विस्तारः (द्रष्टुं नोद्यम्)
शब्दानाम् अर्थज्ञानार्थं कोशः नित्यमुपकरोति । संस्कृतवाङ्मये अनन्ताः कोशाः राराज्यन्ते । सर्वेषु कोशेषु कश्चन सुप्रसिद्धः कोशः अस्ति अमरसिंहस्य अमरकोशः । अस्य कोशस्य बह्व्यः व्याख्याः सन्ति । व्याख्याप्रदीपः, अमरकोषमाला, अमरविवेकः, पदचन्द्रिका इत्यादयः । तासु श्रीभानुजिदीक्षितकृत-व्याख्यासुधा नाम व्याख्या सुप्रसिद्धा ।
व्याख्यासुधायां शङ्कासमाधानम्, खण्डनमण्डनम्, सदसद्विवेचनम्, पाठान्तरादिकथनम् इत्येवमादयः बहवः विचाराः सन्ति । व्याकरणभूयिष्ठाः विषयाः अपि नैकाः । पाणिन्यादिकृतसूत्रवार्तिकोणादिसूत्राणि योजयित्वा धातुप्रत्ययनिर्देशनपुरस्सरं स्थाने व्युत्पत्त्यन्तरसाधनपुरस्सरं प्रक्रियाप्रदर्शनपुरस्सरं प्रत्येकं पदमपि सुसाधितमिति अस्याः व्याख्यायाः वैशिष्ट्यम् ।
त्रिकाण्डशेषः, देशीकोशः, द्विरूपकोशः, नाममाला, मेदिनी, रत्नकोशः, रुद्रकोशः, विक्रमादित्यकोशः, विश्वः, हलायुधः इति नानाविधकोशानां कोशपङ्क्तयः तत्र तत्र शब्दव्याख्यानवेलायां स्वीकृताः सुधाकारैः भानुजिदीक्षितैः ।
सिद्धान्तकौमुदीकारस्य महावैयाकरणस्य भट्टोजिदीक्षितस्य आत्मजः भानुजिदीक्षितः । अयमपि पितृवदेव महावैयाकरण इति सुधाव्याख्यावलोकनेनैव सुस्पष्टं ज्ञायते । रामाश्रम इति भानुजीदीक्षितस्य नामान्तरम् । अतस्तस्य व्याख्यायाः व्याख्यासुधायाः रामाश्रमी इति नाम प्रथते ।
सुधाव्याख्यायाः मङ्गलपद्यम् – बल्लवीवल्लभं नत्वा गुरुं (गिरं) भट्टोजिदीक्षितम् । आ (अ)मरे विदधे व्याख्यां मुनित्रयमतानुगाम् ॥
अ
- नञोऽयमकारः ॥
अंशः अंशः ।
अंशुः अंशयति । ‘अंश विभाजने’ चुरादिः । मृगय्वादित्वात् (उ० १.३७) कुः । ‘अंशुर्लेशे रवौ रश्मौ’ इति विश्वः । ‘अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितौ ।
अंशुकम् ‘अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितेः’ (इति हैमः) । अंशून् कायति । कः (३.२.३) यद्वा अंशुभिः काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः’ (इति मेदिनी) ॥ ‘पटोऽस्त्री कर्पटः शाटः सिचयप्रोतलक्तकाः’ इति रभसः ॥
अंशुमती अंशवः सन्त्यस्याः । दीर्घमूलत्वात् । ‘अंशुमान् भास्करे सालपर्ण्यामंशुमती स्मृता’ (इति मेदिनी) ॥
अंशुमत्फला अंशुमन्ति सूक्ष्मावयववन्ति फलान्यस्याः । यद्वा अंशुमानिव फलान्यस्याः । अजादिः (४.१.४) । ‘कदली सुकुमारा च रम्भा भानुफला मता’ इति धन्वन्तरिः ॥
अंसः “अस्यते समाहन्यते भारादिना । ‘अंस समाघाते’ (चु० उ० से०) । घञ् (३.३.१९) । यद्वा अमति, अम्यते, वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘अमेः सन्’ (उ० ५.२१) । ‘अंसः स्कन्धे विभागे स्यात्’ इति हैमः ॥”
अंसलः अंसोऽस्यास्ति । ‘वत्सांसाभ्यां कामबले’ (५.२.९८) इति लच् ॥
अंहः “अमति गच्छति । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘अमेर्हुक्च (उ० ४.२१३) इत्यसुन्, हुगागमश्च । यद्वा अंहति । ‘अहि गतौ’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘अङ्घः’ इति केचित्पठन्ति । तत्र ‘अघि गतौ’ (भ्वा० आ० से०) धातोर्बोध्यः ।”
अंहतिः हन्ति दुरितमनया । ‘हन्तेरंह च’ (उ० ४.६२) इत्यतिः । ‘अंहतिस्त्यागरोगयोः’ इति हैमः ॥
अकूपारः कुं पृथ्वीं पिपर्ति । ‘पृ पालनपूरणयोः’ (जु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । अन्येषामपि-’ (६.३.१३७) इति दीर्घः । नञ्समासः (२.२.१८) । यद्वा न कूपमृच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अगाधत्वात् खनितुमशक्यः । कुश्च उश्च क्वौ पिपर्ति । ‘पृ पालनपूरणयोः (जु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । तद्भिन्नः । (‘अकूपारः कूर्मराजसमुद्रयोः’)
अक्षः
- अक्षा इति । अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्वे विभीतकतरावपि । चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये’ (इति मेदिनी) ॥
अक्षः अक्षति । ‘अक्षू व्याप्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षे रावणौ सर्पे विभीतकतराव । चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये’॥
अक्षः अक्षः।
अक्षताः “क्षणनम् । ‘क्षणु हिंसायाम्’ (त० उ० से०) ‘नपुंसके भावे क्तः’ (३.३.११४) । न क्षतं येषां ते । चो भिन्नक्रमः । अक्षताश्च पुंभूम्नि, इत्यर्थः । मुकुटस्तु-‘अक्षतम्’ इति पठित्वा ‘क्षणु हिंसायाम्’ (तु० उ० से०) । कर्मणि क्तः (३.२.१०२) । क्षतं खण्डितम् । न क्षतमक्षतम् । इति विगृह्य । ते (लाजाः) नित्यपुंलिङ्गा नित्यबहुवचनान्ताश्च–इति व्याचख्यौ । ‘अक्षतं न द्वयोः पण्डे लाजेषु, त्रिष्वहिंसिते । यवेऽपि क्वचित्’ (इति मेदिनी) ॥”
अक्षदर्शकः ‘अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः’ इति विश्वः । पश्यति । ण्वुल् (३.१.१३३) अक्षाणां व्यवहाराणां दर्शकः ॥
अक्षदेवी
- अक्षैर्दीव्यति । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
अक्षधूर्तः
- अक्षेषु धूर्तः । ‘सप्तमी शौण्डेः’ (२.१.४०) इति समासः ॥
अक्षम् अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘अक्षो रथस्यावयवे व्यवहारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ । अक्षं सौवर्चले तुत्थे हृषीके’ इति हेमचन्द्रः ॥
अक्षरचणः अक्षरैर्वित्तः । ‘तेन वित्तः-’ (५.२.५६) इति चणप् ॥
अक्षरचुञ्चुः एवम् ‘अक्षरचुञ्चुः’ अपि ॥ अक्षरैर्वित्तः । ‘तेन वित्तः-’ (५.२.५६) ।
अक्षवती
- अक्षाः पाशकाः । सन्त्यस्याम् । मतुप् (५.२.९४) । लोकात्स्त्रीत्वम् ॥
अक्षाग्रकीलकः अक्षाग्रकीलकः
अक्षान्तिः अक्षान्तिरिति । न क्षमणम् । क्षाम्यतेः क्तिनि नञ्समासः ।
अक्षि अश्नुते । अनेन वा । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । ‘अशेर्नित्’ (उ० ३.१५६) इति क्सिः । ‘अशेः षिच्’ इति मुकुटोऽपाणिनीयः । यद्वा अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । इन् (उ० ४.११८) ॥
अक्षीवः “आक्षीवते, आक्षीवयति वा । ‘क्षीवृ मदे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१२४) ॥ ह्रस्वादिरपि । ‘अक्षीवं वशिरे, शिग्रौ नाऽमत्ते पुनरन्यवत् ॥”
अक्षीवम् “सेति । समुद्रे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सामुद्रं लवणान्तरे । लक्षणे च शरीरस्य’ इति हैमः । लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । ‘लवणाल्लुक्’ (४.४.२४) इति निपातनाण्णत्वम् । ‘लवणं सैन्धवादौ ना सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदद्विषोः स्त्रियाम्’ (इति मेदिनी) । अक्ष्ण ई । अक्षीं वाति, वायति, वा । ‘वा गत्यादौ’ (अ० प० अ०) । ‘ओ वै शोषणे’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अक्षीवं वशिरे, शिग्रौ ना, मत्ते पुनरन्यवत्’ इति विश्वः (मेदिनी) ॥”
अक्षोटः तस्मिन्निति । तस्मिन् पीलौ गिरिजे । अक्ष्णेति । ‘अक्षु व्याप्तौ संघाते च’ (भ्वा० प० से०) । बाहुलकादोटः। ‘अक्षस्येवोटाः पर्णान्यस्य’ इति वा ॥
अक्षौहिणी देति । दशानीकिन्यौऽक्षौहिणी । ऊहः समूहोऽस्त्यस्याः । इनिः (५.२.११५) । अक्षाणामूहिनी । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । ‘अक्षादूहिन्याम्’ (वा० ६.१.८९) इति वृद्धिः । यत्तु सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं ज्ञानमक्षोहः । सोऽस्त्यस्याः इनिः (५.२.११५) ‘अकृतव्यूहाः-’ इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६.१.८९) इति मुकुटेनोक्तम् । तन्न । ऊहिनीशब्देन विग्रहे वृद्धेश्चरितार्थत्वात् । ‘अपवादोप्यऽन्यत्र चरितार्थोत्तदाऽन्तरङ्गेण बाध्यते’ । तथा ‘सर्व इह’ इत्यत्रापवादोऽपि सवर्णदीर्घो गुणेन बाध्यते । ‘अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः । संख्या युक्ता सहस्राणि गजानामेकविंशतिः । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु । संख्यातास्तुरगा स्तज्ज्ञैर्विना रथतुरङ्गमैः । नृणां शतसहस्त्रं तु सहस्राणि नवैव तु । शतानि त्रीणि चान्यानि पञ्चाशच्च पदातयः’ ॥
अखातम् अखातमिति । खाताद्भिन्नम् ॥‘
अगदंकारः अगदमरोगं जन्तुं करोति । ‘कर्मण्यण्’ (३.२.१) ‘कारे सत्यागदस्य’ (६.३.७०) इति मुम् ॥
अगदः “गदविरुद्धम् । न गदोऽस्मात्, इति वा ॥”
अगमः न गच्छति । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) ॥ त्रयोदश वृक्षस्य ।
अगस्त्यः अगं विन्ध्यं स्त्यायति स्तभ्नोति । आतोऽनुपसर्गे कः’ (३.२.३) । अगस्त्यः स्यात्कुम्भयोनौ वङ्गसेनतरावपि’ । अगमस्यतीत्यप्यगस्तिः । ‘वसेस्तिः’ (उ० ४.१८०) बाहुलकादस्यतेरपि-इति मुकुटः । वस्तुतस्तु क्तिच् तौ च-’ (३.३.१७४) इति क्तिजुचितः । बाहुलकाश्रयस्यागतिकगतित्वात् । शकन्ध्वादिः (वा० ६.१.९४) । ’अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः’ इति शब्दार्णवः ।
अगाधम् अगाधमिति । नास्ति गाधः स्थितिरत्र । ‘नञोऽस्त्यर्थानाम्-’ (वा० २.२.२४) इति बहुव्रीहिः ।
अगुरु “न गुरुरस्मात् । ‘अगुरु क्लीबे शिंशपायां जोङ्गके, लघुनि त्रिषु’ इति रुद्रः ॥”
अगुरुः ‘कालागुर्वेप्यगुरूच्यते’-इति सुभूतिः ।
अगुरुम् न गुरु । यस्माद्वा । ‘कुस्तुम्बुरुकधान्याकमगुरु वा पुंसि लघुनाम च’ इति वोपालितः । अगुरुस्त्वगरौ लघौ । शिंशिपायाम्’ इति हैमः । (‘अगुर्वगरु राजार्हम्’ इति हैमः) ॥
अग्नायी अथेति । अग्नेः स्त्री । ‘वृषाकप्यग्नि-’(४.१३७) इत्यैर्ङीष् च ॥
अग्निः अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अङ्गेर्नलोपश्च (उ० ४५०) इति निर्नलोपश्च । (‘अग्निर्वैश्वा नरेऽपि स्याच्चित्रकाख्यौषधौ पुमान्)
अग्निकणः अग्नेः कणः ।
अग्निचित् चीति । अग्निमचैषीत् । चिञ् चयने’ (स्वा० उ० अ०) । अग्नौ चेः’ (३.२९१) इति क्विप् । तुक् (६.१.७१) ॥
अग्निज्वाला अग्नीति । अग्नेज्वालेव । रक्तपुष्पत्वात् ॥
अग्निभूः अग्नेर्भवति । ‘भुवः-’ (३.२.१७९) इति क्विप् ।
अग्निमन्थः अग्निं मथ्नाति । ‘मन्थ विलोडने’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) ।
अग्निमुखी “अग्निरिव मुखमस्याः, गौरादिः (४.१.४१) । ‘भवेदग्निमुखो देवे विप्रे भल्लातके स्त्रियाम् ॥”
अग्निशिखम् अग्निरिव शिखा केसरोऽस्य । ‘अथाग्निशिखमुद्दिष्टं कुसुम्भे कङ्कुमेऽपि च’ (इति मेदिनी) ॥
अग्निशिखा अग्नेरिव शिखास्याः । ‘अग्निज्वाला लाङ्गलिकी’ इति वाचस्पतिः ॥
अग्निशिखा अग्नेरिव शिखा संतापो यस्याः । ‘अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कमेऽपि च । लाङ्गलिक्याख्यौषधौ च विशल्यायां च योषिति’ (इति मेदिनी) ॥
अग्नीध्राद्यः आग्नीति । अग्नीनिन्धे । ‘ञि इन्धी दीप्तौ’ (रु० आ० से०) ॥ क्विप् (३.२.७६) । नलोपः (६.४.२४) । अग्नी दृत्विक । अग्नीधः स्थानम् । ‘अग्नीधः शरणे रण् भं च’ (वा० ४.३.१२०) । आग्नीध्रं स्थानम् । तात्स्यात्सोऽपि । ‘स्फायि (उ० २.१३) इति रक् । नलोपः (६.४.२४) । अग्नीध्रः इति मुकुटः । तन्न । स्फाय्यादिष्विन्धेरपाठात् । अस्मदुक्तप्रक्रियायाः सत्वाच्च । आग्नीध्र आद्यो येषां ब्रह्मोद्गातृहोत्रध्वर्यंब्राह्मणाच्छंसिअच्छावाकनेष्ट्रादीनां षोडशानाम् ॥
अग्न्युत्पातः अग्नेरुत्पतनम् उत्पातो वैकृतम् ।
अग्रजः अग्रे जातः । डः (३.२.९७) ॥
अग्रजन्मा अग्र आदौ जन्मास्या ॥ अग्रान्मुखाद्वा जन्मास्य । अग्रजन्मा द्विजश्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः’ इति विश्वः ॥
अग्रतः
- अग्रे । आद्यादित्वात् (वा० ५.४.४४) तसिः ॥
अग्रतःसरः अग्रतः सरति । पुरः सरति । ‘पुरोऽग्रतः-’ (३.२.१८) इति टः ॥
अग्रमांसम् अग्रं मुख्यं मांसम् ॥
अग्रम् अगति। ‘अग कुटिलायां गतौ’ । (भ्वा० प० से०) । ‘ऋज्रेन्द्राग्रवज्र-’ (उ० २.२८) इति साधु । ‘अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समृहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत् ॥
अग्रियः अग्रे जातः । ‘अग्राद्यत्’ (४.४.११६) । ‘घच्छौ च’ (४.४.११७) इति घः । अग्र्याग्रीयौ च । क्वचित् ‘अग्रीमः’ इति पाठः । ‘अग्रादिपश्चाड्डिमच्’ (वा० ४.३.२३) ॥
अग्रेदिधिषूः मनुस्तु-‘ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषुर्मता’ इत्याह ॥ स इति । अग्रे प्रधानं दिधिषूर्यस्य । ‘अग्रे’ इति विभक्तिप्रतिरूपको निपातः । समासान्तविधेरनित्यत्वान्न कप् (५.४.१५३) ॥ द्विजः क्षत्रियादिरपि । ‘दिधिषूः परपूर्वाग्रेदिधिषूस्तत्पुरंधिकः’ इति नाममाला ॥
अग्रेसरः अग्रे सरति । ‘पुरोऽग्रतोऽग्रेषु-’ (३.२.१८) इति टः ॥
अघमर्षणम् सेति । सर्वाणि एनांसि मानसादिपापानि अपध्वंसयितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । जप्यते । ‘जप मानसे च’ (भ्वा० प० से०) । ‘पोरदुपधात्’ (३.१.९८) इति यत् । अघं मर्षति । ‘मृषु सहने’ (भ्वा० प० से०) । सहनमभिभवः । यद्वा मृष्यति । ल्युट् (३.३.११३) । स्त्रियां टित्त्वात् (४.१.१५) ङीष् ॥
अघम् अङ्गते गच्छति दानादिना । ‘अघि गतौ’ (भ्वा० आ० अ०) । पचाद्यच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् । ‘अघं दुःखे व्यसनैनसोः इति हैमः ।
अघ्न्या “न हन्यते, हन्ति दातारम्, वा । ‘अघ्न्यादयश्च (उ० ४.११२) इति साधुः ॥”
अङ्कः अङ्कयतेऽनेन । ‘अकि लक्षणे’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् । (‘अङ्को भूषारूपकलक्ष्मसु) चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः)
अङ्कुरः अङ्कुर इति । अङ्क्यते । ‘अकि लक्षणे’ (भ्वा० आ० से०) । मन्दिवाशिमथि-’ (उ १.३८) इत्युरच् । ‘अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे’इति हैमः । खर्जूरादित्वात् ऊरः । अङ्कुरश्चाङ्करः प्रोक्तः’इति हलायुधः ।
अङ्कुशः अङ्क्विति । अङ्क्यतेऽनेन । ‘अकि लक्षणे’ (भ्वा० आ० से०) । ‘सानसिवर्णासि-’ (उ० ४.१०७) इति साधुः ॥
अङ्कोटः अङ्कोट इति । अङ्कयते ‘अकि लक्षणे’ (भ्वा० आ० से०) । बाहुलकादोटः ॥
अङ्क्यः भेदा इति । तेषां भेदास्तु त्रयः । अङ्के उत्सङ्गे भवः । शरीरावयवाद्यत् (४.३.५३)
अङ्ग
- अङ्गनम् । ‘अगि गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
अङ्ग
- अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) ॥
अङ्गणम् अङ्गमिति । अङ्गत्यत्र । ‘अगि गतौ (भ्वा० प० से०) । करणा- (३.३.११७) इति ल्युट् । अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता’ इति नान्तवर्गे विश्वः । ‘अङ्गणम्’ इति पाठे तु पृषोदरादिः (६.३.१०९) ॥
अङ्गदः “अङ्गं दयते, दायति, द्यति वा । ‘देङ् पालने’ (भ्वा० आ० अ०) । ‘दैप् शोधने’ (भ्वा० प० अ०) वा । ‘दो अवखण्डने’ (दि० प० अ०) वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् । अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति’ (इति मेदिनी) ॥”
अङ्गना अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । युच् (उ० २.७८) । कल्याणान्यङ्गान्यस्याः इति वा । ‘अङ्गात्कल्याणे’ (ग० ५.२.१००) इति नः ।
अङ्गना वीति । स्त्रीणां विशेषा भेदाः ॥ अङ्गनेत्यादि । प्रशस्तान्यङ्गान्यस्याः । ’अङ्गात्कल्याणे’ (ग० ५.२.१००) इति नः । ‘अङ्गनं प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी’ इति हैमः ॥
अङ्गम् अङ्गमिति । अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । अङ्गं गात्रे प्रतीकोपाययोः पुंभूम्नि नीवृति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके’ (इति मेदिनी) ॥
अङ्गरशकटी अङ्गाराणां शकटी ॥
अङ्गविक्षेपः अङ्गानां विक्षेपः । क्षिप प्रेरणे’ (तु० उ० अ०) । घञ् (३.३.१८) । ‘अङ्गहारस्त्वङ्गहारिर्द्वित्रादिमाम्बिकाम्बिका’ इति शब्दार्णवः ।
अङ्गसंस्कारः अङ्गं संस्क्रियतेऽनेन । घञ् (३.३.१९) ॥
अङ्गहारः अङ्गेति । अङ्गस्य स्थानात् स्थानान्तरे नयनमङ्गहारः । अङ्गस्य हरणम् । हृञ् हरणे’ (भ्वा० उ० अ०) । घञ् (३.३.१८) । अङ्गुल्यादिविन्यासः ।
अङ्गारः अथेति । अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । ‘अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) । अङ्गमियर्ति वा । ‘ऋ गतौ’ (जु० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘अङ्गारमुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते’ इति विश्वः (मेदिनी) ॥
अङ्गारकः अङ्गारक इति । अङ्गानि इयर्ति पीनत्वात् । ‘ऋ गतौ’ (जु० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । अङ्गति वा । अगि गतौ (भ्वा० प० से०) । ‘अङ्गिमदि-’ (उ०३१३४) इत्यारन् । संज्ञायां कन् (५.३.९७) । अङ्गार इव । कन् (५. ३.९६) रक्तवर्णत्वादिति वा । ‘अङ्गारकः कुजेऽपि स्यादु- ल्मुकांशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे किंशुककोरके ।
अङ्गारधानिका अङ्गेति । अङ्गारा धीयन्तेऽस्याम् । धाञः (जु० उ० अ०) ल्युट् (३.३.११६) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । कन् (ज्ञापि० ५.४.५) ॥
अङ्गारवल्लरी अङ्गारवर्णपर्णावल्लरी ॥
अङ्गारवल्ली अङ्गारवद्वल्ल्यस्याः । समासान्तविधेरनित्यत्वान्न कप् ॥
अङ्गीकारः ‘अङ्गी’ इति च्व्यन्तमव्ययम् । तत्पूर्वात्कृञो भावे घञ् (३.३.१८)
अङ्गुलिमुद्रा सेति । सा ऊर्मिका । अक्षरैः सहिता चेत् । अङ्गुल्या मुदं राति । ‘आतः’ (३.२.३) इति कः । मोदते वा । ‘मुद हर्षे’ (भ्वा० आ० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् । अङ्गल्या मुद्रा ॥
अङ्गुली अङ्ग्विति । अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । ‘ऋतन्यञ्जि-’ (उ० ४.२) इत्युलिः । अङ्गुं पाणिपादमवयवं लाति । बाहुलकाड्डिर्वा । ‘अङ्गुलिः करशाखायां कर्णिकायां गजस्य च’ इति हैमविश्वप्रकाशौ । ‘बालमूललध्वङ्गुलीनां वा लो रः’ (वा० ८.२.१८) । (अङ्गुरिः) । ‘अङ्गुलस्तु यवो मतः’ इत्यमरदत्तः । ‘अङ्गुलो ना यवमानम्’ इति वाचस्पतिः । तत्राङ्गेर्बाहुलकादुलः ॥
अङ्गुलीयकः अङ्गुलीति । अङ्गुलौ भवम् । ‘जिह्वामूलाङ्गुलेश्छः’ (४.३.६२) । स्वार्थे कन् (ज्ञापि० ५.४.५) । –‘कपिलकादित्वात् (वा० ८.२.१८) । अङ्गुलीयकम्’ -इति मुकुटः । तन्न । तत्र रेफानुवादेन लविधानात् । लानुवादेन रेफविधानाभावात् । ‘वालमूल-’ (वा० ८.२.१८) इति वक्तुं शक्यत्वात् ॥
अङ्गुष्ठः पुंसीति । अङ्गुशब्दोऽङ्गवाची । अङ्गौ पाणौ तिष्ठति । ‘सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् ॥
अङ्घ्रिः “अंहते, अनेन वा । ‘अहि गतौ’ (भ्वा० आ० से०) । ‘वङ्क्र्यादयश्च’ (उ० ४.६६) इति साधुः । ‘अंहो रंहो द्रुहिणः संहर्शोह्नि च घश्रुतयः ॥”
अङ्घ्रिनामकः अङ्ग्रेर्नाम नाम यस्य । ‘अघ्रिर्ना पादमूलयोः’ ॥
अङ्घ्रिपर्णिका अङ्घ्रेरालभ्य पर्णान्यस्याः । ङीष् (४.१.५४) । स्वार्थे कन् (५.१.७५) ॥ अङ्घ्रिं मूलमारभ्य वल्लिरस्याः । ‘अङ्घ्रिवल्लिका’- इति मुकुटः ॥
अचण्डी स्येति । तु चण्डी ॥
अचलः न चलति । ‘चल कम्पने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३५) । ‘अचलस्तु गिरिकीलयोः । अचला भुवि’ इति हैमः ॥
अचला न चलति । ‘चल कम्पने । पचाद्यच् (३.१.१३४) । अचलाः सन्त्यस्याम्’ इति वा । अच् (५.२.१२७) ‘अचलस्तु गिरिकीलयोः । अचला भुवि’ इति हैमः ।
अच्छः “प्रसन्न इति ॥ प्रासदत् । ‘षद्लृ विशरणादौ’ (भ्वा०, तु० प० अ०) । ‘गत्यर्थ-’ (३.४.७२) इति क्तः । ‘प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयोस्त्रिषु ।”
अच्छभल्लः अच्छ आभिमुख्येन भल्लते । अच् (३.१.१३४) । - भल्लति इत्युक्तिः स्वामिमुकुटयोश्चिन्त्या ॥ संघातविगृहीतमिदं नाम । ‘अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । आभिमुख्ये (इति मेदिनी) । (‘भल्लः स्यात् पुंसि भल्लूके शस्त्रभेदे तु न द्वयोः । भल्लाक्यां स्त्रियां भल्ली’ इति मेदिनी ॥
अच्युतः नास्ति च्युतं स्खलनं स्वपदाद्यस्य । नाच्योष्ट इति वा । ‘च्युङ् गतौ’ (भ्वा० अ० अ०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः । (‘अच्युतस्तु हरौ पुंसि त्रिषु स्थिरे’) ॥
अच्युताग्रजः अच्युतस्याग्रजः ।
अजः सुधाव्याख्या – अजः ।
अजगन्धिका अजस्येव गन्धोऽस्याः । अजशब्दः स्वगन्धे लाक्षणिकः ॥
अजगरः अजेति । गिरति। ‘गॄ निगरणे’ (तु० प० से०) । पचाद्यच् (३.१.१३४) । अजस्य गरः। अजो नित्यो गरो विषं यस्येति वा । यत्तु-अजं छागमपि गिरति । पचाद्यच्-इति मुकुटः । तन्न । कर्मण्यणः प्रसङ्गात् । ‘अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः ।
अजगवम् “अजेन ब्रह्मणा गम्यते इति । ‘अन्येष्वपि दृश्यते (वा० ३.२.४८) इति ङः । अजं छागं गच्छति यज्ञत्वेन प्रविशतीति वा । अजगो विष्णुरस्ति शरत्वेनास्मिन्निति । गाण्ड्यजगात्संज्ञायाम् ’ (५.२.११०) इति वः ।। प्रज्ञादित्वात् (५.४.३८) अणि ‘आजगवम्’ अपि । ‘आजगवमजस्य वा पिनाकं वा’ इति बोपालितः । ‘स्थाणोर्धनुराजगवम्’ इत्यमरमाला च । अजो विष्णुः, को ब्रह्मा, ताववतीति अजकावम्’ अपि ’धनुस्त्वजगवं युग्यमजकावमजीजकम् इति शब्दार्णवात् । अजकौ विष्णुब्रह्माणौ वातीति ‘अजकवम्’ अपि । ‘सुपि’ (३.२.४) इति (योगविभागात्) ‘आतोऽनुपसगे-’(३.२.३) इति वा कः ।।”
अजन्यम् अजेति । न जने साधुः‘तत्र साधुः’ (४.४.९८) इति यत् । न जन्यते वा । ‘जनेर्यक्’ (उ० ४.१११) ‘तकिशसि’ (वा० ३.१.९७) इति । यद्वा ॥
अजमोदा “अजेति । अजं मोदयति । ‘मुद हर्षे’ (भ्वा० आ० से०) ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । अजादित्वात् (४.१.४) टाप् । अजेन मोदते मोद्यते, वा । पचाद्यच् (३.१.१३४) । घञ् (३.३.१८) वा ॥”
अजशृङ्गी अजेति । अजः शृङ्गमस्याः । अजशब्दोऽजशृङ्गसदृशे लाक्षणिकः । गौरादिः (४.१.४१) ।
अजस्रम् “न जस्यति । जसु मोक्षणे’ (दि० प० से०) । ‘नमिकम्पि-’ (३.२.१६७) इति रः । सततम्, अजस्रम्, शब्दावव्ययावपि नित्यपर्यायौ स्तः । शश्वदभीक्ष्णं नित्यं सदा सततमजस्रमिति सातत्ये’ इत्यव्ययप्रकरणे आपिशलेः”
अजा अजेति । अजति । ‘अज गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘अजाविभ्याम्-’ (५.१.८) इति निर्देशान्न वी । ‘अजाद्यतष्टाप्’ (४.१.४) । ‘अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे’ इति हैमः ॥
अजाजी अजमजति । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ङीप् (४.१.१५) । ‘बहुलं तणि’ (वा० २.४.५४) इति वी न ॥
अजाजीवः
- अजा आजीवो जीविकास्य ॥
अजिनपत्रा अजिनमिव पत्त्रमस्याः ॥
अजिनम् “अजीति । अजति । अज्यते, वा । ‘अज गतौ’ (भ्वा० प० से०) । ‘अजेरज च’ (उ० २.४८) इतीनच्॥”
अजिनयोनिः अजिनस्य योनिः ॥ ‘विश्वाची चारुलोचनः’ इति रभसः ॥
अजिरम् अजन्त्यत्र । ‘अज गतौ’ (भ्वा० प० से०) । ‘अजिरशिशिर-’ (उ० १.५३) इति किरच् ।
अजिह्मगः जिह्मस्याभावः । अजिह्मामृजु गच्छति । ‘अन्येष्वपि’ (वा० ३.२.४८) इति डः ॥
अज्जुका नाट्योक्ताविति । ‘नाट्योक्तौ’ इत्यधिकारः प्रागङ्गहारात् । गणिकेति । गणिका अज्जुका ज्ञेया । ‘गणिका यूथिवैश्येभीतर्कारीषु ना तु दैवज्ञे । ‘अर्ज अर्जने’ (भ्वा० प० से०) । ‘समिकसेः- (*) इति बाहुलकादुकन् रस्य जः ।
अज्झटा अदव्ययमाश्चये । अत आश्चर्यश्च झटः संघातोऽस्याम् । अत्ति । क्विप् (३.२.१७८) झटति । अच् (३.१.१३४) । टाप् (४.१.४) । अच्चासौ झटा च ॥
अज्ञानम् ज्ञानविरुद्धम् । ज्ञाननिवर्त्यत्वात् ।
अञ्चनः अञ्जनवर्णत्वात् अञ्जनः । (‘अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने । पुंसि ज्येष्ठादिग्गजयोरञ्जना वानरीभिदि । अञ्जनी लेप्यनार्यां च’)
अञ्चनकेशी अञ्जनमिव केशा अस्याः ॥
अञ्चनावती अञ्जनवर्णत्वादञ्जनमस्त्यस्याः । ‘मतो बह्वचः (६.३.११९) इति दीर्घः ।
अञ्जलिः ताविति । तौ प्रसृतौ मिलितौ । अज्यतेऽनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘ऋतन्यञ्जि-’ (उ० ४.२) इत्यलिः । ‘अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च’ (इति मेदिनी) ॥
अञ्जसा “- अञ्जनम् । ‘अञ्जू व्यक्त्यादौ (रु० प० से०) । ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति भावे पचाद्यच् (३.१.१३४) । अञ्जं स्यति, सायति वा । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘षै क्षये’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । क्विप् (३.२.७६) वा ॥”
अञ्जसा “- अञ्जनम् । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘कृत्यल्युटो (कृतो) बहुलम्’ (वा० ३.३.११३) इति पचाद्यच् । (३.१.१३४) अञ्जं स्यति, सायति वा । ‘षोऽन्तकर्मणि । (दि० प० अ०) । ‘क्षै क्षये’ (भ्वा० प० अ०) वा । पचाद्यच् (३.१.१३४) । क्विप् (३.२.७६) वा ॥”
अटनी अटति गुणोऽत्र । ‘अट गतौ’ (भ्वा० प० से०) । बाहुलकादनिः । वा ङीष् (ग० ४.१.४५) ॥
अटरुषः अटान् गच्छतो रोषति । ‘रुष हिंसायाम्’ (स्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) । अटै रूषति । ‘रूष मिश्रणे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) के दीर्घोकारवानपि । ‘वैद्यमाताटरूषकः । सिंहास्यो वाजिदन्तकः’ इति रभसः । ‘वृषो वासाटरूषकः’ इति माधवः ॥
अटवी अटवीति । अटन्त्यत्र । ‘अट गतौ’ (भ्वा० प० से०) । ‘पद्याटिभ्यामविः’ । ‘कृदिकारात्-’ (ग ४.१.४५) इति ङीष् । यत्तु मुकुटः - अटा वयः पक्षिणोऽत्र । पूर्ववन्ङीष् । संज्ञाशब्दत्वात् ‘अनुपसर्जनात्’इति स्त्रीप्रत्ययस्य न निषेधः – इत्याह । तन्न । अटविशब्दस्य कृदन्तत्वाभावात् । ’संज्ञाशब्दत्वात्’इति हेतोरप्रयोजकत्वात् समुदायस्यानुपसर्जनत्वाच्च ।
अटाट्या अटनम् । ‘– परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्’ (वा० ३.३.१०१) इत्यटाट्या निपातिता॥
अट्टः स्यादिति । अट्यते । ‘अट्ट अतिक्रमणे’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । अट्यति वा । अच् (३.३.१३४) ॥
अणव्यम् अणूनाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
अणिः अक्षेति । अक्षस्य नाभिक्षेप्यस्यान्ते कीलके । अणति । ‘अण शब्दे’ (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘अणिराणिवदक्षाग्रकीले स्यादश्रिसीमयोः’ इति विश्वः । ‘अणिराणिदक्षा- ग्रकीलाभिसीमसु द्वयोः’ (इति मेदिनी) ॥
अणिमा “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशिता वशिता चैव तथा कामावशायिता । तत्र, अणोर्भावः । ‘इमनिच् ’ (५.१.१२२) । लघोर्भावः । प्राप्तिरङ्गुल्यग्रेण चन्द्रादेः । प्रकामस्य भावः इच्छानभिघातः । महतो भावः येन ब्रह्माण्डेऽपि न माति । ईशोऽस्यास्ति अतः (५.२.११५) इतीनिः । ईशिनो भावः तल् (५.१.११९) ।। प्रभुत्वम् । येन स्थावरा अप्याज्ञाकारिणः । वशोऽस्यास्ति । इनिः (५.२.११५) वशिनो भावो वशिता । यया भूमावप्युन्मज्जननिमज्जने । कामानवशेते । शीङः (अ० आ० से०) । णिनिः (३.२.७८) । कामावशायिनो भावः सत्यसंकल्पता । स्यतेः (दि० प० अ०) णिनिना (३.२.७८) दन्त्यमध्यं (कामावसायिता) कश्चिन्मन्यते ।।”
अणुः व्रीति । व्रीहिविशेषः । अणति । ‘अण शब्दे’ (भ्वा० प० से०) । ‘अणश्च’ । ‘धान्ये नित्’ (१.९) इत्युः । ‘अणुर्वीह्यल्पयोः’ इति हैमः ॥
अण्डकोशः अण्डयोः कोशः ॥
अण्डजः “अण्डाज्जायते स्म । ‘जनी प्रादुर्भावे (दि० आ० से०) । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः । अण्डजो मृगनाभौ, ना सरटेऽहौ खगे झषे’ इति मेदिनी ।”
अण्डजः अण्डाज्जायते स्म । ‘पञ्चम्याम्’ (३.२.९८) इति डः । ‘अण्डजो मृगनाभौ स्यात्सरटेऽहौखगे झषे’ (इति मेदिनी) ॥
अण्डम् नामद्वयमिदम् । स्वामी तु–पेशीनां मांसखण्डानां कोशो भाण्डागारः -इति व्याचक्षाणो नामैकमिदमिच्छति । द्वाभ्यां हीने क्लीबं इत्यर्थः । अमत्यस्मात् । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘अण्डं मुष्के च पेश्यां स्यात्’ (इति मेदिनी) ॥
अतटः न तटमत्र ।
अतलस्पर्शः अगाधमिति । नास्ति गाधः स्थितिरत्र । ‘नञोऽस्त्यर्थानाम्-’ (वा० २.२.२४) इति बहुव्रीहिः ।
अतसी अतेति । अतति । अत सातत्यगमने’ (भ्वा० प० से०) । ‘अत्यविचमि-’ (उ० ३.११७) । गौरादिः (४.१.४१) ॥
अति
- अतति । इन् (उ० ४.११८) ॥
अति
- अतति । इन् (उ० ४.११८) ॥
अतिचरा अति चरति । अच् (३.१.१३४) ॥
अतिच्छत्रम् अतिक्रान्तश्छन्नम् ॥
अतिच्छत्रा छत्रमतिक्रान्ता । ‘अत्यादयः’ (वा २.२.१८) इति समासः ॥
अतिजवः अतिशयितो जवो वेगो यस्य ॥
अतिथिः अतति । ‘ऋतन्यञ्जि-’ (उ० ४.२) इति इथिन् । ‘अध्वनीनोऽतिथिर्ज्ञेयः’ इति स्मृतिः । ‘अतिथिः कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च’इति विश्वमेदिन्यौ । ‘प्राघुणस्त्वतिथिर्द्वयोः’ इति त्रिकाण्डशेषः ॥
अतिनुः नावमतिक्रान्तम् । ‘अत्यादयः’ वा० (२.२.१८) इति तत्पुरुषः । अतिनौः पुमान् स्त्री वा ॥ द्वे नौकामतिक्रान्तजलादेः ।
अतिपन्थाः अतीति । स्वती पूजायाम् । ‘कुगति-’ (२.२.१८) इति समासः । ‘न पूजनात्’ (५.४.६९) ॥
अतिपातः अतीति । अतिक्रम्य पतनम् । ‘पत्लृ गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
अतिमात्रम् “मात्रा स्तोकम्, तामतिक्रान्तम् । ‘गोस्त्रियोः-’(१.२.४८) इति हस्वः ।”
अतिमुक्तः अतीति । अतिक्रान्तो मुक्तां शौक्लयात् । ‘अत्यादयः’ (वा० २.२.१८) इति तत्पुरुषः । ‘गोस्त्रियोः -’ (१.२.४८) इति ह्रस्वः । यद्वा मुक्तान् विरक्तान् । ‘अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च (इति मेदिनी) ॥
अतिमुक्तकः अतिशयितो मुक्तो विस्तारोऽस्य । कप् (५.४.१५४) ॥
अतिवादः अतिक्रम्योक्तिरतिवादः ॥
अतिविषा विषमतिक्रान्ता ॥
अतिवेलम् अतिक्रान्तं वेलां मर्यादाम् । ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ (वा० २.२.१८) इति समासः ।
अतिशक्तिता अतिशयिता शक्तिर्यस्य । तस्य भावः । तल् (५.१.११९) ॥
अतिशयः “सततं क्रियान्तरैरव्यवधानम्, अतिशयस्तु पौनः पुन्यम्, इति भेदः । अतिशेते । पचाद्यच् (३.१.१३४) । यद्वा अतिशयनम् । ‘एरच्’ (३.३.५६) भावे । अतिशेतेऽभिभवत्यनेन । अतिपूर्वाच्छीङः ‘एरच्’ (३.३.५६) इति मुकुटः । तन्न । ल्युट्प्रसङ्गात् । ‘भरः पूर्णता इति स्वव्याख्यानविरोधाच्च ।”
अतिसारकी अतिसारोऽस्यास्ति । प्राग्वत् (५.२.१२९) इनिः कुक् च ॥
अतीतनौकः अतीतेति । अतीता नौर्येन । ‘उरःप्रभृतिभ्यः-’ (५.४.१५१) इति कप् ॥
अतीव
- अति च इव च ॥
अत्तिका अत्तिकेति । अत्ता माता । सैव । ‘संज्ञायां कन्’ (५.३.९७) । ‘अत्तिका चान्तिका तथा’ इति द्विरूपकोशादन्तिकापि । अन्तिकं निकटे वाच्यलिङ्गं स्त्री सातलौषधौ । चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका’
अत्यन्तीनः ह्येति । अन्तस्यात्ययः । अत्ययेऽव्ययीभावः (२.१.६) । अत्यन्तं गामी । ‘अवार-’ (५.२.११) इति खः ॥ ‘भृशं गामी’ इत्यन्वयः ।
अत्ययः अत्ययनम् । ‘इण् गतौ (अ० प० अ०) । ‘इ गतौ’ (भ्वा० प० अ०) । ‘एरच्’ (३.३.५६) । ‘अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः’ इति मेदिनी ॥
अत्यर्थम् “अर्थो निवृत्तिर्विषयो वा, तमतिक्रान्तम् अत्यर्थम् ।।”
अदितिनन्दनाः अदितेर्नन्दनाः ॥
अदृक् न दृगस्य ॥
अदृष्टम् अद्रिति । वह्निश्च तोयं चादिर्यस्य । भयहेतुत्वाद्भयम् । आदिना ‘हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा । अतिवृष्टिरनावृष्टिर्मूषिकाः शलभादयः’ गृह्यन्ते । अदृष्टहेतुकत्वाददृष्टम् ॥
अदृष्टिः अदृष्टिरिति । विरुद्धा दृष्टिः ।
अद्धा “- ‘अत सातत्यगमने’ (भ्वा० प० से०) । संपदादिः (वा, ३.३.१०८) । अतं सततगमनं धयति, दधाति वा । विच् (३.२.१५) ॥”
अद्भुतम् अत् आश्चर्यार्थेऽव्ययम् । तस्य भवनम् । ‘अदिभुवो डुतच्’ (उ० ५.१)
अद्य
- अत्रास्मिन् अहनि । ‘सद्यःपरुत्-’ (५.३.२२) इति ‘अद्य शब्दः साधुः ॥
अद्वयवादी अद्वयमद्वैतं वदत्यवश्यम् । आवश्यके (३.३.१७०) णिनिः ॥
अधमर्णः अधममृणमस्य ॥
अधरः “न धियते । ‘धृङ् अनवस्थाने’ (तु० आ० अ०) । ‘पुंसि-’ (३.३.११८) इति घः । नञ् समासः (२.३.६) । ‘अधरस्तु पुमानोष्ठे, हीनेऽनूर्ध्वे च वाच्यवत्’ (इति मेदिनी) ॥”
अधिक अध्यारूढम् । ‘अधिकम्’ (५.२.७३) इति साधु ॥
अधिकाङ्गम् अधिकमङ्गात् । क्वचित्तु ‘सारसनाधिपाङ्गे’ इति पाठः । यत्कायः—‘अधिपाङ्गं सारसनम्’ इति । दुर्गस्तु- ‘तस्य सारसनं ज्ञेयं धिपाङ्गं च निबन्धनम्’ इति ॥
अधिकारः अधि आधिक्यस्य करणम् । घञ् (३.३.१८) ॥
अधिकृतः अधि अधिकमुपरि वा क्रियते स्म । क्तः (३.२.१०२) ॥
अधित्यका उपेति । उप आसन्ना । अधि आरूढा । ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः (५.२.३४) इति त्यकन् ।
अधिरोहिणी अधिरुह्यतेऽनया । ल्युट् (३.३.११७) ॥
अधिवासनम् संस्केति । माङ्गल्यधूपादिभिर्वस्त्रादीनां ताम्बूलादीनां च यः संस्कारः । तत् । अधिकं वास्यते । ‘वास उपसेवायाम्’ चुरादिः । ल्युट् (३.३.११३) ॥
अधिविन्ना अधि उपरि विन्नं लाभोऽस्याः । यद्वा अधिका विन्ना लब्धा यस्याः ॥
अधिश्रयणी अधिश्रीयतेऽत्र । ‘श्रीञ् पाके’ (क्र्या० उ० अ०) । अधिकरणे ल्युट् (३.३.११७) । ङीप् (४.१.१५) ॥
अधीश्वरः रेति । संलग्नोऽन्त एकदेशोऽस्याः । ‘प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति समासः । समन्तायाः स्वदेशाव्यवहितभूमेरिमे राजानः । ‘तस्येदम्’ (४.३.१२०) इत्यण् । प्रणता अशेषाः सामन्ताः स्वदेशानन्तरराजा यस्य । अधिक ईश्वरः ॥
अधुना
- ‘अधुना’ (५.३.१७) इति निपातितः ॥
अधोंशुकम् अधोदेहभागस्यांशुकम् ॥
अधोक्षजः “(अधः कृतम् अक्षजमैन्द्रियकं ज्ञानं येन, अधोक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षो भवति वा, अधः अक्षजं ज्ञानं यस्येति वा) ॥”
अधोभुवनम् अधश्च तद्भुवनं च । ‘अधः अपि । ‘अधोऽव्ययं स्यात्पाताले’ इति त्रिकाण्डशेषात् ।
अध्यक्षः अथेति । अधिगतोऽक्षं व्यवहारम् । अत्यादयः-’ (वा० २.२.१८) इति समासः । यद्वा अध्यक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ‘अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षे त्वभिधेयवत्’ (इति मेदिनी) ॥
अध्यवसायः अध्यवसानम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । घञ् (३.३.१८) । आतो युक्’ (७.३.३३)
अध्यापकः अध्यापयति । ण्वुल् (३.१.१३३) ॥ ‘एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते’ (मनुः २.१४१) ॥
अध्याहारः अध्याहरणम् । अध्याङ्पूर्वो हृञ् (भ्वा० उ० अ०) । भावे घञ् (३.३.१८) ।
अध्यूढा अधि उपरि विन्नं कृतसापत्न्यनार्यामध्यूढ ईश्वरे’ इति विश्वमेदिन्यौ ॥
अध्येषणा अध्येषणम् । इषेः प्रग्वद्युच् (वा० ३.३.१०७) ॥
अध्वगः अध्वानं गच्छति । ‘अन्तात्यन्ताध्व -’ (३.२.४८) इति डः ॥
अध्वनीनः अध्वेति । अध्वानमलं गच्छति । ‘अध्वनो यत्खौ’ (५.२.१६) ‘आत्माध्वानौ खे’ (६.४.१६९) ॥
अध्वन्यः ‘ये चाभावकर्मणोः’ (६.४.१६८) इति टिलोपो न ॥
अध्वरः न ध्वरति । ‘ध्वृ कौटिल्ये’ (भ्वा० प० अ०) । अच् (३.१.१३४) । अध्वानं राति वा । ‘आतोऽनुप-’ (३.२.३) इति को वा । अध्वरः सावधाने स्याद्वसुभेदे क्रतौ पुमान्’ (इति मेदिनी) ॥
अध्वर्युः “अध्वेति । अध्वरमिच्छति । ‘सुपः-’(३.१.८) इति क्यच् । कव्यध्वरपृतनस्य-’(७.४.३९) इति लोपः । ‘क्याच्छन्दसि’ (३.२.१७०) इत्युः । यदा न ध्वरति । ‘ध्वृ कौटिल्ये’ (भ्वा० प० अ०) विच् (३.२.७५) । अध्वरं याति, यौति, वा । मितद्रवादित्वात् (वा० ३. २.१८०) डुः । -अपष्ट्वादि इति मुकुटश्चिन्त्यः । गणाभावात् ॥”
अध्वा “अत्ति बलम् (पथिकानाम्) । ‘अद भक्षणे’ (अ० प० अ०) । अदेर्धश्च’ (उ० ४.११६) इति क्वनिप्, धश्चान्तादेशः । यत्तु-अत्यते सततं गम्यते अनेन-इति मुकुटेनोक्तम् । तन्न । उक्तसूत्रविरोधात् । अततेर्धक्वनिपोरविधानात् । (अध्वा ना पथि संस्थाने सास्रवस्कन्धकालयोः’)”
अनः क्लीति । अनिति चीत्करोति । ‘अन प्राणने’ (अ० प० से०) । असुन् (उ० ४.१८९) । –करणेऽसुन्- इति मुकुटः । तन्न । करणत्वासम्भवात् । कर्तृत्वौचित्याच्च ॥
अनक्षरम् अनक्षरमिति । न प्रशस्तान्यक्षराणि यस्मिन् । अक्षराणामप्राशस्त्यं चार्थद्वारकम् ॥
अनङ्गः “नास्त्यङ्गमस्य, न अङ्गं ज्ञानमस्मादिति वा । ‘अनङ्गो मदनेऽनङ्गमाकाशमनसोरपि ।”
अनच्छः ‘छो छेदने’ (दि० प० अ०) । न च्छयति दृष्टिम् । सुपि’ (३.२.४) इति कः । न च्छाद्यते वा । ‘अन्येष्वपि-’ (३.२.१०१) इति डः । ‘अच्छो भल्लूके स्फटिकेऽमलेऽच्छाऽभिमुखोऽव्ययम् इति हैमः ॥ (२) द्वे निर्मलस्य ।
अनड्वान् अनः शकटं वहति । ‘अनसि वहेः क्विबनसो डश्च () ॥
अनधीनकः
- नाधीनः । स्वार्थे कन् (ज्ञापि० ५.४.५) ।
अनन्तः वासुकिरिति । वसु रत्नं के मूर्ध्नि यस्य । वसु कायति वा । कै शब्दे’ (भ्वा० प० अ०) । कः (३.२.३) । वसुकः। तस्यापत्यम् । ‘अत इञ् (४.१.९५) ॥
अनन्तम् नास्त्यन्तो यस्य । (अनन्तः ‘केशवे शेषे पुमाननवधौ त्रिषु) । अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणा दुरालभापथ्यापार्वत्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुरवर्त्मनि’
अनन्ता “नास्त्यन्तोऽस्याः । यद्वा अनन्तोऽस्ति धारको यस्याः । ‘अनन्तः केशवे शेषे पुमान्, अनवधौ त्रिषु । अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्या-पार्वत्यामलकीषु च । विश्वम्भरागुडूच्योः स्यादनन्तं सुरवर्मनि’ ॥”
अनन्ता न अन्तोऽस्याः । ‘अनन्ता च विशल्यायां शारिवादूर्वयोरपि’ (इति मेदिनी) ॥
अनन्ता न अन्तो यस्याः ॥
अनन्ता न अन्तो यस्याः । ‘अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वम्भरागुडूच्योः स्यादनन्तं सुरवर्त्मनि । अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु’ (इति मेदिनी) ॥
अनन्ता नान्तोऽस्याः । ‘अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । (विश्वंभरागुडूच्योः स्यात्)’ (इति मेदिनी) ॥
अनन्यजः नास्त्यन्यद्यस्मादनन्यो विष्णुः । ततो जातः । मनसोऽन्यस्मान्न जायते इति वा ।।
अनर्थकम् न अर्थो यस्य । ‘अर्थान्नञः’ इत्युरः प्रभृतिषु (५.४.१५१) पाठान्नित्यं कप् समासान्तः । अनर्थकं जरद्गवादिवाक्यम् । अवध्यं स्याद् इति पाठ इति कौमुदी । ‘अवध्यमवधार्हे स्यादनर्थकवचस्यपि इति (हैममेदिन्योः) दर्शनात् ॥
अनलः अनित्यनेन । वृषादित्वात् (उ० १.१०६) कलच् । ‘अनलो वसुभेदेऽग्नौ’।(अनलोऽनिले । वसुदेवे वसौ वह्नौ’) ।
अनवधानता न अवधानमस्य । तस्य भाव ॥
अनवरतम् नास्त्यवरतं यत्र ।
अनागतार्तवा अनागतमार्तवं रजोऽस्याः ॥
अनादरः अनादर इति । न आदरः ॥
अनामयम् अनेति । आमयस्याभावः । अर्थाभावेऽव्ययीभावः (२.१.६) ॥
अनामिका न नाम ग्रहणयोग्यमस्याः ब्रह्मणोऽनया शिरश्छेदनात् । अत एवास्यां पवित्रीक्रियते ॥
अनारतम् आङ्पूर्वोरमिर्विरामे । अविद्यमानमारतं यस्मिन् ।
अनार्यतिक्तः अनार्यप्रियश्चासौ तिक्तश्च । शाकपार्थवादिः (वा० २.१.७८) ॥ ‘चिरातिक्तः’ अपि । ‘किरातश्चिरात्तिक्तश्च भूनिम्बहिमकावपि’ इति रभसः ॥
अनाहतः अनेति । न आहतम् ॥
अनिरुद्धः अनिरुद्ध इत्यादि । न निरुद्धः ।
अनिलः अनित्यनेन । ‘सलिकल्यनि-’ (उ० १.५४) इति इलच् । (‘अनिलो वसुवातयोः’)
अनिलाः अनन्त्यनेन । ‘अन प्राणने’ (आ० प० से०) । ‘सलिकल्य निमहिभण्डिमण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्’ (उ० १.५४) ‘अनिलो वसुवातयोः’ ॥
अनिशम् निशाव्यापारराहित्यमुपचारात् । नास्ति निशास्मिन् ।
अनीकः अननम् । ‘अन गतौ’ ‘प्राणने’ (अ० प० से०) वा । ‘अनीकादकश्च’ इति साधुः । न नयनम् । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) बाहुलकात्कन् । नञ्समासः (२.२.६) । ‘अनीकोऽस्त्री रणे सैन्ये’ इति मेदिनी ॥
अनीकः अनित्यनेन । ‘अन प्राणने’ (अ० प० से०) । ‘अनिहृषिभ्यां किञ्च’ (उ० ४.१७) इतीकन् । ‘अनीकोऽस्त्री रणे सैन्ये’ (इति मेदिनी)॥
अनीकस्थः “अनीकेन, अनीके वा तिष्ठति । ‘सुपि-’ (३.२.४) इत कः । अनीकस्थो रणगते हस्तिशिक्षाविचक्षणे । राजरक्षिणि चिह्ने च वीरमर्दनकेऽपि च’ इति विश्वमेदिन्यौ ॥”
अनीकिनी अनीकं रणोऽस्ति प्रयोजनत्वेन यस्याः । इनिः (५.२.११५) । ‘अनीकिनी स्त्रियां सेनामात्रसेनाविशेषयोः’ (इति मेदिनी) ॥
अनीकिनी देति । दशानीकिन्यौऽक्षौहिणी । ऊहः समूहोऽस्त्यस्याः । इनिः (५.२.११५) । अक्षाणामूहिनी । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । ‘अक्षादूहिन्याम्’ (वा० ६.१.८९) इति वृद्धिः । यत्तु सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं ज्ञानमक्षोहः । सोऽस्त्यस्याः इनिः (५.२.११५) ‘अकृतव्यूहाः-’ इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६.१.८९) इति मुकुटेनोक्तम् । तन्न । ऊहिनीशब्देन विग्रहे वृद्धेश्चरितार्थत्वात् । ‘अपवादोप्यऽन्यत्र चरितार्थोत्तदाऽन्तरङ्गेण बाध्यते’ । तथा ‘सर्व इह’ इत्यत्रापवादोऽपि सवर्णदीर्घो गुणेन बाध्यते । ‘अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः । संख्या युक्ता सहस्राणि गजानामेकविंशतिः । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु । संख्यातास्तुरगा स्तज्ज्ञैर्विना रथतुरङ्गमैः । नृणां शतसहस्त्रं तु सहस्राणि नवैव तु । शतानि त्रीणि चान्यानि पञ्चाशच्च पदातयः’ ॥
अनुकम्पा अनुकम्पनम् । ‘कपि किंचिच्चलने’ (भ्वा० आ० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः ॥
अनुकर्षः अन्विति । अनुकृष्यते । ‘कृष विलेखने’ (भ्वा० प० अ०) । घञ् (३.३.१९) । अनुकर्षो रथाधःस्थदारुण्यप्यनुकर्षणे’ (इति मेदिनी) । नान्तोऽप्ययम् ‘अनुकर्षा नाक्षतलदारु’ इति वोपालितात् ॥
अनुकल्पः अन्विति । अनु हीनः कल्पः । प्रादिसमासः (वा० २.२.१८) ॥व्रीह्यभावे ‘नीवारैः’ इति यथा ।
अनुकामीनः कामस्य सदृशम् । यथार्थेऽव्ययीभावः (२.१.६) अनुकामं गामी ‘अवारपार-’ (५.२.११) इति खः ॥
अनुक्रमः अनुक्रमणम् । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । घञ् (३.३.१८) । ‘नोदात्तोपदेशस्य-’ (७.३.३४) इति न वृद्धिः ॥
अनुक्रोशः अनुक्रोशन्त्यनेन । ‘क्रुश आह्वाने रोदने च’ (भ्वा० प० अ०) । हलश्च’ (३.३.१२१) इति घञ् ।
अनुचरः अनु चरति । ‘चरेष्टः’ (३.२.१६) ॥
अनुजः अनु पश्चाज्जातः । ‘उपसर्गे च’ (३.२.९९) इति डः ॥
अनुजीविन् अनुजीवितुं शीलः । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
अनुतर्षणम्
- अनुतर्षणम् । अनेन वा । ‘ञितृषा पिपासायाम्’ (दि० प० से०) । भावे (३.३.११४) करणे (३.३.११७) वा ल्युट् । घञि (३.३.१८) ‘अनुतर्षः अपि । ‘चषकश्चानुतर्षश्च सरकश्च’ इति भागुरिः ॥
अनुतापः पश्चादिति । पश्चात्तपनम् । अनुतपनम् । ’तप संतापे’ (भ्वा० प० अ०) घञ् (३.३.१८) ।
अनुपदीना
- सैवेति । पदस्यानु । ‘यस्य चायामः’ (२.१.१६) इत्यव्ययीभावः । अनुपदं पादायामप्रमाणा बद्धा । ‘अनुपदसर्वा-’ (५.२.९) इति खः ॥
अनुपमा श्रेष्ठत्वात्रास्त्युपमास्याः (अनुपमस्तु भवेदयम् । उपमारहितेऽनुपमेभ्याम्’)
अनुप्लवः अन्विति । अनु पश्चात् प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३५) ॥
अनुबोधः अनुपूर्वाद्भावे घञ् ॥
अनुभावः अन्विति । भावस्य सूचको गुणक्रियादिः । ‘अनुभावयति इत्यनुभावः । अनुभावः प्रभावे स्यान्निश्चये भावसूचने’ इति मेदिनी ॥
अनुमतिः सा पूर्णिमा उदयकाले प्रतिपद्योगात्कलाहीने चन्द्रे । अनुमन्यते-अनुमतिः । क्तिच् (३.३.१७४) । अथानुमति रूनेन्दुपूर्णिमानुज्ञयोरपि’ ।
अनुयोगः अनुयोजनम् । युजेर्घञ् (३.३.१८) ॥
अनुरोधः अन्विति । अनुगम्य रोधनम् । ‘रुधिर आवरणे’ (रु० उ० से०) । घञ् (३.३.१८) ॥
अनुलापः अनुलाप इत्यादि । अनुलपनम् । घञ् (३.३.१८)
अनुवर्तनम् अनुगम्य वर्तनं चित्ताराधनम् ॥
अनुष्णः
- ‘उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गकः’ (इति मेदिनी) । उष्णो दक्षः । उष्णादन्यः ॥
अनूचानः अन्विति । अन्ववोचत् । ‘उपेयिवान्-’ (३.२.१०९) इति साधुः । ‘अनूचानो विनीते स्यात्साङ्गवेदविचक्षणे’ इति विश्वः ॥ शिक्षाद्यङ्गषट्कोपेते । प्रोच्यते । ल्युट् (३.३.११३) । प्रवचनो वेदस्तत्र । अधीतमनेन । ‘इष्टादिभ्यश्च (५.२.८८) इतीनिः । ‘क्तस्येन्विषयस्य-’ (वा० २.३.३६) इति सप्तमी ॥
अनूपः अनुगता आपोऽत्र । ‘ऋक्पूर्-’(५.४.७४) इत्यः । ‘ऊदनोर्द्देशे’ (६.३.९८) । (‘अनूपो महिषे नाऽम्बुप्रायदेशे तु वाच्यवत्’ इति मेदिनी)
अनूरू अविद्यमानावूरू यस्य ।
अनृतम् न ऋतम् । ‘अनृतं कृषावसत्येऽपि’ ॥
अनृतम् अव्रिति । न ऋतम् । ‘शुनो वृत्तिः स्मृता सेवा गर्हितं तद्द्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते’ इति । ‘अनृतं कृषावसत्ये च’ इति रुद्रः । ‘प्रमृतम्’ इति तु सभ्यः पाठः-इति स्वामी । ‘प्रमृतं कर्षणं स्मृतम्’ (४.५) इति मनुः ॥
अनेकपः अनेकेन करेण मुखेन च पिबति । ‘सुपि’ (३.२.४) इति कः ॥
अनेहा “नाहन्ति नागच्छति, नाहन्यते, इति वा । ‘नञ्याहन एह च’ (उ० ४.२२४) इत्यसुन्, एहादेशश्च । सौ ‘ऋदुशनस् (७.१.९४) इत्यनङ् । तस्मान्नुडचि’ (६.३.७४) इति नुट् । सान्तः ।”
अनोकहः अनसः शकटस्याकं गतिं हन्ति । ‘अन्येष्वपि-’ (३.२.११) इति हन्तेर्डः ॥
अन्तः अन्तनम् । ‘अति बन्धने’ (भ्वा० प० से०) । घञ् (३.३.१८) । ‘अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽपि’ इति हैमः ॥
अन्तकः अन्तं करोति = अन्तयति । ‘तत्करोति (३.१.२६) इति ण्यन्ताद् ण्वुल् (३.१.१३३) ।
अन्तरा
- डाच् ॥
अन्तरालम् अन्तरं लाति । आतोऽनुप-’ (३.२.३) इति कः । अन्येषामपि (६.३.१३७) इति दीर्घः आङ्प्रश्लेषो वा । मूलविभुजादित्वात् (वा० ३.२.५) कः ।
अन्तरीक्षम् द्यावापृथिव्योरन्तरीक्ष्यते । ‘ईक्ष दर्शने’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । वेदे तु छान्दसं ह्रस्वत्वम् । अन्तर् ऋक्षा’ (णि नक्षत्रा) ण्यस्य । पृषोदरादित्वात् (६.३.१०९) इत्वम् । अस्मिन् पक्षे ‘अन्तरिक्षम्’ इति हस्वमध्यः । अधिकरणव्युत्पत्तिस्तु नोचिता । ल्युटा घञो बाधप्रसङ्गात् ।।
अन्तरीपम् द्वीप इति । द्विर्गता अन्तर्गता वा आपोऽत्र । ‘ऋक्पूर (५.४.७४) इत्यः समासान्तः ‘द्वन्तरुपसर्गेभ्योऽप ईत् (६.३.९७) काकाक्षिवत् ‘अस्त्रियाम् इत्युभाभ्यां सम्बध्यते ॥ (१) ॥ (२)
अन्तरीयम् अन्तेति । अन्तरे भवम् । गहादित्वात् (४.२.१३८) छः ॥
अन्तरे
- अन्तरेति । ‘इण्’ (अ० प० अ०) । विच् (३.२.७५) ॥
अन्तरेण
- णश्च ॥
अन्तरेण
- अन्तरेति । इणो णः ॥
अन्तर्द्वारम् अन्तःस्थितं द्वारम् । शाकपार्थिवादिः (२.१.६०) ।
अन्तर्धा अन्तर्धानम् । डुधाञः (जु० उ० अ०) । अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वात् (भ्वा० १.४.६५) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
अन्तर्धिः उपसर्गे घोः-’ (३.३.९२) इति किप्रत्ययेऽन्तर्धिः ।।
अन्तर्वत्नी अन्तरस्त्यस्यां गर्भः । ‘अन्तर्वत्पतिवतोर्नुक्’ (४.१.३२) इति साधुः ॥
अन्तर्वेशिकः अन्तेति । अन्तर् अभ्यन्तरो वंशो गृहम् । अन्तर्वंशे नियुक्तः । ‘तत्र नियुक्तः’ (४.४.६९) इति ठक् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा अन्तर्वंशोऽस्यास्ति । ‘अत इनिठनौ’ (५.२.११५) ॥
अन्तावसायी
- नखानामन्तमवसातुं शीलमस्या । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘षै क्षये’ (भ्वा० प० अ०) वा । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘आतो युक्-’ (७.३.३३) । (‘अन्तावसायी श्वपचे मुनिभेदे च नापिते’ इति मेदिनी) ॥
अन्तिका अन्त्यतेऽत्र । ‘अति बन्धने’ (भ्वा० आ० से०) । ण्वुल् (३.३.१०९) । ‘अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ । चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्तौ कीर्त्यतेऽन्तिका (इति मेदिनी) ॥
अन्तेवासिन्
- ग्रामादेरन्ते वसति । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । ‘शयवास-’ (६.३.१८) इत्यलुक् ॥
अन्तेवासी अन्ते समीपे वस्तुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘शयवासवासि-’ (६.३.१८) इत्यलुक् । अन्तेवासी भवेच्छिष्ये चण्डाले प्रान्तगेऽपि च’ इति विश्वः ॥
अन्त्रम् अन्नमिति । अमति । अनेन । वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘सर्वधातुभ्यष्ट्रन्’ (उ० ४.१५९) । ‘अमिचिमिदिशसिभ्यः क्रः’ (उ० ४.१६४) । संज्ञापूर्वकत्वान्न दीर्घः । अन्तति । ‘अति बन्धने’ (भ्वा० प० से०) ष्ट्रन् (उ० ४.१५९) वा । –‘अमियमिमिदेस्त्रक्’-इति मुकुटोपन्यस्तं सूत्रं त्वपाणिनीयम् ॥
अन्दुकः अन्द्यतेऽनेन । ‘अदि बन्धने’ (भ्वा० आ० से०) । ‘अन्दूदृम्भू-’ (उ० १.९३) इति कूः । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च’ (इति मेदिनी) । ‘स्वार्थिकाः प्रकृतितो लिङ्ग वचनान्यतिवर्तन्तेऽपि’ इति पुंस्त्वम् । यद्वा विनयादित्वात् (५.४.३४) ठक् । ‘इसुस्-’ (७.३.५१) इति कादेशः । ‘केऽणः’ (७.४.१३) इति ह्रस्वः ॥
अन्धः अन्ध इति । अन्धयति । ‘अन्ध दृष्ट्युपघाते’ (चु० उ० से०) । अच् (३.१.१३४) । (अन्धं स्यात्तिमिरे क्लीबं चक्षुर्हीनेऽभिधेयवत्’ इति मेदिनी) ॥
अन्धकरिपुः अन्धकस्य दैत्यस्य रिपुः ॥
अन्धकारः अन्धेति । ‘अन्ध दृष्ट्युपघाते (चु० उ० से०) चुरादिः । अन्धनम् घञ् (३.३.१८) । अन्धं करोति । ‘कर्मण्यण्’ (३.२.१)।
अन्धतमसम् ध्वान्त इति । अन्धयति । अन्धं च तत्तमश्च । `अवसमन्धेभ्यस्तमसः (५.४.७९) इत्यच् । (१) क्षीण इति । क्षीणे तु ध्वान्ते । अव हीनं तमः अच् (५.४.७९)।
अन्धस् अद्यते । ‘अद भक्षणे’ (अ० प० से०) । ‘अदेर्नुम्धौ च’ (उ० ४.२०६) इत्यसुन् । अन्धयति वा । ‘अन्ध दृष्ट्युपघाते’ (चु० उ० से०) । असुन् (उ० ४.१८९) ॥
अन्धुः पुंसीति । अम्यते । ‘अम गत्यादौ (भ्वा० प० से०) । ‘अर्जिदृशिकम्यमि-’ (उ० १.२७) इति कुः धुक् च । यद्वा अन्धयति । ‘अन्ध दृष्ट्युपघाते (चु० उ० से०) । मृगय्वादित्वात् (उ० १.३७) कुः ॥
अन्नम् अद्यते स्म । क्तः (३.२.१०२) । ‘अन्नाण्णः’ (४.४.८५) इति निपातनात् ‘बहुलं तणि’ (वा० २.४.५४) इति वा न जग्धिः । ‘अन्नं भक्ते च भुक्ते स्यात्’ इति (मेदिनी) ॥
अन्वयः अन्वीयते । ‘इ गतौ (भ्वा० प० अ०) । ‘इण् गतौ’ (अ० प० अ०) वा । ‘एरच्’ (३.३.५६) ॥
अन्ववायः अन्ववाय्यते । ‘अयगतौ’ (भ्वा० आ० से०) । घञ् (३.३.१९) ॥
अन्वाहार्यम् अन्वेति । अनु आ ह्रियते । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) ॥
अन्वेषणा पेति । ‘इषेरनिच्छार्थस्य’ (वा० ३.३.१०७) युच् ।‘परेर्वा’ (वा० ३.३.१०७) ॥
अपकारगीः अपकारार्था गीः ।
अपक्रमः अपक्रमणम् । घञ् (३.३.१८) ॥
अपघनः अपहन्यते ‘अपघनोऽङ्गम्’ (३.३.८१) इति साधुः ॥
अपचितिः चायनम् । ‘चायृ पूजानिशामनयोः’ (भ्वा० उ० से०) । ‘वायतेः क्तिनि चिभावो वाच्यः’ () ॥
अपटुः ‘पटुर्दक्षे च नीरोगे’ (इति मेदिनी) । पटोरन्यः ॥
अपत्यम् स्त्रियामिति । अमी आत्मजाद्याः स्त्रियां वर्तमानाः सन्तो दुहितरं वदन्ति । शार्ङ्गरवादित्वात् (४.१.७३) ङीनि ‘पुत्री’ ।– गौरादौ (४.१.४१) । ‘पुत्री’-इति स्वामिनः प्रमादः । ‘सुता तु दुहिता पुत्री’ इति त्रिकाण्डशेषः ॥
अपत्रपा सेति । सा लज्जा अन्यतश्चेत् सापत्रपा अयं ह्रीमात्रेऽपि । ‘ह्रीर्लज्जापत्रपा ब्रडा’ इति रत्नकोषात् ॥
अपथम् ‘पथो विभाषा’ (५.४.७२) इत्यः । ‘अपथं नपुंसकम् (२.४.३०) ॥ (२) द्वे मार्गाभावस्य ।
अपदिशम् “क्लीबेति । क्लीबाव्ययमिति कर्मधारयोऽव्ययीभावत्वसूचनार्थः । ‘अव्ययीभावश्च-’ (१.१.४१, २.४.१८) इति सूत्राभ्यां क्लीबत्वाव्ययत्वयोर्विधानात् । तेन ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ (२.४.८३) इत्यादिप्रवृत्तिः । ’अप’ इति मध्यवाची । शरदादित्वात् (५.४.१०७) टच् । आबन्तेन समासे तु टज्नापेक्षितः । दिशोरिदमपदिशम्, विभक्त्यर्थेऽव्ययीभावः इति स्वामी । तन्न । सम्बन्धमात्रस्य विभक्त्यर्थत्वेऽपि मध्यस्य तदर्थत्वाभावात् ।”
