स्त्रियामाकरः स्यात् (२। ४। ७) । ʻकिरीटं पुन्नपुंसकम् (२। ६। १०२) ॥ ३ ॥

[[०१.००४]]

मूलम् - ०१.०१.००४

(०१.०१.००४अब्) भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।
(०१.०१.००४च्द्) कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥

लिङ्ग-सूरी - AK.01.01.004

भेदाख्यानायेति—अत्र ग्रन्थे भिन्नलिङ्गानां पदानाम अनुक्तानां क्रमात् ऋते भेदाख्यानाय द्वन्द्वो न कृतः । एकशेषः एकशेषसमासो न कृतः । सङ्करश्च न कृतः । तद्यथा—ʻउखा कुण्डम् इत्युक्तम् (२। ९। ३१) । न तु ʻउखाकुण्डे इति । एकशेषो यथा—ʻनभः खं श्रावणो नभाः’ (३। ३। २३२) न तु ʻखश्रावणौ नभः खम् इति । सङ्करो यथा—ʻस्तवः स्तोत्रं स्तुतिर्नुतिः’ इति (१। ६। ११) । न तु ʻस्तुतिः स्तोत्रं स्तवो नुतिः’ इति । सङ्करो नाम साहचर्यम् । भिन्नलिङ्गानां नानालिङ्गानाम् अनुक्तानाम् अन्यत्रानुक्तानाम् । क्रमादृते । भिन्नवाक्यानां क्रमेणैव अनुशासनं करोमि, क्रमं विना न करोमीत्यर्थः ॥ ४ ॥

मल्लि-नाथः - AK.01.01.004

प्रतिसंस्कारप्रकारं दर्शयति भेदाख्यानायेति—अत्र शास्त्रऽनुक्तानां भिन्नलिङ्गानां पदानां क्रमादृते क्रमं विना भेदाख्यानाय भेदप्रतिपत्तिनिमित्तार्थं न द्वन्द्वः कृतः । नैकशेषः । एकशेषोऽपि न कृतः । सङ्करश्च न कृतः । केवलं क्रम एव कृत इत्यर्थः । द्वन्द्वप्रतिषेधस्य—ʻरेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः’ (२। ८। ९८) । अत्र पार्थक्यमेव क्रमशब्दार्थः । एकशेषप्रतिषेधस्य—ʻनाली नालं च काण्डोऽस्य्ö (२। ९। २२) इत्यादि । अत्र सर्वपदोक्तिरेव क्रमशब्दार्थः । सङ्करप्रतिषेधस्य—ʻस्तवः स्तोत्रं स्तुतिर्नुतिः’ (१। ६। ११) । अत्र विभाग एव क्रमशब्दार्थः । भेदप्रतीतिस्थले सङ्करो न दोषाय । ʻअलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् (२। ६। १०१) । अत्र भिन्नलिङ्गानामित्यनेन अभिन्नलिङ्गानामुदारहणान्युक्तान्येव । द्वन्द्वस्य—ʻगृहं गेहोदवसितं वेश्म सद्म निकेतनम् (२। २। ४) । ʻनिकाय्यनिलयालयाः’ (२। २। ५) । एकशेषस्य—ʻनासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ’ (१। १। ५१) । अनुक्तानामित्यनेन उक्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । ʻतमालपत्रतिलकचित्रकाणि विशेषकम् (२। ६। १२३) इत्यत्र ʻद्वितीयं च तुरीयं च न स्त्रियाम् (२। ६। १२३) इति लिङ्गमुक्तम् । ʻधर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ (३। ३। १३९) इत्यत्र ʻस्याद्धर्मस्त्रियां पुण्यश्रेयसी (२। ४। २४) इत्यत्र लिङ्गमुक्तम् । ʻपद्माकरस्तटाकोऽस्त्री कासारः सरसी सरः’ (१। १२। २८) । अत्र तटाकोऽस्त्रीति लिङ्गमुक्तम् ॥ ४ ॥

[[०१.००५]]

मूलम् - ०१.०१.००५

(०१.०१.००५अब्) त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।
(०१.०१.००५च्द्) निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥

लिङ्ग-सूरी - AK.03.01.005

त्रिल्ङ्ग्यामिति—त्रिष्विति प्रयुक्ते लिङ्गत्रयं ज्ञेयम् । यथा ʻतटं त्रिषु’ इति (१। ९। ७) । द्वयोरित्युक्ते स्त्रीपंलिङ्गे ज्ञेये । यथा—ʻरेणुर्द्वयोः’ इति (२। ८। ९८) । एकलिङ्गनिषेधे अवशिष्टलिङ्गं ज्ञेयम् । यथा—ʻविमानोऽस्त्री इति (१। १। ४९) । तु शब्दोऽन्ते यस्य तत् त्वन्तम्, अथशब्दः आदिः यस्य तत् अथादि, त्वन्तं च अथादि च पदं पूर्वपदार्थं न भवति शास्त्रेषु ॥ ५ ॥

मल्लि-नाथः - AK.01.01.005

तरणिरहितपारावार इव परिभाषारहितं शास्त्रं दुस्तरमिति परिभाषां निरूपयति त्रिलिङ्ग्यामिति—त्रिष्विति प्रयुक्ते त्रिलिङ्गे कृतविवक्षा ज्ञेया । ʻसरन्ध्रे सुषिरं त्रिषु’ (१। ९। २) । द्वयोरित्युक्ते स्त्रीपुंलिङ्गे ज्ञेये । यथा ʻवह्नेर्द्वयोर्ज्वालकीलौ’ (१। १। ५७) । यद्यपि द्विशब्दः सङ्ख्येयसामान्यवर्ती तथापि वक्तृविवक्षापूर्विका शब्दप्रवृत्तिरिति विवक्षावशात् प्रकृते सङ्ख्येयविशेषवर्ती । तस्माद् ʻद्विहीनं प्रसवे सर्वम् (२। ४। १८) इत्यादौ मिथुनार्थप्रतीतिकरो भवति । ʻअर्धरात्रनिशीथौ द्वौ’ (१। ४। ६) इत्यत्र सङ्ख्याविशेषस्य श्रूयमाणत्वादतिप्रसङ्गस्यावकाशो नास्ति । निषिद्धलिङ्गं शेषार्थम् । निषिद्धलिङ्गं पदं पारिशेष्यानिषिद्धलिङ्गार्थं स्यात् । यथा ʻअस्त्रियामाढकद्रोणौ’ (२। ९। ८८) । अत्र शेषत्वं पुन्नपुंसकयोरेव । आढकः, आढकम् । द्रोणः, द्रोणम् । त्वन्ताथादि न पूर्वभाक् । तुशब्दान्तम् अथशब्दादि पदं पूर्वभाङ्न भवति । त्वन्तस्य—ʻप्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः’ (२। १। ७) । ʻप्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः’ (२। ६। ५५) । एवं दण्डापूपन्यायादुदाहरणान्तराणयपि द्रष्टव्यानि । ʻस्यात्तेमनं तु निष्ठानम् (२। ९। ४४) इत्यादौ स्यादादिप्रयोगः । अथादेः—ʻअम्बा माताथ बाला स्याद्वासूः’ (१। ८। १४), ʻभार्या जायाथ पुम्भूम्नि दाराः’ (२। ६। ६) । अर्थग्रहणाद् ʻअनुक्रोशोऽप्यथो हसः’ (१। ८। १८) इत्यादौ अथोशब्दप्रयोगः । इतः परं स्वर्गादिक्रमेण शास्त्रमवतारयति । अत्र शेषपूरणं विशेषाभिधानं टीकाप्रयोजनम् ॥ ५ ॥

[[०१.००६]]

मूलम् - ०१.०१.००६

(०१.०१.००६अब्) स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।
(०१.०१.००६च्द्) सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥

लिङ्ग-सूरी - AK.01.01.006

स्वरिति—स्वर्यते स्वः, ʻस्वृ शब्दोपतापयोः’ । स्वः सुखं गम्यते इति स्वर्गः । ʻगम्लृ गतौ’ । सुष्ठु अर्ज्यते इति वा । ʻअर्ज सर्ज अर्जने । न विद्यते अकम् अमुखम् अत्रेति नाकः । तृतीयश्चासौ दिवश्च त्रिदिवः । त्रिदशानाम् आलयः त्रिदशालयः । सुराणां लोकः सुरलोकः । दीव्यन्त्यस्यामिति द्यौः, द्यौश्च । ʻदिवु क्रीडाविजिगीषाद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ । इमावोकारान्तवकारान्तौ स्त्रीलिङ्गौ । तृतीयं च तद् विष्टपं च त्रिविष्टपम् । एतानि स्वर्गनामानि ॥ ६ ॥

मल्लि-नाथः - AK.01.01.006

स्वरव्ययं—त्रिविष्टपम् । एतानि स्वर्गनामानि । अत्र स्वःशब्दोऽव्ययः । स्वः पुण्यलोकः । ʻस्वर्जयति काशी । स्वर्गशब्दसाहचर्यात् स्वःशब्दस्य पुंस्त्वे प्राप्तेऽव्ययवचनाद् अलिङ्गत्वम् । ʻसदृशं त्रिषु लिङ्गेषु’ इति विधीयते । तत्स्वरूपे शृङ्गारप्रकाशिका—ʻइयमयमिदमित्यर्थसञ्ज्ञाव्यपदेशनिमित्तं शब्दसंस्कारहेतुः शब्दधर्मो लिङ्गं स्त्री पुमान् नपुंसकमिति (च्फ़्। पृ। १८३) । टाबादिशब्दसंस्कारहेतुरियंव्यपदेशकारणं स्त्री । ʻतस्माच्छसो नः पुंसि (६। १। १०३) इत्यादिशब्दसंस्कारहेतुरयमित्यर्थव्यपदेशकारणं पुमान् । ʻइकोऽचि विभक्तौ’ (७। १। ७३) इत्यादिशब्दसंस्कारहेतुरयमित्यर्थव्यपदेशकारणं नपुंसकम् । तदेतल्लिङ्गं षोढा । शुद्धं मिश्रं सङ्कीर्णम् उपसर्जनम् आविष्टम् अव्यक्तं चेति । तेष्वेकसंस्कारहेतुः शुद्धम्—खट्वा वृक्षः कुण्डं स्त्री पुमान् नपुंसकमित्यादि । संस्कारद्वयोपग्राहि सङ्कीर्णम् । तटी तटः तटं, शृङ्खला शृङ्खलः शृङ्खलम् । विशेष्यशब्दसंस्कारग्राहि विशेषणरूपमुपसर्जनम् । शुक्ला शुक्लः शुक्लम् । विशेषणत्वेऽपि नियतसंस्कारमाविष्टम् । प्रीतिर्विषयः प्रधानं भार्या दाराः कलत्रम् । लिङ्गनिमित्तशब्दसंस्कारानर्हमव्यक्तम् । पञ्च षट् कति उच्चैः नीचैः यूयं वयमित्यादि । स्वर्गादयः पञ्च रूपभेदात् पुंलिङ्गाः । वैजयन्त्यां (पृ। ३, श्लो। २) तु त्रिदिवशब्दः पुन्नपुंसक इति कथितः । ʻअमर्त्यभवनं ना च त्रिदिवं स्यात् स्वरव्ययम् इति । द्योदिवौ शब्दौ स्त्रीरूपभेदाभावाल्लिङ्गप्रतीत्यविषयौ । अतः स्त्रियामिति विशेषविधिः । अकारान्तदिवशब्दोऽप्यस्ति ।

ʻस्वर्लोकस्तूर्ध्वलोकः स्यादवरोहः फलोदयः ।

मन्दरः सैरिकः शक्रभवनं खं दिवं नभः ॥

इति त्रिकाण्डशेषः (पृ। १, श्लो। ४) । त्रिविष्टशब्दो नपुंसकः । विष्टपशब्दापेक्षया प्राप्तपुन्नपुंसकत्वप्रतिषेधार्थं क्लीबवचनम् । यदाह कैयटः—क्लीबग्रहणं नित्यज्ञापनाथमिति ॥ ६ ॥

[[०१.००७]]

मूलम् - ०१.०१.००७

(०१.०१.००७अब्) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
(०१.०१.००७च्द्) सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥

लिङ्ग-सूरी - AK.01.01.007

अमरा इति—अमराः, न म्रियन्ते इत्यमराः । ʻमृङ् प्राणत्यागे । न विद्यते जरा येषां ते निर्जराः । ʻजॄष् वयोहानौ’ । दीव्यन्तीति देवाः । ʻदिवु क्रीडादौ’ । त्रिदशपरिमाणं वयो येषामिति त्रिदशाः । विबुध्यन्ते इति विबुधाः । ʻबुध अवगमने । सुरन्तीति सुराः । ʻसुर ऐश्वर्ये । सुष्ठु राजन्ते वा । ʻराजृ दीप्तौ’ । भक्त्या दत्तं सुष्ठु रान्तीति वा । ʻरा आदाने । शुभं रान्तीति वा । ʻरा दाने । अब्धिजा सुरा येषामस्तीति वा । सुष्ठु वाञ्छितफलं रान्तीति वा । ʻरा दाने । सुष्ठु पृणन्ति पालयन्तीति सुपर्वाणः । ʻपॄ पालनपूरणयोः’ । शोभनं पर्व आचरितमेषामिति वा । सुष्ठु मन्यन्ते सुमनसः । ʻमन ज्ञाने । शोभनचित्तत्वाद्वा । त्रिदिवस्य ईशाः त्रिदिवेशाः । द्यौः ओकः स्थानमेषां ते दिवौकसः ॥ ७ ॥

मल्लि-नाथः - AK.01.01.007

अमरा—अमृतान्धसः । सर्वत्र स्वरपरत्वाद्धल्परत्वाच्च ʻलोपः शाकल्यस्य्ö इति (८। ३.२९) ʻहलि सर्वेषाम् इति (८। ३। २२) द्वाभ्यां यलोपः ॥ ७ ॥

[[०१.००८]]

मूलम् - ०१.०१.००८

(०१.०१.००८अब्) आदितेया दिविषदो लेखा अदितिनन्दनाः ।
(०१.०१.००८च्द्) आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥

लिङ्ग-सूरी - AK.01.01.008

आदितेया इति—अदितेः अपत्यानि आदितेयाः । दिवि सीदन्तीति दिविषदः । ʻषद्लृ विशरणगत्यवसादनेषु’ । लिख्यन्ते पटादौ लेखाः । ʻलिख लेखने । प्राणिनां शुभाशुभानि लिखन्तीति वा । ʻलिख अक्षरविन्यासे । अदितेः नन्दनाः अदितिनन्दनाः । अदितिं नन्दयन्तीति वा । अदितेः पुत्राः आदित्याः । ऋते सत्ये भवन्तीति ऋभवः ऋ स्वर्गे भवन्तीति वा ऋभवः । ऋशब्दो नीतिवाची । तस्माद् भवन्तीति वा । न विद्यते स्वप्नो येषां ते अस्वप्नाः । मर्त्यादन्ये अमर्त्याः । न म्रियन्ते इति वा अमर्त्याः । अमृतम् अन्धो ऽन्नं येषां ते अमृतान्धसः ॥ ८ ॥