अपदेशः अपदेशनम् । ‘दिश अतिसर्जने (तु० उ० अ०) । घञ् (३.३.१८) । (‘अपदेशः पुमाँल्लक्ष्ये निमित्तव्याजयोरपि’)
अपन्थाः अपन्था इति । पथोऽभावः । ‘नञ्’ (१.२.६) इति तत्पुरुषः ।
अपभ्रंशः संस्कृतादपभ्रंश्यति । ‘भ्रंशु अधःपतने (दि० प० से०) । पचाद्यच् (३.१.१३४) । (‘अपभंशस्तु पतने भाषाभेदापशब्दयोः) ॥
अपयानम् यातेर्ल्युट् (३.३.११५) ॥
अपराजिता न पराजिता । ‘अपराजित ईशाजेष्ठ्यन्तरे नाऽजिते त्रिषु । गिरिकर्णीजयादुर्गाशालपर्णीषु योषिति’ (इति मेदिनी) ॥
अपराजिता न पराजिता । अपराजित ईशाजेष्ट्यन्तरे नाऽजिते त्रिषु । गिरिकर्णी जयादुर्गाऽशनपर्णीषु योषिति’ (इति मेदिनी) ॥
अपराधः अपराधनम् । ‘राध संसिद्धौ’ (स्वा० प० अ०) । घञ् (३.३.१८) ॥
अपराध्दपृषत्कः अपेति । अपराद्धः पृषत्को बाणोऽस्य ॥ लक्ष्याद्वेध्यात् । च्युतो भ्रष्टः सायको यस्य ।
अपराह्णः अह्रोऽपरम् अपराह्णः । ‘पूर्वापर-’ (२.२.१) इत्येकदेशिसमासः ।।
अपर्णा न पर्णान्यस्याः । तपस्यन्त्या पर्णानामपि त्यागात् ।।
अपलापः अपलाप इति । अपलपनम् । घञ् (३.३.१८) । ‘अपलापः प्रेम्ण्यपह्नवे ’ ।
अपवर्गः अपवर्जनम् । वृजी वर्जने’ (अ० आ० से०) । घञ् । ‘अपवर्गस्त्यागमोक्षयोः क्रियावसाने साकल्ये’ इति हैमः ।
अपवर्जनम् “‘वृजी वर्जने’ (अ० आ०, रु० प०, चु० उ० से०) ॥”
अपवादः ‘अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि’ ॥
अपवारणम् ‘वृञ् आच्छादने’ (चु० उ० से०) । चुरादिण्यन्ताद्भावे ल्युट् (३.३.११५) ।
अपशब्दः अपभ्रष्टः शब्दोऽपशब्दः ।
अपसदः
- अपकृष्टमपकृष्टे वा सीदति । ‘षद्लृ विशरणादो’ (भ्वा० प० अ०) । अच् (३.१.१३४) ॥
अपसर्पः अपसर्पति । ‘सृप्लृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
अपस्करः अपकीर्यते स्वस्थाने क्षिप्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ऋदोरप्’ (३.३.५७) । ‘अपस्करो रथाङ्गम्’ (६.१.१४९) इति साधुः ॥
अपांपतिः अपां पतिः ॥
अपाङ्गः अपेति । अपाङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) अपकृष्टेऽङ्गाद्वा । अपकृष्टान्यङ्गान्यस्माद्वा । ‘अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च’ इति विश्वः ॥
अपाङ्गदर्शनम् अपाङ्गेन दर्शनम् ॥
अपाची अह्नो मध्येऽञ्चत्यस्याम् । अपाची । ’अप’ इत्यव्ययं मध्यार्थेऽपदिशमितिवत् । अपाञ्चति सूर्यम् इत्युचितम् । कर्तरि कृद्विधानात् । अवाची इत्यपपाठ एव । अवपूर्वस्याञ्चतेरधोमुखी भावे वृत्तेः। स्वामी त्ववशब्दस्य मध्यार्थतामाह ।।
अपानः “प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् डः (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र ‘हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु’ । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । ‘उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते’) । प्रत्येकं देहस्थपञ्चवायूनाम् ।”
अपानम् अपानित्यनेन । ‘अन प्राणने’ (अ० प० से०) ‘हलश्च’ (३.३.१२१) इति घञ् ॥
अपामार्गः “अपेति । अपमार्जन्त्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । निष्ठायामनिट्त्वात् कुत्वम् (७.३.५२) । ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः । अपकृष्ट आसमन्तान् मार्गोऽस्य, इति वा ॥”
अपामित्यकम् नीति । अपमानम् । ‘मेङ् प्रणिदाने’ (भ्वा० अ० अ०) । ‘उदीचां माङो व्यतीहारे’ (३.४.१९) इति क्त्वा । ‘कुगति-’ (२.२.१८) इति समासः । ‘समासेऽनञ् (७.१.३७) इति ल्यबादेशः । ‘मयतेरिदन्यतरस्याम्’ (६.४.७०) इतीत्वम् । तुक् (६.१.७१) । ‘अपमित्य-’ आप्तम् । ‘अपमित्य-’ (४.४.२१) इति कक् ॥ ‘नियमात्’ इति ‘विभाषा गुणेऽस्त्रियाम्’ (२.३.२५) इति पञ्चमी ॥
अपासनम् ‘असु क्षेपणे’ (दि० प० से०) ॥
अपिधानम् वष्टि भागुरिः-’ इति वाल्लोपः। (५) (६) ।‘तिरोऽन्तर्धौ’ (१.४.७१) इति गतित्वे ‘कुगति-(२.२.१८) इति समासः । (७)
अपिनध्दः अपि नह्यते स्म । ‘णह बन्धने’ (दि० उ० अ०) । क्तः (३.२.१०२) ।
अपूपः न पूय्यते । ‘पूयी विशरणे’ (भ्वा० आ० से०) । बाहुलकात् पः । वलि लोपः (६.१.६६) यद्वा अपुवं पाति पिबति वा ॥
अप्पतिः अपां पतिः । लुकि ‘अप्पतिः’ अपि ।।
अप्पित्तम् अपां पित्तमिव । दाहकत्वात् ।।
अप्रहतः न प्रहन्यते स्म । ‘हन हिंसागत्योः’ (अ० प० अ०) । कर्मणि क्तः (३.२.१०२) समे समानार्थे । द्वे हलाद्यकृष्टस्य । (त्रिषु लिङ्गत्रये । स्त्रियां खिला अप्रहता)
अप्सरः अद्भ्यः सरन्ति । ‘सरतेरसुन्’ (उ० ४.२३७) ॥
अप्सरसः अद्भ्यः सरन्ति । सरतेरसुन्’ (उ० ४.२३७) । ‘बहुषु’ इति प्रायोवादः । अनचि च (८.४.४७) इति सूत्रे ‘अप्सराः’ इति भाष्यप्रयोगात् । स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि’ इति शब्दार्णवाच्च अस्य शुभंयाशब्दवद्रूपम् इति मुकुटोक्तं चिन्त्यम् । अप्सरः शब्दस्य सान्तत्वात् ।
अफलः न फलान्यस्य ॥
अबद्धम् अबद्धमिति । न बद्धयते स्म । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । क्तः (३.२.१०२) ॥
अबन्ध्यः बन्ध्य इति । ‘बन्धस्त्वाधौ च बन्धने । बन्धे साधुः । ‘तत्र साधुः (४.४.९८) इति यत् । यतु मुकुटः - दिगादित्वात् (४.३.५४) यत् इत्याह । तन्न । अस्य सूत्रस्य ‘तत्र भवः (४.३.५३) इत्यत्र पाठात् । तत्र साधुः इत्यस्य ‘प्राग्घिताद्यत् (४.४.७५) इत्यधिकारे पाठात् ॥
अबला अल्पं बलमस्याः । अल्पार्थे नञ् ॥
अब्जः अद्धयो जातः । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः । ‘अब्जोऽस्त्री शङ्के ना निचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्मे इति विश्वः ।
अब्जयोनिः अब्जं योनिरस्य ॥
अब्दः आप्यते । ’आप्लृ व्याप्तौ (स्वा० प० अ०) । ‘अब्दादयश्च’ (उ० ४.९८) इति दन् ह्रस्वत्वं च । ‘अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्’
अब्धिः आपो धीयन्तेऽत्र । ‘कर्मण्यधिकरणे च (३.३.९३) इति धाञः किः । (अब्धिर्ना सरसि वारिधौ)
अब्धिकफः अब्धेः कफ इव ॥
अब्रह्मण्यम् “अब्रह्मण्यमिति । वधं नार्हति, इत्युक्तौ । ब्रह्मणि साधु । ‘तत्र साधु (४.४.९८) इति यत् । ‘ब्रह्मण्यं स्याद्ब्रह्मसाधुब्रह्म- दारुशनैश्चरे । ततो नञ्समासः (२.२.६) । अवध याच्ज्ञायाम् । इत्येके ।”
अभयम् न भयमस्मात् । ‘अभया स्त्री हरीतक्यामुशीरे च नपुंसकम् । निर्भये वाच्यलिङ्गः स्यात्’ (इति मेदिनी)॥
अभया अमेति । न भयमस्याः । ‘अभया स्त्री हरीतक्यामुशीरे च नपुंसकम् । निर्भये वाच्यलिङ्गः स्यात्’ इति मेदिनी ॥
अभाषणम् न भाषणम् । ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । भावे ल्युट् (३.३.११५) ॥
अभिक्रमः अहीति । अभिक्रमणम् । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । भावे घञ् (३.३.१८) । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः ॥
अभिघाती अभिहन्तुं शीलः । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘द्वेष्योऽभियातिरमित्रः’ इति रत्नकोशः । तत्राभियातेः क्तिच् (३.३.१७४) । बाहुलकात्तिर्वा ॥
अभिजनः अभिजन्यते । कर्मणि घञ् (३.३.१९) । णिलोपस्य स्थानिवत्वात् `जनिवध्योश्च’ (७.३.३५) इति निषेधाद्वा वृद्धिर्न । यद्वा अभितोऽभिमुखो वा जनो जन्मात्र । ‘भवेदभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान्’ (इति मेदिनी) ॥
अभिधानम् अभिधीयते । कर्मणि ल्युट् (३.३.११३)
अभिध्या अभिध्येति । अभिध्यानम् । ‘ध्यै आध्याने’ (भ्वा० आ० से०) । ‘आतश्च’ (३.३.१०६) इत्यङ् । परस्य विषये चौर्यादिना स्पृहा । ‘परस्वविषयस्पृहा’ इति पाठे परस्वे विषयेण चौर्यादिना लिप्सा–इति मुकुटः । वस्तुतस्तु-परस्वविषयविषयिणीच्छेत्यर्थः ।
अभिनयः अभिनयत्यर्थम् । पचाद्यच् (३.१.१३४) । वाचिकाङ्गिकाहार्यसात्विकभेदाच्चतुर्विधः ॥
अभिनवोद्भिद् उद्भिनत्ति भुवम् । भिदिर् विदारणे’ (रु० उ० अ०) । ‘सत्सूद्विष (३.२.६१) इति क्विप् । अभिनवश्चासावुद्भिच्च ॥
अभिनिर्मुक्तः स्विति । अभि सर्वतः सायंतनेन कर्मणा निश्चयेन मुक्तः । अभि सर्वं सायंतनं कर्म निश्चयेन मुक्तं येन वा॥
अभिनिर्याणम् अभिनिर्या ॥
अभिनीतः अभिनीयते स्म । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) अभिनीतेन तुल्यम् । ‘अभिनीतं संस्कृतं (ते) च न्याय्ये चामर्षणे’ (र्षिणि) त्रिषु’ इति रुद्रः । ‘अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि’ (इति मेदिनी) ॥
अभिमानः अभि सर्वतो मानः । ‘अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥
अभिलाषः अभिलषणम् । ‘लष कान्तौ (भ्वा० उ० से०) । घञ् (३.३. १८) ।
अभिवादनम् अभिमुखीकरणार्थं वादनम् । ‘वद संदेशवचने’ चुरादिः । ल्युट् (३.३.११५) । आभिमुख्येन वाद्यते आशीः कार्यतेऽनेन इति वा । ण्यन्ताद्वदेः करणे ल्युट् (३.३.११७) ॥
अभिशस्तिः अभिशंसनम् । ‘शंसु स्तुतौ याचने च’ (भ्वा० प० से०) । क्तिन् (३.३.९४) । ‘अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च’इति हैमः । स्वामी तु-अभिषसनम् । ‘षस स्वप्ने’ (अ० प० से०) । क्तिन् (३.३.९४) । सुषामादित्वात् (८.३.९८) ‘पूर्वपदात्’ (८.३.१०६) इति वा षत्वम् । (अभिषस्तिः) । इत्यवोचत् ॥
अभिशापः अभिशपनम् । घञ् (३.३.१८) ॥
अभिषवः
- अभिषूयते । ‘षुञ् अभिषवे’ (स्वा० उ० अ०) । ‘ऋदोरप्’ (३.३.५७) । भावे वा । ‘भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः’ इति विश्वः (मेदिनी) ॥
अभिषवः ‘ऋदोरप्’ (३.३.५७) । ‘उपसर्गात्-’ (८.३.६५) इति षत्वम् । ‘भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः’ (इति मेदिनी) ॥
अभिषेणनम् येति । सेनयाभियानम् । ‘सत्याप-’ (३.१.२५) इति सेनाशब्दाण्णिच् । ल्युट् (३.३.११५) । ‘उपसर्गात् सुनोति-’ (८.३.६५) इति षत्वम् ॥
अभिसंपातः अभिसम्पतनम् । ‘पत्लृ गतौ’ (वा० प० से०) घञ् (३.३.१८) ॥
अभिसरः अभितः सरति । अच् (३.१.१३४) ॥
अभिसारिका कान्तेति । अभिसरति । ‘सृ गतौ’ (भ्वा० प० अ०) । ण्वुल् (३.१.१३३) ॥
अभीक्ष्णम्
- अभि क्ष्णौति । ‘क्ष्णु तेजने’ (अ० प० से०) । बाहुलकाड्डमुः । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः ॥
अभीक्ष्णम्
- अभिक्ष्णवनम् । ‘क्ष्णु तेजने’ (अ० प० से०) डम् । पृषोदरादित्वात् (६.३.१०९) अमेर्दीर्घः ॥
अभीरुः न भीरुः । स्थिरपत्रत्वात् ॥
अभीरुपत्री अभीरूणि पत्राण्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
अभ्यन्तरम् अभ्यन्तरमिति । अभिगतमन्तरम् ।
अभ्यमितः अभ्यम्यते स्म । ‘अम रोगे’ (चु० उ० से०) । क्तः (३.२.१०२) । चुरादीनां णिचो वैकल्पिकत्वाण्णिजभाव इदम् । अभ्यमतिस्म वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘रुष्यमत्वर-’ (७.२.२८) इति वेट् ॥
अभ्यमित्रीणः य इति । अमित्रस्याभिमुखम् । ‘लक्षणेनाभिप्रती’ (२.१.१४) इत्यव्ययीभावः । अभ्यमित्रमलङ्गामी । ‘अभ्यमित्राच्छ च’ (५.२.१७) चाद् यत्खौ ॥
अभ्यमित्रीयः य इति । अमित्रस्याभिमुखम् । ‘लक्षणेनाभिप्रती’ (२.१.१४) इत्यव्ययीभावः । अभ्यमित्रमलङ्गामी । ‘अभ्यमित्राच्छ च’ (५.२.१७) चाद् यत्खौ ॥
अभ्यमित्र्यः य इति । अमित्रस्याभिमुखम् । ‘लक्षणेनाभिप्रती’ (२.१.१४) इत्यव्ययीभावः । अभ्यमित्रमलङ्गामी । ‘अभ्यमित्राच्छ च’ (५.२.१७) चाद् यत्खौ ॥
अभ्यवस्कन्दनम् अभ्येति । ‘स्कन्दिर्’ (भ्व० प० अ०) । ल्युट् (३.३.११५) ॥
अभ्याख्यानम् चक्षिङः (अ० अ० से०) । अभ्याङ्पूर्वाद्भावे ल्युट् (३.३.११५) ॥
अभ्यागमः अभ्यागमनम् । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘अभ्यागमः समरेऽन्तिके । घाते रोधेऽभ्युपगमे’ इति हैमः ॥
अभ्यान्तः इडभावे ‘अनुनासिकस्य-’ (६.४.१५) इति दीर्घः ॥
अभ्यामर्दः अभ्यामर्दनम् । ‘मृद क्षोदे’ (क्र्या० प० से०) । घञ् (३.३. १८) । ‘अभिमर्दस्तु पुंसि स्यादवमर्दे सम्पराये च’ (इति मेदिनी) ॥
अभ्यासादनम् ‘षद्लृ विशरणादौ’ चुरादिः । ल्युट् (३.३.११५) ॥
अभ्युदितः अभि सर्वत उद् अतिशयेन इतं गतं प्रातस्तनं कर्मास्मात् ॥
अभ्युपगमः ‘अभ्युप’ इत्युपसर्गद्वयपूर्वाद्गमेः ‘ग्रहवृदृ-’(३.३.५८) इत्यप् । अभ्युपगमस्तु पुंसि स्वीकारे निकटगमने च ।
अभ्यूषः “अभ्यूषति । अभ्यूषते वा । ‘ऊष रुजायाम्’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । घञ् (३.३.१८) वा । ‘तोक्मं हरितो यवोऽभ्यूषः’ इति वोपालितात् ह्रस्वादिः (स्वमध्यः) अपि । तत्र ‘उष दाहे’ (भ्वा० प० से०) इति धातुर्बोध्यः । अस्मादेवाचि (३.१.१३४) ‘अभ्योषः’ अपि, इत्येके ॥”
अभ्रकम् “अभ्रेति । अभ्रति, अभ्र्यते वा । ‘अभ्र गतौ’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । अभ्रस्य प्रतिकृतिर्वा । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥”
अभ्रपुष्पः अभ्रमिव अभ्रसमये वा पुष्पमस्य ॥
अभ्रमातङ्गः अभ्रं मेघः तदात्मको मातङ्गः । शाकपार्थिवादिः (२.१.६०) । अभ्र आकशे मेघे वा विद्यमानो मातङ्ग इति वा ॥
अभ्रमुः अभ्र आकाश एव माति । “मा माने’ (अ० प० अ०) । मित्रय्वादित्वात् (उ० १.३७) कुः । न भ्राम्यति । भृतॄचरि- (उ० १.७ ) इत्युः । मन्थरगामिनीत्यर्थ इति वा ।
अभ्रमुवल्लभः “अभ्रे खे माति, न भ्राम्यति वा, मन्थरगामिनीत्वात् । बाहुलकादुः । अभ्रमोर्वल्लभः।”
अभ्रम् न बिभर्ति किंचित् । मूलविभुजादित्वात् (वा० ३.२.५) कः । यद्वा आपो भ्रश्यन्त्यस्मात् । अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । यद्वा – अभ्रति । स्थैर्यं गच्छति । अच् (३.१.१३४)। अभ्र वभ्र मभ्र चर गत्यर्थाः । (भ्वा० प० से०) । यद्वा-न भ्राजते । ‘भ्राजृ दीप्तौ (भ्वा०प० से०) अन्येभ्योऽपि-’ (३.२.१०१) इति डः । अभ्रं मेघे च गगने धातुभेदे च काञ्चने’ ॥
अभ्रम् अभ्रमित्यादि । अपो बिभर्ति । मूलविभुजादित्वात् (३.२.५) कः । अभ्रति । ‘अभ्र गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । न भ्रश्यन्त्यापो यस्मात् । ‘भ्रंशु अधः पतने’ । अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः-इति वा । ‘अभ्रं मेघे च गगने धातुभेदे च काञ्चने’ ।
अभ्रिः अभ्रिरिति । अभ्रति । ‘अभ्र गतौ (भ्वा० प० से०) । इन् । (उ० ४.११८)
अभ्रिय त्रिष्विति । अभ्रे भवम् । ‘समुद्राभ्राद्धः’ (४.४.११८) छान्दसत्वं प्रायिकम् । स्त्रियामभ्रिया ॥
अभ्रेषः अभ्र इति । भ्रेषादन्यः ॥
अमत्रम् अमति ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘अमिनक्षियजिवधिपतिभ्योऽत्रन्’ (उ० ३.१०५) ॥
अमराः अमरा इति । न म्रियन्ते । ‘मृङ् प्राणत्यागे’ (तु आ० अ०) । पचाद्यच् (३.१.१३४) । ‘अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे । स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु’ ॥
अमरावती नगरी त्विति । अमराः सन्त्यस्याम् । मतुप् (५.२.९४) । ‘मतौ बह्वचोऽनजिरादीनाम्’ (६.३.११९) इति दीर्घः ।
अमर्त्याः म्रियन्तेऽस्मिन्निति मर्तो भूलोकः । ‘हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्’ (उ० ३.८६) । तत्र भवा अप्युपचारान्मर्ताः । ततश्च ‘नवसूर मर्तयविष्ठेभ्यो यत्’ (वा० ५.४.३६) इति स्वार्थे यत् । तद्भिन्नाः ॥
अमर्षः ‘मृष तितिक्षायाम्’ (दि० उ० से०) । घञ् (३.३.१८) । नञ् समासः (२.२.६) ।
अमलम् “अमति । ‘अम गतौ’ (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । न मलमस्य, इति वा । (‘अमलं त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु’ इति मेदिनी) । ‘गिरिजं गिरिजाबीजममलं गवलध्वजम्’ इति वाचस्पतिः ॥”
अमला न मलो यस्याः ॥
अमांसः अमेति । न अल्पं मांसमस्य । अल्पार्थं नञ् ॥
अमात्यः अमा सह समीपे वा भवः । ‘अव्ययात्यप्’ (४.२.१०४) ॥
अमावस्या “अमेति । अमा सह वसतोऽस्यां चन्द्रार्कौ । ‘अमावास्यदन्यतरस्याम्’ (३.१.१२२) इति ण्यत्, पक्षे वृद्धयभावश्च निपात्यते । नामैकदेशे नामग्रहणात् ‘अमा’ अपि वसतेरिन्प्रत्यये (उ० ४.११८) ततो डीषि (ग० ४.१.४५) अमावसी । ‘इणजादिभ्यः’ (वा० ३.३.१०८) इतीणि अमावासी ॥ ‘मसी परिणामे’ (दि० प० से०) । अमा चन्द्रसूर्यौ साहचर्येण मस्यतपरिच्छिन्तोऽस्यां मासम् । अमामासी । इण् (वा० ३.३.१०८) । अमामसी । इन् (उ० ४.११८) । ‘दशोमाऽमावसी च स्यात् इति रभसः । अप्यमावस्यमावासी चामामस्यप्यमामसी’ इति शब्दार्णवः”
अमावास्या “अमेति । अमा सह वसतोऽस्यां चन्द्रार्कौ । ‘अमावास्यदन्यतरस्याम्’ (३.१.१२२) इति ण्यत्, पक्षे वृद्धयभावश्च निपात्यते । नामैकदेशे नामग्रहणात् ‘अमा’ अपि वसतेरिन्प्रत्यये (उ० ४.११८) ततो डीषि (ग० ४.१.४५) अमावसी । ‘इणजादिभ्यः’ (वा० ३.३.१०८) इतीणि अमावासी ॥ ‘मसी परिणामे’ (दि० प० से०) । अमा चन्द्रसूर्यौ साहचर्येण मस्यतपरिच्छिन्तोऽस्यां मासम् । अमामासी । इण् (वा० ३.३.१०८) । अमामसी । इन् (उ० ४.११८) । ‘दशोमाऽमावसी च स्यात् इति रभसः । अप्यमावस्यमावासी चामामस्यप्यमामसी’ इति शब्दार्णवः ।”
अमित्रः अमति । गच्छति । ‘अम गतौ’ (भ्वा० प० से०) । ‘अम रोगे’ (चु० उ० से०) । अमेर्द्विषति चित्’ (उ० ४.१७४) इतीत्रन् ॥
अमुत्र
- अमुष्मिन् । अदसः ‘सप्तम्या स्त्रल्’ (५.३.१०) ॥ भवान्तरे जन्मान्तरे ।
अमृणालम् मृणालमिव सादृश्येऽत्र नञ् ॥ ‘मृणालम् अप्यत्र’ । ‘मृणालं नलदे क्लीबं पुंनपुंसकयोर्बिसे’ (इति मेदिनी) ॥
अमृतम् न म्रियन्तेऽनेन । ‘तनिमृङ्भ्यां किच्च’ (उ० ३.८८) इति तन् । अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ।
अमृतम् न मृतं मरणमस्त्यस्मिन् । प्राणस्यापोमयत्वात् । अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः । अमृता मागधीपथ्यागुडूच्यामलकीषु च’
अमृतम् अविद्यमानं मृतं मरणमत्र । ‘अमृतं यज्ञशेषे स्यात्पीयूषे सलिले धृते । अयाचिते च मोक्षे त्त ना धन्वन्तरिदेवयोः’॥
अमृतम् अम्रिति । अमृतमिव । अमृतसाधनत्वात् । ‘अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः’ (इति मेदिनी) ॥
अमृतम् अमृतम्
अमृता न म्रियन्तेऽनया । ‘तनिमृङ्भ्यां किञ्च’ (उ० ३.८८) इति तन् । ‘अमृता मागधीपत्यागुडूच्यामलकीषु च ॥
अमृता न म्रियन्तेऽनया । ‘तनिमृङ्भ्यां किञ्च’ (उ० ३.८८) इति तन् । ‘अमृता मागधीपत्यागुडूच्यामलकीषु च ॥
अमृता न मृतमस्याः । ‘अमृता मागधीपथ्यागुडूच्यामलकीषु च’ (इति मेदिनी) ॥
अमृतान्धसः अमृतमन्धोऽन्नं येषां ते ॥
अमोघा न मोघा । ‘अमोघं सफले वाच्यवत् स्त्री पथ्याविडङ्गयोः’ (इति मेदिनी) ॥ मोघापि । ‘कृमिघ्नं तण्डुलं मोघा’ इति वाचस्पतिः ॥
अमोघा न मोघा । ‘अलिप्रिया विशालाग्राप्यमोघा पाटलिर्द्वयोः’ इति वाचस्पतिः ॥ ‘मोघा स्त्री पाटलावृक्षे मोघं त्रिषु निरर्थके’ इति रुद्रात् ‘मोघा’ अपि । मोहयति । पचाद्यच् (३.१.१३४) न्यङ्क्वादिः (७.३.५३) ॥
अम्बरम् ‘अबि शब्दे’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । अम्बः शब्द तं राति । अम्बरम् । (‘अम्बरं न द्वयोर्व्योम्नि सुगन्ध्यन्तरवस्त्रयोः’)
अम्बरीषः क्लीति । अम्ब्यतेऽत्र वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । ‘अम्बरीषः’ (उ० ४.२९) इति साधुः । -‘शिरीषादयश्च -इति त्वपाणिनीयम् । ‘अम्बरीषपुरुषोषरौषधम्’ इति षभेदान्मूर्धन्यान्तोऽयम् । ‘अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुतापे च’ ‘अनिमिषो मत्स्यदेवयोः’ (इति मेदिनी) ॥
अम्बष्ठः
- अम्बेति । वैश्या च द्विजन्मा च । तयोः सुतः । अम्बे तिष्ठति । ‘ष्ठा’ (भ्वा० प० अ० ) । ‘सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् । ‘अम्बष्ठो देशभेदेऽपि विप्राद्वेश्यासुतेऽपि च । अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि’ इति विश्वः (मेदिनी) ॥
अम्बष्ठा अम्बे तिष्ठति । सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् । ‘अम्बष्ठी देशभेदेऽपि विप्राद्वेश्यासुतेऽपि च । अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि’ (इति मेदिनी) ॥
अम्बष्ठा अम्बेव मातेव तिष्ठति । ‘सुपि स्थः’ (३.२.४) इति कः । अम्बाम्ब (८.३.९७) इति षत्वम् । ‘ड्यापोः’ (६.३.६३) इति ह्रस्वः । -अम्बे तिष्ठति – इति स्वामी । ‘अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । ‘अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि’ इति विश्वमेदिन्यौ ॥
अम्बष्ठा ‘अम्बष्ठाऽप्यम्ललोण्यां स्यात् पाठायूथिकयोरपि’ (इति मेदिनी) ॥a
अम्बा अम्बेति । अम्ब्यते शब्द्यते । ‘अबि शब्दे’ (भ्वा० आ० से०) । गुरोश्च हलः (३.३.१०३) इत्यः । ‘नाट्योक्तौ’ इत्यधिकारस्य प्रायिकत्वादम्बादीनां केषांचिदन्यत्रापि प्रयोगः । एकम् आतुः ।
अम्बिका अम्बैवाम्बिका । जगन्मातृत्वात् अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि’।।
अम्बु अम्बते । अबि शब्दे’ (भ्वा० आ० से०) । बाहुलकादुः । यत्तु-अम्बति इति स्वामिना विगृहीतम् । तच्चिन्त्यम् । अस्यात्मनेपदित्वात् ॥
अम्बुजः अम्बुनि जातः । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘सप्तम्यां जनेर्डः’ (३.२.९७) ॥
अम्बुभृत् अम्बु बिभर्ति । क्विप् (३.२.७६) ॥
अम्बुवेतसः अम्बुनि जातो वेतसः । शाकपार्थिवादिः (वा० २.१.६९) ॥
अम्बूकृतम् अम्बूकृतमिति । निष्ठेवनम् । ‘ष्ठिषु निरसने’ (भ्वा० प० से०) । घञ् (३.३.१८) । लघूपधगुणः (७.३.८६) ॥ ‘सनिष्ठीवम्’ इति पाठे तु पृषोदरादित्वात् (६.३.१०९) ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥ अम्बुशब्द उपचारात्तद्वति । अनम्बु अम्बु अकारि । च्विः (५.४.५०) । ‘च्वौ च’ (६.३.१३८) इति दीर्घः । क्तः (३.२.१०२) ॥
अम्ब्लः अम्ब्यते शब्द्यते भोक्तृभिः । ‘अबि शब्दे’ (भ्वा० प० से०) । ‘मूशक्यविभ्यः क्लः’ (उ० ४.१०८) अम्ब्लः । ‘अम रोगे’ (चु० उ० से०) । अमति रुजत्यरुचिम् । बाहुलकात्क्ले अम्लोऽपि । अम्लो रसेऽम्लवेतसे । (अम्ली चाङ्गेर्याम्) इति हैमः ।
अम्ब्लिका अम्ब्लो रसोऽस्यास्ति । अतः’ (५.२.११५) इति ठन् । ‘अम्ब्लीका चाम्ब्लिका चिञ्चा तिन्तिडीका च तिन्तिला’ इति चन्द्रः । (‘अम्ब्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च’)॥
अम्भः “आप्नोति, आप्यते वा । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । ‘उदके नुम्भौ च’ (उ० ४.२१०) इत्यसुन् ह्रस्वो भान्तादेशो नुमागमश्च । अम्भते वा । ‘अभि शब्दे’ (भ्वा० आ० से०) । असुन् (उ० ४.१८९) इत्यतः । यत्तु-अमति–इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । यच्च-अमेर्भुक् च-इति सूत्रोपन्यसनं मुकुटेन कृतम् । तन्न । तदुक्तसूत्रस्योज्ज्वलदत्तादावनुपलम्भात् अस्मदुपन्यस्तस्योपलम्भाच्च ॥”
अम्भोरुहम् अम्भसि रोहति ॥ षोडश पद्मसामान्यस्य ॥
अम्मयम् ‘एकाचो नित्यम्’ इति मयट् । स्त्रियामम्मयी ॥
अम्ललोणिका आम्लेभ्य ऊना । स्वार्थे कन् (५.३.७५) । पृषोदरादित्वात् (६.३.१९) णः ॥
अम्लवेतसः अम्लश्चासौ वेतसश्च । नम्रत्वात् ॥
अम्लानः अम्लेति । न म्लायति स्म । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘संयोगादेरातो धातोर्यण्वतः’ (८.२.४३) इति नत्वम् । ‘अम्लानस्त्वमले झिंटीभेदे’ इति हैमः । ‘अम्लानो महासहायां ना वाच्यलिङ्गस्तु निर्मले’ इति मेदिनी ॥
अयः अय इति । एत्यनेन सुखम् । ‘इण् गतौ (अ० प० से०) । ‘पुंसि संज्ञायाम्-’ (३.३.११८) इति घः ॥
अयःप्रतिमा
- अयसः प्रतिमा ॥
अयनम् तैर्ऋतुभिः । अयतेऽर्कोऽनेन । ल्युट् (३.३.११७) । यत्तु-‘अयतेऽर्कोऽनेन इति विगृह्य ‘इण् गतौ’ (अ० प० अ०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तदसंगतम् । इति स्पष्टमेव । ‘अयनं’ पथि भानोरप्युदग्दक्षिणतो गतौ ।
अयनम् अयनमिति । अयन्ते ईयते वानेना । ‘करणा-’(३.३.११७) इति मुकुटः । तन्न । घञो ल्युडपवादत्वात् । आतो युच् (उ० २.७८) । कर्मणि वा ल्युट् (३.३.११३) । ‘अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ’ इति हैमः ॥
अयसः “एति, अयते वा । असुन् (उ० ४.१८९) ॥”
अयि
- ईयते । अय्यते वा । इः (उ० ४.१३९) । इन् (उ० ४.११८) वा ॥ अनुनये सान्त्वने ।
अयोग्रः अयविति । अयोऽग्रेऽस्य ॥
अरणिः नीति । निर्मथ्यते । ‘मन्थ विलोडने’ (भ्वा० प० स०) । ण्यत् (३.१.१२४) । निर्मन्थ्यं च तद्दारु च ॥ ऋच्छति । ‘ऋ गतिप्रापणयोः’ (भ्वा० प० अ०) । ‘अर्तिसृधृधमि (उ० २.१०२) इत्यनिः । ‘अरणिर्वह्निमन्ये ना द्वयोर्निर्मन्थ्य दारुणि’ (इति मेदिनी) ॥
अरण्यम् अर्यते । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अर्तेर्नित् (उ ३.१२) इत्यन्यः ॥
अरण्यानी महदरण्यम् । हिमारण्ययोर्महत्वे’(वा ४.१.४९) इति ङीषानुकौ ।
अरत्निः अरेति । रत्निभिन्नः । नञ्समासः । ‘नारत्निः कफोणौ हस्ते सप्रकोष्ठे चाङ्गुलौ’ इति रुद्रः । ‘अरत्निर्ना सप्रकोष्ठतताङ्गुलिकरेऽपि च । कफोणावपि’ (इति मेदिनी) ॥ निर्गता कनिष्ठा यस्मात्तेन मुष्टिनोपलक्षितः ।
अरम् “ऋच्छति, इयर्ति वा । ‘ऋ गतौ (भ्वा०, जु० प० अ०) । पचाद्यच् (३.१.१३४) । अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोरपि’ इति शाश्वतः । ‘अलम्’ इत्यव्ययस्य वालमूल-’(वा० ८.२.१८) इत्यादिना रेफपक्षे तु ‘अरम्’ इत्यव्ययमपि । अप् (३.३.५७) बाहुलकात् क्लीबत्वम् इति मुकुटस्य प्रमादः बाहुलकस्यागतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् । एतेन स्वाम्युक्तिरपि परास्ता ।।”
अररम् इयर्ति । ‘अर्तिकमि-’ (उ० ३.१३२) इत्यरन् । स्त्रियाम् गौरादिङीष् (४.१.४१)– इति पञ्जिका । ‘कपाटश्च कवाटश्च त्रिषु स्यादररं न ना’ इति वाचस्पतिः । ‘अररं छदकपाटयोः’ इति विश्वमेदिन्यौ । ऋच्छति विच् (३.२.७५) । अरम् ऋच्छति । ‘सर्वधातुभ्यः’ (उ० ४.११८) इतीनि ‘अररिः’ इदन्तोऽपि । (‘अररं पुनः । कपाटोररिः कवाटः इति हैमः) ॥
अरलुः इयर्ति । अर्तेररुः’ (उ० ४.७९) । कपिलिकादिः (वा० ८.२.१८) ॥
अरविन्दम् अरं शीघ्रं लिप्सां विन्दति । ‘गवादिषु विन्देः- (वा० ३.१.३८) इति शः । ‘शे मुचादीनाम्’ (७.१.५९) इति नुम् । अराकाराणि पत्त्राणि विन्दति वा ॥
अरातिः न राति सुखम् । ‘रा दाने’ (अ० प० अ०) । क्तिच् (३.३.१७४) । तिर्वा ॥
अरिः इयर्ति विरोधम् । ‘ऋ गतौ’ (जु० प० अ०) । ‘अच इः’ (उ० ४.११९) ॥
अरित्रम् अरित्रमिति । ऋच्छत्यनेन । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अर्तिलूधू-’ (३.२.१८४) इतीत्रः ॥
अरिमेदः अरीति ॥ अरिरिव मेदः स्नेहोऽस्य ॥
अरिष्टः अरीति । न रिष्टमस्मात् । ‘अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः’ ॥ रिष्टोऽपि । ‘रिष्टं क्षेमाशुभाभावे पुंसि खड्गे च फेनिले ॥
अरिष्टः अरीति । न रिष्टमशुभमस्मात् । ‘अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च’ इति मेदिनी ॥
अरिष्टः न रिष्टमस्य । ‘अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः’ (इति मेदिनी) ॥
अरिष्टम् अरिष्टमिति । नास्ति रिष्टमत्र । न रिष्यते स्म हिंस्रैः इति वा । रिष हिंसायाम्’ (भ्वा० प० से०) । क्तः (३.२.१०२) । अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च’ इति विश्वमेदिन्यौ ॥
अरिष्टम् न रिष्टमशुभमस्मात् । ‘अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः । अष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च’ (इति मेदिनी) ॥
अरिष्टम् न रिष्टमक्षेमं यस्मात् । ‘अनेक-’ (२.२.२४) इति समसः । ‘अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च’ इति विश्वः ॥
अरुः इयर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘अर्तिपॄवपि-’ (उ० २.११७) इत्युस् ॥
अरुणः ऋच्छति । ‘अर्तेश्च’ (उ० ३.६०) इत्युनन् । (‘अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणातिविषाश्यामामञ्जिष्ठात्रिवृतासु च’)
अरुणः अरुणो वर्णोऽस्यास्ति । अच् (५.२.१२७) ‘गुण-’ (वा० ५.२.९४) इति मतुपो लुग्वा ।
अरुणः “ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अर्तेरुनन् (उ० ३.६०) । ‘अरुणः कृष्णलोहितः’ इत्यमरमाला । अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना, गुणिनि त्रिषु । अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च’ ।”
अरुणा अरुणो वर्णोऽस्याः । ‘अरुणातिविषाश्यामामञ्जिष्ठा त्रिवृतासु च’ (इति मेदिनी) ॥
अरुष्करः वीरेति । वीर इव वृक्षो दुःस्पर्शत्वात् । वीरवृक्षस्तु भल्लातकार्जुनद्रुमयोः पुमान्’ ॥
अर्कः अर्च्यते । अर्च पूजायाम्’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१८) । ‘चजोः-’ (७.३५२) इति कुत्वम् । यद्वा ‘कृदाधारार्चिकलिभ्यः कः’ (उ० ३.४०) चोः कु’ (८.२.३०) ( ‘झरो झरि (८.४.६५) कलोपः) । यद्वा ‘अर्क स्तवने’ (चु० प० से०) चुरादिः । अर्क्यते । ‘एरच्’ (३.३.५६) ‘एरजण्यन्तानाम्’ इति मते घञ् । (अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि’)।
अर्कपर्णः अर्काभानि तीक्ष्णानि पत्राण्यस्य ॥
अर्कबन्धुः अर्कस्य बन्धुः । सूर्यवंशजत्वात् ॥
अर्काह्वः अर्केति । अर्क आह्वा यस्य । ‘अर्कोऽर्कपणे स्फटिके रवौ ताम्रे दिवस्पतौ’ (इति मेदिनी) ॥
अर्गलम् तदिति । तत् कपाटं विष्कभ्नाति । ‘स्कम्भुः सौत्रो रोधनार्थः । ‘कर्मण्यण्’ (३.२.३) । –मुकुटस्तु आवश्यके णिनिः (३.३.१७०) इति वदन् ’तद्विष्कम्भार्गलम्’ इति मूलपाठं मन्यते । ‘वेः स्कभ्नातेर्नित्यम्’ (८.३.७७) इति षत्वम् ॥ अर्ज्यते । अर्ज अर्जने (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । न्यङ्क्वदित्वात् (७.३.५३) कुत्वम् । ‘स्यादर्गलं तु कल्लोले परिघेऽपि’) स्त्रियां टाप् (४.१.४) । लघुत्वविवक्षायां ङीष् (४.१.५५)
अर्घ्यः अर्ध्येति । अर्घायेदम् । ‘पादार्घाभ्यां च’ (५.३.२४) इति यत् । अर्घार्थे जले॥
अर्चा
- अर्च्यते । ‘अर्च पूजायाम्’ (भ्वा० प० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः ॥
अर्चा ‘अर्च पूजायाम्’ (भ्वा० प० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः॥
अर्चिः “अर्च्यते । अर्च पूजायाम्’ (भ्वा० प० से०, चु० उ० अ०) । ‘अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः’ उ०.२.१०८) । अर्चिः सान्तः ।। इनि (उ० ४.११८) त्विदन्तोऽपि । ‘अग्नेर्भ्राजन्ते अर्चयः’ इति श्रुतेः ।। स्त्रियाम् इति अर्चिरादिभिः संबध्यते । तत्रार्चिषः ज्वालाभासोर्नपुंस्यर्चिः इति क्लीबत्वमपि वक्ष्यते । (‘अर्चिर्मयूखशिखयोः’) ।”
अर्जकः सीति । अत्र पर्णासे । अर्जयति । ‘अर्ज सर्ज अर्जने’ (भ्वा० प० से०) । ‘ऋज गतिस्थानार्जनोपार्जनेषु’ (भ्वा० आ० से०) । वा ण्यन्तः । ण्वुल् (३.१.१३३) ॥
अर्जुनः अर्ज्यते । ‘अर्ज अर्जने’ (भ्वा० प० से०) अर्जेर्णिलुक् च’ (उ० ३.५१) इत्युनन् । अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि ।
अर्जुनः अर्ज्यते । ‘अर्ज अर्जने-’ (भ्वा० प० से०) । ‘अर्जेर्णिलुक् च’ (उ० ३.५८) इत्युनन् ॥ ‘पार्थस्तु ककुभे जिष्णौ’ इति विश्वात् पार्थोऽपि ॥
अर्जुनम् अर्ज्यते । ‘अर्ज अर्जने’ (भ्वा० प० से०) । ‘तृणाख्यायां चित्’ (उ० ३.५९) इत्युनन् । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्याद् अर्जुनीगवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित्’ (इति मेदिनी) ॥
अर्जुनी “अर्जुनवर्णयोगात् । ‘अन्यतो ङीष्’ (४.१.४०) । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि, स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदानद्यां कुट्टिन्यामपि च क्वचित्’ इति विश्वः (मेदिनी) ॥”
अर्णः ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘उदके नुट् च’ (उ० ४.१९७) इत्यसुन् नुडागमश्च । यत्तु–ऋणोति-इति विगृहीतं स्वामिना । तन्न । अर्तेरुच्च इत्यतः ‘अर्तेः’ इत्यनुवृत्तेः स्वादेस्तत्राग्रहणात् ।
अर्णवः अर्णांस्यत्र सन्ति । अर्णसो लोपश्च’ (५.२.109) इति वः सलोपश्च ॥
अर्थः अर्थः ।
अर्थना एवम् अर्थ याञ्चायाम्’ (चु० उ० से०) । युच् (३.३.१०७) ॥
अर्थप्रयोगः अर्थेति । अर्थस्य प्रयोगः ॥
अर्थिन् अर्थोऽसंनिहितोऽस्यास्ति । ‘अर्थाच्चासंनिहिते’ (५.२.१३५) इतीनिः । ‘अर्थी पुमान्याचके स्यात्सेवके च विवादिनि’ (इति मेदिनी) ॥
अर्थ्यम् “अर्थ्यते । ‘अर्थ उपयाच्ञायाम्’ (चु० आ० से०) ण्यन्तः । ‘अचो यत्’ (३.१.९७) । अर्थादनपेतम्, वा । ‘धर्मपथ्य-’ (४.४.९२) इति यत् । ‘अर्थ्यो विपश्चिति न्याय्ये त्रिष्वर्थं तु शिलाजतु’ इति यान्ते रुद्रः ॥”
अर्धः ‘ऋधु वृद्धौ’ (स्वा० प० से०) । ऋध्नोत्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । विशेष्यनिघ्नः ।
अर्धचन्द्रा अर्धश्चन्द्रो यस्याः । एतद्विदलस्यार्धचन्द्राकारत्वात् ॥
अर्धनावम् क्लीब इति । नावोऽर्धम् । अर्धं नपुंसकम्’ (२.२.२) इति तत्पुरुषः । ‘नावो द्विगोः (५.४.९९) । अर्धाच्च (५.४.१००) टच् । (१) इति एकम् अर्धनौकायाः ।
अर्धम् ‘ऋधु वृद्धौ’ (स्वा० प० से०) । ऋध्नोत्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । विशेष्यनिघ्नः ।
अर्धरात्रः अर्धं रात्रेः । ‘अहःसर्वैकदेश-’(५.४.८७) इत्यच् ।
अर्धहारः ‘विंशतियष्टिको हारो माणवः परिकीर्तितः’ । ‘अर्धेनैकदेशेन कृतो हारः । शाकपार्थिवादिः (वा० २.१.६०) ॥
अर्भकः “अर्यते वृद्धिं प्राप्यते । ‘ऋ गतौ प्रापणेऽपि च’ (भ्वा० प० से०) । ‘अर्भकपृथुकपाका वयसि’ (उ० ५.५३) इति साधुः । मुकुटस्तु–सदैव इयर्ति चलति, वृद्धिं गच्छति वा । ‘अर्तिगॄभ्यां भः’ (उ० ३.१५२) । ततः स्वार्थे कन् (५.३.७५)—इति व्याख्यत् । तन्न । ‘अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च’ (इति मेदिनी) इत्यत्र बालभिन्नेऽर्थे सावकाशस्यास्य वयसि ‘अर्भक’ (उ० ५.५३) इत्यनेन बाधनात् ॥”
अर्यमा इयर्ति । ‘श्वन्नुक्षन्पूषन्-’ ( उ० १.१५९) इति निपातितः । (‘अर्यमा पितृदैवते) । तरणौ सूर्यभक्तायाम् ।।
अर्या अर्थेति । स्वयं पुंयोगं विना जातिमात्रे । ‘अर्यक्षत्त्रियाभ्यां वा’ (वा० ४.१.४९) इति स्वार्थे ङीषानुकौ ॥
अर्या अर्यते । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अर्यः स्वामिवैश्ययोः’ (३.१.१०३) ॥
अर्याणी अर्थेति । स्वयं पुंयोगं विना जातिमात्रे । ‘अर्यक्षत्त्रियाभ्यां वा’ (वा० ४.१.४९) इति स्वार्थे ङीषानुकौ ॥
अर्यी स्यादिति । अर्यस्य स्त्री । ‘पुंयोगात्-’ (४.१.४८) इति ङीष् ॥
अर्वन् ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (३.२.७५) इति वनिप् । मुकुटस्तु ‘स्नामदिपद्यर्तिभृशकिभ्यो वनिप्’ (उ० ४.११३) -इत्याह । तन्न । तत्र क्वनिपो विधानाद्गुणाभावप्रसङ्गात् । यद्वा अर्वति । ‘अर्व गतौ’ (भ्वा० प० से०) । बाहुलकात् कनिन् । मुकुटस्तु बाहुलकाद्वनिप् । राल्लोपः(६.४.२१) इति (सुभूतिः) इत्याह । तन्न । वनिब्विधौ बाहुलकस्यानुपयोगात् । ‘अन्येभ्योऽपि (३.२.७५) इति वनिपः सर्वेभ्यः सिद्धत्वात् । उणादिषु वनिपो दर्शनात् । क्वौ झलादौ किति अनुनासिके च राल्लोपस्य विहितत्वेन वनिपि तदसम्भवात् । लोपं विनापि रूपसिद्धेश्च । ‘अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः’ (इति मेदिनी ॥
अर्वाक्
- अवरे अञ्चति । अस्तातिः (५.३.२७) । ‘अञ्चेर्लुक्’ (५.३.३०) । पृषोदरादिः (६.३.१०९) । अवरे पूर्वकालतः पश्चात् । अर्वन्तमञ्चति वा ॥
अर्शसः अर्शांसि सन्त्यस्य । ‘अर्शआदिभ्योऽच्’ (५.२.१२७) ॥
अर्शस्म् ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अर्तेर्व्याधौ शुट् च’ (उ० ४.१९६) इत्यसुन् ॥
अर्शोघ्नः अर्शविति । अर्शांसि हन्ति । ‘अमनुष्य-’ (३.२.५३) इति टक् ॥
अर्सोरोगयुतः अर्शविति । अर्शोरोगेण युतः ॥
अर्हणा ‘अर्ह पूजायाम्’ चुरादिः । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति युच्॥
अलकः “अलेति । अलति, अल्यते, वा । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले’ (इति मेदिनी) ॥”
अलका अलकेति । अलति भूषयति । ‘अल भूषणादिषु’ (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ (उ० २.३२) इति क्वुन् । क्षिपकादित्वात् (वा० ७.३.४५) नेत्वम् । ‘अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले ।
अलक्तः न लज्यते स्म । ‘ओलस्जी व्रीडे’ (तु० अ० से०) । बाहुलकात्तन् । यद्वा न लक्यते स्म । अभक्ष्यत्वात् । क्तः (३.२.१०२) यद्वा न रक्तोऽस्मात् । ‘कपिलिकादित्वात्’ (वा० ८.२.१८) लत्वम् ॥
अलक्ष्मीः स्यादिति । लक्ष्मीविरुद्धा ॥
अलगर्दः अलेति । लगति ‘लगे सङ्ग’ (भ्वा० प० से०) । क्विप् । (३.२.१७८) । अर्दयति । अच् (३.१.१३४) । लक् चासावर्दश्च । लग्नः सन् पीडक इत्यर्थः । निर्विषत्वात्तद्भिन्नोऽलगर्दः । यद्वा-अलति । ‘अल गत्यादौ’ (भ्वा० प० से०) । गर्दति । ‘गर्द शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । अलश्चासौ गर्दश्च । ‘अलगर्धः’ इति तु मुकुटः । अलं गृध्यति । ‘गृधु अभिकाङ्कायाम्’ (दि० प० से०) । पृषोदरादिः (६.३.१०९) । पचाद्यच् (३.१.१३४)
अलङ्करिष्णुः ‘अलङ्कृञ्-’ (३.२.१३६) इतीष्णुच् ॥
अलङ्कर्तृः अलमिति । अलं करोति । ‘तृन्’ (३.२.१३५) ॥
अलङ्कारः अलमिति । अलंक्रियतेऽनेन । घञ् (३.३.१९) । ‘अलङ्कारः कङ्कणादिषु । उपमादौ’ इति हैमः ॥
अलङ्कृतः अलं क्रियते स्म ॥
अलङ्क्रिया अलङ्करणम् । ‘कृञः श च’ (३.३.१००) ॥
अलम्
- अलनम् । ‘अल भूषणादौ’ (भ्वा० प० से०) । अम् ॥
अलर्कः
- अलेति । अलम् अर्यते । ‘अर्क स्तवने’ (चु० प० से०) । अर्च्यते वा । ‘अर्च पूजायाम्’ (भ्वा० प० से०) । घञ् (३.३.१९) । शकन्ध्वादिः (वा० ६.१.९४) । ‘अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे’ इति विश्वः (मेदिनी) ॥ योगो मत्ततोपायो जातोऽस्य । तारकादित्वात् (५.२.३६) इतच् । यद्वा योग्यन्ते स्म । ‘युगि वर्जने’ (भ्वा० प० से०) । ण्यन्तः । अनित्यत्वान्न नुम् । क्तः (३.२.१०२) ॥
अलर्कः अत्रेति । अस्मिन् शुक्ले । अलति । ‘अल भूषणादौ’ (भ्वा० प० से०) । क्विप् (३.२.७६)। अल् चासावर्कश्च। ‘अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे’ (इति मेदिनी) । अलयति इति मुकुटः । तन्न । णावुपधावृद्धिप्रसङ्गात् ॥
अलसः
- न लसति । ‘लस श्लेषणे’ (भ्वा० प० से०) । अच् (३.१.१३४ ) ॥
अलातम् अलेति । लानम् । ‘ला दाने’ (अ० प० अ०) । क्तः (३.३.११४) । न लातमस्य ॥
अलाबूः न लम्बते । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । ‘नञि लम्बेर्नलोपश्च’ (उ० १.८७) इत्यूर्णित् । ‘अलाम्बुस्तु पिण्डफला तुम्बिस्तुम्बी महाफला । तुम्बा तु वर्तुलाऽलाबूनि(र्नि)म्बचूर्णा तु लाबुका’ इति वाचस्पतिः । ‘अलावूस्तुम्बकः प्रोक्तः’ इति चन्द्रः ॥
अलिः अलीति । अलतिदंशे समर्थो भवति । ‘अल भूषणादौ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘भृङ्गवृश्चिकयोरलिः’ इति रभसः ॥ बाहुलकादिण् प्रत्यये दीर्घादिरपि । ‘वृश्चिको द्रुण आलिः स्यात्’ इति बोपालितः ॥ नान्तोऽप्यस्ति अलमर्थोऽस्यास्ति । ‘व्रीह्यादित्वात्’ (५.२.११६) इनिः । ‘अव्ययानां भमात्रे टिलोपः’ (वा. ६.४.१४४) इति टिलोपः । ‘अथाली स्याद्वृश्चिके भ्रमरे पुमान्’ (इति मेदिनी) ॥
अलिः अलति । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘अलिः सुरापुष्पलिहोः’ (इति मेदिनी) ॥
अलिकम् “अलति, अल्यते, वा । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘अनिहृषिभ्याम् किच्च’ इतीकन् (उ० ४.२७) । ‘अलीकमहितेऽपि’ इति कात्यः । बाहुलकादिकन्नपि । ‘अलिकं ह्रस्वदीर्घमध्यम्’ इति राजदेवः ॥”
अलिञ्जरः “अलीति । अलनम् । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) । इन् (उ० ४.११८) वा । अलिं सामर्थ्यं जरयति, जृणाति, वा । ‘जॄष् वयोहानौ’ (भ्वा० प० से०) । ‘जॄ वयोहानौ’ (क्र्या० प० से०) वा । अण् (३.२.१) । अच् (३.१.१३५) वा ॥”
अलिन्दः अल्यते भूष्यते । ‘अल भूषणादौ ’ (भ्वा० प० से०) । बाहुलकात्किन्दच् ॥ प्रज्ञाद्यणि आलिन्दः’ अपि । ‘गृहेकदेशे आलिन्दः प्रघाणः प्रघणस्तथा’ इत्यमरमाला । अलिन्दस्त्वल्पपिण्डिका इति सुभूतिः ॥
अली ‘अलो वृश्चिकलाङ्गूलम् । तदिवास्य । ‘अतः-’ (५.२.११५) इतीनिः ॥
अल्पतनुः अल्पा तनुरस्य ॥
अल्पमारिषः ‘मारिषः शाकभिद्यार्ये नाट्योक्त्या पुंसि योषिति । (दक्षाम्बायाम्)’ (इति मेदिनी) । अल्पश्चासौ मारिषश्च ॥
अल्पसरः अल्पं च तत्सरश्च ॥
अवकरः अवकीर्यते । (तया शोधन्या) क्षिप्ते धूल्यादौ । कचरा इति ख्यातस्य ।
अवकीर्णी अवेति । अवकरणम् । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कृञ् हिंसायाम्’ (क्र्या० उ० से०) वा । भावे क्तः (३.३.११४)। अवकीर्णं विक्षिप्तं हिंसितं वा वृत्तमनेन । ‘इष्टादिभ्यश्च (५.२.८८) इतीनिः ॥
अवकेशी अवसन्नाः केशा यस्य सोऽवकशा निष्केशः । सोऽस्ति दृष्टान्तत्वेनास्य । अत इनिः’ (५.२.११५) । स यथा निष्केशः । एवमयं निष्फलः । अवकं शून्यमीष्टे तच्छीलः ॥ सुप्यजातौ-’ (३.२.७८) इति णिनिः’इति वा ॥
अवक्रयः अवक्रीयतेऽनेन । ‘पुंसि-’ (३.३.११८) इति घः - ‘एरच्’ (३.३.५६) -इति मुकुटः । तन्न । ल्युटा बाधात् ॥
अवग्रहः ग्रहवृदृनिश्चिगमश्च (३.३.५८) इत्यपि अवग्रहः । (अवग्रहस्तु ज्ञानभेदे गजालिके । प्रतिबन्धे वृष्टिरोधे) |
अवग्रहः अवेति । अवगृह्यतेऽङ्कुशेन । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके’ (इति मेदिनी) । रुद्रोऽपि-‘गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः’ इति ॥
अवग्राहः तद्विघात इति । तस्या वृष्टर्विघाते द्वौ । ‘अवे ग्रहो वर्षप्रतिबन्धे’ (३.३.५१) इति अवपूर्वाग्रहेर्वा घञ् | ग्रहवृदृनिश्चिगमश्च (३.३.५८) इत्यपि अवग्रहः । (अवग्रहस्तु ज्ञानभेदे गजालिके । प्रतिबन्धे वृष्टिरोधे)
अवज्ञा अवज्ञानम् । आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
अवटः अवन्त्यस्मात् । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । इदन्तोऽपि । ‘दर्भेऽपि पवित्रमवटिरवटेऽपि’ इति हलायुधः । अवटः कूपबिलयोर्गर्ते कुहकजीविनि’ इति हैमः ।
अवटीटः “अवेति । अवनमनं नासिकायाः । ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१) । अवटीटम्, अवनाटम्, अवभ्रटम्, च = नासिकाया नतमस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । अवटीटा, अवनाटा, अवभ्रटा, च नासिकास्त्यस्य पुरुषस्य । अर्शआद्यच् (५.२.१२७) ॥”
अवटुः अवेति । अवटलति । ‘टल वैक्लव्ये’ (भ्वा० प० से०) । अव टीकते । ‘टीकृ गतौ’ (भ्वा० आ० से०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । यद्वा न वटति । ‘वट वेष्टने’ (भ्वा० प० से०) ‘वट भूषणे’ (चु० उ० से०) । बाहुलकादुः । ‘अवटुः पुरुषे कृकाटिका घाटा’ इति वोपालितः ॥
अवतमसम् अव हीनं तमः अच् (५.४.७९)
अवतोका अवेति । अवगलितं तोकमपत्यं यस्याः ॥
अवदंशः
- अवेति । अवदश्यते । ‘दंश दशने’ (भ्वा० प० अ०) । कर्मणि घञ् (३.३.१९) । भावे (३.३.१८) वा ॥
अवदातः अवदायते स्म । ‘दैप शोधने (भ्वा० प० अ०) । कर्मणि क्तः (३.२.१०२) । `अवदातं तु विमले मनोज्ञे सितपीतयोः इति हैमः ।
अवदारणम् अवदार्यतेऽनेन । ‘दॄ विदारणे’ (क्र्या० प० से०) । ण्यन्तः । ल्युट् (३.३.११५) ॥
अवदाहः “अवलीयते दाहोऽस्मात् । – अवदीयते दाहोऽनेन, इति ‘अवदानम्’ इति तु स्वामी - इति मुकुटः । तन्न । स्वामिग्रन्थेऽदर्शनात् । ‘अवदीयते दाहोऽनेन’ इति स्वामिना व्याख्यातत्वाच्च केचित्तु - ‘अवदाहेष्टम्’ ‘कापथम्’ इति नामद्वयमाहुः । ‘लामज्जकं लघुलयमवदाहेष्टकापथे । अवदानमिन्द्रगुप्तमवदाहेष्टकापथे’ इति वाचस्पतिः ॥”
अवनाटः “अवेति । अवनमनं नासिकायाः । ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१) । अवटीटम्, अवनाटम्, अवभ्रटम्, च = नासिकाया नतमस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । अवटीटा, अवनाटा, अवभ्रटा, च नासिकास्त्यस्य पुरुषस्य । अर्शआद्यच् (५.२.१२७) ॥”
अवनिः अवति अव्यते वा । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘अर्तिसृधृ- (उ० २.१०२) इत्यनिः ।
अवन्तिसोमम् “सूयते स्म, इति । ‘षुञ्’ (स्वा० उ० अ०) । मन् (उ० १.१४०) । अवन्तिषु अभिषुतं सोमम् । शाकपार्थिवादिः (वा० २.१.७८) ॥”
अवभृथः दीति । अवभ्रियतेऽनेन । ‘डुभृञ्’ (जु० उ० अ०) । भुञ् भरणे’ (भ्वा० उ० अ०) वा । ‘अवे भृञः (उ० २.३) इति क्थन् । दीक्षाया अन्तः प्रधानकर्मसमाप्तौ क्रियमाणो यो यज्ञः इष्टिविशेषस्तस्य ॥
अवभ्रटः “अवेति । अवनमनं नासिकायाः । ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१) । अवटीटम्, अवनाटम्, अवभ्रटम्, च = नासिकाया नतमस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । अवटीटा, अवनाटा, अवभ्रटा, च नासिकास्त्यस्य पुरुषस्य । अर्शआद्यच् (५.२.१२७) ॥”
अवमर्दः अवेति । अवमर्दनम् । ‘मृद क्षोदे’ (क्र्या० प० से०) घञ् । (३.३.१८) ॥
अवमानना अवमाननम् । मनेर्ण्यन्ताद्युच् (३.३.१०७) ।
अवयवः अव यौति । ‘यु मिश्रणे’ (अ० प० अ०) । अच् (३.१.१३४) ॥
अवरजः अवरस्मिन् काले जातः । डः (३.२.९७) ॥
अवरम् “अव राति । ‘रा दाने’ (अ० प० अ०) ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । यद्वा न वृणोति, व्रियते, वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । अच् (३.१.१३४) । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् वा । ‘अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु (इति मेदिनी) । ‘गजान्त्यजङ्घादिदेशेऽवरं स्याच्चरमे त्रिषु’ इति रुद्रः ॥ ‘गात्रावरे पूर्वपश्चात्पादयोः परिभाषिते’ इति भागुरिः । ‘द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना’ इति रभसः । कश्चित्तु-अष्टीवद्भागादूर्ष्वमवरम् । अधस्तु गात्रम् इत्याह । अपारा पवर्गादिमध्या च । ‘अपरं तूत्तरार्धे स्यात्पश्चाद्भागे च दन्तिनाम्’ इति विश्वः ।”
अवरवर्णाः “- अवरोऽधमो वर्णोऽस्य । अवरश्चासौ वर्णश्च, इति वा ॥”
अवरोधः घञि (३.३.१९) त्ववरोधः । (‘अवरोधस्तिरोधाने राजदारेषु तद्गृहे’) ॥
अवरोधनम् अवरुध्यन्तेऽत्र ल्युट् (३.३.११७) ॥
अवरोहः शाखेति । वटादेः शाखाया अवलम्बिनी शिफा ॥ अवरोहति लम्बते । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । ‘अवरोहोऽवतरणेऽप्यारोहे च लतोद्गमे । एकम् शाखामूलस्य ।
अवर्णः “यथा अवर्णादयो निन्दायाम्, तथोपक्रोशादयोऽपीत्यर्थः । वर्ण्यते । वर्ण वर्णने (चु० प० से०) । घञ् (३.३.१८) । वर्णः प्रशंसा । तद्विरुद्धोऽवर्णः । ‘वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने ॥”
अवलग्नः “लग्यते स्म । ‘लगे सङ्गे’ (भ्वा० प० से०) । ‘क्षुब्धस्वान्त-’ (७.२.१८) इति साधुः । यद्वा । लज्जते स्म । ‘ओलस्जी व्रीडे’ (तु० अ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘स्कोः-’ (८.२.२९) इति सलोपः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । ‘श्वीदितः’ (७.२.१४) इति नेट् । अवकृष्टम्, अवसन्नम्, वा लग्नम् । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः । ‘अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके’ (इति मेदिनी) ॥”
अवल्गुजः अवेति । अवल्गोरशोभनाज्जातः ॥
अववादः अवेति । ’अव अवलम्बने’ । कार्यमवलम्ब्य वदनमत्र । वदनम् । घञ् (३.३.१८) ॥
अवश्यम्
- अव श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । डम् प्रत्ययः ॥
अवश्यायः अवश्याय इति । अवश्यायते शैत्यमापाद्यते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘श्याद्व्यध-’ (३.१.१४१) इति णः । (‘अवश्यायो हिमे दर्पे’) ॥ (१)
अवस्करः अवकीर्यते अधः क्षिप्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ऋदोरप्’ (३.३.५७) ‘वर्चस्केऽवस्करः’ (६.१.१४८) इति सुट् ॥
अवस्था कालकृतो धर्मो यौवनादिर्विशेषोऽवस्था । कालेन निर्वृत्तः । ’निर्वृत्तेऽक्षद्यूतादिभ्यः’ (४.४.१९) इति ठक् । अवपूर्वातिष्ठतेरङ् (३.३.१०६) । व्यवस्थायाम् (१.१.३४) इति ज्ञापकात् ।
अवहारः अवहरति । अवपूर्वो हृञ् । ‘शाद्व्यधा-’ (३.१.१४१) इति णः । ‘अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः । निमन्त्रणोपनेतव्ये’ इति हैमः ।
अवहित्था द्वे सात्विकभावस्य मूर्च्छापरपर्यायस्य । हर्षशोकादिभिः सकलचेष्टानाशस्येत्यर्थः ॥ अवेति । अवहिः स्थितिरवहित्था । ‘सुपि स्थः’ (३.२.४) इत्यत्र ‘स्थः’ इति योगविभागात्कः । पृषोदरादिः (६.३.१०९)
अवहेलनम् अवहेलनम् । ‘हेडृ अनादरे’ (भ्वा० आ० से०) । घञ् (३.३.१८) । डलयोरेकत्वम् । ’घञन्ताः पुंसि’ इत्यस्य बाधनात् क्लीबत्वम् ।
अवाक्पुष्पी अवाञ्चि पुष्पाण्यस्याः । गौरादित्वात् (४.१.४१) ङीष् । यत्तु – पाककर्ण-’ (४.१.६४) इति ङीष् – इत्याह मुकुटः । तन्न । ‘सदच्काण्ड (ग ४.१.४) (वा० ६४) इत्यस्य तदपवादत्वात् ॥
अवाच्यम् न वचनार्हम् । ण्यत् (३.१.१२४) । ‘वचोऽशब्दसंज्ञायाम्’ (७.३.६७) इति न कुत्वम् ॥
अवारम् अर्वाक् तीरम्-—अवारम् । अव अर्यते । ‘ऋ गतौ (भ्वा० प० अ०) । कर्मणि घञ् (३.३.११९) । न वार् अस्त्यत्र -इति वा । अर्शआद्यच् (५.२.१२७) परतीरावरतीरयोः एकैकम् ।
अविः अवति लज्जया । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘अवितॄस्तॄतन्त्रिभ्य ईः’ (उ० ३.१५८) ॥ ‘अविं स्त्रीधर्मिणीं विद्यात्’ इति कात्यात् (अविः) ह्रस्वान्तापि । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) ॥
अविग्नः आ विजते स्म । ‘ओविजी भयचलनयोः’ (तु० प० से०) । आङ्पूर्वः । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘श्वीदितः-’ (७.२.१४) इतीण्निषेधः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् ॥ केचित्तु ‘नञ्पूर्वः’ इत्याहुः ॥
अविद्या ‘विद ज्ञाने’ (अ० प० से०) । वेदनम् ‘संज्ञायां समज- (३.३.९९) इति क्यप् । अविद्या विद्याविरुद्धा ।
अविरतम् नास्ति विरतमस्य ॥
अविलम्बितम् विलम्बते स्म । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । अकर्मकत्वात् (३.४.७२) कर्तरि क्तः । नञ्समासः । भावे क्तः इति मुकुटस्तु पूर्ववत् ।।
अविस्पष्टम् न विस्पश्यते स्म । स्पशँ बाधनस्पर्शनयोः (भ्वा० उ० से०) । कर्मणि क्तः (३.२ १०२) । अविस्पष्ट-(७.२.१८) इति निर्देशादिडभावः ॥
अवीचिः वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखेऽपि च’ इति विश्वः । नास्ति वीचिः सुखमत्र । ‘अवीचिस्त्वन्तरङ्गे नरकान्तरे’ इति हैमः ।
अवीरा अवीती । वीरयति । ‘वीर विक्रान्तौ’ (चु० उ० से०) । अच् (३.१.१३४) । ‘पतिपुत्रवती वीरा’ इति नाममाला । वीराया भिन्ना ॥
अव्यक्तरागः अव्यक्तो रागो यस्य । किंचिल्लोहितः ।
अव्यण्डा “न विगतमण्डमस्याः । ‘अव्यण्डा वृषभी गुप्ता’ इतीन्दुः । मुकुटस्तु - अधिकमण्डं बीजमस्याः, अभिकममति । ‘अम रोगे’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) वा । अध्यण्डा-इत्याह । तत्र मूलं मृग्यम् ॥”
अव्यथा अव्येति । न व्यथते । ‘व्यथ दुःखसंचलनयोः’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । ‘अव्यथो निर्व्यथे सर्पे चारटीपथ्ययोः स्त्रियाम्’ (इति विश्वमेदिन्यौ) ॥
अव्यथा न व्यथा यस्याः । ‘अव्यथो निर्व्यथे सर्पे चारटीपथ्ययोः स्त्रियाम्’ इति मेदिनी ॥
अशनाया अशेति । अशनस्येच्छा । ‘सुपः-’ (३.१.८) इति क्यच् । ‘अशनाया-’ (७.४.२४) इतीत्वाभावः । ‘अप्रत्ययात्’ (३. ३.१०३) इत्यः ॥
अशनिः “अश्नाति, अश्यतेऽनेनेति वा । अर्तिसृधृधम्यम्यश्यतिहृभ्यो निः’ (उ २.१०२) । इह ‘वज्राशनिः’ इति समुदितमपि बोध्यम् । ‘वज्राशनिं विदुर्वज्रम् इति त्रिकाण्डशेषात् । अथ वज्राशनिर्द्वयोः’ इति नामनिधानाच्च ।”
अशिश्वी अशीति । न शिशुर्यस्याः । ‘सख्यशिश्वी-’ (४.१.६२) इति साधुः ॥
अशोकः न शोकोऽस्मात् । ‘अशोकस्त्रिषु निःशोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्’ इति मेदिनी ॥
अशोकरोहिणी अशोक इव रोहति । ‘कर्तर्युपमाने (३.२.७९) इति णिनिः । ‘अशोकरोहिणी शक्ता चक्राङ्गी शकुलादनी’ इति निघण्टुः ॥ व्यस्तमपीदं नाम । ‘अशोकः कटुरोहिण्यामशोको वञ्जुलद्रुमे’ इति रभसः । (‘अशोकस्त्रिषु निःशोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्या पारदे स्यान्नपुंसकम्’ (इति मेदिनी) ॥ ‘रोहिणी कटुरोहिण्याम्’ इति रुद्रः । ‘रोहिणी कण्ठरुग्भिदि । भभित्कटंभरासोमवल्केषु लोहितागवोः । (इति मेदिनी) ॥
अश्मगर्भः अश्मनो गर्भः ॥
अश्मजम् अश्मनो जातम् ॥
अश्मन्तम् अश्मेति । अश्मनोऽप्यन्तोऽत्र । शकन्ध्वादिः (वा० ६.१.९४) । ‘अश्मन्तमशुभे चुल्ल्यां मरणेऽनवधावपि । क्षेत्रेऽपि इति विश्वः (मेदिनी) । ‘अस्वन्त’ इति पाठे असूनामन्तोऽत्र ॥
अश्मरी अश्मेति । अश्मानं राति । ‘आतोऽनुप-’ (३.१.३) इति कः । गौरादिः (४.१.४१) ॥
अश्मसारः अश्मनः सारः । ‘अश्मसारं च शस्त्रकम्’ इत्यमरमाला ॥
अश्मा अश्नुते । अशू व्याप्तौ सङ्घाते च (स्वा० आ० से०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति मनिन् ।
अश्रान्तम् श्रमु तपसि खेदे च’ (दि० प० से०) । भावे क्तः (३.३.११४) । ‘अनुनासिकस्य-’(६.४.१५) इति दीर्घः । अविद्यमानं श्रान्तमत्र ॥
अश्रिः “अश्नाति । ‘अश भोजने’ (क्र्या० प० से०) । अश्नुते वा । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । अङ्घ्र्या (वङ्क्र्या) दिः (उ० ४.६६) मुकुटस्तु आश्रीयते प्रहारार्थम्, इति । ‘आङि श्रिहनिभ्यां ह्रस्वश्च’ (उ० । ४.१३७) इतीण् डिच्च । डित्त्वात् (६.४.१४३) टिलोपः । आङो ह्रस्वश्च’-इत्याह । तन्न । उक्तसूत्रादर्शनात् । ‘आश्रि कोणैकदेशयोः’ इति धरणिः । ‘अस्रः कोणे शिरसिजे’ इति विश्वात् ‘अस्रः’ अपि ॥”
अश्रुम् अस्त्विति । अस्यति । अश्नुते वा कण्ठम् । ‘अस्वादित्वात् (उ० ५.२९) इति रुक्पक्षे । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी) । ‘जगरे चाश्रमश्रुणि’ इत्यू- ष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥
अश्लीलम् श्रियं लाति । आतोऽनुप-’ (३.२.३) इति कः । तद्भिन्नम् । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् ॥
अश्वः अश्नुते । ‘अशु व्याप्तौ’ (स्वा० आ० से०) । ‘अशूप्रुषिलटि-’ (उ० १.१५१) इति क्वन् ॥
अश्वकर्णकः अश्वकर्ण इव पत्रमस्य ॥
अश्वत्थः शाल्मलिवटाद्यपेक्षया न श्वश्चिरं तिष्ठति । ‘सुपि स्थः’ (३.२.४) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा अश्वत्थं जलमस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘आपः प्रजाहितं शीतमश्वत्थं पवनं विषम्’ इति केशरमाला । ‘अश्वत्थः पिप्पलद्रौ स्यादश्वत्था पूर्णिमा मता’ ॥ पञ्च पिप्पलवृक्षस्य ।
अश्वयुक् अश्वं युनक्ति रूपेणानुकरोति । ‘सत्सूद्विष- (३.२.६१) इति क्विप् । यत्तु-‘ऋत्विग्-’ (३.२.५९) इत्यादिना क्विन्-इति मुकुटः । तन्न । युजेः केवलात्क्विन्विधानात् ।
अश्वा अश्वजातिः । अजादि (४.१.४) पाठाट्टाप् ॥
अश्वारोहाः अश्वेति । अश्वमारोहन्ति प्राग्वत् ॥
अश्विनी अश्वः अश्वरूपमस्त्यस्याः । इनिः (५.२.११५)
अश्विनीसुतौ अश्विन्याः सुतौ ।
अश्विनौ प्रशस्ता अश्वाः सन्ति ययोः । इनिः (५.२.११५) । यद्वा अश्विन्यां जातौ । ‘संधिवेला-’(४.३.१६) इत्यणः नक्षत्रेभ्यो बहुलम्’ (४.३.३७) इति लुकि ‘लुक् तद्धितलुकि’ (१.२.४९) इति डीपो लुक् अश्वोऽस्ति जनकत्वेन ययोर्वा । इन् (५.२.११५)
अश्वीयम् व्रिति । अश्वानां समूहः । ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम्’ (४.२.४८) ॥
अषडक्षीणः अषेति । अविद्यमानानि षड् अक्षीण्यत्र । ‘अषडक्षाशितंग्वलंकर्मा-’ (५.४.७) इति खः स्वार्थे ॥
अष्टापदम्
- अष्टेति । पङ्कौ पङ्कौ अष्टौ पदान्यस्य । ‘अष्टनः संज्ञायाम्’ (६.३.१२५ ) इति दीर्घः । अष्टापदमस्त्रियाम् । ‘अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च । (अष्टापदी चन्द्रमल्ल्यां शरभे मर्कटे पुमान्)’ इति मेदिनी ॥
अष्टापदम् अष्टौ धातवः पदानि स्थानान्यस्य । ‘अष्टनः संज्ञायाम्’ (६.३.१२५) इति दीर्घः । यद्वा अष्टानामपदम् ॥
असकृत्
- न सकृत् ॥ समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्दमनव्ययमप्याह । ‘अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते’ इत्यनव्ययप्रकरणे पाठात् । ‘वारंवारं शश्वदर्थे वारंवारेण चेष्यते’ इति त्रिकाण्डशेषः ।
असती सत्या भिन्ना ॥
असतीसुतः असत्याः सुतः ॥
असनः अस्यति रुजम् । ‘असु क्षेपणे (दि० प० से०) । ल्युः (३.१.१३३) । प्रियको जीवकोऽसनः’ इति रत्नकोशः । ‘असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे । प्रज्ञाद्यण् (५.४.३८) । ‘पीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके’ इति रुद्ररभसौ ॥
असिः अस्यते । ‘असु क्षेपणे’ (दि० प० से०) असति । ‘अस दीप्तौ (भ्वा० उ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । बाहुलकादिः इति मुकुटश्चिन्त्यः । ‘असिः खड्गे नदीभिदि’ इति हैमः ॥
असिक्नी असीति । सिनोति ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘अञ्जिघृसिभ्यः क्तः’ (उ० ३.८९) । यद्वा सीयते स्म । क्तः (३.२.१०२) । ‘द्यतिस्यतिमास्थामित्ति किति’ (७.४.४०) इतीत्वम् । सिता शुक्लकेशा । तद्भिन्ना । ‘छन्दसि क्नमेके (वा० ४.१.३९) इति तस्य क्नः । नान्तत्वान्ङीप् (४.१.५) – द्वे वाक्ये (‘असिक्न्यन्तःपुरप्रेष्या’ इति हैमात्) इत्येके ॥ ‘असिक्निका स्यादवृद्धा या प्रेष्यान्तः पुरोषिता’ इति कात्यः ॥
असितः सितविरुद्धोऽसितः ।
असिधावकः
- असिं धावति । ‘धावु गतिशुद्धयोः (भ्वा० उ० से०) । अण् (३.२.१) । ‘स्वार्थे कन्’ (ज्ञापि० ५.४.५) । क्वुन् (उ० २.३२) वा ॥
असिधेनुका असेर्धेधेनुरिवा ॥
असिपुत्री असेः पुत्री ॥
असिहेतिः असिर्हेतिर्यस्य ॥
असुः “पुमिति । अस्यन्ते, अस्यन्ति, वा । ‘असु क्षेपणे’ (दि० प० से०) । अस्यत एभिः, इति वा । ‘अस दीप्तौ’ (भ्वा० उ० से०) । ‘शॄस्वृस्निहि-’ (उ० १.१०) इत्युः ।-बाहुलकात् इति मुकुटस्तूपेक्ष्यः ॥”
असुधारणम् असूनां धारणम् ॥
असुराः असुरा इति । अस्यन्ति क्षिपन्ति देवान् असुराः । ‘असु क्षेपणे’ (दि० प० से०) । ‘असेरुरन्’ (उ० १.४२) इत्युरन् । सुरविरुद्धत्वाद्वा नञ् (२.२.६) इति तत्परुषः । प्रज्ञाद्यणि (५.४.३८) ‘आसुराश्च’ । असुषु रमन्ते वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । (‘असुरः सूर्यदैत्ययोः । असुरा रजनीवास्योः’) ॥
असूया असूयेति । असूयनम् । ‘असूञ् असूयायाम्” । कण्ड्वादित्याद्यकि (३.१.२७) ‘अ प्रत्ययात्’ (३.३.२०२) इत्यः । ‘असूया त्वभ्यसूया च’ इति शब्दार्णवः ।
असूर्क्षणम् ‘सूर्क्ष आदरे’ (भ्वा० प० से०) । सरेफः’ । नर्तुं सूर्क्षेत्’ । ‘तत्तन्नसूर्क्ष्यम्’ इति (तैत्तिरीयब्राह्मणे) दर्शनात् । तस्माल्ल्युट् (३.३.११५) । नञ्समासः । अत्र मुकुटस्य वृथाक्लेश उपेक्षणीयः ।
असृक् अस्यते । ‘असु क्षेपणे’ (दि० प० से०) । बाहुलकादृजः । न सृजति वा । ‘सृज विसर्गे’ (तु० प० अ०) । क्विप् । ‘क्विन्प्रत्य-’ (८.२.६२) इति कुः । ‘क्विन् प्रत्ययो यस्मात्’ इति बहुव्रीहिः । ‘ऋत्विग्दधृक्स्रक्-’ (३.२.५९) इति हि सृजेः क्विन् विहितः ॥
असृग्धरा असृजो रक्तस्य धरा । ‘असृग्धरा’ इत्येके ॥
अस्तः “अस्त इति । असति स्म । ‘अस दीप्तौ’ (भ्वा० उ० से०) । गत्यर्था-’ (३.४.७२) इति क्तः । यद्वा अस्यते स्म । असु क्षेपणे’ (दि० प० से०) । क्तः (३.४.७२) । ‘अस्तं क्षिप्तेऽप्यवसिते त्रिषु, ना पश्चिमाचले’ इति विश्वमेदिन्यौ ॥”
अस्तम्
- असनम् । ‘असु क्षेपणे’ (दि० प० से०) तम् प्रत्ययः ॥
अस्ति
- असनम् । ‘अस दीप्तौ’ (भ्वा० प० से०) । क्तिच् (३.३.१७४) । तिर्वा । ‘अस्त्याह (शब्दौ) कालसामान्ये तिङन्त प्रतिरूपकौ’ इति त्रिकाण्डशेषः । रुषा कोपेनोक्तौ वचने ।
अस्तु
- असति । अस्यति वा । तुन् । ‘अस्तु स्यादभ्यनुज्ञानेऽप्यसूयापीडयोरपि’ (इति मेदिनी) ॥
अस्त्रम् अस्यते । ‘असु क्षेपणे’ (दि० प० से०) । असति वा ‘अस दीप्तौ’ (भ्वा० उ० से०) । ष्ट्रन् (उ० ४.१४९) ॥
अस्त्री ‘अस्त्रं प्रहरणे चापे’ इति विश्वः । अस्त्रमस्यास्ति । इनिः (५.२.११५) ॥
अस्थिम् अस्यते । ‘असिसञ्जिभ्यां क्थिन्’ (उ० ३.१५४) ॥
अस्रपः अस्रं रक्तं पिबति । आतोऽनुप-’ (३.२.३) इति कः । न तु टक् ३.२.८ पिबतेः सुराशीध्वोः (वा० ३.२.८) इति वचनात् । दन्त्य सवान् (अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना’)न श्रपयति क्रव्यात्वात् अश्रपः पचाद्यच् (३.१.१३४) तालव्यशवान् ।
अस्रम् अस्यते । ‘बहुलमन्यत्रापि’ इति रक् । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी) ॥
अस्रम् अस्त्विति । अस्यति । अश्नुते वा कण्ठम् । ‘अस्वादित्वात् (उ० ५.२९) इति रुक्पक्षे । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी) । ‘जगरे चाश्रमश्रुणि’ इत्यू- ष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥
अस्रु अस्त्विति । अस्यति । अश्नुते वा कण्ठम् । ‘अस्वादित्वात् (उ० ५.२९) इति रुक्पक्षे । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी) । ‘जगरे चाश्रमश्रुणि’ इत्यू- ष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥
अस्वप्नाः अविद्यमानः स्वप्नो येषाम् ॥
अस्वाध्यायः अस्वेति । न स्वाध्यायो वेदाध्ययनमस्य ॥
अहंपूर्विका अहमिति । अहं पूर्वम् । ‘सुप् सुपा’ (२.१.४) इति समासः । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘अहं पूर्वम्’ इत्यस्याम् । ठन् (५.२.११५) वा ॥
अहंमतिः अहमिति विभक्तिप्रतिरूपकमव्ययमहंकारार्थम् । अहंप्रधाना मतिः ।
अहः न जहाति । नञि जहातेः (उ० १.१५८) इति कनिन् । रोऽसुपि (८.२.६९) इति रः । यतु–‘अहन्’ (८२६८) इति रुत्वम् - इति मुकुटेनोक्तम् । तन्न । रत्वस्य रुत्वापवादत्वात् ।
अहङ्कारः ‘अहम्’ इति करणमहंकारः ॥
अहमहमिका अहेति । अहमहशब्दोऽस्त्यत्र । वीप्सायां द्वित्वम् (८.१.२) । व्रीह्यादित्वात् (५.२.११६) ठन् । अनित्यत्वात् ‘अव्ययानाम्-’ (वा० ६.४.१४४) इति न टिलोपः ॥
अहर्पतिः अह्नः पतिः । अहर्पतिः ।
अहर्मुखः अह्नो मुखम् ।
अहस्करः एवं भास्करादिषु । (कस्कादित्वात् (८.३.४८) भास्कराहस्करौ–इति स्वामी) । (‘भास्करो वह्निसूर्ययोः’)
अहार्यः ह्रियते । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । ‘ऋहलोण्यत्’ (३.१.१२४) । न हार्यः । ‘अहार्यो हर्तुमशक्ये शैलेऽपि’ इति हैमः ॥
अहिः आहन्ति । ‘आङि श्रिहनिभ्यां ह्रस्वश्च’ (उ० ४.१३८) इतीन् डित् । ‘अहिर्वृत्रासुरे सर्पे पुंसि ।
अहितः न हितमस्मात् ॥
अहितुण्डिकः अहेस्तुण्डं मुखम् । तेन दीव्यति । ठक् (४.४.२) । संज्ञापूर्वकत्वाद्वृद्ध्यभावे ‘अहितुण्डिकः अपि । व्यालग्राहोऽहितुण्डिकः’ इत्यमरमाला ।
अहिभयम् “मेति । अहिरिव । गृहस्थत्वात्, आवृताकारत्वाच्च स्वस्य पक्ष एवाहिः । अहेर्भयम् ॥ ‘निजोऽथ मैत्रश्च समाश्रितश्च सम्बन्धतः कार्यसमुद्भवश्च । भृत्या गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्ति’ । स्वपक्षात्प्रभवति । पचाद्यच् (३.१.१३४) ॥”
अहेरुः न हिनोति । ‘हि गतौ’ (स्वा० प० अ०) । बाहुलकाद्रुः ॥
अहो
- अहानम् । ओ हाङ् गतौ’ (जु० आ० अ०) । डो प्रत्ययः ॥
अहोरात्रः अहश्च रात्रिश्च तयोः समाहारः । ‘अहःसर्वैकदेश-’(५.४.८७) इत्यच् । ‘रात्राह्नाहाः पुंसि (२.४.२९) । यत्तु- ‘अह्ना सहिता रात्रिः’ इति विग्रहं प्रदर्श्य अहोरात्रः-’ इत्युपन्यस्तं मुकुटेन । तन्न । तथा सत्यजभावप्रसङ्गात् । अहःपूर्वाद्रात्रिशब्दाद्वन्द्व एवाज्विधानात् ‘गणरात्रवदज्’ इति दृष्टान्तोऽप्यसम्मतः । चकारात्संख्याव्ययादेरप्यज्विधानात् । अत्र तदादित्वाभावात् यदपि समाहारे क्लीबमप्यहोरात्रम् - इत्युक्तम् । तदपि न । समाहारेऽपि ‘रात्राह्नाहाः पुंसि’ (२.४.२९) इत्यनेन परत्वात्पुंस्त्वविधानात् । यदपि वामनलिङ्गानुशासने द्विगुरपि पात्राद्यदन्तः’ इति नपुंसकत्वेन ‘अहोरात्रं द्विरात्रम्’ इत्युदाहृतम् - इति संमतिप्रदर्शनं कृतम् । तदपि न । ’रात्रं प्राक्संख्ययान्वितम्’ इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य तदयोगात् ।
अह्नाय
- ह्रवनम् । ‘ह्रुङ् अपनयने’ (अ० आ० अ०) । बाहुलकाद्भावे घञ् (३.३.१८) । पृषोदरादित्वाद्वस्य यः । ततो नञ्समासः ॥
आकरः आकुर्वन्त्यत्र । ‘डुकृञ् (त० उ० अ०) । आकीर्यन्ते धातवोऽत्र । ‘कॄ विक्षेपे’ (तु० प० से०) । पुंसि संज्ञायाम्’ (३.३.११९) इति कः । आकरो निकरे खनौ ॥
आकल्पः आकेति । आकल्पनम् । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘कृपो रो लः’ (८.२.१८) । अकल्प्यते वा । आकल्पयति वा । स्वार्थण्यन्तः । अच् (३.१.१३४) । ‘आकल्पः कल्पने वेशे’ (इति मेदिनी) ॥
आकाङ्क्षा ‘काक्षि वाच्छि इच्छायाम् (भ्वा० प० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः॥
आकारगुप्तिः आकारस्य शोकादिजनितमुखम्लान्यादेर्गोपनम् ।
आकारणा आकारणम् । कृञो ण्यन्तात् (३.१.२६) । युच् (३.३.१०७) ।
आकाशः आ समन्तात् काशन्ते सूर्यादयोऽत्र । “काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ।
आक्रीडः पुमानिति । आक्रीडन्त्यत्र । ‘क्रीडृ विहारे’(भ्वा० प० से०) । हलश्च’(३.३.१२१) इति घञ् । ‘ज्ञेयमाक्रीडमुद्यानम् इत्यमरमालायां तु क्लीबमुक्तम् ॥
आक्षारणा “तत्रेति । ’क्षर संचलने’ (भ्वा० प० से०) । प्रयोजकण्यन्ताद्युच् (३.३.१०७) । ल्युटि (३.३.११५) ‘आक्षारणम्’ अपि । ‘क्षरणाक्षारणाक्रोशाः साभिशापाभिमैथुनाः (इति दुर्गः) । क्लीबमपि । नीचमाक्षारणं यः स आक्रोशो मैथुनं प्रति’ इति शब्दार्णवः ॥ परस्त्रीनिमित्तं पुंसः, परपुरुषनिमित्तं स्त्रियाश्च आक्रोशनस्य एकम् ॥”
आक्षेपः क्षिप प्रेरणे’ (तु० उ० से०) । घञ् (३.३.१८) । ‘आक्षेपो भर्त्सनाकृष्टिकाव्यालंकृतिषु स्मृतः ॥
आखण्डलः आखण्डयति । ‘खडि भेदने (चु० प॰ से०) । वृषादिभ्यः कलच्’ (उ० १.१०६) ॥
आखुः आ खनति । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘आङ्परयोः खनिशॄभ्यां डिच्च’ (उ० १.३३) इत्युः । मुकुटस्तु - आङि खनिवंह्योर्नलोपश्च’ इति कुर्नलोपश्च । बाहुलकादलोपः । इति सूत्रमुपन्यास्थत् । तच्चिन्त्यम् । उज्ज्वलदत्तादिविरोधात् ॥
आखुभुक् आखून् भुङ्क्ते । आखुभ्यो भुनक्ति वा । ‘भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । क्विप् (३.२.१७८) ॥
आखेटः
- आखिट्यतेऽत्र । ‘खिट त्रासे (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥
आख्या आख्यानम् । ‘आतश्चोपसर्गे ’ (३.३.१०६) इत्यङ् ।।
आख्यायिका आचष्टे । ‘चक्षिङः ख्याञ् (२.४.५४) । ण्वुल् (३.१.१३३) ॥
आगन्तुः आगच्छति । ‘सितनिगमि-’ (उ० १.६९) इति तुन्॥
आगस्म् आग इति । एति । ‘इण् गतौ’ (अ० प० अ०) । ‘इण आगपराधे च’ (उ० ४.२१२) इत्यसुन् आगादेशश्च । अगति । ‘अग गतौ’ (भ्वा० प० से०) । ‘वस्यजिभ्यां णित्’ । इत्यसुन्-इति सुभूतिः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्रस्यादर्शनात् । ‘आगोऽपराधे पापे स्यात्’ (इति मेदिनी) । सान्तं क्लीबम् ॥
आगारम् अगान् ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘कर्मण्यण्’ (३.२.१) ॥ आ अग्यते । ‘अग कुटिलायां गतौ’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘विद्यादगारमागारमपगामापगामपि’ इति द्विरूपकोशः ।
आगूः “आगमनम् । आगूः गमेः इत्यनुवर्तमाने ‘भ्रमेश्च डूः’ (उ० २.६८) । डित्वाट्टिलोपः (६.४.१४३) । वधूशब्दवत् । यदा तु क्विपि (वा०३.३.१०८) गमः क्वौ’ (६.४.४०) इत्यन्तलोपे ‘ऊङ् च गमादीनाम्’ (वा० ६.४.४०) इत्यूकारादेशः । तदा ‘ओः सुपि’ (६.४.८३) इति यणि अमि शसि च आग्वम्, आग्वः इति विशेषः । ‘गुरी उद्यमने’ (तु० अ० से०) । अस्मात् क्विपि (वा० ३.३.१०८) तु आगूः, आगुरौ, आगुरः, इति धूर्वत् ।”
आग्रहायणिकः आग्रहायण्या युक्ता पौर्णमास्यस्मिन् । आग्रहायण्यश्वत्थाट्ठक्’ (४.२.२२) । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अणि ‘आग्रहायणः’ अपीति पुरुषोत्तमः ।
आग्रहायणी “अग्रे हायनमस्याः । मार्गशीर्षमारभ्य वर्षप्रवृत्तेः । प्रज्ञाद्यण् ( ५.४३८) । पूर्वपदात्-’ (८.४.३) इति णत्वम् । आग्रहायणी पौर्णमासी । तद्योगान्नक्षत्रमपि तथा । यत्तु-आग्रहायण्यश्वत्थाट्ठक्’ (४.२.२२) इति निर्देशात्स्वार्थेऽण् । गौरादित्वात् (४.१.४१) ङीष् । अणन्तत्वादेव ङीपि सिद्धे गौरादिषु पाठोऽस्य पुंवद्भावनिषेधार्थः । तेनाग्रहायणीभार्य इति सिध्यति–इति मुकुटः । तन्न । अपसिद्धान्तात् । न हि गौरादित्वं पुंवद्भावप्रतिषेधार्थम्, किं तु ङीष्विधानार्थम् । न च पाठसामर्थ्यम् । तस्य स्वरभेदार्थत्वात् । न चोदात्तनिवृत्तिस्वरेण तदभावः पाठसामर्थ्यादुदात्तनिवृत्तिस्वरस्यैव बाधसम्भवात् । अस्य गौरादिकत्वमप्रामाणिकमिति सुवचत्वाच्च ।”
आङ्गिकम् निर्वृत्ते इति ॥ अङ्गेन निर्वृत्तं भ्रूविक्षेपादि । सत्त्वेन मनोवृत्त्या निवृतं स्तम्भादि । ‘निर्वृत्तेऽक्षद्यूतादिभ्यः’ (४.४.१९) इति प्राग्वहतीयष्ठक् ॥
आङ्गिरसः “‘अगि गतौ” (भ्वा० प० से०) । ‘अङ्गिराः (उ० ४.२३६) इत्यसुन्नन्तो निपातितः । अङ्गिरसोऽपत्यम् । ऋष्यन्धक–’ (४.१.११४) इत्यण् । बहुत्वे ‘अत्रिभृगु-’ ( २.४.६५) इति लुक् । आङ्गिरसः आङ्गिरसौ, अङ्गिरसः ।”
आचमनम् ‘चमु अदने’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । आचम्यतेऽम्भोत्र । अधिकरणे ल्युट् (३.३.११७) वा॥
आचामः आचम्यते । ‘चमु अदने’ (भ्वा० प० से०) । ‘अकर्तरि च’ (३.३.१९) इति घञ् । वृद्धिः (७.२.११६) ॥
आचार्यः आचर्यते । चर गतौ’ (भ्वा० ‘चर प० से०) । ण्यत् (३.१.१२४) । मनुः
आचार्या स्यादिति । आ चर्यते । ‘चर गतौ’ (भ्वा० प० से०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) ॥
आचार्यानी आचेति । आचार्यस्य स्त्री । ‘इन्द्रवरुण-’ (४.१.४९) इति ङीषानुकौ । ‘आचार्यादणत्वं च’ (वा० ४.१.४९) इति णत्वाभावः ॥
आचितः आचितः
आच्छादनम् छद अपवारणे’ (चु० उ० से०) । ण्यन्ताल्ल्युट् (३.३.११५) । अण्यन्ताल्ल्युटि तु छदनम् । यत्तु-छदनमिति ‘छादेर्घे (६.४.८९) योगविभागाद् हस्वत्वम् इति मुकुटेनोक्तम् । तच्चिन्त्यम् । उक्तरीत्या प्रयोगद्वयनिर्वाहे योगविभागस्य निष्प्रयोजनत्वात् ।
आच्छादनम् आच्छाद्यतेऽनेन । ल्युट् (३.३.११७) ॥
आच्छुरितकम् स्यादिति । उत्प्रासनम् । असु क्षेपणे’ (दि० प० से०) । ‘अस गतिदीप्त्यादानेषु’ (भ्वा० उ० से०) । वा घञ् (३.३.१८) । उत्प्रासेनाधिक्येन क्षेपणेन वा सहितः सोत्प्रासः । आच्छुरणं परच्छेदनम् । ‘छुर छेदने’ (तु० प० से०) । भावे क्तः (३.३.११४) । स्वार्थे कन् (५.३.७७) । भावे ‘स्यादाच्छुरितकं हासनखराघातभेदयोः’
आच्छोदनम्
- आच्छविति । आच्छिद्यन्तेऽत्र । ल्युट् (३.३.११७) । पृषोदरादिः (६.३.१०९) ॥
आजकम् – अजानां समूहः । ‘गोत्रोक्षो-’ (४.२.३९) इति वुञ् ॥
आजानेयः “आजेति । अजनम् । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । घञ् (३.३.१८) । आजेन क्षेपेणानेयाः प्रापणीया आयत्ता वा । ‘अश्वं कुलीनमाजानेयं, शावं किशोरं ब्रुवते’ इति नाममाला । ‘शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदे पदे । आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः इत्यश्वशास्त्रम् ॥”
आजिः अजनम् । ‘अज गतौ’ (भ्वा० प० से०) । ‘इञ(ण) जादिभ्यः’ (वा० ३.३.१०८) । इञ (ण)विधानसामर्थ्यादजेर्न वी । अन्यथा ‘व्यादिभ्यः’ इत्येवावक्ष्यत् । ‘बहुलं तणि’ (वा० २.४.५४) इति वा । ‘आजिः स्त्री समभूमौ संग्रामे’ (इति मेदिनी) ॥
आजीवः आजीति । आजीव्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् ॥
आजूः “आजवते । ‘जू गतौ’ (भ्वा० आ० अ०) । क्विब्वचिप्रच्छि-’ (वा० ३.२.१७८) इति क्विब्दीर्घौ । आ अज्यते वा । ‘आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि’ इति शाश्वतः — इति स्वामी । यत्तु-आजू रेफान्तापि, इति पञ्चिका स्वामी च इति मुकुटः । तन्न । पूर्वप्रदर्शितस्वाम्युक्त विग्रहद्वयेनापि रेफान्तताया अलाभात् ।”
आज्ञा आज्ञापनम् । ‘ज्ञा अवबोधने’ (क्र्या० प० से०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
आज्यम् आऽज्यतेऽनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘अञ्जेः संज्ञायाम्’ (वा० ३.१.१०९) इति क्यप् ॥
आटिः आ अटति । इन् (उ० ४.११८) ॥
आडम्बरः आडम्बयति । ‘डवि क्षेपे’ । बाहुलकादरच् । यद्वा डम्बनम् । भावे घञ् (३.३.१८) । डम्बं राति । रायति वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘आडम्बरः समारम्भे गजगर्जिततूर्ययोः’ इति विश्वः ॥
आडिः “आ अडति । ‘अडँ उद्यमने’ (भ्वा० प० से०) । इन् (उ० ४.११८) । -‘अक्ष्यडिभ्यामिण्’-इति मुकुटः । तन्न । उज्ज्वलदत्तादावेतत्सूत्रादर्शनात् ॥ त्रयोऽपि स्त्रीलिङ्गाः । ‘आडिः शरालिर्वरटी गन्धोली, वानरी कपी’, इति स्त्रीलिङ्गकाण्डे रत्नकोषात् ।”
आढकः आढकः ।
आढकिकः आढकस्य वापः (५.१.४५) ॥
आढकी अथेति । आढकमस्त्यस्याः परिच्छेदकत्वेन । अर्शआद्यच् (५.२.१२७) । आढौकते वा । ‘ढौकृ गतौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । ‘आढकी तु तुवर्यां स्त्री परिमाणान्तरे त्रिषु’ (इति मेदिनी) ॥
आणवीनम् अणूनाम् ॥च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
आतपः आतपस्तु पचाद्यजन्तः ।
आतपत्रम् आतपात्त्रायते । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
आतरः आतर इति । आतरन्त्यनेन । पुंसि संज्ञायाम्’ (३.३.११८) इति घः । यत्तु-‘ॠदोरप्’ (३.३.५७) इति मुकुटः । तन्न । परत्वाल्ल्युटः प्रसङ्गात् । आतरस्तरपण्यं स्यादनुत्तरम्’ इति बोपालितः ।
आतायि आतेति । आतायते तच्छीलः । ‘तायृ संतानपालनयोः’ (भ्वा० आ० से०) । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । यद्यप्यत्र वृत्तिकारादिभिः -‘अनुपसर्गे’ –इत्युक्तम् । तथा भाष्ये उपसर्गेऽपि णिनिः स्वीकृतः । स्वामी तु–आतपति–इति विगृह्णन् ‘आतापी’ इति पाठं मन्यते ॥
आतिथेयः अतिथौ साधु । ‘पथ्यतिथि-’ (४.४.१०४) इति ढञ् ॥
आतिथ्यः क्रेति । अतिथय इदम् ।‘अतिथेर्ञ्यः’ (५.५.२६)॥
आतुरः आतोतोर्ति । ‘तुर त्वरणे’ हृदिः । ‘छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते’ । ‘इगुपध-’ (३.१.१३४) इति कः । मुकुटस्तु-आतुरयति = असुस्थत्वादतित्वरते । ‘तुण त्वरणे’ (जु० प० से०) । अत इगुपधकः—इति व्याचख्यौ । तत्र ण्यन्त उपधागुणाभावश्चिन्त्यः । ण्यन्तस्येगुपधत्वाभावात्कप्रत्ययोऽपि ।– आतोरति । आतुरः । आतरति रोगं वा इति स्वाम्यपि चिन्त्यः । तुरेरुक्तरूपाभावात् । तरतेरिष्टरूपासम्भवाच्च ॥
आतोद्यम् आसमन्तात्तुद्यते ताड्यते । ‘तुद व्यथने ’ (तु० उ० अ०) । ण्यत् (३.१.१२४) (३)
आत्मगुप्ता आत्मेति । आत्मना गुप्ता । दुःस्पर्शत्वात् । ‘कर्तृकरण (२.१.३२) इति समासः ॥
आत्मघोषः “‘काँ, काँ,’ इति शब्दनात् आत्मानं घोषयति । ‘घुषिर् विशब्दने’ (चु० उ० से०) । अण् (३.२.१) ॥”
आत्मजः आत्मेति । आत्मनो देहाज्जातः‘पञ्चम्या-’ (३.२.९८) इति डः ॥
आत्मभूः “आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । ‘भुवः संज्ञान्तरयोः’ (३.२.१७९) इति क्विप् । (‘आत्मभूर्न विधौ कामे’) ॥”
आत्मभूः आत्मना भवति । ‘भुवः’ (३.२.१७९) इति क्विप् ।
आत्मा अतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘सातिभ्यां मनिन्मनिणौ’ (उ० ४.१५३) इति मनिण् । (‘आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः । स्वभावे’)
आत्रेयी अत्रेरपत्यम् । ‘इतश्चानिञः’ (४.१.१२२) इति ढक् । आत्रेयीवागम्यत्वात् । ‘आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि’ इति हैमः ॥
आदर्शः आदृश्यते रूपमत्र । ‘दृशिर् प्रेक्षणे’ (भ्वा० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि’ (इति मेदिनी) ।
आदिकारणम् आदिर्मुख्यं कारणम् ।
आदितेयाः ‘नञो दाञो डितिः’ इति शाकटायनः । यद्वा द्यति । ‘दो अवखण्डने’ (दि० प० अ०) । ‘क्तिच् क्तौ च-’ (३.३.१७४) इति क्तिच् । ‘द्यतिस्यति-’ (७.४.४०) इति इत्त्वम् । दितिभिन्ना अदितिः । अदित्या अपत्यानि । ‘कृदिकारादक्तिनः (४.१.४५ ग०) इति डीषन्तात् ‘स्त्रीभ्यो ढक्’।
आदित्यः आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । ‘आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्टसंख्याताः षत्रिंशत्तुषिता मताः । आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ।
आदित्यः आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । ‘आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्टसंख्याताः षत्रिंशत्तुषिता मताः । आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ।
आदित्यः अदितेरपत्यम् । दित्य दित्या-’ (४.१.८५) इति ण्यः । (‘आदित्य स्त्रिदशार्कयोः’) ।।
आदित्याः अदितेरपत्यानि । ‘दित्यदित्या-’ (४.१.८५) इति ण्यः । । लिङ्गविशिष्ट (४.१.१) परिभाषाया अनित्यत्वान्ङ्यन्ताण्ण्यो न । ‘आदित्यो भास्करे देवे’ ॥
आद्यमाषकः आद्यमाषकः ।
आधारः आधार इति । आध्रियते जलमस्मिन् । अध्यायन्याय (३.३.१२२) इति घञ् । आधारश्चाधिकरणेऽप्यालवालेऽम्बुधारणे’ एकं बाँध इति ख्यातस्य ।
आधिः पुंसीति । आधीयते दुःखमनेन । ‘डुधाञ्’ (जु० उ० अ०) । ‘उपसर्गे घोः किः’ (३.३.९२) । (आधिर्मनोर्तौ व्यसनेऽधिष्ठाने बन्धकाशयोः)
आधोरणः आधाविति । आधोरयन्ति । ल्युः (३.१.१३४) ॥
आध्यानम् उपधीयते ध्यै चिन्तायाम्’ (भ्वा० प० अ०) । ल्युट् । (३.३.११५)
आनकः आनित्यनेन वादितेन । क्वुन् (उ० २.३२) आनयति प्राणयति सोत्साहान्करोति योधान् । ण्वुल् (३.१.१३३) वा । ‘आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे’ ॥ स्वामी तु भेरी स्त्री दुन्दुभिः पुमान्’ इति पठति ।
आनकदुन्दुभिः “आनकैर्मुन्दुभिभिश्चोपलक्षितः वसुदेवजन्मनि देवैरानकदुन्दुभिवादनात् । हरौ जाते, कृष्णे जाते, इति स्वामिमुकुटोक्तिस्तु भागवताद्यश्रवणमूलिका । ‘आनकदुन्दुभो वसुदेवपिता’ इत्यपि निर्गुलम्) ।।”
आनद्धम् आनद्धमिति । आनह्यते स्म मुखे चर्मणा बध्यते स्म । ‘णह बन्धने (दि० उ० अ०) । क्तः (३.२.१०२) । नहो धः (८.२.३४) । आदिपदात्पटहादि । आनद्धं मुरजादौ च क्लीबं स्यात्संदिते त्रिषु’ ।
आननम् आनन्त्यनेन । ‘अन प्राणने’ (अ० प० से०) । ल्युट् । (३.३.११७) ॥
आनन्दः आनन्दो घञन्तः ॥
आनन्दथुः ‘टुनदि समृद्धौ (भ्वा० प० से०) । ट्वितोऽथुच् (३.३.८९) ॥
आनायः आनाय इति । नयनम् । णीञ् प्रापणे’ (भ्वा० उ० अ०) । श्रिणीभुवः- (३.३.२४) इति घञ् । आसमन्तान्नायोऽनेन । आनयन्ति मत्स्यान् अनेन । जालमानायः (३.३.१२४) इति घञन्तो निपातितो वा ॥
आनाय्यः य इति । दक्षिणाग्नित्वेन संस्क्रियते । आनीयते आनाय्योऽनित्ये’ (३.१.१२७) इति साधुः । यस्तु भ्राष्ट्रवैश्यकुलयोनिः स ‘आनेयः ।
आनाहः आनह्यतेऽनेन । ‘णह बन्धने’ (दि० उ० अ०) । घञ् (३.३.१९) । ‘आरोहः’ इति क्वचित्पाठः । आरुह्यतेऽनेन । घञ् (३.३.१९) । ‘आरोहस्त्ववरोहे च वरयोषित्कटावपि । आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये’ (इति मेदिनी) ॥
आनाहः आनेति । आनहनम् । ‘णह बन्धने’ (दि० उ० अ०) । घञ् (३.३.१८) ॥
आनुपूर्वी आन्विति । पूर्वं पूर्वम् । पूर्वानुक्रमेण वा । वीप्सायां योग्यतायां वाव्ययीभावः (२.१.६) । अनुपूर्वं भावः । ‘वर्णदृढादिभ्यः’ (५.१.१२३) इति ष्यञ् । षित्वात् (४.१.४१) ङीप् । ‘हल- स्तद्धितस्य’ (६.४.१५०) इति यलोपः । ‘स्त्रियां वा’ इति पक्षे क्लीबता । (आनुपूर्व्यम्)॥
आन्धासिका अन्धो भक्तं शिल्पं येषाम् । ‘शिल्पम्’ (४.४.५५) इति ठक् ॥
आन्वीक्षिकी “अनु श्रवणोत्तरमीक्षणं परीक्षणम् – अन्वीक्षा । सा प्रयोजनमस्याः , ‘प्रयोजनम्’ (५.१.१०९) इति ठक् ।”
आपः “आप इति । आप्नुवन्ति, आप्यन्ते वा । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । आप्नोतेर्ह्रस्वश्च’ (उ० २.५८) इति क्विब् हस्वत्वं च । असुनि (उ० ४.२०८) आपः । सान्तं क्लीबं च । ‘कबन्धमुदकमापोनीरवार्वारिनारम् । क्लीबमपि’ । इति संसारावर्तात् ॥”
आपक्वम् आपेति । ईषत्पक्वम् । ‘आङीषदर्थे (वा० २.२.१८) इति समासः ॥
आपगा अपां समूह आपम् । तेन गच्छति । डः (वा० ३.२.४८) । अप गच्छति । डः (वा० ३.२.१०१) । ह्रस्वादिरपि । विद्यादगारमागारमपगामापगामपि’ इति द्विरूपकोषः । (१२) द्वादश नद्याः ।
आपणः “आपण इति । आ समन्तात् पणायन्तेऽत्र, पणन्तेऽत्र वा । ‘पण व्यवहारे (भ्वा० आ० से०) । गोचरसंचर-’ (३.३. ११९) इति साधुः ।”
आपणिकः आपणो व्यवहारोऽस्यास्ति । ‘अतः-’ (५.२.११५) इति ठन् ॥
आपद् एवमापत् । आपत्तिः ॥
आपन्नसत्वा “आपेति । आपन्नः सत्त्वो जन्तुरनया, अस्यां वा ॥”
आपानम्
- आपेति । आ सम्भूय पिबन्त्यत्र । ल्युट् (३.३.११७) ॥
आपीडः शीति । शिखाक्षिप्तं माल्यम् । आपीडयति । ‘पीड अवगाहने’ (चु० प० से०) । अच् (३.१.१३४) ॥
आपीनम् “आप्यायते स्म । ‘ओ प्यायी वृद्धौ’ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘प्यायः पी’ (६.१.२८) निष्ठायाम् । ‘आङ्पूर्वस्यान्धूधसोः’ (वा० ६.१.२८) इति वा, पीभावः । ‘ओदितश्च’ (८.२.४५) इति निष्ठानत्वम् ॥”
आपूपिकः आप्विति । अपूपाः पण्यमस्य । ‘तदस्य पण्यम्’ (४.४.५१) इति ठक् ॥
आप्तः आप्त इति । आप्यते स्म । ‘आप्लृ व्याप्तौ’ (स्वा० प० अ०) । क्तः (३.२.१०२) ॥
आप्यम् त्रिष्विति । अपां विकारः । ‘तस्य विकारः’ (४.३.१३४) इत्यणन्ताच्चतुर्वर्णादित्वात् (वा० ५.१.१२४) स्वार्थे ष्यञ् । स्त्रियाम् आप्या ॥
आप्रपदीनः स्यादिति । आप्रपदं प्राप्नोति । ‘आप्रपदं प्राप्नोति’ (५.२.८) ॥ यदाप्रपदं प्राप्नोति तदाप्रपदीनम् ।
आप्लवः आप्लेति । आप्लवनम् । ‘प्लुङ् गतौ’ (भ्वा० आ० से०) । ‘विभाषाङि रुप्लुवोः’ (३.३.५०) इति वा घञ् ॥ पक्षे ‘ऋदोरप्’ (३.३.५७) ॥
आप्लवव्रती आप्लवते । ‘प्लुङ गतौ’ (भ्वा०आ० अ०) । पचाद्यच् (३.१.१३४) । आप्लवश्चासौ व्रती च । ‘आप्लुतव्रती’ इति पाठे ‘गत्यर्था-’(३.४.७२) इति क्तः । मुकुटस्तुआप्लव आप्लुतं वा स्नानम् । तत्र व्रती नित्यस्नायी इत्याह॥
आप्लावः आप्लेति । आप्लवनम् । ‘प्लुङ् गतौ’ (भ्वा० आ० से०) । ‘विभाषाङि रुप्लुवोः’ (३.३.५०) इति वा घञ् ॥
आबन्धः आबेति । आबध्यतेऽनेन । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥
आभरणम् आभ्रियतेऽनेन । ‘भृञ् भरणे’ (भ्वा० उ० अ०) । ल्युट् (३.३.११७) ॥
आभाषणम् स्यादिति । आभाषेः (भ्वा० आ० से०) । ल्युट् (३.३.११४) ।
आभास्वराः आ समन्ताद्भासनशीलाः । ‘भासृ दीप्तौ’ (भ्वा० आ० से ०) । ‘स्थेशभासपिसकसो वरच्’ (३.२.१७५) ॥
आभीरः आ समन्ताद्रियं राति । ‘आतः-’ (३.२.३) इति कः । आ अभि ईरयति वा । ‘ईर गत्यादौ’ (अ० आ० से०) । पचाद्यच् (३.१.१३४) ॥
आभीरपल्ली आभीराणां पल्लिः । कुटिग्रामकयोः पल्लिः’ इति शाश्वतः ।
आभीरी “आभीति । आभीरस्य स्त्री, तज्जातीया वा । ‘पुंयोगात्-’ (४.१.४८) इति, ‘जातेः-’ (४.१.६३) इति च ङीष् ॥”
आभीलम् आ समन्ताद् भियं लाति । कः (३.२.३) । ‘आभीलं भीषणे कृच्छ्रेऽपि’ इति हैमः । (९) ॥ त्रीणि शरीरपीडायाः । नवापि दुःखस्य इत्येके ॥
आभोगः आभो । आभोजनम् । प्राग्वत् घञ् (३.३.१८) । ‘आभोगो वरुणच्छत्त्रे पूर्णतायत्नयोरपि’ इति विश्वमेदिन्यौ ॥
आमगन्धिः आमोऽपक्वो मलः । तस्येव गन्धोऽस्य । ‘उपमानाच्च’ (५.४.१३६) इति समासान्त इत् ।
आमनस्यम् मानसे साधु । ‘तत्र साधुः (४.४.९८) इति यत् । मानस्याद्भिन्नम् । ‘प्रसूतिजममानस्यं कृच्छं कष्टं कलाकलम्’ इति वाचस्पतिः । अमनसो भावः आमनस्यम् । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ्-इति स्वामी ॥
आमयः ‘अम रोगे’ (भ्वा० प० से०) । भावे घञ् (३.३.१८) । आमं यान्त्यनेन । ‘या प्रापणे’ (अ० प० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा । आमयनम् । अनेन । ‘मीङ् हिंसायाम्’ (दि० आ० अ०) । ‘एरच्’ (३.३.५६) । घः (३.३.११८) वा ॥
आमयाविन् आमेति । आमयोऽस्यास्ति । ‘आमयस्य दीर्घश्च’ (वा० ५.२.१२२) इति विनिः ॥
आमलकी आमलते । ‘मल धारणे’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । जातेः’ (४.१.५३) इति ङीष् । गौरादित्वकल्पनं तु चिन्त्यम् ॥
आमिक्षा आमीति । आमिष्यते । ‘मिषु सेचने’ (भ्वा० प० से०) । बाहुलकात् सक् । यद्वा आ मक्षति । ‘मक्ष रोषे संघाते च । (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादिः ॥ श्रुते क्वथिते तप्ते च पयसि दध्नो योजनात् या स्यात् । यत्तु
आमिषम् आमिषति । ‘मिष स्पर्धायाम्’ (तु० प० से०) । मेषति वा । ‘मिषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
आमुक्तः आम्विति । आमुच्यते स्म । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । क्तः (३.२.१०२) ॥
आमोदः प्रमोदामोदौ घञन्तौ । ‘आमोदो गन्धहर्षयोः’ ।
आमोदः “आमोद इति । स परिमलोऽतिनिर्हारी अत्यन्तमनोहरश्चेत् । आसमन्तान्मोदयति, इत्यामोदः । ‘मुद हर्षे’ (भ्वा० आ० से०) ण्यन्तः । अच् (३.१.१३४) । ‘आमोदो गन्धहर्षयोः’ ॥”
आमोदी आमोदयति । ’सुप्यजातौ’ (३.२.७८) इति णिनिः ।
आम्
- आमयति । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ण्यन्तः । क्विप् (३.२.१७८) । ‘आम् ज्ञानविनिश्चये’ इति बोपालितः ॥
आम्नायः “आम्नायते अभ्यस्यते । ‘म्ना अभ्यासे’ (भ्वा० प० अ०) । कर्मणि घञ् (३.३.१९) । आमन त्युपदिश्यति धर्माधर्मौ’ इति वा । ‘श्याद्वयधा- (३.१.१४१) इति णः । ‘आम्नायः कुल आगमे । उपदेशे च’ इति हैमः ।। यत्तु त्रीणि वेदस्य । त्रयीति । त्रय्या धर्मस्त्रयीधर्मः । तया त्रय्या विधिर्विधीयमानो यज्ञादिस्तद्विधिः । विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः। एकम्-इति मुकुटः तन्न । ‘तानि धर्माणि’ ‘धर्मेण पापमपनुदति’,‘वेदोऽखिलो । धर्ममूलं धर्ममूलमिदं स्मृतम्, ‘अथातो धर्मजिज्ञासा’, ‘चोदना लक्षणोऽर्थो धर्मः’, ‘श्रेयान्स्वधर्मः’, ‘धर्मक्षेत्रे कुरुक्षेत्रे’ ‘धर्मः प्रोज्झितकैतवः’, ‘धर्मस्य ह्यपवर्ग्यस्य’, ‘धनं च धर्मैकफलम्’, ‘धर्मादर्थश्च’, ‘धर्मो रक्षति रक्षितः’, ‘धर्माधर्मौ तद्विपाकाः’, ‘धर्मं जिज्ञासमानेन’ इत्यादिषु बहुषु ग्रन्थेषु धर्मशब्दस्यैव प्रयोगदर्शनात् । देवदत्तो दत्तः, इतिवदेते प्रयोगाः सन्त्विति चेत् । न । वैषम्यात् । देवदत्तशब्दस्यानेकस्थले प्रयोगो दृष्टः । क्वचिद्दत्तशब्दस्यापि प्रयोगे दृष्टे पूर्वपदलोपादिकं कल्प्यते । प्रकृते तु धर्मशब्दस्यैव प्रयोगो दृष्टः । ‘एवं त्रयीधर्मम्’ इत्यादौ च क्वचित्रयीधर्मशब्दस्यापि प्रयोगे लब्धे षष्ठीसमासः कल्प्यते । प्रतिपाद्यप्रतिपादकभावः सम्बन्धः षष्ठ्यर्थः । तान्त्रिकसौगतादि धर्मव्यावृत्त्यर्थमिदं धर्मस्य विशेषणं संगच्छते । ‘धर्मस्य च चतुर्दश’ इति नियमात् । अतस्त्रय्यन्तानि चत्वारि वेदस्य नामानि । न च ‘वेदास्त्रयस्त्रयी’ इत्यनेन पौनरुक्त्यं शङ्क्यम् । सामान्यविशेषरूपेणोभयसम्भवात् । ‘ब्राह्मणक्षत्रियवैश्या द्विजाः विप्रोऽपि द्विजः’ इति यथा । न च ‘धर्ममस्त्रियाम्’ इत्यनेन पौनरुक्त्यम् । तत्र धर्मपर्यायाणामभिधानात् । इह तु धर्मस्वरूपस्य धर्मप्रमाणस्य चाभिधानात् । यदपि–समासे गुणीभूतस्यापि त्रयीशब्दस्य बहुविवक्षावशात्तच्छब्देन परामर्शः-इत्युक्तम् । तदपि न । तन्मते त्रयीधर्मशब्दस्य विधेयत्वात्तदेकदेशस्य त्रयी शब्दस्यानुवाद्यत्वासम्भवात् । वेदस्यैव तच्छब्देन परामर्शसम्भवाच्च । यदपि-यथा शब्दानुशासनम् इति दृष्टान्तप्रदर्शनम् । तदप्येतेन प्रत्युक्तम् । वेदस्यैव परामर्शसम्भवात् ।”
आम्रः आम्र इति । अम्यते । ‘अम गत्यादौ’ (भ्वा० प० से०) । ‘अमितम्योर्दीर्घश्च’ (उ० २.१६) इति रक् दीर्घश्च ॥
आम्रातकः आम्रमतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) ॥ ह्रस्वादिरपि । अम्लत्वमतति । रलयोरैक्यम् । ‘कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी’ इति त्रिकाण्डशेषः ॥
आम्रेडितम् आम्रड्यते आधिक्येनोच्यते स्म । ‘म्रेड उन्मादे (भ्वा० प० से०) । क्तः (३.२.१०२ । यथा ‘सर्पः सर्पः’ इति ॥
आयतनम् आयतन्तेऽत्र । ‘यती प्रयत्ने’ (भ्वा० आ० से०) । अधिकरणे ल्युट् (३.३.११८) ॥
आयतिः उत्तेति । आयंस्यन्तेऽत्र । ‘यम उपरमे’ (भ्वा० प० अ०) । क्तिन् (३.३.९४) । आयास्यति वा । यातेर्बाहुलकाड्डतिः । ‘आयतिस्तु स्त्रियां दैर्घ्ये प्रभावागामिकालयोः’ (इति मेदिनी) ॥
आयामः आयम्यतेऽनेन । घञ् (३.३.१९) । आयमनं वा आयाति वा । ‘या प्रापणे’ (अ० प० अ०) ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् ॥
आयुः आयुरिति । एति । ‘इण् गतौ’ (अ० प० अ०) । ‘एतेर्णिच्च’ (उ० २.११८) इत्युसिः ॥ (१)
आयुधम् “आय्विति । आ युध्यन्तेऽनेन । ‘युध संप्रहारे’ (दि० आ० अ०) ‘घञर्थे कविधानम्, स्थास्नापाहनियुध्यर्थम्’ (वा० ३.३.५८) ॥”
आयुधिकः आयुधेन जीवति । ‘आयुधाच्छ च’ (४.४.१४) ॥ चात् ठन् ॥
आयुधीयः आयुधेन जीवति । ‘आयुधाच्छ च’ (४.४.१४) ॥
आयोधनम् युद्धेति । योधनम् । ‘युध सम्प्रहारे’ (दि० आ० अ०) । (क्तः ३.३.११४) । भावे क्त ल्युटौ (३.३.११५) ॥
आरकूटः ‘ऋ गतौ’ (भ्वा० प० अ०) । भावे घञ् (३.३.१८) । आरं कूटयते । ‘कूट दाहे’ (चु० उ० से०) । अच् (३.१.१३४) । ‘आरकूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम्’ इति रभसः ॥
आरग्वधः “आरगिति । आ रगणम् । ‘रगे शङ्कायाम् । सम्पदादिः (वा० ३.३.१०८) । आरगं रोगशङ्कामपि हन्ति । ‘कर्मण्यण् (३.२.१) । ‘बहुलं तणि’ (वा० २.४.५४) इति हन्तेर्वधोऽदन्तः ॥ ‘ण्यल्लोपौ’ (वा० ६.४.४८) इत्यल्लोपः । ‘रञ्ज रागे (भ्वा०, दि० उ० अ०) । सम्पदादिः (वा० ३.३.१०८) । आरजं रोगरागमपि हन्ति । यत्तु मुकुटः - आ समन्तात् । रुजं वधति छिनत्ति । ‘वध छेदनसेवनपूरणेषु’ । पृषोदरादिः (६.३.१०९) – इत्याह । तन्न । उक्तधातोः पाणिनीये कुत्राप्यदर्शनात् । यत्तु-वधिः प्रकृत्यन्तरम् इति ‘जनिवध्योश्च (७.३.३५) इति सूत्रेऽपि वृत्तिः । तन्न । मुनित्रयविरोधात्, इति प्रपञ्चतं मनोरमामण्डने । यदपि स्वामिनोक्तम् - आ समन्ताद् रुजां वधोऽत्र – इति । तदपि न । व्यधिकरणबहुव्रीहित्व-पृषोदरादित्वकल्पनप्रसङ्गात् (६.३.१०९) । त्र्यच्कोऽपि ह्रस्वादिरपि । ‘आरग्वधोऽथ सम्पाकः कृतमालस्तथार्ग्वधः’ इति रत्नकोषात् ।”
आरनालकः आरोति । आर्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । नलति । ‘णल गन्धे’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । आरो नालोऽस्य । ‘शेषाद्विभाषा’ (५.४.१५४) इति कप् ॥
आरवः पक्षे अप् (३.३.५७) ॥
आरा “- आरेति । आ इयर्ति, ऋच्छति वा । ‘ऋ गतौ’ (जु०, भ्वा० प० अ०) । अच् (३.१.१३४) । आर्यते वा । भिदादौ (३.३.१०४) ‘आरा शस्त्र्याम्’ इति पाठात् साधुः । (‘आरा चर्मप्रभेदिन्यां पुंसि भौमशनैश्चरे’ इति मेदिनी ) ॥”
आरामः आरेति । आरमन्त्यत्र । ‘हलश्च’(३.३.१२१) इति घञ् ।
आरालिका अरालं कुटिलं चरन्ति । ‘चरति’ (४.४.८) इति ठक् ॥
आरावः ‘विभाषा ङि रुप्लुवोः’ (३.३.५०) इति घञ् ॥
आरेवतः “आरेवयति निःसारयति मलं सारकत्वात् । ‘रेवृ, प्लव, गतौ’ (भ्वा० आ० से०) । णिच् (३.१.२६) । विच् (३.२.७५) । अतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । आरेव् चासावतश्च ॥”
आरोग्यम् न रोगोऽस्य । अरोगस्य भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् ॥
आरोहणम् आरोहेति । आरुह्यतेऽनेन । ‘रुह प्रादुर्भावे’ (भ्वा० प० अ०) । करणे ल्युट् (३.३.११७) । ‘आरोहणं स्यात्सोपाने समारोहे प्ररोहणे’ ।
आर्तगलः आर्तः क्षीणो गलति । ‘गल अदने’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
आर्तवम् ऋतुरेव । प्रज्ञाद्यण् । (५.४.३८) । ‘आर्तवं स्त्रीरजे पुष्पे क्लीबं स्यादृतुजे त्रिषु’ (इति मेदिनी) ॥
आर्द्रकम् आर्द्रेति । आर्द्रायां जातम् । पूर्वाह्णापराह्णार्द्रा-’ (४.३.२८) इति वुन् । आर्द्रयति । जिह्वाम् । क्वुन् (उ० २.३२) वा । आर्द्रसंज्ञकं वा । संज्ञायां कन्; (५.३.७५) । अर्दति कफं वा । ‘अर्द हिंसायाम्’ (चु० उ० से०) । ‘अर्देदीर्घश्च’ (उ० २.१८) इति रक् ॥
आर्यः “आर्य इति । अर्तुं योग्यः । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘ऋहलोण्यत्’ (३.१.१२४) । ‘कर्तव्यमाचरन्काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः’ इति वसिष्ठः । (‘आर्या सज्जनसौविदौ’) । मर्षणात्सहनात् मारिषः । पृषोदरादिः (६.३.१०९) । हिंसानिवारकत्वाद्वा । रिष हिंसायाम् (भ्वा० प० से०) । ‘इगुपध-’(३.१.१३५) इति कः । प्रतिषेधार्थकमाशब्देन समासः । ‘मारिषः शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषितः’ इति मूर्धन्यान्ते रभसः । मार्षश्च । ‘आर्ये मारिष मार्षकौ इति शब्दार्णत्वात् । ‘मारिषः शाकभिद्यार्ये नाट्योक्त्या पुंसि, योषिति । दक्षाम्बायाम् ।”
आर्यः अर्यते । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘ऋहलोण्यत् (३.१.१२४) ॥
आर्यावर्त्तः हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः” (२.२१) इति मनुः । विनशनं कुरुक्षेत्रम् । द्वे मध्यदेशस्य ।
आर्षभ्यः आर्षेति । ऋषभस्य प्रकृतिः । ‘ऋषभोपानहोर्ञ्यः’ (५.१.१४) ॥
आलम् आलयति । ‘अल भूषणादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । आलाति वा । ‘ला आदाने (अ० प० अ०) । ‘आतश्चोपसर्गे (३.१.१३६) इति कः । ‘आलं स्यादनल्पहरितालयोः’ इति हेमचन्द्रः ॥
आलम्भः एभ्यो भावे ल्युट् (३.३.११५) । आलम्भनम् । ‘डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) । घञ् (३.३.१८) । ‘लभेश्च’ (७.१.६४) उपसर्गात्खल्घञोः’ (७.१६७) इति नुम् ॥
आलयः एवम् आलयः ।
आलवालम् स्यादिति । आ समन्ताज्जलस्य लवम् आलाति । ‘ला आदाने ’ (अ० प० अ०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । लवमालाति । तद्भिन्नम् । नञ्समासे (अलवालः) ह्रस्वादिः - इत्यन्ये ।
आलस्यः
- स्वार्थे ष्यञ् (वा० ५.१.१२४) ॥
आलानम् आलेति । आलीयतेऽत्र ‘लीड् श्लेषणे’ (दि० आ० अ०) । अधिकरणे ल्युट् (३.३.११७) । (विभाषा लीयतेः’ (६.१.५१) इत्यात्वम्) ॥
आलापः ‘लप व्यक्तायां वाचि’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
आलिः आ अलन्त्यम्भः । ‘अल वारणे’ (भ्वा० प० से०) । इन् (उ० ४.११८) । यद्वा-अल्यतेऽनया । ‘इणजादिभ्यः’ (वा० ३.३.१०८) द्वे ‘सेतोः’ ‘पुल’ इति ख्यातस्य ।
आलिः आलति । ‘अल भूषणादौ’(भ्वा० प० से०) । आङि । इन् (उ० ४.११८) । ‘आलिः सख्यावलीसेत्वनर्थेषु विशदाशये’ इति हैमः ॥
आलिः आलिरिति । आलयति । ‘अल भूषणादौ’ (भ्वा० प० से०) । णिच् (३.१.२६) । ‘अच इः’ (उ० ४.१३९) । बाहुलकादिण्-इति मुकुटो व्यर्थः । ‘आलिः सखी सेतुरालिरालिरावलिरिष्यते’ इति शाश्वतः ॥
आलिङ्ग्यः आलिङ्ग्यते । ‘लिगि गतौ’ (भ्वा० प० से०) । ण्यत् (३.१.१२४) ।
आलीढम् एवमालीढम् । ‘आलीढं पादन्यासे शिते त्रिषु’ इति विश्वमेदिन्यौ ।
आलू आ लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । क्विप् (३.२.७६) । ह्रस्वपाठे आलाति । ‘ला दाने’ (अ० प० से०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । ‘आलुर्गलन्तिकायां स्त्री क्लीबं मूले च भेलके’ इति विश्वः (मेदिनी) ॥
आवपनम् सेति । आ उप्यतेऽत्र । ‘डुवप् बीजतन्तुसंताने’ (भ्वा० उ० अ०) । ल्युट् (३.३.११७) ॥
आवर्तः स्यादिति । आवर्तनम् । ‘वृतु वर्तने’ (भ्वा० प० से०) । भावे घञ् (३.३.१८) । ‘आवर्तश्चिन्तने वारिभ्रमे चावर्तने पुमान् । जलानां भ्रमणस्य एकम् ॥
आवलिः आ वलति । ’वल संवरणे’(भ्वा० प० से०) । आङि । इन् (उ ४.११८) ॥
आवसितम् आवसीयते स्म । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । (३.२.१०२) अवसानं प्राप्तम् । सम्पन्नं वा । रक्षार्थमाच्छादितं वा । तत्र आवस्यते स्म । ‘वस आच्छादने’ (अ० अ० से०) । ‘अवसितमृद्धेज्ञातेऽपि (अवमानगते च वाच्यलिङ्गं स्यात्)’ इति विश्वः (मेदिनी) ॥
आवापः आ वपन्ति जलमत्र । ‘डुवपँ बीजतन्तुसंताने (भ्वा० उ० से०) । ‘हलश्च (३.३.१२१) इति घञ् । आवापो भाण्डपचने परिक्षेपालालयोः’ । त्रीणि वृक्षमूलकृतजलाधारस्य ।
आवापकः आवेति । आ उप्यते । ‘डुवप्’ (भ्वा० उ० अ०) । कर्मणि घञ् (३.३.१९) । स्वार्थे (ज्ञापि० ५.४.५) संज्ञायां (५.३.७५) वा कन् ॥
आवालम् आवलतेऽम्भोऽनेन । ‘वल संवरणे’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् । आ ईषत् वाला वृक्षा अत्र वा ॥
आविः
- अवते । ‘उड् शब्दे’ (भ्वा० आ० अ०) । इर् (इस्) ॥
आविलः भिन्नोऽच्छात् ॥ नञ् तत्पुरुषः । नलोपो नञः (६.३.७३) । ‘तस्मान्नुडचि (६.३.७४) ॥ आविलति । विल भेदने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥ (३) त्रीणि मलिनजस्य ।
आवुकः अथेति । अवति । अव रक्षणे’ (भ्वा० प० से०) । बाहुलकादुकण् । णित्वादुपधावृद्धिः (७.२.११६) प्रक्रिया –
आवुत्तः भगिनीति । आपनमाप् । सम्पदादि क्विप् (३.३.१८४) । आपमुत्तनोति । अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । आवुत्तः । (१) भगिन्याः पतिः । एकम् भगिनीपतेः ।
आवृत् आवर्तनम् । अत्र वा । ‘वृतु वर्तने’ (भ्वा० आ० से०) । सम्पदादि क्विप् (वा० ३.३.१०८) ॥
आवेगी आवेगोऽस्त्यस्याः । ‘अर्शआद्यच्’ (५.२.१२७) । गौरादिः (४.१.४१) ॥
आवेशनम् आवेशनमिति । आविशन्त्यत्र । विश प्रवेशने’ (तु० प० अ०) । ‘करणा-’ (३.३.११८) इति ल्युट् । युच् (उ० २. ७८) वा । आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः’ इति विश्व मेदिन्यौ ।
आवेशिकः स्युरिति । ‘वेशो वेश्यागृहे गृहे’ (इति मेदिनी) । अवेशेऽगृहे भवः । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । ‘नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा’ (म० ३.१०३) ॥
आशरः आशृणाति । ‘शॄ हिंसायाम्’ (क्र्या प० से०) । पचाद्यच् (३.१.१३४) । ‘आशिरः इति पाठे ‘अशेर्णिच्च’ (उ० १.५२) इति किरच् । ‘आशिरो धनुषः शङ्कुः क्रव्यादोऽस्रप आशरः’ इति संसारावर्तः । (‘आशिरोऽर्के राक्षसेऽग्नौ’) ।
आशाः आ समन्ताद् अश्नुते व्याप्नोति । ‘अशू व्याप्तौ (स्वा० आ० से०) । अच् (३.१.१३४) (आशा तृष्णादिशोः स्त्रियाम् ।
आशितङ्गवीन त्रीति । आशिता भोजिता गावो यत्र । ‘अषड-’ (५.४.७) इति खः । नुम् तु निपातितः ॥
आशीविषः ‘आशीस्तालुगता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्य । पृषोदरादित्वात् (६.३१०९) दीर्घसलोपौ । केचित्त्वीकारान्तमाशीशब्दमाहुः । आशीमिव कलामिन्दोः’ इति राजशेखरः।
आशुः अश्नुते । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । कृवापाजि- (उ० १.१) इत्युण् । ‘आशुस्तु व्रीहिशीघ्रयोः’ ।
आशुः “आश्विति । अश्नुते । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । कृवापा-’ (उ० १.१) इत्युण् । ‘आशुस्तु व्रीहिशीघ्रयोः इति हैमचन्द्रः । तृणबीजं तु श्यामाको, व्रीहिराशु च पाटलः इति (पर्याये) क्लीबमाशु । आशु स्याद्व्रीहिशीघ्रयोः’ इति रत्नमालायामपि क्लीबम् ॥”
आशुगः आशु गच्छति । ‘अन्यत्रापि-’ (वा० ३.२.४८) इति डः । (‘आशु गोऽर्के शरे वायौ)
आशुगः आशु गच्छति । ‘अन्येष्वपि’ (वा० ३.२.४८) इति डः । ‘आशुगोऽर्के शरे वायौ’ इति हेमचन्द्रः ॥
आशुशुक्षणिः (आशोष्टुमिच्छति) । आपूर्वा च्छुष्यतेः (दि० प० अ०) । सन्नन्तात् ‘अङि शुषेः सनश्छन्दसि (उ० २.१०६) इत्यनिः । छान्दसानामपि क्वचिद्भाषायां प्रयोगः । ‘अध्वर्यु-क्रतुः-’ (२.४.४) इति ज्ञापकात् । आशु शीघ्रं आशुं व्रीहिं वा शु क्षणोति । क्षणु हिंसायाम्’ (त० उ० से०) । इन् (उ० ४११८) । शु इति पूजार्थमव्ययम् ।
आश्चर्यम् आ इति चर्यते अभिनीयते । आश्चर्यमनित्ये’ (६.१.१४७) इति साधु ॥
आश्मपुष्पम् अश्मनः पुष्पमिव । अश्मप्रभवत्वात् ॥
आश्रमः चत्वारोऽवयवा यस्य । ‘संख्याया अवयवे तयप्’ (५.२.४२) । चतुरवयवसमुदाये । आश्राम्यन्त्यत्र । अनेन वा । ‘श्रमु तपसि’ (दि० प० से०) । घञ् (३.३.१९) । ‘नोदात्तोपदेशस्य-’ (७.३.३४) इति वृद्धिर्न । यद्वा आसमन्ताच्छ्रमोऽत्र । स्वधर्मसाधनक्लेशात् । आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे । अस्त्रियाम्’ (इति मेदिनी) ॥
आश्रयः आश्रयणम् । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । ‘एरच्’ (३.३.५६) ॥
आश्रयाशः आश्रयमाधारमश्नाति । ‘कर्मण्यण् (३.२.१) (आश्रयाशः पुमान्वह्नौ त्रिषु चाश्रयनाशके’) । आशयाशः’ इति पाठान्तरम् । आशेरतेऽत्रेत्याशयः‘एरच्’ (३.३.५६) । तमश्नाति ।
आश्रवः आङ्पूर्वाच्छृणोतेः ‘ॠदोः’ (३.३.५७) इत्यप् । आश्रवोऽङ्गीकृतौ क्लेशे नान्यवद्वचनस्थिते ।
आश्वत्थम् आश्वत्थेति । अश्वत्थस्य फलम् । आश्वत्थम् । ‘प्लक्षादिभ्योऽण्’ (४.३.१६४) ॥
आश्वम् पक्षे ‘तस्य समूहः’ (४.२.३७) इत्यण् । –‘अनुदात्तादरेञ्-’ (४.२.४४) –इति मुकुटः । तन्न । क्वन्नन्तत्वेनाश्वशब्दस्याद्युदात्तत्वात् ॥
आश्वयुजः “अश्वयुजा युक्ता पौर्णमास्यस्मिन् । अण्द्वयम् (४.२.३,२१) ॥ संज्ञापूर्वकत्वावृद्ध्यभावे अश्वयुजोऽपि । आश्विनोऽश्वयुजश्चेंषः’ इत्यमरमाला ।/p>”
आश्विनः अश्विन्या युक्ता पौर्णमास्यस्मिन्नस्ति ।/p>
आश्विनेयौ अश्विन्या अपत्ये । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) । तावुभाविति । द्वित्वादिष्टत्वादेकवचनाभावः-’ इति स्वामी । अयं च प्रायोवादः ‘देव्यां तस्यामजायेतां नासत्यो दस्र एव च’ इति मार्कण्डेयात् । नासत्यौ’ इति ‘दस्रौ’ चैकवाचकस्योभयोः प्रयोगो गौणः ।
आश्वीना त्रीति । अश्वेन एकाहेनातिक्रम्यते । ‘अश्वस्यैकाहगमः’ (५.२.१९) इति खञ् ॥
आषाढः अषाढया युक्ता पौर्णमास्यस्मिन् । ‘आषाढो व्रतिनां दण्डे मलयपर्वते । स्त्री पूर्णिमायाम् । आषाढाभिराख्यातः इति विग्रहे तु ‘अषाढकः’ अपि । आख्यानण्यन्तात् (वा० ३.१.२६) । ‘क्वुन् शिल्पिसंज्ञयोः (उ०२.३२) । ‘स्यादाषाढे त्वषाढकः इति शब्दार्णवः’ ।
आषाढः पेति । आषाढी पूर्णिमा प्रयोजनमस्य । ‘विशाखाषाढादण् मन्थदण्डयोः’ (५.१.१०) इत्यण् । ‘आषाढो व्रतिनां दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्’(इति मेदिनी) ॥पलाशस्य विकारः । ‘पलाशादिभ्यो वा’(४.३.१४१) इत्यञ् । व्रते ब्रह्मचर्ये ।
आसनम् आस्यतेऽत्र । ‘आस उपवेशने’ (अ० आ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
आसनम् आसनम् । ‘आस उपवेशने (अ० आ० से०) । ल्युट् (३.३.११५) ॥
आसनम् आसेति । आस्यतेऽत्र । ल्युट् (३.३.११७) । आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने’ इति विश्वमेदिन्यौ ॥
आसवः
- आसूयते । ‘षुञ् अभिषवे’ (स्वा० उ० अ०) । ‘ऋदोरप्’ (३.३.५७) ॥
आसारः ‘सृ गतौ” (भ्वा० प० अ०) । आसरणम् । घञ् (३.३.१८) । ‘आसारः स्यात्प्रसरणे वेगवर्षे सुहृद्बले’ इति विश्वः ।
आसारः स्येति । आसरणम् । ‘सृ गतौ’ (भ्वा० प० अ०) । घञ् (३.३.१८) ‘आसारः स्यात्त्रसरणे वेगवृष्टौ सुहृद्वले’ इति विश्वः ॥
आसुरी असुरस्येयम् । अण् (४.३.१२१) । अस्यति वा । ‘असेरुरन्’ (उ० १.४२) । प्रज्ञाद्यण् (५.४.३८) ॥
आस्कन्दनम् ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । भावे ल्युट् (३.३.११५) । ‘आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च’ इति विश्वः ॥