[[०१.००९]]

मूलम् - ०१.०१.००९

(०१.०१.००९अब्) बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
(०१.०१.००९च्द्) वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥

लिङ्ग-सूरी - AK.01.01.009

बर्हिरिति—बर्हिः अग्निः मुखं येषां ते बर्हिर्मुखाः । क्रतौ भुञ्जते इति क्रतुभुजः । ʻभुज पालनाभ्यवहारयोः’ । गिरं वणन्ति व्याकुर्वन्तीति गीर्वाणाः । ʻवण क्वण शब्दे । गीः वाणो येषामिति वा । गिरं वनन्तीति वा । ʻवन सम्भक्तौ शब्दे च्ö । दानवानाम् अरयः दानवारयः । शोभनं वृन्दं येषामस्तीति वृन्दारकाः । देवता एव दैवतानि । इति सामान्यतो देवतानामानि ॥ ९ ॥

मल्लि-नाथः - AK.01.01.009

बर्हिर्मुखाः—स्त्रियाम् । देवनामानि । ʻनिलिम्पाः स्वर्गिणः सेन्द्रा दिविजा द्विदशा बुधाः’ इत्येतानि च । जातिशब्देन जात्याश्रिता व्यक्तिरभिधीयत इति तद्व्यक्तीनां बहुत्वाद् बहुवचननिर्देशः ॥ ९ ॥

मूलम् - ०१.०१.०१०

(०१.०१.०१०अब्) आदित्यविश्ववसवस्तुषिताभास्वरानिलाः ।
(०१.०१.०१०च्द्) महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥

लिङ्ग-सूरी - AK.01.01.010

आदित्येति—आदित्याः आदित्यसङ्घेन वृत्ताः गणदेवताः, ते द्वादश । श्राद्धादौ अग्रे उपविशन्तीति विश्वे । ʻविश प्रवेशने । ते त्रयोदश । आहूता वसन्तीति वसवः । ʻवस निवासे । ते अष्टौ । तुष्यन्तीति तुषिताः । ʻतुष तुष्टौ’ । ते षट्त्रिंशत् । आभासन्ते इति आभास्वराः । ʻभासृ दीप्तौ’ । ते चतुःषष्टिः । यैः अनन्ति सञ्चरन्ते प्राणिनः ते अनिलाः । ʻअन प्राणने । इलायां न चरन्तीति वा । ते एकोनपञ्चाशत् । महाराजशब्दो येषामस्तीति महाराजिकाः । ते षट्त्रिशद् द्वे शते । साध्यन्ते आराध्यन्ते इति साध्याः । ʻराध साध संसिद्धौ’ । ते द्वादश । रोदयन्ति दुष्टान् इति रुद्राः । ʻरुदिर् अश्रुविमोचने । रुतं दुःखं द्रावयन्तीति वा रुद्राः । ʻद्रा कुत्सायां गतौ’ । रुतं वेदात्मकं शब्दं कल्पादौ द्रावयन्तीति वा रुद्राः । ते एकादश । एतानि समूहदेवतानामानि ॥ १० ॥

मल्लि-नाथः - AK.01.01.010

आदित्य—गणदेवताः । आदित्यादयो देवताः ।

ʻतत्रादित्या द्वादश स्युर्विश्वेदेवास्त्रयोदश ।

वसवश्चाष्ट सङ्ख्याताः षट्त्रिंशत् तुषिताः स्मृताः ।

आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ॥

महाराजिकनामानो द्वे शते विंशतिस्तथा ।

साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः’ ॥

ʻतत्र द्वादश नग्नाख्या इति पाठान्तरम् इति सुबोधिन्यामुक्तम् । एवं पुराणवचनैस्तत्सङ्ख्यानामानि ज्ञातव्यानि । विश्वे इति पाठसामर्थ्यात् सर्वनामकार्यमनिषिद्धम् ॥ १० ॥

[[०१.००१०]]

मूलम् - ०१.०१.०११

(०१.०१.०११अब्) विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
(०१.०१.०११च्द्) पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥

लिङ्ग-सूरी - AK.01.01.011

विद्याधर इति—गुलिकाञ्जनादिविद्यां धारयन्तीति विद्याधराः । ʻडुधाञ् धारणपोषणयोः’ । एते जीमूतवाहनपुष्पदन्तप्रभृतयः । अद्भ्यः सरसः निर्गताः अप्सरसः । सृ गतौ । अथवा आप्यन्ते पुण्यकृद्भिरिति । ʻआप्लृ व्याप्तौ’ । ताः उर्वशीमुखाः । यक्ष्यन्ते इति यक्षाः । ʻयक्ष पूजायाम् । ते कुबेरादयः । यज्ञेभ्यो रक्ष्यन्त इति रक्षांसि । ʻरक्ष पालने । तानि च रावणादीनि । गानं धारयन्तीति गन्धर्वाः । ते हाहाहूहूप्रभृतयः । किञ्चिन्नराः किन्नराः । ते अश्वमुखादयः । पिशितं मांसमश्नन्तीति पिशाचाः । ʻअश भोजने । ते कामचारिणः निधिं गूहन्तीति गुह्यकाः । ʻगुहू संवरणे । ते मणिभद्रादयः । अणिमादिसिद्धिः एषामस्तीति सिद्धाः । सिध्यन्तीति वा । ते विश्वावसुप्रभृतयः । भवन्तीति भूताः । ʻभू सत्तायाम् ते बालग्रहादयः । एतानि देवोद्भवदेवतानामानि ॥ ११ ॥

मल्लि-नाथः - AK.01.01.011

विद्याधरो—देवयोनयः । विद्याधरादयो देवयोनिपदवाच्याः । विद्याधरपिशाचगुह्यकसिद्धभूताः पञ्चानुक्ताः । तस्माद् व्यासविधिः । अप्सरोयक्षरक्षोगन्धर्वकिन्नरशब्दाः पञ्च उक्ताः । तस्मात् समासविधिः । ईदृशः प्रत्ययः सुभूतिटीकापरिश्रमशालिनां सुगमः ॥ ११ ॥

[[०१.०११]]

मूलम् - ०१.०१.०१२

(०१.०१.०१२अब्) असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।
(०१.०१.०१२च्द्) शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥

लिङ्ग-सूरी - AK.01.01.012

असुरा इति—यज्ञभागान् निरस्यन्तीति असुराः । असून् अस्यन्ति इति वा असुराः । ʻअसु क्षेपणे । सुरेभ्योऽन्ये वा । असुना रात्रौ सृष्टा वा । असून् रान्तीति वा । ʻरा आदाने । दितेः पुत्राः दैत्याः दैतेयाश्च । दनोर्जाता दनुजाः दानवाश्च । इन्द्रस्य अरयः इन्द्रारयः । शुक्रस्य शिष्याः शुक्रशिष्याः । दितेः सुताः दितिसुताः । पूर्वान् इन्द्रादीन् दीव्यन्ति विजिगीषन्त इति पूर्वदेवाः । अथवा पूर्वे देवा वा । सुरान् द्विषन्तीति सुरद्विषः । ʻद्विष अप्रीतौ’ । एतानि असुरनामानि ॥ १२ ॥

मल्लि-नाथः - AK.01.01.012

असुरा—सुरद्विषः । असुरनामानि ॥ दैत्यानां दानवानां च मातृभेदाद् भेदे सत्यपि असुराविशेषत्वादभेदः । ʻहिरण्याख्यं दानवमिव दंष्ट्राविभिन्नवक्षःस्थलमिति हिरण्याख्यदैत्ये दानवशब्दप्रयोगः । ʻइतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् (कु। सं। २। ५५) इति तारकाख्यदानवे दैत्यशब्दप्रयोगः ॥ १२ ॥

[[०१.०१२]]

मूलम् - ०१.०१.०१३

(०१.०१.०१३अब्) सर्वज्ञः सुगतो वुद्धो धर्मराजस्तथागतः ।
अक्।०१.०१.०१३च्द् समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥

लिङ्ग-सूरी - AK.01.01.013

सर्वज्ञ इति—सर्वं जानातीति सर्वज्ञः । ʻज्ञा अवबोधने । शोभनं गतं ज्ञानम् अस्येति सुगतः । ये गत्यर्थास्ते ज्ञानार्था इति । सर्वं क्षणिकमिति आच्छिनत्ति वा । बुध्यते इति बुद्धः । ʻबुध अवगमने । धर्मस्य संसारोद्धरणादेः राजा धर्मराजः । तथा सत्यं गतं भूतं ज्ञानमस्य तथागतः । समन्ताद् भद्रं मङ्गलमस्येति समन्तभद्रः ।

ʻऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥

इति । सोऽस्यास्तीति भगवान् । मारं कामं जयतीति मारजित् । मारान् कामक्रोधादीन् जयतीति वा । स्कन्धमारक्लेशमारादीन् जयतीति वा । लोकान् जयतीति लोकजित् । भवं जयतीति जिनः । ʻजि अभिभवे । त्रयाणामपि ʻजि जये इति वा धातुः ॥ १३ ॥

मूलम् - ०१.०१.०१४

अक्।०१.०१.०१४अब् षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।
अक्।०१.०१.०१४च्द् मुनीन्द्रः श्रीधनः शास्ता मुनिः, शाक्यमुनिस्तु यः ॥ १४ ॥

लिङ्ग-सूरी - AK.01.01.014

षडभिज्ञ इति—दिव्यं चक्षुः, दिव्यं श्रोत्रं, पूर्वनिवासानुस्मृतिः, परचित्ततत्त्वज्ञानम्, आश्रवक्षयः, ऋद्धिश्चेति षड् अभिज्ञा यस्य सः षडभिज्ञः । दान्तिक्षान्तिशीलवीर्यध्यान कान्ति बलोपाय प्रणिधिविज्ञानानि दश बलानि यस्य स दशबलः । अद्वयम् अभेदं विज्ञानाद्वैतं वदतीत्यद्वयवादी । ʻवद व्यक्तायां वाचि । विनयति शिक्षयति इति विनायकः । ʻणीञ् प्रापणे । मुनीनामिन्द्रः मुनीन्द्रः । श्रिया योगविभूत्या घनः निरन्तरः श्रीघनः । शास्तीति शास्ता । ʻशासु अनुशिष्टौ’ । मनुते इति मुनिः । ʻमनु अवबोधने । एतानि बुद्धनामानि ॥ शकदेशेषु जातो मुनिः शाक्यमुनिः ॥ १४ ॥

मल्लि-नाथः - AK.01.01.014

सर्वज्ञः—जिनः । षडभिज्ञो—मुनिः । बुद्धनामानि ॥

[[०१.०१३]]

मूलम् - ०१.०१.०१५

अक्।०१.०१.०१५अब् स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।
अक्।०१.०१.०१५च्द् गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥

लिङ्ग-सूरी - AK.01.01.015

स इति—शकेषु श्रेष्ठः शाक्यसिंहः । सर्वार्थेषु सिद्धः सर्वार्थसिद्धः । शुद्धोदनस्य अपत्यं पुमान् शौद्धोदनिः । स च गोतमस्यापत्यं पुमान् गौतमः । गौतमगोत्राद्वा । अर्कवंशजत्वात् अर्कबन्धुः । मायादेव्याः सुतः मायादेवीसुतः । एतानि शकदेशबुद्धनामानि ॥ १५ ॥

मल्लि-नाथः - AK.01.01.015

शाक्यमुनिस्तु यः—मायादेवीसुतश्च सः । शाक्यसिंह इत्यभिधानबुद्धनामानि । अनुक्तम्—ʻसर्वज्ञो वीतरागोऽर्हन् जिनः स्यात्कारभूषणः’ ॥ १५ ॥

मूलम् - ०१.०१.०१६

अक्।०१.०१.०१६अब् ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।
अक्।०१.०१.०१६च्द् हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥

लिङ्ग-सूरी - AK.01.01.016

ब्रह्मेति—बृहति ब्रह्मा । ʻबृह बृहि वृद्धौ’ । आत्मना भवतीति आत्मभूः । ʻभू सत्तायाम् । सुरश्चासौ ज्येष्ठश्च सुरज्येष्ठः । सुराणां ज्येष्ठो सुरज्येष्ठः । परमे ब्रह्मलोकाख्ये स्थाने तिष्ठतीति परमेष्ठी । ʻष्ठा गतिनिवृत्तौ’ । अग्निष्वात्तादिपितॄणां पिता पितामहः । हिरण्यं गर्भे यस्य सः हिरण्यगर्भः । लोकानाम ईशः लोकेशः । स्वयं भवतीति स्वयम्भूः । चत्वारि आननानि यस्य सः चतुराननः ॥ १६ ॥

[[०१.०१४]]

मूलम् - ०१.०१.०१७

अक्।०१.०१.०१७अब् धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।
अक्।०१.०१.०१७च्द् स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः ॥ १७ ॥

लिङ्ग-सूरी - AK.01.01.017

धातेति—धत्ते धाता । ʻडुधाञ् धारणपोषणयोः’ । अब्जं योनिः यस्य सः अब्जयोनिः । द्रुह्यति असुरेभ्यो द्रुहिणः । ʻद्रुह जिघांसायाम् । विरिणक्तीति विरिञ्चिः । ʻरिचिर् विरेचने । ʻविचिर् पृथग्भावे । विभिः हंसै रिच्यते उह्यते विरिञ्चः इति वा पाठः । कमलम् आसनं यस्य सः कमलासनः । सृजतीति स्रष्टा । प्रजानां पतिः प्रजापतिः । विदधाति करोतीति वेधाः । विधत्त इति विधाता । विश्वं सृजतीति विश्वसृट् । ʻसृज विसर्गे । विधति विधत्त इति विधिः । ʻविध विधाने । एतानि ब्रह्मणो नामधेयानि ॥ १७ ॥

मल्लि-नाथः - AK.01.01.017

ब्रह्मात्मभूः—विधिः । ब्रह्मणो नामानि । अनुक्तम्—

ʻशतानन्दः शतधृतिः प्रजासृट् सर्वतोमुखः ।

विश्वात्मा विश्वरेताश्च विखना नाभीजोऽब्जजः ।

अब्जगर्भश्च वागीशः प्राणदो हंसवाहनः ॥

एतानि च । सुभूतिना विश्वसृग् विधिरिति प्रत्यपादि । ʻकिन्प्रत्ययस्य्ö (८। २। ६२) इति कुत्वमिति । ये तु क्विन्नन्तत्वं नेच्छन्ति तन्मते ʻव्रश्चादिना’ (८। २। ३६) षत्वमिति रभसकोशकारेण तदपाठि ʻविरिञ्चो विश्वसृट् स्रष्टा विरिञ्चिः कमलासनः’ इति ॥ १६-१७ ॥

[[०१.०१५]]

मूलम् - ०१.०१.०१८

अक्।०१.०१.०१८अब् विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।
अक्।०१.०१.०१८च्द् दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥

लिङ्ग-सूरी - AK.01.01.018

विष्णुरिति—वेवेष्टीति विष्णुः । ʻविष्लृ व्याप्तौ’ । नरस्य धर्माख्यस्य ऋषेरपत्यं नारायणः । नरस्येदं नारम् अयनम् वपुः अवतारेषु यस्येति वा नारायणः । नारं नरसमूहम् अयति स्वकर्मणेति वा । ʻअय पय गतौ’ । नाराः आपः अयनं स्थानं यस्येति वा । राः शब्दाः आयान्ति निर्गच्छन्ति यस्मात् सः रायणः । रायणादन्यः अरायणः, न अरायणः नारायणः । अशब्दगम्य इत्यर्थः । करोतीति कृष्णः । ʻडुकृञ् करणे । दैत्यान् कर्पतीति वा । ʻकृष विलेखने । कृष्णवर्णत्वाद्वा । विकुण्ठाया अपत्यं पुमान् वैकुण्ठः । विष्टराकारे श्रोत्रे यस्य सः विष्टरश्रवाः । विष्टराकारो रोमावर्तो श्रवसि यस्येति वा । विष्टरं व्यापनशीलं श्रवः कीर्तिर्यस्येति वा । दाम उदरे यस्य स दामोदरः । हृषीकाणाम् इन्द्रियाणाम् ईशः हृषीकेशः । शोभनाः केशा यस्य सः केशवः । कश्च अश्च ईशश्च केशाः ब्रह्मविष्णुरुद्राः, ते अस्मिन् वसन्तीति वा केशवः । मधोरपत्यं पुमान् माधवः । मायाः लक्ष्म्याः धवो वा । मा धूयते शत्रुभिरिति वा । ʻधूञ् कम्पने । मधोरयं हन्ता वा । वध्यघातुकत्वं सम्बन्धः । स्वतो भवतीति स्वभूः । स्वेन हिरण्येन भवतीति वा स्वभूः ॥ १८ ॥

मूलम् - ०१.०१.०१९

अक्।०१.०१.०१९अब् दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।
अक्।०१.०१.०१९च्द् पीताम्बरोऽच्युतः सार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥

लिङ्ग-सूरी - AK.01.01.019

दैत्यारिरिति—दैत्यानाम् अरिः दैत्यारिः । पुण्डरीके इव अक्षिणी यस्य सः पुण्डरीकाक्षः । पुण्डरीकं हृत्कमलम् अक्षतीति वा । ʻअक्षू व्याप्तौ’ । गां भुवं विन्दतीति गोविन्दः । गाः धेनूः विन्दतीति वा । ʻविदिर् लाभे । गरुडः ध्वजे यस्य सः गरुडध्वजः । पीतम् अम्बरं यस्य सः पीताम्बरः । न विद्यते च्युतिः यस्य सः अच्युतः । ʻच्युतिर् क्षरणे । शृङ्गविकारः शार्ङ्गं धनुः अस्यास्तीति शार्ङ्गी । विष्वक् विषूची सर्वगता सेना यस्य सः विष्वक्सेनः । जनान् अर्दयति सुखयतीति जनार्दनः । ʻअर्द गतौ याचने पीडने च्ö ॥ १९ ॥

[[०१.०१६]]

मूलम् - ०१.०१.०२०

अक्।०१.०१.०२०अब् उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।
अक्।०१.०१.०२०च्द् पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥

लिङ्ग-सूरी - AK.01.01.020

उपेन्द्र इति—इन्द्रम् अनु जातः उपगतः उपेन्द्रः । इन्द्रस्य अवरजः इन्द्रावरजः । चक्रं पाणौ यस्य सः चक्रपाणिः । चत्वारो भुजा यस्य सः चतुर्भुजः । पद्मं नाभौ यस्य सः पद्मनाभः । मधोः रिपुः मधुरिपुः । वसुदेवस्य अपत्यं पुमान् वासुदेवः । त्रयो लोका विक्रमेषु पदेषु यस्य सः त्रिविक्रमः । त्रीन् लोकान् विक्रमत इति वा । ʻक्रमु पादविक्षेपे । त्रिषु लोकेषु विना गरुडेन क्रमते त्रिविक्रम इति वा ॥ २० ॥

मूलम् - ०१.०१.०२१

अक्।०१.०१.०२१अब् देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।
अक्।०१.०१.०२१च्द् वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥

लिङ्ग-सूरी - AK.01.01.021

देवकीति—देवक्या नन्दनः देवकीनन्दनः । शूरस्य वसुदेवस्य अपत्यं शौरिः । श्रियः पतिः श्रीपतिः । पुरुषाणां पुरुषेषु वा उत्तमः पुरुषोत्तमः । वनमाला अस्यास्तीति वनमाली । बलिं ध्वंसयतीति बलिध्वंसी । ʻध्वंसु अवस्रंसने । कंसस्यारातिः कंसारातिः । अक्षम् इन्द्रियम् अधः कृतं यैस्ते अधोक्षाः, दशरथवसुदेवादयः । तेभ्यो जातः अधोक्षजः । अक्षजम् इन्द्रियजन्यज्ञानम् अधः कृतं येनेति वा ॥ २१ ॥

[[०१.०१७]]

मूलम् - ०१.०१.०२२

अक्।०१.०१.०२२अब् विश्वम्भरः कैटभजिद् विधुः श्रीवत्सलाञ्छनः ।
अक्।०१.०१.०२२च्द् (गदाग्रजो मुञ्जकेशो दाशार्हो दशरूपभृत्) ॥ २२ ॥

लिङ्ग-सूरी - AK.01.01.022

विश्वम्भर इति—विश्वं बिभर्तीति विश्वम्भरः । ʻभृञ् भरणे पोषणे च्ö । कैटभं जयतीति कैटभजित् । ʻजि अभिभवे । विदधातीति विधुः । ʻडुधाञ् धारणपोषणयोः’ । श्रीवत्साख्यो रोमावर्तो लाञ्छनं यस्य सः श्रीवत्सलाञ्छनः । एतानि विष्णुनामानि (गदाग्रजो मुञ्जकेशो दाशार्हो दशरूपभृत् एतानि विष्णुनामानि) ॥ २२ ॥

मल्लि-नाथः - AK.01.01.022

विष्णुः—श्रीवत्सलाञ्छनः ॥ विष्णुनामानि । अनुक्तम्—

ʻअरिष्टनेमिर्दाशार्हः कोलकण्ठो गदाधरः ।

मुञ्जकेशो गिरिधरः श्रीधरो धरणीधरः ॥

मुकुन्दो यज्ञपुरुषो ब्रह्मनाभो गदाग्रजः ।

जगन्नाथो मुररिपुस्त्रिककुन्नरकान्तकः ।

श्रीवत्सोऽनन्तशयनो बभ्रुश्च कमलोदरः ॥

एतानि च । ह्रस्वादिर्नरायणशब्दोऽप्यस्ति । लुप्तोत्तरपदवासुःशब्दोऽप्यस्ति । ʻवासुर्नरायणपुनर्वसुविश्वरूपाः’ इति त्रिकाण्डशेषः (पृ। २, श्लो। ३०) ॥ १८-२२ ॥

मूलम् - ०१.०१.०२३

अक्।०१.०१.०२३अब् वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ।
अक्।०१.०१.०२३च्द् बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ॥ २३ ॥

लिङ्ग-सूरी - AK.01.01.023

वसुदेव इति—वसुभिः दीव्यतीति वसुदेवः । वसुषु अष्टसु दीव्यतीति वा । ʻदिवु क्रीडादौ’ । अस्य गृहे विष्णोरुत्पत्तिसमये आनकाश्च दुन्दुभयश्च वादिता इत्यानकदुन्दुभिः । एतानि विष्णुपितृनामानि ॥ बलेन भद्रः बलभद्रः । प्रलम्बनामानं रक्षो हतवान् इति प्रलम्बघ्नः । बलेन दीव्यतीति बलदेवः । अच्युतस्याग्रजः अच्युताग्रजः ॥ २३ ॥

मल्लि-नाथः - AK.01.01.023

वसुदेवो—आनकदुन्दुभिः । विष्णुपितृनामनी । ʻवसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः’ इति वैजयन्तीपाठाद् (पृ। ५, श्लो। २६) दुन्दुरप्यस्ति ।

[[०१.०१८]]

मूलम् - ०१.०१.०२४

अक्।०१.०१.०२४अब् रेवतीरमणो रामः कामपालो हलायुधः ।
अक्।०१.०१.०२४च्द् नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ॥ २४ ॥
अक्।०१.०१.०२५अब् सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ।

लिङ्ग-सूरी - AK.01.01.024

रेवतीति—रमयतीति रमणः । रेवत्या रमणो रेवतीरमणः । ʻरमु क्रीडायाम्। कामं पालयतीति कामपालः ।ʻपाल रक्षणे । हलम् आयुधं यस्य सः हलायुधः । नीलम् अम्बरं यस्य सः नीलाम्बरः । रोहिण्या अपत्यं पुमान् रौहिणेयः । तालोऽङ्को यस्य सः तालाङ्कः । मुसलम् अस्यास्तीति मुसली । हलम् अस्यास्तीति हली । सङ्कर्षतीति सङ्कर्षणः । ʻकृष विलेखने । सीरः पाणौ यस्य सः सीरपाणिः । कालिन्दीं भिनत्तीति कालिन्दीभेदनः । ʻभिदिर विदारणे । बलमस्यास्तीति बलः । एतानि बलभद्रनामानि ॥ २४ ॥

मल्लि-नाथः - AK.01.01.024

बलभद्रः—बलः । बलभद्रनामानि । ʻस्यादेककुण्डलः शेषः सात्वतश्च सितासितः’ । एतानि च । ʻसौनन्दमस्य मुसलं तस्य संवर्तकं हलम् इति वैजयन्ती (पृ। ५, श्लो। २४-५) । तद्योगात् संवर्तकधरः सौनन्दपाणिश्च भवति ॥ २३-४ ॥

[[०१.०१९]]

अक्।०१.०१.०२५च्द् मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ॥ २५ ॥

मूलम् - ०१.०१.०२६

अक्।०१.०१.०२६अब् कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ।
अक्।०१.०१.०२६च्द् शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ॥ २६ ॥
अक्।०१.०१.०२७अब् पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ।

लिङ्ग-सूरी - AK.01.01.025-26

मदनेति—मदयतीति मदनः । ʻमदी हर्षग्लेपनयोः’ । मनो मथ्नातीति मन्मथः । ʻमन्थ विलोडने । वियुक्ता अनेन म्रियन्ते मारः । ʻमृङ् प्राणत्यागे । प्रकृष्टं द्युम्नं वलम् अस्यास्तीति प्रद्युम्नः । मीनः केतने यस्य सः मीनकेतनः । मीनशब्दः जलचरोपलक्षणम् । कं कुत्सितेऽव्ययम् । कं कुत्सितः दर्पः यस्य सः कन्दर्पः । दर्पं बलं करोतीति दर्पकः । न विद्यते अङ्गं यस्य सः अनङ्गः । कामयते अनेन कामः । ʻकमु कान्तौ’ । पञ्च शरा यस्य सः पञ्चशरः । स्मरन्त्यनेनेति स्मरः । ʻस्मृ आध्याने । शम्बरासुरस्य अरिः शम्बरारि । मनसि जायते इति मनसिजः । ʻजनी प्रादुर्भावे । कुसुमानि इषवो यस्य सः कुसुमेषुः । मनसोऽन्यस्मात् न जायते इत्यनन्यजः । पुष्पं धनुर्यस्य सः पुष्पधन्वा । रतेः पतिः रतिपतिः । मकरः ध्वजे यस्य सः मकरध्वजः । आत्मनो मनसो भवतीत्यात्मभूः । ʻभू सत्तायाम् । एतानि मन्मथनामानि ॥ २५-२६ ॥

मल्लि-नाथः - AK.01.01.025-26

मदनो—आत्मभूः । कामनामानि ।

ʻकं वदन्ति तपोभङ्गकारणं यतिनां जनाः ।

न स्वीकुर्वन्ति किं सन्तः सर्वधर्मपरायणाः ॥

इति विदग्धकण्ठाभरणप्रश्नोत्तराभ्यां ब्रह्मसूशब्दः कामपर्यायः ।

ʻइः कायजो जराभारुः कन्तुः सुरभिसायकः ।

सङ्कल्पजन्मा शृङ्गारयोनिर्गूढाशयेशयः ॥

पुष्पायुधः पुष्पकेतुर्भावजो विषमायुधः ।

पञ्चायुधो मधुसखः श्रीसूनुर्मधुसारथिः ॥

वीरधन्वा स्वादुधन्वा स्मृति भूरिक्षुसायकः ॥

एतानि च ॥ २५-६ ॥ </Amarapadaparijata

%%p. 01.020

AK.01.01.027cd brahmasūrṛśyaketuḥ syādaniruddha uṣāpatiḥ .. 27 ..

लिङ्ग-सूरी - AK.01.01.027

ब्रह्मेति—ब्रह्म ज्ञानं सूते ब्रह्मसूः । ʻषूञ् प्राणिप्रसवे । ऋश्यो मृगः केतौ यस्य सः ऋश्यकेतुः । न निरुध्यत इति अनिरुद्धः । ʻरुधिर् आवरणे । उषायाः पतिः उषापतिः । एतानि प्रद्युम्नपुत्रनामानि । (अरविन्दमिति अशोकमिति नवमल्लिकेति चूतमिति नीलोत्पलमिति ते पञ्चापि मन्मथस्य सायकनामानि ।

अरविन्दमशोकं च चूतं च नवमल्लिका ।

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥

हृच्छयः कामजश्चैत्रसखः शृङ्कारयोनिजः ।)

इति ॥ २७ ॥

मल्लि-नाथः - AK.01.01.027

ब्रह्मसूर्विश्वकेतुः—उषापतिः । कामपुत्रनामानि । ʻक्लेदन्ती स्मरवल्लभा’ ʻब्रह्मसूर्विश्वकेतुः स्यात् इति रभसकोशपाठाद् ब्रह्मसूशब्दः कामपुत्रपर्यायः ॥ २७ ॥

मूलम् - ०१.०१.०२८

अक्।०१.०१.०२८अब् लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ।
अक्।०१.०१.०२८च्द् (इन्दिरा लोकमाता मा क्षीरोदतनया रमा) ॥ २८ ॥

लिङ्ग-सूरी - AK.01.01.028

लक्ष्मीरिति—लक्ष्यत इति लक्ष्मीः । ʻलक्ष दर्शनाङ्कनयोः’ । पद्मम् आलयं यस्याः सा पद्मालया । पद्यत इति पद्मा । ʻपद्लृ सेवायाम् । पद्ममस्या अस्तीति वा । काम्यत इति कमला । ʻकमु कान्तौ’ । श्रीयत इति श्रीः, श्रयत इति वा । ʻश्रिञ् सेवायाम् । हरेः प्रिया हरिप्रिया । इन्दिं रातीति इन्दिरा । ʻइदि परमैश्वर्ये । ʻरा दाने । लोकानां माता लोकमाता । मा च । क्षीराब्धेस्तनया क्षीराब्धितनया । रमयतीति रमा । ʻरमु क्रीडायाम् ।