आस्कन्दितम् आस्केति । आस्कन्दनम् । ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । स्वार्थण्यन्तः । भावे क्तः (३.३.११४) । आस्कन्दः संजातोऽस्य वा तारकादित्वात् (५.२.३६) इतच् । एवमि ण्नलोपाभावश्च नानुपपन्नः (‘उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः’ इति हैममाला) ॥
आस्तरणम् आस्तीर्यते । अनेन वा । ‘स्तॄञ् आच्छादने’ (क्र्या० उ० से०) । कर्मणि (३.३.११३) करणे (३.३ ११७) वा ल्युट् ॥
आस्थानम् आतिष्ठन्त्यस्याम् । अधिकरणे ल्युट् (३.३.११७) ॥
आस्थानी आतिष्ठन्त्यस्याम् । अधिकरणे ल्युट् (३.३.११७) ॥
आस्फोटनी
- आस्फविति । आस्फोट्यतेऽनया । ‘स्फुट भेदने’ चुरादिः । करणे ल्युट् (३.३.११७) । ललन्ती स्फोटयतीति ‘लास्फोटनी’ । पृषोदरादिः (६.३.१०९) इति मुकुटः ॥
आस्फोटा आस्फोटेति । आस्फोटयति । ‘स्फुटिर् विकसने’ (भ्वा० प० से०) ण्यन्तः । अच् (३.१.१३४) । पृषोदरादिः (६.३. १०९) । ‘आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति’ (इति मेदिनी ॥
आस्फोतः आ स्फोटयति । ‘स्फुटिर् विशरणे’ (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.१.१०९) । ‘आस्फोतस्तु पुमानर्कपर्णे स्यात् कोविदारके । आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति’ (इति मेदिनी) ॥
आस्फोता सैवेति । आस्फोटयति । ‘स्फुटिर् विकसने’ (भ्वा० प० से०) । पचाद्यच् । पृषोदरादित्वात् (६.३.१०९) टस्य तो वा । ‘आस्फोता विष्णुक्रान्तायां वनमल्ल्यर्कपर्णयोः’ इति रभसः । ‘आस्फोतस्तु पुमानर्कपर्णे स्यात्कोविदारके । आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति’ इति मेदिनी ॥
आस्यम् आस्यन्दते अम्लादिना प्रस्रवति । आस्यन्द्यते वान्नादिना द्रवीक्रियते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा अस्यन्ते वर्णा येन । अस्यते वास्मिन् ग्रासः । ‘असु क्षेपणे’ (दि० प० से०) ‘कृत्यल्युटः-’ (३.३.११३) इति ण्यत् । ‘मुखं मुखान्तरालं च द्वयमास्यमितीरितम्’ इति शाश्वतः । ‘आस्यं मुखे च तन्मध्ये तद्रवे च स्त्रियां स्थितौ’ (इति मेदिनी) ॥
आहतम् आहतमिति । आहन्यते स्म । क्तः (३.२.१०२) । ‘आहतं गुणिते चापि ताडिते च मृषार्थके । स्यात्पुरातनवस्त्रेऽपि नववस्त्रे वितानके ॥ मृषाऽर्थो यस्य
आहतम् आहतम् ।
आहवः आह्वानम् । ‘हेञ् स्पर्धायां शब्दे च’ (भ्वा० उ० अ०) ‘आङि युद्धे (३.३.७२) इत्यप् सम्प्रसारणं च । ‘आहवः सङ्गरे यज्ञे’ इति हैमः ॥
आहवनीयः आहूयते प्रीणते प्रक्षिप्यते वा हविरत्र । ‘कृत्यल्युटः (३.३.११३) इत्यधिकरणेऽनीयर् । यद्वा आहवनमर्हति । तदर्हति’ (५.१.६३) इति छः ॥
आहारः आहरणम् । ‘हृञः’ (भ्वा० उ० अ०) । घञ् (३.३.१८) ॥
आहावः आहाव इति । आहूयन्तेऽत्र । ‘ह्वेञ् स्पर्धायां शब्दे च’ (भ्वा० उ० अ०) । ‘निपानमाहावः’ (३.३.७४) ॥
आहेयम् त्रिष्विति । अहौ भवम् । ‘दृतिकुक्षि- (४.३.५६) इति ढञ् । स्त्रियां टिड्ढा-’ (४.१.१५) इति ङीप् । आदिना कञ्चुकादि ।
आहोपुरुषिका आहविति । अहो अहं पुरुषः । ‘सुप्सुपा’ (२.१.४) इति समासः । अहोपुरुषस्य भावः । मनोज्ञादित्वात् (५.१.१३३) वुञ् ॥
आहौ
- आहन्ति । डोप्रत्ययः ॥
आह्वयः आह्वयन्त्याह्वाः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति के प्राप्ते ‘प्रसारणिभ्यो डो वक्तव्यः (वा० ३.२.३) इति डः । तैर्यायते प्राप्यते । ‘या प्रापणे’ (अ० प० अ०) घञर्थे कः (वा० ३.३.५८) । अन्यत्रापि’ (वा० ३.२.४८) इति डो वा । यद्वा आह्वानमाहूः । संपदादिः (वा० ३.३.१०८) । तस्या अयः ॥
आह्वा एवमाह्वा ।।
आह्वानम् (ह्वेञः) ल्युटि (३.३.११५) आह्वानम् ।
इक्षुः इष्यते । ‘इष इच्छायाम् (तु० प० से०) । ‘इषेः क्सुः’ (उ० ३.१५७) । ‘षढोः कः सि’(८.२.४१) ॥
इक्षुगन्धा ईति । इक्षुः गन्धोऽस्य । इक्षुशब्द इक्षुगन्धसदृशे लाक्षणिकः । ‘इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे’ (इति मेदिनी) ॥
इक्षुगन्धा इक्षुर्गन्धोऽस्याः । इक्षुशब्दस्तद्गन्धसदृशे गौणः । समासान्तविधेरनित्यत्वान्नेत्वम् ।
इक्षुगन्धा इक्षुवद्गन्धोऽस्याः । समासान्तविधेरनित्यत्वान्नेत्वम् (५.४.१३५) । ‘इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे’ (इति मेदिनी) ॥
इक्षुगन्धा इक्षुगन्ध इव गन्धोऽस्याः । समासान्तो विधिरनित्यः । ‘इक्षुगन्धा कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे’ (इति मेदिनी) ॥
इक्षुरः इक्षुमिक्षुगन्धं राति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
इक्ष्वाकुः ईति । इक्षुमाकरोति । मितद्र्वादित्वात् (वा० ३.२.१०८) डुः । यद्वा छिक्कायां जातम् ‘इक्षु’ इति शब्दमकति । ‘अक गतौ’ (भ्वा० प० से०) । बाहुलकादुण् । ‘इक्ष्वाकुः कुटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान्’ (इति मेदिनी) ॥
इङ्गुदी अथेति । इङ्गनम् । ‘इगि गतौ’ (भ्वा० प० से०) । घञ् । (३.३.१८) । इङ्गं द्यति । ‘दो अवखण्डने (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । ‘जातेः’ (४.१.५३) इति ङीष् ॥
इच्छा एषणम् । इच्छा । ‘इच्छा’ (३.३.१०१) इति सूत्रेण इषेः शप्रत्यये निपातितः ।
इच्छावती इच्छेति । इच्छास्त्यस्याः । ‘मतुप्’ (५.२.११५) ॥
इज्याशीलः ईति । इज्या शीलमस्य । इज्यां शीलति । ‘शील समाधौ” (भ्वा० प० से०) । ‘शीलिकामि-’ (वा० ३.२.१) इति णः ॥
इट्चरः एषणम् इट् । ‘इषु इच्छायाम् (तु० प० से०) । क्विप् (३.२.१७८) । इषा चरति । अच् (३.१.१३४) । केचित् ‘इत्वरः’ इति पठन्ति । एति तच्छीलः । ‘इण्नश्जि-’ (३.२.१६३) इति क्वरप् । तुक् (६.१.७१) ॥
इतरः
- इना कामेन तीर्यते । ‘तॄ’ (भ्वा० प० से०) । ‘ऋदोरप्’ (३.३.५७) । इतं गमनं करोति वा । ‘तत्करोति-’ (वा० ३.१.२६) इति णिच् । यद्वा इतेन ज्ञानेन क्षीयते । ‘प्रातिपदिकाद्धात्वर्थे’ (चु० सू०) इति णिच् । बाहुलकादरः । यद्वा ‘इ’ इत्यव्ययमपकर्षे । ‘द्विवचन-’ (५.३.५७) इति तरप् । द्रव्य प्रकर्षत्वान्नामुः ॥
इतिहः इत्येवं ह किल ॥ यत्तु मुकुटेनोक्तम्—पूर्वे च पूर्वतराश्च’ इति द्वन्द्वे ‘परोवरपरम्परपुत्रपौत्रमनुभवति’ (५.२.१०) इति निर्देशात् परम्परादेशे टापि परम्परा । तदुक्तम् विनापि प्रत्ययं परम्पराशब्दो दृश्यते तच्चिन्त्यम् । संनियोगशिष्टन्यायेन खप्रत्ययसंनियोग एव परम्परादेशविधानात् । परम्पराशब्दस्य त्वव्युत्पन्नत्वात् । तदुक्तम्-‘अस्ति हि परम्पराशब्दोऽव्युत्पन्नं प्रातिपदिकम् इति । यद्वा परं पिपर्ति । पचाद्यच् (३.१.१३४) । श्वपचाजारभरावत् । पृषोदरादिः (६.३.१०९)॥
इतिहासः इतीति । ’इतिह’ इति पारम्पर्योपदेशेऽव्ययम् । तदास्तेऽस्मिन् । ‘आस उपवेशने’ (अ० अ० से०) । ‘हलश्च’ ३.३.१२१) इति घञ् ।
इत्वरी एति । तच्छीला ‘इण्नश्जि-’ (३.२.१६३) इति क्वरप् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । ‘इत्वर्यसत्यां पथिके क्रूरकर्मणि च त्रिषु’ (इति मेदिनी) ॥
इदानीम्
- अस्मिन्काले । ‘दानीं च’ (५.३.१८) ।
इध्मम् इध्यतेऽनेन । ‘ञि इन्धी दीप्तौ’ (रु० आ० से०) । ‘इषियुधीन्धि-’ (उ० १.१४५) इति मक् । ‘अनिदिताम् (६.४.२४) इति नलोपः ॥
इन्दीवरम् इन्दति । ‘इदि परमैश्वर्ये’ (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । इन्दी लक्ष्मीः । तस्या वरमिष्टम् । ‘इन्दीवरं कुवलये शतावर्या च योषिति’ । ‘कुवलयं स्यादिन्दीवारमित्यपि’ इति व्याडेरिन्दीवारमपि । (२)द्वे नीलोत्पलस्य ।
इन्दीवरी नीलोत्पलाकारपुष्पत्वाद् इन्दीवरमस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । ‘इन्दीवरं कुवलये शतावर्यां तु योषिति’ । (इति मेदिनी) ॥
इन्दुः “उनत्ति । उन्दी क्लेदने’ (रु० प० से०) । ‘उन्नेरिच्चादेः’ (उ० १.१२) इत्युः । यत्तु स्वामि मुकुटौ - उन्दते, उन्दति –इत्याहतुः । तच्चिन्त्यम् । उन्देरौधादिकत्वात् ।।”
इन्द्रः इन्दति । ’इदि परमैश्वर्यं’ (भ्वा० प० से०) । ‘ऋज्रेन्द्र- उ० २.२८) इत्यादिना रन् । ‘रग्’ इति मुकुटः । तन्न । अन्तोदात्तत्वापत्तेः । ‘इन्द्रः शक्रादित्यभेदयोगभेदान्तरात्मसु । ‘इन्द्रः फणिज्जकेऽस्त्री स्यात् ।
इन्द्रः इन्दति । ’इदि परमैश्वर्यं’ (भ्वा० प० से०) । ‘ऋज्रेन्द्र- उ० २.२८) इत्यादिना रन् । ‘रग्’ इति मुकुटः । तन्न । अन्तोदात्तत्वापत्तेः । ‘इन्द्रः शक्रादित्यभेदयोगभेदान्तरात्मसु । ‘इन्द्रः फणिज्जकेऽस्त्री स्यात् ।
इन्द्रदुः इन्द्रस्य इन्द्र इव वा द्रुः ॥
इन्द्रयवम् यवाकारबीजत्वाद्यवम् । इन्द्रसंज्ञस्य वृक्षस्य यवम् ॥
इन्द्रवारुणी इन्द्रं वारयति । ‘वृञ् वरणे’‘चुरादिः । कृवृदारि-’ (उ० ३.५३) इति बाहुलकाद् ण्यन्तादप्युनन् । यत्तु मुकुटः - इन्द्रवरुणौ देवते अस्याः । अण् (४.२.२४) । ‘उत्तरपदस्य च (७.३.१०) इत्युत्तरपदवृद्धिः – इत्याह । तन्न । मन्त्रहविषोरेव स्वामिनि देवतात्वव्यवहारात् । ‘उत्तरपदस्य च’ (७.३.१०) - इत्यस्याधिकारत्वेन वृद्धिविधायकत्वाभावाच्च ॥
इन्द्रसुरसः शोभनो रसोऽस्य । इन्द्रस्य सुरसः । ‘इन्द्रसुरिसः’ इति स्वामी ॥
इन्द्राणिका “इन्द्रस्य जन्या । ‘इन्द्रवरुण-’ (४.१.४९) इति ङीषानुकौ, जन्यजनकभावलक्षणोऽपि च पुंयोगस्तत्र गृह्यते । –इन्द्रमानयति । अनेर्ण्यन्तात् ‘कर्मण्यण्’ (३.२.१) । ङीप् (४.१.१५) । कन् (५.३.७५) ह्रस्वत्वम् (७.४.१३) च इति मुकुटः । इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः’ इति मेदिनी ॥”
इन्द्राणी “इन्द्रस्य स्त्री । ‘इन्द्रवरुण’= (४.१.४९) इति ङीषानुकौ । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽपि’)। यत्तु अनुकि कर्तव्ये दीर्घकारमानुकं शास्ति, तज्ज्ञापयति यतो विहितस्ततोऽन्यत्रापि भवति । तेन किर्याणी गिर्याणी इत्यादि सिद्धं भवति इति धातुपारायणम् । अत एव ‘शक्राणी’ इति मुकुटश्च । तन्न । अनुकि कृते अतो गुणे’ (६.१.९७) इति पररूपप्रसङ्गात् । नन्वकारोच्चारसामर्थ्यात् दीर्घो भविष्यति । अन्यथा हि नुकमेव कुर्यात् इति चेत् न । ‘अल्लोपोऽनः (६.४.१३४) इत्यस्य बाधेन चरितार्थत्वात् `पत्युर्नः’ (४.१.३३) इति वदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेव अल्लोपो न भविष्यति इति चेत् । न । शर्वशब्दे ककारस्य चारितार्थ्यात् । न हि तत्र लोपोऽस्ति । ‘न संयोगात्-’ (६.४.१३७) इति निषेधात् । तस्मात् ककाराकारयोः सामर्थविरहे पररूपबाधनार्थं दीर्घोच्चारणमावश्यकम् । प्रयोगनिर्वाहस्तूक्त एव । त्रीणि इन्द्रपत्न्याः ।”
इन्द्रायुधम् इन्द्रेति । इन्द्रस्यायुधम्।।
इन्द्रारयः इन्द्रस्यारयः ॥
इन्द्रावरजः इन्द्रस्यावरं जातः । अन्येष्वपि (३.२.१०१) इति डः । (इन्द्रः अवरजोऽस्य वा) ॥
इन्द्रियम् इन्द्रस्यात्मनो लिङ्गम् । इन्द्रियमिन्द्रलिङ्गम्-’ (५.२.९३) इत्यादिना घञ् निपातितः । ‘इन्द्रियं तु चक्षुरादिषु रेतसि’ इति हैमः ।
इन्द्रियम् इन्द्रस्यात्मनो लिङ्गम् । ‘इन्द्रियमिन्द्रलिङ्ग-’ (५.२.९३) इति साधुः । ‘इन्द्रियं तु चक्षुरादिषु रेतसि’ इति हेमचन्द्रः ॥
इन्धनम् इन्धेति । इन्धेऽग्निरनेन । ‘ञि इन्धी दीप्तौ’ (रु० आ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् ।
इन्वका इन्वका इति । इन्वन्ति प्रीणयन्ति । ‘इवि व्याप्तौ प्रीणने च’ (भ्वा० प० से०) इदित्वात् (७.१.५८) नुम् । संज्ञायां क्वुन् (उ० २.३२) । क्षिपकादित्वात् (वा० ७.३.४५) इत्वाभावः । ‘इल्वलाः’ इति पाठे तु ‘इल स्वप्ने क्षेपणे च’ (तु० प० से०) । ‘सानसिवर्णसि-’ (उ० ४.१०७) इति वलच् गुणाभावश्च निपात्यते । (‘इल्वलास्तारका भेदेऽपील्वलो मत्स्यदैत्ययोः’) ॥
इभः एति । ईयते वा । ‘इणः कित्’ (उ० ३.१५३) इति भः ॥
इरमंदः अन्योन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते । अबिन्धनत्वात् । उग्रंपश्येरंमद-’ (३.२.३७) इति साधुः । मेघेत्युपलक्षणम् । तेन बाडवोऽपि । अत एव ‘मेघाग्न्यादिरिरंमदः’ इति शब्दार्णवः ।
इरा
- इं कामं राति । ‘रा दाने (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
इव
- अयनम् । ‘इण्शीभ्यां वन्’ (उ० १.१५२) । (‘एवौपम्ये परिभवे ईषदर्थेऽवधारणे’ इति हैमः) ॥
इषः इष गतौ (दि० प० सें०) । एषणमिट् यात्रा । क्विप् (३.२.१७८) । सास्मिन्मासे जिगीषूणामस्ति । अर्शआद्यच् (५.२.१२७) ।
इषीका “इषीति । ईष्यते । ‘ईष उच्छे’ (भ्वा० प० से०) । ‘ईष गतिहिंसादानेषु’ (भ्वा० आ० से०) वा० । ‘ईषेः किद्ध्रस्वश्च’ (उ० ४.२१) इतीकन् धातोर्हस्वश्च । (ह्रस्वादिदीर्घमध्या) । ईषा लाङ्गलकीलिका । सेव । ‘इवे प्रति-’ (५.३.९६) इति कनि (ह्रस्वमध्या-ईषिका), दीर्घादिरपि ॥ अक्षिकूटकं चक्षुर्गोलकम् ॥”
इषुः “ईष्यतेऽनेन । ‘ईष गतिहिंसादर्शनेषु’ (भ्वा० आ० से०) । ‘ईषेः किच्च’ (उ० १.१३) इत्युः, आदेरिच्च ॥”
इषुधिः इषवो धीयन्तेऽत्र । ‘डुधाञ्’ (जु० उ० अ०) । कर्मण्यधिकरणे च (३.३.९३) इति किः ॥
इष्टकापथम् “इष्टं कापथमस्य । अधोवायुकरत्वात् । यद्वा इष्टकेव दृढः पन्था यस्य । इष्टकायामपि पन्था यस्य, इति वा ॥”
इष्टगन्धः इष्टो गन्धोऽस्य । ‘इष्टगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु वालुके’ ।
इष्टम् अथेति । क्रतुश्च यज्ञः कर्म च दानादि तदिष्टशब्दवाच्यम् । यजनम् । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘इष्टं यागे च दाने च वाञ्छितेऽपि प्रयुज्यते’ इत्यजयः । ‘एकाग्निकर्म हवनं त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते । इति मनुः । ‘इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि’ (इति मेदिनी) ॥
इष्टम् एषणम् । ‘इषु इच्छायाम्’ (तु० प० से०) । क्तः (३.३.११४) । ‘इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि’ इति विश्वः (मेदिनी) ॥
इष्वासः इषवो बाणा अस्यन्तेऽनेन । ‘हलश्च’ (३.३.२२१) इति घञ् । ‘इष्वासो धन्वधन्विनोः’ इति हैमः ॥
ईक्षणम् ईक्ष्यतेऽनेन । ‘ईक्ष दर्शने’ (भ्वा० आ० से०) । ल्युट् (३.३.११७) । ‘ईक्षणं दर्शने दृशि’ (इति मेदिनी) ॥
ईक्षणिकः शुभाशुभयोरीक्षणमस्त्यस्याः । ठन् (५.२.११५) ॥
ईरवारुः “ईर्वेति । ईरणं ईर गतौ’ (अ० आ० से०) । सम्पदादिः (वा० ३.३.१०८) । ईरं वृणोति, वारयति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । बाहुलकादुण् । ‘तुर्यस्वरादिर् ‘ईर्वारुः कर्कट्यां पठ्यते बुधैः ॥ ह्रस्वादिरपि । ‘उन्मत्तो (?) धुस्तुर ‘इर्वारुः कर्कटिः स्यात्’ इति पुंस्काण्डे रत्नकोषात् ॥ ‘एवरुः’ इति पाठे आङ् बोध्यः ॥ (‘उर्वारुकमिव बन्धनात् इति श्रुतेः पृषोदरादित्वेनादेरुत्वे ‘उर्वारुः’ इति च) ॥”
ईर्म ईरयति सुखम् । ‘ईर गतिप्रेरणयोः’ (अ० आ० से०) । बाहुलकान्मन् ॥
ईर्ष्या ईर्ष्यणम् । ईर्ष्य ईर्ष्यायाम् (भ्वा० प० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः ।
ईली स्येति । ईर्ते । ईर्यते वा । ‘ईर गतौ’ (अ० आ० से०) । ‘इगुपधात् कित्’ (उ० ४.१२९) इति इन् । ‘कृदिकारात्’ (ग० ४.१.४५) इति ङीष् वा । कपिलिकादिः (वा० ८.२.१८) ईड्यते वा । ‘ईड स्तुतौ’ (अ० आ० से०) डलयोरेकत्वम् ।- ‘इगुपधात्किः’-इतिं मुकुटस्त्वपाणिनीयः । ‘इगुपधात् कित्’ इति सूत्रपाठात् । तत्रेनोऽनुवर्तनात् । (‘इलि’ इति) ह्रस्वादिपाठे तु ‘इल’ गतौ क्षेपे च’ (तु० प० चु० से०) इति धातुर्बोध्यः ॥
ईशः ईष्टे । ईश ऐश्वर्य’ (अ० आ० से०) । इगुपधत्वात् कः । (३.१.१३५) (‘ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके’) |
ईशः ईष्टे । ईश ऐश्वर्य’ (अ० आ० से०) । इगुपधत्वात् कः । (३.१.१३५) (‘ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके’) |
ईशा “ईति । ईष्टे ‘ईश ऐश्वर्ये’ (अ० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके’ इति तालव्यान्ते रुद्ररभसौ । ‘ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके’ इति शान्ते विश्वः । ईषते । ‘ईष गत्यादौ’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५), उभयत्र करणे ‘गुरोश्च’ (३.३.१०३) इत्यो वा । ‘ईषा पेषी मञ्जूषा’ इति मूर्धन्यान्ते चन्द्रगोमी ॥”
ईशानः ईष्टे । तच्छीलः ताच्छील्य-’ (३.२.१२९) इति चानश् । (‘ईशानं ज्योतिषि क्लीबं पुंलिङ्गः स्यात्त्रिलोचने’) |
ईश्वरः ईशितुं शीलमस्य । ‘स्थेशभास-’(३.२.१७५) इति वरच् । (‘ईश्वरो मन्मथे शम्भौ नाट्ये स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्’) |
ईश्वरा ईष्टे । ‘ईश ऐश्वर्ये’ (अ० आ० से०) । ‘स्थेशभास-’ (३.२.१७५) इति वरच् । टाप् (४.१.४) ॥ वनिपि (३.२.६५) । ‘वनो र च’ (४.१.७) इति ङीब्रौ । अत ‘ईश्वरी’ अपि । यद्वा अश्नुते । ‘अशूङ् व्याप्तौ (स्वा॰ आ० से०) ‘अश्नोतेराशुकर्मणि वरट् ई चोपधायाः (उ० ५.५७) टित्त्वात् ।
ईषत्
- ईषणम् । ‘ईष गत्यादौ’ (भ्वा० प० से०) । अत् प्रत्ययः ॥
ईहा ‘ईह चेष्टायाम्’ (भ्वा० आ० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः । (‘ईहोद्यमवाञ्छयोः’) ।
ईहामृगः ईहा मृगेष्वस्य । ईहां मृगयते वा । ‘कर्मण्यण्’ (३.२.१) –मृगयति – इति मुकुटश्चिन्त्यः । ‘मृग अन्वेषणे’ इत्यस्यात्मनेपदित्वात् । ईहाप्रधानो मृगो वा । शाकपार्थिवादिः (वा० २.१.७८) । ‘ईहामृगस्तु पुंसि स्यात् कोकरूपकभेदयोः’ (इति मेदिनी) ॥
उ
- अवनम् । ‘उङ् शब्द’ (भ्वा० आ० अ०) । क्विप् (३.२.१७८) । तुग् (६.१.७५) न । डुः (वा० ३.२.१८०) वा ॥
उक्तिः ‘वच परिभाषणे’ (अ० प० अ०) । क्तिन् (३.३.९४) । संप्रासारणम् (६.१.१५)।
उक्षा विति । उक्षति । ‘उक्ष सेचने’ (भ्वा० प० से०) । ‘श्वन्नुक्षन्-’ (उ० १.१५९) इति कनिः ।—बाहुलकात्कनिन् | इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः ॥
उखा ओखति । ‘उख गतौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । (‘उषा’ इति) मूर्धन्यपाठे ‘उष दाहे’ (भ्वा० प० से०) ॥
उख्यम् उख्येति । उखायां संस्कृतम् । यत् (४.२.१७) ॥
उग्दातृः उद् गायति साम । ‘गै शब्दे’ (वा० प० अ०) । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) ॥
उग्रः उच्यति क्रुधा संवध्यते - उग्रः । ‘उच समवाये (दि० प० से०) । ‘ऋज्र-’ (उ० २.२८) इत्यादिना रन् गश्चान्तादेशः । (‘उग्रः क्षत्रियतः शूद्रयां सूनावुत्कटरुद्रयोः । उग्रा वचाछिक्किकयोः’) ।
उग्रः
- श्विति । शूद्रा च क्षत्रियश्च । तयोः सुतः । उच्यति । ‘उच समवाये’ (दि० प० से०) । ऋज्रेन्द्र- (उ० २.२८) इति निपातनात्साधुः । ‘उग्रः शूद्रासुते क्षत्त्राद्रुद्रे पुंसि त्रिषूत्कटे । स्त्री वचाक्षुतयोः’ (इति मेदिनी ) ॥
उग्रगन्धा उग्रो गन्धोऽस्याः । ‘उग्रगन्धाजमोदायां वचायां छिक्किकौषधौ’ (इति मेदिनी) ॥
उग्रगन्धा उग्रो गन्धोऽस्याः । ‘उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ’ इति हैमः ॥
उग्रम् “‘उच समवाये’ (दि० प० से०) । ‘ऋजेन्द्र (उ० २.२८) इति रन् । ‘उग्रः शूद्रासुते क्षत्राद्रुदे पुंसि, त्रिषूत्कटे । स्त्री वचाक्षुदयोः ।”
उच्चटा उच्चटति । ‘चट गतौ’(भ्वा० प० से०) । अन्तर्भावितण्यर्थः । अच् (३.१.१३४) ॥
उच्चारः उच्चेति । उच्चार्यते त्यज्यते । ‘चर गतौ’ (भ्वा० प० से०) । ण्यन्तः । घञ् (३.३.१९) अच् (३.३.५६) वा ॥
उच्चैः
- उच्चीयते । ‘उदि चेर्डैसिः’ (उ० ५.१२) ॥
उच्चैर्घुष्टम् उच्चैर्घुष्यते स्म । ‘घुषिर् शब्दे’ (चु० उ० से०) । क्तः (३.२.१०२) । घुषिरविशब्दने (७.२.२३) इतीण्निषेधः । विशब्दनं स्वाभिप्रायप्रकाशनम् । तच्च प्रकृते नाभिप्रेतम् ॥
उच्चैश्रवाः (हय इति) । उच्चैः श्रवसी यस्य । उच्चैः शृणोतीति वा । असुन् (उ० ४.१८९) । उच्चैर्महच् श्रवो यशो यस्येति वा ।।
उच्छ्रयः श्रिञो बाहुलकात् ‘एरच्’ (३.३.५६) अपि ॥ त्रीणि वृक्षादिदैर्घ्यस्य ।
उच्छ्रायः ‘आरोहो दैर्घ्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि’ इति हैमः ॥ आदिना गिरिदेवालयादिग्रहः ॥ उच्छ्रयणम् । ‘श्रिञ् सेवायाम् (भ्वा० उ० से०) । ‘उदिश्रयति-’ (३.३.४९) इति घञ् ।
उज्जासनम् ‘जसु हिंसायाम्’ (दि० प० से०) । स्वार्थण्यन्तः ॥
उज्ज्वलः उच्चैज्वलति प्रकाशते । अच् (३.१.१३४) । न तु ज्वलति-’ (३.१.१४०) इति णः । तत्र ‘अनुपसर्गात् इत्यनुवृत्तेः । ’उज्ज्वलस्तु विकासिनी । शृङ्गारे विशदे दीप्तेऽपि इति हैमः ।
उञ्छः विति । उञ्छनम् । ‘उच्छि उञ्छे’ (तु० प० से०) । घञ् (३.३.१८) ॥
उटजः उटस्तृणपर्णादिः इति देशीकोशः । उटाज्जायते । ‘पञ्चम्याम्-’ (३.२.९८) इति डः ॥
उडुः “अवतीति-ऊः । क्विप् (३.२.१७८) । ज्वरत्वर-’ (६.४.२०) इत्यूठौ । ‘ह्रस्वो नपुंसके-’ (१.२.४७) इति ह्रस्वः । समासोत्तरम् ‘इको ह्रस्वोऽड्यः-’ इति वा ह्रस्वः । डयतेर्डुः डीङो मितद्रवादित्वात् (वा० ३.२.१८०) डुः । ‘उ च तड्डु च ’ इति विग्रहः । स्त्रियां तु ‘ऊश्चासौ डुश्च’ इति ज्ञेयः । उडुः, उडू, उडवः, इत्यादि धेनुवत् । यद्वा ‘उ संबुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् । उ प्रश्ने च इति हैमः । उ क्रोधं डयते, उना शम्भुना डीयते वा । मितद्रवादिभ्यः (३.२. १८०) इति डुः ।”
उडुपम् “उडुपमिति । उडुनो जलात् पाति । ‘पा रक्षणे’ (अ० प० अ०) । सुपि स्थः’ (३.२.४) इत्यत्र ‘सुपि’ इति योगविभागात्कः । उडूनीव पाति, इति वा । ‘उडुपश्चन्द्रभेलयोः इति धरणिः ॥ (१)”
उड्डीनम् “प्रेति । प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । ‘डीङ् विहायसा गतौ’ (दि० आ० अ०) । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘स्वादय ओदितः’ (दि० गणसूत्रम्) इत्योदित्त्वात् (८.२.४५) निष्ठानत्वम् ॥—प्रडीनं तिर्यग्गमनम् इत्यन्ये ॥ ‘एताः’ इत्यनेन हि डीनाद्या बोध्याः ।”
उत
- (‘उत प्रश्ने वितर्के च उताप्यर्थविकल्पयोः’ इति विश्वः ॥
उताहो “- उत च आहो च, अनयोः समाहारः ॥”
उत्कटम् अन्यत् उत्कटगन्धित्वात् ‘सम्प्रोदश्च कटच् (५.२.२९) ॥
उत्कण्ठा उत्कण्ठेति । ’कठि शोके’ (भ्वा० आ० से०) । उत्कण्ठनम् । ‘गुरोश्च-’(३.३.१०३) इत्यः ।
उत्करः उत्कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ॠदोरप्’ (३.३.५७) ॥
उत्कलिका उत्कलेः ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । क्वुन् (उ० २.३२) वा । (‘उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि’)
उत्क्रोशः उदिति । उत्क्रोशति । ‘क्रुश आह्वाने’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
उत्तप्तम् उत्तेति । उत्तप्यते स्म । ‘तप संतापे’ (भ्वा० प० से०) । क्तः (३.२.१०२) । ‘उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि’ इति हैमः ॥
उत्तमर्णः उत्तेति । उत्तममृणमस्य ॥
उत्तमा उत्कर्षार्थात् ‘उत्’ शब्दात्तमप् (५.३.५५) । द्रव्यप्रकर्षान्नामुः (५.४.११) ॥
उत्तमाङ्गम् उत्तेति । उत्तमं च तदङ्गं च ‘सन्महत्-’ (२.१.६१) इति समासः ॥
उत्तरम् उत्तरणम् । ‘ॠदोरप्’ (३.३.५७) । (‘उत्तरं प्रवर्णौर्द्वयोः उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे’) ॥
उत्तरासङ्गः उत्तरे ऊर्ध्वभागे आसज्यते । ‘षञ्ज सङ्गे’ (भ्वा० प० अ०) । घञ् (३.३.१९) ॥
उत्तरीयम् उत्तरस्मिन्देहभागे भवम् । गहादित्वात् । (४.२.१३८) छः ॥
उत्तानम् उत्तानमिति । उद्गतस्तानो विस्तारोऽस्मात् ॥ (१) तस्य गम्भीरस्य विपर्यये । ‘उत्तानमगभीरे स्यादूर्ध्वास्यशयिते त्रिषु’ (१) एकम् उत्तारस्य ।
उत्तानशया स्यादिति । उत्ताना शेते । ‘उत्तानादिषु कर्तृषु’ (वा० ३.२.१५) इत्यच् ॥
उत्पत्तिः उत्पदनम् । ‘पद गतौ’ (दि० आ० अ०) । क्तिन् (३.३.९४) । उद्भवनम् । ‘ॠदोरप्’ (३.३.५७) ।
उत्पलम् स्यादिति । उत्पलति । ‘पल गतौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) ॥
उत्पलम् उत्पलति । ‘पल गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘उत्पला तुषपर्पट्यां क्लीबं कुष्ठप्रसूनयोः’ (इति मेदिनी) ॥
उत्पलशारिवा उत्पलमस्त्यस्याः । उत्पलाकारपुष्पत्वात् । अर्शआद्यच् (५.२.१२७) । यद्वा उद्यतं पलमनया । उत्पला चासौ शारिवा च ॥
उत्पातः उत्पतनम् । ‘पत्लृ गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) । उत्पतति । ज्वलादिः (३.१.१४०) वा ॥
उत्फुल्लः उत्फुल्लसंफुल्लयोरुपसंख्यानम्’ (वा० ८.२.५५) । ‘उत्फुल्लं करणे स्त्रीणामुत्ताने च विकस्वरे’॥
उत्सः उत्स इति । उनत्ति जलेन । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘उन्दिगुधिकुषिध्यश्च’ (उ० ३.६८) इति सः । कित्’ इत्यनुवृत्तेर्नलोपः । ‘उन्दति’ इति मुकुटेन कृतं विग्रहप्रदर्शनं प्रामादिकम् । उन्दे रौधादिकत्वात् ॥
उत्सर्जनम् सृजेः (तु० प० अ०) च ल्युट् (३.३.११५) ॥
उत्सवः उद्धुनोति । दुःखम् । ‘धूञ् कम्पने’ (स्वा० उ० अ०) । अच् (३.१.१३४) । ‘उद्धवो यादवभिदि महे च क्रतुपावके ।
उत्सादनम् उत्साद्यतेऽनेन । ‘षद्लृ विशरणादौ’ (तु० प० अ०) । ण्यन्तः । ल्युट् (३.३.११७) । ‘उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च’ इति हैममेदिन्यौ ॥
उत्साहः उत्साह इति । उत्सहनम् । ‘षह मर्षणे’ (भ्वा० आ० से०) । घञ् (३.३.१८) ‘उत्साहस्तूद्यमे सूत्रे ॥
उत्साहवर्धनः उत्साहेति । उत्साहेन वर्धते । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । युच् (३.२.१४९) । उत्साहं वर्धयतीति वा । ल्युः (३.१.१३३)
उत्सेधः उत्सेधनम् । ‘षिध गत्याम्’ (भ्वा० प० से०) । ‘भावे (३.३.१८) इति घञ् । ‘उत्सेधस्तूच्छ्रये न स्त्री क्लीबं संनहनेऽपि च ॥
उदकम् उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘उदकम्’ (उ० २.३९) इत्युणादिसूत्रेण साधु । यत्तु उन्दति इति विगृहीतवन्तौ स्वामिमुकुटौ । तच्चिन्त्यम् । उन्देरौधादिकत्वात् ॥
उदक्या उदकमर्हति । ‘संज्ञायाम्’ (4.3.54) इति यत् ॥
उदधिः उदकानि धीयन्तेऽत्र । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः । ‘पेषंवासवाहनधिषु च’ (६.३.५८) इत्युदः । ‘उदक स्य-’ (६.३.५७) इति वा ॥
उदन्तः उद्गतोऽन्तो यस्य । ‘उदन्तः साधुवार्तयोः ।
उदन्या उदेति । उदकस्येच्छा । अशनायावत् ॥
उदन्वान् उदकानि सन्त्यत्र ‘उदन्वानुदधौ च’ (८.२.१३) इति मत्वन्तो निपातितः ॥
उदपानम् उदकं पिबन्त्यस्मिन् । अधिकरणे ल्युट् (३.३.११७) । ‘उदकस्योदः-’ (६.३.५७) ॥
उदयः उदय इति । उद्यन्ति ग्रहा अस्मात् । ‘इण् गतौ’ (अ० प० अ०) । ‘एरच्’ (३.३.५६) । उदयः पर्वतोन्नत्योः’ इति हैमः ।
उदरम् “उदृणाति । ‘ऋ गतौ’ (क्र्या० प० से०) । अच् । (३.१.१३४) । यद्वा उदृच्छति, उदियर्ति, वा । ‘ऋ गतौ (भ्वा०, जु० प० अ०) । अच् (३.१.१३४) । यद्वा उद् दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च’ (उ० ५.१९) । ‘उदरं तुन्दरणयोः’ इति हैमः ॥”
उदर्कः विति । उदर्क्यते । ‘अर्क स्तवने’ (चु० प० से०) । घञ् (३.३.१९) । उदर्च्यते । ‘अर्च पूजायाम्’ (भ्वा० प० से०) वा । उदृच्यते । ‘ऋच् स्तुतौ’ (तु० प० से०) वा । घञ् (३.३.१९) । ‘उदर्क एष्यत्कालीनफले मदनकण्टके’ (इति मेदिनी) ॥
उदवासितम् उत् ऊर्ध्वम् अवसीयते स्म । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘षिञ् बन्धने’ (स्वा० उ० अ०) वा । क्तः (३.२.१०२) । ‘द्यतस्यति-’ (७.४.४०) इतीत्वम् । ‘अवसितमृद्धे ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं स्यात् ।
उदश्वित् उदकेन श्वयति वर्धते । ‘टु ओ श्वि गतिवृद्ध्योः’ (भ्वा० प० से०) । क्विप् (३.२.७६) । तुक् (६. १.७१) । ‘उदकस्योदः संज्ञायाम्’ (६.३.५७) । ‘उदश्वितः-’ (४.२.१९) इति निर्देशादसम्प्रसारणम् ॥
उदानः “प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् डः (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र ‘हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु’ । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । ‘उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते’) । प्रत्येकं देहस्थपञ्चवायूनाम् ।”
उदासीनः विति । अतिशयितः परः परतरः । उदास्ते । ‘आस उपवेशने’ (अ० आ० से०) । लटः शानच् (३.२.१२४) । ‘ईदासः’ (७.२.८३) इति ईत्वम् ॥
उदाहारः उप समीपे उद्धननं ज्ञापनम् । भावे घञ् (३.३.१८) ॥
उदीची पूर्वदक्षिणेत्यत्र ‘सर्वनाम्नो वृतिमात्रे पुंवद्भावः’ (वा० ५.३.२८) । उद् ऊर्ध्वं तरन्त्यत्र । ‘तॄ प्लवनसंतरणयोः (भ्वा० प० से०) । ॠदोरप्’ (३.३.५७) (‘उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च’) ॥ उत् उत्तरमञ्चत्यर्कम् । उत्क्रान्तं दृष्टिपथमञ्चति सूर्यं वा । अस्यामिति तु न युक्तम् । उद ईत्’ (६।४।१३९) इत्यञ्चतेरत ईकारः ।
उदीच्यः उदीच्य इति । तत एवावधेः । पश्चिमेन सहित उत्तरो देशः । उदीच्यां भवः । ‘द्युप्राग्-’ (४.२.१०१) इति यत् । (१) । एकम् उदीच्यदेशस्य ।
उदीच्यम् उदीचि जातम् । ‘द्युप्रागपा-’ (४.२.१०१) इति यत् ॥
उदुम्बरः उद्विति । उल्लङ्घितमम्बरमनेन । उदतिशयेनाम्बते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । बाहुलकादरन् । पृषोदरादिः (६.३.१०९) । ‘उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रेऽपि स्यान्नपुंसकम्’ इति मेदिनी । मुकुटस्तु मेदिनीसंमत्या टवर्गतृतीयमध्यमप्याह । तन्न । तत्र मध्यवर्णनियमाभावात् । आद्यन्तयोरेव नियमात् ॥
उदुम्बरपर्णी उदुम्बरस्येव पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
उदुम्बरम् उं शम्भुं वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘संज्ञायां भृतॄवृजि-’ (३.२.४६) इति खच् । ‘अरुर्द्विषत्-’ (६.३.६७) इति मुम् । उत्कृष्टमुंवरम् । प्रादिसमासः (वा० २.२.१८) । ‘उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताम्रे तु स्यान्नपुंसकम्’ (इति मेदिनी) । प्रज्ञाद्यणि (५.४.३८) तु । ‘औदुंबरं भवेत्ताम्रे फलादौ यज्ञशाखिनः’ इत्यजयः ॥
उदूखलम् उद्विति । ऊर्ध्वं च तत् खं च । ऊर्ध्वखं लाति । ‘आतोऽनुप-’ (३.२.४) इति कः । पृषोदरादिः (६.३.१०९) । ‘उदूखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः’ (इति मेदिनी) ॥
उद्गमनीयम् तदिति । धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगम् । उद्गम्यतेऽभिलष्यते । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । अनीयर् (३.१.९६) ॥ ‘युगम्’ इत्यविवक्षितम् ।
उद्गाढम् उद्गाहते स्म । ‘गाहू विलोडने (भ्वा० आ० से०) । क्तः (३.४.७२)
उद्घाटनम् “- उद्घेति । उद्घ्ट्यते, अनेन वा । ‘घट सङ्घाते’ (भ्वा० उ० से०) । ण्यन्तः । ल्युट् (३.३.११३, ११७) ॥”
उद्दानम् सेति । उत्पूर्वाद् द्यतेर्भावे ल्युट् (३.३.११५) ॥
उद्दालः उद्दालयति । ‘दल विशरणे’ (भ्वा० प० से०) । णिच् (३.१.२६) । अच् (३.१.१३४) ॥
उद्द्रावः उद्द्रवणम् । ‘उदि श्रयति-’ (३.३.४९) इत्यादिना घञ् ॥
उद्धः “उद्धशब्दस्तु ‘संघोद्धौ गणप्रशंसयोः’ (३.३.८६) इति निपातितः । उत्पूर्वाद्धन्तेरप्, टिलोपः घत्वं च निपात्यते । ‘उद्धो हस्तपुटे वह्नौ श्लाघायां देहजागिले’ इति हैमः ।”
उद्धर्षः उद्धर्षयति । ‘हृषु अलीके’ (भ्वा० प० से०) । णिजन्तः । अच् (३.१.१३४) । उद्गतो हर्षोऽत्रेति वा ।
उद्धवः उद्धुनोति । दुःखम् । ‘धूञ् कम्पने’ (स्वा० उ० अ०) । अच् (३.१.१३४) । ‘उद्धवो यादवभिदि महे च क्रतुपावके ।
उद्धानम् उद् धीयतेऽत्र । ‘धाञः’ (जु० उ० अ०) । ल्युट् (३.३.११७) । ‘उद्धानमुद्गते वाच्यलिङ्गं चुल्ल्यां नपुंसकम्’ इति विश्वः (मेदिनी) । ‘उद्ध्मानम्’ इति पाठे तु—उद्ध्मायतेऽत्र । ‘ध्मा शब्दादौ’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) ॥
उद्धारः उद्ध्रियते । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । ‘धृञ् धारणे’ (भ्वा० उ० अ०) वा । कर्मणि घञ् (३.३.१९) । ‘उद्धारश्चोद्धृतावृणे’ इति मेदिनी ॥
उद्भवः उद्भवनम् । ‘ॠदोरप्’ (३.३.५७) ।
उद्यानम् उद्यान्त्यत्र । ‘या प्रापणे’(अ० प० अ०) । अधिकरणे ल्युट् (३.३.११७) । ‘उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने’ । द्वे राज्ञः सर्वोपभोग्यवनस्य ।
उद्रः उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘स्फायि- (उ० २.१३) इति रक् ।
उद्वर्तनम् उद्वेति । उद्वर्त्यतेऽनेन । ‘वृतु वर्तने’ (भ्वा० आ० से०) ण्यन्तः । ल्युट् (३.३.११७) ॥
उद्वान्तः सेति । उद्गतं वान्तं मदवमनमस्मात् । ‘उद्वान्त उद्गीर्णे निर्मदद्विपे’ इति हैमः ॥
उद्वासनम् उत् पूर्वः ॥
उद्वाहः उद्वाहः
उद्वेगः अस्येति । अस्य पूगस्य । उद्गतो वेगोऽस्मात् । स्रंसकत्वात् । उद्विजन्तेऽनेन । ‘ओविजी’ (तु० आ० से०) । ‘हलश्च (३.३.१२१) इति घञ् ॥
उन्दुरुः उन्द्विति । उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । बाहुलकादुरुः । ‘कन्दरुन्दुरुरुन्दुरः’ इति शब्दार्णवः ॥
उन्मत्तः उन्मत्त इति । उन्मत्तयति । ‘तत्करोति-’ (वा० ३.१.२६) इति णिच् । पचाद्यच् (३.१.१३४) । ‘उन्मत्त उन्मादवति धूस्तूरमुचुन्दयोः’ (इति मेदिनी) ॥
उन्मत्तः उन्मेति । उन्माद्यति स्म । ‘मदी हर्षे’ (दि० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘न ध्याख्या-’ (८.२.५७) इति नत्वं न । ‘उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः’ इति हैमः ॥
उन्माथः
- विति । उन्मथ्यतेऽनेन । ‘मथे विलोडने’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उन्माथः कूटयन्त्रे स्यान्मारणे । घातके पुमान्’ (इति मेदिनी) ॥
उन्माथः उन्मथनम् । ‘मथे हिंसायाम्’ (भ्वा० प० से०) । घञ् (३.३.१८) । मन्थतेर्घञ्-इति मुकुटः । तन्मते ‘उन्मन्थः’ इति पाठः॥
उन्मादः उन्माद इति । उन्मदनम् मदी हर्षे’ (दि० प० से०) । घञ् (३.३.१८) ।
उन्मादवत् उन्मदनम् । घञ् (३.३.१८) । उन्मादोऽस्यास्ति । मतुप् (५.२.९४) ॥
उपकारिका उपकरोति । ण्वुल् (३.१.१३३) । (‘उपकारिकोपकर्त्र्यां पिष्टभेदे नृपालये’) ॥ ‘उपकार्युपकारिका’ इति द्विरूपकोशदर्शनादुपकार्यपि । तत्र उपकारयति पचाद्यचि (३.१.१३४) गौरादि (४.१.४१) ङीष् । यत्तु उप अधिकं करोतीति विगृह्य ‘कर्मण्यण्’ (३.२.१) इत्युक्तं मुकुटेन । तन्न । निपातानामसत्वार्थकत्वेन कारकत्वायोगात् ॥
उपकार्या उपेति । उपक्रियते । कर्मणि ‘ऋहलोर्ण्यत्’ (३.१.१२४) । (‘उपकार्या राजसद्मन्युपकारोचितेऽन्यवत्’) ॥
उपकुञ्चिका अथेति । उपकुञ्चति । ‘कुञ्च कौटिल्याल्पीभावयोः’ (भ्वा० प० स०) । ण्वुल् (३.१.१३३) ॥
उपकुञ्चिका उपकुञ्चति । ‘कुञ्च कौटिल्ये’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) ॥
उपकुल्या “उपकोलति । ‘कुल संस्त्याने बन्धुषु च (भ्व० प० से०) । अघ्न्यादिः (उ० ४.११२) ॥ उपगताकुल्याम्, इति वा ॥”
उपक्रमः ज्ञेति । उप प्रथमं क्रमणम् । ‘क्रमु पादविक्षेपे (भ्वा० प० से०) । भावे घञ् (३.३.१८) । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘उपक्रमस्तूपधायां ज्ञात्वारम्भे च विक्रमे । चिकित्सायाम्’ (इति मेदिनी)
उपक्रोशः ‘कृश आह्वाने’ (भ्वा० प० से०) । घञ् (३.३.१८) ।
उपग्रहः ‘उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने’ (इति मेदिनी) ॥
उपग्राह्यम् उपगृह्यते । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । ण्यत् (३.१.१२४) ॥
उपचाय्यः य इति । दक्षिणाग्नित्वेन संस्क्रियते । आनीयते आनाय्योऽनित्ये’ (३.१.१२७) इति साधुः । यस्तु भ्राष्ट्रवैश्यकुलयोनिः स ‘आनेयः ।
उपचित्रा उपगता चित्रम् ॥
उपजापः उपांशु उपनम् ‘जप व्यक्तायां वाचि’ । ‘जप मानसे च’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
उपज्ञा उपेति । उपज्ञानम् । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥ यथोपदेशं विना श्लोकनिर्माणे वाल्मीकेर्ज्ञानम् ॥
उपतापः उपतापयति । ‘तप दाहे’ चुरादिः । अच् (३.१.१३५) । उपतपनं वा । ‘तप संतापे’ (भ्वा० प० अ०) । घञ् (३.३.१८) । ‘उपतापो गदे तापे’ इति हैमः ॥
उपत्यका उपेति । उप आसन्ना । अधि आरूढा । ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः (५.२.३४) इति त्यकन् ।
उपदा उपदीयते । ‘डुदाञ् दाने’ (जु० उ० से०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
उपधा उपेति । उपधीयते शुद्धिज्ञानमत्र । ‘डुधाञ्’ (जु० उ० अ०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
उपधानम् उपेति । उपधीयते शिरोऽत्र । ‘डुधाञ्’ (जु० उ० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
उपधिः उपधीयते आरोप्यतेऽनेन । उपसर्गे घोः किः’ (३.३.९२) । ‘उपधिर्व्याजचक्रयोः ।
उपनाहः उपनाह इति । उपनह्यतेऽनेनास्मिन् वा । ‘णह बन्धने’ (दि० उ० अ०) । हलश्च’ (३.३.१२१) इति घञ् । ‘उपनाहो व्रणालेपपिण्डे वीणानिबन्धने’ ।
उपनिधिः प्विति । उपनिधीयते । ‘डुधाञ्’ (जु० उ० अ०) । ‘उपसर्गे घोः किः’ (३.३.९२) ॥
उपनिष्करम् तदिति । तत् संसरणम् । पुरस्य चेद्भवति तदा । उपनिष्किरन्ति निस्सरन्ति सैन्यान्यत्र । कृ विक्षेपे’ (तु० प०. से०) । ‘ॠदोरप्’ (३.३.५७) इति मुकुटः । तन्न । अपो बाधकस्य ल्युटोऽपि ‘पुंसि’ (३.३.११८) इति घस्यापवादत्वात् । यद्वा उपनिःकीर्यते सैन्यैर्हन्यते । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) । ‘कर्मण्यण्’ (३.३.५७) । इदुदुपधस्य- (८.३.४१) इति षः । (१) एकम् पुरमार्गस्य ।
उपन्यासः उपन्यसनम् । ‘असु क्षेपणे’ (दि० प० से०) । घञ् (३.३.१८) ॥ (१) वाचो मुखमिव मुखमुपक्रमः ॥
उपपतिः उपमितः पत्या । ‘अवादयः क्रुष्टाद्यर्थे तृतीयया’ (वा० २.२.१८) इति समासः । उपसृष्टा पतिरनेन वा । ‘प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च’ (वा० २.२.२४) इति समासः ॥
उपबर्हः उपवृह्यतेऽत्र । अनेन वा । ‘वृह वृद्धौ’ (भ्वा० प० से०) । ‘वृहू उद्यमने’ (तु० प० से०) वा । घञ् (३.३.१९) ॥
उपभृत् उपबिभर्ति । ’डु भुञ्’ (जु० उ० अ०) । क्विप् (३.२.७६) ॥
उपमा
- उपेति । उपमातेर्भावेऽङ् (३.३.१०६ ) ॥
उपमा
- उपमा ।
उपमानम्
- ल्युट् (३.३.११५) । करणे (३.३.११७) वा ॥
उपयमः उपयमनम् । ‘यमः समुपनिविषु च’ (३.३.६३) इत्यप् ॥ चाद् घञ् ॥
उपयामः उपयामः
उपरक्तः उपरज्यते स्म । कर्मणि क्तः (३.२.१०२) ‘उपरक्तो व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः ।
उपरक्षणम् उपरक्ष्यते अनेन । ल्युट् (३.३.११७) ॥
उपरागः उपराग इति । उपरज्यतेऽनेना । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘हलश्च’ (३.३.१३१) इति घञ् । घञि च भावकरणयोः (६.४.२७) इति नलोपः भावे वा घञ् । (३.३.१८) । (उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ।
उपलः उप लाति । ‘ला दाने’ (अ० प० अ०) । ‘आतश्चोप-’ (३.१.१३६) इति कः । यद्वा पलति । ‘पल गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । ओः शम्भोः पलो बोधकः । ‘उपलो ग्रावरत्नयोः । उपला तु शर्करायाम् इति हैमः ॥
उपलब्धिः उपलम्भनम् । उपलभ्यतेऽनया वा । ‘डुलभष् प्राप्तौ’ (वा० आ० अ०) । षित्वात् (३.३.१०४) अङि प्राप्ते आबादित्वात् (वा० ३.३.९४) बाहुलकाद्वा क्तिन् । (उपलब्धिर्मतौ प्राप्तौ’)
उपवनम् उपगतं वनम् । ‘प्रादयो गताद्यर्थे’ (वा २.२.१८) इति समासः ।
उपवर्तनम् उपवर्तन्तेऽत्र । ल्युट् (३.३.११४) इति मुकुटः । तन्न । घञो ल्युडपवादत्वात् । अतः-‘अन्यत्रापि’ (उ० २.७८) इति युच् ॥ त्रिष्विति । गोष्ठशब्दमभिव्याप्य ।
उपवासः उपवसनम् । ‘वस निवासे’ (भ्वा० प० अ०) । घञ् (३.३.१८)। भावे क्ते (३.३.११४) ‘उपोषितम्’ । उपोषणं तु ‘उष दाहे’ (भ्वा० प० से०) इत्यस्य॥
उपविषा विषमुपगता ॥
उपवीतम् उपवीयते स्म । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । ‘अजेर्व्यघञपोः’ (२.४.५६) । ‘वी गत्यादिषु’ (अ० प० अ०) वा । क्तः (३.२.१०२) । यद्वा उपाजति स्म । उपवेति स्म वा । ‘गत्यर्था-’ (३.४.७२) इति क्तः॥
उपशल्यम् शल्यमुपगतः । प्रादिसमासः (वा० २.२.१८) ॥ ग्रामग्रहणं चोपलक्षणम् । अत एव उपकण्ठोपशल्ये द्वे’ इति त्रिकाण्डशेषः ॥
उपसंव्यानम् उपसंवीयतेऽनेन । ‘व्येञ् संवरणे’ (भ्वा० उ० से०) । ल्युट् (३.३.११७) ॥
उपसम्पन्नः उपसंपद्यते स्म । पद गतौ’ (दि० आ० अ०) । कर्तरि (३.४.७२) कर्मणि (३.२.१०२) वा क्तः । ‘उप सम्पन्नमुद्दिष्टं निहते च सुसंस्कृते’ इति विश्वमेदिन्यौ ॥
उपसम्पन्नम् उपसम्पद्यते स्म । ‘पद गतौ’ (दि० आ० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘उपसंपन्नमुद्दिष्टं निहते च सुसंस्कृते’ इति विश्वः (मेदिनी) ॥
उपसर्गः “उपसर्जनम् । उपसृज्यते वा घञ् (३.३.१८,१९) । ‘उपसर्गः पुमान् रोग भेदोपप्लवयोरपि’ इति मेदिनी ॥”
उपसूर्यकः उपगत सूर्यमुपसूर्यम् । प्रादिसमासः (२.२.१८) । ततः स्वार्थे कन् (५.३.९७) ।।
उपस्करः “उपस्करोति व्यञ्जनेन समवैति । कृञः (तु० उ० अ०) । अच् (३.१.१३४) । ‘समवाये च’ (६.१.१३८) (इति सुट्) ॥ -हिङ्गुजीरकहरिद्राधान्याकशुण्ठीसर्षपादेः-मुकुटः । ‘चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् । धान्याकं रजनीश्वेततण्डुलाश्च समांशकाः । वेसवार इति ख्यातः शाकादिषु नियोजयेत्’ इत्यात्रेयसंहिता । विंशतिः पलानि हरिद्रायाः, दश पलानि धान्याकस्य, पञ्च पलानि शुद्धजीरकस्य, पलसार्धद्वयं मेथिकायाः, । एतच्चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पलानि मरीचस्य, अर्धपलं रामठस्य, । एतत्सर्वमेकत्र संयोज्य सम्मर्दितं ‘वेसवार’ इत्युच्यते-इत्यन्ये ॥”
उपस्थः उपेति । भगशिश्नयोः । उपतिष्ठते । ‘सुपि-’ (३.२.४) इति कः । अर्धर्चादिः (२.४.३१) । ‘उपस्थः शेफसि क्रोडे तथा मदनमन्दिरे’ इति विश्वमेदिन्यौ ॥
उपस्पर्शः उपेति । उपस्पर्शनम् । ‘स्पृश संस्पर्शे’ (तु० प० अ०) । घञ् (३.३.१८) । यद्वा उपस्पृश्यन्ते वारीण्यत्र’। ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि’ (इति मेदिनी) ॥
उपहारः उपह्रियते । घञ् (३.३.१९) ॥
उपांशुः उपगता अंशवः किरणा अत्र । ‘उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम्’ (इति विश्वहैममे- दिन्यः) ॥
उपाकरणम् समिति । संस्कार उपनयनं पूर्वं यत्र तत् । श्रुतेर्ग्रहणम् । उपाक्रियतेऽनेन । ल्युट् ॥
उपाकृतः उपेति । उपाक्रियते स्म । ‘कृञ् हिंसायाम् (स्वा० उ० अ०) । क्तः (३.२.१०२) । ‘कूपाकृतोऽध्वरहते पशौ नोपद्रुते त्रिषु’ इति विश्वमेदिन्यौ ॥ अभितो मन्त्रयित्वा । ‘मत्रि गुप्तभाषणे’ (चु० प० से०) । क्त्वा (३.४.२१) । ल्यप् (७.१.३७) । हतो हन्तुमारब्धः ।
उपात्ययः उपगतस्यातिक्रम्यायनम् । ‘एरच्’ (३.३.५६) ॥
उपाधिः उपाधिरिति । समीप आधेः । उपपन्न आधिर्वा । ‘उपाधिस्तु धर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मनि’ इति हैमः ।
उपाध्यायः उपेति । उपेत्याधीयतेऽस्मात् । ’इङश्च (३.३.२१) इति घञ् ॥
उपाध्याया “उपेति । उपेत्याधीयतेऽस्याः । ‘इङश्च’ (३.३.२१) इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ इति (वार्तिकेन) घञ्, ॥”
उपाध्यायानी उपेति । उपाध्यायस्य स्त्री । ‘मातुलोपाध्याय-’ (वा० ४.१.४९) ङीषानुकौ ॥
उपाध्यायी “उपेति । उपेत्याधीयतेऽस्याः । ‘इङश्च’ (३.३.२१) इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ इति (वार्तिकेन) घञ्, ॥”
उपाध्यायी उपेति । उपाध्यायस्य स्त्री । ‘मातुलोपाध्याय-’ (वा० ४.१.४९) ङीषानुकौ ॥
उपानह् “- पादम् उपनह्यते, पादमुपनह्यति वा । ‘णह बन्धने’ (दि० उ० अ०) । सम्पदादित्वात् (वा० ३.३.१०८) ‘क्विप् च’ (३.२.७६) इति वा क्विप् । ‘नहिवृति-’ (६.३.११६) इति दीर्घः ॥”
उपायनम् उपेति । उपेयते । ‘इण् गतौ (अ० प० अ०) । उपाय्यते । ‘अय गतौ’ (भ्वा० आ० से०) वा । कर्मणि ल्युट् (३.३.११३) ॥
उपावृत्तः त्रीति । उपावर्तते स्म । ‘वृतु वर्तने’ (भ्वा० आ० से०) । अकर्मकत्वात् (३.४.७२) क्तः ॥
उपासङ्गः उपासज्यन्तेऽत्र शराः । ‘षञ्ज सङ्गे’ (भ्वा० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥
उपासनम् उपपूर्वः ‘असु क्षेपणे’ (दि० प० सं०) । ‘आस उपवेशने’ (अ० आ० से०) वा । भावे ल्युट् (३.३.११५) । ‘उपासनमासने । शुश्रूषायां शराभ्यासेऽपि’ इति हैमः ॥
उपासना उपासनम् । ‘आस उपवेशने’ (अ० आ० से०) । ‘ण्यास-’ (३.३.१०७) इति युच् ।‘उपासनम्’ इति पाठे ल्युट् (३.३.११५) । ‘उपासनं शराभ्यासेऽप्युपास्तावासनेऽपि च’इति विश्वमेदिन्यौ ॥
उपाहितः उप आसन्नम् आहितं फलं यस्य । ‘उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ।
उपेन्द्रः इन्द्रमुपगतोऽनुजत्वात् उपेन्द्रः । कुगति-’ (२.२.१८) इति समासः । यत्तु उपगत इन्द्रोऽस्य इति । तन्न । कुगति (२.२१८) इत्युपन्यासविरोधात् ॥
उपोदका उपेति । उपाधिकमुदकमस्याम् । ‘-उत्तरपदस्य च’ (वा० ६.३.५७) इत्युदः । कप् (५.४.१५४) । टाप् (४.१.४) ॥ -अपगतोदका । जाङ्गलत्वात् । ‘अपोदका’- इति स्वामी ॥
उपोद्धातः उप समीपे उद्धननं ज्ञापनम् । भावे घञ् (३.३.१८) ॥
उप्तकृष्टम् (पूर्वम्) उप्तं च तत् (पश्चात्) कृष्टं च । ‘पूर्वकाल-’ (२.१.४९) इति समासः ॥
उभयद्युः
- उभयस्मिन्नहनि । ‘घुश्चोभयाद्वक्तव्यः’ (वा० ५.३.२२) इति साधुः ॥
उभयेद्युः
- (‘सद्यः परुत्-’ (५.३.२२) इति निपातितः ॥
उमा ओर्महेशस्य मा लक्ष्मीः । ‘उ मा’ इति मात्रा तपसे निषिद्धत्वाद्वा । आकारान्तादपि टाप् (४.१.४) ‘टायाम् (२.४.३२) इति भाष्यप्रयोगात् । अजादित्वात् (४.१.४) वा । (‘उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीषु च’) ।
उमा “उं शिवं माति, मिमीते, वा । ‘मा’ (अ० प० अ०) । ‘माङ् माने (जु० आ० अ०) । ‘आतोऽनुप-’ (३. २.३) इति कः । अवते, ऊयते, वा । ‘ऊङ् शब्दे’ (भ्वा० आ० अ०) । ‘विभाषा तिलमाषोमा-’ (५.२.४) इति निपातनान्मक् इति वा । ‘उमातसी हैमवतीहरिद्राकीर्तिकान्तिषु’ – (इति मेदिनी) ॥”
उमापतिः उमायाः पतिः ।
उम्यम् उमानाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
उरः “उरविति । इयर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘अर्तेरुच्च’ (उ० ४.१९५) इत्यसुन्, उरादेशः किच्च । ‘उरो वक्षसि मुख्ये स्यात्’ इति हैमः ॥”
उरःसूत्रिका अथेति । सैव ललन्तिका मुक्ताभिः कृताः । उरसः सूत्रमिव । ‘इवे-’ (५.३.९६) इति कन् ॥
उरगः उरसा गच्छति । ‘उरसो लोपश्च’ (वा० ३.२.४८) इति डः ।
उरणः “ऋच्छति, अर्यते, वा । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अर्तेः क्युरुच्च’ (उ० ५.१७) इति क्युन् ॥”
उरणाख्यः उरणस्य मेषस्याख्याऽस्य ॥ उरणस्याक्षीवाक्षि यस्य । तत्तुल्यपुष्पत्वात् । ‘अक्ष्णोऽदर्शनाद्’ (५.४.७६) इत्यच् इति स्वामी ॥
उरश्छदः उरश्छाद्यतेऽनेन । ‘छद अपवारणे’ (चु० उ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः ॥
उरसिलः पिच्छादित्वात् (५.२.१००) इलच् ॥ उरसा बलं लक्ष्यते-इति स्वामी ।
उरस्यः “चाद्यत् ॥ स्वस्माज्जातः, इति कुण्डगोलकादिवारणम् ॥”
उरस्वत् स्येति । प्रशस्तमतिशयितं वा उरो यस्य । विशालत्वात् । मतुप् (५.२.९४) ‘मादुपधा-’ (८.२.९) इति वः । -‘झयः’ (८.२.१०) इति वत्वम् इति तु मुकुटस्य प्रमादः । सस्य झयत्वाभावात् ॥
उरुभ्रः उरु भ्रमति । ‘भ्रमु चलने’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । पृषोदरादिः (१.३.१०९) । यद्वा उना शम्भुना रभ्यते । ‘रभ राभस्ये’ (भ्वा० आ० अ०) । बाहुलकाद्रक् ॥
उरुवूकः “उरुं महान्तं वायुं वायति । ‘ओवै शोषणे’ (भ्वा० प० अ०) । ‘उलूकादयश्च ’ (उणा० ४.४१) इत्यूकः । ‘खपुरः क्रमुको, निचुलो हिज्जल, एरण्ड उरुबूकः’ इति बोपालितः । ‘उरुवूकोरुबुकव्याघ्रदलाश्च’ इति रभसः ॥”
उर्वरा उर्वरेति । ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । यद्वा ईर्यते । ‘ऋ गतौ” (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) । उरूणामरा । यद्वा-उर्व्यते । उर्वी हिंसायाम्’ (भ्वा० प० से०) । ‘खनो घच्’ (३.३.१२५) इति घः । ‘उपधायां च’ (८.२.७८) इति दीर्घस्तु संज्ञापूर्वकत्वान्न । उर्वं राति । कः (३.२.३) । यद्वा सम्पदादि क्विप् (वा० ३.३.१०८) । राल्लोपः (६.४.२१) । उर् चासौ वरा च । उर्षु वरा वा । ऊर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि इति हैमः ॥ सर्वाणि च तानि सस्यानि च । तैराढ्या मृत् । एकम् सस्याढ्यभूमेः ।
उर्वशी उरून्महतोऽश्नुते व्याप्नोति वशीकरोतीति यावत् । ‘कर्मण्यण्’ (३.२.१) । संज्ञापूर्वकस्य विधेरनित्यत्वान्न वृद्धिः । मूलविभुजादित्वात् (वा० ३.२.५) को वा । उरु अश्नातीति वा । मुखशब्देनाद्यर्थेन रम्भामेनका-घृताची-तिलोत्तमादीनां ग्रहणम् ।
उर्वी “ऊर्णोति, ऊर्णूयते वा । ‘ऊर्णुञ् आच्छादने’ (अ० उ० से०) । ‘महति हस्वश्च’ (उ० १.३१) इत्युः, नुलोपः हस्वः च । ‘वोतो गुणवचनात्’ (४.१.४४) इति ङीष् ॥/p>”
उलपः वलति । वल संवरणे (भ्वा० आ० से०) । ‘विटपविष्टपविशिपोलपाः’ (उ० ३.१४५) इति ‘वले सम्प्रसारणं कपश्च’ । -उल्यते । उलः सौत्र आवरणार्थो दाहार्थो वा । ‘कपश्चाक्रमवर्णस्य इति कपो वा । ‘विटपादयः’ इत्यपः - इति स्वामिमुकुटौ । तन्न । तादृशसूत्राभावात् । ‘उलपस्तु गुल्मिनीतृणभेदयोः’ इति हैमः । इति त्रीणि शाखादिभिर्विस्तृतवल्ल्याः ।
उलूकः उल्विति । उचति । ‘उच समवाये’ (तु० प० से०) । ‘उलूकादयश्च’ (उ० ४.४१) इति साधुः । ‘उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि’ (इति मेदिनी) ॥
उलूखलकः ऊर्ध्व खम् उलूखम् । पृषोदरादिः (६.३.१०९) । उलूखं लाति । ‘ला दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ततः स्वार्थे कन् (५.३.७५) ॥
उलूखलम् उद्विति । ऊर्ध्वं च तत् खं च । ऊर्ध्वखं लाति । ‘आतोऽनुप-’ (३.२.४) इति कः । पृषोदरादिः (६.३.१०९) । ‘उदूखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः’ (इति मेदिनी) ॥
उलूपी “उलूपीति । उ विस्मयजनकं रूपमस्यास्ति । अत इनिः (५.२.११५) । रलयोरैक्यम् । ओः शम्भो रूपं – उरूपमस्यास्ति, इति वा ॥”
उल्मुकम् ओषति । ‘उष दाहे (भ्वा० प० से०) । ‘उल्मुकदर्वि-’ (उ० ३.८४) इति साधुः ॥
उल्लाघः “उल्लाघते स्म । ‘लाघृ सामर्थ्ये’ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । उल्लाघ्यते स्म, इति वा । ‘अनुपसर्गात्पुल्ल-’ (८.२.५५) इति साधुः । ‘उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि’ इति हैमः ॥”
उल्लोचः ऊर्ध्वं लोचति । ‘लोचृ भासने’ (चु० उ० से०) ऊर्ध्वं लोच्यते । ‘लोचृ दर्शने’ (भ्वा० आ० से०) वा । अच् (३.१.१३४) । घञ् । (३.३.१९) वा । कुत्वं तु ‘निष्ठायामनिटः’ (वा० ७.३.५३) इति वचनादस्य तु तत्र सेट्त्वात् ॥
उल्लोलः “अथेति । उत् लोडयति । ‘लोडृ उन्मादे’ (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । डलयोरेकत्वम् । यत्तु-लोलयतीति लोलः । पचाद्यच् (३.१.१३४) । उद्गतश्चासौ लोलश्चेति उल्लोलः, इति स्वामी इति मुकुटः । तन्न । ऊर्ध्वं लोलयति इति स्वामिना विगृहीतत्वात् । स्वकृत निर्वचनाविशेषाच्च ।”
उल्वः “उल्वमिति । उल्लीयते । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘उल्वादयश्च’ (उ० ४.९५) इति साधुः । यद्वा ओलति, उल्यते, वा । ‘उल’ सौत्रो दाहे । वल्यते वा । ‘वल प्राणने’ (भ्वा० प० से०) । प्राग्वत् ॥”
उशनस् ‘वश कान्तौ (अ० प० से०) । वष्टि । ‘वशेः कनसिः (उ० ४.२३९) । ग्रह्यादित्वात्संप्रसारणम् (६.१.१६) । ‘ऋदुशनस्-’ (७.१.९४) इत्यनङ् ।
उशीरम् मूल इति । वीरणस्य मूले । उश्यते । ‘वश कान्तौ’ (अ० प० से०) । ‘वशेः कित्’ (उ० ४.३१) इतीरन् ॥
उषः ओषत्यन्धकारम् । ‘उष दाहे’ (भ्वा० प० से० ) । ‘उषः किच्च’ ( उ० ४.२३४ ) इत्यसिः। अन्योपसर्गनिवृत्तये प्रतिः । ‘उषः प्रत्युषसि क्लीबं पितृप्रस्वां च योषिति ॥
उषणा ओषति । ‘उष दाहे’ (भ्वा० प० से०) । बाहुलकात् क्युन् (उ० २.७८) ॥ दीर्घादिरपि । ऊषति ‘ऊष रुजायाम् (भ्वा० प० से०) । ‘ऊषणं मरिचे क्लीबं कणायामूषणा स्त्रियाम् (इति मेदिनी)॥