(भार्गवी लोकजननी क्षीरसागरकन्यका) ।

भार्गवीति—भृगोर्गोत्रापत्यं स्त्री भार्गवी । लोकानां जननी लोकजननी । क्षीरसागरस्य कन्यका क्षीरसागरकन्यका । एतानि लक्ष्मीनामानि ॥ २८ ॥

मल्लि-नाथः - AK.01.01.028

लक्ष्मीः—हरिप्रिया । लक्ष्मीनामानि । पद्मा कमलेत्यादिना पर्यायस्यापि ग्रहणम् । ʻस्त्रीलिङ्गाश्चाम्बुजाह्वया’ इति वैजयन्ती (पृ। ६, श्लो। ३६) । ʻईर्लोकमाताब्धिसुता मा रमा गोमिनीन्दिरा’ । एतानि च ॥ २८ ॥

[[०१.०२१]]

मूलम् - ०१.०१.०२९

अक्।०१.०१.०२९अब् शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।
अक्।०१.०१.०२९च्द् कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ २९ ॥

लिङ्ग-सूरी - AK.01.01.029

शङ्ख इति—पञ्चजनाख्ये असुरे भवः पाञ्चजन्यः इति लक्ष्मीपतिशङ्खनाम । सुष्ठु दृश्यते सुदर्शनम् । पुंलिङ्गपक्षे सुष्ठु शत्रून् पश्यतीति सुदर्शनः । ʻदृशिर् प्रेक्षणे । चकत इति चक्रम् । इति विष्णुचक्रनाम । कुं पृथिवीं मोदयतीति कुमोदकः विष्णुः तस्येयं कौमोदकी । ʻमुदि हर्षे । कौपोदकीति पाठे कूपोदकात् जायत इति कौपोदकी । इति विष्णुगदानाम । नन्दयतीति नन्दकः । ʻटुनदि समृद्धौ’ । इति विष्णुखड्गनाम । कौ भुवि स्तोभते व्याप्नोतीति कुस्तुभः । तस्यायं कौस्तुभः । ʻष्टुभु स्तम्भे । इति विष्णुमणिनाम ॥ २९ ॥

मल्लि-नाथः - AK.01.01.029

शङ्खो—मणिः । लक्ष्मीपतेः शङ्खः पाञ्चजन्यः स्यात् । तस्य चक्रं सुदर्शनम् । विधेयानुवाद्यपदानि सर्वाण्यत्र समानलिङ्गानि । अतः सुदर्शनशब्दस्य नपुंसकत्वं सिद्धम् । ʻबन्धुरेष जगतां सुदर्शनः’ इति माघप्रयोगात् (शिशु। १४। १६) पुंस्त्वं च सम्भावितम् । अत एव ʻपरं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः’ (३। ५। ४६) इति शास्त्रान्ते वक्ष्यति । तद्गदा कौमोदकी स्यात् । तत्खड्गो नन्दकः स्यात् । तन्मणिः कौस्तुभ इति शब्द्यते । ʻचापं तु शार्ङ्गमुरसि वनमाला च मालिका’ इति च । तद्योगात् शार्ङ्गी वनमालीति शब्दौ व्युत्पत्तिसिद्धौ ॥ २९ ॥

[[०१.०२२]]

(चापं शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥)

लिङ्ग-सूरी - AK.01.01.029?

चापमिति—शृङ्गस्य विकारः शार्ङ्गं, मुरारेः चापस्य नाम । तस्य लाञ्छनं श्रीवत्स इति मतम् । श्रीः वक्षसि यस्येति वा ।

मूलम् - ०१.०१.०३०

अक्।०१.०१.०३०अब् गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।
अक्।०१.०१.०३०च्द् नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३० ॥

लिङ्ग-सूरी - AK.01.01.030

गरुत्मानिति—गरुतोऽस्य सन्तीति गरुत्मान् । सर्पान् गिरतीति गरुडः । ʻगॄ निगरणे । गरुद्भिः डीयते इति वा गरुडः । ʻडीङ् विहायसा गतौ’ । तृक्षस्यापत्यं पुमान् तार्क्ष्यः । विनताया अपत्यं पुमान् वैनतेयः । खगानामीश्वरः खगेश्वरः । नागानाम् अन्तको नागान्तकः । विष्णोः रथः विष्णुरथः । शोभनानि पर्णानि पक्षाःयस्य सः सुपर्णः । पन्नगा अशनं यस्य सः पन्नगाशनः । एतानि गरुडनामानि ॥ ३० ॥

मल्लि-नाथः - AK.01.01.030

गरुत्मान्—पन्नगाशनः । गरुडनामानि । गरुत्मसौपर्णशब्दावपि विद्येते । ʻविदधद्विमुखान् भटानिवाहीन् स गरुत्मेव महेन्द्रमाप कोपात् इति चन्द्रकाव्यम् । ʻप्रौर्णवीदथ सौपर्णः कीर्णपर्णः फणाभृतः’ इति राघवपाण्डवीयम् (द्विसं। १८। ५२) ॥ ३० ॥

मूलम् - ०१.०१.०३१

अक्।०१.०१.०३१अब् शुम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।
अक्।०१.०१.०३१च्द् ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३१ ॥
[[०१.०२३]]

अक्।०१.०१.०३२अब् भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।
अक्।०१.०१.०३२च्द् मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३२ ॥
अक्।०१.०१.०३३अब् उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।
अक्।०१.०१.०३३च्द् वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३३ ॥
अक्।०१.०१.०३४अब् कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।
अक्।०१.०१.०३४च्द् हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३४ ॥
अक्।०१.०१.०३५अब् गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।
अक्।०१.०१.०३५च्द् व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३५ ॥
(अहिर्वुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥)

लिङ्ग-सूरी - AK.01.01.031-35

शम्भुरिति—शम्भुरिति—शं सुखमस्माद् भवतीति शम्भुः । ईष्टे इति ईशः । ʻईश ऐश्वर्ये । पशूनां पतिः पशुपतिः । शेरते सज्जनमनांसि अस्मिन्निति शिवः । अन्तकाले जगती अस्मिन् शेते इति वा शिवः । ʻशीङ् स्वप्ने । शिवङ्करत्वाद्वा शिवः । शूलमस्यास्तीति शूली । महांश्चासौ ईश्वरश्च महेश्वरः । महतां देवानाम ईश्वरो वा । शं करोतीति शङ्करः । ʻडुकृञ् करणे । चन्द्रः शेखरः यस्य सः चन्द्रशेखरः । भूतानामीशः भूतेशः । भूताः प्राप्ताः शिवभक्ताः तेषां ईं मायां श्यतीति वा । ʻशो तनूकरणे । परशुना खण्डयतीति खण्डपरशुः । ʻखडि खड भेदने । खण्डः परशुः अनेनेति वा । गिरीणामीशो गिरीशः । गिरौ शेते इति गिरिशः । मृडतीति मृडः । ʻमृड सुखने । मृत्युं जयतीति मृत्युञ्जयः । ʻजि जये कृत्तिश्चर्म वासो यस्य सः कृत्तिवासाः । पिनाकोऽस्यास्तीति पिनाकी । प्रमथानाम् अधिपः प्रमथाधिपः । उत् गृह्णातीति उग्रः । ʻग्रह उपादाने । उग्रत्वाद्वा उग्रः । कपर्दोऽस्यास्तीति कपर्दी । श्रीः शोभा कण्ठे यस्य सः श्रीकण्ठः । शितिः मेचकः कण्ठे यस्य सः शितिकण्ठः । कपालं बिभर्तीति कपालभृत् । ʻडुभृञ् धारणपोषणयोः’ । वामः श्रेष्ठः, स चासौ देवश्च वामदेवः । वामया दीव्यतीति वा वामे सव्ये देवी यस्येति वा । वामया युक्तो वा । वामत्वात् वक्रत्वाद्वा । महांश्चासौ देवश्च महादेवः । सर्वत्र ʻदिवु क्रीडेत्यादि धातुः । विरूपम् अक्षि यस्य सः विरूपाक्षः । त्रीणि लोचनानि यस्य सः त्रिलोचनः । कृशानू रेतो यस्य सः कृशानुरेताः । सर्वं जानातीति सर्वज्ञः । ʻज्ञा अवबोधने । धूः गङ्गा जटासु यस्य सः धुर्जटिः । कण्ठे नीलः केशेषु लोहितः नीललोहितः । नीलश्चासौ लोहितश्च नीललोहितः । हरतीति हरः । ʻहृञ् हरणे । स्मरं हरतीति स्मरहरः । भृज्ज्यते अनेनेति भर्गः । ʻभ्रस्ज पाके । सकलं बिभर्तीति वा । त्रीणि अम्बकानि लोचनानि यस्य सः त्र्यम्बकः । द्योर्भूमिरापः तिस्रोऽम्बा यस्येति वा । त्रयाणां ब्रह्मविष्णुरुद्राणाम् अम्बको वा । ʻअम्ब जनने । त्रिपुराणम् अन्तकः त्रिपुरान्तकः । गङ्गायाः धरः गङ्गाधरः । अन्धकस्य रिपुः अन्धकरिपुः । क्रतुं ध्वंसयतीति क्रतुध्वंसी । ʻध्वंसु अवस्रंसने । वृषः ध्वजे यस्य सः वृषध्वजः । व्योमवद् विकीर्णः केशो यस्य सः व्योमकेशः । व्योम आकाशः को वायुः तदादीनामीशो वा । सर्वमस्माद् भवतीति भवः । सर्वमस्मिन् भवतीति वा । बिभेत्यस्माद् भीमः । ʻञिभी भये । प्रलये तिष्ठतीति स्थाणुः । ʻष्ठा गतिनिवृत्तौ’ । रोदयति शत्रूनिति रुद्रः । ʻरुदिर् अश्रुविमोचने । ऋतं सत्यं रातीति वा । ʻरा आदाने । रुतं शब्दं रायतीति वा । ʻरै शब्दे । रुद्रं रोदनं द्रावयतीति वा । ʻद्रु गतौ’ । उमायाः पतिः उमापतिः । एतानि ईश्वरनामानि ॥ ३१-५ ॥

(भस्माङ्गरागोऽस्थिधरः उग्राक्षो नागकङ्कणः । )

(भस्म अङ्गरागो यस्य भस्माङ्गरागः । अस्थीनि धरतीति अस्थिधरः । उग्राणि अक्षीणि यस्य उग्राक्षः । नाग एव कङ्कणं यस्य नागकङ्कणः । एतानि ईशपर्यायनामानि । )

मल्लि-नाथः - AK.01.01.031-35

शम्भुरीशः—त्र्यम्बकः । छान्दसानपि शब्दान् सञ्ज्ञाशब्दत्वाद्भाषायामपि प्रयुञ्जत इति त्रियम्बकशब्दःप्रयोगार्ह एव । ʻत्रियम्बकं संयमिनं ददर्श्ö इति कालिदासः । (कु। सं। ३। ४४) नो चेत् दिवस्पतिप्रभृतिशब्दा अप्यव्यवहर्तव्याः स्युः ॥ त्रिपुरान्तकः—उमापतिः । ईश्वरनामानि । अनुक्तम्—

ʻपञ्चाननोऽर्धमकुटः कण्ठेकालो दृगायुधः ।

अष्टमूर्तिरयुग्माक्षो भालनेत्रोऽकुतश्चनः ॥

शैलधन्वार्धरमणिर्ज्यापिङ्गः पांसुचन्दनः ।

कालञ्जरो महाकालो रेरिहाणो महानटः ॥

हिरण्यबाहुर्हेहीरो गुहाकेशोऽहिभूषणः ।

कटीटङ्कः कङ्कटिकः कटप्रूः परमेश्वरः ॥

अहिर्बुध्न्यो जटाटीरो जटाजूटोऽग्निलोचनः ॥

एतानि च ॥ ३१-५ ॥

[[०१.०२५]]

मूलम् - ०१.०१.०३६

अक्।०१.०१.०३६अब् कपर्दोऽस्य जटाजूटः पिनाकोऽजकवं धनुः ।

लिङ्ग-सूरी - AK.01.01.036ab

कपर्द इति—कं शिरः पिपर्ति पूरयतीति कपर्दः । ʻपॄ पालनपूरणयोः’ । शिवजटाजूटनाम । अकति अपि नाकति न नमति इति पिनाकः । ʻअक अग कुटिलायां गतौ’ । पिनह्यत इति पिनाकः । ʻणह बन्धने । अजस्य कम् अस्थि तद्विकारः अजकवम् । अजगवमिति वा पाठः । अजगवोऽस्थिविकारः । शिवस्य धनुर्नामनी ॥

मल्लि-नाथः - AK.01.01.036ab

कपर्दोऽस्य—धनुः । शिवजटाजूटः कपर्दनामा । पिनाक इति अजगवं चेति तस्य धनुर्नामनी । अत्र अजगवशब्दस्य रूपान्तराण्यपि कथयन्ति । ʻस्थाणोर्धनुश्चाजगवम् इति नाममाला । ʻअजगावमजीगावम् इति वैजयन्ती (पृ। ७, श्लो। ५०) ।

[[०१.०२६]]

अक्।०१.०१.०३६च्द् प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ ३६ ॥

लिङ्ग-सूरी - AK.01.01.036

प्रथमा इति—प्रमथ्नन्ति शत्रूनिति प्रमथाः । ʻमन्थ विलोडने । परिषदि साधवः पारिषदाः । ईश्वरस्य सभ्यनामानि । मान्ति वरिवस्यामिति मातरः । ʻमा माने । ʻमाङ् माने इति वा धातुः । मानं वर्तनम् । शिवपरिचर्याकारिणीनां ब्राह्म्यादीनां नामानि ।

ʻब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।

वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः ॥

ब्रह्मणः सम्बन्धिनी ब्राह्मी । महेश्वरस्य सम्बन्धिनी माहेश्वरी । कुमारस्य सम्बन्धिनी कौमारी । विष्णोरियं वैष्णवी । वराहस्य सम्बन्धिनी वाराही । महेन्द्रस्य सम्बन्धिनी माहेन्द्री । चामुण्डा इति सप्त मातरः ॥ ३६ ॥

मल्लि-नाथः - AK.01.01.036

प्रमथाः—मातरः । प्रमथा इतीश्वरदासनाम । अनुक्तम्—ʻभूतलोकानि भूतानि । भूतानां नामनी । ʻकापिशेयाः पिशाचकाः’ । गुरुनाथादितत्सहचरपिशाचनाम । अनुक्तम्—

ʻब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।

वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः ॥

ब्राह्मीप्रभृतयः सप्त मातरः स्युः । ʻब्रह्माण्यार्या स्मृताः सप्त मातरो देवता बुधैः’ इत्यभिधानात् ब्राह्मी ब्रह्माणीति च नाम भवति । ʻचण्डमुण्डा तु चामुण्डा चर्चा मार्जारकन्यका’ इत्यभिधानात् चामुण्डा चण्डमुण्डा च भवति ॥ ३६ ॥

[[०१.०२७]]