उषर्बुधः ‘उषः प्रभाते संध्यायाम् इति विश्वः । उष संध्यायां बुध्यते प्रकाशते । इगुपधत्वात् (३.१.१३५ कः। ‘अहरादीनां पत्यादिषु वा रेफः (वा० ८.२.७०) । स च व्यवस्थितविभाषयेह नित्यम् ।
उषा
- ओषिति । ‘उष दाहे’ (भ्वा० प० से०) । का प्रत्ययः । ‘उषा स्याद्रजनीशेषे ‘उषः’ इत्यपि दृश्यते’ इति रभसः ॥
उषापतिः उषायाः पतिः । ऊषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्युषा’ इत्यजयात् । (ऊषापतिः) दोर्घादिरपि ।।
उष्ट्रः विति । ओषति । उष्यते वा । ‘उष दाहे’ (भ्वा० प० से०) । ष्ट्रन् (उ० ४.१५९) संज्ञापूर्वकत्वाद्गुणाभावः ।- ‘उषिसूभूभ्यः कित्’ इति ष्ट्रन्–इति मुकुटस्त्वपाणिनीयः ॥
उष्णः “ओषति । ‘उष दाहे (भ्वा० प० से०) । ’ इण्सिञ्जिदीङुष्यविभ्यो नक्’ (उ० ३.२) । ‘ऊष्णो ग्रीष्मे पुमान्, दक्षाशीतयोरन्यलिङ्गकः ।”
उष्णः
- उष्णत्वं शीघ्रकारित्वमस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘उष्णो ग्रीष्मे पुमान्दक्षशीतयोरन्य- लिङ्गकः’ (इति मेदिनी) ॥
उष्णरश्मिः उष्ण रश्मयोऽस्या ।
उष्णिका उष्णैव । ‘ब्राह्मणकोष्णिके संज्ञायाम् (५.२.७१) इति कन् ॥
उष्णोपगमः उष्णमुपगममत्र ।
उस्रः वसन्ति रसा अस्मिन् । ‘वस निवासे (भ्वा० प० अ०) ‘स्फायितञ्चि (उ० २.१३) इति रक् । यजादित्वात् (६.१.१५) संप्रसारणम् । न रपर-’ (८.३.११०) इति न षत्वम् । (‘उस्त्रो वृषे च किरणेऽप्युस्त्रार्जुन्युपचित्रयोः) ।
उस्रा वसति क्षीरमस्याम् । ‘वस निवासे’ (भ्वा० प० अ०) । ‘स्फायि-’ (उ० २.१३) इति रक् । ‘वचिस्वपि-’ (६.१.१५) इति वस्य उः । ‘न रपर-’ (८.३.११०) इति षत्वाभावः । ‘उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः’ (इति मेदिनी) । ‘उस्रस्तु वृषभे प्रोक्तः किरणे च तथा पुमान्’ ॥
ऊधः विति । वहति । ‘वह प्रापणे’ (भ्वा० उ० से०) । उनत्ति ‘उन्दी क्लेदने’ (रु० प० से०) । असुन् (उ० ४.१८९) । ‘ऊधसोऽनङ् (५.४.१३१) इत्यादिनिर्देशादूधादेशः । ‘श्वेः सम्प्रसारणं च’ (उ० ४.१९३) इत्यनुवृत्तौ ‘वहेर्धो दीर्घश्च’ इत्यसुन्—इति मुकुटस्त्वपाणिनीयः ॥
ऊम् “- ऊय्यते । ‘ऊयी तन्तुसंताने’ (भ्वा० आ० से०) । मुक्प्रत्ययः”" (‘उम्’ इति) ह्रस्वपाठे डुम् प्रत्ययः ॥ (१) ‘रुषा प्रश्ने’ इति स्वामी ।"
ऊरुजा ऊरोर्जाताः । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः ॥
ऊरुव्या विति । ब्रह्मण ऊर्वोर्भवाः । ‘शरीरावयवात्-’ (४.३.५५) इति यत् ॥
ऊरू “अर्यतेऽनेन । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अर्तेरुरच’ इति कुः, ऊरोदेशश्च । ऊरुः -इति मुकुटः । तदपाणिनीयम् । ऊर्वति । ‘ऊर्वी हिंसायाम्’ (भ्वा० प० से०) - इति स्वामी । तदपि न । उप्रत्ययवलोपयोर्विधायकाभावाच्च । ‘ऊर्णोतेर्नुलोपश्च’ (उ० १.३०) इत्यस्य ‘सत्त्वाच्च’ ॥”
ऊरूपर्वन् ऊर्णूयते । ‘ऊर्णोतेर्नुलोपश्च’ (उ० १.३०) इति कुः । ऊरोः पर्व ॥
ऊर्जः ऊर्जयति उत्साहयति जिगीषून् । ‘ऊर्ज बलप्राणनयोः’ (चु० प० से०) । ण्यन्तात् (३.१.२६) पचाद्यच् (३.१.१३४) । ‘ऊर्जः कार्तिके बले’ इति हैमः ।
ऊर्जस्वाल् ऊर्जेति । ‘ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च’ (इति मेदिनी) । अतिशयित ऊर्जोऽस्यास्ति । ‘ज्योत्स्नातमिस्रा-’ (५.२.११४) इति वलज्विनी । ऊर्जशब्दोऽदन्तः सान्तश्च । आद्ये सगपि निपात्यः । मुकुटस्तु ‘ऊर्जा’ शब्दमाबन्तं पठित्वा ‘ह्रस्वत्वं च’ इत्याह । तन्न । उक्तमेदिनीकोशविरोधात् ॥
ऊर्जस्विन् ऊर्जेति । ‘ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च’ (इति मेदिनी) । अतिशयित ऊर्जोऽस्यास्ति । ‘ज्योत्स्नातमिस्रा-’ (५.२.११४) इति वलज्विनी । ऊर्जशब्दोऽदन्तः सान्तश्च । आद्ये सगपि निपात्यः । मुकुटस्तु ‘ऊर्जा’ शब्दमाबन्तं पठित्वा ‘ह्रस्वत्वं च’ इत्याह । तन्न । उक्तमेदिनीकोशविरोधात् ॥
ऊर्णनाभः ऊर्णेव तन्तुर्नाभावस्य । ‘अच्’ (५.४.७५) इति योगविभागादच् । ‘ड्यापोः-’ (६.३.६३) इति ह्रस्वः ॥
ऊर्णायुः ऊर्णास्यास्ति । ‘ऊर्णाया युस्’ (५.२.१२३) । ‘ऊर्णायुर्ना क्षणाभङ्गे मेषकम्बलमेषयोः इति विश्वः (मेदिनी) ॥
ऊर्णायुः ऊर्णा अस्य । ‘ऊर्णाया युस्’ (५.२.१२३) ॥
ऊर्ध्वकः ऊर्ध्वः कायति शब्दायते । ‘कै शब्दे’ (भ्वा० प० से०) । ‘सुपि’ (३.२.४ योगविभागेन) इति कः । तदुक्तम् हरीतक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः । आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामगाः’ इति । ऊर्ध्वशब्दं निर्वकारमपि केचित्पठन्ति ॥
ऊर्ध्वजानुः ऊर्ध्वेति । ऊर्ध्वे जानुनी यस्य । ‘ऊर्ध्वाद्विभाषा’ (५.४.१३०) इति ज्ञुः ॥
ऊर्ध्वज्ञुः ऊर्ध्वेति । ऊर्ध्वे जानुनी यस्य । ‘ऊर्ध्वाद्विभाषा’ (५.४.१३०) इति ज्ञुः ॥
ऊर्मिः ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अर्तेरुच्च’ (उ० ४.४४) इति मिः अर्तेरुदादेशः (रपरः) । ‘वा स्त्रियाम्’ इति काकाक्षिगोलकन्यायेनोर्मिवीचिभ्यां सम्बध्यते । ‘पुंलिङ्गत्रीलिङ्गयोर्वीचिमणियष्टिमुष्टयः’ ‘अशनित्रुटिशमिपाटलिशाल्मलितरणिश्रेण्यूर्मयः । ‘वस्तिश्च’ इति वामनः । ‘ऊर्मिः पीडाजवोत्कण्ठा भङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायाम्’ इति हैमः ॥
ऊर्मिका ऊर्मिरिव । ‘इवे-’ (५.३.९६) इति कन् । ऊर्मि प्रकाशं कायति वा । ‘ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः’ (इति मेदिनी) ॥
ऊषः स्यादिति । ऊषति । ‘ऊष रुजायाम्’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । (‘ऊषः क्षारमृदि प्रोक्तः प्रभातेऽपि पुमानयम् । तत्संध्यायां च रन्ध्रे च चन्दनाद्रौ श्रवो विले’ इति मेदिनी ।
ऊषणम् ऊषति । ‘ऊष दाहे’ ‘रुजायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११३) । ‘ऊषणं मरिचे क्लीबं कणाया- मूषणा स्मृता’ (इति मेदिनी) । (उषणम्) इति ह्रस्वपाठे । ‘उष दाहे’ (भ्वा० प० से०) संज्ञापूर्वकत्वाद्गुणाभावः ॥
ऊषरः ‘ऊषसुषि- ’ (५.२.१०७) इति रः ॥
ऊषवान् ऊषेति । ऊषोऽस्त्यस्मिन् । मतुप् (५.२.९४)
ऊष्मकः “ऊषति रुजति । ‘ऊष रुजायाम्’ (भ्वा० प० से०) । ‘अन्येभ्यः-’ (३.२.७५) इति मनिन् । ‘ऊष्माणस्तु निदाघोष्णग्रीष्म शषसहा अपि’ । यावादित्वात् (५.४.२९) कन् । मकि (बाहुलकात्) अदन्तोऽपि । ‘ऊष्मो घर्मेऽश्रुणि तथा ज्येष्ठे, ऊष्मा स्त्रियां त्विषि’ इति बोपालितः ।”
ऊष्मागमः ‘ऊष रुजायाम्’ (भ्वा० प० से०) । मनिन् (३.२.७५) । आगच्छति । पचाद्यच् (३.१.१३४) । ऊष्मा तप आगमोऽत्र ॥ ‘ऊष्मा’ अपि । ‘ऊष्मा तपनिदाघयोः’ इति नान्ते बोपालितः ।
ऊहः ऊहनम् । ऊहवितर्के’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) ॥
ऋक् ऋच्यन्ते स्तूयन्ते देवा अनया । ‘ऋच स्तुतौ (तु० प० से०) । क्विप् (वा० ३.३.१०८) ॥
ऋक्थम् ऋक्थम् ।
ऋक्षः ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । ‘स्नुव्रश्चिकृत्यृषिभ्यः कित्’ (उ० ३.६६) इति सेः । ऋक्षः पर्वतराजे स्याद्भल्लूके शोणके पुमान् ॥
ऋक्षः ऋक्ष्णोति । ‘ऋक्ष हिंसायाम् (स्वा० प० से०) । अच् (३.१.१३४) । ‘ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् । कृतवेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्’ (इति मेदिनी) । - ऋक्षति इति स्वामी चिन्त्यः । ऋक्षेः सौवादिकत्वात् ॥
ऋक्षगन्धा स्यादिति । ऋक्षस्येव गन्धोऽस्याः । समासान्तस्यानित्यत्वात् ‘उपमानाच्च’ (५.४.१३७) इतीन्न ॥ ‘ऋष्यगन्धा’ इति पाठान्तरम् ॥
ऋक्षगन्धिका ऋक्षान् गन्धयति । ‘गन्धँ अर्दने’ (चु० आ० से०) । मूलविभुजादिः (वा० ३.२.५) । कन् (५.३.७५) । यद्वा ऋक्षो गन्धोऽस्याः । ऋक्षशब्दस्तद्गन्धसदृशे गौणः ॥ अन्या असितायाः शुक्ला-कृष्णा-इति मुकुटोक्तं चिन्त्यम् ।
ऋक्षम् ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । ‘स्नु व्रश्चिकृत्यृषिभ्यः कित्’ (उ० ३.६६) । इति सः । ‘षढोः-’ (८.२.४१) इति कः । ‘ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः । महीधरविशेषे च शोणके लक्ष्यवेधने’ इति हैमः ।
ऋजीषम् ऋजीति । अर्जति । ‘अर्ज अर्जने’ (भ्वा० प० से०) । ‘अर्जेरूज च’ (उ० ४.२८) इतीषन् । ‘ऋचीषम् इति पाठः-इति कश्चित् । ‘ऋच् शब्दे’ (तु० प० से०) बाहुलकात्कीषन् ॥
ऋजुरोहितम् तदिन्द्रधनुरुत्पातादिना ऋजु अवक्रं सद्रोहितं स्यात् । ‘रुहे रश्च लो वा’ (उ० ३.९४) इतीतन् । ‘रोहितं रुधिरे धीरऋजुशक्रशरासने । रोहितो मीनमृगयोर्भेदे रोहितकद्रुमे’ इति विश्वः । यद्वा-रोहणं रोहः संजातोऽस्येति । तारकादित्वात् (५.२.३६) इतच् ।
ऋणम् ऋणमिति । अर्यते स्म । ‘ऋ गतौ’ (भ्वा० प० अ०) । क्तः (३.२.१०२) । ‘ऋणमाधमर्ण्ये’ (८.२.६०) इति नत्वम् । ‘ऋणं देये जले दुर्गे’ इति हैमः ॥
ऋतम् अर्यते स्म । ‘ऋ गतौ’ (भ्वा० प० अ०) । क्तः (३.२.१०२) । (‘ऋतं शिलोञ्छे पानीये पूजिते दीप्तसत्ययोः’) ॥
ऋतम् अर्यते । ऋच्छति वा । ‘निष्ठा’ (३.२.१०२) इति ‘गत्यर्था-’ (३.४.७२) इति वा क्तः । ‘ऋतमुञ्छशिलं स्मृतम्’ (४.५) इति मनुः । ‘पुमानुञ्छः शिलमृतम्’ इति वोपालितः ॥
ऋतुः “इयर्ति, ऋच्छति वा । अर्तेश्च-’ (उ० १.७२) इति तुः । चात् कित्वम् । (‘ऋतुः स्त्रीकुसुमे मासि वसन्तादीषुधारयोः’) । मार्गादीनां युगैर्हेमन्तादीनृतून् वक्ष्यति । तदेकदेशमयनपरिच्छेदार्थमनुवदति द्वौ द्वाविति ।”
ऋतुः “‘ऋ गतौ’ । अर्तेश्च (उ० १.७२) इति तुः, चात्कित् । यत्तु मुकुटेनोक्तम्—केत्वादय इति तुन् – इति । तन्न । गुणप्रसङ्गात्, अपाणिनीयत्वाच्च ।”
ऋतुमती ऋतुरस्त्यस्याः । मतुप् (५.२.९४) ॥
ऋते
- ऋतीयते । ‘ऋतिः’ सौत्रः । ततः केप्रत्ययः ॥
ऋत्विज् धनैर्हेतुभिः वरणे करणैर्वा व्रियन्ते । ‘वृङ् सम्भक्तौ (क्र्या० आ० से०) । ण्यत् (३.१.१२४) । क्यप् (३.१.१०९) तु वृञ एव॥ ऋतौ यजति । ‘ऋत्विग्-’ (३.२.५९) इति साधुः ।
ऋद्धम् रिति । ऋष्यते स्मः । ‘ऋधु वृद्धौ’ (दि० प० से०) । क्तः । (३.२.१०२) । ‘ऋद्धं सम्पन्नधान्ये च सुसमृद्धे तु वाच्यवत्’ इति विश्वः (मेदिनी) । ‘रिद्धं’ संसिद्धम् । राधेः (स्वा० प० उ०)-इति स्वामी । तत्र पृषोदरादिः (६.३.१०९) ॥
ऋद्धिः ऋध्नोति । ‘ऋधु वृद्धौ’ (स्वा० प० से०) । तिच् (३.३.१७४) । ‘ऋद्धिः स्यादौषधीभेदे समृद्धावपि योषिति’ (इति मेदिनी) ॥
ऋभवः “ऋशब्दवाच्यः स्वर्गः, अदितिर्वा । स्वरादि (१.१.३७) पाठादव्ययत्वम् । तत्र ततो वा भवन्ति । ‘मितद्र्वादित्वात्’ (वा० ३.२.१८०) डुः । क्विपि (३.२.७६) । ‘ऋभुवः’ अपि इत्यन्ये ॥”
ऋभुक्षाः ऋभवः क्षियन्त्यत्र । क्षि निवासगत्योः’ (तु० प० अ०) । डः (वा० ३.२.१०१) ऋभुक्षः स्वर्गवज्रयोः’ इति विश्वः सोऽस्यास्तीति ऋभुक्षाः । इनिः (५.२.११५) पथिवत् । यद्वा ऋच्छति इयर्तीति वा । अर्तभुक्षिनक् प्रत्ययः ।
ऋषभः ऋषति बलीवर्दस्वरसादृश्यं गच्छति । ’ऋषी गतौ” (तु० प० से०) । ऋषिवृषिभ्यां कित्’ (उणा० ३.१२३) इत्यभच् । ऋषभस्त्वौषधान्तरे । स्वरभिद्वृषयोः कर्णरन्ध्रकुम्भीरपुच्छयोः ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयोषिति । शूकशिम्ब्यां सिरालायां विधवायां क्वचिन्मता’ (‘आदिजिनेऽपि ) ॥
ऋषभः ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । ‘ऋषिवृषिभ्यां कित्’ (उ. ३.१२३) इत्यभच् । ‘ऋषभस्त्वौषधान्तरे ! स्वरभिद्वृयोः कर्णरन्ध्र कुम्भीरपुच्छयोः’ (इति मेदिनी) ॥
ऋषभः ऋषति ‘ऋषी गतौ’ (तु० प० से०) । ‘ऋषिवृषिभ्यां कित्’ (उ० ३.१२३) । इत्यभच् ॥
ऋषिः ऋषेति । ऋषन्ति जानन्ति । ‘ऋषी गतौ’ (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्’ (इति मेदिनी) । स्त्रियां वा ङीष् (ग० ४.१.४५) ॥
ऋष्यः ऋच्छति । इयर्ति वा बाहुलकात् श्यन् ॥ (ऋष्यः) मूर्धन्यान्तोऽपि ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) साधुः ॥ ‘रिष्यः अपि । रिष्यते । ‘रिष हिंसायाम्’ (दि० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘एणः कुरङ्गे मारिष्यः स्यादृश्यश्चारुलोचनः’ इति त्रिकाण्डशेषः ॥
ऋष्यप्रोक्ता ऋष्यैः प्रोक्ता । ‘ऋष्यप्रोक्ता शतावर्यतिबलाशूकशिम्बिषु (इति मेदिनी) ॥
ऋष्यप्रोक्ता “ऋष्यैर्मृगैः प्रोक्ता । ऋषिभिरप्रोक्ता, इति वा । ‘ऋष्यप्रोक्ता शतावर्यतिबला शूकशिम्बिषु’ इति (मेदिनी) ॥”
एकगुरुः एको गुरुर्येषां ते ॥
एकतालः एकः समस्तालो मानमस्येत्येकतालः ॥
एकदन्तः एको दन्तोऽस्य । स्कन्देनोत्पाटित दन्तत्वात् ।।
एकदा
- एकस्मिन् काले । ‘सर्वे कान्य-’ (५.३.१५) इति दा ॥
एकधुर (लुक्पक्षे ‘लुक् तद्धितलुकि (१.२.४९) इति टापो निवृत्तौ एकधुरः) ॥
एकधुरावहः एकधुराया वहः ॥
एकधुरीणः विति । एका चासौ धूश्च । ‘ऋक्पूरब्धूः-’ (५.४.७४) इत्यः । एकधुरां वहति । ‘एकधुराल्लुक् च’ (४.४.७९) इति खः ॥
एकपदी “एकः पादोऽस्याम् । कुम्भपदीषु च’ (५.४ १३९) इति निपातितः । यद्वा ‘संख्यासुपूर्वस्य’ (५.४.१४०) इति पादस्यान्तलोपः । पादोऽन्यतरस्याम्’ (४.१.८) इति वा ङीप् ‘पादः पत्’ (६.४.१४०) । अत्र पक्षे ‘एकपाद् इत्यपि रूपान्तरम् । एकपदं तत्काले नपुंसकं, वर्मनि स्त्री स्यात् द्वादश मार्गस्य ।”
एकपिङ्गः सासूयं गौरीनिरीक्षणे वामे चक्षुषि रुद्रानुनयात्पिङ्गतामगात् । अत एकं पिङ्गमस्य ।।
एकहायनी एको हायनो यस्याः । ‘ङीष्’ (४.१.२७) ॥
एकागारिकः
- एकमसहायमगारं प्रयोजनमस्य । ‘ऐकागारिकट् चौरे’ (५.१.११३ ) इति साधुः ॥
एकान्तम् एकोऽन्तो निश्चयोऽत्रेति ।
एकाब्दा एकेति । एकोऽब्दो यस्याः ॥
एकावली एकसरा । एका चासावावली च ॥
एकाष्ठीलः एकमस्थि लाति । ‘सुषामादित्वात्’ (८.३.९८) षत्वं दीर्घत्वं च । ‘एकाष्ठीला वनतिक्तकौषधौ पुंसि वकपुष्पे’ (इति मेदिनी) ॥
एकाष्ठीला NOOOOOOO SUDHAAAA VYAKHYAAAAAA
एडः “स्यादिति । आ इलति । ‘इलति’ । ‘इल स्वप्ने’ (तु० प० से०) । अच् (३.१.१३४) । डलयोरैक्यम् । यद्वा आ सर्वत ईड्यते, ईट्टे, वा । ‘ईड स्तुतौ’ (अ० आ० से०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा ॥”
एडक इलति । एलयति वा । ‘इल गतिक्षेपणयोः’ (तु० प० से०) । ण्वुल् (३.१.१३३) । डलयोरेकत्वम् ॥
एडगजः एडो मेष एव गजो यस्य । भञ्जकत्वात् । यद्वा एलनम् । ‘इल प्रक्षेपे स्वप्ने च’ (तु० प० से०) । घञ् (३.३.१८) । डलयोरेकत्वम् । एडे स्वप्ने गजति । ‘गज मदे शब्दे च’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
एडूकम् एडूकमिति । यत् कुड्यं मध्यन्यस्तास्थि तत् ईड्यते । ‘ईड स्तुतौ’ (अ० आ० से०) । ‘उलूकादयश्च’ (उ० ४.४१) साधु । ‘भवेदेडोकमेडूकमेडुकं च’ इति द्विरूपकोशः ।
एणः एति । बाहुलकाण्णः ॥
एतः एति वर्णान् । एतेर्वर्णे तन् (उ० ३.८६) । ‘एतः कर्बुर आगते ।
एतर्हि
- अस्मिन्काले । ‘इदमोर्हिल्’ (५.३.१६) । ‘एतेतौ रथोः (५.३.४) ॥
एधः एधतेऽनेन । असुन् (उ० ४.१८९) ॥ यत्तु – बाहुलकान्नलोपो गुणश्च – इति मुकुटः । तन्न । एधतेरुभयासम्भवात् ॥
एधः एधेः ‘हलञ्च (३.३.१२१) इति करणे घञ् । ‘ञि इन्धी’ (रु० आ० से०) । ‘अवेदैधौद्म-’ (६.४.२९) इति निपातो वा । एधः पुंस्ययम् ॥
एनः “यन्त्यधोऽनेन । एति गच्छति प्रायश्चित्तेनेति वा । ‘इण् गतौ’ (अ० प० से०) । ‘इण आगसि’ (उ० ४.१९८) इत्यसुन्, नुडागमश्च । ‘एनः पापापराधयोः ।”
एरण्डः आ ईरयति वायुम् । ‘ईर गतौ कम्पने च’ (अ० आ० से०) । अस्माण्णिजन्ताद्बाहुलकादण्डच् ।
एरावती इरा आपः सन्त्यस्य = इरावान् मेघः । तस्येयम् । तस्येदम्’ (४.३.१२०) इत्यण् । ऐरावतेनैकदिक् । ‘तेनैकदिक् (४.३.११२) इत्यण् इति वा ।
एला एलयति । ‘इल प्रेरणे’ (चु० प० से०) । पचाद्यच् (३.१.१३४) ॥
एलापर्णी एलेति । एलाया इव पर्णान्यस्याः । ‘पाक-’ (४.१.६४) इति ङीष् ॥
एलावालुकम् एलेति । एलयति । ‘इल प्रेरणे’ (चु०प० से०) । पचाद्यच् (३.१.१३४) । टाप् (४.१.४) । एला एव बलति । बल प्राणने (भ्वा० प० से०) । बाहुलकादुण् । स्वार्थे कन् (५.३.७५) ॥ ‘एलबालुकम्’ इति स्वामी । तत्र ‘ङ्यापोः-’ (६.३.६३) इति ह्रस्वः ॥
एवम्
- इणो बाहुलकाद्वम् ॥
एवम्
- निश्चयार्थे एवम् ।
एवम्
- एवम् ।
एवम्
- ‘इण्’ (अ० प० अ०) । बाहुलकाद्वम् ॥
एषणिका
- इष्यतेऽनया । ‘इष गतौ’ (दि० प० से०) । ल्युट् (३.३.११७) । कन् (ज्ञापि० ५.४.५) ॥
एषिका
- एषीति । इष्यते । ‘इष गत्यादौ (दि० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘ईषिका’ इति पाठे ईष्यते । ईषति वा । ‘ईष उञ्छे’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
ऐङ्गुदम् इङ्गुद्या इदम् ॥
ऐडविडः इडविडोऽपत्यम् । ‘तस्यापत्यम्’ (४.१.९२) इत्यण् ।। डल योरेकत्वस्मरणाद् ‘एलविलः अपि । इलविलाया अपत्यमिति वा विग्रहः । तत्र ‘अवृद्धाभ्यो नदीमानुषी-’ (४.१.११३) इत्यण् । इडविलास्ति मातृत्वेनास्य । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् इति वा ।।
ऐणम् एणेति । एणस्य मृगस्य विकारोऽवयवो वा । ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) ॥
ऐणेयम् ऐणयिति । मृग्याश्चर्मास्थिमांसादि। एण्या विकारोऽवयवो वा । ‘एण्या ढञ्’ (४.३.१५९) ॥
ऐतिह्यम् पेति । परम्परया आगतः । ‘तत आगतः’ (४.३.७४) इत्यण् । चतुर्वर्णादित्वात् (५.१.१२४) ष्यञ् । पारम्पर्यश्चासावुपदेशश्च । तस्मिन् । ‘अनन्तावसथेति ह-’ (५.४.२३) इति ण्यः ॥
ऐरावणः इरया उदकेन वणति । “वण शब्दे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । इरावणः । ततः प्रज्ञाद्यण् (५.४.३८) । इरा सुरा वनमुदकं यस्मिन् । ‘पूर्वपदात् (८.४.३) इति णत्वम् । इरावणे भवः । ‘तत्र भवः । (४.३.५३) इत्यण् । स्वामी तु-इरावणे भवः । तत्र भवः’ (४.३.५३) इत्यण् । विभाषौषधि-’ (८.४.६) इति वा णत्वम्-इति । तत्र । ‘ऐरावन’ इत्यस्यापि प्राप्तेः ।
ऐरावतः इरा उदकानि सन्त्यस्मिन् । मतुप् (५.२.९४) । इरावत्यब्धौ भवः । ‘तत्र भवः” (४.३.५३) इत्यण् । (‘ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रु । नागभेदे च पुंसि स्याद्विद्युतद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने’) ।
ऐरावतः इरा उदकानि सन्त्यस्मिन् । मतुप् (५.२.९४) । इरावत्यब्धौ भवः । ‘तत्र भवः” (४.३.५३) इत्यण् । (‘ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रु । नागभेदे च पुंसि स्याद्विद्युतद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने’) ।
ऐरावतः ऐरेति । इरावत्या विद्युत इवायम् । तस्येदम्’ (४.३.१२०) इत्यण् । ‘ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुटद्रुभे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसके महेन्द्रस्य ॠजुदीर्घशरासने’ ॥
ऐलेयम् इलाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
ऐश्वर्यम् ईश्वरस्य भावः । गुणवचन- (५.१.१२४) इति ष्यञ् ।
ऐषमः
- ‘ऐषमस्’ ॥ शब्दौ (क्रमेण) ॥
ओघः ओचनम् । उच समवाये’ (दि० प० से०) । घञ् (३.३.१८) । पृषोदरादित्वात् (६.३.१०९) घः । ‘ओघो वेगे जलस्य च । वृन्दे परम्परायां च दृतनृत्योपदेशयोः’ ।
ओघः आ उह्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘ओघो वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः’ इति मेदिनी ॥
ओङ्कारः अवति । ‘अवतेष्टिलोपश्च’ (उ० १.१४२) इति मन्प्रत्ययस्यैव टिलोपः ‘ज्वरत्वर-’ (६.४.२०) इत्यूठौ । गुणः (७.३.८४) । वषट्कारः (१.२.३५) इति लिङ्गात्समुदायादपि कारप्रत्ययः (वा० ३.३.१०८) ।
ओड्रपुष्पम् “ओड्रेति । आ ईषदुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक्, बाहुलकाद्दस्य डत्वम् । ओड्रं पुष्पमस्य । यत्तु-‘उड श्लेषणे’ । बाहुलकाद्रन् इति मुकुटः । तन्न । धातुपाठे उडेरदर्शनात् । (‘ओड्राः पुंभूम्नि नीवृति । ओड्रः ख्यातो जवापुष्पे’ इति मेदिनी) ॥”
ओतुः “ओतुरिति । अवति विष्ठाम्, आखुभ्यो गृहम्, वा । ‘अव रक्षणादौ’ (भ्वा० प० से०) । ‘सितनि-’ (उ० १.६९) इति तुन् । ‘ज्वरत्वर-’ (६.४.२०) इत्यूठौ । दीर्घः (६.१.१०१) गुणः (७.३.८४) ॥”
ओदनम् “उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘उन्देर्नलोपश्च’ (उ० २.७६) इति युच् । ऊर्दतेऽनेन वा । ‘ऊर्द क्रीडायाम्’ (भ्वा० आ० से०) । करणे ल्युट् (३.३.११७) । पृषोदरादिः (६.३.१०९) । ‘ओदनं न स्त्रियां भक्ते बलायामोदनी स्त्रियाम्’ (इति मेदिनी) । दीदिविसहितोऽस्त्री, इत्यन्वयः ॥”
ओम्
- अवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । ‘अवतेष्टिलोपश्च’ (उ० १.१४२) इति मन् एवं टिलोपः । ज्वरत्वर-’ (६.४.२०) इत्यूठौ । गुणः (७.३.८४) ॥
ओषधिः ओषेति । ओषः प्लोषो दीप्तिर्वा धीयतेऽत्र । ‘डुधाञ् धारणपोषणयोः (जु० उ० अ०) । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः ॥ (‘कृदिकारात्’ (ग ४.१.४५) इति ङीषि ‘ओषधी’ अपि) ॥
ओषधीशः ओषधीनामीशः ।
ओष्ठः ओष्ठेति । उष्यते उष्णाहारेण । ‘उष दाहे’ (भ्वा० प० से०) । ‘उषिकुषि-’ (उ० २.४) इति थन् ॥
औक्षकम् विति । उक्ष्णां समूहः । ‘गोत्रोक्षोष्ट्र-’ (४.२.३९) इति वुञ् ॥
औत्तानपादिः उत्तानपादस्यापत्यम् । ‘अत इञ्’ (४.१.९५) । मुकुटस्तु-ऋषित्वात् ‘ऋष्यन्धक-’ (४.१.११४) इत्यणि प्राप्ते बाह्वादित्वात् (४.१.९६) इञ् - इत्याह । तन्न । उत्तानपादस्य ऋषित्वे मानाभावात् ।
औदनिका ओदनं शिल्पं येषाम् । ‘शिल्पम्’ (४.४.५५) इति ठक् ॥
औपयिकः उपयन्त्यनेन । ‘एरच्’ (३.३.५६) उपाय एव । ‘उपायाद्ध्रस्वश्च’ (ग० ५.४.३४) इति ठक् ह्रस्वश्च ॥
औपवस्तम् औपेति । उपवसनम् । ‘वसु स्तम्भे’ (दि० प० से०) । भावे क्तः (३.३.११४) । अनेकार्थत्वादभोजने वृत्तिः । प्रज्ञाद्याणि (५.४.३८) ‘औपवस्तम्’। क्वचित् ‘औपवस्त्रम्’ इति पाठः । उपवसति । तृच् (३.१.१३३) उपवस्तुरिदं कर्म । ‘तस्येदम्’ (४.३.१२०) इत्यण्॥
औमीनम् उमानाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
औरभ्रकः – उरभ्राणां समूहः । ‘गोत्रोक्षो-’ (४.२.३९) इति वुञ् ॥
औरसः स्वेति । ‘उरो वक्षसि च श्रेष्ठे’ (इति मेदिनी) । उरसा निर्मितः । ‘उरसोऽण् च’ (४.४.९४) इत्यण् ॥
और्ध्वदेहिकः म्रिति । मृतायेदम् । ‘अर्थेन नित्यसमासः’ (२.१.३६) । तच्च तदहश्च । ‘तस्याहः’ इति वा । ‘राजाह-’ (५.४.९१) इति टच् । तदहे प्रेतदिने । देहादूर्ध्वम् । ऊर्ध्वदेहः । राजदन्तादिः (२.२.३१) । ऊर्ध्वदेहे भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । अनुशतिकादित्वात् । (७.३.२०) उभयपदवृद्धिः । केचिदुत्तरपदवृद्धिं नेच्छन्ति ॥ प्रेतमुद्दिश्य मरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रत्यहं दीयमानस्य जलपिण्डादेरेकम् । ‘तदहर्दानम्’ इति पाठे तु समासान्तविधेरनित्यत्वान्न टच् ॥
और्वः और्व इति । उर्वस्य मुनेरपत्यम् । यत्तु विदाद्यञ् (४.१.१०४) । बहुत्वे ‘यञञोश्च’ (२.४.६४) इति लुकि उर्वाः इति मुकुटः । तन्न । अनन्तरापत्येऽञोऽसम्भवात् । तस्मादृष्यण् (४.१.११४) ।
औषधम् ओषेति । जातिमात्रविवक्षायाम् ‘ओषधी’ शब्दप्रयोगः । अजेति । द्रव्यमात्रविवक्षायां तु ‘औषध’ शब्दप्रयोगः । ‘ओषधेरजातौ’ (५.४.३७) इत्यण् । ‘सर्वम्’ इत्यनेन ‘घृततैलादिकमप्यौषधशब्दवाच्यम्’ – इत्युक्तम् ॥
औषधम् ओषधेरिदम् । ‘ओषधेरजातौ’ (५.४.३७) इत्यण् ॥
औष्ट्रकः विति । उष्ट्राणां समूहः । ‘गोत्रोक्षो-’ (४.२.३९) इति वुञ् ॥
कंधरा कं शिरो धारयति । ‘संज्ञायां ‘भृतॄवृजि-’ (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । यद्वा धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । अच् । कं शिरसो धरा कंधरा मता (इति विश्वः) ॥
कंसः कमिति । कम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘आयादयः-’ (३.१.३१) इति णिङ् न । वृतॄवदिहनिकमिकषिभ्यः सः’ (उ० ३.६२) । ‘कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तु ना’ (इति मेदिनी) ॥
कंसारातिः कंसस्यारातिः ॥
ककुद्मती ककुद् वृषांस इव मांसपिण्डः ककुत् । सोऽतिशयितोऽस्याम् मतुप् (५.२.९४) । यवादित्वात् (८.२.९) न वत्वम् ॥
ककुभः ककते । ‘ककलौल्ये (भ्वा० प० से०) । बाहुलकादुभ् प्रत्ययः । यद्वा-कं वातं स्कुभ्नाति विस्तारयति । स्कुभु’ इति सौत्राद्धातोः क्विप् (३.२.१७८) । पृषोदरादित्वात् (६.३.१०९) सलोपः । ‘ककुप् स्त्रियां प्रवेणीदिक्शोभासु चपम्कस्रजि’ । केनादित्येन जलेन वा कुत्सितानि भानि नक्षत्राण्यत्रेति टाबन्तोऽपि इति कश्चित् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् ।
ककुभः ककुभ इति । कं वातं स्कुभ्नाति । स्कुभेः सौत्रान्मूल विभुजादित्वात् (३.२.५) कः । पृषोदरादित्वात्सलोपः (६.३.१०९) । यद्वा कश्च कुश्च ककू । ते भाति । ‘भा दीप्तौ’ (अ० प० अ०) अन्तर्भावितण्यर्थः । आतोऽनुप-’ (३.२.३) इति कः । ‘ककुभो रागभेदेऽपि वीणाङ्केऽर्जुनपादपे’
ककुभः ‘ककुप् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि’ । कुकुभो दिशः सन्त्यस्य । बहुविस्तारत्वात् । अर्शआद्यच् (५.२.१२७) । ‘कुकुभो रागभेदेऽपि वीणाङ्केऽर्जुनपादपे’ ॥
कक्कोलकम् ककन्तेऽत्र । ‘कक लौल्ये’ (भ्वा० आ० से०) । सम्पदादिः (वा० ३.३.१०८) । कोलति । ज्वलादित्वात् (३.१.१४०) णः । कक् च तत् कोलं च । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
कक्षः “बेति । कष्यते । ‘कष हिंसायाम्’ (भ्वा० प० से०) । ‘वॄतॄवदिहनिकमिकशिभ्यः सः’ (उ० ३.६२) । ‘कक्षा स्यादन्तरीयस्य पश्चादश्चलपल्लवे । स्पर्धापदे, ना दोर्मूलकच्छवीरुत्तृणेषु च’ (इति मेदिनी) ।”
कक्ष्या कक्षे भवा । ‘शरीरावयवाच्च’ (४.३.५५) इति यत् । ‘कक्ष्या बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने । हर्म्यादीनां प्रकोष्ठे च’ (कार्यं हेतौ प्रयोजने’ (इति मेदिनी) ॥
कङकतिका कङ्कते । ‘ककि गतौ’ (भ्वा० आ० से०) । बाहुलकादतच् । गौरादिः (४.१.४१) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘केऽणः (७.४.१३) इति ह्रस्वः । यद्वा कस्य शिरसोऽङ्काः । शकन्ध्वादिः (वा० ६.१.९४) । कङ्केष्वतति । क्वुन् (उ० २.३२) । कङ्कति । ‘ककि लौल्ये’ - इति मुकुटः । तन्न । तस्यानिदित्त्वात् । आत्मनेपदित्वाच्च । ‘कङ्कती तु प्रसाधनी’ इति स्त्रीकाण्डेऽमरमाला । ‘कङ्कतं तु प्रसाधनम्’ इति क्लीबकाण्डे च ॥
कङ्कः कङ्कते । ‘ककि गतौ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः’ (इति मेदिनी) ॥
कङ्कटकः कङ्कते । ‘ककि लौल्ये (भ्वा० आ० से०) । ‘शकादिभ्योऽटन् (उ० ४.८१) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा कं सुखं कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । मूलविभुजादिकः (वा० ३.२.५) वा ॥
कङ्कणः कङ्केति । कं शुभं कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । कङ्कते वा । ‘कक लौल्ये’ (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति ‘अनुदात्तेतश्च हलादेः’ (३.२.१४९) इति वा युच् । पृषोदरादित्वात् (६.३.१०९) णत्वम् । ‘कङ्कणं करभूषायां सूत्रमण्डनयोरपि’ (इति मेदिनी) ॥
कङ्कालः स्यादिति । ‘कम्’ इत्यव्ययं सुखे शिरसि च । कं कालयति । ‘कल क्षेपे’ चुरादिः । अच् (३.१.१३४) । यद्वा कङ्कते । ‘ककि गतौ’ (भ्वा० आ० से०) । बाहुलकात्कालन् ॥
कङ्गु स्त्रीति । कमङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । ण्यन्तो वा । मृगय्वादित्वात् (उ० १.३७) कुः । शकन्ध्वादिः (वा० ६.१.९४) । कं सुखं गच्छति । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः ॥
कचः कच्यते । ‘कच बन्धने’ (भ्वा० प० से०) ‘पुंसि-’ (३.३.११८) इति घः । कचत्यात्मानं वा । अच् (३.१.१३४) । ‘कचः शष्कव्रणे केशे बन्धे पुत्रे च गीर्पतेः । कचा करेण्वाम्’ इति हैमः ॥
कच्चित्
- ‘कत्’ इति कुशब्दादेशः । ‘कत्’ ‘चित्’ अनयोरप्येवम् ॥
कच्छः “तथाविधो जलप्रायः । कं जलं छ्यति परिच्छिनत्ति । ‘छो छेदने’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कच्छमनूपम्’ इति बोपालितः । (‘कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे, कच्छा स्यात्परिधानापराञ्चले । चीर्यां वाराह्याम् इति हैमः) । ‘त्रिषु’ इत्यस्य बाधनार्थं ‘पुँसि’ इति ॥”
कच्छः कचति । ‘कची दीप्तौ’ (भ्वा० आ० से०) । बाहुलकाच्छः । यद्वा केन छृणत्ति । ‘छृदिर् दीप्त्यादौ’ (रु० उ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘अथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाङ्गे पुंसि वाराह्यां चारिकायां च योषिति’ (इति मेदिनी) ॥
कच्छपः कच्छेन पिबति । ‘पा पाने’ (भ्वा० प० अ०) । ‘सुपि’ (३.२.४) इति योगविभागात्कः । ‘कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदान्तरे । पुंसि विध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च’ इति विश्वमेदिन्यौ ॥ त्रीणि कूर्मस्य ।
कच्छुरः कच्छूरस्यास्ति । ‘कच्छ्वा ह्रस्वश्च’ (५.२.१०७) इति रः । ‘कच्छुरा शूकशिम्ब्यां च शटीदुस्पर्शयोरपि । कच्छुरं वाच्यवत्प्राहुः पामने पुंश्चलेऽपि च’ इति विश्वः ॥
कच्छुरा कच्छूं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतः-’ (३.२.३) इति कः। पृषोदरादित्वात् (६.३.१०९) ह्रस्वः । ‘कच्छुरा शूकशिम्ब्यां च शटीदुःस्पर्शयोरपि’ (इति मेदिनी) ॥
कच्छूः केति । कषति । ‘कष हिंसायाम्’ (भ्वा० प० से०) । ‘कषेश्छ च’ (उ० १.८४) इत्यूः ॥
कञ्चुकः समाविति । कञ्चते । ‘कचि दीप्तिबन्धनयोः’ (भ्वा० आ० से०) । बाहुलकादुकन् । ‘कञ्चुको वारवाणे स्यान्निर्मोके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कञ्चुक्यौषधिभेदे च’ इति विश्वमेदिन्यौ ।
कञ्चुकः केति । कञ्च्यते । ‘कचि दीप्तिबन्धनयोः’ (भ्वा० आ० से०) । बाहुलकादुकः । ‘कञ्चुको वारबाणे स्यान्निर्मोके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । ‘कञ्चुक्यौषधिभेदे’ (इति मेदिनी) ॥
कञ्चुकिन् ‘कञ्चुकश्चोलकोऽस्त्येषाम्’ । इनिः (५.२.११५) । ‘कञ्चुकी जोङ्गकतरौ महल्ले पन्नगे विटे’ इति हैमः ॥
कटंवरा कटति । अच् (३.१.१३४) । कटं (रोगम्) वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘संज्ञायां भृतॄ-’ (३.२.४६) इति खच् । ‘अरुद्विषत्-’ (६.३.६७) इति मुम् ॥ -‘कटम्भरा इति पाठः – इत्यन्ये । ‘कठंभरा प्रसारण्यां रोहिण्यां गजयोषिति । कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि’ (इति मेदिनी) ॥
कटः केति । कटते । ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘शवे श्रोणौ किलिञ्जे च गजगण्डे भृशो कटः’ इति शाश्वतः ॥
कटः कटति । ‘कटे वर्षावरणयोः (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कटः श्रोणौ द्वयोः पुंसि कलिजेऽतिशयेशवे । समये गजगण्डेऽपि पिप्पली तु कटी मता’ (इति मेदिनी) ॥
कटः केति । कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कटः श्रोणौ द्वयोः पुंसि किलिंजेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां तु कटी मता’ (इति मेदिनी) ॥
कटकः “कटक इति । कटति, कट्यते वा । ‘कटे वर्षावरणयोः (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोः (उ० २.३२) । ‘कटकस्त्वद्रिनितम्बे बाहुभूषणे । (सेनायां राजधान्यां च)’ इति हैमः ॥”
कटकः कटति कट्यते वा । ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) क्वुन् (उ० २.३२) । ‘कटकोऽस्त्री नितम्बेऽर्द्रेर्दन्तिनां दन्तमण्डने । सामुद्रलवणे राजधानीवलययोरपि’ (इति मेदिनी) ॥
कटभी कटवद्भाति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । गौरादिः (४.१. ४१) ॥
कटम्भरा कटं बिभर्ति । ‘संज्ञायां भृतृ-’ (३.२.४६) इति खच् ॥
कटाक्षः केति । कटावतिशयितावक्षिणी यत्र । ‘बहुव्रीहौ सक्थ्यक्ष्णोः-’ (५.४.११३) इति षच् । कटं गण्डमक्षति वा । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘कटाक्षकाक्षौ’ इति रभसात् काक्षोऽपि ॥
कटिः केति । कट्यते । ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) ॥
कटिञ्जरः कठिनं जरयति । ‘जॄष्’ (दि० प० से०) । ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । पृषोदरादिः (६.३.१०९) ॥
कटिप्रोथः “प्रोथति । ‘प्रोथृ पर्याप्तौ’ (भ्वा० उ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । कट्याः प्रोथौ मांसपिण्डौ । कटी, प्रोथौ, इति नामद्वयं वा । ‘स्त्रियां स्फिचौ कटिप्रोथौ कटीप्रोथौ च पूलकौ’ इति रभसः । ‘प्रोथोऽश्वघणाध्वगयोः कट्याम्’ इति हैमः ॥”
कटुः कटत्यावृणोति तीक्ष्णतया मुखम् । कटे वर्षावरणयोः (भ्वा० प० से०) । ‘कटिवटिभ्यां च’ (उ० १.८) इत्युः । ‘कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गसुरभौ कटुका राजिकास्वपि’ इति हैमः।
कटुः केति । कटति ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) । ‘शृस्वृस्निहि-’ (उ० १.१०) इत्यत्र चकारादुः । ‘वटिकटिभ्यां च’ इत्युः – तन्न । उज्ज्वलदत्तादिषु तत्सूत्रस्यादर्शनात् । कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । (नपुंसकमकार्ये स्यात्पुंलिङ्गे रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च) (इति मेदिनी) ॥
कटुतुम्बी कटुश्चासौ तुम्बी च ॥
कटुरोहिणी कटुश्चासौ रोहिणी च । ‘कटुरोहिण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी’ इति निघण्टुः ॥
कट्फलः कटति । ‘कटे वर्षावरणयोः (भ्वा० प० से०) । क्विप् (३.२.१७८) । कट् फलमस्य ।
कट्वङ्गः कटून्यङ्गान्यस्य ॥
कठिल्लकः “कटति । ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) । बाहुलकादिल्लः ॥ कठति। ‘कठ शोके’ (भ्वा० प० से०) । अस्मादिल्लः, इत्यन्ये । स्वार्थे कन् (५.३.७५) । ‘कठिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः’ इति विश्वमेदिन्यौ ॥”
कडङ्गरः केति । गृणाति ‘गृ शब्दे’ (क्र्या० प० से०) । गिरति । ‘गॄ निगरणे’ (तु० प० से०) वा । अच् (३.१.१३४) । कडस्य गरः । ‘कडंगर-’ (५.१.६९) इति निर्देशान्मुक् । यद्वा कडति । ‘कड मदे’ (भ्वा० प० से०) । क्विप् (३.२.१७८) । कड् च तदङ्गं च । कडङ्गं राति । ‘रा दाने’ (अ० प० अ०) । कः (३.२.३) । ‘कडङ्कर’ इति हरदत्तपाठे कृञ् धातुः ॥
कडम्बः अस्येति । कडति ‘कड मदे’ (भ्वा० प० से०) । ‘कृकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) ॥
कडारः गडति । ‘गड सेचने’ (भ्वा० प० से०) । ‘गडेः कड च’ (उ० ३१३२) इत्यारन् । यद्वा कडनम् । कडः । ‘खनो घ च’ (३.३.१२५) इति घः । कडमृच्छति । ‘ऋ गतौ (भ्वा० प० अ०) । ‘कर्मण्यण्’ (३.२.३) । (‘कडारः पिङ्गले दासे’)
कणा कणति । ‘कण शब्दे (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । पचाद्यच् (३.१.१३४) । ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च’ (इति मेदिनी) ॥
कणा कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च । कणोऽतिसूक्ष्मे धान्यांशे’ इति विश्वः (मेदिनी) ॥
कणिका कणति । ‘कण शब्दे’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । गणाः सन्त्यस्या वा । अतः इति ठन् । ‘कणिका सूक्ष्मवस्तुनि । अग्निमन्थे’ इति हैमः ॥
कणिशः केति । कणयः कणाः सन्त्यस्य । लोमादित्वात् (५.२.१००) शः । कणिनं स्वावयवं श्यति वा । ‘शो तनूकरणे (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कणिशो धान्यशीर्षके’ इति तालव्यान्ते रत्नकोषः ॥
कण्टकारिका कण्टकानियर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) ॥
कण्टकिफलः कण्टकाः सन्त्यस्य । ‘अतः-’ (५.२.१.११५) इतीनिः । कण्टकिफलमस्य ॥
कण्ठः केति । कणति । ‘कण शब्दे’ (भ्वा० प० से०) । ‘कणेष्ठः’ (उ० १.१०३) कण्ठते । ‘कठि शोके’ (भ्वा० आ० से०) । अच् (३.१.१३४) ‘समीपगलशब्देषु त्रिषु कण्ठं विदुर्बधाः’ इति शाश्वतः । ‘कण्ठो गले संनिधाने ध्वनौ मदनपादपे’ इति विश्वः ॥
कण्ठभूषा भूष्यतेऽनया । ‘भूष अलङ्कारे’ (भ्वा० प० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । कण्ठस्य भूषा ॥
कण्डू केति । कण्डूयनम् । ‘कण्डूञ् गात्रविघर्षणे’ (कण्ड्वादिः) । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । सम्पदादि क्विप् (वा० ३.३.१०८) ॥
कण्डूया ‘अ प्रत्ययात्’ (३.३.१०२) ॥
कण्डूरा कण्डूं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥ पृषोदरादित्वात् (६.३.१०९) ह्रस्वत्वमपि । ‘कपिकच्छूश्च कण्डूरा कण्डुरा शूकशिम्बिका’ इतीन्दुः । मुकुटस्तु – कण्डूरस्त्यस्याः । ‘कण्डूकच्छूभ्यां ह्रस्वश्च’ इति रोः ह्रस्वत्वं च – इत्याह । तन्न । उक्तवार्तिकस्यादर्शनात् ॥
कण्डोलः केति । कण्ड्यते । ‘कडि भेदने’ (चु० प० से०) । ‘पटिकडिकण्डिभ्य ओलच्’ (उ० १.६६) ॥
कण्डोलवीणा
- कण्डते । ‘कडि मदे’ (भ्वा० प० से०) । बाहुलकादोलच्-‘कडिकपि-’-इति मुकुटस्त्वपाणिनीयः । कण्डोलस्य चण्डालस्य वीणा । ‘कटोलवीणा’ इति पाठे तु कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) ‘कपिगडि-’ । (उ० १.६६) इत्योलच् ॥
कत्तृणम् अथेति । कुत्सितं तृणम् । ‘तृणे च जातौ’ (६.३.१०३) इति कोः कदादेशः । (‘कत्तृणं तृणभित्पृश्न्योः’ इति मेदिनी) ॥
कथा ‘कथ वाक्यप्रबन्धे’ (चु० उ० से०) । ‘चिन्तिपूजिकथि-’ (३.३.११५) इत्यङ् । कथा कादम्बर्यादिः ।
कदध्वा कुत्सितोऽध्वा । कुगति-’ (३.२.१८) इति समासः । ‘कोः कत्तत्पुरुषेऽचि’ (६.३.१०१) ॥
कदम्बः कदति । ‘कद’ सौत्रो हिंसार्थः । ‘कृकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) । ‘कदेर्णिद्वा’ इत्यम्बच् – इति मुकुटः । तन्न । तादृशसूत्राभावात् ॥ ‘कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्’ ॥
कदम्बकः “कन्दति, कन्दयति वा । ‘कदि हिंसायाम् (कदि आह्वाने रोदने च’ (भ्वा० प० अ०) । ‘कृकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) । अनित्यत्वान्न नुम् । स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥”
कदम्बकम् “कुत्सितमम्बते, अम्ब्यते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । अच् (३.१.१३४) ‘कोः कत्-’ (६.३.१०१) । घञ् (३.३.१९) वा । कदति, कद्यते वा । ‘कदिः सौत्रः । बाहुलकादम्बच् । ‘कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्’ (इति मेदिनी) ॥”
कदरः कदेति । दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । पचाद्यच् (३.१.१३४) । कस्य जलस्य दरः । ‘कदरः श्वेतखदिरे क्रकचव्याधिभेदयोः’ ॥
कदली कदेति । कन्दति । कन्द्यते वा । ‘कदि आह्वाने रोदने च’ (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) साधुः (आगमशासनमनित्यम्) । केन वायुना दल्यते वा । ‘दल विशरणे’ (भ्वा० प० से०) । ‘खनो घ च’ (३.३.१२५) इति घः । गौरादिः (४.१.४१) । यत्तु - घञर्थे कः (वा० ३.३.५८) - इति मुकुटः । तन्न । परिगणनात् । मुकुटस्तु कदेः सौत्रात् ‘कदल्यादयः’ इत्यलच् – इत्याह । तन्न । कदेः सौत्रस्य धातोरभावात् । उज्ज्वलदत्ताद्युणादिवृत्तिषूक्तसूत्रस्यादर्शनात् । ‘कदला कदलौ पृश्न्यां कदली - कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदला डिम्बिकायां च शाल्मलीभूरुहेऽपि च (इति मेदिनी) ॥ अजादित्वात् (४.१.४) टापि कदला । ‘कदलश्च कदल्यसौ’ इति व्याडिः ॥
कदली केति । षडेते हरिणभेदा अजिनयोनयः स्युः । के दलति । ‘दल विशरणे’ (भ्वा० प० से०) । अच् (४.१.१३४) । ‘कन्देर्नलोपश्च’ इत्यरन् – इति मुकुटस्तु चिन्त्यः । उज्ज्वलदत्तादिषुक्तसूत्रादर्शनात् । ङीष् (४.१.६३) । ‘कदली हरिणान्तरे । रम्भायां वैजयन्त्यां च’ इति (लान्तेषु) हैमः । ‘रम्भावृक्षे च कदली पताकामृगभेदयोः’ (इति लान्तेषु मेदिनी) । ‘कदलं त्रिषुः’ इत्यमरमाला ॥
कदाचित् “- कदा च चिच्च, अनयोः समाहारः ॥”
कदुष्णम् कदादेशश्च ।
कद्रुः कन्दति । ‘कदि आह्वाने रोदने च’ (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) साधुः । ‘कद्रुस्त्रिषु स्वर्णपिङ्गे नागानां मातरि स्त्रियाम् ।
कनकम् कनति । ‘कनी दीप्तौ’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘कनकं हेम्नि पुंसि स्यात्किंशुके नागकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च’ (इति मेदिनी) ॥
कनकाध्यक्षः कनकस्याध्यक्षः ॥
कनकालुका कनकस्यालुः । ‘संज्ञायां कन्’ (५.३.७५) ॥
कनकाह्वयः कनकमाह्वयो यस्य । ‘कनकं हेम्नि पुंसि स्यात्किंशुके नागकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च’ (इति मेदिनी) ॥
कनिष्ठः अतिशयेन युवा । ‘अतिशायने तमविष्ठनौ’ (५.३.५५) । ‘युवाल्पयोः कन्नन्यतरस्याम्’ (५.३.६४) । ‘द्विवचन-’ (५.३.५७) इतीयसुनि ‘कनीयान्’ अपि ॥
कनिष्ठा अत्यल्पा । ‘अतिशायने-’ (५.३.५५) इतीष्ठन् । ‘युवाल्पयोः कन्-’ (५.३.६४) ‘कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ’ इति हैमः ॥
कनीनिका कनति । ‘कनी दीप्तौ’ (भ्वा० प० से०) । बाहुलकादीनः । स्वार्थे कन् (ज्ञापि० ५.४.५) । टाप् (४.१.४) । इत्वम् (७.३.४४) । ‘कनीनिका तारकेऽक्ष्णः स्यात्कनिष्ठाङ्गुलावपि’ (इति मेदिनी) ॥
कन्दः कन्दति । कन्दयति । कन्द्यते वा । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्’ (इति मेदिनी) ॥
कन्दरः कं जलम् । तेन दीर्यते । ‘ॠदोरप्’ (३.३.५७) । (‘कंदरोऽङ्कुशे । विवरे च गुहायां च’) ॥ स्त्रियां टाप् (४.१.४) ॥
कन्दरालः कन्दरां लाति । ‘आतः-’ (३.२.३) इति कः । ‘कंदरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥
कन्दर्पः ‘कम्’ इत्यव्यये कुत्सायाम् । कुत्सितो दर्पोऽस्य कंदर्पः । यद्वा कं सुखम् तत्र तेन वा दृप्यति । ‘दृप हर्षमोहनयोः (दि० प० अ०) । पचाद्यच् (३.१.१३४) ।
कन्दली कन्दे सस्यमूले लीयते । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः। यद्वा कन्दति । ‘कदि आह्वाने’ (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादिः (४.१.४१) । (‘कन्दलं त्रिषु कपालेऽप्युपरागे नवाङ्कुरे’) । ‘कलध्वानौ कन्दली तु मृगगुल्मप्रभेदयोः’ इति लान्तेषु मेदिनी) । अत एव – इन्नन्तावेतौ – इति स्वामी चिन्त्यः ॥
कन्दुः नेति । स्कन्दिति । ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । ‘स्कन्देः सलोपश्च’ (उ० १.१४) इति कुः । ‘वा’ इत्यस्यात्राप्यन्वयः । पक्षे स्त्रीसाहचर्यात् ॥
कन्दुकः “कन्द्यते । ‘कदि आह्वाने रोदने च’ (भ्वा० प० से०) । बाहुलकादुः । कं सुखं ददाति, दयते, द्यति, यच्छति, वा । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । स्वार्थे कन् (ज्ञापि० ५.४.५) कं शिरो दुनोति, दवति, वा । ‘टु दु उपतापे’ (भ्वा० प० अ०) । ‘दु गतौ’ (भ्वा० प० अ०) वा । प्राग्वत् ॥ ‘वीटा’ इत्यपि भारते ।”
कन्यकाजातः कन्यकया जातः ॥
कन्या केति । कनति । कन्यते वा । ‘कनी दीप्तौ’ (भ्वा० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘कन्या नार्यां कुमार्यां च राश्यौषधिविशेषयोः’ इति हैमः । ‘कन्या कुमारिकानार्यो- रौषधीराशिभेदयोः’ (इति मेदिनी) ॥
कपटः कपट इति । के मूर्ध्नि पट इवाच्छादकः । यद्वा पटतीति पटः । पट गतौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३५) । कस्य ब्रह्मणोऽपि पटो व्यापकः॥
कपर्दः “कपर्द इति । ‘पर्व पूरणे’ (भ्वा० प० से०) । सम्पदादित्वात् (वा० ३.३.१०८) । भावे क्विप् । राल्लोपः’ (६.४.२१) । केन सुखेन जलेन वा परं पूर्तिं ददाति । “सुपि’ (३.२.४) इति योगविभागात् कः । कस्य जलस्य परा पूरणेन दायतीति वा । ““दैप् शोधने’ (भ्वा० प० अ०) (कपर्दः पार्वतीभर्तुर्जटाजूटे वराटके’ । अर्शआद्यजन्तः शिवेऽपि) ।”
कपर्दी कपर्दोऽस्यास्ति । इनिः (५.२.११५) ।
कपाटम् कं वातं शिरो वा पाटयति । ‘पट गतौ” (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥ ‘कवाटम्’ इत्यन्ये । तत्र कं वातं वटति । ‘वट वेटने’ (भ्वा० प० से०) । स्त्रियाम् टिड्ढा -’ (४.१.१५) इति ङीप् । ‘कुड् शब्दे’ (तु० आ० अ०) । ‘ॠदोरप्’ (३.३.५७) । कवं शब्दमटतीति वा ॥
कपालः कं पालयति । ‘कर्मण्यण्’ (३.२.१) । कम्पते । ‘कपि चलने’ (भ्वा० आ० से०) । ‘तमि- विशि-’ (उ० १.११८) इति कालन् । ‘कपि’ इति निर्देशान्नलोपः । आगमशास्त्रस्यानित्यत्वं वा । ‘कपालोऽस्त्री शिरोऽस्थ्नि स्यात् घटादेः शकले व्रजे’ (इति मेदिनी) ॥
कपालभृत् कपालं बिभर्ति ।।
कपिः केति । कम्पते । ‘कपि चलने’ (भ्वा० आ० से०) । ‘कुण्ठिकम्प्योर्नलोपश्च’ (उ० ४.१४४) इतीन् । ‘कपिर्ना सिह्लके शाखामृगे च मधुसूदने’ इति विश्वमेदिन्यौ ॥
कपिकच्छुः कपीनां कच्छूः । कण्डूहेतुत्वात् ॥
कपित्थः अथेति । कपयस्तिष्ठन्त्यत्र । पृषोदरादिः (६.३.१०९) ॥ अमरमालायां पवर्गतृतीयमध्यः (कबित्थः) अपि पृषोदरादिः ॥
कपिलः ‘कवृ वर्णा’ (भ्वा० आ० से०) । ‘कबे पश्च (उ० १.५५) इति इलच् प्रत्ययः । पकारश्चान्तादेशः । कपिं वर्णं लातीति वा । ‘पुण्डरीककरिण्यां तु शिंशिपागोविशेषयोः । स्त्री रेणुकायां कपिला वर्णे ना कुक्कुरे मुनौ । अनले वासुदेवे च कपिलः परिकीर्तितः’ ।
कपिला कपिलपिङ्गलवर्णत्वात्कपिलापिङ्गले । (‘कपिला रेणुकायां च शिंशपा गोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च मुनिभेदे च कुकुरे’ (‘पिङ्गलो नागभिदुद्रचण्डांशुपारिपार्श्वके । निधिभेदे कपावग्नौ पुंसि स्यात्कपिलेऽन्यवत् । स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्’)
कपिला कपिलो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । ‘कपिला रेणुकायां च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् । नानले वासुदेवे च मुनिभेदे च कुक्कुरे’ (इति मेदिनी) ॥
कपिवल्ली कपिरिव वल्ली ॥ कोल इव वल्ली । तयोस्तुल्यरोमत्वात् ॥
कपिशः “कपिर्वर्णविशेषः । सोऽस्यास्ति । लोमादित्वात् (५.२.१००) शः । कपिर्मर्कटः । तद्वर्णत्वादिति वा । ‘कापिशस्त्रिषु श्यामे, स्त्री माधव्यां, सिह्लके पुमान्’ ।”
कपीतनः “तनोति । ‘तनु विस्तारे’ (त० उ० से०) । पचाद्यच् (३.१.१३४) कपीनां कपेर्वर्णस्य वा तनः । अन्यषामपि (६.३.१३७) इति दीर्घः । यद्वा याः लक्ष्म्यास्तन ईतनः, कपीनां कपेर्वा ईतनः ॥”
कपीतनः या लक्ष्म्यास्तन ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः । ‘कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च । अश्वत्थे च’ इति विश्वः ॥
कपीतनः तनोति । ‘तनु विस्तारे’ (तु० उ० से०) । अच् (३.१.१३४) । यास्तनः ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः ॥
कपोतः “कस्य वायोः पोत इव, को वायुः पोतो नौरिवास्य वा । ‘पारावतः कपोतः स्यात्कपोतो विहगान्तरे’ इति विश्वः ॥”
कपोतपालिका कपोतेति । पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ण्वुल् (३.१.१३३) । कपोतानां पालिका । कपोतान्पालयति कर्मण्यण् (३.२.१) । ङीप् (४.१.१५) । ‘संज्ञायां कन् (५.३.७५) इति वा ॥
कपोताङ्घ्रिः कपोतस्याङ्घ्रिरिव ॥
कपोलः कम्पते । ‘कपि चलने’ (भ्वा० आ० से०) । ‘कपिगडिगण्डि-’ (उ० १.६६) इत्योलच् । ‘कपि’ इति निर्देशान्नलोपः । कं सुखं पोलति । ‘पुल महत्त्वे’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (वा० ३.२.१) ॥
कफः “केति । केन जलेन फलति । ‘फल निष्पत्तौ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा के शिरसि फणति, फक्कति, वा । प्राग्वत् डः (वा० ३.२.१०१) ॥”
कफी कफोऽस्यास्ति । ‘द्वन्द्वोप-’ (५.२.१२८) इतीनिः ॥
कफोणिः “केति । कं सुखं स्फोरयति । ‘स्फुर स्फुरणे सञ्चलने च’ (तु० प० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । पृषोदरादिः (६.३.१०९) । यद्वा केन सुखेन फणति, स्फुरति वा । ‘फण गतौ’ (भ्वा० प० से०) । ‘स्फुर सञ्चलने’ (तु० प० से०) वा । इन् (उ० ४.११८) । पृषोदरादिः (६.३ १०९) । ‘कफोणिः कफणिर्द्वयोः’ इति शब्दार्णवः ॥”
कबन्धः केति । कं बध्यते छिद्यतेऽस्मात् । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । घञ् (३.३.११९) । केन वायुना बध्यते वा । कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः’ इति हैमः ॥
कबन्धम् “कं सुखं बध्नाति । ‘बन्ध बन्धने । (क्र्या० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘कबन्धं सलिले रुण्डे शाश्वतादिदमेकं नाम । ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरे । क्लीबं जले, पुंस्युदरे राहुरक्षोविशेषयोः । केचित्तु– ‘कमन्धम्’ इति पठित्वा द्वे नामनी इत्याहुः ।”
कबरी केति । कूयते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘कोररन्’ (उ० ४.१५५) । ‘जानपद-’ (४.१.४२) इति ङीष् ।– कं शिरो वृणोत्याच्छादयति । ‘-क्रवर-’ (४.१.४२) इति निर्देशादणं बाधित्वाच् (३.१.१३४) इति मुकुटः ।– कृष्णवर्णा कं वृणोति वा इति स्वामी चोक्तसूत्रादर्शनमूलकौ । ‘कवरं लवणाम्लयोः । कवरी केशविन्यासशाकयोः’ (इति हैमः) ॥
कबरी ‘जानपद-’ (४.१.४२) इति ङीषि कबरी केशानां संनिवेशविशेषः । सैव । ‘कर्वरी’ इति च पाठभेदः-इति स्वामी ॥
कमठः “काम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘कमेरठः’ (उ० १.१००) । के जले मठति, इति वा । ‘मठ मदनिवासयोः (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) ‘कमठः । कच्छपे पुंसि भाण्डभेदे नपुंसकम् ।”
कमठी कमठीति । ‘जातेः- (४.१.६३) इति ‘पुंयोगात् (४.१.४८) इति वा ङीष् । कमठी ॥
कमण्डलुः अस्त्रीति । कस्य प्रजापतेर्जलस्य वा मण्डः सारः । तं लाति लभते वामितद्र्वादिः (वा० ३.२.१८०) । मण्डनम् । ‘मडि भूषायाम्’ (भ्वा० प० से०) ॥
कमलम् कम्यते । ‘कमु कान्तौ (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । ‘कमला श्रीर्जलं पद्मं कमलं कमलो मृगः’ इति धरणिदर्शनात् ‘कमलम्’ इत्येकं नाम । ‘कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः इति हेमचन्द्रः
कमलम् कं जलमलति । ‘अलं भूषणादौ’ (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५१) कः । यद्वा काम्यते । ‘कमु कान्तौ (भ्वा० आ० से०) । ‘वृषादिभ्यः’ (उ० १.१०६) इति कलच् । ‘कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः’ इति हैमः ।
कमला “कमलैवम् । ‘कमलं सलिले ताम्रे जलजे क्लो’ (व्यो) म्नि भूषणे । मृगभेदे तु कमलः, कमला श्रीवरस्रियोः ।”
कमलासनः कमलमासनं यस्य ॥
कमलोत्तरम् अथेति । कमलादुत्तरम् ॥
कम्पः ‘कपि किंचिच्चलने’ (भ्वा० आ० से०) । घञ् (३.३.१८)
कम्बलः “कम्बति, कम्ब्यते, वा । ‘कम्ब गतौ’ () । वृषादित्वात् (उ० १.१०६) कलच् । संज्ञापूर्वकत्वान्नलोपो न । ‘कम्बलः क्रिमिसास्नयोः । नागप्रभेदे प्रावारे वैकक्ष्ये कम्बलं जले’ इति हैमः ॥”
कम्बलिवाह्यकम् कम्बलः सास्नास्यास्ति । इनिः (५.२.११५) । कम्बलिभिर्वृषैरुह्यते । ण्यत् (३.१.१२४) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
कम्बिः कम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । बाहुलकाद्विन् ॥
कम्बुः काम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘जत्र्वादयश्च’ (उ० ४.१०२) इति निपातितः । कम्बुर्वलयङ्खयोः । गजे शम्बूके कर्चरे ग्रीवायामलिकेऽपि च’ इति हैमः ॥ एतौ पुंनपुंसके । द्वे शङ्खस्य ।
कम्बुग्रीवा केति । कम्बुः शङ्ख इव ग्रीवा ॥
करः कीर्यते । ‘कॄ विक्षेपे (तु० प० से०) । ‘ॠदोरप्’ (३.३५७) । (‘करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः’)
करः कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ऋदोरप्’ (३.३.५७) । ‘करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः’ (इति मेदिनी) । प्रज्ञाद्यणि (५.४.३८) । ‘कारो वधे निश्चये च बलौ रत्ने यतावपि’ (इति विश्वमेदिन्यौ) ॥
करकः कृणोति । ‘कृञ् हिंसायाम्’ (स्वा० उ० अ०) । ‘कृञादिभ्यः संज्ञायां वुन्’ (उ० ५.३५) क्षिपकादित्वात् (वा० ७.३.४५) इत्वाभावः पुंस्यपि । ‘वर्षोपलस्तु करका करकोऽपि च दृश्यते । (‘करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करङ्के च कमण्डलौ)
करकः “समाविति । करोति दोषाभावम् । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले, न स्त्री करङ्के च कमण्डलौ’ इति मेदिनी ॥”
करजः करेण जन्यते । ‘अन्यत्रापि’ (३.२.१०१) इति डः । कं सुखं जलं वा रञ्जयति। ‘कर्मण्यण्’। (३.२.१) – ‘त्यजरज-’ (३.२.१४२) इति निर्देशादक्डित्यपि नलोपः। संज्ञापूर्वकत्वान्न वृद्धिः। – णिलोपस्य स्थानिवत्त्वान्नोपधावृद्धिः – इति मुकुटः । तन्न । एवमपि णिनिमित्तवृद्धेर्दुर्वारत्वात् । ‘करजं स्याद्व्याघ्रनखे करञ्जनखयोः पुमान्’ ॥
करजम् करजं नखम् । तदिव ॥
करञ्जकः कं रञ्जयति । ‘कर्मण्यण्’ (३.२.१)। (‘ज्ञापकसिद्धं न सर्वत्र’ इत्युक्तेर्नलोपाभावः)। स्वार्थे कन् (५.३.७५) ॥
करटः करोति शकुनम् । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । के रटति । ‘रट परिभाषणे’ (भ्वा० प० से०) । अच् (३.१.१३४) वा । ‘करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीवने । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे । (‘करटो वाद्यभेदे’) (इति विश्वमेदिन्यौ) ॥
करणः “- श्विति । शूद्रा च विट् च । तयोः सुतः । किरति, कीर्यते, वा । ‘कॄ’ (तु० प० से०) । ‘बहुलमन्यत्रापि’ (उ० २७८) इति युच् । ‘कृत्यल्युटः-’ (३.३.११३) इति वा । ‘करणं हेतुकर्मणोः । वालवादौ हसे लेपे नृत्यगीतप्रभेदयोः । क्रियाभेदेन्द्रियक्षेत्रकायसंवेशनेषु च । कायस्थे साधने क्लीबं पुंसि शूद्राविशोः सुते’ इति विश्वः ॥”
करतोया करेति । करस्य तोयम् । तदत्रास्ति । अर्शआद्यच् (५.२.१२७) । गौरीविवाहे शंकरहस्तच्युतम् ॥
करपत्त्रम्
- करेण कराद्वा पतति । ‘पत्लृ पतने’ (भ्वा० प० से०) । ष्टन् (उ० ४.१५९) ॥
करपालः करं पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘करवालः’ इति पाठान्तरम् । करं वलति । ‘वल प्राणने’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) करेण वलति वा । ज्वलादिणः (३.१.१४०) । यद्वा वलनम् । वालः । ‘वल वेष्टने’ (भ्वा० आ० से०) । घञ् (३.३.१८) । करे वालो यस्य । करेण वल्यते वा । कर्मणि घञ् (३.३.१९) ॥
करभः मणीति । मणिर्बध्यतेऽत्र । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । (‘मणिबन्धः पाणिमूलम्’ इति हलायुधः । ‘करोऽस्यादौ मणिबन्धो मणिश्च सः’ इति हैमनाममाला) । कनिष्ठाया आ । ‘आङ् मर्यादाभिविध्योः’ (२.१.१३) इत्यव्ययीभावः । कृणाति । ‘कॄञ् हिंसायाम्’ (क्र्या० प० से०) । किरत्यनेन । ‘कॄ विक्षेपे’ (तु० प० से०) वा । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । -‘कॄशॄगर्दिराशिवल्लिभ्योऽभच्’ इति मुकुटोऽपाणिनीयः । करे भाति । ‘भा दीप्तौ’ (अ० प० अ०) । ‘सुपि-’ (३.२.४) इति को वा । ‘करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते’ (इति मेदिनी) ॥ ‘ज्ञापकसिद्धं न सर्वत्र’ इति बहिर्योगे पञ्चमी’ (ज्ञापि० २.१.१२) न ।
करभः “केति । किरति, कीर्यते वा । ‘कॄशॄशलि(कलि)गर्दिभ्योऽभच्’ (उ० ४.१२२) । ‘करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते | (इति मेदिनी) ॥”
करभूषणम् “करं भूषयति । करो भूष्यतेऽनेन वा । ल्युट् (३.३.११३,११७) । ‘क्लीबं मण्डने सूत्रे कङ्कणं करभूषणम्’ इति रभसः । ‘हस्तमण्डनसूत्रे स्यात् कङ्कणो ना प्रतीसरः’ इति रत्नकोषः ॥”
करमर्दकः करं मृद्नाति । ‘मृद क्षोदे’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) । ‘मकरन्दः करमर्दः शिरीषो मूर्धपुष्पकः’ इति शुभाङ्गः। —करो मर्दकोऽस्य इति मुकुटः । तन्न । उक्तकोशविरोधात् ॥
करम्भः “केति । केन जलेन रम्यते मिश्रीक्रियते । केन वायुना वा नीयते । ‘रभिः’ (भ्वा० आ० अ०) अनेकार्थः । ‘अकर्तरि च-’ (३.३.१९) इति घञ् । ‘रभेरशब्लिटोः’ (७.१.६३) इति नुम् । ‘करम्बः’ इति पाठे केन जलेन रम्यते । ‘रबि शब्दे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । यद्वा किरति’ कीर्यते, वा । ‘कॄ विक्षेपे’ (तु० प० से०) ‘कॄकदिकडिकटिभ्योऽम्बच्’ (उ० ४.८२) ॥”
कररूहः करे रोहति । ‘इगुपध-’ (३.१.१३५) इति कः ॥
करवालिका करं पालयति । ‘पाल रक्षणे’ (चु० प० से०) । अण् (३.२.१) । ङीप् (४.१.१५) । कन् (ज्ञापि० ५.४.५) । ‘कारवालिका इति पाठे तु करं वलते । ‘वल हिंसादानयोः’ (भ्वा० आ० से०) । अण् (३.२.१) । करेण वाल्यते वा । णिजन्तात् ‘अच इः’ (उ० ४.१३९) । कन् (ज्ञापि० ५.४.५) ॥
करवीरः करं वीरयति । ‘वीर विक्रान्तौ (चु० उ० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘करवीरः कृपाणे स्याद्दैत्यभेदाश्वमारयोः’ । ‘करवीर्यदितीश्रेष्ठगवीपुत्रवतीषु च’ (इति मेदिनी) ॥
करशाखा करस्य शाखा इव ॥
करशीकरः करस्य शीकरः ॥
करहाटः करेति । करं हाटयति । ’हट दीप्तौ’ (भ्वा० प० से०) ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । (यत्तु) - कं जलं रहति त्यजति । करहं पद्मम् । ततो हटति बहिर्गच्छति इति मुकुटः । तन्न । ‘करहहाटः’ इति प्रसङ्गात् । (अटतीति विग्रहेऽपि) वृद्धिप्रसङ्गाच्च । ‘करहाटः पद्मकन्दे देशद्रुमविशेषयोः’ इति हैमः ॥
करहाटकः करं हाटयति । ‘हट दीप्तौ’ (भ्वा० प० से०) । णिच् (३.१.२६) । ‘कर्मण्यण्’ (३.२.२) । स्वार्थे कन् (५.३.७५) । ‘करहाटः शिफाकन्दे पद्मस्य मदनद्रुमे ॥
करिगर्जितम् करिणां गर्जनम् । ‘गर्ज शब्दे’ (भ्वा० प० से०) । पूर्ववत् क्तः (३.३.११४) ॥
करिणी केति । करोऽस्त्यस्याः । इनिः (५.२.११५) । ‘ऋन्नेभ्यो ङीप्’ (४.१.५) ॥
करिपिप्पली अथेति । करीव पिप्पली । बृहत्त्वात् ॥
करिशावकः करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुतः’ (इति मेदिनी) । करिणः शावकः ॥
करी करोऽस्यास्ति । इनिः (५.२.११५) ॥
करीरः करीति । किरति । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄशॄपॄकटिशौटिभ्य ईरन्’ (उ० ४.३०) । यत्तु-‘कॄगॄशौडिभ्यः ईरच्’ - इति मुकुटः । तन्न । उणादिवृत्तिषु तत्पाठस्यादर्शनात् । करिणमीरयति वा । ‘वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान् । करीरी चीरिकायां च दन्तमूले च दन्तिनाम्’ (इति मेदिनी) ॥
करीषम् तेति । कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄतॄभ्यामीषन्’ (उ० ४.२६) ॥
करुणा करणम् । कॄवृदारिभ्य उनन्’ (उ० ३.५३) । ‘करुणो रसवृक्षयोः । करुणा तु कृपायां स्यात् इति हैमः॥
करेटुः के वायौ जले वा रेटति । पूर्ववत् । ‘कर्करेटुः करेटु स्यात् करटुः कर्कराटुकः’ इति रभसः ॥
करोटिः शीति । कं वारं रोटते । ‘रुट दीप्तौ प्रतिघाते च’ (भ्वा० आ० से०) । केन रुट्यते वा । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) । कं रोटयति वा । ‘रुट दीप्तौ’ चुरादिः । ‘अच इः’ (उ० ४.१३९) ॥
कर्कः “सीति । करोति, क्रियते, वा । ‘कृदाधा-’ (उ० ३.४०) इति कः । ‘कर्कः कर्केतने वह्नौ शुक्लाश्वे दर्पणे घटे’ (इति मेदिनी) ॥”
कर्कटकः कृणाति । कॄ हिंसायाम् (क्र्या० प० से०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति विच् । कटति । कटे वर्षावरणयोः (भ्वा० प० से०) । पचाद्यच् (३.३.१३४) । कर् चासौ कटश्च । ‘अहरादीनां पत्यादिषु वा रेफः” (वा० ८.२.७०) । ततः स्वार्थे कन् (५.३.७४) । ‘कर्कं’ इति सौत्रो धातुः । ‘शकादिभ्योऽटन्’ (उ० ४.८१) वा० । कर्कं श्वेतवर्णं टलति । ‘टल गतौ’ (भ्वा० प० से०) । डः (वा०३.२.१०१) वा । कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगे’ इति हैमः ॥
कर्कटी करं कटति । ‘कटे वर्षादौं’ (भ्वा० प० से०) । इन् (उ० ४.११८) । शकन्ध्वादिः (वा० ६.१.९४) । ङीष् (वा० ४.१.४१) वा ॥
कर्कन्धूः अथेति । कर्कं कण्टकं दधाति । ‘डुधाञ्’ (जु० उ० अ०) । अन्दूदृन्भू-’ (उ० १.९३) इति निपातितः कूप्रत्ययान्तः ॥ शकन्ध्वादित्वात् (वा० ६.१.९४) पररूपम् इति स्वामी चिन्त्यः ॥
कर्करी केति । कर्कणम् । ‘कर्क हासे’ () । घञ् (३.३.१८) । कर्कं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.६१) । ‘कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिषु’ इति विश्वः (मेदिनी) ॥
कर्करेटुः कर्केति । ‘कर्क’ इति रेटति । रेटृ भाषणे’ (भ्वा० उ० से०) । मृगय्वादिः (उ० १.३७) । -‘अपष्ट्वादयश्च’ इति मकटस्तु चिन्त्यः । उज्ज्वलदत्तादिष्वस्य सूत्रस्यादर्शनात् ॥
कर्कशः करे कशति । ‘कश शब्दे’ । पचाद्यच् (३.१.१३४) । अन्तर्भावितण्यर्थो वा । शकन्ध्वादिः (वा० ६.१.९४) ॥
कर्कारुः कर्कं शुक्लवर्णमृच्छति । ‘ऋ गतौ (भ्वा० प० अ०) । बाहुलकादुण् ॥
कर्चूरः कर्चति । ‘कर्च गतौ’ । खर्जादित्वात् (उ० ४.९०) ऊरः । ‘कर्चूरः स्यात् पुमाञ्शट्यां सुवर्णे तु नपुंसकम्’ (इति मेदिनी) ॥ ‘कर्वुरः’ अपि ॥
कर्चूरकः केति । कर्जति । ‘कर्ज व्यथने’ (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । पृषोदरादिः (६.३.१०९) । स्वार्थे कन् (५.३.७५) ॥
कर्जू खर्जनम् । खर्ज मार्जने च । ‘चाद्व्यथने’ (भ्वा० प० से०) । ‘कृषिचमि-’ (उ० १.८०) इत्यूः । ‘खर्जूः खर्जूरीकोटकण्डुषु’ इति हैमः ॥
कर्णः केति । कीर्यते शब्दग्रहणाय क्षिप्यते । यद्वा कीर्यते शब्दोऽस्मिन् । किरति शरीरे मुखं वा । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄवृजॄसि-’ (उ० ३.१०) इति नः । यद्वा कर्णयति । ‘कर्ण भेदने’ (चु० उ० से०) अदन्तः । अच् (३.३.१३४) । ‘कर्णः पृथासुते ज्येष्ठे सुवर्णालौ श्रुतावपि’ (इति मेदिनी) । यत्तु करोति शब्दज्ञानम् इति मुकुटः । तन्न । ह्रस्वान्नप्रत्ययाविधानात् ॥
कर्णजलौकाः कर्णेति । कर्णस्य जलौकेव ॥ (कर्णजलौकाः) सान्ता वा ॥
कर्णधारः कर्णेति । ’कर्णः श्रोत्रमरित्रं च’ इति दुर्गः । तं धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) (१) नावा तरति । ‘नौद्व्यचष्ठन्’ (४.४.७) द्वे नाविकस्य ।
कर्णिका केति । कर्णस्यालङ्कारः । प्राग्वत् । ‘कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिहस्ताग्रे’ इति हैमः ॥
कर्णिकारः कर्णिकामियर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘कर्मण्यम्’ (३.२.१) । ‘कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले’ इति मेदिनी ॥
कर्णीरथः केति । कर्णसाध्या श्रवणक्रियोपचारात्कर्णः । कर्णोऽस्यास्ति । इनिः (५.२.११५) । कर्णी चासौ रथश्च शब्दमात्रेण रथः । न तु वस्तुतो रथः । यद्वा सामीप्यात्कर्णशब्देन स्कन्धो लक्ष्यते । कर्णः स्कन्धः । सोऽस्त्यस्य वाहकत्वेन । स्कन्धवाह्यः । स चासौ रथश्च । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः ॥
कर्तरी
- कृन्तति । ‘कृती छेदने’ (तु० प० से०) । बाहुलकादरः । यद्वा कर्तनम् । घञ् (३.३.१८) । कर्तं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥
कर्दमः कर्दति । ‘कर्द कुत्सिते शब्दे’ (भ्वा० प० से०) । ‘कलिकर्द्योरमः’ (उ० ४.८४) । (५)
कर्नवेष्टनम् कर्णस्य वेष्टनम् । वेष्ट्यतेऽनेन । ‘वेष्ट वेष्टने’ (भ्वा० आ० से०) । ल्युट् (३.३.११७) ॥
कर्पटः किरति । ‘कॄ विक्षेपे’ (तु० प० से०) । कृणाति । ‘कॄ हिंसायाम्’ (क्र्या० प० से०) वा । करोति । ‘डुकृञ्’ (तु० उ० अ०) वा । विच् (३.२.७५) कर् चासौ पटश्च । यद्वा करस्य पटः । शकन्ध्वादिः (वा० ६.१.९४) ॥ स्वामी तु—द्रवद्रव्यं येन पूयते तत्र रूढो- ऽयम्-इत्याह । मुकुटस्तु-मलिनत्वादिदुष्टजीर्णवस्त्रखण्डस्य ॥
कर्परः “स्यादिति । कल्पते । ‘कृपू सामर्थ्ये’ (भ्वा० अ० से०) । बाहुलकादरः, लत्वाभावश्च । (‘कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः’ इति हैमः) ॥”
कर्परालः कर्परमालति । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘कर्मण्यम्’ (३.२.१) । यद्वा कर्परास्यास्ति । सिध्मादित्वात् (५.२.९७) लच् ॥ ‘कन्दरालः’ इति वा पाठः । पूर्ववत् ॥
कर्परी केति । कल्पते । ‘कृपू सामर्थ्ये (भ्वा० आ० से०) । बाहुलकादरट् लत्वाभावश्च ॥
कर्पूरः अथेति । किरति । ‘कॄ विक्षेपे’ (तु० प० से०) कृणाति । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) वा । करोति । ‘डुकृञ् करणे’ (त० उ० अ०) वा । विच् (३.२.७) । पूर्यते । ‘पूरी आप्यायने’ (दि० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । कर् चासौ पूरश्च ।–कल्पते । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः इति स्वामिमुकुटौ । तच्चिन्त्यम् । ‘कृपो रो लः’ (८.२.१८) इति लत्वस्य दुर्वारत्वात् । बाहुलकात्तदभावो वा बोध्यः ॥
कर्बुरः कुर्वुरो वर्णेन । यद्वा-कर्वति । ’कर्व हिंसायाम्’ (भ्वा० प० से०) । ‘मद्गुरादयश्च’ (उ० १.४१) इति उरच् । (‘कर्वुरं सलिले हेम्नि कुर्वुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्’) ‘कर्वरः’ इति पाठान्तरम् । ‘नैर्ऋतः कर्वरः क्रव्यात् कर्वुरो यातुरक्षसी’ इति शब्दार्णवः । कॄ हिंसायाम्’ (क्र्या० उ० से०) । कृणाति । ‘कॄगॄशवृचतिभ्यः श्वरच् (उ० २.१२१) ।
कर्बुरः ‘कर्ब हिंसायाम् (भ्वा० प० से०) । मद्गुरादयश्च’ (उ० १.४१) इति निपातनात्कुरच् । बवयोरभेदात्कर्बुरः । ‘कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ।
कर्मकरः
- कर्म करोति । ‘कर्मणि भृतौ’ (३.२.२२) इति टः ॥
कर्मण्या
- केति । कर्मणा सम्पद्यते । ‘कर्मवेषाद्यत्’ (५.१.१००) । कर्मणि साधुर्वा । ‘तत्र साधुः’ (४.४.९८) इति यत् ॥
कर्मन्दी कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीते । ‘कर्मन्दकृशाश्वादिनिः’ (४.३.१११) ॥
कर्मसचिवः अन्य इति । ततो धीसचिवादन्ये । कर्मसु सचिवाः सहायाः ॥
कर्मारः कर्म क्रियामृच्छति । ‘कर्मण्यण्’ (३.२.१) ॥
कर्मेन्द्रियम् कर्मसाधकमिन्द्रियं कर्मेन्द्रियमुच्यते । पायति शोषयति तैलमिति पायुः। ‘पै शोषणे’ (भ्वा० प० अ०) । ‘कृवापाजि-’ (उ० १.१) इत्यण् । ‘आतो युक् (७.३.३३) । ‘पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसंग्रहः । उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः’ इति कामन्दकीये ।
कर्वुरम् कर्वत्यनेन । ‘कर्व दर्पे (भ्वा० प० से०) । मद्गुरादिः (उ० १.४१) । ‘कर्वुरं सलिले हेम्नि कर्वुरः पापरक्षसोः । कर्वुरा कृष्णवृन्तायां शवले पुनरन्यवत्’ इति विश्वः (मेदिनी) ॥
कर्षः कर्षः।
कर्षकः कर्षति । ‘कृष विलेखने (भ्वा० प० अ०) । ण्वुल् (३.१.१३३) ॥
कर्षफलः कर्षः फलमस्य ॥
कलः स चासावस्फुटोऽव्यक्ताक्षरश्च । तादृशे ध्वनौ कलः । ‘कड मदे (भ्वा० प० से०) । कडति माद्यत्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वाद् वृद्ध्यभावः । डलयोरेकत्वस्मरणम् । यद्वा कलनम् । ‘कल संख्याने (भ्वा० आ० से०) । ‘खनो घ च’ (३.३.१२५) इति घः । यद्वा कलते । पचाद्यच् (३.१.१३४) । ‘कला स्यान्मूलरै वृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः । कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ ।
कलकलः ‘कल शब्दे’ (भ्वा० आ० से०) । घञ् (३.३.१८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । कलादपि कलः । (यत्तु) कोलान्सूकरानाहते त्रासयति – इति स्वाम्याह । तन्न । ‘आङो यमहनः’ (१.३.२८) इत्यकर्मकात्स्वाङ्गकर्मकाच्च हन्तेरात्मनेपदविधानात् । यदपि—आभीक्ष्ण्ये द्विर्भावः । (८.१.४) इति । तदपि न तस्य तिङव्ययकृन्मात्रविषयत्वात् । ‘कलकल उक्तः कोलाहले तथा सर्जनिर्यासे ।
कलङ्कः “कलङ्केति । कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । ‘लकि गतौ’ (चुरादिः) । ‘कर्मण्यण्’ (३.२.१) । (‘कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च’) ॥”
कलभः केति । कलयति । ‘कल गतिसंख्यानयोः’ (चु० उ० से०) कलते वा । ‘कल शब्दसंख्यानयोः’ (भ्वा० आ० से०) । कलं भाषते वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
कलमः कलमः
कलम्बः कल्यते । ‘कल क्षेपे’ (चु० प० से०) कॄकदिकलिकडिभ्योऽम्बच्’ (उ० ४.८२) । ‘कलम्बी शाकभेदेऽपि कदम्बशरयोः पुमान्’ (इति मेदिनी) ॥
कलम्बः “डलयोरैक्यम् । केन लम्बते वा । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘कलम्बी शाकभेदे, स्यात्कदम्बशरयोः पुमान्’ (इति मेदिनी) । (‘कलम्बः सायके नीपे नालीशाके कलम्ब्यपि’ इति विश्वः) ॥”
कलम्बी केति । कडति । ‘कड मदे’ (भ्वा० प० से०) । ‘कृकदिकडिकटिभ्योऽम्बच्’(उ० ४.८२) । डलयोरेकत्वम् । के जले लम्बते । ‘लबि अवस्रंसने’(भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘कलम्बी तु शतपर्वा कलम्बूर्वासु वीरुधः’ इति वाचस्पतिः । ‘कलम्बी शाकभेदेऽपि कदम्बशरयोः पुमान्’ (इति मेदिनी) ॥
कलरवः कलो रवोऽस्य ॥
कललः कल्यते । ‘कल संख्याने’ (चु० उ० से०) । ‘वृषादिभ्यश्चित्’ (उ० १.१०६) इति कलः ॥
कलविङ्कः कलं वङ्कते । ‘वकि गतौ (भ्वा० आ० से०) । अण् (३.२.१) । पृषोदरादिः (६.३.१०९) । ‘कलविङ्कः पुमान् ग्रामचटकेऽपि कलिंगके’ (इति मेदिनी) ॥
कलशिः ‘कलं शुक्रे त्रिष्वजीर्णे (इति मेदिनी) । कलं श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । इन् (उ० ४.११८) । बाहुलकादाकारलोपः ॥
कलसः केति । केन जलेन लसति । ‘लस श्लेषणक्रीडनयोः’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३५) । तालव्यान्तपाठे कलं शवति । ‘शु गतौ’ () । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथा’ इति शभेदः । स्त्रियां जातित्वान्ङीष् (४.१.६३) ॥
कलहंसः कलो मधुरवाक् हंसः । ‘कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे’ (इति मेदिनी) ॥
कलहः ‘कलं तु मधुरध्वनौ इति धरणिः । कलस्य हननम् । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति ङः ॥
कला कलेति । चन्द्रस्य षोडशो भागः । कलयति । ‘कल संख्याने’ (चु० उ० से०) पचाद्यच् (३.१.१३४) । कल्यते वा । पुसि-’ (३.३.११८) इति घः । (कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने) कला स्यादंशशिल्पयोः । (कलने मूलरै वृद्धौ षोडशांशे विधोरपि’) इति हैमः ।
कला ताः काष्ठाः त्रिंशत् कला । कलयति । ‘कल संख्याने’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) (‘कला स्यात्कालशिल्पयोः’)
कलादः
- कलामादत्ते । ‘डुदाञ्’ (जु० उ० अ०) । मूलविभुजादित्वात् (वा० ३.२.४) कः ॥
कलानिधिः कला निधीयन्तेऽत्र । डुधाञः ‘कर्मण्यधिकरणे च’ (३.३.९३ ) इति किः ॥
कलायः केति । कलमयते ‘अय गतौ’ (भ्वा० आ० से०) । अण् (३.२.१) ।-कं वातं लाति । ‘आतः-’ (३.२.३) इति कः । ‘आतः-’ (७.३.३३) इति युक्-इति मुकुटः । तन्न । ञिति णिति परे विहितस्य युकः के अप्रसङ्गात् ॥
कलिः कलनम् । कल शब्दादौ’ (भ्वा० आ० से०) । इन् (उ० ४.११८)–‘कलेरिः-इति मुकुटः । तन्न । तादृशसूत्राभावात् । कलिर्विभीतके शूरे विवादेऽन्त्ययुगे युधि’ इति हैमः ॥
कलिका कलिकेति । कलयति ‘कल गतौ संख्याने च’ (चुरादिः) । ‘अच इ.’ (उ० ४.१३९) । स्वार्थे कन् (५.३.७५) ॥
कलिङ्गः एतेति । कलिं गच्छति । अन्तर्भावितण्यर्थाद्गमेः ‘अन्यत्रापि’ (वा० ३.२.४८) इति डः । -‘खच्च डिच्च’ (३.२.३८) - इति मुकुटः । - कलिं गायति इति स्वामी ॥
कलिङ्गः केति । के मूर्ध्नि लिङ्गं चूडास्य । कलिं कलहं गच्छति वा । ‘गमश्च’ (३.२.४७) इति खच् । ‘खच् डिद्वक्तव्यः’ (वा० ३.२.३८) । ‘कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति । न द्वयोः कौटजफले महिलायां तु योषिति’ (इति मेदिनी) ॥
कलिद्रुमः कलेद्रुमः ॥
कलिमारकः कलिं मारयति । यदाहेन्दुः - ‘पूतीकरञ्जः सुमनास्तथा कलहनाशनः । मुकुटस्तु – कलिं करोति । ‘कर्मण्यम्’ (३.२.१) । स्वार्थे कन् (५.३.७५) । कलिकारकः - इत्याह ॥
कलुषः कलुष इति । लुषति । ‘लुष हिंसायाम्-’ । इगुपध-’ (३.१.१३५) इति कः । कस्य जलस्य लुषो घातकः । ‘कलुषं त्वाविले पापे’ इति विश्वः ॥ (१)
कलुषम् कलयति वशीकरोति । ‘कल गतौसंख्याने’ (चु० उ० से०) । ‘पॄनहिकलिभ्य उषच् (उ० ४.७५) । ‘कलुषं त्वाविले पापे ।
कलेवरम् अथेति । कले शुक्रे मधुराव्यक्तध्वनौ वा वरं श्रेष्ठम् । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । यत्तु-कले रेतसि व्रियते उपयुज्यते । ‘कर्मण्यण्’ (३.२.१) इति मुकुटः । तन्न । कर्मोपपदत्वाभावात् । कर्मणि कारके विधायकाभावात् । वृद्धिप्रसङ्गाच्च ॥
कल्पः ये दैवे युगसहस्रे तौ । कल्पयतः स्थितिं प्रलयं च । ‘कृपू सामर्थ्ये’ (भ्वा० आ० सें०) । ण्यन्तात् (३.१.२६) पचाद्यच् (३.१.१३४) । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ ।
कल्पः ‘कृपू सामर्थ्ये’ (भ्वा० आ० स०) । कल्प्यन्ते विरुद्धलक्षणया क्षीयन्तेऽत्र । ‘पुंसि-’ (३.३.११८) इति घः । ‘कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे । शास्त्रे न्याये विधौ’ इति हेमचन्द्रः ।
कल्पः केति । कल्पते । अनेन वा । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । अच् (३.१.१३३) । घञ् (३.३.१८) वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ (इति मेदिनी)॥
कल्पः कल्पनम् । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । घञ् (३.३.१८) । लत्वम् (८.२.१८) । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ (इति मेदिनी) ॥
कल्पना केति । कल्पनम् । ‘कृपू सामर्थे’ (भ्वा० आ० से०) । ण्यन्तः । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति युच् । अथ कल्पना । करिणः सज्जनायां स्त्री क्लीबं क्लृप्तौ च कल्पने’ । (इति मेदिनी) ॥
कल्पवृक्षः “कल्पः संकल्पितोऽर्थः, तस्य वृक्षः । जन्यजनकभावसम्बन्धे षष्ठी ॥”
कल्पान्तः कल्पस्यान्तोऽवधिः । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ इति शाश्वतः ।
कल्मषम् शुभं कर्म स्यति समाप्तं करोति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’(३.२.३) इति कः । पृषोदरादित्वात् (६.४.१०९) लत्वषत्वे । ‘कल्मषं किल्विषे क्लीबं पुंसि स्यान्नरकान्तरे’ ।
कल्माषः कलयति । क्विप् (३.२.१७८) । कल् । माषयत्यभिभवति वर्णान् । माषः । मष हिंसायाम्’ (भ्वा० प० से०) । ‘हन्त्यर्थाश्च’ इति चुरादौ पाठात् णिच् । कल् चासौ माषश्च । कल्माषः । ‘कर्बुरे कृष्णे’ इति मूर्धन्यान्ते रभसः । ‘कल्माषो राक्षसे कृष्णे शबलेऽपि इति हैमः ।
कल्यः कलासु साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । ‘कल्यं प्रभाते मधुनि सज्ये दक्षे निरामये । कल्या कल्याणवाचि स्यात्’ इति हैमः ॥
कल्यम् “कलयति चेष्टाम् । अघ्नयादयश्च’ (उ० ४.११२) इति कलेर्यक् । ततः प्रज्ञाद्यणि (५.४.३८) काल्यम्, अपि । कल्यं प्रभाते क्लीबं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्जनीरोगक्षेषु कल्याणवचनेऽपि च ॥ उपायवचनेऽपि स्यात्त्रिषु मद्ये तु योषिति’ ।”
कल्या स्यादिति । कलासु साधुः । ‘तत्र साधुः’ (४.४९८) इति यत् ॥ ‘काल्या’ अपि-इति स्वामी । तत्र काले साधुः ॥
कल्याणम् ‘कल्यं नीरुजत्वमाणयति । ‘कर्मण्यण्’ (३.२.१) । कल्ये प्रातःकाले अण्यते । ‘अण शब्दे’ (भ्वा० प० से०) । ‘अकर्तरि ‘- (३.३.१९) इति घञ्वा । ‘कल्याणं हेम्नि मङ्गले’ ।
कल्लोलः कं जलम् । तस्य लोल उन्मादः । ‘वा पदान्तस्य’ (८.४.५९) इत्यनुस्वारस्य लकारः । कल्लन्तेऽनेन नद्यः ॥ ‘कल्ल अव्यक्ते शब्दे’ (भ्वा० आ० से०) । बाहुलकादोलच्-इति वा ।
कवचः कं वातं वञ्चति । ‘वञ्चु गतौ’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । मूलविभुजादिकः । ‘कवचो गर्दभाण्डे संनाहं पटहेऽपि च’ (इति विश्वमेदिन्यौ) ॥
कवरी वृणोति । अच् (३.१.१३४) । गौरादिः (४.१.४१) । कस्य शिरसो वरी । ‘कवरं लवणाम्लयोः । कवरी केशविन्यासशाकयोः’ इति हैमः ॥
कवलः केन वलते । ‘वल तृप्तौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
कविः कवते । ‘कुङ् शब्दे (भ्वा० आ० अ०) । ‘अच इः’ (उ० ४.१३९) । कौतीति वा । (‘कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि । खलीने स्यात्तु योषिति’) ।।
कविः “कवते, कौति, वा । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘कु शब्दे (अ० प० अ०) वा । ‘अच इः’ (उ० ४.१३९)—कवृ वर्णा’-इति मुकुटश्चिन्त्यः । तस्यौष्ठ्यान्तत्वात्कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् । ‘कविर्वाल्मीकिकाव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति’ (इति मेदिनी) ॥”
कविका केति । कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘अच इः’ (उ० ४.१३९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा कृञादिभ्यो वुन्-’ (उ० ५.३५) । टाप् (४.१.४) । इत्वम् । (७.३.४४) ॥
कवोष्णम् ‘कवं चोष्णे’ (६.३.१०७) इति कोः कवादेशः ।
कव्यम् कृयते पितृभ्यः । ‘कु शब्दे’ (अ० प० अ०) । अचो यत्’ (३.१.९७)–‘कबृ वर्णे’ (भ्वा० आ० से०)‘पोरदुपधात्(३.१.९८) इति यत्-इति मुकुटस्य प्रमादः । तस्य चित्ररूपपरस्य प्रकृतेऽन्वयासम्भवात् । ’श्विता वर्णे’ (भ्वा० आ० से०) ‘नील वर्णे’ (भ्वा० प० से०) इत्यादाविव वर्णस्य रूपार्थकत्वात् ॥ देवानामिदम् । पितॄणामिदम् । तस्येदम्’ (४.३.१२०) इत्यण् । पित्र्ये इति पाठे पितरो देवता यस्य । ‘वाय्वृतु-’(४.२.३१) इति यत् । देवान्नं हव्यम् । पित्रन्न कव्यम् ।
कशा
- अश्वेति । ताड्यतेऽनया । ‘तड आघाते’ (चु० प० से०) ण्यन्तः । ल्युट् (३.३.११७) । कशति । ‘कश शब्दे () । ‘कश गतिशासनयोः’ (अ० आ० से०) वा । अनित्यो नुम् । अच् (३.१.१३४) ॥
कशोरूका पृष्ठेति । कं वायुं शृणाति । केन शीर्यते वा । ‘केश्र एरङ् चास्य’ (उ० १.८८) इत्यूः । ‘संज्ञायां कन्’ (५.३.७५) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । यद्वा कशति । कश्यते वा । ‘कश शब्दे’ । बाहलकादेरुः । स्वार्थे कन् (ज्ञापि० ५. ४.५) ॥
कश्मलम् कशनम् । ‘कश गतौ’ (अ० आ० से०) । ‘कुटिकशिकौतिभ्यः प्रत्ययस्य मुट्’ (उ० १.१०९) इति कलः । बाहुलकात् इति मुकुटस्तूपेक्ष्यः ॥
कश्यः
- कश्यते । अनेन वा । ‘कश शब्दे’ () बाहुलकाद्यः । ‘मद्याश्वमध्ययोः कश्यम्’ इति रन्तिदेवः । ‘कश्यस्त्रिषु कशार्हे स्यात्क्लीबं मद्याश्वमद्ययोः’ इति विश्वः (मेदिनी) ॥
कश्यम् “केति । अश्वादेस्ताडनी, ताडनं वा कशा । तामर्हति । दण्डादित्वात् (५.१.६६) यः । ‘कश्यं त्रिषु कशार्हे स्यात्क्लीबं मद्याश्वमध्ययोः’ (इति मेदिनी) ॥”
कषः
- निकषति । ‘कष हिंसायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) ।-निकष्यतेऽत्र । ‘गोचर-’ (३.३.११९) इत्यादिना घः–इति मुकुटश्चिन्त्यः । तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । ‘निकषः शाणफलके (निकषा यातुमातरि)’ इति विश्वमेदिन्यौ ॥
कषायः कषति कण्ठम् । ‘कष हिंसायाम्’ (भ्वा० प० से०) । बाहुलकादायः ‘कषायः सुरभौ रसे । रागवस्तुनि निर्यासे क्रोधादिषु विलेपने’ इति हैमः ।
कष्टम् द्वे वैमनस्यस्य इति स्वामी । षडपि मनःपीडार्थाः
कस्तूरी “कसति गन्धोऽस्याः । ‘कस गतौ’ (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । पृषोदरादिः (६.३.१०९) ॥ ‘मृगनाभिर्मृगमदो मृगः कस्तूरिकापि च’ इति माधवात् ‘मृगः’ अपि । ‘मदः’ अपि । ‘मदो रेतसि कस्तूयम्’ इति मेदिनी । ‘मुख्यराट्क्षत्त्रिये नाभिः पुंसि, प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे’ इति रभसात् ‘नाभिः’ अपि ।”
कह्लारम् कस्य जलस्य हार इव । के ह्लादते वा । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) (२) द्वे शुक्लकह्लारस्य । मुण्डी’ इति ख्यातस्य इत्यन्ये ।
कह्वः “‘क’ इति शब्दम्, के जले वा ह्वयति । ‘हेञ् स्पर्धायां शब्दे च’ (भ्वा० उ० अ०) । मूलविभुजादित्वात् (वा० ३.२.५) कः ॥ ‘दीर्घजङ्घो निशैडः (तः स्याद्वकोटः शुक्लवायसः । कङ्केरुर्दारुबलिभुक् शिखी चन्द्रविहंगमः’ (इति त्रिकाण्डशेषः) ।”
काकः काके इति । कायति । ‘कै शब्दे’ (भ्वा० प० से०) । ‘इण्भीका-’ (उ० ३.४३) इति कन् । ‘काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदद्वीपभेदयोः ॥ काका स्यात्काकनासायां काकोलीकाकजङ्घयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति ॥ काकं सुरतबन्धे स्यात् काकानामपि संहतौ’ इति विश्वमेदिन्यौ ॥
काकचिञ्चा काकेति । काकवणी चिञ्चा ॥ गौरादिः (४.१.४१) इति स्वामी ॥
काकतिन्दुकः केति । काकानां काकवर्णो वा तिन्दुः ॥
काकनासिका काकस्येव नासिका यस्याः ॥
काकपक्षः काकेति । काकस्य पक्ष इव ॥
काकपीलुकः काकैः पील्यते । ‘पील प्रतिष्टम्भे’ (भ्वा० प० से०) । बाहुलकादुः । ‘काकानां पीलुरिव’ इति वा ॥
काकमाची काकेति । काकान् मञ्चते । ‘मचि धारणोच्छ्रायपूजनेषु’ (भ्वा० आ० से०) । ‘कर्मण्यण्’ (३.२.१) । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥
काकमुद्गा ईषत् कम् । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः । काकेनेषज्जलेन मुदं गच्छति । ‘गमश्च’ (३.२.४७) इति डः । यद्वा काका मुद्गा हर्षप्राप्ता यस्याम् ॥
काकली काकलीति । ईषत्कलः काकली । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः । गौरादित्वात् (४.१.४१) डीष् । अन्ये तु - कलेः (भ्वा० आ० से०) इन् । (उ० ४.११८) कलिः शब्द ईषदत्रेति काकलिः । ततः कृदिकारात् - (ग० ४.१.४५) इति ङीष् । अत एव ‘साधूदितं काकलिभिः कुलीनैः इत्यभिनन्दप्रयोगः संगच्छते – इत्याहुः ।
काकाङ्गी काकेति । काकस्येवाङ्गं नासारूपं फलमस्याः गौरादिः (४.१.४१) ॥
काकुः कक्यते । ‘कक लौल्योपतापयोः । बाहुलकादुण् ॥
काकुदम् काकुर्जिह्वा उद्यतेऽनुद्यतेस्मिन् अनेकार्थत्वाद्वदिरुत्क्षेपणे वर्तते । घञर्थे कः (वा० ३.३.५८) । पृषोदरादिः (६.३.१०९) । ईषत् कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । अब्दादित्वात् (उ० ४.९८) साधुर्वा । यद्वा ‘निश्चेष्टं ककुदं शिरः’ । ककुदे भवम् ‘तत्र भवः’ (४.३.५३) इत्यण् ॥
काकेन्दुः केति । काकानां काकवर्णो वा तिन्दुः ॥ पृषोदरादिः (६.३.१०९) ॥
काकोदरः काकस्येवोदरमस्य । यद्वा-ईषदकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । ‘ईषदर्थे च’ (६.३.१०५) कोः कादेशः काकम् ईषत्कुटिलगतिमद् उदरमस्य ।
काकोन्दुम्बरिका केति । काकप्रिया उदुम्बरी । ‘संज्ञायां कन्’ (५.३.७५) ॥
काकोलः “पुंसीति । ईषत् कोलति । कुल संस्त्याने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः । ‘काकोलो नरकान्तरे, नाकुलाले द्रोणकाके, विषभेदे च न स्त्रियाम् ।”
काकोलः “काकयति । ‘कक लौल्ये’ (भ्वा० आ० से०) । स्वार्थण्यन्तः । बाहुलकादोलच् । ‘काकोलं नरकान्तरे, । ना कुलाले द्रोणकाके, विषभेदे तु न स्त्रियाम्’ (इति मेदिनी) ॥ ‘द्रोणकाको दग्धकाको वृद्धकाको वनाश्रयः’ इति त्रिकाण्डशेषः ।”
काक्षी कक्षे भवा । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘काक्षी तुवरिकायां च सौराष्ट्रमृद्यपि स्त्रियाम्’ (इति मेदिनी) ॥
काचः “- स्रंसतेऽस्मात् । ‘स्रंसु अधःपतने’ (भ्वा० आ० से०) ‘स्रसेः शिः कुट् किच्च’ (उ० ५.१६) इति यत्, धातोः शिरादेशो यतः कुट् ।—शक्नोति वोढुम् । अघ्न्यादिः (उ० ४.११२) इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः । कच्यतेऽत्र । ‘कच बन्धे’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे’ इति विश्वमेदिन्यौ ॥”
काचः कचते । ‘कच बन्धने दीप्तौ च (भ्वा० आ० से०) । अच् (३.१.१३४) । प्रज्ञाद्यण् (५.४.३८) काचयति वा । अच् (३.१.१३४) । ‘काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे’ इति विश्वः (मेदिनी) ॥
काचस्थाली काचस्य कार्ष्ण्यस्य स्थाली पात्रम् ॥ स्वामी तु ‘काला’ ‘स्थाली’ इति पठति। कालो वर्णोऽस्या अस्ति । अर्शआद्यच् (५.२.१२७) । अजादिः (४.१.४) । ‘काला तु कृष्णवृन्ताख्यामञ्जिष्ठानीलिकासु च’ ॥ तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० अ०) । ‘स्थाचतिमृजेरालज्वालजालीयचः’ (उ० १.११६) । ‘स्थाली स्यात्पाटलोखयोः’ ॥
काञ्चनम् काञ्चति (ते) । ‘काचि दीप्तौ’ (भ्वा० आ० से०) । नन्द्यादिल्युः (३.१.१३४) । पृषोदरादिः (६.३.१०९) -इति मुकुटस्तु चिन्त्यः । ‘काचि’ धातोरेव सत्त्वात् ॥
काञ्चनाह्वयः काञ्चनस्याह्वय आह्वा यस्य ॥
काञ्चनी “काञ्चतेऽनया । ‘काचि दीप्त्यादौ’ (भ्वा० आ० से०) । ‘-करणा-’ (३.३.११७) इति ल्युट् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । ‘काञ्चनः काञ्चनारे स्याच्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे, हरिद्रायां तु काञ्चनी । क्लीबेऽब्जकेसरे हेम्नि’ इति विश्वः (मेदिनी) ॥”
काञ्ची काञ्चते । ‘काचि दीप्तिबन्धनयोः’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) ।-‘अन्येभ्योऽपि’ इति दीर्घः इति मुकुटश्चिन्त्यः । धातोरेव दीर्घवत्त्वात् । ‘अन्येभ्योऽपि’ इत्येतादृशस्य दीर्घविधायकस्याभावात् । ‘अन्येषामपि’ (६.३.१३७) इति वक्तुं युक्तत्वाच्च । ‘काञ्ची स्यान्मेखलादाम्नि प्रभेदे नगरस्य च’ (इति मेदिनी) ॥
काञ्जिक ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘संज्ञायाम्’ (३.३.१०९) इति भावे ण्वुल् । ‘धात्वर्थनिर्देशे’ (वा० ३.३.१०८) वा । के अञ्जिकास्य । ‘काञ्चिके’ इति पाठे काञ्चयति । ‘कचि काचि दीप्तिबन्धनयोः’ (भ्वा० आ० से०) । ण्यन्तः । इन् (उ० ४.११८) । ‘संज्ञायां कन्’ (५.३.७५) । ‘काञ्चिकं काञ्जिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च सुवीराम्लं तथा शुक्लं तुषोदकम्’ इति धन्वन्तरिः ॥
काण्डः कणति । ‘कण शब्दे’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । बाहुलकाद्दीर्घः । काण्यते वा । ‘काण्डोनालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सह श्लाघाम्बुषु स्तम्बे’ इति हैमः ॥
काण्डपृष्ठः काण्डानि शास्त्राणि पृष्ठे यस्य । ‘काण्डस्पृष्टः’ इति मुकुटः । स्पृष्टं गृहीतं काण्डं शस्त्रं येन । ‘वाहिताग्न्यादिषु (२.२.३७) इति परनिपातः ॥
काण्डवान् स्यादिति । ‘काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः । कुत्सिते वृक्षभित्राडीबन्धे रहसि न स्त्रियाम्’ (इति मेदिनी) । काण्डो बाणोऽस्यास्ति । मतुप् (५.२.११५) ॥
काण्डीरः ‘काण्डाण्डादीरन्नीरचौ’ (४.२.१११) ॥
काण्डेक्षुः काण्डेक्षुरिव ॥
कात्यायनी कतस्यापत्यम् । गर्गादित्वात् (४.१.१०५) यञ् । ‘सर्वत्र लोहितादिकतन्तेभ्य’ (४.१.१८) इति ष्फः । षित्वान्ङीष् । (४.१.४१) ‘कात्यायनो वररुचौ कात्यायनी तु पार्वती । कषायवस्त्रविधवार्धवृद्धमहिलापि च’) ।
कात्यायनी केति । कतस्यापत्यम् । ‘गर्गादिभ्यो यञ्’ (४.१.१०५) । ‘सर्वत्र लोहितादि-’ (४.१.१८) इति ष्फः । ऋषिपत्नीसदृशत्वात् । ‘कात्यायनो वररुचौ विशेषे च मुनेः पुमान् । कषायव- स्त्रविधवार्धजरत्युभयोः स्त्रियाम्’ । (इति मेदिनी) ॥
कादम्बः कादेति । कदम्बे समूहे भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘कादम्बः स्यात् पुमान्पक्षिविशेषे सायकेऽपि च’ (इति मेदिनी) ॥
कादम्बरी
- कुत्सितमम्बरम् । ‘कुगति-’ (२.२.१८) इति समासः । ‘कोः कत्तत्पुरुषेऽचि’ (६.३.१०१) । कदम्बरं नीलाम्बरमस्यास्ति । अर्शआद्यच् (५.२.१२७) । तस्येयम् । तस्येदम् (४.३.१२०) इत्यण् । कदम्बे जातो रसः । ‘तत्र जातः’ (४.३.५३) इत्यण् । कादम्बं राति वा । कः (३.२.३) । ‘गौरादिः’ (४.१.४१) । ‘कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीसारिकासु च’ (इति मेदिनी) ॥
कादम्बिनी कादम्बिनीति । कादम्बाः कलहंसा बलाकावन्मेघमनुधावन्ति । ते सन्त्यस्याः । इनिः (५.२.११५) । यत्तु ज्योत्स्नादित्वात् (वा० ५.२१०३) अणि ङीप् (४.१.१५) इति मुकुटः । तन्न । एवं हि कादम्बी इति प्रयोगप्रसक्तेः । कदम्बस्य विकासः = कादम्बोऽस्त्यस्याः कार्यत्वेनेति वा ।।
काद्रवेयः तदीति । तेषामीश्वरः । शिष्यते । ‘शिष्लृ विशेषणे’ (रु० प० अ०) । घञ् (३.३.१८) । ‘शेषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च । शेषा निर्माल्यदाने स्यात्’ इति हैमः ।
काननम् कानयति दीपयति स्मरादि ‘कनी दीप्तिकान्तिगतिषु’ (भ्वा० प० से०) । युच् (उ २.७८) । ल्युः (३.१.१३४) वा । ‘कं जलम् अननं जीवनमस्य’ इति वा । ‘काननं तु ब्रह्मास्ये विपिने गृहे इति हैमः ॥
कानीनः कानीति । कन्याया अपत्यम् । ‘कन्यायाः कनीन च’ (४.१.११६) इत्यण् । ‘कानीनः कन्यकासुते । कर्णे व्यासे’ इति हेमचन्द्रः ॥
कान्तलकः काम्यते । ‘कमु कान्तौ (भ्वा० आ० से०) । ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३.२.१८८) इति क्तः । लकति । ‘लक आस्वादने’ । अच् (३.१.१३४) । कान्तश्चासौ लकश्च ॥
कान्ता कम्यते स्म । ‘कमु कान्तौ’ (भ्वा० आ० से०) । णिङभावे क्तः (३.२.१०२) । ‘कान्ता नार्यां प्रियंगौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्यायः पर्यायान्तः शिलासु च’ (इति मेदिनी) ॥
कान्तारकः कान्तं रसमृच्छति । ‘ऋ गतौ (भ्वा० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् । (५.३.७५) । ण्वुल् (३.१.१ ३३) वा ॥
कान्तारम् कान्तारमिति । कस्य जलस्य सुखस्य वान्तः । कान्तमृच्छति । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
कान्तिः काम्यते । क्तिन् (३.३.९४) । ‘अनुनासिकस्य-’ (६.४.१५) इति दीर्घः - इति मुकुटेनोक्तम् । तन्न । ‘काम्यते’ इति विगृहीतत्वात्तत्रान्तरङ्गत्वाण्णिङ्-निमित्तवृद्धे सम्भवात् । ‘आयादयः- ’ (३.१.३१) इति णिङभावे वा बोध्यम् । (‘कान्तिः शोभेच्छयोः स्त्रियाम्’)
कान्दविकः कन्दौ संस्कृतम् । ‘संस्कृतं भक्षाः’ (४.२.१६) इत्यण् । कान्दवं पण्यमस्य । ठक् (४.४.५१) ॥
कापथः ‘ईषदर्थे च’ (६.३.१०५) इति कादेशः । कुमार्गोऽपीषन्मार्गो भवति । कुत्सितः पथः । ‘वाटः पथश्च मार्गश्च’ इति त्रिकाण्डशेषाददन्तः पथशब्दः । पथशब्देन समासेन पुंस्त्वं निर्वाह्यम् । पथिन् शब्देन समासे ‘का पथ्यक्षयोः’ (६.३.२०४) इति कादेशे ‘पथः संख्या व्ययादेः’ (वा० २.४.३०) इति क्लीबत्वं भवति । ‘सत्पथस्तु सुपन्थाः स्याद् व्यध्वो विपथकापथौ’ इति रभसोऽप्येवम् । (‘कापथः कुत्सितपथे उशीरे क्लीबमिष्यते’) । कुत्सितार्थ-कुशब्दस्य पथशब्देन समासे कुपथः अपि ॥ पञ्च दुर्मार्गस्य ।
कापोतः कपोतवर्णोऽस्यास्ति । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् ॥
कापोतम् “कपोतादीनां गणस्य पृथक्पृथगेकैकम् । | कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति । तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोतानाम्, शुकानाम्, मयूराणाम्, तित्तिरीणाम्, च गणः । ‘अनुदात्तादेरञ्’ (४.२.४४) । शुकात्तु ‘तस्य समूहः’ (४.२.३७) इत्यण् । आदिना काकवर्तकोलृकादीनां ग्रहः । ‘कापोतो रुचके, क्लीबं कपोतौघेऽञ्जनान्तरे’ (इति मेदिनी) ॥”
कापोताञ्जनम् कपोतस्येदम् । कपोतवर्णत्वात् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । कापोतं च तदञ्जनं च ॥
कामः काम्यतेऽनेन । ‘पुंसि संज्ञायाम्-’ (३.३ ११८) इति घः । (कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् |
कामः कामनम् । ‘कमु कान्तौ’ (भ्वा० आ० से०) । घञ् (३.३.१८) ॥ ‘कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम्’ ।
कामपालः कामान् पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । यत्तु पॄ पालनपूरणयोः (जु० प० से०) । इत्युक्तं मुकुटेन । तच्चिन्त्यम् ।।
कामम् केति । कमनम् । ‘कमु कान्तौ’ (भ्वा० आ० से०) । घञ् । (३.३.१८) । ‘विशेषैर्यद्यबाधितः’ इति क्लीबत्वम् । ‘कामं बाढेऽनुमतिरेतसोः । कामः स्वरेच्छाकाम्येषु’ इति हैमः ॥
कामम्
- काम्यते । कमेर्णिङन्तादम् । ‘अकामानुमतौ काममसूयोपगमेऽपि च’ इति रुद्रः । ‘आकामानुमतौ कामम्’ इति क्वचित्पाठः । तत्राङ् बोध्यः । ‘निकामानुमतौ कामम्’ इत्यर्थः । ‘कामं कामाभ्यनुज्ञयोः’ इति त्रिकाण्डशेषः ॥
कामिनी भूयान् कामोऽस्याः । इनिः (५.२.११५) । ‘कामिनी भीरुवन्दयोः’ (इति मेदिनी) ॥
कामुका कामयते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘लषपतपद-’ (३.२.१५४) इत्युकञ् । ‘कामुकः कमनेऽशोकपादपे चातिमुक्तके’ (इति मेदिनी) ॥
कामुकी ‘जानपद-’ (४.१.४२) इति ङीष् । कामुकी ॥
काम्पिल्यः केति । कम्पिलाया अदूरभवः । संकाशादित्वात् (४.२.८०) ण्यः ॥ कम्पते । ‘कपि किंचिच्चलने’ (भ्वा० आ० से०) । बाहुलकादिल्लः । ‘प्रज्ञाद्यण्’ (५.४.३८) । कं जलं पीलयति । श्लेष्मघ्नत्वात् । ‘पील प्रतिष्टम्भे’ (भ्वा० प० से०) । कम्पूर्वात् ‘इगुपध-’ (३.१.१३५) इति कः । इति मुकुटः । तन्न । ण्यन्तस्येगुपधत्वाभावात् । अण्यन्तादप्यणः प्रसङ्गाच्च । -इत्थं निर्यकारम् (‘काम्पिल्लः’ इति) मन्यते – इत्येके ॥
काम्बलः रेति । कम्बलेन वस्त्रेण च प्रावृतो रथः । ‘परिवृतो रथः’ (४.२.१०) इत्यण् ॥
काम्बविकः “- कम्बुः शिल्पमस्य । ठक् (४.४.५५) । ‘-शाश्वतिकः’ (२.४.९) इति निर्देशात्कादेशोऽनित्यः । कम्बोर्विकारोऽस्यास्ति, इति वा । ठन् (५.२.११५) ॥”
काम्बोजाः कम्बोजेषु भवाः । ‘तत्र भवः’ (४.३.५३) इत्यर्थे कच्छाद्यण् (४.२.१३३) ॥
काम्बोजी कम्बोजे देशे भवा । ‘तत्र भवः’ (४.३.५३) इत्यण् ॥
कायः चीयतेऽन्नादिभिः । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘निवासचिति-’ (३.३.४१) इति घञ् । चस्य कः । ‘कायः कदैवते मूर्तौ संघे लक्षस्वभावयोः । मनुष्यतीर्थे कायं स्यात्’ (इति मेदिनी) ॥
कायम् स्वेति । स्वल्पाङ्गुल्योः कनिष्ठिकयोरधोभागे । कः प्रजापतिर्देवतास्य । ‘कस्येत्’ (४.२.२५) इत्यण् इदन्तादेशश्च । ‘तस्येदम्’ (४.२.१२०) इत्यण्-इति मुकुटश्चिन्त्यः । ‘कायः कदैवते मूर्तौ संघे लक्षस्वभावयोः । मनुष्यतीर्थे कायं स्यात्’ (इति मेदिनी) ॥
कायस्था कायस्तिष्ठत्यनया । ‘घञर्थे कः’ (३.३.५८) । ‘कायस्था तु हरीतक्यामलक्योश्च प्रकीर्तिता’ इति रभसः । ‘कायस्थः परमात्मनि । नरजातिविशेषे ना हरीतक्यां तु योषिति’ इति मेदिनी ॥
कारणम् “कार्यतेऽनेनण्यन्ताल्ल्युट् (३.३.११७) । करोतीति ‘ल्युट् च’ (३.३.११५) इति चकाराल्ल्युट् इति मुकुटस्त्वसंगतः । ‘कारणं घातने हेतौ करणे, कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके’ इति हैमः ।”
कारणा “स्त्रियौ । द्वे, निर्मूल्यकर्मकरणे इति मुकुटः, नरके हठात्प्रक्षेपस्येति स्वामी, ‘भद्राख्यकरणस्य’ इत्यन्ये । कारणेति । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) । ‘यत निकारोपस्कारयोः’ (चु० उ० से०) । आभ्यां णिच् (३.१.२६) । ण्यासश्रन्थ- (३.३.१०७) इति युच् । कारणं करणे हेतुवधयोश्च नपुंसकम् । स्त्री यातनायां च’ ॥”
कारण्डवः रमणम् । ‘ञमताड्डुः’ (उ० १.११४) इति रमेर्डः । ईषद्रण्डः । ‘ईषदर्थे च’ (६.३.१०५) इति कोः का । कारण्डं वाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
कारम्भा ईषद् रम्भा । ‘ईषदर्थे च’ (६.३.१०५) इति कोः का ॥
कारवी “केन जलेन रौति । ‘रु शब्दे’ (अ० प० अ०) । पचाद्यच् (३.१.१३४) । करवस्य मसूरस्येयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । यत्तु-कारोरियम्, कारवस्येयं वा - इति व्याख्यातं मुकुटेन । तन्न । वृद्धत्वाच्छप्रसङ्गत्वात् । ‘कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके’ (इति मेदिनी) ॥”
कारवी के आरौति । पचाद्यच् । यत्तु मुकुट आह – कारोरियम् कारवी इति । तन्न । ‘वृद्धाच्छः’ (४.२.११४) इत्यस्याणपवादत्वात् । ‘कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके’ इति मेदिनी ॥
कारवी कारं वाति । ‘वा गतिगन्धनयोः’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) । यद्वा कारणम् । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) । ण्यन्तः । सम्पदादि क्विप् (वा० ३.३.१०८) । कारमवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । अण् (३.२.१) । ङीप् (४.१.१५) । संज्ञापूर्वकत्वान्न वृद्धिः । यत्तुकारोरियम्-इति मुकुटः तन्न । वृद्धत्वाच्छस्य (४.३.११४) प्रसङ्गात् । यदपि कस्य वायोरारवोऽस्याम्-इति । तदपि न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । ‘कारवी मथुरादीप्यत्वक्पत्रीकृष्णजीरके’ (इति मेदिनी) ॥
कारवी कारं वाति । ‘वा गतिगन्धनयोः’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥
कारवेल्लः अथेति । ‘कारो वधे निश्चये च वलौ यत्ने यतावपि । (तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके । सुकर्णकारिकायां च बन्धनागारबन्धयोः (इति मेदिनी) । कारं वेल्लति । ‘वेल्ल चलने’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
कारा केति । कीर्यतेऽत्र । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘भिदादिपाठात्’ (३.३.१०४) अङ्दीर्घौ । ‘कारो वधे निश्चये च बलौ यत्ने यतावपि । कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि’ (इति विश्वः) ॥
कारुः
- केति । करोति । ‘कृवापा-’ (उ० १.१) इत्युण् । ‘कारुस्तु | कारके शिल्पे विश्वकर्मणि शिल्पिनि’ इति हेमचन्द्रः ॥
कारुण्यम् कारुण्यमिति । । करुणः करुणावान् । तस्य भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् ॥
कारोत्तरः
- केति । कारेण क्रियया उत्तरः । -‘कारोत्तमः-’ इति स्वामी ॥
कार्तस्वरम् कृतस्वरे आकरविशेषे भवम् । अण् (४.३.५३) । कृताः पठिताः स्वरा येन । तस्मै देयम् । ‘शेषे’ (४.२.९२) इत्यण् ॥
कार्तान्तिकः कृतान्तं वेति । उक्थादिठक् (४.२.६०) ॥
कार्तिकः कृत्तिकाभिर्युक्ता पौर्णमास्यस्मिन् ।
कार्तिकिकः ‘विभाषा फाल्गुनी-’ (४.२.२३) इति ठकि कार्तिककः ।
कार्तिकेयः कार्तिकेय इत्यादि । कृत्तिकानामपत्यम् । ‘स्त्रीभ्यो ढक् ।
कार्पासः कर्पास्या बदरायाश्च विकारः फलम् । ‘अवयवे च-’ (४.३.१३५) इत्यण् । तस्य ‘फले लुक्’ (४.३.१६३) । कार्पासस्य बदरस्य च विकारः । प्राग्वदण् (४.३.१३४) ॥
कार्पासी करोति क्रियते वा । ‘कृञः पासः’ (उ० ५.४५) । जातित्वात् (४.१.६३) । गौरादित्वात् (४.१.४१) वा ङीष् । पृषोदरादिः (६.३.१०९) -इति मुकुटोक्तिस्तु चिन्त्या । कर्पासीशब्दस्य ह्रस्वादित्वात् । दीर्घादित्वे प्रामाणिके तु प्रज्ञाद्यणा (५.४.३८) सिद्धत्वात् ॥
कार्मुकम् कर्मणे प्रभवति । ‘कर्मण उकञ्’ (५.१.१०३) ‘अथ कार्मुकः । वंशे कार्मुकमिष्वासे कर्मठे’ इति हैमः ॥
कार्षापणः कार्षापणः ।
कार्षिकः कार्षिकः ।
कार्ष्यः कृषति । ‘कृष विलेखने’ (तु० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । चातुर्वर्ण्यादित्वात् (वा० ५.१.१२४) ष्यञ् ॥
कालः कलयत्यायुः । ‘कल संख्याने’ (चु० उ० से०) । पचाद्यजन्तात् (३.१.१३४) प्रज्ञाद्यण् (५.४.३८) इति मुकुटः तन्न । कलेर्मित्वाभावात् । प्रज्ञाद्यणि रूपद्वयप्रसङ्गाच्च । एतेन स्वाम्यपि परास्तः । तस्मात् कालयति’ इति विग्रह उचितः । कालवर्णत्वाद्वा । (‘कालो भृत्यौ महाकाले समये यमकृष्णयो’) ।
कालः “कल्यते । ‘कल संख्याने शब्दे च (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । कालयति सर्वम्, इति वा । ण्यन्तात्पचाद्यच् (३. १.१३४) । कालो मृत्यौ महाकाले समये यमकृष्णयोः।”
कालः कल्यते कालः । ‘कल संख्याने’ (भ्वा० आ० से०) घञ् (३.३.१९) । कालः पुन कृष्णवर्णे महाकालकृतान्तयोः । मरणानेहसोः काली कालिकाक्षीरकीटयोः । मातृभेदोमयोर्न व्यमेघौघपरिवादयोः । काला कृष्णात्रिवृन्नील्योर्जुङ्ग्याम्’ इति हैमः ।
कालकः कालयति । ‘कल क्षेपे’ चुरादिः । ण्वुल् (३.१.१३३) ॥
कालकण्ठकः काले वर्षाकाले कण्ठो ध्वनिरस्य । ‘कण्ठः स्वरेऽन्तिके गले’ इति रुद्रः । कालः कण्ठोऽस्य । कप् (५.४.१५४) ‘कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले’ इति हेमचन्द्रः ॥
कालकूटः कालमपि कूटयति । कूट परिदाहे (उ० से०) चुरादिः । ‘कर्मण्यण्’ (३.२.१) कालस्य कर्मणो मृत्योर्वा कूटो राशिरिव-इति वा ।
कालखण्डम् कालेति । कालं च तत्खण्डं च ॥
कालधर्मः कालस्य धर्मः ॥
कालपृष्टम् अथेति । कालो यम इव पृष्ठमस्य । कालवर्णं वा पृष्ठमस्य । ‘कालपृष्ठं कर्णचापे पुंसि कङ्कविहंगमे’ (इति मेदिनी) । ‘कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के’ इति हैमः ॥
कालमेशिका “काले मिश्यते । ‘मिश शब्दे’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । गौरादिः (४.१.४१) । स्वार्थे कन् (५.३.७५) ॥ कालं वर्णं मिषति । ‘मिष स्पर्धायाम्’ (तु० प० से०) । पूर्ववत् मूर्धन्यषा, इति वा । ‘मञ्जिष्ठा कालमेषी च’ इति निघण्टुः ॥”
कालमेषिका कालं मिषति । ‘मिष स्पर्धायाम् (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
कालमेषी कालं मिषति । ‘मिष स्पर्धायाम्’ (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
कालशेय कलश्यां मन्थपात्रे भवम् । ‘दृतिकुक्षि-’ (४.३.५६) इति ढञ् ॥
कालसूत्रम् कालान्ययोमयानि सूत्राण्यत्र ।
कालस्कन्धः कालः स्कन्धो यस्य । ‘कालस्कन्यस्तमाले स्यात्तिन्दुके जीवकद्रुमे इति विश्वः ॥
कालस्कन्धः कालेति । कालः स्कन्धोऽस्य । ‘कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे’ इति मेदिनी ॥
काला कालयति । ‘कल विल क्षेपे (चु० प० से०) । ण्यन्तः । पचाद्यच् (३.१.१३४) ॥
काला कल्यते । ‘कल क्षेपे’ (चु० प० से०) । कर्मणि घञ् (३.३.१९) । यत्तु—कर्मणि ‘एरच्’ (३.३.५६) - इति मुकुटेनोक्तम् । तन्न । कलधातोरिवर्णान्तत्वाभावात् । वृद्ध्यभावप्रसङ्गाच्च । ण्यन्तल्वे ‘कल्यत’ इति विग्रहप्रदर्शनस्यासम्भवाच्च । वर्णत्वाभावान्न ङीष् । ‘काला तु कृष्णत्रिवृतामञ्जिष्टानीलिकासु च’ (इति मेदिनी) ॥
काला कालो वर्णोऽस्त्यस्याः । अर्शाआद्यच् (५.२.१२७) ॥
कालागुरुम् केति । कालं च तदगुरु च ॥
कालानुसार्यम् केति । कालेनानुस्रियते । ‘ऋहलोर्ण्यत्’ (३.१.१२४) ॥
कालानुसार्यम् अनुस्रियते । ‘सृ गतौ’ (भ्वा० प० अ०) । ण्यत् (३.१.१२४) । कालेन वस्तुनानुसार्यम् । ‘कालानुसार्यं शैलेये कालीये शिंशपाद्रुमे’ इति विश्वमेदिन्यौ ॥
कालायसः कालं च तदयश्च । ‘अनोश्मायःसरसाम्-’ (५.४.९४) इति टच् ॥
कालिन्दी कालिन्दीति । कलिन्दस्येयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् ।
कालिन्दीभेदनः कालिन्द्या भेदनः । ल्युः (३.१.१३४)
काली एवं काली । ‘जानपद- (४.१.४२) इत्यादिना ङीष् । (‘काली गौर्या क्षीरकीटे कालिकामातृभेदयोः । नव्यमेघौघ परिवादयोः) ।। वर्णस्याविवक्षायां काला । ‘उमा कात्यायनी दुर्गा काली हैमवतीश्वरी । काला कालंजरी गौरा’ इति वाचस्पतिः।।
कालीयकम् कालस्य वर्णस्येदम् । ‘वृद्धाच्छः’ (४.२.११४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । क्वचित् ‘कालेयकम्’ इति पाठः । कलेरिदम् । ‘सर्वत्राग्निकलिभ्याम्’ (वा० ४.२) इति ढक् । ‘कालीयकं च कालेयं वर्णकं कान्तिदायकम्’ इति व्याडिः ॥
कालेयकः कलेरयम् । सर्वत्राग्निकलिभ्यां ढक्’ (वा० ४.२.८) । स्वार्थे कन् (५.३.७५) ॥ ‘कालीयकः’ इति वा पाठः । कालस्य वर्णस्यायम् । ‘वृद्धाच्छः (४.२.११४) । ‘निर्दिष्टा वै कटकिनी स च कालेयकः स्मृतः । कालीयको दारुनिशा’ इति रुद्रः ॥
कालोपसर्य केति । प्रजने गर्भग्रहणे प्राप्तकाला । उपस्रियते वृषेण । ‘सृ गतौ (भ्वा० प० अ०) । ‘उपसर्या काल्या प्रजने’ (३.१.१०४) इति साधुः ॥
काल्पकः कल्पे विधौ भवः । तत्र भव-’ (४.३.५३) इत्यण् । कन् (५.३.७५) ॥ पाठान्तरे काले साधुः । तत्र साधुः” (४.४.९८) इति यत् । स्वार्थे कन् (५.३.७५) ॥
कावचिकम् वेति । कवचिनां समूहः । ‘ठञ् कवचिनश्च’ (४.२.४१) ॥
कावेरी “सरांसि सन्त्यस्याम् । मतुप् (५.२.९४) । ‘सरस्वांस्तु नदे वार्धौ नाऽन्यवद्रसिके, स्त्रियाम् । वाणी स्त्रीरत्नवाग्देवी-गो-नदीषु नदीभिदि । मनुपत्न्यामपि ।”