मूलम् - ०१.०१.०३७

अक्।०१.०१.०३७अब् विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।

लिङ्ग-सूरी - AK.01.01.037

विभूतिरिति—विभवतीति विभूतिः भूतिश्च । ईश्वरस्य भावः कर्म वा ऐश्वर्यम् । अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम् ईशिता वशित्वं चेति ऐश्वर्याष्टकमुच्यते । इत्यणिमाद्यष्टैश्वर्यनामानि ।

मल्लि-नाथः - AK.01.01.037

विभूतिः—अष्टधा । विभूत्यादीनि ऐश्वर्यनामानि । विभूतिभूतिशब्दौ क्तिन्नन्तत्वात् स्त्रीलिङ्गौ । ऐश्वर्यशब्दः ष्यञन्तत्वान्नपुंसकः । अणिमादिभेदेन तदेवाष्टविधम् ।

ʻअणिमा महिमा चैव गरिमा लघिमा तथा ।

प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥

अक्।०१.०१.०३७च्द् उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३७ ॥

मूलम् - ०१.०१.०३८

अक्।०१.०१.०३८अब् शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ।
अक्।०१.०१.०३८च्द् अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ ३८ ॥
(आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ।

सती च कालरात्री च भैरवी गणनायिका ॥)

लिङ्ग-सूरी - AK.01.01.037-8

उमेति—अवतीति उमा । ʻअव रक्षणे । तपसः उ मेति मात्रा निषिद्धा वा उमा । कति अयनानि सन्तीति विचारयतीति कत्ययनः तस्य गोत्रापत्यं स्त्री कात्यायनी । गौरवर्णत्वाद् गौरी । तपसे गुरते इति गौरी । ʻगुरी उद्यमने । कालवर्णत्वात् काली । हिमवतोऽपत्यं स्त्री हैमवती । ईश्वरस्य पत्नी ईश्वरी । ईष्टे इति वा ईश्वरा । अयमपि पाठः । शिवं मङ्गलमस्या अस्तीति शिवा । शिवस्य पत्नी वा । तथा भवस्य स्त्री भवानी । तथा रुद्राणीशर्वाणीशब्दौ । सर्वतो मङ्गलं यस्याः सा सर्वमङ्गला । अपगतम् ऋणं पितुर्यस्याः सा अपर्णा । तपःकाले अपगतानि पर्णानि यतः अपर्णा । तपसि हरार्थं पर्णमपि नैच्छदित्यपर्णा । पर्वतस्य पुत्री पार्वती । दुःखेन गम्यते इति दुर्गा । दुर्गे निवासोऽस्या अस्तीति वा । मृडस्य पत्नी मृडानी । चण्डत इति चण्डिका । ʻचडि कोपे । चण्डासुरमर्दनाद्वा । अम्बते जनयति सर्वमिति अम्बिका । ʻअम्बल जनने । एतानि पार्वतीनामानि ॥ ३७-८ ॥

मल्लि-नाथः - AK.01.01.037-8

उमा—अम्बिका । ईश्वरीत्यत्र गौरादिपाठात् ङीष् । पक्षे टाप् । ʻकर्बुरी चेश्वरेश्वरी इति त्रिकाण्डशेषः (पृ। ३, श्लो। ५५) । पार्वतीनामानि । अनुक्तम्—

ʻबर्हिघ्वजा महाकाली रक्तदन्त्येकपाटला ।

दाक्षायणी महादेवी कौशिकी मेनकात्मजा ॥

कालरात्रिर्भगवती गिरिजा शारदा च सौः ॥

एतानि च । सौः सवौ सवः । सवं सवौ सवः । ʻद्योर्गोवद्विभक्तौ’ इति कातन्त्रसूत्रनियमात् गोशब्दवत् णित्कार्यं न भवति ॥ ३७-८॥

[[०१.०२८]]

मूलम् - ०१.०१.०३९

अक्।०१.०१.०३९अब् विनायको विघ्नराजद्वैमातुरगणाधिपाः ।
अक्।०१.०१.०३९च्द् अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३९ ॥

लिङ्ग-सूरी - AK.01.01.039

विनायक इति—विगतो नायको नियन्ता यस्य सः विनायकः । विनयति शिक्षयति दुष्टानिति वा । ʻणीञ् प्रापणे । विघ्नानां राजा विघ्नराजः । द्वयोर्मात्रोः उमागङ्गयोरपत्यं द्वैमातुरः । गणानाम् अधिपः गणाधिपः । एको दन्तो यस्य सः एकदन्तः । हिरते वर्धयति नेतॄन् हेरम्बः । ʻहिर वृद्धौ’ । हे रम्बते शब्दायते वा हेरम्बः । हेरम्बशब्दं करोतीति वा । लम्बम् उदरं यस्य सः लम्बोदरः । गजस्येव आननं यस्य सः गजाननः । एतानि विघ्नेश्वरनामानि ॥ ३९ ॥

मल्लि-नाथः - AK.01.01.039

विनायको—गजाननाः । विनायकनामानि ॥ ३९ ॥

[[०१.०२९]]

मूलम् - ०१.०१.०४०

अक्।०१.०१.०४०अब् कार्त्तिकेयो महासेनः शरजन्मा षडाननः ।
अक्।०१.०१.०४०च्द् पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ४० ॥
अक्।०१.०१.०४१अब् बाहुलेयस्तारकजिद् विशाखः शिखिवाहनः ।
अक्।०१.०१.०४१च्द् षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४१ ॥
(भृङ्गी भृङ्गिरिटस्तण्डुनन्दिनौ नन्दिकेश्वरे ।

कर्णमोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ॥)

लिङ्ग-सूरी - AK.01.01.040-41

कार्त्तिकेय इति—कृत्तिकानामपत्यं कार्त्तिकेयः । महती सेना यस्य सः महासेनः । शराख्यतृणे जन्म यस्य शरजन्मा । षड् आननानि यस्य षडाननः । पार्वत्या नन्दनः पार्वतीनन्दनः । ईश्वरस्य रेतसः स्कन्दतीति स्कन्दः शत्रून् स्कन्दति शोषयतीति वा । ʻस्कन्दिर् गतिशोषणयोः’ । सेनां नयतीति सेनानीः । ʻणीञ् प्रापणे । अग्नेर्भवतीति अग्निभूः । ʻभू सत्तायाम् । परायुधेभ्यः सेनां गृहतीति गुहः । ʻगुहू संवरणे । बहुलानां कृत्तिकानाम् अपत्यं पुमान् बाहुलेयः । तारकासुरं जयतीति तारकजित् । ʻजि जये । विशाखासु भवतीति विशाखः । विना [पक्षिणा] मयूरेण शाखतीति वा विशाखः । ʻशाखृ व्याप्तौ’ । शिखी वाहनं यस्य सः शिखिवाहनः । षण्मातॄणामपत्यं षाण्मातुरः । शक्तेर्धरः, शक्तिं धारयतीति वा शक्तिधरः । ʻधृञ् धारणे । कुत्सितं मारयतीति कुमारः । कौ पृथिव्यां मां श्रियं रातीति वा । कुमारयति शिखिना वा । ʻकुमार क्रीडायाम् । सदा ब्रह्मचारित्वाद्वा कुमारः । क्रौञ्चगिरिं दारयतीति क्रौञ्चदारणः । ʻदॄ विदारणे । एतानि कुमारनामानि ॥ ४०-१ ॥

मल्लि-नाथः - AK.01.01.040-41

कार्त्तिकेयो—क्रौञ्चदारणः । कार्त्तिकेयनामानि । अनुक्तम्—

सुब्रह्मण्यो ब्रह्मगर्भो नीलदंष्ट्रो हरात्मजः ।

स्वामी शरेजः शरजो गाङ्गेयः कुक्कुटध्वजः ॥

एतानि च ॥ ४०-१ ॥

[[०१.०३०]]

मूलम् - ०१.०१.०४२

अक्।०१.०१.०४२अब् इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।
अक्।०१.०१.०४२च्द् वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः ॥ ४२ ॥
अक्।०१.०१.०४३अब् जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।
अक्।०१.०१.०४३च्द् सुत्रामा गोत्रमिद् वज्री वासवो वृत्रहा वृषा ॥ ४३ ॥
अक्।०१.०१.०४४अब् वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।
अक्।०१.०१.०४४च्द् जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४४ ॥
अक्।०१.०१.०४५अब् सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।
अक्।०१.०१.०४५च् आखण्डलः सहस्राक्ष ऋभुक्षाः

लिङ्ग-सूरी - AK.01.01.042-45

इन्द्र इति—इन्दतीति इन्द्रः । ʻइदि परमैश्वर्ये । मरुतः अस्य सन्तीति मरुत्वान् । मह्यते मघवान् । ʻमह पूजायाम् । मघः सौख्यमस्यास्तीति मघवा । बेडति इति बिडम् । ʻबिड आक्रोशे । ʻबिड भेदने । बिडं शत्रुतापनम् आक्रोशनं वा तेजोऽस्य बिडौजाः । पाको नामासुरः तं शास्तीति पाकशासनः । ʻशासु अनुशिष्टौ’ । पाकं दितिगर्भं वा शास्तीति पाकशासनः । वृद्धेभ्यः श्रवः श्रवणं यस्य वृद्धश्रवाः । वृद्धं श्रवः कीतियेस्येति वा । वृद्ध इति श्रूयते वा । ʻश्रु श्रवणे । शुनन्तीति शुनाः । ʻशुन गतौ’ । शुनाः सीराः लाङ्गलानि येन साधनेन शुनासीरः । शुनाः समृद्धाः सीरा येनेति वा । वायुसूर्यौ अस्य स्त इति वा । शु शोभनाः नासीरा अग्रेसरा यस्येति वा शुनासीरः । पुरु भूयिष्ठ हूयते यज्ञेषु पुरुहूतः । पुरं शत्रोः शरीरं पुरं वा दारयतीति पुरन्दरः । ʻदॄ विदारणे । जयतीति जिष्णुः । लेखानां देवानाम् ऋषभः श्रेष्ठः लेखर्षभः । शक्नोति दुष्टजये इति शक्रः । ʻशक्लृ शक्तौ’ । शतं मन्यवः क्रतवो यस्य सः शतमन्युः । दिवः स्वर्गस्य पतिः दिवस्पतिः । सुष्ठु त्रायते इति सुत्रामा । ʻत्रैङ् पालने । शोभनं त्राम बलं यस्येति वा । गोत्रान् गिरीन् भिनत्तीति गोत्रभित् । ʻभिदिर विदारणे ॥ वज्रोऽस्यास्तीति वज्री । वसूनामयं स्वामी वासवः । वसून्यस्य सन्तीति वा । वृत्रं हतवान् वृत्रहा । ʻहन हिंसागत्योः’ । वर्षतीति वृषा । नकारान्तः । ʻवृष सेचने । वास्तोः गृहदेवतायाः पतिः वास्तोष्पतिः । सुराणां पतिः सुरपतिः । बलस्यारातिः बलरातिः । शच्याः पतिः शचीपतिः । जम्भम् असुरं भिनत्तीति जम्भभेदी । ʻभिदिर् विदारणे । हरयो हरितो हया यस्य हरिहयः । स्वः स्वर्गे राजतीति स्वाराट् । ʻराजृ दीप्तौ’ । नमुचिं सूदयतीति नमुचिसूदनः । ʻषूद क्षरणे । सङ्क्रन्दं नयति शत्रून् सङ्क्रन्दनः । ʻक्रदि आह्वाने रोदने च्ö । दुःखेन च्योतितुं शक्यः दुश्च्यवनः । ʻच्युतिर् क्षरणे । शत्रूणां तुरं त्वरितं सहते तुराषाट् । ʻषह मर्षणे । मेघो वाहनं यस्य मेघवाहनः । आखण्डयति रिपून् इत्याखण्डलः । ʻखडि भेदने । सहस्रम् अक्षीणि यस्य सः सहस्राक्षः । इयर्तीति ऋभुक्षाः । ʻऋ गतौ’ । ऋभून् देवान् क्षिपति कर्मसु इति वा ऋभुक्षाः । नकारान्तः । ʻक्षिप प्रेरणे । एतानि इन्द्रनामानि ॥ ४२-५ ॥

मल्लि-नाथः - AK.01.01.042-45

इन्द्रो मरुत्वान्, मघवान्—मघवा इत्युभयथा पाठः । पूर्वस्योदाहरणम्—ʻस किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः’ । (रघु। ९। १९) अपरस्योदाहरणम्—ʻजानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः’ । (मेघ। १। ६) वृद्धश्रवाः शुनासीरः । ʻशक्र इव नाकविख्यातसुनासीरः’ इत्याश्चर्यमञ्जरी श्लेषाद् दन्त्यः ।

ʻगुर्वीं वहन् सदानवलक्ष्यीकृत्वाङ्गदांशुनाशीरेण ।

अनुवनिताञ्जलिमुकुलं लक्ष्यीकृत्वाङ्गदां शुनासीरेण ॥

इति हरिप्रबोधयमकात् तालव्यादिः ।

पुरुहूतः—हरिहयः । ʻप्रायो रूढिर्बलवती इति न्यायेन शतमन्युशब्दसाम्यात् शतमखादिशब्दाः प्रयोक्तव्या इति हरिहयशब्दसाम्याद् हर्यश्वादिशब्दाश्च प्रयोक्तव्या न भवन्ति । हरिवाहनशब्दः प्रयोक्तव्यो भवति । स्वाराट्—ऋभुक्षाः । ʻसहे साडः सः’ (८। ३। ५६) इति साड्रूपे षत्वम् । तुरासाहौ तुरासाहः । पृतनाषाट्-शब्दस्याप्ययमेव क्रमः । ʻहल्ङ्याब्भ्यो दीर्घात् इति (६। १। ६८) हलाश्रितत्वात् स्थान्यतिदेशो न । इन्द्रनामानि ॥ अनुक्तम्—

प्राचीनबर्हिर्मेषाण्डो महेन्द्रः सितकुञ्जरः ।

पूतक्रतुः पुलोमारिर्दाल्मिरप्सरसां पतिः ।

पुरदंस उग्रधन्वा हरिवान् वज्रदक्षिणः ॥

एतानि च ॥ ४२-५ ॥

[[०१.०३२ ]]

मूलम् - ०१.०१.०४

अक्।०१.०१.०४५द् तस्य तु प्रिया ॥ ४५ ॥
अक्।०१.०१.०४६अब् पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अक्।०१.०१.०४६च्द् हय उच्चैश्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४६ ॥
अक्।०१.०१.०४७अब् स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।
अक्।०१.०१.०४७च्द् ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४७ ॥
अक्।०१.०१.०४८अब् ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ।
अक्।०१.०१.०४८च्द् शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४८ ॥