काव्यः ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । कोतुमवश्यमाख्यातुमर्हत्वात् काव्यः । ‘ओरावश्यके’ (३.१.१२५) इति ण्यत् । कवेरपत्यम् । कुर्वादिभ्यो ण्यः (४.१.१५१) इति वा । ‘काव्यं ग्रन्थे पुमाञ् शुक्रे काव्या स्यात्पूतनाधियोः’) ॥
काशः अथविति । काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘काशस्तृणे रोगभेदे (इति हैमः) । ‘काशी वाराणसीपुरी’ (इति मेदिनी) । ‘काशीकाशश्च तृणवाचकः’ इति शभेदः । गौरादिङीष् (४.१.४१) ॥
काश्मरी काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति मनिन् । ‘वनो र च’ (४.१.७) इति ङीब्रौ ॥
काश्मर्यः काश्मरीशब्दोऽस्त्यस्य । ‘अन्येभ्योऽपि दृश्यते (वा० ५.२.१२०) इति यप् ॥
काश्मीरजन्मन्म् “कशति, कश्यते वा । ‘कश शब्दे’ । ‘कशेर्मुट् च’ (उ० ४.३२) इतीरन् ।– ‘गम्भीरादयश्च’ -इति मुकुट एतत्सूत्रादर्शनमूलकः कश्मीरे जन्मास्य । ‘काश्मीरं कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः’ (इति मेदिनी) ॥”
काश्मीरम् कश्मीरेषु भवम् । तत्र भवः’ (४.३.५३) इत्यण् ॥
काश्यपिः कश्यपस्यापत्यम् । बाह्वादित्वात् (४.१.९६) इञ् ।
काश्यपी कश्यपस्येयम् । ‘काश्यप उक्तो मुनि-मृगयोर्भदे च काश्यपी क्ष्मायाम्’ इति मेदिनी ॥
काष्ठकुद्दालः कुम् उद्दालयति । ‘दल विशरणे’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) काष्ठस्य कुद्दालः ॥ (२) द्वे पोतादेर्मलापनयनार्थं काष्ठादिरचितकुद्दालस्य ।
काष्ठतट्
- काष्ठं तक्षति । क्विप् (३.२.७६) ॥
काष्ठम् काष्ठमिति । काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘हनिकुषिनीरमिकाशिभ्यः क्थन्’ (उ० २.२) । ‘तितुत्र (७.२.९) इति नेट् । ‘काष्ठं दारुणि काष्ठा च प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि’ इति हैमः ॥
काष्ठा अष्टादशेति । ‘क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्’ इत्यादिशास्त्रसिद्धा निमेषाः । तेऽष्टादश काष्ठा । काशते । हनिकुषि-’ (उ० २.२) इति कथन् । ‘काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्याद्दिशि स्थानमात्रे च ‘काष्ठमाख्यातमिन्द्रिये’ इति विश्वः ।
काष्ठाः काशते । काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘हनिकुषि-’ (उ० २.२) इति क्थन् । (‘काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्’)
काष्ठाम्बुवाहिनी पुनः पुनरम्बुवहति । ‘बहुलमाभीक्ष्ण्ये (३.२.८१) इति णिनिः ॥ (२) द्वे काष्ठपाषाणकृतनौकाकाराम्बुसेचन्याः ।
काष्ठीला काष्ठिना इल्यते । ‘इल स्वप्नक्षेपणयोः’ (तु० प० से०) । घञ् (३.३.१९) ॥
कासः केति । कासतेऽनेन । ‘कासृ शब्दकुत्सायाम्’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । (‘काशस्तृणे रोगभेदे’ इति हैमः । ‘वाराणस्यां भवेत्कासी क्षवथौ ना तृणेऽस्त्रियाम्’ इति तालव्यान्ते रभसाच्च तालव्यान्तोऽपि) ॥
कासरः के जले आसरति । ‘सृ गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । यद्वा ईषत् सरति । स्थूलकायत्वात् । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः ॥
कासारः कासार इति । कासते । ‘कासृ शब्दे’ (भ्वा० आ० से०) । ‘तुषारादयश्च’ (उ० ३.१३९) इत्यारन् । यद्वा ईषत् सारोऽस्य । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः । कासोऽस्यास्तीति वा । अर्शआद्यच् । कासमृच्छति । ‘ऋ गतौ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) इति वा ॥
किंकरः
- किञ्चित् कुत्सितं वा करोति । ‘दिवाविभा-’ (३.२.२१) इत्यत्र ‘किंयत्तद्बहुषु इति (वार्तिकेन) अच् ॥
किंकिणी किमिति । किञ्चित् किणं करोति । किणशब्दात् ‘तत्करोति’ (वा० ३.१.२६) इति ण्यन्तादच् (३.१.१३४) । गौरादिः (४.१.४१) ।-कङ्कणी-इति स्वामी । कङ्कनम् । ‘ककि गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) । कङ्के गतावणति । ‘अण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । शकन्ध्वादिः (वा० ६.१.९४) । यद्वा कं सुखं कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कङ्कणः स्यात्प्रतिसरः कङ्कणी क्षुद्रघण्टिका’ इति भागुरिः ॥
किंपुरुषः “एवं किंपुरुषः । कुत्सा च कस्यचिन्नरमुखाश्वकायत्वात्, कस्यचिदश्वमुखनरशरीरत्वात् । अथ किंपुरुषो लोकभेदकिंनरयोः पुमान् ।”
किंवदन्ती कोऽपि वादः किंपूर्वाद्वदेः ‘भूतॄवहिवसि’ (उ० ३.१२८) इति झच् । ‘झोऽन्तः’ (७.१.३) । ‘गौरादित्वात्’ (४.१.४१) डीष् । यद्वा किंवदन्ति’ इत्याख्यायमाना । अनुकरणशब्दादाख्यातण्यन्तात् (वा० ३.१.२६) । ‘अच इः’ (उ० ४.१३९) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति डीष् ।
किंशारुः किमिति । किञ्चित् कुत्सितं वा शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘किंजरयोः श्रिणः’ (उ० १.४) इत्युण् । ‘अथ किंशारुर्धान्यशूके शरेऽपि च’ इति हैमः ॥
किंशुकः किञ्चित् शुक इव । शुकतुण्डाभपुष्पत्वात् ॥
किकीदिविः ‘किकी’ इति दीव्यति वाशते । ‘दिवु क्रीडादौ’ (दि० प० से०) । ‘कृविघृष्वि (उ० ४.५६) इति साधुः । ‘किकीदिविश्व चाषः स्यात्’ इति रत्नकोषः । ‘चाषो दिविः किकिः स्मृतः’ इति व्याडिः ॥
किञ्चित्
- किम् च चित् च अनयोः समाहारः ॥
किञ्चुलकः किंचिच्चुलुम्पति । ‘कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्’ (वा० ३.१.३५) इति वार्तिकनिर्दिष्टश्चुलुम्पधातुः । अन्येभ्योऽपि’ (वा० ३.२१०१) इति डः । ‘टेः’ (६.४.१४३) इति उकारमकारपकाराणां लोपः । ततः संज्ञायां कन्’ (५.३.७५) ॥ त्रीणि केचुवा इति ख्यातस्य ।
किञ्जल्कः किंजल्क इति । किंचिज्जलति । ‘जल अपवारणे’ (चु० प० से०) । बाहुलकात् कः ॥
किटिः केटति । ‘किट गतौ’ (भ्वा० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) । -किटति इति मुकुटश्चिन्त्यः । किटेस्तौदादिक-त्वाभावात् ॥
किट्टम् कीति । केटति स्म । ‘किट गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । आगमशास्त्रस्यानित्यत्वान्नेट् ॥
किणिही किणिनो व्रणान् जिहीते । ‘ओहाङ् गतौ’ (जु० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) । किणिनो व्रणान् हन्ति वा । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः ॥
किण्वम्
- कीति । कणनम् । ‘कण’ शब्दे (भ्वा० प० से० ) । ‘उल्वादयश्च’ (उ० ४.९५ ) इति साधुः । कर्मणि वा । ‘किण्वं पापे सुरावीजे’ इति विश्वः ॥
कितवः
- ‘कि ज्ञाने (जु० प० अ०) । भावे क्तः (३.३.११४) । कितं वायति ॥ ‘ओ वै शोषणे’ (भ्वा० प० अ०) । कितेन वाति वा । ‘वा गन्धने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कितवो धूर्तवन्मत्ते वञ्चके कनकाह्वये’ इति विश्वः ॥
कितवः कितवाः सन्त्यस्य ग्राहकाः । अर्शआद्यच् (५.२.१२७)। कितान् निवसतो वञ्चति । ‘वञ्चु गतौ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । ‘कितवो धूर्तवन्मत्ते वञ्चके कनकाह्वये’ (इति विश्वः) ॥
किन्नरः किंचित् कुत्सितो वा नरः । किं क्षेपे (२.१.६४) इति समासः ।
किन्नराः अश्वमुखत्वात्कुत्सिता नराः । ‘किं क्षेपे’ (२.१.६४) इति समासः ॥
किन्नरेशः किंनराणामीशः
किमु
- किम् च उ च । ‘किमु सम्भावनायां स्याद्विमर्शे चापि दृश्यते’ (इति मेदिनी) ॥
किमुत
- किं च तद् उत च ॥
किमुत “- किम् च उत च, अनयोः समाहारः । (‘किमुतातिशते प्रश्ने विकल्पे च प्रयुज्यते इति विश्वः) ॥”
किम्
- कानम् । ‘कै शब्दे’ (भ्वा० प० अ०) । ‘कायतेर्डिमिः’ (उ० ४.२५८) ॥
किरः किरति । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) । इति कः ॥ ‘किरिः इति पाठे बाहुलकात् किः । (‘अथ किरः किरिः । भूदारः शूकरः’ इति हैमः) ॥
किरणः कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । कॄपॄवृजि-’ (उ० २.८१) इति क्युः ।
किरातः
- भयिति । किरातादयस्त्रयो म्लेच्छजातयश्चण्डालभेदाः । यत्तु म्लेच्छशब्दवाच्याः -इति मुकुटः । तन्न । जातिपदवैयर्थ्यप्रसङ्गात् । ‘म्लेच्छाः’ इत्येव वक्तुं युक्तत्वात् । किरति । ‘कॄ विक्षेपे’ (तु० प० पे०) । ‘इगुपध-’ (३.१.१३५) इति कः । अतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । अच् (३.१.१३४) । किरश्चासावतश्च । ‘किरातो म्लेच्छभेदे स्याद्भूनिम्बेऽल्पतनावपि । स्त्रियां चामरवाहिन्यां कुट्टनीदुर्गयोरपि’ (इति मेदिनी) ॥
किराततिक्तः किरेति । किरातदेशोऽस्ति जन्मस्थानमस्य । ‘अर्शआद्यच्’ (५.२.१२७) । किरातश्वासौ तिक्तश्च ॥
किरीटः किरति । अनेन वा । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄतॄकृपेः कीटन्’ (उ० ४.१८५) ॥
किर्मीरः “‘कॄ विक्षेपे’ (तु० प० से०) । गम्भीरादयश्च’ इति किरतेरीरन्, मुडागमः । ’किर्मीरो ना नागरङ्गे (कर्बुरे राक्षसान्तरे) ॥”
किलासम् कीति । किलति । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । अस्यति । ‘असु क्षेपणे’ (दि० प० से०) । अच् (३.१.१३४) । किलं च तदसं च । यद्वा केलनम् । भिदाद्यङ् (३.३.१०४) । किलमस्यति । अण् (३.२.१) । किलेन श्वैत्येन असति वा । ‘अस दीप्तौ’ (भ्वा० उ० से०) । अच् (३.१.१३४) ॥
किलासी कीति । किलासमस्यास्ति । ‘द्वन्द्वोप-’ (५.५.१२८) इतीनिः ॥
किलिञ्जकः किल्यतेऽनेन । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । वेत्रवीरणादिः । किलेर्जातः । जनेः ‘पञ्चम्यामजातौ’ (३.२.९८) इति उः । पृषोदरादिः (६.३.१०९) । ‘तत्पुरुषे कृति-’ (६.३.१४) इति (द्वितीयायाः) अलुक्- इति मुकुटः । तन्न । कृद्योगे षष्ठ्या विशेषविधानात् ॥
किल्बिषम् केलयति क्रीडयति विषयेषु । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । किलेर्बुक् च ’ (उ० १.५०) इति टिषच् बुगागमश्च । किल्बिषं पापरोगयोः । अपराधेऽपि ॥
किशोरः वेति । कशति । ‘कश शब्दे’ । किंचिच्छवति वा । ‘शु गतौ’ (भ्वा० प० अ०) । ‘शव गतौ’ (भ्वा० प० से०) वा । किशोरादयः’ (उ० १.६५) इति साधुः । (‘अथ किशोरोऽश्वस्य शावके । तैलपर्ण्यौषधौ च स्यात्तरुणवस्थसूर्ययोः’ (इति मेदिनी) ॥
किसलयम् किंचित्सलति । ‘षल गतौ’ (भ्वा० प० से०) । बाहुलकात् कयन् प्रत्ययः । पृषोदरादिः (६.३.१०९) ॥
कीकसम् कीति । ‘कि’ इति कसति । ‘कस गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कीकसः कृमिजातौ स्यात्पुंसि कुल्ये नपुंसकम्’ (इति मेदिनी) ॥
कीचकः वेणेति । ये वेणवोऽनिलेनोद्धतास्ताडिताश्चालिता वा शब्दायन्ते । चीकति । चीकयते वा । शब्दायते । ‘चीक मर्षणे (चु० उ० से०) । ‘चीकयतेराद्यन्तविपर्ययश्च’ (उ० ५.३६) इति वुन् । -पृषोदरादित्वात् (६.३.१०९) आद्यन्तविपर्ययश्च - इति मुकुटः । तद् उक्तसूत्रादर्शनमूलकम् । यद्वा ‘की’ इत्यव्यक्तम् चकते । ‘चक तृप्त्यादौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘संज्ञायां कन्’ (५.३.७५) । क्वुन् (उ० २.३२) वा । ‘कीच’ इत्यव्यक्तं कायति । मूलविभुजादिकः (वा० ३.२.५) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डो वा । ‘कीचको दैत्यभिद्वाताहतसस्वनवंशयोः’ (इति मेदिनी) ॥
कीरः कीरेति । ‘कि’ इति ईरयति । अच् (३.१.१३४) । इगुपधत्वात् (३.१.१३५) कः–इति मुकुटः । तन्न । णिजन्तविग्रहप्रदर्शनादिगुपधत्वाभावात् । ‘कीरः शुके पुंभूम्नि नीवृति’ (इति मेदिनी) ॥
कीर्त्तिः कीर्थ्यते । ‘कॄत संशब्दने’ (चु० प० से०) । ‘ऊतियूति-’ (३.३.९७) इति निपातितः । ‘कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च ॥
कीलकः कील्यते (अत्र) । ‘कील बन्धे’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । स्वार्थे कन् (ज्ञापि० ४.४.५) ॥
कीला ‘कील बन्धे’ (भ्वा० प० से०) । कीलति । ‘इगुपध (३.१.१३५) इति कः ।४। स्त्रियां टाप् (४.१.४) कीलोऽग्नितेजसि । कूर्परस्तम्भयोः शङ्कौ कीला रतहतावपि’) ।
कीलालम् कीलां ज्वालामलति वारयति । ‘अल भूषणादौ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । और्वाग्नेः कीलां लाति वा । कीलालं रुधिरे तोये इति हैमः ।
कीशः ‘की’ इति शब्दमीष्टे । ‘ईश ऐश्वर्ये (अ० आ० से०) । मूलविभुजा-’ (वा० ३.२.५) इति कः । यद्वा कस्य वायोरपत्यम् । ‘अत इञ्’ (४.१.९५) । किर्हनुमान् ईशो यस्य ॥
कीशपर्णी कपिलो मतुल्यानि लोमशानि पर्णान्यस्याः ॥ ‘केशपर्णी’ इति स्वामी ॥
कुः कुवते । ‘कुङ् शब्दे । मितद्रवादित्वाद् (वा० ३.२.१८०) डुः ।
कुकरः कुकेति । कुत्सितः करोऽस्य ॥
कुकुन्दरम् “कूपेति । कूपाविव । ‘इवे-’ (५.३.९६) इति कन् । ‘कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे’ इति हैमः । नितम्बे तिष्ठतः । ‘सुपि’ (३.२.४) इति कः । कुं भूमिं दारयति । ‘दॄ भये’ (क्र्या० प० से०) । ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । पृषोदरादिः (६.३.१०९) । कुत्सितं कुंदरम् । ईषत् कुन्दरमत्र, इति वा । यद्वा स्कुन्द्यते कामिना । ‘स्कुदि आप्लवने’ (भ्वा० आ० से०) । ‘मङ्गुरादयश्च’ (उ० १.४१) इति साधुः ॥ द्वयेन हीने ।”
कुक्कुटः “कोकनम् । ‘कुक आदाने (भ्वा० आ० से०) । सम्पदादिभ्यः क्विप् (वा० ३.३.१०८) । कुटति । ‘कुट कौटिल्ये’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । कुका कुटः । ‘कर्तृकरणे-’ (२.१.३२) इति समासः । कुत्सितः कुटो वा । कोः पृथिव्याः कुटो वा । पृषोदरादिः (६.३.१०९) वा । -कुं पृथ्वीं कुटति । इगुपधत्वात् (३.१.१३५) कः - इति मुकुटः, तन्न । अणस्तदपवादत्वात् । ‘अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन’ (३.२.१) इति वार्तिकाद्वा । मूलविभुजादित्वम् (वा० ३.२.५) युक्तम् । ‘कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे । निषादशूद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे’ इति विश्वमेदिन्यौ ॥”
कुक्कुभः ‘कुक्’ इति शब्दं कौति । ‘कु शब्दे’ (अ० प० अ०) । बाहुलकाद्भक् । ‘कुक्कु’ शब्दं भाषते । ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । वनकुक्कुटोऽयम् ॥
कुक्कुरः
- कोकते । ‘कुक आदाने’ (भ्वा० आ० से०) । क्विप् (३.२.१७८) । कुरति । ‘कुर शब्दे’ (तु० प० से०) । कः (३.१.१३५) । कुक् चासौ कुरश्च । ‘कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम्’ इति विश्वः (मेदिनी ) ॥
कुक्कुरम् कुक्कुरोऽस्यास्ति । कुक्कुरशब्दस्तद्गन्धे लाक्षणिकः । अर्शआद्यच् (५.२.१२७) ॥
कुक्षिः कुष्यते निष्कास्यते मलोस्मात् । ‘कुष निष्कर्षे’ (क्र्या० प० से०) । ‘प्लुषिकुषिशुषिभ्यः क्सिः’ (उ० ३.१५५) - । ‘कुषः सिः’-इति मुकुटवाक्यमपाणिनीयम् ॥
कुङ्कुमम् अथेति । ‘कुङ्कुम्’ इति शब्दोऽस्ति वाचकत्वेनास्य । अर्शआद्यच् (५.२.१२७) । यद्वा कुक्यते । ‘कुक आदाने’ (भ्वा० आ० से०) । बाहुलकादुमच् । ‘आच्छी-’ (७.१.८०) इत्यत्र ‘नुम्’ इति योगविभागान्नुम् ॥
कुचन्दनम् निर्बन्धत्वात् कुत्सितं चन्दनम् । कौ चन्दनम् । ‘इव वा । कुत्सितान्यन्यचन्दनान्यस्माद्वा । ‘कुचन्दनं च पत्त्राङ्गे द्रुभेदे रक्तचन्दने’ इति विश्वमेदिन्यौ ॥
कुचाग्रम् कुचस्याग्रम् ॥ ‘चूचुको ना कुचाननम्’ इति रत्नकोषः ।
कुचौ कुचति । ‘कुच संकोचे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
कुजः कोः पृथिव्या जातः । ‘पञ्चम्याम्-’ (३.२.९८) इति डः । (‘कुजा भवान्यां वृक्षे तु कुजो नरकभौमयोः’) ।।
कुञ्जः निकुजेति । कावजानि । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘सप्तम्यां जनेर्डः (३.२.९७) । पृषोदरादिः (६.३.१०९) । कुञ्जन्त्यत्र । कुजि अव्यक्ते शब्दे’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । तन्न । कुजि धातोर्धातुपाठेऽदर्शनात् । यत्तु न्यङ्क्वादेः’ इति कृत्वाभावः इति तदपि न । न्यङ्क्वादेः इत्यस्य कुत्वविधायकत्वात् । निरत्रोपसर्गान्तरव्यावृत्त्यर्थम् । कुञ्जिरावरणार्थो लोकात् इति क्षीरस्वामी । ‘कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम्’ इति विश्वः ।
कुञ्जरः अतिशयितः कुञ्जो हनुरस्य । ‘खमुखकुञ्जेभ्यो रः’ (वा० ५.२.१०७) । ‘कुञ्जरोऽनेकपे केशे कुञ्जरा धातकीद्रुमे । पाटलायां च’ इति हेमचन्द्रः ॥
कुञ्जराशनः कुञ्जरेणाश्यते । ‘अश भोजने’ (क्र्या० प० से०) । कर्मणि ल्युट् (३.३.११३) ॥
कुञ्जलम् कुत्सितं जलम् । पृषोदरादिः (६.१.१०९) ॥
कुटः कुटति । ‘कुट कौटिल्ये’ (तु० प० से०) । पचाद्यच् (३.१.१३४) । ‘इगुपध-’ (३.१.१३५) इति को वा । मुकुटस्तु – ‘कौति शब्दायते पक्ष्यत्र इति । ‘कणेष्ठः’ बाहुलकात् अन्येभ्योऽपि टः । कुटादित्वात् (१.२.१) ङित्वे गुणाभावः । बाहुलकान्नेकादेशः इति वदन् टवर्गद्वितीयं मन्यते । तत्र ‘कौति’इति विगृह्य कुटादित्वोक्तिः प्रामादिकी । आदादिकस्य ‘कौति’इति रूपसम्भवात् । तौदादिकस्य ‘कुवते’ इति रूपस्य सम्भवात् ।
कुटः कूटयति । कुट्यते वा । ‘कूट आप्रदाने’ (चु० आ० से०) । ‘कूट दाहे मन्त्रणे’ (चु० उ० से०) । वा अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘कूटं पूर्द्वारयन्त्रयोः । मायादम्भाद्रिशृङ्गेषु । सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ’ इति हेमचन्द्रः ॥
कुटः कुटति ‘कुट कौटिल्ये’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
कुटकम् कुटति । ‘कुट कौटिल्ये’ (तु० प० से०) । क्वुन् (उ० २.३२) । मुकुटस्तु-कूटयति छिनत्ति । ‘कूट छेदने’ (चु० उ० से०) । इगुपधत्वात् (३.१.१३५) कः । कूटम् । ततः स्वार्थे कन् (ज्ञापि० ५.४.५) इति वदन् (कूटकम्) दीर्घादि मन्यते । अत्र पचाद्यच् । (३.१.१३४) उचितः । न तु कः । ण्यन्तस्येगुपधत्वाभावात् ॥
कुटजः अथेति । कूटे शृङ्गे जायते स्म । ‘सप्तम्यां जनेर्डः’ (३.२.९७) । पृषोदरादिः (६.३.१०९) ॥ प्रज्ञाद्यणि (५.४.३८) कौटजश्च । ‘कौटजः कुटजः कोटी’ इति चन्द्रः । (‘कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि’) ॥
कुटन्नटः कुटन् वक्रीभवन् नटति । ‘नट स्पन्दने’ । पचाद्यच् (३.१.१३४) ॥
कुटन्नटम् क्विति । कुटन् वक्रीभवन् नटति । ‘नट स्पन्दने’ (चु० प० से०) । अच् (३.१.१३४) ॥
कुटशाल्मलिः कूटश्चासौ शाल्मलिश्च ॥
कुटी “कुटति कुटिलीभवति । ‘कुट कौटिल्ये’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘इगुपधात् कित्’ (उ० ४.१२०) इति, इनि कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् वा । ‘कुटः कोट्टे शिलाकुटे घटे गेहे कुटी सुरा । चित्रगुच्छा कुम्भदासी’ इति हैमः । (‘कूटः कोटे पुमानस्त्री घटे, स्त्रीपुंसयोर्गृहे । कुटी स्यात्कुम्भदास्यां तु सुरायां चित्रगुच्छके-’ इति मेदिनी) ॥”
कुटुम्बिनी स्यादिति । कुटुम्बमस्त्यास्याः । इनिः (५.२.११५) । ‘कुटुम्बं पोष्यवर्गे च’ इत्यमरमाला ॥
कुट्टनी कुट्टेति । कुट्टयति । ‘कुट्ट छेदने’ (चु० प० से०) । ल्युट् (३.३.११३) ॥
कुट्मलः “कुट्मल इति । कुट्यते, कुटति, वा । ‘कुट छेदने’ कौटिल्ये’ (तु० प० से०) वा । ‘कुटिकशिभ्यां क्मलच् (उ० १.१०९) इति क्मलचि ॥ बाहुलकात् ‘कुडेः’ (तु० प० मे०) अपि (क्मनि ‘कुड्मलः’) । (‘कुड्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे’) ॥”
कुठरः किति । कुठति । ‘कुठ गतिप्रतिघाते । बाहुलकात्करन् । -‘कुठश्च’ इत्यरः-इति मुकुटस्त्वपाणिनीयः । ‘कुटरः’ इति पाठे तु ‘कुट कौटिल्ये’ (तु० प० से०) । बाहुलकादरः ॥
कुठारः द्वेति । कुठे गतिप्रातिघाते आरो गतिरस्य । जातित्वात् (४.१.६३) ङीष् । कुठं वृक्षमृच्छति वा । ‘ऋ गतौ’ (भ्वा० प० अ०) अण् (३.२.१) ॥
कुठेरकः कुण्ठति । ‘शुठ प्रतीघाते’ ‘कुठि च’ (भ्वा० प० से०) । ‘पति-कठि-कुठि’ (उ० १.५८) इत्येरक् । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ ‘कुठ गुठ प्रतीघाते’ ‘कुठी च’ इत्यतो ‘दर्दुरादयश्च’ (उ० १.४०) इति ढ्रक् । पृषोदरादित्वात् (उ० ६.३.१०९) अनुषङ्गलोपः - इति मुकुटः । तन्न । कुठ धातोः सत्वे पृषोदरादित्वकल्पनावैयर्थ्यात् । ढ्रक्कल्पनाऽपि व्यर्था । एरकासिद्धत्वात् ॥
कुडवः कुडवः ।
कुड्यम् कुट्यां साधु । ‘तत्र साधुः’ (४.४.९८) इति यत् । पृषोदरादिः (६.३.१०९) । कुड्यते वा । ‘कुडि कार्कश्ये । ण्यत् (३.१.१२४) । (‘कुड्यं भित्तौ विलेपने’ इति मेदिनी) ।
कुणपः क्विति । क्वणति । ‘क्वण शब्दे’ (भ्वा० प० से०) । ‘क्वणेः संप्रसारणं च’ (३.१४३) इति कपन् । (कुणपी पुनः । विट्सारिकायां) कुणपः पूतिगन्धे शवेऽपि च’ इति विश्वमेदिन्यौ ॥
कुणिः कुणति । ‘कुण संकोचे’ (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । ‘कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत्’ इति मेदिनी) ॥ ‘तुणिः’ इति क्वचित् पाठः । तूणयति । ‘तूण संकोचे’ (चु० आ० से०) । ‘अच इः’ (उ० ४.१३९) । पृषोदरादिः (६.३.१०९) ॥
कुणिः “कुणति, कुण्यते, वा । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । ‘कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत्’ (इति मेदिनी) ॥ निसर्गतः कूणिपङ्गुपौगण्डाः’ इति नाममालायामार्यापाठाद्दीर्घोकारवानपि ॥”
कुण्डः “अम्रिति । जाराज्जातः । कुड्यते कुलमनेन । ‘कुडि दाहे’ । (भ्वा० आ० से०) । घञ् (३.३.१९) । ‘कुण्डमभ्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ, जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ (इति मेदिनी) । सुते पुमान् । सुतायां तु जातिलक्षणः (४.१.६३) ङीष् भवत्येव ॥”
कुण्डम् कुण्डयति । ‘कुडि रक्षायाम्’ (चु० प० से०) । अच् (३.१.१३४) -कुणति । ‘कुण शब्दोपतापयोः’ (तु० प० से०) । ‘कुणादिभ्यः कित्’ इति डः- इति मुकुटः । तन्न । उक्तसूत्राभावात् । ‘क्वादेः कित्’ (उ० १.११५) इति सूत्रस्य सत्त्वात् । ‘कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारा - त्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ इति विश्वः (मेदिनी) ॥
कुण्डलम् “कुण्डेति । कुण्डते, कुण्ड्यते, वा । ‘कुडि दाहे’ (भ्वा० आ० से०) । ‘कुडि रक्षायाम्’ (चु० प० से०) वा । वृषादित्वात् (उ० १.१०६) कलच् । कुण्डं कुण्डलाकारं लाति वा । ‘कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुगुडूच्योः स्त्री’ (इति मेदिनी) ॥”
कुण्डली कुण्डलं कुण्डलाकारतास्यास्ति । इनिः (५.२.११५) । यत्तु मुकुटः
कुण्डी “घञ् कुणति । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘जानपद-’ (४.१४२) इति ङीष् । ‘कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ, जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ (इति मेदिनी)॥सुतायां तु जातिलक्षणो ङीष् ॥”
कुतपः अंश इति । पञ्चदशमुहूर्तात्मकस्य दिनस्याष्टमो भागः । कुत्सितं तपति । ‘तप संतापे’ (भ्वा० प० अ०) । ‘संज्ञायाम्-’ (३.२.४६) इति खच् । ‘अनव्ययस्य’ (६.३.६६) इत्यनुवृतेर्न मुम् (६.३.६७) । यद्वा कुं भुवं तपति । आगमशास्त्रस्यानित्यत्वान्न मुम् । ‘दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दतमक्षयम्’ इति शातातपः । ‘कुतपोऽस्त्रियां दौहित्रे वाद्ये छागजकुम्बले । कुशे दिनस्याष्टमांशे ना सूर्ये’ ‘कुतपी पुनः । विट्सारिकायाम्’ (इति मेदिनी)॥
कुतुकम् कुतूं कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । आतोऽनुप- (३.२.३) इति कः । उपपदसमासः (२.२ १९) । ‘इको ह्रस्वोऽङ्गयः-’ (६.३.६१) इति ह्रस्वः । प्रज्ञाद्यण् (५.४.३८) वा । यद्वा कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । ‘इसुसुक्-’ (७.३.५१) इति कः । केऽणः (७.४.१३) इति ह्रस्वः । संज्ञापूर्वकत्वात्पक्षे वृद्धयभावः । यत्तु ‘तुज हिंसायाम्’ (भ्वा० प० से०) । कुं तुजति । मूलविभुज-’ (वा० ३.२.५) इति कः । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् इति मुकुटेनोक्तम् । तन्न । कुत्वे आन्तरतम्याज्जस्य गत्वप्रसङ्गात् । (‘कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ‘)
कुतुपः सैवेति । ‘सा’ इति निर्देशात् कुतूः स्त्रीलिङ्गः । अल्पा कुतूः । ‘कुत्वा डुपच्’ (५.३.८९) ॥
कुतूः “क्विति । कुत्सितं तन्यते । ‘तनु विस्तारे’ (त० उ० से०) । बाहुलकात् कूः, टिलोपश्च । कौति । ‘कु शब्दे’ (अ० प० अ०) । बाहुलकात् कूस्तुक्च वा । ‘कुत्वा डुपच्’ (५.३.८९) इति निर्देशाद्वा ॥”
कुतूहलम् कुतूं कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । आतोऽनुप- (३.२.३) इति कः । उपपदसमासः (२.२ १९) । ‘इको ह्रस्वोऽङ्गयः-’ (६.३.६१) इति ह्रस्वः । प्रज्ञाद्यण् (५.४.३८) वा । यद्वा कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । ‘इसुसुक्-’ (७.३.५१) इति कः । केऽणः (७.४.१३) इति ह्रस्वः । संज्ञापूर्वकत्वात्पक्षे वृद्धयभावः । यत्तु ‘तुज हिंसायाम्’ (भ्वा० प० से०) । कुं तुजति । मूलविभुज-’ (वा० ३.२.५) इति कः । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् इति मुकुटेनोक्तम् । तन्न । कुत्वे आन्तरतम्याज्जस्य गत्वप्रसङ्गात् । (‘कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ‘)
कुत्सा ‘कुत्स अवक्षेपणे’ (चु० अ० से०) । ‘गुरोश्च ’ (३.३.१०३) इत्यः ॥
कुथः कुथ्यति । ‘कुथ पूतीभावे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । -‘कुथति’ इति स्वाम्युक्तविग्रहश्चिन्त्यः । ‘कुथः स्त्रीपुंसयोर्वणे कम्बले पुंसि बर्हिषि’ (इति मेदिनी) ॥
कुथः कुथ्नाति । ‘कुन्थ दीप्तौ’ (क्र्या० प० से०) । अच् (३.१.१३४) । ‘-दहदश-’ (३.१.२४) इति निर्देशात्क्वचिदकित्यपि नलोपः । यद्वा कुन्थत्यशोभाम् ‘कुथि हिंसायाम्’ (भ्वा० प० से०) । आगमशास्त्रस्यानित्यत्वान्न नुम् । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा कुथ्यति । ‘कुथ पूतीभावे’ (दि० प० से०) । ‘इगुपध-’ (३.१.३१५) इति कः । कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि’ (इति मेदिनी) । क्लीबेऽपि । ‘स्त्री प्रवेणी’ । कुथं त्रिषु’ इति वोपालितः ॥
कुद्दालः कुमुद्दालयति । ‘दल विदारणे’ (चु० उ० से०) । ‘कर्मण्यण् (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुद्दालः स्यात्पुमान्भूमिदारणे युगपत्रके’) ॥
कुनटी कौ नटति । ‘नट अवस्यन्दने’ (चु० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । यद्वा कुत्सिता नटीव ॥
कुनाशकः कुं नाशयति । ‘णश अदर्शने’ (दि० प० अ०) । ण्यन्तः । पचाद्यच् (३.१.१३४) । स्वार्थे कन् ॥
कुन्तः कुं शरीरमुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) बाहुलकात्तः । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुन्तः प्रासे चण्डभावे क्षुद्रजातौ गवेधुके कुन्ती पाण्डुप्रियायां च शल्लक्यां गुग्गुलद्रुमे’ इति विश्वः ॥
कुन्तलः कुन्तं कुन्ताग्राकारं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कुन्तलश्चपके वाले यवे ना भूम्नि नीवृति’ इति मेदिनी ॥
कुन्दः कुं भूमिमुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना’ (इति मेदिनी) ॥
कुन्दम् “कुं भुवं दायति, द्यति वा । ‘दैप् शोधने’ (भ्वा० प० अ०) । ‘दो अवखण्डने’ (दि० प० अ०) वा । ‘आतः’ (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । कुणति । ‘कुण शब्दे (तु० प० से०) । ‘अब्दादयश्च’ (उ० ४.९८) इति दो वा । यत्तु-तत्पुरुषे (६.३.१४) इति द्वितीयाया अलुक् इति मुकुटः । तन्न । अलौकिकविग्रहे द्वितीयाया अप्रवेशात् । षष्ठ्याः प्रवेशाच्च । माघ्यः कुन्दः कुरुण्टकः’ इति पुंस्काण्डे रत्नकोषात् पुंस्त्वमपि । ‘कुन्दो माघ्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना’ (इति मेदिनी) ॥”
कुन्दुरुः कुमुनत्ति । उन्दयति वा । ‘जत्र्वादयश्च (उ० ४.१०२) इति साधुः ॥
कुन्दुरुकी कुन्दुरुरिव प्रतिकृतिः । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । गौरादिः (४.१.४१)॥
कुप्यम् कुप्यम् ।
कुबेरः कुबेर इत्यादि । कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते । ‘कुबेरः कुशरीरः त्वान्नाम्ना तेनैव सोऽङ्कितः’ इति वायुपुराणम् । यद्वा-कुम्बति धनम् । ‘कुबि आच्छादने’ (भ्वा० प० से०) । ‘कुम्बेर्नलोपश्च’ (उ० १.५९) इत्येरक् ।।
कुबेरः कुबेर इत्यादि । कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते । ‘कुबेरः कुशरीरः त्वान्नाम्ना तेनैव सोऽङ्कितः’ इति वायुपुराणम् । यद्वा-कुम्बति धनम् । ‘कुबि आच्छादने’ (भ्वा० प० से०) । ‘कुम्बेर्नलोपश्च’ (उ० १.५९) इत्येरक् ।।
कुबेरकः कुत्सितं वेरमस्य । ‘कुवेरकः कुवेरे स्यात्पुंसि नन्द्याख्यपादपे’ । (‘कुवेरः स्यात्पुंसि नन्दिवृक्षे पुण्यजनेश्वरे’ इति मेदिनी) ॥
कुबेराक्षी कुबेरस्येवाक्षि यस्याः । ‘अक्ष्णोऽदर्शनात्’ (५.४.७६) इत्यच् । गौरादिः (४.१.४१) । मुकुटस्तु - बहुव्रीहौ सक्थि-’ (५.४.११३) इत्यादिना षच् – इत्याह । तन्न । अस्वाङ्गत्वात् वृक्षस्याप्राणित्वात् ।
कुब्जः क्विति । कौ उब्जति । ‘उब्ज आर्जवे’ (तु० प० से०) । अच् (३.१.१३४) । यद्वा कु ईषदुब्जमार्जवमस्य । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुब्जो वृक्षप्रभेदे ना न्युब्जे स्याद्वाच्य- लिङ्गकः’ (इति मेदिनी) ॥
कुमार कुमारयति । कुमार क्रीडायाम्’ (चु० उ० से०) । अच् (३.१.१३४) ‘कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे । कुमारं जात्यकनके कुमारीत्यपराजिता । नदीभिद्रामतरुणी कन्यका नवमाल्युमा ॥ जम्बुद्वीपविभागश्च’ इति हैमः ॥
कुमारः कुमारयति क्रीडति । ‘कुमार क्रीडायाम् (चु० उ० से०) । पचाद्यच् (३.१.१३४) । कुत्सितो मारोऽस्येति वा । ‘कुः पापेषदर्थयोः । कौ मारयति दुष्टान् । पचाद्यच् (३.१.१३४) । यत्तु—ब्रह्मचारित्वात्कुमारः इति स्वामिनोक्तम् । तन्न । ‘शतक्रतो रूपवती देवसेनेति या सुता । सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता । उदीर्णसेनापतये महासेनाय सुव्रत’ इति वायुपुराणात् । कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके बालके वरुणद्रौ ना न द्वयोर्जात्य काञ्चने’) ।
कुमारकः कुमारश्चिरतरुणत्वात् । कुमारयति । ‘कुमार क्रीडायाम्’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । कुमार इव ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥
कुमारी कुमारीव । यद्वा कुमारयति । ‘कुमार क्रीडायाम् (चु० उ० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । यद्वा कामयते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘कमेः किदुच्चोपधायाः’ (उ० ३.१३८) इत्यारन् । ‘वयसि प्रथमे’ (४.१.२०) इति ङीप् । ‘कुमारी रामतरुण्यां नवमाल्ये नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु च स्मृता’ (इति विश्वः) ॥
कुमारी कम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘कमेः किदुच्चोपधायाः (उ० ३.१३८) इत्यारन् । ‘वयसि प्रथमे’ (४.१.२०) इति ङीप् । पूर्वत्र तु न । ‘कन्यायाः कनीन च’ (४.१.११६) इति लिङ्गात् । यद्वा कुमारयति । ‘कुमार क्रीडायाम्’ (चु० उ० से०) । अच् (३.१.१३४) । कुत्सितो मारोऽस्या वा । ‘कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने’ (इति मेदिनी) । ‘कुमारी रामतरुणीनवमाल्योर्नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु च स्मृता’ इति विश्वः । (‘जम्बूद्वीपविभागे च’ इति हैमः) ॥
कुमुदः “सिते इति । कौ मोदते । ‘मुद हर्षे’ (भ्वा० आ० से०) ॥ मूलविभुजादिः (वा० ३.२.५) । ‘इगुपध-’(३.१.१३६) इति को वा । ‘कुमुदं कैरवे रक्तपद्मे, स्त्री कुम्भिकोषधौ । | गम्भार्यां, पुंसि दिङ्नागे नागशाखामृगान्तरे’ । (क्विपि (३.२.१७८) कुमुद । ‘कुमुद् त्रिषु स्यात्कृपणे कैरवे तु नपुंसकम्’ इति मेदिनी)”
कुमुदः कुमुदं रक्तोत्पलं तत्तुल्यवर्णत्वात् । ‘कुमुदं कैरवे रक्तपणे स्त्री कुम्भिकोषधौ । गम्भार्यां पुंसि दिङ्नगे नागेशाखामृगान्तरे । कौ मोदते वा । ‘इगुपध-’ इति कः । मुद हर्षे (भ्वा० आ० से०) । मूलविभुज-’ (वा० ३.२.५) इति कः - इति मुकुटः । तन्न । अनुपयोगात् ।
कुमुदबान्धवः कुमुदानां बान्धवः ।
कुमुदिका कौ मोदते । ‘मुदी हर्षे’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) । ‘कुमुदं कैरवे रक्तपद्ये स्त्री कुम्भिकौषधौ । गंभार्यां पुंसि दिङ्नागे नागशाखामृगान्तरे’ ॥
कुमुदिनी ‘पुष्करादिभ्यः-’ (५.२.१३५) इतीनौ कुमुदिनी ॥ (२) द्वे कुमुदयुक्तदेशस्य । कुमुदलताया इत्यन्ये ।
कुमुद्वती अथेति । कुमुदान्यत्र देशे सन्ति ‘कुमुदनडवेतसेभ्यो ड्मतुप् (४.२.८७) । ‘झयः’ (८.२.१०) इति वत्वम् । (‘कुमुद्वती कैरविण्यां दयितायां कुशस्य च’) ॥
कुमुद्वान् कुमुद्वानिति । कुमुदानि सन्त्यत्र ॥ (१) । कुमुदानि प्रायाण्यत्रा । एकम् कुमुदबहुलदेशे ।
कुम्बा “क्विति । कुम्ब्यते अनया वा । ‘कुबि आच्छादने (भ्वा०,’ चु० प० से०) । चिन्तिपूजिकथि-’ (३.३.१०७) इत्यङ् ॥”
कुम्भः क्विति । ‘कुम्भोलूखलकम्’ इति संघातविगृहीतम् । ‘कार्मुके वारनार्यां च कुम्भः क्लीबं तु गुग्गुलौ’ इति रभसः । ‘उदूखले गुग्गुलौ च क्लीबमुक्तमुलूखलम्’ इति रुद्रः। कुम्भोलूखलकं कुम्भं कुम्भोलुः खलकं वरम्’ इति वाचस्पतिः ॥ कमुम्भति । ‘उम्भ पूरणे (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४)
कुम्भः क्विति । कुं भुवमुम्भति । ‘उम्भ पूरणे’ (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुम्भो राश्यन्तरे हस्तिमूर्धांशे राक्षसान्तरे । कार्मुके वारनार्यां च घटे क्लीबं तु गुग्गुलौ’ (इति मेदिनी) ॥ पिण्डते । ‘पिडि संघाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘पिण्डो बाले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलाबूखजूरभेदयोः’ (इति मेदिनी) ॥
कुम्भकारः
- क्विति । कुम्भं करोति । अण् (३.२.१) । ‘कुम्भकारी कुलत्थ्यां च पुंसि स्याद्धटकारके’ इति विश्वः (मेदिनी) ॥
कुम्भसम्भवः कुम्भः सम्भव उत्पत्तिस्थानमस्य ।
कुम्भिका कुम्भोऽस्त्यस्याः । ठन् (५.२.११५) ॥ द्वे जलकुम्भिकायाः ।
कुम्भी कुम्भीव कुम्भी रसाधारत्वात् । ‘पृश्निकायां च कुम्भी स्यात्पाटलौ कट्फलेऽपि च’ इति रन्तिदेवः ॥
कुम्भीरः कुम्भिनं हस्तिनमीरयति । ‘कर्मण्यण्’ (३.२.१) ॥ द्वे नक्रस्य ।
कुरङ्गः कौ रङ्गति । ‘रगि गतौ’ (भ्वा० प० से०) । अच् (५.२.१२७) । कौ रङ्गोऽस्त्यस्य वा ॥
कुरण्टकः कुर्यते । ‘कुर छेदने’ (तु० प० से०) । बाहुलकादण्टः । स्वार्थे कन् (५.३.७५) । (‘कुरण्टी दारुपुत्र्यां ना झिंट्यम्लानप्रभेदयोः’ इति मेदिनी) । इत्येकोकारवान् इति कश्चित् । तत्र ‘कुर शब्दे’ (तु० प० से०) इति पठितुं युक्तम् ॥
कुररः कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) ‘कुवः क्ररन्’ (उ० ३.१३३) । कुरति । ‘कुर शब्दे’ (तु० प० से०) । ‘कुर छेदने’ (तु० प० से०) । बाहुलकात् अरक् –इति स्वामिमुकुटौ ‘कुवः क्ररन्’ इति सूत्रास्मरणमूलकौ ज्ञेयौ ॥
कुरवकः तत्रेति । तत्राम्लाने शोणे रक्ते । कुत्सित ईषद्वालीनां अल्पमकरन्दत्वाद् रवोऽत्र । बहुव्रीहित्वान्न कादेशः । ‘कुरवकः शोणा म्लानझिण्टीप्रभेदयोः’ (इति मेदिनी) ॥ कु ईषद्रौति । संज्ञायां क्वुन् (उ० २.३२) । उवङ् (६.४.७७) । उकारद्वयवान् । (कुरुवकः) इति मुकुटः ॥
कुरवकः तस्मिन्निति । तस्मिन् सैरेयके ॥
कुरुण्टकः तत्रेति । रुण्टति । ‘रुटि स्तेयकरणे’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । क्वुन् (उ० २.३२) वा । कुत्सितः कोर्वा रुण्टकः । ‘कुगति-’ (२.२.१८) इति समासः । ‘कुरुण्टकः पीतपुष्पाम्लानझिंटिकयोः पुमान्’ (इति मेदिनी) ॥
कुरुविन्दः कुर्विति । कुरून् विन्दति । ‘विद्लृ लाभे’(तु० उ० अ०) । ‘अनुपसर्गाल्लिम्प०’ (३.१.१३८) इति शः । ‘कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान्’ इति विश्वमेदिन्यौ ।
कुरुविस्तः कुरुविस्तः ।
कुलकः
- क्विति । कोलति । ‘कुल संस्त्याने बन्धुषु च’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते (इति मेदिनी) । ‘कुलिकः’ इति पाठे कुलमधीनत्वेनास्यास्ति । ठन् (५.२.११५) । ‘कुलिको नागभेदे स्याद्दुभेदे कुलसत्तमे’ (इति मेदिनी) ॥
कुलकः कुलस्य गृहस्य प्रतिकृतिरिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहृतौ । पुंसि बल्मीककाकेन्दु कुलश्रेष्ठेषु कथ्यते’ इति विश्वमेदिन्यौ ॥
कुलकम् “अथेति । कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । स्वार्थे कन्, क्वुन् (उ० २.३२) वा । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते’ (इति मेदिनी) ॥”
कुलटा अटति । ‘अट गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कुलं जनपदे गेहे’ इति विश्वः । कुलस्य अटा । शकन्ध्वादिः (वा० ६.१.९४) । ‘कुलटा मनःशिलायां नेपाल्यामपि योषिति’ (इति मेदिनी) ॥
कुलत्थिका कुलत्थप्रतिकृतिः । ‘इवे-’ (५.३.९६) इति कन् । यद्वा कुले तिष्ठति । ‘सुपि (३.२.४) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । पृषोदरादिः (६.३.१०९) ॥
कुलपालिका कुलं पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् ५.३.७५) ॥
कुलम् सजेति । सजातीयैरेव जन्तुभिरुपलक्षितम् । कोलति । ‘कुल संस्थाने बन्धुषु च’ (भ्वा० प० से०) । ‘इगुपध (३.१.१३५) इति कः । ‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीबम्’ (इति मेदिनी) ॥
कुलम् कूयते । ‘कुङ् शब्दे’ (भ्वा० आ० से०) । बाहुलकाल्लक् । कोलति । ‘कुल संस्त्याने’ (वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति को वा । कुं भूमिं लाति । कः (३.२.३) वा । कौ लीयते । ‘लीड् श्लेषणे’ (दि० आ० अ०) । अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । ‘कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीबं कण्टकार्योषधौ कुली’ (इति मेदिनी) ॥
कुलश्रेष्ठी
- कुलश्रेष्ठत्वमस्यास्ति । इनिः (५.२.११५) ॥
कुलसम्भवः कुले सम्भवति । अच् (३.१.१३४) । कुले सम्भवोऽस्य वा । यद्वा सम्भवत्यस्मात् । ‘ॠदोरप्’ (३.३.५७) । कुलस्य सम्भवः ॥
कुलस्त्री कुलेति । कुलपालिका स्त्री । शाकपार्थिवादिः (वा० २.१.६०) ॥
कुलायः कुलेति । कुलं पक्षिसंतानोऽयतेऽत्र । ‘अय गतौ’ (भ्वा० अ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥ यद्वा कौ लायो गतिरस्मात् ॥—कुलान्ययन्ते निःसरन्त्यतः । ‘हलश्च’ (३.३.१२१) इति घञ्–इति मुकुटः । तन्न । ‘हलश्च’ (३.३.१२१) इत्यत्र ‘करणाधिकरणयोः’ (३.३.१३७) इत्यनुवृत्तेरपादानेऽप्राप्तेः । ‘कुलायस्तु पुमान्स्थानमात्रे स्यात् पक्षिवासके’ (इति मेदिनी) ॥
कुलालः
- कुं भूमिं लालयति । ‘लड विलासे’ (भ्वा० प० से०) । अण् (३.२.१) । डलयोरैक्यम् । कुलमालाति वा । कः (वा० ३.२.५) । कुलमलति वा । अण् (३.२.१) । कुलमालुनाति वा । डः (वा० ३.२.१०१) । ‘घूके कुलालः कुक्कुभे कुम्भकारेऽञ्जनान्तरे’ ॥
कुलाली कुलमलति । ‘अल भूषणादौ’ (भ्वा० प० से०) ।-‘कर्मण्यण्’ (३.२.१) । ङीप् (४.१.१५) । ‘चक्षुष्या कुम्भकारी च कुलाली च कुलत्थिका’ इति रत्नकोषः ॥
कुलिशः “‘कुलिर्हस्तो भुजादलः’ इति त्रिकाण्डशेषः । कुलिनः पर्वतान् श्यति वा । ‘शो तनूकरणे’ (दि० प० अ०) । ‘आतोऽनुपसर्गे-’(३.२.३) इति कः । कुत्सितमीषद्वा लिशति । ‘लिश अल्पीभावे’ (तु० प० से०) ‘इगुपध-’ (३.१.१३५) इति कः । कुलिशो न स्त्रियां प्रोक्तो दम्भोलौ, ना झषान्तरे ।।”
कुली कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । गौरादि (४.१.४१) । णिजन्तेन विगृह्य ‘कः’ - इत्यभिधानं मुकुटस्य चिन्त्यम् । णिजन्तस्येगुपधत्वाभावात् अनुपयोगाच्च ॥
कुलीनः कुलस्यापत्यम् । कुलात्खः (४.१.१३९) । ‘अपूर्वपदादन्यतरस्यां यड्ढकञौ’ (४.१.१४०) । ‘कौलेयकः सारमेये कुलीने’ (इति मेदिनी) । ‘कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीसूर्यामिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्’ (इति मेदिनी) ॥
कुलीरः स्यादिति । कुलति । ‘कुल संस्त्याने (भ्वा० प० से०) । गम्भीरादयश्च’ इतीरन् । कौ लीयते । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । बाहुलकाद् रक् । यद्वा कुलमस्यास्ति । अत इनिः’ (५.२.११५) । तमीरयति । ‘कर्मण्यण्’ (३.२.१) जनकभक्षकत्वात् । लयनम्-लीः । सम्पदादिः (वा० ३.३.१०८) । कुत्सिता लीः । तां राति वा ॥
कुल्माषम् कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । क्विप् (३.२.१७८) कुल् अर्धस्विन्नो माषोऽस्मिन् । कुल् बन्धुर्माषोऽस्य वा । ‘कूल्माषं स्यात्तु काञ्जिके । कुल्माषोऽर्धस्विन्नधान्ये यवके चणकेऽपि च’ इति हेमचन्द्रः ॥
कुल्मासः कुलं मस्यति । ‘मसी परिणामे’ (दि० प० से०) । ‘कर्मण्यण् (३.२.१) । पृषोदरादिः (६.३.१०९) । दन्त्यान्तः इति मुकुटः । कुत्सितो माषः । ‘कुल्माषो यावकः पुंसि’ इति मूर्धन्यान्तेषु रभसः ॥ कुल्माषोऽर्धस्विन्नो यवादिः - इति स्वामी ।-शूकशून्यो यवादिः-इति रक्षितादयः ।
कुल्यम् “‘सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्’ इति विश्वः । कुले भवम् । साधु वा । दिगादित्वात् (४.३.५४) यत् । ‘तत्र साधुः’ (४.४.९८) इति वा । कोलति, कुल्यते वा ‘कुल संस्त्याने’ (भ्वा० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘कुल्यः कुलोद्भवे मान्ये कुलस्यातिहितेऽपि च । कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । पयःप्रणालीसरितोः कुल्या जीवन्तिकौषधौ’ इति विश्वः ॥”
कुल्या “कुल्येति । कुले प्राणिगणे कुटुम्बे दाम्पत्ये वा साधुः । ““तत्र साधुः (४.४.९८) इति यत् । ‘कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणलिका’ इति धरणेर्नदीमात्रेऽपि । (‘कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्’) (१) एकम् कृत्रिमस्वल्पनद्याः ।”
कुवलम् कौ वलति । ‘वलँ संवरणे सञ्चरणे च’ (भ्वा० प० से०) । अच् (३.१.१३४) । कुवलीशब्दोऽप्यत्र ॥
कुवलयम् कोर्वलयमिव । शोभाकरत्वात् । ‘कुवलं तूत्पलं कुवम्’ इति त्रिकाण्डशेषः । तत्र कौ वलते । ‘वल संवरणे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३) । (‘कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले) । ‘अन्येभ्योऽपि (वा० ३.२१०१) इति डे कुवम् । यद्वा कुवते । ‘कूङ् शब्दे’ (तु० अ० से०) कुटादिः । पचाद्यच् (३.१.१३४) । उवङ् (६.४.७७) ॥ द्वे कमलकुमुदादीनां सामान्येन । अत एव ‘इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे’ इति रभसः । ‘श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम् इति नाममाला च ।
कुविन्दः “- कुं भुवम्, कुत्सितं वा विन्दति । ‘विद्लृ लाभे’ (तु० उ० अ०) । ‘गवादिषु विन्देः संज्ञायाम्’ (वा० ३.१.१३८) इति शः । कुप्यति । ‘कुप क्रोधे’ (दि० प० से०) । ‘कुपेर्वा वश्च’ (उ० ४.८६) इति किन्दच् ॥”
कुवेणी कुत्सितं वेणन्तेऽयां मत्स्याः । ’वेणृ गतौ’ (भ्वा० उ० से०) । हलश्च’ (३.३१२१) इति घञ् । गौरादिङीष् (४.१.४१) द्वे मत्स्यस्थापनपात्रस्य ।
कुशम् अस्त्रीति । कौ शेते । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा कुश्यति । ‘कुशिर श्लेषे’ । ‘इगुपध-’ (३.१.१३५) इति कः । ‘कुशो रामसुते द्वीपे पापिष्ठे योक्त्रमत्तयोः । कुशी फाले कुशो दर्भे कुशा वल्गा कुशं जले’ इति हैमः) ॥
कुशलम् कुत्सितं शलते संवृणोति । ‘शल चलने संवरणे च’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । ‘कुशलं क्षेमपुण्ययोः । पर्याप्तो कुशलोऽभिज्ञे’ ।
कुशी “वीति । कुं भूमिं श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘जानपद-’ (४.१.४२) इति ङीष् । ‘कुशी फालेऽपि वल्गायां (कुशा, पापिष्ठमत्तयोः । कुशो वाच्यवदाख्यातः)’ इति विश्वः । ‘कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वल्या कुशं जले’ (इति हैमः) ॥”
कुशीलवाः
- कुत्सितं शीलमस्त्येषाम् । ‘कुगति-’ (२.२.१८) इति समासः । ‘अन्यत्रापि दृश्यते’ (वा० ५.२.१०९) इति वः । कुशीलं वान्ति वा । ‘वा गत्यादौ’ (अ० प० अ०) । कः (३.२.३) ॥
कुशेशयम् कुशे जले शेते । अधिकरणे शेतेः (३.२.१५) इत्यच् । ‘शयवास-’ (६.३.१६) इत्यलुक् ॥
कुष्ठम् कुष्णाति रोगम् । ‘कुष निष्कर्षे (क्र्या० प० से०) । ‘हनिकुषि-’ (उ० २.२) इति क्थन् । ‘कुष्ठं रोगे पुष्करेऽस्त्री’ (इति मेदिनी) ॥
कुष्ठम् क्विति । कुष्णात्यङ्गम् । ‘कुष निष्कर्षे’ (क्र्या० प० से०) । ‘हनिकुषि-’ (उ० २.२) इति क्थन् । कुत्सितं तिष्ठति वा । ‘सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षः । ‘कुष्ठं भेषजरोगयोः इति हैमः ॥
कुसीदकः क्विति । कुसीदार्थं प्रयच्छति । ‘कुसीददशैक-’ (४.४.३१) इति ष्ठन् ॥
कुसीदम् कुस्यते । ‘कुस संश्लेषणे’ (दि० प० से०) । ‘कुसेरुम्भो भेदेताः’ (उ० ४.१०६) इतीदः । ‘कुसीदं वृद्धिजीवने । वृद्ध्याजीवे’ इति हैमः ॥
कुसुमम् कुस्यति । ‘कुस संश्लेषणे (दि० प० से०) । ‘कुसेरुम्भोमेदेताः’ (उ० ४.१०६) इत्युमः । संज्ञापूर्वकत्वान्न गुणः । ‘कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः’ ॥
कुसुमाञ्जनम् “कुसुममिव, कुसुमनाशकं वा अञ्जनम् ॥”
कुसुमेषुः कुसुमानीषवो यस्या ।
कुसुम्भम् कुस्यति । ‘कुस संश्लेषणे’ (दि० प० से०) । ‘कुसेरुम्भोमेदेताः’ (उ० ४.१०६) इत्युम्भः । बाहुलकान्न गुणः । ‘कुसुम्भं हेमनि महाराजने ना कमण्डलौ’ (इति मेदिनी) ॥
कुसृतिः कुत्सिता सृतिः । ‘सृ गतौ (भ्वा० प० से०) । क्तिच् (३.३१७४) । ‘कुगति (२.२.१८) इति समासः ।
कुस्तुम्बरुः कुत्सितं तुम्बति । ‘तुबि अर्दने’ (भ्वा० प० से०) । बाहुलकात् ‘कुस्तुम्बरूणि जातिः’ (६.१.१४३) इति साधु । स्वामी तु धान्यमकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । अण् (३.२.१) (इत्याह) । ह्रस्वादिः इति मुकुटः । ‘धान्यकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम्’ इति रभसः ॥
कुहना क्विति । कुहनम् । ‘कुह विस्मापने’ चुराद्यदन्तः । ‘ण्यासश्रन्थो युच्’ (३.३.१०७) । ‘कुहना ग्रामजालं स्यात्’ इति रत्नकोषः । ‘कुहना दम्भचर्यायामीर्ष्यालौ कुहनस्त्रिषु’ (इति मेदिनी) ॥मिथ्यातत्त्वे ईर्यापथस्याचारभेदस्य कल्पना सम्पादना ॥
कुहरम् कुं हरति। ‘हरतेरनुद्यमनेऽच्’ (३.२.९) । यद्वा कुह विस्मापने’ (चु० अ० से०) । इगुपधत्वात् (३.१.१३५) कः। कुहं रात्रि । ‘रा दाने’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३ ) इति कः । ‘कुहरं गह्वरे च्छिद्रे क्लीबं नागान्तरे पुमान् ।
कुहूः कुहूः । कुहयति । ‘कुह विस्मापने (चु० उ० से०) चुरादिः । नृतिशृध्योः कूः’ (उ० १.९१) इति कूप्रत्ययो बाहुलकादिहापि । मृगय्वादित्वाद्ध्रस्वोऽपीत्यन्ये । धेनूरुरज्जुकुहुसरयुतनुकरेणवः स्त्रियाम्’ इति विन्ध्यवासी । ‘कुहूः स्त्री कोकिलाला-पनष्टेन्दुकलदर्शयोः ॥
कूटः कूट इति । कूटयति । ‘कूट दाहे’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । यत्तु-इगुपध-’ (३.१.१३५) इति कः इति मुकुटः । तन्न । कूटेश्चुरादित्वेन णिजन्तत्वादिगुपधत्वासम्भवात् । णिजभावे वा । कूट्यते वा घञ् (३.३.१४) । कूटं पूर्द्वारयन्त्रयोः । मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ’ इति हैमः ॥
कूटयन्त्रम्
- कूटस्वरूपं यन्त्रम् ॥
कूपः “कौति । ‘कु शब्दे’ (अ० प० से०) । ‘कुयुभ्यां च’ (उ० ३.२७) इति पो दीर्घश्च । कुत्सिता ईषद्वा आपोऽत्र । ‘ऋक्पूर्-’ (५.४.७४) इत्यः । ‘ऊदनोः-’ (६.३.९८) इत्यत्र दीर्घनिर्देशान्यत्राप्यूत्, इति वा । ‘कूपः कूपकमृन्माने गर्तान्धुगुणवृक्षके’”
कूपकः कूपका इति । कुत्सिताः कूपाः । ‘कुत्सिते’ (५.३.७४) इति कः । कूपस्य प्रतिकृतिः इति वा । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । ‘कूपको गुणवृक्षे स्यातैलपात्रे कुकुन्दरे । उदपाने चितायां च (कूपिकाम्भोगतोपले)’ ॥
कूपकः कूपेति । कूपे कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । सुपि’ (३.२.४) इति कः ॥
कूबरः क्विति । कूवते । ‘कूङ् शब्दे’ (तु० अ० से०) । बाहुलकाद्वरच् । कुटादिः । ‘कूवरस्त्रिषु चारौ ना कुब्जकेऽस्त्री युगंधरे । (इति मेदिनी)—कूयते-इति स्वामी ॥
कूर्चः “क्विति । कुरति । कूर्यते, वा । बाहुलकाच्चट् । ‘कूर्चमस्त्री भ्रुवोर्मध्ये कत्थनश्मश्रुकैतवे’ (इति मेदिनी) ॥”
कूर्चशीर्षः कूर्चेति । कूर्चं श्मश्रु । तद्वच्छीर्षमस्य ॥
कूर्चिका क्विति । कूर्चति । ‘कूर्च विकारे’ (भ्वादेराकृतिगणत्वाद्वोध्यः । संज्ञायां ण्वुल् (३.३.१०९) । कूच मस्त्वादिरस्त्यस्या वा । ‘अतः-’ (५.२.११५) इति ठन् । ‘दना सह पयः पक्वं यत्तत्स्याद्दधिकूर्चिका । तक्रेण पक्वं यत् क्षीरं सा भवेत्त क्रकूर्चिका’ । ‘कुर्चिका सूचिकायां च तूलिकायां च कुड्मले । कपाटाकुटिले (टोद्भेदने) क्षीरविकृतावपि योषिति’ (इति मेदिनी) ॥
कूर्दनम् “‘कुर्द क्रीडायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । ‘र्वोरुपधायाः-’ (८.२.७६) इति दीर्घः । यत्तु–‘स्फुर्ज’ इति लिङ्गात् कुर्दादीनां न दीर्घः (इति धर्मदासः) । ‘र्वोः’ इति विधेरनित्यत्वम् इति कश्चित् (पूर्णचन्द्रः) आह । तन्न । स्फुर्ज’ इति स्वरूपनिर्देशार्थं दीर्घानुच्चारणात् । दीर्घविधेः सत्वाच्च । यदि ‘विधिप्राप्तं कृत्वैव निर्देष्टव्यम्’ इति नियमः स्वीक्रियते तदा एशिरेचोरेत्वाभावस्याज्ञापकत्वं स्यात्, एत्वस्य लक्षणप्राप्तत्वात् । अत एव ‘दीर्घाभावस्तु चिन्त्यः’ इति स्वामिग्रन्थोऽपि संगच्छते ।”
कूर्परः कुरति । ‘कुर शब्दे’ (तु० प० से०) । क्विप् (३.२.१७८) । कोरणम् । सम्पदादिः (वा० ३.३.१०८) वा पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । अच् (३.१.१३४) । कूर् चासौ परश्च । यद्वा कुरा शब्देन परः यद्वा कुप्यत्यनेन वा । ‘कुप क्रोधे’ (दि० प० से०) । बाहुलकादरन् दीर्घश्च ॥ ‘कफोणिः कूर्परोऽरत्नेः पृष्ठम्’ इति नाममाला ।
कूर्पासकः “‘कूर्परः स्यात्कफोणौ च जानुन्यपि च पुंस्ययम्’ (इति मेदिनी) । कूर्परेऽस्यते कृपरोऽस्यतेऽत्र वा । ‘असु क्षेपणे’ (दि० प० से०) । कूर्परे आस्ते वा । ‘आस उपवेशने’ (अ० आ० से०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा । पृषोदरादिः (६.३.१०९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘कूर्पासस्त्वर्धचोलकः’ इति हारावली ॥ आप्रपदीनकञ्चुकस्य, ‘स्त्रीणां कञ्चुलिशाख्यस्य’ द्वे-इति स्वामी ॥”
कूर्मः कूर्म इति । कुत्सितः कौ वा ऊर्मिर्वेगोऽस्य । अच् प्रत्यन्वव -’(५.४.७५) इत्यत्र ‘अच्’ इति योगविभागादच् समासान्तः । ‘ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः इति रभसः ।
कूलम् कूलमिति । कूलयति । ‘कूल आवरणे’ (भ्वा० प० से०) । पचाद्यच् (३.३.१३४) । ‘कूलं तटे सैन्यपृष्ठे तडागस्तूभयोरपि’ इति हैमः ॥
कूष्माण्डकः “क्विति । कु ईषद् उष्मा अण्डेषु बीजेषु यस्य । पित्तलत्वात् । कूष्माण्ड्युमायां स्त्री, पुंसि कर्कारौ च गणान्तरे । भ्रूणान्तरे (इति मेदिनी) ॥”
कृकणः कृकेति । ‘कृ’ इति कणति । ‘कण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । कृकेण कण्ठेन अणति वा । ‘अण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । शकन्ध्वादिः (वा० ६.१.९४) ॥
कृकलासः कृकं शिरो ग्रीवां कण्ठं च लासयति चालयति । ‘लस शिल्पयोगे’ चुरादिः । ‘कर्मण्यण्’ (३.२.१) ॥
कृकवाकुः कृकेति । कृकेन गलेन वक्ति । ‘वच परिभाषणे’ (अ० प० अ०) । ‘कृके वचः कुश्च’ (उ० १.६) इत्युण् । ‘कृक वाकुर्मयूरेऽपि सरटे चरणायुधे’ इति विश्वः ॥
कृकाटिका कृकं कण्ठमटति । ‘अट गतौ’ (भ्वा० प० से०) । इन् (उ० ४.११८) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ण्वुल् तु परत्वादणाबाधान्न प्राप्नोति ॥