लिङ्ग-सूरी - AK.01.01.046-48

पुलोमजेति—पुरूणि लोमानि यस्य सः पुलोमा । तस्मात् पुलोम्नः जायत इति पुलोमजा । ʻजनी प्रादुर्भावे । शञ्चते हंसवत् गच्छतीति शची । ʻशञ्च गतौ’ । इन्द्रस्य पत्नी इन्द्राणी । इन्द्रभार्यानामानि ॥ अमरा अत्र वसन्तीति अमरावती । इन्द्रनगरीनाम ॥ उच्चैः श्रवः कीर्तिः यस्य सः उच्चैःश्रवाः । उच्चैः उन्नते श्रवसी यस्येति वा । इन्द्रहयनाम ॥ मतानि सूतकर्मणि लाति गृह्णातीति मतलः । तस्यापत्यं मातलिः । ʻला आदाने । इन्द्रसारथिनाम ॥ नन्दयतीति नन्दनम् । ʻटुनदि समृद्धौ’ । इन्द्रवननाम ॥ विजयन्तस्य इन्द्रस्य अयं वैजयन्तः । तत्प्रासादनाम ॥ जयति शत्रूनिति जयन्तः । रूपेण वा सर्वान् जयति अभिभवति जयन्तः । पाकशासनस्यापत्यं पाकशासनिः । इन्द्रपुत्रनामानि ॥ इरा आपः यत्र वसन्ति स इरावान् सिन्धुः । तत्र जातः ऐरावतः । अभ्रे मातङ्ग इव खेचरत्वात् अभ्रमातङ्गः । इरा हाला तत्प्रधानं वनम् इरावणम् तत्र जातः ऐरावणः । अभ्रमोः वल्लभः अभ्रमुवल्लभः । इन्द्रगजनामानि ॥ ह्रादो ध्वनिः अस्या अस्तीति ह्रादिनी । ह्रादुनीति वा पाठः । वजति शीघ्रं गच्छतीति वज्रम् । ʻवज व्रज गतौ’ । कुल्यते सन्तन्यते कीर्तिरनेनेति कुलिशम् । ʻकुल सन्ताने । कुं पृथिवीं लेशयतीति वा । ʻलिश अल्पीभावे । कुलिनः पर्वतान् श्यतीति वा । ʻशो तनूकरणे । कुलिशवज्रशब्दौ अस्त्रियौ । भिनत्ति ताच्छील्येनेति भिदुरम् । पुनाति वैरमिति पविः । ʻपूञ् पवने । शतं कोटयो यस्य शतकोटिः । स्वरतीति परान् स्वरुः । ʻस्वृ उपतापे । शमयति शत्रूनिति शम्बः । ʻशमु उपशमने । शत्रुं दभ्नोतीति दम्भोलिः । ʻदम्भु हिंसायाम् । अश्नाति शत्रुजीवितम् अश्नुते वा अशनिः । ʻअश भोजने । ʻअशू व्याप्तौ’ । अशनीति वा पाठः स्त्रीलिङ्गपक्षे । एतानि वज्रनामानि ॥ ४६-८ ॥

मल्लि-नाथः - AK.01.01.046-48

तस्य तु प्रिया—इन्द्राणी । तत्प्रियानामानि । ʻमघोनी जयवाहिनी । एते च । महेन्द्राणीति पाठान्तरम् ॥ नगरी त्वमरावती । पुरनाम । अमरा इत्यप्यस्ति । ʻदूर्वामरावतीस्थूणागुडूचीष्वमरा मता’ इति विश्वप्रकाशिका (पृ। १३३, श्लो। ९४) । हय उच्चैःश्रवाः । तदश्वनाम ॥ सूतो मातलिः । इन्द्रसारथिनाम । ʻसारथिस्तु हयङ्कषः’ इति रभसकोशपाठात् हयङ्कषोऽपि स्यात् ॥ नन्दनं वनम् । तत्क्रीडावनं नन्दनम् ॥ स्यात् प्रासादो वैजयन्तः । तत्प्रासादनाम । तच्च सप्तभूमिकाभवनम् । तस्य ध्वजोऽपि वैजयन्तः स्यात् । ʻप्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च्ö इति वैजयन्ती (पृ। ९, श्लो। ९) । जयन्तः पाकशासनिः । तत्तनयनामनी ॥ ऐरावतो—अभ्रमुवल्लभाः । तदारोहणगजनामानि । ʻराथन्तरिश्चतुर्दन्तः’ । एते च ॥ ह्रादिनी—द्वयोः । वज्रायुधनामानि । वज्रमस्त्री स्यात् कुलिशमिति सन्दष्टविशेषविधिः । पविः शतकोटिः स्वरुः शम्बो दम्भोलिरिति परापरसाहचर्यम् । उभयत्र वैजयन्ती—(पृ। १०, श्लो। १३)

ʻअस्त्रियौ वज्रकुलिशौ भिदुरं शतधारकम् ।

व्याधामः पुंसि दम्भोलिः शतकोटिः पविर्भिदुः’ ॥

अशनिर्द्वयोरित्यसङ्घातपक्षे विशेषविधिः । सङ्घातपक्षे पुंलिङ्ग एव । ʻवज्राशनिर्भिदुर्वज्रम् इति त्रिकाण्डशेषः (पृ। ४, श्लो। ६५) । ʻवज्राशनिर्गिरिकटः पविर्दम्भोलिरक्षजम् इति रभसकोशः । अत्र स्वरुशब्दं विना सर्वे शब्दास्तालव्याः । शम्बशब्दस्तालव्यो दन्त्यश्च भवति ।

ʻतालव्या अपि दन्त्या स्युः शम्बशूकरपांशवः ।

कलशः शम्बलं चैव जिह्वायां रसना च या’ ॥

इत्यूष्मभेदपाठात् ॥ ४६-८ ॥

[[०१.०३४]]

मूलम् - ०१.०१.०४९

अक्।०१.०१.०४९अब् व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः ।
अक्।०१.०१.०४९च्द् स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४९ ॥

लिङ्ग-सूरी - AK.01.01.049

व्योमेति—व्योम्नि यानं व्योमयानम् । विमान्ति वर्तन्ते देवा अत्र विमानम् । ʻमाङ् माने वर्तने च्ö । विमाननाम ॥ सुराणाम् ऋषयः सुरर्षयः । नारं नरसमूहं द्यतीति नारदः । नारदादिदेवर्षिनाम ॥ शोभनो धर्मोऽत्र सुधर्मा । नकारान्तोऽप्यस्ति । देवसभानाम ॥ पीयते इति पीयूषम् । ʻपीङ् पाने । न मृता भवन्त्यनेनेत्यमृतम् । सुष्ठु धयन्त्येनां सुधा । ʻघेट् पाने (समुद्रनवनीतं देश्याम्) अमृतनामानि ॥ ४९ ॥

मल्लि-नाथः - AK.01.01.049

व्योमयानं विमानोऽस्त्री । विमाननामनी ॥ नारदाद्याः—देवसभा । देवसभा सुधर्मा स्यात् । ʻसुधर्मामिव स्वच्छन्दकौशिकां विन्ध्याटवीं विवेश्ö इति वासवदत्ता । सञ्ज्ञाशब्दत्वाद् ʻधर्मादनिच् केवलात् इति (५। ४। १२४) अनिच् न भवति ॥ पीयूषममृतं सुधा । अमृतनामानि ॥ ४९ ॥

[[०१.०३५]]

मूलम् - ०१.०१.०५०

अक्।०१.०१.०५०अब् मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका ।
अक्।०१.०१.०५०च्द् मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ५० ॥
अक्।०१.०१.०५१अब् पञ्चैते देवतरवो मन्दारः पारिजातकः ।
अक्।०१.०१.०५१च्द् सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५१ ॥

लिङ्ग-सूरी - AK.01.01.050-51

मन्दाकिनीति—मन्दम् अकति मन्दाकिनी । ʻअक अग कुटिलायां गतौ’ । वियति गङ्गा वियद्गङ्गा । स्वः स्वर्गे नदी स्वर्णदी । सुराणां दीर्घिका सुरदीर्घिका । मन्दाकिनीनामानि ॥ मिनोति शिखरैः ज्योतींषीति मेरुः । ʻडुमिञ् प्रक्षेपणे । सुष्ठु मिनोतीति सुमेरुः । हय्यते हेम । ʻहय्य गतिकान्त्योः’ । हेम्नोऽद्रिः हेमाद्रिः । रत्नानि सानुषु यस्य रत्नसानुः । सुराणाम् आलयः सुरालयः । मेरुनामानि ॥ मन्द्यते स्तूयते मन्दारः । ʻमदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ । मन्दा आरा अस्येति वा मन्दारः । पारम् उदकमस्यास्तीति पारी समुद्रः । तस्मान् जातः पारिजातः । सन्तनोति वाञ्छितं सन्तानः । ʻतनु विस्तारे । कल्पयति वाञ्छितं कल्पः, स चासौ वृक्षश्च कल्पवृक्षः । ʻक्लृपि सामर्थ्ये । हरेरिन्द्रस्य चन्दनं हरिचन्दनम् । एतानि पञ्च देवतरुनामानि ॥ ५०-१ ॥

मल्लि-नाथः - AK.01.01.050-51

मन्दाकिनी—हरिचन्दनम् । आकाशगङ्गानामानि । गिरिनद्यादित्वात् स्वर्णदीत्यपि स्यात् । सिद्धनदीशब्दः प्रयोगे दृष्टः । ʻभेजे भीतः पादुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशिः’ । इति विदग्धकण्ठाभरणम् ॥ हेमाद्रिरित्यादिमेरुगिरिनामानि । मन्दारादयः पञ्च सुरतरुनामानि ॥ ५०-१ ॥

[[०१.०३६ ]]

मूलम् - ०१.०१.०५२

अक्।०१.०१.०५२अब् सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ ।
अक्।०१.०१.०५२च्द् नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५२ ॥

लिङ्ग-सूरी - AK.01.01.052

सनदिति—सनत् नित्यं कुमारः सनत्कुमारः । विधातुरपत्यं वैधात्रः । वैद्यसंहिताकर्तृविधातृपुत्रस्य नामनी ॥ अश्वन्याः सुतौ अश्विनीसुतौ । न असत्यौ नासत्यौ । अश्वावनयोः स्त इत्यश्विनौ । सदा अश्वारूढत्वाद्वा । दस्यतः क्षपयतः रोगानिति दस्नौ । ʻदसु उपक्षये । अश्विन्या अपत्ये पुमांसौ आश्विनेयौ । एतानि स्वर्गवैद्यनामानि ॥ ५२ ॥

मल्लि-नाथः - AK.01.01.052

सनत्कुमारो वैधात्रः । वैद्यशास्त्रकर्तृदेवर्षिनामनी ॥ स्वर्वैद्यौ—तावुभौ । देववैद्ययोर्नामानि । नासत्य इति दस्र इति तयोः पृथङ्नामनी । ʻनासत्यदस्रौ नासत्यावश्विनौ वरवाहनौ’ इति वैजयन्ती (पृ। १५, श्लो। ५) । विरूपैकशेषादत्र नासत्यौ दस्रावित्युक्तं मूलकारेण ॥ ५२ ॥

मूलम् - ०१.०१.०५३

अक्।०१.०१.०५३अब् स्त्रियां बहुष्वप्सरसः स्वर्वेश्या ऊर्वशीमुखाः ।
(घृताची मेनका रम्भा ऊर्वशी च तिलोत्तमा ।

[[०१.०३७]]

सुकेशी मञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ॥)

अक्।०१.०१.०५३च्द् हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५३ ॥

लिङ्ग-सूरी - AK.01.01.053

स्त्रियामिति—आप्यन्ते पुण्यकृद्भिरिति अप्सरसः । ऊरू अश्नुते, नारायणस्य ऊर्वोर्भवत्वात् ऊर्वशी । ऊर्वशीमुखस्वर्वेश्यानाम । अप्सरा इत्येकवचनान्तमपि विद्यते ॥ गानं धारयन्तीति गानपराः गन्धर्वाः । हाहा हूहू इत्यालापानुकारात् नामद्वयम् । एकनामेत्येके । अव्ययाविति भोजराजः । हाहाहूहूप्रभृतिदेवगायकनामनी ॥ ५३ ॥

मल्लि-नाथः - AK.01.01.053

स्त्रियां—ऊर्वशीमुखाः । ऊर्वशीरम्भामेनकादिस्वर्गगणिका अप्सरस इत्युच्यन्ते । बहुष्विति बहुवचनप्रकृतिरन्ते लिङ्गसङ्ग्रहे समीरिता । एकवचना विंशत्यादयः । द्विवचना दम्पत्यादयः । बहुवचना अप्सरःप्रभृतयः । त्रिवचना वृक्षादयः । अवचनान्यव्ययानि । केषाञ्चिद् बहुत्वमनभिमतमेव । ʻएकाप्सरःप्रार्थितयोविवादः’ इत्यत्र बहुत्वं प्रायिकाभिप्रायमुक्तम् । अबहुवचनस्योदाहरणम्—

ʻसान्द्रकाण्डपटसंवृतमूर्तेर्दन्तिदन्तशयनीयशयस्य ।

मानिनः कुलवधूरिव रागादप्सरा व्यधित पार्श्वमशून्यम् ॥

इति ॥ हाहा हूहू—त्रिदिवौकसाम् । हाहाशब्दो धातुजो न भवतीति केचिद् व्याचक्रिरे । तज्जल्पितमज्ञानविजृम्भितमेव । ʻहेति निन्दितं ध्वनिं जहातीति हाहा’ इत्यमरभाष्यकाराः प्रतिजानते । गन्धर्वन्ति हाहसोरित्यभिधानान्तरपक्षः । हाहाहूहूप्रभृतयो देवगन्धर्वाः । गान्धर्वा अपि भवन्ति । ʻअपि गन्धर्वगान्धर्वदिव्यगायनगातवः’ इति रभसकोशः ॥ ५३ ॥

मूलम् - ०१.०१.०५४

अक्।०१.०१.०५४अब् अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।
अक्।०१.०१.०५४च्द् कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५४ ॥
[[०१.०३८]]

अक्।०१.०१.०५५अब् बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।
अक्।०१.०१.०५५च्द् आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५५ ॥
अक्।०१.०१.०५६अब् रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।
अक्।०१.०१.०५६च्द् हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ॥ ५६ ॥
अक्।०१.०१.०५७अब् सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।
अक्।०१.०१.०५७च् शुचिरप्पित्तम्

लिङ्ग-सूरी - AK.01.01.054-56

अग्निरिति—अङ्गति ऊर्ध्वं गच्छतीत्यग्निः । ʻअगि ऊर्ध्वगमने । विश्वानरस्य ऋषेरपत्यं वैश्वानरः । हव्यं वहतीति वह्निः । ʻवह प्रापणे । होत्रस्य हविषो वीतिः अश्व इव वहनात् वीतिहोत्रः । अथवा वीतयोऽश्वा होत्रं हव्यमस्येति वीतिहोत्रः । वीतिः आर्याणामशनं होत्रं होमसाधनं तदस्यास्तीति वा वीतिहोत्रः । धनं जयतीति धनञ्जयः । ʻजि जये । कृपीटस्याम्भसो योनिः कृपीटयोनिः । कृपीटं योनिरस्येति वा । ज्वलतीति ज्वलनः । ʻज्वल दीप्तौ’ । जातं विद्यते इति जातवेदाः । ʻविद सत्तायाम् । जातं शुभाशुभं वेत्तीति वा । ʻविद ज्ञाने । वेदो हिरण्यम् अस्मात् जातमिति वा । तनूं न पातयति तनूनपात् । ʻपत्लृ गतौ’ । बृंहति वर्धते आज्येनेति बर्हिः । ʻबृहि वृद्धौ’ । शोषयतीति शुष्मा । बर्हाः दर्भाः शुष्म स्थानमस्येति बर्हिःशुष्मा । दर्भस्थानपक्षे एकनाम । कृष्णं वर्त्म मार्गोऽस्य कृष्णवर्त्मा । शोचींषि केशाः यस्य सः शोचिष्केशः । उषसि बुध्यते प्रकाशते उषर्बुधः । ʻबुध अवगमने । आश्रयम् अश्नातीति आश्रयाशः । ʻअश भोजने । आश्रयाशी इति वा पाठः । बृहन्तः भानवो यस्य बृहद्भानुः । कृश्यति तनूः स्वमान्द्यात् कृशानुः । ʻकृश तनूकरणे । कृशेन मन्थकाष्ठेन उत्पन्न इति वा । पुनातीति पावकः । ʻपूञ् पवने । अनिति वर्धतेऽनेन अनलः । ʻअन प्राणने । काष्ठादिभिः अलं पर्याप्तिः नास्ति अस्येति वा । लोहिताख्यो मृगः अश्वोऽस्येति लोहिताश्वः । वायोः सखा वायुसखः । वायुः सखा अस्येति वा । शिखा अस्यास्तीति शिखावान् । आशु शोषयितुमिच्छतीति आशुशुक्षणिः । हिरण्यं रेतोऽस्य हिरण्यरेताः । हुतं भुङ्क्ते हुतभुक् । ʻभुज पालनाभ्यवहारयोः’ । दहतीति दहनः । ʻदह भस्मीकरणे । हव्ये हव्यविषये वाहते यतते इति हव्यवाहनः । ʻवाहृ प्रयत्ने । हव्यं वहतीति वा । ʻवह प्रापणे । सप्त अर्चीषि यस्य सः सप्तार्चिः । दाम्यति ग्लापयति शमयति दमुनाः । सकारान्तः । ʻदमु उपशमने । शोचयति शत्रूनिति शुक्रः । ʻशुच शोके । शुचं रातीति वा । ʻरा आदाने । शुक्रं रुद्ररेतोऽत्रास्तीति वा । चित्रा भानवो यस्य चित्रभानुः । विभैव वसु धनमस्य विभावसुः । शोचयतीति शुचिः । ʻशुच शोके । शुद्धत्वाद्वा । अपां पित्तम् अप्पित्तम् । एतानि अग्नेर्नामानि ॥ ५४-६ ॥

मल्लि-नाथः - AK.01.01.054-56

अग्निर्वैश्वानरो—तनूनपात् । ʻतनूनपाति पीतसर्पिषि पतङ्ग इव पातयाम्यात्मानम् इति हर्षचरितानुप्रासात् तान्तः । बर्हिः शुष्मा—शोचिष्केश उषर्बुधः । शोचिष्केश इत्यत्र कस्कादित्वात् षत्वमिति कतिचिद्वदन्ति । आश्रयाशो—अप्पित्तम् । अग्निनामानि । बर्हिःशुष्मेति सङ्घातोऽप्यग्निनाम । अपां पित्तमिति वाक्यं सदप्यग्निनाम । शुचिर इति वा पाठः ।

ʻस्रुग्जिह्वो मन्त्रजिह्वश्च त्रिधामा वातसारथिः ।

स्वाहाप्रियः कृष्णगतिर्हव्यवाड्ढव्यसूदनः ।

धूमध्वजो हुतवहः पाञ्चजन्यो वृषाकपिः ॥

एतानि च ॥ ५४-६ ॥

[[०१.०३९ ]]

अक्।०१.०१.०५७च्द् और्वस्तु बाडवो बडवानलः ॥ ५७ ॥

मूलम् - ०१.०१.०५८

अक्।०१.०१.०५८अब् वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् ।

लिङ्ग-सूरी - AK.01.01.057

और्व इति—ऊर्वतीत्यूर्वः । ʻउर्वी तुर्वी धुर्वी हिंसायाम् । तस्यापत्यं और्वः । बडवायां भवः बाडवः । वडवायाम् अनलः वडवानलः । बडवाग्निनामानि ॥ ज्वलतीति ज्वालः । ʻज्वल दीप्तौ’ । कीलति पक्ष्यादिगतिं कीलः । ʻकील बन्धने । एतौ शब्दौ द्वयोः स्त्रीपुंसयोः । अर्च्यते अर्चिः । सान्तः । ʻअर्च पूजायाम् । स्त्रीपुन्नपुंसकेषु अर्चिःशब्दः । प्रायेण अर्चिःशब्दः स्त्रीत्येके । हन्यते अनया हेतिः । ʻहन हिंसागत्योः’ । हिनोति वर्धते वा । ʻहि गतौ वृद्धौ च्ö । हेतिशब्दः सूर्यवह्निदीप्तिपर्याये स्त्रीलिङ्गः । आयुधपर्याये द्वयोः । शाखति वह्नौ शिखा । ʻशाखृ व्याप्तौ’ । अग्निज्वालानामानि ॥ ५७ ॥

मल्लि-नाथः - AK.01.01.057

और्वस्तु बाडबो बडबानलः । समुद्राग्निनामानि । अनुक्तम्—ʻसहरक्षा द्रुमाशनः’ । अरण्याग्निनामनी ॥ वह्नेर्द्वयोः—स्त्रियाम् । अग्निज्वालानामानि । स्त्रियामिति अर्चिरादिविशेषविधिः । अर्चिषः पश्य, हेतीः पश्य, शिखाः पश्य ॥ ५७ ॥

[[०१.०४० ]]

अक्।०१.०१.०५८च्द् त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ ॥ ५८ ॥
(उल्का स्यान्निर्गता ज्वाला भूतिर्भसितभस्मनी ।

क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥)

लिङ्ग-सूरी - AK.01.01.058

त्रिष्विति—स्फुलतीति स्फुलिङ्गः । ʻस्फुल सञ्चलने । अग्नेः कणः अग्निकणः । अग्निकणनाम । सन्तापयतीति सन्तापः । ʻतप सन्तापे । सञ्ज्वरतीति सञ्ज्वरः । ʻज्वर रोगे । अग्निदाहनामनी । निर्गता ज्वाला अस्य उल्का ।

अपगतज्वालाग्निनाम । भूतिः भसितभस्मनी क्षारः रक्षा । एतानि भूतिनामानि । दावः दवः वनहुताशनः दवाग्निनामानि ॥ ५८ ॥

मल्लि-नाथः - AK.01.01.058

त्रिषु स्फुलिङ्गोऽग्निकणः । वह्निकणनामानि । आबन्तताप्रसिद्ध्यर्थं त्रिषु स्फुलिङ्गेति केचित् पठन्ति । ʻत्रयी स्फुलिङ्गाऽपुञ्जो ना खड्गाङ्गश्चाथ सञ्ज्वरः’ इति वैजयन्त्यामपि (पृ। ११, श्लो। ३१) तथैव पठिता । सन्तापः सञ्ज्वरः समौ । दाहनामनी । अनुक्तम्—ʻरेटिः स्त्री रटितं वह्नेः’ । अग्निरटितं रेटिरित्युच्यते । तद्ध्वनिनाम । ʻधूमः स्यान्नमतस्तरिः’ । धूमनाम । ʻउल्का स्यान्निर्गता ज्वाला’ । निर्गतज्वाला उल्का स्यात् । विच्छिन्नज्वालनाम । ʻभूतिर्भसितभस्मनी । क्षारो रक्षा च्ö । भस्मनामानि ॥ ʻदावस्तु दवो वनहुताशने । वनवह्निनामनी ॥ ५८ ॥

[[०१.०४१]]

मूलम् - ०१.०१.०५९

अक्।०१.०१.०५९अब् धर्मराजः पितृपतिः समवर्ती परेतराट् ।
अक्।०१.०१.०५९च्द् कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ॥ ५९ ॥
अक्।०१.०१.०६०अब् कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।

लिङ्ग-सूरी - AK.01.01.059

धर्मराज इति—धर्मस्य राजा धर्मराजः । पितॄणां पतिः पितृपतिः । समं वर्तितुं शीलमस्येति समवर्ती । ʻवृतु वर्तने । परेतेषु राजते परेतराट् । ʻराजृ दीप्तौ’ । कृतः अन्तो येन कृतान्तः । यमुनाया भ्राता यमुनाभ्राता । शमयतीति शमनः । ʻशमु उपशमे । यमेन राजते यमराट् । यमयति नियतिं यच्छतीति यमः । ʻयम उपरमे । कलयतीति कालः । ʻकल किल क्षेपे । दण्डं धरति धारयतीति दण्डधरः । श्राद्धस्य देवः श्राद्धदेवः । विवस्वतोऽपत्यं वैवस्वतः । अन्तं करोतीति अन्तकः । एतानि यमनामानि ॥ ५९ ॥

मल्लि-नाथः - AK.01.01.059

धर्मराजः—अन्तकः । यमनामानि । ʻशामित्रेयः कालकण्ठो दण्डी महिषवाहनः’ । एतानि च ॥ ५९ ॥

अक्।०१.०१.०६०च्द् राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ६० ॥

मूलम् - ०१.०१.०६१

अक्।०१.०१.०६१अब् रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।
अक्।०१.०१.०६१च्द् यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६१ ॥

लिङ्ग-सूरी - AK.01.01.060-61

राक्षस इति—रक्ष एव राक्षसः । कुणपं शवमत्तीति कौणपः । कोणं पातीति वा । क्रव्यं मांसमत्तीति क्रव्यात् । क्रव्यादश्च । ʻअद भक्षणे । अस्रं रक्तं पिबतीति अस्रपः । ʻपा पाने । अश्रप इति पाठे भक्ष्यमांसं न श्रपयति न पचतीत्यश्रपः । ʻश्रा पाके । असुर एव आसुरः । असून् प्राणान् रातीति वा । ʻरा आदाने । आशृणातीति आशरो वा । ʻशॄ हिंसायाम् । रात्रौ चरतीति रात्रिञ्चरः । रात्रिचरश्च । ʻचर गतिभक्षणयोः’ । कर्बुरवर्णत्वात् कर्बुरः । कृणाति हिनस्तीति वा कर्बुरः । ʻकॄ हिंसायाम् । निकषाया आत्मजः निकषामजः । निकषानाम रक्षोमाता । यातूनि यातनाः तीव्रवेदना धीयन्त अस्मिन्निति यातुधानः । यातुना धीयतेऽत्रेति वा । विरुद्धलक्षणेन पुण्यवान् जनः पुण्यजनः । निरृतेरपत्यं नैरृतः । याति रक्षांसि यातु । यातुशब्दः उकारान्तः । ʻया प्रापणे । रक्ष्यतेऽस्मात् जगदिति रक्षः । ʻरक्ष पालने । नैरृतनामानि ॥ ६०-१ ॥

मल्लि-नाथः - AK.01.01.060-61

राक्षसः—निकषात्मजः । कीकसात्मज इति पाठान्तरम् । यातुधानः—यातुरक्षसी । नैरृतनामानि । अनुक्तम्—ʻपलङ्कषो रात्रिमटो रात्र्यटो जललोहितः’ । एतानि च ॥ ६०-१ ॥

[[०१.०४२]]

मूलम् - ०१.०१.०६२

अक्।०१.०१.०६२अब् प्रचेता वरुणः पाशी यादसाम्पतिरप्पतिः ।

लिङ्ग-सूरी - AK.01.01.062

प्रचेता इति—प्रकृष्टं चेतोऽस्य प्रचेताः । वृणोति पाशैरिति वरुणः । ʻवृञ् वरणे । पाशोऽस्यास्तीति पाशी । यादसां पतिः । अपां पतिः अप्पतिः । उभयत्र षष्ठ्या अलुग्विकल्पः । वरुणनामानि ॥

मल्लि-नाथः - AK.01.01.062

प्रचेताः—अप्पतिः । वरुणनामानि । ʻअम्बुकान्तारोऽम्बुभूषणः स्यान्मकरवाहनः’ । एतानि च ॥

[[०१.०४३]]

अक्।०१.०१.०६२च्द् श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६२ ॥

मूलम् - ०१.०१.०६३

अक्।०१.०१.०६३अब् पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।
अक्।०१.०१.०६३च्द् समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६३ ॥
अक्।०१.०१.०६४अब् नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
(प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः ॥)

लिङ्ग-सूरी - AK.01.01.062-63

श्वसन इति—श्वसन्ति अनेन प्राणिनः श्वसनः । ʻश्वस प्राणने । स्पृशतीति स्पर्शनः । ʻस्पृश संस्पर्शने । वातीति वायुः । ʻवा गतिगन्धनयोः’ । मातरि आकाशे श्वयति मातरिश्वा । ʻटुओश्वि गतिवृद्ध्योः’ । सदा गतिः यस्य सदागतिः । पृषदाख्यो मृगोऽश्वो यस्य पृषदश्वः । पृषतां बिन्दूनाम् अश्व इति वा । गन्धस्य वहः गन्धवहः । गन्धं वहतीति वा । ʻवह प्रापणे । अनित्यनेन अनिलः । ʻअन प्राणने । आशु गच्छतीत्याशुगः । समीरतीति समीरः । ʻईर गतौ’ । अनेन कुपितेन म्रियते इति मारतः । मरुच्चैवम् । जगतां प्राणः जगत्प्राणः । सम्यग् ईरयति समीरणः । ʻईर प्रेरणे । नभोऽस्यास्तीति नभस्वान् । वातीति वातः । ʻवा गतिगन्धनयोः’ । पवत इति पवनः । ʻपूङ् पवने । पुनीते वा । पवमानश्च । ʻपूञ् पवने । प्रभञ्जयति शाखादिकं प्रभञ्जनः । ʻभञ्जो आमर्दने । प्रकम्पनो महाबलः झञ्झामारुतः सवृष्टिकः । एतानि वायुनामानि ॥ ६२-३ ॥

मल्लि-नाथः - AK.01.01.062-63

श्वसनः—प्रभञ्जनाः । वायुनामानि । जगदिति तस्यैव नामान्तरं स्यात् । ʻजगत् स्याद् विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु’ इति रुद्रः । प्राण इत्यपि नामान्तरं स्यात् । ʻहृदि स्थितानिले जीवे बले प्राणः प्रकीर्तितः’ इति रुद्रः ।

ʻमहाबलः सततगः शरण्युर्मृगवाहनः ।

ध्वजप्रहरणो धूलिध्वजः पूश्च प्रकम्पनः ॥

एतानि च ॥ ६२-३ ॥

[[०१.०४४]]

अक्।०१.०१.०६४च्द् प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६४ ॥

मूलम् - ०१.०१.०६५

अक्।०१.०१.०६५अब् हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
अक्।०१.०१.०६५च्द् उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥ ६५ ॥
अक्।०१.०१.०६६अ शरीरस्था इमे

लिङ्ग-सूरी - AK.01.01.064-65

प्राण इति—प्रकर्षेण बहिरानयतीति प्राणः । अधो नयतीति अपानः । सर्वत्र आनयतीति समानः । उद् ऊर्ध्वम् आनयतीति उदानः । विनयतीति व्यानः । ʻणीञ् प्रापणे । प्राणयति अपानयति समानयति उदानयति व्यानयतीति वा यथाक्रमं वक्तव्यः । एते पञ्च क्रमेण हृद्गुदनाभिकण्ठसर्वदेहस्थवायुनामानि ॥ ६४-५ ॥ </Amarapadavivrti

मल्लि-नाथः - AK.01.01.064-65

प्राणो—शरीरस्था इमे । प्राणादयः पञ्च शरीरवायवः । अनुक्तम्—ʻझञ्झावातः सवृष्टिः स्यात् । वृष्टिसहितवायुनाम ॥ ʻवात्या वातस्तु मण्डली । मण्डलाकारवातनाम । आन्ध्रभाषायं ʻसुडिघाली । ʻगोगन्धनः पुरोवातः’ । पुरोवायुनाम । ʻयदुरुगाली । ʻपरुषः स्यादिरिङ्गणः’ । चण्डवातनाम । ʻछिन्दुनवटिगालि । ʻमूर्ध्नि वातः किञ्चुलुकः’ । उपरिवातनाम । ʻईन्दिगालि किञ्चुलुकमु’ । ʻमध्यमः स्वेदचूषकः’ । समवातः स्वेदचूषकः स्यात् । ʻसमगालि ॥ ६४-५ ॥

मूलम् - ०१.०१.०६

अक्।०१.०१.०६६ब् रंहस्तरसी तु रयः स्यदः ।
अक्।०१.०१.०६६च्द् जवो ऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६६ ॥
अक्।०१.०१.०६७अब् सत्वरं चपलं तूर्णमविलम्बितमाशु च ।

लिङ्ग-सूरी - AK.01.01.066

रंह इति—रंहति सततं रंहः । ʻरहि गतौ’ । तरत्यनेन तरः । ʻतॄ प्लवनतरणयोः’ । उभौ सान्तौ । रयते अनेनेति रयः । ʻरय गतौ’ । स्यन्दते अनेनेति स्यदः । ʻस्यन्दू प्रस्रवणे । जवते अनेन जवः । ʻजुङ् गतौ’ । एतानि सवेगगतिनामानि ॥ शिङ्घति येन धर्मेण शीघ्रम् । ʻशिघि व्याप्तü । त्वरते अनेन त्वरितम् । ʻञित्वरा सम्भ्रमे । त्वरया सह वर्तत इति सत्वरम् । लङ्घ्यते अनेन लघु । ʻलघि गत्याक्षेपे । क्षिपत्यनेन क्षिप्रम् । ʻक्षिप प्रेरणे । अरम् इत्यव्ययम् । द्रवतीति द्रुतम् । ʻद्रु गतü । चोपत्यनेनेति चपलम् । ʻचुप मन्दायां गतü । तुरते इति तूर्णम् । ʻतुर त्वरणे । न विलम्बते ऽस्मात् अविलम्बितम् । ʻलबि आलम्बने । अश्नुते आशु । ʻअशू व्याप्तü ॥ ६६ ॥

मल्लि-नाथः - AK.01.01.066

रंहस्तरसी—आशु च । आद्यन्तयोः क्रियावयवयोः सामीप्यनामानि ॥ ६६ ॥

[[०१.०४५ ]]

अक्।०१.०१.०६७च्द् सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६७ ॥

मूलम् - ०१.०१.०६८

अक्।०१.०१.०६८अब् नित्यानवरताजस्रमप्यथातिशयो भरः ।

लिङ्ग-सूरी - AK.01.01.067

सततमिति—सन्तन्यते सततम् । सन्ततं च । न विद्यते आरतं विरामो ऽत्रेति अनारतम् अविरतम् अनवरतं च । न श्राम्यन्त्यत्रेति अश्रान्तम् । ʻश्रमु तपसि खेदे च्ö । नास्ति निशा अत्रेति अनिशम् । नियतं भवं नित्यम् । न जस्यतीति अजस्रम् । ʻजसु उपक्षये । अविच्छित्तिनामानि ॥ अतिशेते जयत्यनेनेति अतिशयः । भरतीति भरः । ʻभृञ् भरणे ॥ ६७ ॥

मल्लि-नाथः - AK.01.01.067

सततानारत—अजस्रमपि । क्रियायाः क्रियान्तरेणाव्यवधानस्य नामानि ॥ ६७ ॥

[[०१.०४६ ]]

अक्।०१.०१.०६८च्द् अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६८ ॥

मूलम् - ०१.०१.०६९

अक्।०१.०१.०६९अब् तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।
अक्।०१.०१.०६९च्द् क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६९ ॥

लिङ्ग-सूरी - AK.01.01.068-69

अतिवेलमिति—वेलामतिक्रान्तम् अतिवेलम् । बिभर्तीति भृशम् । ʻभृञ् भरणे । अर्थमतिक्रान्तम् अत्यर्थम् । मात्रामतिक्रान्तम् अतिमात्रम् । उद्गाहते प्रादुर्भवतीति उद्गाढम् । ʻगाहू विलोडने । निःशेषः सर्वो भरो ऽत्रेति निर्भरम् । तीवतीति तीव्रम् । ʻतीव स्थौल्ये । एकोऽन्तो निश्चितोऽत्र एकान्तम् । नितरां ताम्यतीति नितान्तम् । ʻतमु ग्लानü । गाहते गाढम् । ʻगाहू विलोडने । बाहते बाढम् । ʻबाह प्रयत्ने । दृंहतीति दृढम् । ʻदृहि वृद्धü । बृढेति वा पाठः, बृहतीति बृढम् । ʻबृह वृद्धü । अतिशयनामानि ॥ क्लीबे शीघ्राद्यसत्त्वे स्यात् । शीघ्रादिदृढपर्यन्तशब्दाः असत्त्वे क्रियाविशेषणत्वे गुणवृत्तित्वेऽपि नपुंसकलिङ्गाः । क्रियाविशेषणत्वे यथा—शीघ्रं पचति, सततं गच्छति, क्षिप्रं करोतीत्यादि । गुणवृत्तित्वे यथा—अश्वस्य शीघ्रम् । तूलस्य लघु इत्यादि । अत्रातिशयभरशब्दौ गुणवृत्तित्वे पुंलिङ्गौ । यथा—गन्धस्यातिशयः । पुष्पाणां भर इत्यादि । क्रियाविशेषणत्वे तु शीघ्रादिवन्नपुंसकलिङ्गावेव । यथा—अतिशयं भुङ्क्ते । भरं तिष्ठति इत्यादि । त्रिष्वेषां सत्त्वगामि यत् । एषां शीघ्रादिपदानां मध्ये यत् सत्त्वगामि विशेष्यगामि, तत् त्रिषु लिङ्गेषु भवति । यथा—शीघ्रोऽश्वः । क्षिप्रा जरा । सततं सुखम् । लघुस्तुष इत्यादि ॥ ६८-९ ॥

मल्लि-नाथः - AK.01.01.068-69

अथातिशयो—दृढानि च । क्रियावयवसाकल्यनामानि । क्लीबे—सत्त्वगामि यत् । उक्तानामेषां रंहःप्रभृतिशब्दानां मध्ये भावकरणप्रत्ययान्तवर्जितो यः शब्दोऽस्ति स शब्दोऽसत्त्वेऽद्रव्ये वर्तमानो नपुंसकलिङ्गो भवति । यथा—शीघ्रं गच्छति । सततं शेते । अतिमात्रं भुङ्क्ते । सत्त्वगामिद्रव्ये वर्ती सन् त्रिलिङ्गो भवति । यथा—शीघ्रो बाणः । सन्ततो रागः । अतिमात्रो भारः । भावकरणप्रत्ययान्ताः शब्दा उक्तलिङ्गाः । अश्वस्य जवः । हयस्यातिशयः इत्यादि ॥ ६८-९ ॥

[[०१.०४७ ]]

मूलम् - ०१.०१.०७०

अक्।०१.०१.०७०अब् कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः ।
अक्।०१.०१.०७०च्द् मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ७० ॥
अक्।०१.०१.०७१अब् किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।
अक्।०१.०१.०७१च्द् यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ ७१ ॥

लिङ्ग-सूरी - AK.01.01.070-71

कुबेर इति—कुत्सितं बेरं शरीरमस्येति कुबेरः । त्र्यम्बकस्य सखा त्र्यम्बकसखः । यक्षेषु राजत इति यक्षराट् । ʻराजृ दीप्तü । गुह्यकानाम् ईश्वरः गुह्यकेश्वरः । मनुष्यस्येव धर्मोऽस्येति मनुष्यधर्मा । नान्तः । धनं दयते धनदः । ʻदेङ् रक्षणे । धनं ददातीति वा धनदः । ʻडुदाञ् दाने । राज्ञां यक्षाणां राजा राजराजः । धनानाम् अधिपः धनाधिपः । किन्नराणाम् ईशः किन्नरेशः । विश्रवसोऽपत्यं वैश्रवणः । पुलस्तेरपत्यं पौलस्त्यः । पुलस्त्यस्यापत्यं वा । नरो वाहनमस्य नरवाहनः । यक्षजातिराजत्वाद् यक्षः । एकं नेत्रं पिङ्गमस्य एकपिङ्गः । इलबिलाया अपत्यम् ऐलविलः । इडबिडा मातास्येति ऐडबिडो वा । लडयोरेकत्वस्मरणात् । श्रियं ददातीति श्रीदः । ʻडुदाञ् दाने । पुण्यजनानाम् ईश्वरः पुण्यजनेश्वरः । एतानि कुबेरनामानि ॥ ७०-१ ॥

मल्लि-नाथः - AK.01.01.070-71

कुबेरः—वैश्रवणः । विश्रवःशब्दात् ʻतस्येदम् (४। ३। १२०) इत्यणि कृते विश्रवसो विश्रवणरवणाविति प्राप्ते विश्रवणादेशे वृद्धौ वैश्रवण इति रूपं सिद्धम् । पौलस्त्यो—पुण्यजनेश्वराः । कुबेरनामानि । अनुक्तम्—

ʻकैलासनाथो हर्यक्षो रत्नगर्भः सितोदरः ।

इच्छावसुर्निधिपतिस्तथा स्यादेककुण्डलः ॥

एतानि च ॥ ७०-१ ॥

[[०१.०४८]]

मूलम् - ०१.०१.०७२

अक्।०१.०१.०७२अब् अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ।
अक्।०१.०१.०७२च्द् कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७२ ॥

लिङ्ग-सूरी - AK.01.01.072

अस्येति—चित्ररथेन गन्धर्वेण निर्मितं चैत्ररथम् । कुबेरोद्याननाम ॥ नल इव कूबरः चारुः नलकूबरः । नलस्येव कूबरो रथावयवोऽस्येति वा । कुबेरपुत्रनाम ॥ के शिरसि शिवयोः लासो नृत्यं, तदस्यास्तीति कैलासः । केलीनां समूहः कैलं, तेन आस्यते रथीयत इति कैलासः । ʻआस उपवेशने । केलयोः जलभूम्योः आसनं स्थितिर्यस्य केलसः स्फटिकम् । तस्यायं कैलासः । कुबेरस्थाननाम ॥ अलति स्वस्थानं भूषयतीति अलका । ʻअल भूषणपर्याप्तिवारणेष्ü । कुबेरनगरीनाम ॥ पुष्पमिव पुष्पकम् । कुबेरविमाननाम ॥ ७२ ॥

मल्लि-नाथः - AK.01.01.072

अस्योद्यानं चैत्ररथम् । कुबेरोद्यानवननाम ॥ पुत्रस्तु नलकूबरः । तत्पुत्रनाम ॥ कैलासः स्थानम् । कुबेरस्थाननाम ॥ ʻअष्टापदो हराद्रिः स्यात् कैलासो रजताचलः’ इत्ययमपि । अलका पूः । तन्नगरनाम ॥ विमानं तु पुष्पकम् । तद्विमानं तु पुष्पकं स्यात् ॥ ७२ ॥

[[०१.०४९]]

मूलम् - ०१.०१.०७३

अक्।०१.०१.०७३अब् स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ।
अक्।०१.०१.०७३च्द् निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥ ७३ ॥
अक्।०१.०१.०७४अब् महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
अक्।०१.०१.०७४च्द् मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव ॥ ७४ ॥
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने स्वर्गवर्गः

लिङ्ग-सूरी - AK.01.01.073-74

स्यादिति—किञ्चिन्नरः किन्नरः । किञ्चित् पुरुषः किम्पुरुषः । कुत्सितो नरो वा । तुरङ्गस्येव वदनमस्य तुरङ्गवदनः । मयते विनिमयते मयुः । ʻमय गतü । एतानि किन्नरनामानि ॥ निधीयते अत्रेति निधिः । ʻडुधाञ् धारणपोषणयोः’ । शेवं स्थाप्यं धनं धीयतेऽत्र शेवधिः । निधिनाम ॥ महांश्चासौ पद्मश्च महापद्मः । पद्यते पद्मः । ʻपद्लृ सेवायाम् । शमयति दुःखं शङ्खः । ʻशमु उपशमे । मकरवद् ग्रहीतुमशक्यत्वात् मकरः । कूर्मवत् स्थितत्वात् कच्छपः । कमनीयत्वात् मुकुन्दः । कुन्दश्च । नितराम् ईड्यते नीलः । ʻईड स्तुतü । चर्च्यन्ते चर्चाः । ʻचर्च अध्ययने । एतानि निधिभेदनामानि ॥ ७३-४ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ स्वर्गवर्गनामलिङ्गविवेचनम्

मल्लि-नाथः - AK.01.01.073-74

स्यात् किन्नरः—मयुः । किन्नरनामानि । ʻकिमनेन गृहीतेन वागृहीतेन वा किन्नरयुगलेन प्रयोजनम् (काद। पृ। २२७) ʻइदमुपश्रुतमश्वमुखद्वयम् (पृ। २२७) इति कादम्बर्यामभेदः कथितः ।

ʻबिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्त मुखमिह किन्नरं प्रियायाः ।

श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥

इति माघकाव्ये (४। ३८) भेदः कथितः । अनुक्तम्—ʻगुह्यकः स्यान्माणिचरः’ । गुह्यकनाम ॥ ʻयक्षः पुण्यजनः समü । यक्षनाम ॥ निधिर्ना शेवधिः । निधिनामानि ॥ ʻनिधानगर्भामिव सागराम्बराम् इति रघुवंशे (३। ९) ल्युडन्तनिधानशब्दोऽप्यस्ति । ʻमानसेवाधिमानसे इति सेव्यप्रकृतिकसेवाधिशब्दोऽप्यस्ति । भेदाः—निधेः । निधिभेदाः ।

ʻपद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।

मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते स्वर्गवर्गः

[[०१.०५०]]