कृच्छ्रम् कृन्तति । ‘कृती छेदने (तु० प० से०) । ‘कृतेश्छः क्रू च’ (उ० २.२१) इति रक् छश्च । ‘कृच्छ्रमंहसि । कष्टे सान्तपने’ इति हैमः ।
कृच्छ्रम् क्रिति । कृन्तति । अनेन वा । ‘कृती छेदने’ (तु० प० से०) ‘कृतेश्छःक्रू च’ (उ० २.२१) इति रक् छोऽन्तादेशश्च । ‘कृच्छ्रामाख्यातमाभीले पापसांतपनादिनोः’ (इति मेदिनी) ॥सम्यक्तपनमत्र । प्रज्ञाद्यण् (५.४.३८) । यद्वा संतपति । ल्युट् (३.३.११३) तस्येदं कर्म । अण् (४.३.१२०) । ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्’ (मनुः ११.२१२) आदिना चान्द्रायणप्राजापत्यपराकादिग्रहः ।
कृतपुङ्खः कृतोऽभ्यस्तः पुङ्खः पुङ्खयुक्तः शरो येन ॥
कृतमालः कृता मालास्य पुष्पैः ।
कृतसापत्निकः कृतेति । सपत्न्येव । स्वार्थे कन् (५.३.७५) । कृतासपत्निका यस्याः । ‘कृतसापत्निका’ इति क्वचित् पाठः । सपत्न्या भावः । ष्यञ् (५.१.१२४) । ङीष् (४.१.४१) । यलोपः (६.४.१५०) । स्वार्थे कन् (५.३.७५) । ह्रस्वत्वम् (७.४.१३) च । कृता सापत्निका यस्याः । क्वचित् ‘कृतं- सापत्नका’ इति पाठः । सपत्न्या आगतम् । ‘तत आगतः’ (४.३.७४) इत्यण् । स्वार्थे कन् (५.३.७५) । कृतं सपत्नकमस्याः । ‘-असुपः’ (७.३.४४) इति पर्युदासान्नेत्वम् ॥
कृतहस्तः क्रिति । कृतोऽभ्यस्तो हस्तो यस्य ॥
कृतान्तः कृतोऽन्तो विनाशो येन । (‘कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु’) ।।
कृती प्रशस्तं कृतं कर्मास्य । इनिः (५.२.११५) । कृतमनेन । ‘इष्टादिभ्यश्च ’ (५.२.८८) इतीनिर्वा । ‘कृती स्यात्पण्डिते योग्ये’ इति हैमः ॥
कृत्तिः कृत्यते । ‘कृती छेदने’ (तु० प० से०) । क्तिन् (३.३.९४) । ‘कृत्तिश्चर्मत्वचोर्भूर्जे कृत्तिकायां द्वयं स्त्रियाम्’ (इति मेदिनी) ॥
कृत्तिवासाः कृत्तिश्चर्म वासोऽस्य ।।
कृत्रिमधूपकः कृत्रिमश्चासौ धूपश्च । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
कृपा क्रपणम् । क्रप कृपायाम्’ (भ्वा० आ० से०) । ‘क्रपेः सम्प्रसारणं च (ग० ३.३.१०४) इति भिदादिपाठादङ् । ‘कृपो द्रोणश्यालके स्याद्द्रोणपत्न्यां कृपी स्मृता । कृपा दयायाम् ॥
कृपाणः कृपां नुदति । ‘नुद प्रेरणे’ (तु० उ० अ०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् ॥
कृपाणी
- क्रिति । कृपामणति । ‘अण शब्दे’ (भ्वा० प० से०) । अण् (३.२.१) । ङीप् (४.१.१५) ॥
कृपीटयोनिः कृपीटस्य जलस्य योनिः । ‘कृपीटमुदरे जले इति रत्नकोषात्’ अग्नेरापः इति श्रुतेः कृपीटं योनिरस्येति वा । ‘अद्भ्योऽग्निब्रह्मतः क्षत्रम्’ इति मनुः ।
कृमिघ्नः कृमीन् हन्ति । ‘अमनुष्यकर्तृके च (३.२.५३) इति टक् ॥
कृमिजम् कृमिभिर्जन्यते । ‘अन्येष्वपि’ (३.२.१०१) इति डः ॥
कृशानुः कृश तनूकरणे’ (दि० प० से०) । कृश्यति । ‘ऋतन्यञ्जि-’ (उ०४.२) इत्यानुक् ।।
कृशानुरेतः कृशानौ रेतो यस्य । कृशानुः सूतरूपो रेतोऽस्येति वा ।
कृशाश्विनः
- कृशाश्वेन प्रोक्तं नटसूत्रमधीयते । ‘कर्मन्दकृशाश्वादिनिः’ (४.४.१११) ॥
कृषकः कर्षति । ‘कृषेवृद्धिश्चोदीचाम्’ (उ० २.३८) इति क्वुन् । वृद्धिपक्षे ‘कार्षकः’ अपि ॥
कृषिः स्त्रीति । कर्षणम् । ‘कृष विलेखने’ (भ्वा० प० अ०) । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) ॥
कृषिकः कृषति । ‘कृष विलेखने’ (तु० उ० अ०) । ‘कृषिवृश्योः किकन्’ (उ० २.४०) । ‘कृषिकाकृषिकौ फालकृषकौ’ इति रुद्रात् स्त्रियामपि । क्वुनि (उ० २.३२) तु कृषकः । स्वामी तु–‘शिल्पिनि ष्वुन्’ (३.१.१४५)—इत्याह । तन्न । फलस्य शिल्पित्वाभावात् । परिगणनाच्च । ‘कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्’ इति विश्वः (मेदिनी) ॥
कृषीवलः कर्षणम् । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) । कृषिरस्यास्ति । ‘रजःकृषि-’ (५.२.११२) इति वलच् । ‘वले’ (६.३.११८) इति दीर्घः ॥
कृष्टम् कृष्यते स्म । क्तः (३.२.१०२) ॥
कृष्टिः कर्षति । ‘कृष विलेखने’ (भ्वा० प० अ०) । क्तिच् (३.३.१७४) । बाहुलकात्तिर्वा । संज्ञापूर्वकत्वान्न गुणः । ‘कृष्टिः स्यादाकर्षेस्त्री बुधे पुमान्’ (इति मेदिनी) । रन्तिदेवोऽपि-आकर्षणे स्त्रियां कृष्टिर्भवेन्ना तु विपश्चिति’ इति ॥
कृष्णः कृष्णो वर्णोऽस्यास्तीति । ‘कृषेर्वर्णे’ (उ० ३.४) इति नगन्तात् ‘गुणवचनेभ्यो मतुपो लुक्’ (वा० ५.२.९४) इति लुक् । कर्षत्यरीनिति वा बाहुलकाद्वर्णं विनापि कृषेः (‘कृष विलेखने) । (भ्वा० प० अ०) नक् । (‘कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्द्रौपदी नीली पिप्पलीद्राक्षयोरपि । मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलोहयोः’) ॥
कृष्णः कृष्णपक्षोऽपरसंज्ञः ।
कृष्णः कर्षति मनः । ‘कृषेर्वर्णे’ (उ० ३.४) इति नक् । ‘कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ । कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे’ इति हैमः ।
कृष्णपाकफलः कृष्णेति । कृष्णः पाकोऽस्य । कृष्णपाकं फलमस्य ॥
कृष्णभेदी कृष्णो वर्णेन भेदश्छेदोऽस्याः । कृष्णं मलं भिनत्ति वा । ‘कर्मण्यण्’ (३.२.१) । ङीष् (४.१.१५) । ‘कृष्णभेदा चण्डरुहा’ इति निघण्टुः ॥
कृष्णम् कर्षति । ‘कृष विलेखने’ (भ्वा० प० से०) ‘कृषेर्वर्णे (उ० ३.४) इति नक् । ‘कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः’ इति विश्वः (मेदिनी) ॥
कृष्णला कृष्णं वर्णं लाति ॥
कृष्णवर्त्मा कृष्णो धूमो वर्त्मास्य । नान्तः (‘कृष्णवर्मा विधुंतुदे । दुराचारे हुताशे च’) ।
कृष्णवृन्ता कृष्णं वृन्तमस्याः । कृष्णवृन्ता पाटलायां माषपर्ण्यां च योषिति’ ॥
कृष्णसारः कृष्णेति । कृष्णेन सारः शबलः । ‘तृतीया-’ (२.१.३०) इति समासः । ‘कृष्णसारः शिंशपायां मृगभेदे स्नुहीतरौ’ इति हैमः ॥ (‘कृष्णशारः’ इति) तालव्यपाठे कृष्णश्चासौ शारश्च । ‘वर्णो वर्णेन’ (२.१.७८) इति समासः । ‘शारः शबलवातयोः’ इति तालव्यादौ रभसः ॥
कृष्णा कृष्णेति । कृष्णो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५.२.२७) । कृष्णा स्याद्रौपदोनौलीकणाद्राक्षासु योषिति’ (इति मेदिनी ।
कृष्णिका कृष्णैव । ‘संज्ञायां कन्’ (५.३.७५) ॥
कृष्ण्फला कृष्णं फलमस्याः । अजादित्वात् (४.१.४) टाप् ॥
कृष्ण्लोहितः कृष्णमिश्रो लोहितः ।
केकरः के मूर्ध्नि कर्तुं शीलमस्य । ‘कृञो हेतु-’ (३.२.२०) इति टः । ‘हलदन्तात्’ (६.३.९) इत्यलुक् ॥ ‘टेरे वलिरकेकरौ’ इति रभसः ।
केका केकेति । के मूर्धनि कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘हलदन्तात् (६.१.९) इत्यलुक् ॥
केकी केकास्त्यस्य । व्रीह्यादित्वात् (५.२.११६) इनिः ॥
केतकी केतयति । कित निवासे (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ण्वुल् (३.१.१३४) । वा गौरादिः (४.१.४१) ॥
केतनम् केत्यते ज्ञायतेऽनेन । ‘कित संशयादौ’ (भ्वा० प० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘केतनं तु निमन्त्रणे । गृहे केतौ च कृत्ये च’ इति मेदिनी ॥
केदारः के जले शिरसि वा दारोऽस्य । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । केन जलेन दीर्यत इति वा । ‘दॄ विदारणे’ (क्र्या० प० से०) । कर्मणि घञ् (३.३.१९) । ‘केदाराद्यञ्च’ (४.२.४०) इति निर्देशादेत्वम् । ‘केदारो द्रौ शिवे क्षेत्रे भूमिभेदालवालयोः’ इति विश्वः (मेदिनी) ॥
केनिपातकः के जले निपातोऽस्य । हलदन्तात्-’ (६.३.९) इत्यलुक् । ‘शेषात् (५.४.१५४) इति कप् । संज्ञायां कन्’ (५.३.७५) वा ॥ (२) द्वे नौपृष्ठस्थचालनकाष्ठस्य ।
केयूरः कयिति । के बाहुशिरसि यौति । ‘यु मिश्रणे’ (अ० प० से०) । खर्जादित्वात् (४.९०) ऊरः । बाहुलकाट्टिलोपः । ‘हलदन्तात्’ (६.२.९) इति सप्तम्या अलुक् ॥
केलिः केलनम् । किल क्रीडायाम् (तु० प० से०) । ‘केलृ चलने’ (भ्वा० प० से०) वा । इन् (उ० ४.११८) (केली इति स्त्रियामपि । ‘केलीषु तद्वानगुणान्निपीय’ इति नैषधात् । इति मुकुटः)
केशः क्लिश्यते ‘क्लिश बन्धे’ । ‘क्लिश उपतापे’ (दि० आ० से०) वा । क्लिश्नाति । ‘क्लिशू विबाधायाम्’ (क्र्या० प० से०) ‘क्लिशेरन् लो लोपश्च’ (उ० ५.३३) । के शेते वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । कस्य शिरस ईशो वा । ‘केशः स्यात्पुंसि वरुणे ह्रीवेरे कुन्तलेऽपि च’ (इति मेदिनी) ॥
केशपाशी केशानां पाशः । अल्पः केशपाशो गौरादिः (४.१.४१) ॥
केशवः प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्तोऽस्य । ‘केशाद्वः (५.२.१०९) इति वः । केशौ वाति वा । ‘वा गतौ (अ० प० अ०) ‘आत-’(३.२.३) इति कः । ‘शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः’ इति पाद्मोक्तेः । (यत्तु) हन्त्यर्थाद्वधेः केशिनं हतवान् । अन्येभ्योऽपि दृश्यते (वा० ३.२.१०१) इति ङः । पृषोदरादित्वात् (६.३.१०९) केशिशब्दस्ये कारस्याकारे नलोपे च केशवः इति मुकुटः तन्न । वधधातोरभावात् । वध इत्यादौ वधादेशविधानात् । ’केशवोऽजे च पुंनागे पुंसि केशवति त्रिषु ॥
केशवः केशेति । प्रशस्ताः केशा यस्य । ‘केशाद्वोऽन्यतरस्याम्’ (५.२.१०९) ॥
केशवेशः केशानां वेशो मार्जनाबन्धविशेषः ॥
केशिकः केशेति । प्रशस्ताः केशा यस्य । ‘केशाद्वोऽन्यतरस्याम्’ (५.२.१०९) ॥
केशिनी केशाः सन्त्यस्याः । ‘अतः’ (५.२.११५) इतीनिः । ‘केशी केशवति त्रिषु । दैत्ये ना चोरपुष्प्यां स्त्री’ (इति मेदिनी) ॥
केशी केशेति । प्रशस्ताः केशा यस्य । ‘केशाद्वोऽन्यतरस्याम्’ (५.२.१०९) ॥ पक्षे इनिठनौ (५.२.११५) ॥
केषाम्बुनाम केशाम्बुनोर्नाम नाम यस्य ॥
केसरः “के जले सरति । ‘सृ गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘हलदन्तात्-’ (६.३.१) इत्यलुक् दन्त्यसः (‘सवितृकिसलयकसरसभाः’ इति सभेदात्) । के शीर्यते । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) तालव्यशः । ‘केसरं हिङ्गुनि क्लीबं, किंजल्के न स्त्रियां, पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे’ ॥ (२)द्वे पद्मकेसरस्य ।”
केसरः प्रशस्ताः केसरा अस्य । अर्शआद्यच् (५.२.१२७) । ‘केसरो नागकेसरे । तुरंगसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुंनागवृक्षे किंजल्के स्यात्केसरं तु हिङ्गुनि’ इति हैमः ॥
केसरः अथेति । केसराः सन्त्यस्य । अर्श आद्यच् (५.२.१२७) । के जले सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) वा । ‘केसरं हिङ्गुनि क्लीबं किञ्जल्के न स्त्रियां पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे’ इति मेदिनी ॥
केसरः केसराः सन्त्यस्य । अर्शआद्यच् (५.२.१२७) ॥
केसरी केसराः स्कन्धबालाः सन्त्यस्य । ‘अतः-’ (५.२.११५) इतीनिः । ‘केसरी तुरगे सिंहे पुंनागे नागकेसरे’ (इति मेदिनी) ॥ केचित् (केसरी) इति तालव्योष्ममध्यमाहुः । के वारि शिरसि वा शीर्यते । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । सोऽस्त्यस्य । इन् (५.२.११५) ॥
कैटभजित् कैटभमजैषीत् । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
कैटर्यः केटनम् । किट त्रासे’ (भ्वा० प० से०) । घञ् (३.३.१८) । केटं राति अतितिक्तत्वात् चतुर्वर्णादित्वात् (वा० ५.१.१२४) ष्यन् ॥
कैतवम् कितवस्य कर्म । युवादित्वात् (५.१.१३०) अण् । ‘कैतवं द्यूतदम्भयोः’ इति हैमः ।
कैतवम्
- कितवस्य कर्म । युवादित्वात् (५.१.१३०) अण् । ‘कैतवं तु छले द्यूते कैतवः कितवे रिपौ’ (इति मेदिनी) ॥
कैदारकम् अस्येति । केदाराणां समूहः । ‘केदाराद्यञ्च’ (४.२.४०) ॥ चात् (४.२.४०) वुञ् ॥
कैदारिकम् ‘ठञ् कवचिनश्च (४.२.४१) । चात् केदारादपि ॥
कैदार्यम् अस्येति । केदाराणां समूहः । ‘केदाराद्यञ्च’ (४.२.४०) ॥ चात् (४.२.४०) वुञ् ॥
कैरवः “के जले रौति । ‘रु शब्दे’ (अ० प० अ०) । पचाद्यच् (३.१.१३४) । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्यलुक् । केरवस्य हंसस्येदं प्रियम् । कैरवं चन्द्रकान्तं गर्दभं कुमुदं कुमुदे’ इति माधवः । (‘कैरवं कितवे रिपौ । नपुंसकं च कुमुदे, चन्द्रिकायां तु कैरवी’) ‘चन्द्रकान्तं तु कैरवे । चन्द्रकान्तो रत्नभेदे । (२) द्वे शुक्लोत्पलस्य ।”
कैलासः कैलास इति । के जले लासो लसनमस्य । केलासः स्फटिकः । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । तस्यायं कैलासः यद्वा केलीनां समूहः कैलम् । तस्य समूहः’ (४.२.३७) इत्यण् । तेन आस्यतेऽत्र । आस उपवेशने’ (अ० आ० से०) ‘हलश्च’ (३.३.१२१) इति घञ् ।।
कैवर्तः कैवर्त इति । के जले वर्तन्ते । ‘वृतु वर्तने’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । केवर्तानां मत्स्यानामयं घातकः । तस्येदम्’ (४.३.१२०) इत्यण् ॥
कैवर्तीमुस्तकम् कैवर्तानां जातिः कैवर्ती । कैवर्ती मुस्तकम् ॥
कैवल्यम् बन्धविरहात्केवलस्य भावः । ‘गुणवचन-’ (५.१.१२४) इति ष्यञ् ।
कैशिकम् तदिति । केशानां समूहः । ‘अचित्तहस्ति-’ (४.२.४७) इति ठक् ॥
कैश्यम् ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम्’ (४.२.४८) ॥
कोकः कोकेति । कोकते । ‘कुक आदाने’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘कोकश्चक्रे वृके ज्येष्ठ्यां खर्जूरीद्रुमभेकयोः’ (इति विश्वः) ॥
कोकः कोक इति । कोकते । ‘कुक आदाने’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
कोकनदच्छविः कोकनदं रक्तोत्पलमिव छविर्यस्य ।
कोकनदम् कोकांश्चकवाकान् नदति । ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । मूलविभुजादिः (वा० ३.२.५) । अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे’ इति मेदिनी । त्रीणि रक्तकमलस्य ।
कोकिलः कोकते । ‘कुक आदाने’ (भ्वा० आ० से०) । ‘सलि कल्यनि-’ (उ० १.५४) इतीलच् । –‘अजि रादयश्च’ इति किरः - इति मुकुटः । तन्न । किरचि गुणाभावप्रसङ्गात् । कोकतेरजिराद्यनन्तर्भावात् उज्ज्वलदत्तादिष्वस्य सूत्रस्यादर्शनाच्च ॥
कोकिलाक्षः कोकिलोऽक्षि यस्य । कोकिलशब्दः कोकिलाक्षिसदृशे लाक्षणिकः । ‘अक्ष्णोऽदर्शनात्’ (५.४.७६) इत्यच् ॥
कोटरम् कुटनं कोटः । ‘कुट कौटिल्ये’ (तु० प० से०) । भावे घञ् (३.३.१८) । कोटं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
कोटवी कोटनम् । ‘कुट कौटिल्ये’ (तु० प० से०) । घञ् (३.३.१८) । कोटं वाति । ‘आतोऽनुप–’ (३.२.३) इति कः । गौरादिः (४.१.४१) । ‘कोट्टवी’ इति पाठे ‘कुट्ट छेदने’ (चु० प० से०) । बाहुलकाद्गुणः ॥
कोटिः कविति । कोटयते । अनया वा । ‘कुट प्रतापने’ चुरादिः । ‘अच इः’ (उ० ४.१३९) । ‘कोटिः स्त्रीधनुषोऽग्रेऽश्रौ संख्याभेदप्रकर्षयोः’ (इति मेदिनी) ॥
कोटिः “कोटयति, कोट्यते, वा । ‘कुट कौटिल्ये’ (तु० प० से०) । ‘अच इः’ (उ० ४.१३९) । कुट्यते वा । ‘इञ्(ण)जादिभ्यः’ (वा० ३.३.१०८) इतीञ्(ण) ‘कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेदप्र- कर्षयोः’ (इति मेदिनी) ॥”
कोटिवर्षा कोटिभिरग्रैर्वर्षति मधु । ‘वृषु सेचने (भ्वा० प० से०) । अच् (३.१.१३४) ॥
कोटिशः कविति । कोटिना अग्रेण श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । ‘सुपि’ (३.२.४) इति कः । कोटिरस्यास्तीति वा । लोमादित्वात् (५.२.१००) शः ॥
कोठः कविति । कुण्ठति । ‘कुठि प्रतिघाते’ (भ्वा० प० से०) । अच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥
कोणः कोण इति । वीणादि वाद्यते येन धनुराद्याकृतिना स कोणः । कुण्यते । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) हलश्च (३.३.१२१) इति घञ् । ‘द्वयोस्तु‘ कोणो वीणादेर्वादनं सारिका च सा’ इति शब्दार्णवः । ‘कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामस्रौ च लगुडेऽपि च’ इति मेदिनी । कोणो वीणादिवादने । लगुडेऽस्रौ लोहिताङ्गे’ इति हैमः
कोणः कविति । कुणत्यनेन । ‘कुण शब्दे’ (तु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । कर्तर्यच् (३.१.१३४) वा । ‘कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहादीनामश्रौ च लगुडेऽपि च’ (इति मेदिनी) ॥
कोदण्डम् कोटति । ‘कुट अनृतभाषणे’ । बाहुलकादण्डन् । पृषोदरादिः (६.३.१०९) । कौति । विच् (३.२.७५) कौर्दण्डो वंशोऽस्य वा । ‘कोदण्डं कार्मुके देशभेदभूतलयोरपि’ इति हेमचन्द्रः ॥
कोद्रवः कौति । ‘कु शब्दे’ (अ० प० अ०) । कवते । ‘कुङ् शब्दे (भ्वा० आ० अ०) । विच् (३.२.७२) । द्रवति । ‘द्रु गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । कौश्चासौ द्रवश्च । केन वायुना द्रवति वा । पृषोदरादिः (६.३.१०९) ॥
कोपः कोपेति । ‘कुप क्रोधे’ (दि० प० से०) ‘क्रुध कोपे’ (दि० प० अ०) । घञ् (३.३.१८) भावे । १ ॥
कोपना कोपेति । कुप्यति तच्छीला । ‘कुप क्रोधे’ (दि० प० से०) । ‘क्रुधमण्डार्थेभ्यश्च’ (३.२.१५१) इति युच् ॥
कोयष्टिकः कं जलं यष्टिरिवास्य । पृषोदरादिः (६.३.१०९) ॥
कोरकः कुर्यते । ‘कुर शब्दे’ (तु० प० से०) । ‘कृञादिभ्यः संज्ञायाम्’ (उ० ५.३५) इति वुन् । ‘कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृणालयोः’ ॥
कोरङ्गी कुरति । ‘कुर शब्दे’ (तु० प० से०) । बाहुलकादङ्गच् । गौरादिः (४.१.४१) ॥
कोरदूषः कोरेति । कोरं रुधिरं दूषयति । ‘दुष वैकृत्ये’ (दि० प० अ०) । ण्यन्तः । ‘कर्मण्यम्’ (३.२.१) ॥
कोलः कोलति । ‘कुल संस्त्याने (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘पोतृप्लवकयोः कोलः कोलं तु बदरीफलम्’ इति शाश्वतः । ‘कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं तु बदरे कोला पिप्पल्यां चव्यभेषजे’ इति हैमः । त्रीणि तृणादिनिर्मिततरणसाधनस्य ।
कोलः कोलति पीनत्वात् । ‘कुल संस्त्याने’ (भ्वा० प० से०) । अच् (३.१.१३४) । यद्वा कोलन्त्यङ्गान्यत्र । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं च बदरे कोला पिप्पल्यां चव्यभेषजे’ इति हैमः ॥
कोलकम् अथेति । कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । रलयोरेकत्वात् ‘कोरकम्’ अपि । ‘कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृणालयोः’ (इति मेदिनी) ॥
कोलकम् कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ण्वुल् (३.१.१३३ वा०) ॥
कोलदलम् कोलस्य वदर्या इव दलम् ॥
कोलम् कोल्याः फले अण् (४.३.१३४) लुकोः (४.३.१६४) ङीषो लुकि (१.२.४९) च ‘कोलि’ इति रूपापत्तेः । (‘कोलम्’ इति रूपानुपपत्तेः) ॥
कोलम्बकः कोलम्बक इति । अस्या वीणायाः कायः अलाबुदण्डककुभसमुदायस्तन्त्रीरहितः । ‘कुल संस्त्याने’ (भ्वा० प० से०) । बाहुलकादम्बच् । ततः कन् (५.३.९७) । यद्वा कुलेर्विच् (३.२.७५) । अम्बते । अम्ब्यते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । ण्वुल् (३.२.१३३) । क्वुन् (उ० ३.३२) वा । कोल् चासावम्बवश्च ॥
कोलवल्ली कपिरिव वल्ली ॥ कोल इव वल्ली । तयोस्तुल्यरोमत्वात् ॥
कोला कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । कोलं कोलफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम्’ (इति मेदिनी) ॥
कोलाहलः कोलाहल इति । ‘कुल संस्त्याने’ । (भ्वा० प० से०) । कोलनम् । कोल एकीभावः । तमाहलति । ‘हल विलेखने’ (भ्वा० प० से०) । अच् (३.३.१३४) । कः (३.२.३) वा ॥
कोली कोलति घनीभवति । कुल संस्त्याने’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिङीष् (४.१.४१) । मुकुटस्तु – इन् (उ० ४.११८) प्रत्यये वा ङीष् (ग० ४.१.४५) – इत्याह । तन्न । कोल्याः फले अण् (४.३.१३४) लुकोः (४.३.१६४) ङीषो लुकि (१.२.४९) च ‘कोलि’ इति रूपापत्तेः । (‘कोलम्’ इति रूपानुपपत्तेः) ॥ इनि (उ० ४.११८) (कोलिः) ह्रस्वान्तोऽपि ॥ कौ वलति । ‘वल प्राणने’ (भ्वा० प० से०) । अच् (३.१.१३४) । कुवलीशब्दोऽप्यत्र ॥
कोविदः कौति धर्मादि । ‘कु शब्दे ’ (अ० प० से०) । कवते वा । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । विच् (३.२.७५) । गुणः (७.३.८४) । कोर्वेदस्य विदः । वेत्ति । ‘इगुपध-’(३.१.१३५) इति कः । यद्वा कवि वेदे विदा यस्य । विदा ज्ञाने च निर्दिष्ट मनीषायां च योषिति’ (इति मेदिनी) ॥
कोविदारः कोवीति । कुं भूमिं विदृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘कर्मण्यम्’ (३.२.१) । पृषोदरादिः (६.३.१०९) ।
कोशफलम् कोशे फलमस्य ॥
कोषः कुष्यति निष्क्रामत्यस्मात्स्वयमेव । ‘अकर्तरि च’ (३.३.१९) इति घञ् । ‘कोषोऽस्त्री कुड्मले पात्रे पेश्यां शब्दादिसंग्रहे । जातिकोशेऽर्थसंघाते दिव्ये खड्गपिधानके’ (इति मूर्धन्यान्ते मेदिनी) । तालव्यान्तोऽप्ययम् । ‘कोशोऽस्त्री-’ (इति तालव्यान्तेषु मेदिनी) यथा पठितम् ॥
कोषः कोषः ।
कोष्णम् कोष्णामिति । ईषदुष्णं कोष्णम् । ईषदर्थे च’ (६.३.१०५) इति कादेशः ।
कौक्षेयकः कुक्षौ भवः ‘कलकुक्षिग्रीवाभ्यः-’ (४.२.९६) इति ढकञ् ॥
कौटतक्षः
- कौटेति । कुट्यां भवः । तत्र भवः’ (४.३.५३) इत्यण् । कौटश्चासौ तक्षा च । टच् (५.४.९५) ॥
कौटिकः
- कूटेन मृगादिबन्धनयन्त्रेण चरति ॥
कौणपः कुणपं शवं भक्षयितुं शीलमस्य । ‘शीलम्’ (४.४.६१) इत्यण् । कोणं पाति । ‘आतः (३.२.३) इति कः । कोणपस्य निर्ऋतेरयम् - कौणपः ‘तस्येदम्’ (४.३.१२०) इत्यण् ।
कौतुकम् कौतूहलमिति । कुतूं चर्मनिर्मितस्नेहपात्रं हलति । हल विलेखने’ (भ्वा० प० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । यद्वा हलति । पचाद्यच् (३.३.१३४) । कृत्वा हलम् । प्रज्ञाद्यणि (५.४.३८) कौतूहलम् ॥
कौतूहलम् कौतूहलमिति । कुतूं चर्मनिर्मितस्नेहपात्रं हलति । हल विलेखने’ (भ्वा० प० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । यद्वा हलति । पचाद्यच् (३.३.१३४) । कृत्वा हलम् । प्रज्ञाद्यणि (५.४.३८) कौतूहलम् ॥
कौद्रवीणम् सुधाव्याख्या – कोद्रवाणाम् च भवनं क्षेत्रम् । ‘धान्यानां भवने’ (५.२.१) इति खञ् ।
कौन्तिकः सेति । प्रासः कुन्तश्च प्रहरणमस्य । प्राग्वत् (४.४.५७) ॥
कौन्ती कुन्तिषु देशेषु भवा । ‘तत्र भवः’ (४.३.५३) । इत्यण् ॥
कौमुदी कुमुदानामियम् । तस्येदम् (४.३.१२०) इत्यण् । (‘कौमुदः स्यात्कार्तिकके चन्द्रिकायां तु कौमुदी’)
कौमोदकी पालकत्वात् कोः पृथिव्या मोदकः कुमोदको विष्णुः । ‘विष्णुः कुमोदकः शौरिः’ इति दुर्गः । तस्येयम् । कूपोदकाज्जातत्वात् कौपोदकी इति तु स्वामी ।
कौलटिनेयः भीति । कुलटाया अपत्यम् । ‘कुलटाया वा’ (४.१.१२७) इतीनङ् वा । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) । क्षुद्रात्वाभावान्न द्रक् । अङ्गहीना शीलहीना हि क्षुद्रा ॥
कौलटेयः कुलटाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
कौलटेयः भीति । कुलटाया अपत्यम् । ‘कुलटाया वा’ (४.१.१२७) इतीनङ् वा । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) । क्षुद्रात्वाभावान्न द्रक् । अङ्गहीना शीलहीना हि क्षुद्रा ॥
कौलटेरः ‘क्षुद्राभ्यो वा’ (४.१.१३१) इति ढ्रक् ॥ यत्तु-‘कुलटाया वा’ (४.१.१२७) इति ढक्-इति मुकुटः । तन्न । अनेनेनङो विकल्पनात् | |
कौशिकः कुम्भोलूखलकाकाराद् वृक्षकोशान्निर्यातम् ॥ कोशे भवः । अध्यात्मादिठञ् (वा० ४.३.६०) । ‘कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः । कोशजोलूकयोश्च स्याद्विश्वामित्रमुनावपि । कौशिकी चण्डिकायां च नदीभेदे च योषिति’ ॥
कौशेयः काविति । कोशे सम्भूतः । ‘कोशाड्ढञ्’ (४.३.४२) ॥
कौस्तुभः कौस्तुभ इति । कुं भुवं स्तुभ्नाति व्याप्नोति । कुस्तुभोऽब्धिः । तत्र भवः । कुं स्तोभते कुस्तुभो विष्णुः । ‘ष्टुभ स्तम्भे’ (भ्वा० आ० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । तस्यायमिति वा ।।
क्रकचः
- क्रेति । ‘क्र’ इति कचति । ‘कच शब्दे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘(क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान्’ इति मेदिनी) ॥
क्रकरः ‘क्र’ इति करोति । अच् (३.१.१३४) । टः (३.२.२०) वा । ‘क्रकरः करीरवृक्षे दीने क्रकचे च पक्षिभेदे च (इति मेदिनी) ॥
क्रकरः ‘क्र’ इति शब्दकरणशीलः । ‘कृञो हेतुताच्छील्या-’ (३.२.२०) इति टः ॥
क्रतुः करोति । क्रियते वा । ‘कृञः कर्तुः’ (उ० १.१०) । क्रतुर्यज्ञे मुनौ पुंसि’ (इति मेदिनी) ॥
क्रतुध्वंसी क्रतुं ध्वंसयति । सुपि-’(३.२.७८) इति णिनिः ।
क्रतुभुजः क्रतून् क्रतुषु वा भुञ्जते । ‘भुज पालनाभ्यवहारयोः’ (रु० आ० अ०) । क्विप् (३.२.७६) ॥
क्रथनम् ‘क्रथ हिंसायाम्’ (भ्वा० प० से०) ॥
क्रन्दनम् क्रेति । ‘क्रदि आह्वाने’ (भ्वा० प० से०) । भावे ल्युट् (३.३.११५) । ‘क्रन्दनं रोदनेऽपि स्यादाह्वानेऽपि’ इति मेदिनी ॥
क्रन्दितम् पुलक-कण्टक-रोम-विक्रिया-रोमोद्गमाश्चात्रैव (पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । अस्रुराज्यां मणिदोषे चषके तालके कृमौ’ । (‘कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाङ्के रोमाञ्चे । पुलकः पुनः । रोमाञ्चकण्टकौ रोमविक्रिया रोमहर्षणम् । रोमोद्गम उद्धर्षणमुल्लासनकमित्यपि’ । इति हैमात्) । क्रन्दितमिति । ‘क्रदि रोदने’ (भ्वा० प० से०) । क्तः (३.३.११४) । अथ क्रन्दितमाह्वाने रुदिते च नपुंसकम्’
क्रमः “क्रमणम् । अनेन वा । घञ् (३.३.१८, १९) । ‘नोदात्तोप-’ (७.३.३४) इति न वृद्धिः । ‘क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च’ (इति मेदिनी) ॥”
क्रमुकः क्रामति । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । बाहुलकादुः । ‘संज्ञायां कन्’ (५.३.७५) । ‘क्रमुकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि । फले कार्पासिकायाश्च पट्टिकालोध्रपूगयोः’ (इति मेदिनी) ॥
क्रमुकः केति । क्रामति । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । बाहुलकादुकः । ‘क्रमुकः पट्टिकालोध्रे गुवाके भद्रमुस्तके’ । यत्तु – शिल्पिसंज्ञयोः - ’ (उ० २.३२) इति कुनि वा इत्याह मुकुटः । तन्न । ‘क्रमक’ इति रूपापत्तेः ॥
क्रमुकः क्रोमति । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । बाहुलकादुकन् । ‘क्रमुको भद्रमुस्तके । गुवाके पट्टिकालोध्रे इति हैमः ॥
क्रमेलकः क्रामति ‘क्रम पादविक्षेपे’ (भ्वा० प० से०) । विच् (३.२.७५) । इलति । ‘इल क्षेपे’ (तु० प० से०) । एलयति । ‘इल गतौ (चु० प० से०) । ण्वुल् (३.१.१३३) क्रम् चासावेलकश्च ॥
क्रयविक्रयिकः क्रयविक्रयिकः
क्रयिकः क्रयेण जीवति । ठन् (४.४.१३) ॥
क्रय्यम् क्रेति । क्रीयते । ‘अचो यत्’ (३.१.९७) । गुणः (७.३.८४) । ‘क्रय्यस्तदर्थे’ (६.१.८२) इति साधु ॥
क्रव्यम् क्लवते । क्लव्यतेऽस्माद्वा । ‘क्लव भये’ । न्यन्तो मित् । ‘अचो यत्’ (३.१.९७) । रलयोरेकत्वम् । क्रूयते । ‘क्रुङ् गतौ’ (भ्वा० आ० अ०) - इति स्वामी ॥
क्रव्यात् क्रव्यम्मांसमत्ति । ‘क्रव्ये च’ (३.२.६९) इति विट् । ‘अदोऽनन्ने’ (३.२.६८) इत्येव सिद्धेऽण् (३.२.१) बाधनार्थमिदम् । तेनाममांसभक्षके ‘क्रव्यादः’ इति न भवत्येव । (‘क्रव्यन्मांसा शिरक्षसोः) ।
क्रव्यादः कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं पक्वं च भुङ्क्ते इति क्रव्यादः । ‘कृत्तविकृतपक्वशब्दस्य पृषोदरादित्वात् (६.३.१०९) क्रव्यादेशः’ (३.२.६९) इति काशिका । शब्दार्णवेऽपि कृदध्याये-‘सदान्नादकणादौ च स्यात्क्रव्यादाममांसभुक् । क्रव्यादः कृत्तविकृतपक्वमांस भृगुच्यते’ इत्युक्तेः । तस्माद्योगार्थस्य व्यवस्थितत्वेऽपि गौण्या उभयोः सामान्येन प्रयोगः।
क्रायकः क्रेति । क्रीणाति । ण्वुल् (३.१.१३३) ॥
क्रिमिः क्रामति । ‘क्रमु पादविक्षेपे (भ्वा० प० से०) । ‘क्रमितमिशस्तम्भामत इत्’ (उ० ४.१२२) इति किः ॥ बाहुलकात् सम्प्रसारणमपि । ‘द्रुमामये भवेत्पुंसि कीटे च क्रिमिवत् कृमिः’ इति रभसः । ‘क्रिमिर्ना कृमिवत् कीटे लाक्षायां कृमिले खरे’ (इति मेदिनी) ॥
क्रीडा “क्रीडनम् । ““क्रीडृ विहारे’ (भ्वा० प० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । ‘क्रीडा केलिप्रकारे स्यात्खेलावज्ञानयोरपि ’ (इति विश्वमेदिन्यौ)”
क्रीडा क्रीडेति ।
क्रुञ्चः क्रुङ्ङिति । क्रुञ्चति । ‘क्रुञ्च कौटिल्याल्पीभावयोः’ (भ्वा० प० से०) । ‘ऋत्विग्दधृक्-’ (३.२.५९) इति साधुः ॥
क्रुध् प्रतिहननम् । अन्यत्रापि’ (वा० ३.२.४८) इति डे । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘प्रतिघौ रुट्प्रतीघातौ’ इति हैमः ॥ रुट्क्रुधौ सम्पदादी (वा० ३.३.१०८) ॥ टापि (भागुरिमतेन) ‘क्रोधो भामः क्रुधा रुषा’ इति शब्दार्णवः (६) ॥ (७) ॥ (भामः क्रोधे रवौ दीप्तौ) ॥
क्रुष्टम् ‘क्रुश रोदने’ (भ्वा० प० से०) । क्तः (३.३.११४) । (‘कृष्टं रोदनरावयोः ।
क्रेयम् क्रयिति ॥
क्रोडः क्रुडति । ‘क्रुड घनत्वे’ (तु० प० से०) । अच् (३.१.१३४) - इति मुकुटः । तन्न । कुटादित्वाद्णाप्रसङ्गात् । क्रुडनम् । घञ् (३.३.१९) । क्रोडोऽस्यास्ति । अर्श आद्यच् (५.३.१२७) ॥
क्रोडः “नेति । क्रुध्यते । ‘क्रुड वाल्पेऽदने’ (तु० प० से०) । घञ् (३.३.१९) । मुकुटस्तु-क्रोडति घनीभवति । ‘क्रुड घनत्वे’ । अच् (३.१.१३४)–इत्याह । तन्न । घनत्वार्थस्य ऋदुपधत्वात् । उदुपधत्वेऽपि कुटादित्वेनाचि गुणासंभवाच्च । ‘क्रोडः कोले शनौ क्रोडमङ्के’ इति हैमः । ‘क्रोडः शनौ सूकरे ना, न पुमानङ्गरक्षसोः’ इति मेदिनी ॥”
क्रोधः कोपेति । ‘कुप क्रोधे’ (दि० प० से०) ‘क्रुध कोपे’ (दि० प० अ०) । घञ् (३.३.१८) भावे । १ ॥
क्रोशयुगम् क्रोशयोर्युगम् । (२) द्वे क्रोशद्वयपरिमितस्य ।
क्रोष्टुः “क्रोशति । ‘क्रुश आहाने’ (““भ्व० प० से०) । ‘सितनि-’ (उ० १.६९) इति तुन् । ‘तृज्वत्क्रोष्टुः’ (७.१.९५) ॥”
क्रोष्टुविन्ना “क्रोष्टुभिर्विन्ना विचारितेव । दत्तेव, इति वा ॥”
क्रोष्ट्री क्रोशति । क्रुश आह्वाने’ (भ्वा० प० से०) । सितनि-’ (उ० १.६९) इति तुन् । ‘स्त्रियां च’ (७.१.९६) इति तृज्वत् । ‘ऋन्नेभ्यो डीप्’ (४.१.५) । मुकुटस्तु — ष्ट्रनि षित्त्वान् ङीप् – इत्याह । ‘क्रोष्टी शृगालिकाकृष्णविदारीलाङ्गलीषु च’ (इति मेदिनी) ॥ चत्वारि कृष्णभूकूष्माण्डस्य । मुकुटस्तुशुक्लस्य इत्याह । तन्न । ‘कृष्णविदारी’ इति मेदिनीविरोधात् । एतेन-वा सिता शुक्ला – इत्यपास्तम् । ‘या असिता’ इति छेत्तुमुचितत्वात् । स्वामी तु–विदार्यादित्रयं पठित्वा ‘कृष्णो भूकूष्माण्डोऽयं प्राक्षु देशेषु’ इत्युक्त्वा ‘क्रोष्ट्री तु या सिता’ इति पठित्वा ‘शुक्लो भूकूष्माण्डः’ इत्युक्त्वा ‘अन्या क्षीरबिदारी-‘इति त्रयं पपाठ । तत्र विभागत्रयमनुचितम् । उक्तमेदिनीविरोधात् ।
क्रौञ्चः प्रज्ञाद्यण् (५.४.३८) । ‘क्रौञ्चो द्वीपप्रभेदे स्यात् पक्षिपर्वतभेदयोः’ (इति मेदिनी) । स्त्रियामजादित्वाट्टाप् । ‘क्रुञ्चः’ इति पाठे पचाद्यच् (३.१.१३४) ॥
क्रौञ्चदारणः क्रुञ्चेः (भ्वा० प० से०) । क्विन् (३.२.५९) । प्रज्ञाद्यण् (५.४.३८) । क्रौञ्चस्य पर्वतस्य दारणः । दॄ विदारणे’ (भ्वा० प० से०) । ण्यन्तात् (३.१.२६) । ल्युः (३.१.१३४) । कैलासे धनदावासे कौञ्चःक्रौञ्चोऽभिधीयते’ इति वृहद्धारावली । अतः ‘कौञ्चदारणः अपि ।
क्लिष्टम् क्लिश्यते स्म । ‘क्लिश विवाधने’ (क्र्या० प० से०) क्तः (३.२.१०२) । ‘यस्य विभाषा’ (७.२.१५) इतीडभावः इति मुकुटः । वस्तुतस्तु ‘क्लिशः क्त्वानिष्ठयोः (७.२.५०) इति वेट् ॥
क्लीतकम् क्लीबनम् । ‘क्लीबृ अधार्ष्ट्ये’ (भ्वा० आ० से०) । भावे क्तः (३.३.११४) । आगमशासनमनित्यम् । क्लीतमधार्ष्ट्यं कलति । ‘कल क्षेपे’ (चु० प० से०) । ‘चुरादिभ्यो णिज्वा’ इति णिजभावः । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । यत्तु–‘क्लीबृ मदे’ इत्युक्तं मुकुटेन । तत् ‘क्षीबृ मदे’ इत्यस्य भ्रमात् । यद्वा सम्पदादि क्विप् (वा० ३.३.१०८) । बाहुलकाद्बलोपः । क्लीं क्लीबत्वं तकति । वृष्यत्वात् । ‘तक हसने (भ्वा० प० से०) । मूलविभुजादि कः (वा० ३.२.५) ॥
क्लीतकिका “क्रीतकं क्रयोऽस्त्यस्याः । कपिरिकादित्वात् (वा० ८.२.१८) लत्वम् । ‘अतः’ (५,२, ११५) इति ठन् । ‘क्रीतकं विनिमयः’ इति स्वामिमकटौ ॥”
क्लीबः क्लीबते । ‘क्लीबृ अधार्ष्ट्ये’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘अस्त्री नपुंसके क्लीबं वाच्यलिङ्गस्त्वविक्रमे’ इति रुद्रः ॥
क्लोमम् क्लवते । ‘क्लुङ् गतौ’ (भ्वा० आ० अ०) । मनिन् (उ० ४.१४५) ॥
क्वणः ‘नौ’ (३.३.६४) इति ‘अनुपसर्गे (३.३.६१) इति चानुवर्तमाने ‘क्वणो वीणायां च’ (३.३.६५) इत्यप् ॥
क्वणनम् ल्युट् (३.३.११५) ॥ (यत्तु) पञ्च वीणाया अन्यस्य च किन्नरादेः क्वणने इति मुकुटः । तन्न । अपिशब्देन पूर्वान्वयस्य बोधनात् । अतः षडपि भूषणध्वनेः । वीणाया इति । प्रादेरिति । उपसर्गात् । ’वीणायां च’ (३.३.६५) इत्यंशेन सोपसर्गादपि विधानात् । आदिशब्दादुपक्वणादयः ॥
क्वाणः ‘नौ’ (३.३.६४) इति ‘अनुपसर्गे (३.३.६१) इति चानुवर्तमाने ‘क्वणो वीणायां च’ (३.३.६५) इत्यप् ॥
क्षणः ता इति । ताः कलाः । क्षणोति । ’क्षणु हिंसायाम् (त० उ० से०) । अच् (३.१.१३४) । ‘क्षणाः पर्वोत्सवेऽपि स्यात्तथा मानेऽप्यनेहसः ।
क्षणः क्षणोति दुःखम् । क्षणु हिंसायाम्’ (तु० उ० से०) । पचाद्यच् (३.१.१३४) । (‘क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः’ इति हैमः ॥
क्षणदा “क्षणम् उत्सवं निर्व्यापारस्थितिं वा ददाति । कः (३.२.३) । क्षणदो गणके, रात्रौ क्षणदा, क्षणदं जले ॥”
क्षणनम् ‘क्षणु हिंसायाम्’ (त० उ० से०) ॥
क्षणप्रभा क्षणं प्रभास्याः ।
क्षतजम् क्षताज्जातम् । डः (३.२.९८) ॥
क्षतव्रतः क्षतं खण्डितं व्रतमस्य ॥
क्षत्तः “- क्षेति । अर्या च शूद्रश्च । तयोः सुतः । क्षदति, क्षद्यते, वा । ‘क्षद सम्भृतौ’ () । ‘-शंसिक्षदादिभ्यः-’ (उ० २.९४) इति तृच् । ‘क्षत्ता शूद्रात्क्षत्त्रियाजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्’ (इति मेदिनी) ॥ अर्या स्वामिनी । सा च क्षत्त्रिया योग्यत्वात् । तेन ‘क्षत्त्रियायां च शूद्रजे’ इत्यनेनाविरोधः ॥”
क्षत्तृः क्षदति । ‘क्षद संवरणे’ सौत्रः । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) । मुकुटस्तु ‘नप्तृनेष्टृत्वष्टृ-’ (उ० २.९५) इति तृच्-इत्याह । तन्न । नप्त्त्रादिषु क्षत्तुग्रहणात् । यदपि— ‘क्षद स्थैर्ये हिंसायां च’ इत्यतस्तृच् (३.१.१३३) तन् (३.२.१३५) वा–इत्युक्तम् । तदपि न । उक्तपाठस्यादर्शनात् । ‘खद स्थैर्ये’ (भ्वा० प० से०) इति पाठस्य दर्शनाच्च ॥
क्षत्रियः क्षदति । ‘क्षद संवरणे सौत्रः । ष्ट्रन् (उ० ४.१५९) । क्षतात्त्रायते वा । पृषोदरादिः (६.३.१०९) । क्षत्त्रस्यापत्यम् । क्षत्राद्यः (४.१.१३८) ॥
क्षत्रिया क्षत्त्रियेति । एवम् ॥
क्षत्रियाणी क्षत्त्रियेति । एवम् ॥
क्षत्रियी क्षेति । एवम् । क्षत्त्रियस्य स्त्री ॥
क्षपा क्षपयति चेष्टाम् । ‘क्षै क्षये’ (स्वा० प० से०) । अस्माण्ण्यन्तान्मितः पचाद्यच् ।
क्षपाकरः क्षपां करोति । ‘कृञो हेतु-’ (३.२.२० ) इति टः ।
क्षयः क्षीयन्ते प्राणिनोऽत्र । ‘क्षि क्षये’ (भ्वा० प० से०) । ‘एरच्’ (३.३.५६) । ‘पुंसि (३.३.११८) इति घो वा । क्षयो गेहे च कल्पान्तेऽपचये रुजिः इति हैमः ।
क्षयः क्षय इति । क्षयति देयम् । ‘क्षि क्षये’ (भ्वा० प० अ०) । अन्तर्भावितण्यर्थः । अच् (३.१.१३४) । ‘क्षयो गेहे कल्पान्तेऽपचये रुजि’ इति हैमः ॥
क्षयः क्षेति । क्षयनम् । ‘एरच्’ (३.३.५६) । अष्टवर्गस्यापचयः । क्षयः ॥
क्षवः ‘ऋदोरप्’ (३.३.५७) ॥ ‘स्त्रियां क्षुत् क्षुतं हंछिका’ इति रभसः ॥
क्षवः क्षेति । क्षौति । ‘टुक्षु शब्दे’ (अ० प० से०) । ण्यर्थः । अच् (३.१.१३४) । (‘क्षवः क्षुते राजिकायाम्’ इति मेदिनी) ॥
क्षवथुः क्षौत्यनेन । । ‘टुक्षु शब्दे’ (अ० प० से०) ‘ट्वितोऽथुच्’ (३.३.८९) । ‘क्षवथुः कासे छिक्कायाम्’ इति हेमचन्द्रः ॥
क्षान्तिः क्षान्तिरिति । झमणम् । ‘क्षमू सहने’ दिवादिः । अस्याषित्वा क्तिन् (३.३.९४) ‘अनुनासिकस्य क्वि-’ (६.४.१५) इति दीर्घः । भ्वादेस्तु षित्वात् अङ् (३.३.१०४) । तदुक्तम् ‘अषितः क्षाम्यतेः क्षान्तिः षितस्तु क्षमतेः क्षमा’ इति । (‘क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा क्षान्तौ क्षितौ’ इति हैमः)
क्षारः क्षेति । क्षरति । ‘क्षर सञ्चलने’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘क्षारः काचे रसे गुडे । भस्मनि धूर्ते लवणे’ इति हेमचन्द्रः ॥
क्षारकः क्षारक इति । क्षरति । ‘क्षर सञ्चलने’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘क्षारको रसे । कोरके पक्ष्यादिपाशे इति हैमः । ‘क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च ॥
क्षारमृत्तिका क्षारयति । ’क्षर सञ्चलने ’ (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । क्षारा चासौ मृत्तिका च ॥
क्षितिः क्षियति । ’क्षि निवासगत्योः (तु० प० अ०) । क्तिच्क्तौ च-’ इति (३.३.१७४) क्तिच् । यत्तु–क्षियन्त्यत्र–इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति ल्युटा बाधात् । ‘क्षितिर्गेहे भुवि क्षये’ इति हैमः ॥
क्षिपणी “क्षिप्यतेऽनया । क्षिपेः किच्च’ (उ० २.१०७) इत्यनिः ॥ ॥ बाहुलकाद्गुणे क्षेपणिरपि । क्षेपणं प्रेरणे, नौकादण्डजालभिदोः स्त्रियाम् । (१) द्वे नौकापार्श्वद्वयबद्धचालनकाष्ठस्य ।”
क्षिप्रम् क्षिपति । क्षिप प्रेरणे’ (तु० उ० अ०) । ‘स्फायितछि-’ (उ० २.१३) इति रक् ।।
क्षीरम् क्षियति । “क्षि निवासगत्योः’ (तु० प० अ०) । ‘शुसिचि(क्षि)मीनां दीर्घश्च (उ० २.२५) इति क्रन् दीर्घत्वं च । यद्वा घस्यते । ‘घसेः किच्च’ (उ० ४.३४) इतीरन् । ‘गमहनजन-’ (६.४.९८) इत्युपधालोपः । यत्तु-क्षयति–इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तन्न । उपन्यस्तधातोस्तादृशरूपाभावात् । क्षीरं पानीयदुग्धयोः’ इति हैमः ।
क्षीरम् “क्षयणम् । ‘क्षीष् हिंसायाम्’ (क्र्या० प० अ०) संपदादिः (वा० ३.३.१०८) । क्षियमीरयति । ‘ईर गतौ’ (अ० आ० से०) । ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । घस्यते वा । ‘घस्लृ अदने’ (भ्वा० प० अ०) ‘घसेः किच्च’ (उ० ४.३४) इतीरन् । ‘गमहनजन-’ (६.४.९८) इत्युपधालोपः । ‘खरि च’ (८.४.५५, भा० ६१) चर्त्वम् । ‘शासिवसि-’ (८.३.६०) इति षत्वम् । ‘क्षीर पानीयदुग्धयोः’ इति हैमः ॥”
क्षीरविकृतिः क्षीरस्य विकृतिः ॥ (‘उभे क्षीरस्य विकृती किलाटी कूर्चिका तथा’ इति होमना ममाला) ।
क्षीरविदारी अन्येति । क्षीरवती विदारी ॥
क्षीरशुक्ला क्षीरमिव शुक्ला ॥
क्षीरावी अथेति । क्षीरमवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
क्षीरिका क्षीरमस्त्यस्याः । ‘अतः’ (५.२.११५) इति ठन् ॥
क्षीरोदः तस्येति । क्षीरमुदकं यस्य । ‘उत्तरपदस्य च’ (वा० ६.३.५७) इत्युदः ॥
क्षुतम् भावे क्तः (३.३.११४) ॥
क्षुत् स्त्रीति । क्षवणम् । ‘टुक्षु शब्दे’ (अ० प० से०) । संपदादिः (वा० ३.३.१०८) ॥
क्षुत् क्षोधनम् । ‘क्षुध बुभुक्षायाम्’ (दि० प० अ०) । क्विप् (३.२.१७८) । भागुरिमते टापि ‘क्षुधा’ च ॥
क्षुद्रघण्टिका “घण्टेव । ‘इवे-’ (५.३.९६) इति कन् । यद्वा घण्टति, घण्टयति, वा । ‘घटि दीप्तौ’ (चु० उ० से०) । ण्वुल् (३.१.१३३) । क्षुद्रा चासौ घण्टिका च ॥”
क्षुद्रशङ्खाः क्षुद्रेति । क्षुद्राश्च ते शङ्खाश्च ॥
क्षुद्रा क्षुणत्ति । ‘क्षुदिर संपेषणे’ (रु० उ० अ०) । ‘स्फायि-’ (उ० २.१३) इति रक् । यत्तु – ‘क्षुद सम्प्रेरणे’ इति धातुरुपन्यस्तो मुकुटेन । स धातुपाठे न लभ्यते । ‘क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोर्हिंस्रामक्षिकामात्रयोरपि’ (इति मेदिनी) ॥
क्षुद्राण्डमत्स्यसंघातः क्षुद्रेति । क्षुद्रादण्डाज्जाता मत्स्याः – क्षुद्राण्डमत्स्याः । तेषां संघातः ।
क्षुधाभिजनः क्षुधामभिजनयति । नन्द्यादिः (३.१.१३३) । क्षुतमभिजनयति । ‘क्षुताभिजननः’- इति स्वामी ॥
क्षुपः ह्रस्वेति । शाखा च शिफा = मूलं च ते । ह्रस्वे शाखाशिफे यस्य । क्षौति। ‘टु क्षु शब्दे (अ० प० से०) । बाहुलकात्पोऽगुणश्च ।
क्षुमा “क्षौति, क्षूयते वा । ‘टुक्षु शब्दे’ (अ० प० अ०) । बाहुलकान् मक् । ‘अर्तिस्तुसुहुसृ-’ (उ० १.१४०) इति मन् वा । संज्ञापूर्वकत्वान्न गुणः । क्षुवते इति मुकुटस्य प्रमादः । क्षौतेरादादिकत्वात् । ‘क्षुमातसीनीलिकयोः’ इति विश्वः ॥”
क्षुरः क्षुर इव । ‘क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे’ इति विश्वः ॥
क्षुरकः क्षुरति । ‘क्षुर विलेखने’ (तु० प० से०) । क्वुन् (उ० २.३२) । ‘क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥
क्षुरी
- क्ष्विति । क्षुरोऽस्यास्ति । ‘अतः-’ (५.२.११५) इतीनिः ॥
क्षुल्लकः “- क्षुधं लाति । कः (३.२.३) स्वार्थे कन् (उ० २.३२) वा । यद्वा क्षुणत्ति, क्षुद्यते वा । ‘क्षुद क्षोदे’ (रु० उ० अ०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् । कपिलिकादिः (८.२.१८) । यद्वा क्षुधा लक्यते । ‘लक आस्वादने’ () । ‘पुंसि-’ (३.३.११८) इति घः । कवर्गद्वितीयादिरपि । ‘खुल्लकस्त्रिषु नीचेऽल्पे’ इति रभसात् । खदनम् । ‘खद हिंसायाम्’ (भ्वा० १० मे) । सम्पदादिः (वा० ३.३.१०८) । पृषोदरादिः (६.३.१०९) । खुदं लाति । क्वुन् (उ० २.३२) ॥”
क्षेत्रज्ञः क्षेत्रज्ञ इति । क्षीयते इति क्षेत्रं शरीरम् । तज्जानाति । ‘ज्ञा अवबोधने’ (क्र्या० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यत्तु - क्षेत्रे जानाति – इति मुकुटः । तन्न । ‘एतद्यो वेत्ति-’ इति प्रागुपन्यस्तगीताविरोधात् । ‘क्षेत्रज्ञावात्मनिपुणौ’ इति हैमः ।
क्षेत्रम् क्षीयते धान्यैरत्र । ‘क्षि निवासगत्योः’ (तु० प० अ०) । टुन् (उ० ४.१५९) । ‘क्षेत्रं भारतादौ भगाङ्गयोः । केदारे सिद्धभूपत्न्योः’ इति हैमः । ‘क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः’ इति विश्वः ॥
क्षेत्राजीवः क्षेत्रेति । क्षेत्रमाजीवोऽस्य ॥
क्षेमः क्षिणोति । ‘क्षिणु हिंसायाम्’ (त० उ० से०) । ‘अर्तिस्तु-’ (उ० १.१४०) इति मन् । ‘क्षेमोऽस्त्री लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति’ (इति मेदिनी) ॥
क्षेमम् क्षयत्यशुभम् । ‘क्षि क्षये’ (भ्वा० प० अ०) । मन् (उ० १.१४०) । अस्त्रियामिति क्षेममात्रान्वयि । यत्तु – क्षिणोत्यशुभमिति विगृह्य ‘क्षि क्षये इति धातोरुपन्यसनं मुकुटेन कृतम् । तदसंगतम् । क्षेमस्तु मङ्गले । लब्धसंरक्षणे मोक्षे क्षेमोमाधनहर्यपि ॥
क्षैत्रम् क्षेत्राणां समूहः । ‘भिक्षादिभ्यः-’ (४.२.३८) इत्यण् । ‘तस्य समूहः (४.२.३७) इत्यण् इति मुकुटः । तन्न । ‘अचित्त-’ (४.२.४७) इति ठकस्तदपवादत्वात् ॥
क्षोणी क्षौति । ‘टुक्षु शब्दे’ (अ० प० अ०) । बाहुलकान्निः । (‘कृदिकारात्’ (ग० ४.१.४५) इति ङीष्वा)
क्षोदः क्षुद्यते । ‘क्षुदिर् सम्पेषणे’ (रु० उ० अ०) । घञ् (३.३.१८) ‘क्षोदः पेषणचूर्णयोः’ इति हैमः ॥
क्षोमः क्षुवन्त्यत्र । ‘टुक्षु शब्दे’ (अ० प० से०) । ‘अर्तिस्तु-’ (उ० १.१४०) इति मः । प्रज्ञाद्यणि (५.४.३८) ‘क्षौमः’ ॥
क्षौद्रम् क्षुद्राभिर्मक्षिकाभिः कृतम् । ‘क्षुद्राभ्रमर-’ (४.३.११९) इत्यञ् । ‘क्षौद्रं तु मधुनीरयोः इति हेमचन्द्रः ॥
क्षौमम् “क्षाविति । क्षौति । क्षूयते, वा । ‘टु क्षु शब्दे’ (अ० प० से०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् । ‘क्षोमपट्टे दुकूलेऽस्त्री’ (इति मेदिनी) । क्षुमाया विकारः । क्षौमम् इति स्वामी । पर्यायान्तराभिधानाय पुनरभिहितम् ॥”
क्ष्मा क्षमते । ‘क्षमूष् सहने’ । ‘क्षमेरुपधालोपश्च’ (उ० ५.६५) इत्यच् । यत्तु-पृषोदरादित्वात् (६.३.१०९) अल्लोपः । बाहुलकान्मन् टिलोपश्च-इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥ पचाद्यचि (३.१.१३४) क्षमा च ॥
क्ष्माभृत् क्ष्मां बिभर्ति । ‘डुभृञ् धारणपोषणयोः’ (जु० उ० अ०) । क्विप् च’ (३.२.७६) इति क्विप् ।
क्ष्माभृत् क्ष्मां बिभर्ति । क्विप् (३.२.७६) । तुक् (६.१.७१) । ‘क्ष्माभुक्’ । इति पाठे क्ष्मां भुनक्ति पालयति । क्विप् (३.२.७६) ॥
क्ष्वेडः “क्ष्वेड इति । क्ष्वेडते मोहयति । अच् (३.१.१३४) । क्ष्विद्यन्त्यनेन वा । ‘ञिक्ष्विदा स्नेहनमोचनयोः’ ‘मोहनयो’ इत्येके (भ्वा० प० से०, दि० प०) । ‘हलश्च’ (३.३.१२१) इति घञ् । पृषोदरादिः (६.३.१०९) ‘क्ष्वेडो ध्वनौ कर्णामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्ण फले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः’ ।”
क्ष्वेडा क्ष्वेडेति । क्ष्वेदनम् । ‘ञिक्ष्विदा स्नेहनमोचनयोः’ (भ्वा० आ० से०) अव्यक्ते शब्दे वा घञ् (३.३.१८) । पृषोदरादिः (६.३.१०९) । रूपभेदात्स्त्रीत्वम् । ‘विशेषैर्यद्यबाधितः’ इति परिभाषणात्र पुंस्त्वम् ‘क्ष्वेडो ध्वनौ कणामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः ॥
खगः खग इति । खे गच्छन्ति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘खगः सूर्ये ग्रहे देवे मार्गणे च विहंगमे’ (इति मेदिनी) ॥
खगः खं गच्छति । ‘अन्येष्वपि’ (वा० ३.२.४८) इति डः । ‘खगोऽर्कग्रहपक्षिषु’ । शरे देवेऽप’ इति हैमः ॥
खगेश्वरः खगानामीश्वरः ।
खजाका खजति । ‘खज मन्थे’ (भ्वा० प० से०) । ‘खजेराकः’ (उ० ३.१३) ॥ एतत्साहचर्यात्पूर्वयोः स्त्रीत्वम् ।
खञ्जः खञ्जति । ‘खजि गतिवैकल्ये’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥ ‘अथ खञ्जके खोडखोरौ’ इति रभसः ।
खञ्जनः “खञ्जति । ‘खजि गतिवैकल्ये’ (भ्वा० प० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । ‘खञ्जनः खञ्जरीटे, स्त्री सर्षप्यां, खञ्जनं गतौ’ इति मेदिनी) ॥”
खञ्जरीटः खञ्जेति । खञ्ज इव ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । बाहुलकात् कीटन् ॥
खट्वा खट्यते निद्रालुभिः । ‘खट काङ्क्षायाम्’ (भ्वा० प० से०) । ‘अशूप्रुषि-’ (उ० १.१५१) इति क्वुन् ॥
खड्गः खडति । ‘खड भेदने’ (चु० प० से०) । ‘छापूखडिभ्यः कित्’ (उ० १.१२४) इति गन् । ‘खडगो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके’ (इति विश्वमेदिन्यौ) ॥
खड्गः खेति । खण्डति परम् । खण्ड्यतेऽनेन वा । ‘खडि भेदने’ ‘छापूखडिभ्यः कित्’ (उ० १.२४) इति गन् । आगमशास्त्रस्यानित्यत्वान्न नुम् । ‘खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके’ (इति विश्वमेदिन्यौ) ॥
खड्गी खड्गः शृङ्गमस्त्यस्य । इनिः (५.२.११५) । ‘खड्गी ना गण्डके मञ्जुघोषे खड्गधरे त्रिषु’ (इति मेदिनी) ॥
खण्डः ‘खडि भेदने’ (चु० प० से०) खण्ड्यते । कर्मणि घञ् (३.३.१९) । भावे घञ् (३.३.१८) इति मुकुटोक्तिरसंगता । खण्डनक्रियाया एव ग्रहणप्रसङ्गात् । खण्ड्यमानस्याग्रहणप्रसङ्गात् । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ञमन्ताडः (उ० १.११४) इति वा । ‘खण्डोऽर्ध ऐक्षवे । मणिदोषे च’ इति हैमः । (‘खण्डोऽस्त्री शकले नेक्षु विकारमणिदोषयोः । खण्डः पानान्तरे भेदे’) । वा पुंसि-इति पूर्वोत्तराभ्यां सम्बध्यते ।
खण्डपरशुः खण्डयतीति खण्डः परशुरस्य । ‘खण्डपर्शुः’ अपि । ‘खण्डपर्शुः पर्शुरामे शंकरे चूर्णलेपिनि । (खण्डामलकभैषज्ये सिंहिकातनयेऽपि च’) इति विश्वात् ।
खण्डविकारम् खण्डो ‘विकारोऽस्य’ ॥
खण्डिकः खण्डोऽस्यास्ति । ‘अत इनिठनौ’ (५.२.११५) इति ठन् ॥ ‘कलायस्त्रिकटः प्रोक्तः सतीनो वर्तुलो मतः । हरेणुरङ्कटो ज्ञेयः’ इति व्याडिः ।
खदिरः खदति । ‘खद स्थैर्ये हिंसायां च’ (भ्वा० प० से०) । ‘इषिमदिमुदि-’ (उ० १.५१) इति किरच् । ‘खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने’ ॥
खदिरा खदति । ‘खद स्थैर्ये’ (भ्वा० प० से०) । अजिरशिशिर-’ (उ० १.५३) इति साधुः । ‘खदिरा शाकभेदे स्त्री ना चन्द्रे दन्तधावने’ (इति मेदिनी) ॥
खध्योतः खेति । खे द्योतते । ‘द्युत दीप्तौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । खं द्योतयति । अण् (३.२.१) वा ॥
खनिः खनिरिति । खन्यते । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘खनिकषि-’ (उ० ४.१४०) इति इः ॥ (ग० ४.१.४५) इति वा ङीष् ॥ ’इञजादिभ्यः’ (वा० ३.३.१०८) इतीञ् । ‘खनिरेव मता खानिः’ इति द्विरूपकोशः ॥
खनित्रम् खेति । खन्यतेऽवदार्यतेऽनेन । ‘खन खनने’ (भ्वा० उ० से०) । ‘अर्तिलूधू-’ (३.२.१८४) इतीत्रः ॥
खपुरः खमिन्द्रियमाकाशं वा पिपर्ति । ‘पॄ पालनपूरणयोः (जु० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । ‘उदोष्ठ्यपूर्वस्य’ (७.१.१०२) । यत्तु अचि (३.१.१३४) उत्वम् (७.१.१०२) आह मुकुटः । तन्न । ‘इत्वोत्वाभ्या गुणवृद्धी-’ (७.१.१०२) इति वार्तिकविरोधात् । यदपि ‘पूरी आप्यायने’ (दि० आ० से०) - इत्ययं धातुरुपन्यस्तः । तदपि न । ‘खपूरः’ इति रूपप्रसङ्गात् । (‘खपुरः क्रमुके भद्रमुस्तकेऽलसकेऽपि च’ इति मेदिनी) ॥
खम् खन्यते । ‘खनु अवदारणे ’ (भ्वा० उ० से०) । डः (वा० ३.२.१०१) ।‘खं स्वः संविदि व्योमनीन्द्रिये । शून्ये बिन्दौ मुखे खस्तु सूर्ये इति हैमः। खर्वत्यस्मिन् वा । ‘खर्ब गतौ’ (भ्वा० प० से०) डः (वा०३.२.१०१)
खरः खं मुखबिलमतिशयितमस्य । ‘स्वमुख-’ (वा० ५.२.१०७) इति रः । ‘खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च’ इति हेमचन्द्रः ॥
खरणसः पक्षे ‘अञ् नासिकायाः’ (इत्यच् नसादेशश्च ‘पूर्वपदात्-’ (८.४.३) ५.४.११८) इति णत्वम् ॥
खरणाः खरेति । खर तीक्ष्णा नासिकास्य । ‘खुखरायां वा नस्’ (वा० ५.४.११८) ॥
खरपुष्पा खरं पुष्पमस्याः ॥
खरमञ्जरिः खरा मञ्जरिरस्याः ॥ गौरादिः (४.१.४१) वा ॥
खरम् खमिन्द्रियं रात्यभिभवति । ‘रा दाने’ (अ० प० अ०) । कः (३.२.३) । ‘खरं स्यात्तीक्ष्णघर्मयोः । गर्दभेऽस्त्री देवताडे ।
खरा तीक्ष्णत्वात् खरा । ‘देव ताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान्’ इति रभसः ॥
खराश्वा खरेति । खरमश्नुते । खरैरश्यते वा । ‘अशू व्याप्तौ संघाते च’ (स्वा० आ० से०) । ‘अश भोजने’ वा । ‘उल्वादयश्च’ (उ० ४.९५) इति वः । ‘अशिप्रुषि-’ (उ० १.१५१) इति क्वुन् वा ॥
खर्जुरी ‘जातेरस्त्री-’ (४.१.६३) इति ङीष् । गौरादिः (४.१.४१) वा । ‘वनखजूरी’ इति ख्याता ॥
खर्जूरः खर्जति । ‘खर्ज व्यथने (भ्वा० प० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.९०) इत्यूरः । ‘खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः’ (इति हैमः) ॥
खर्जूरम् खर्जति । ‘खर्ज व्यथने’ (भ्वा० प० से०) । ‘खर्जपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.१४०) इत्यूरः । ‘खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः’ (इति हैमः) ॥
खर्वः खेति । खर्बति । ‘खर्ब गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ‘खर्बं संख्यान्तरे क्लीबं नीचि वामनके त्रिषु’ (इति मेदिनी) ॥
खलिनः खे मुखबिले लीनः ॥
खातम् अखानि । ‘खनु अवदारणे’ (भ्वा० उ० से०) ॥ क्तः (३.२.१०२) । ‘जनसनखनाम् -’ (६.४.४२) इत्यात्वम् ॥ द्वे समचतुरस्रखातस्य ।
खारी खारी ।
खारीकः खेति । खार्या वापः । ‘खार्या ईकन्’ (५.१.३३) ॥
खिलः द्वे इति । खिलति । खिल उञ्छे’ (तु० प० से०) । इगुपध-’ (३.१.१३५) इति कः । खिल्यते वास्मिन् । ‘हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । (‘खिलमप्रहते क्लीबं सारसंक्षिप्तवेधसोः’)
खुरः खुरति । ‘खुर छेदने (तु० प० से०) । ‘इगपध (३.१.१३५) इति कः । ‘खुरः शफे कोलदले’ इति हैमः ॥
खुरः खुरति । ‘खुर छेदने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘खुरः कोलदले शफे’ (इति मेदिनी) ॥
खुरणसः पक्षे ‘अञ् नासिकायाः’ (इत्यच् नसादेशश्च ‘पूर्वपदात्-’ (८.४.३) ५.४.११८) इति णत्वम् ॥
खुरणाः खुरेति । खुर इव नासिकास्य । प्राग्वत् ।
खेयम् खेयमिति । खन्यते । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘ई च खनः’ (३.१.१११) इति क्यप् ॥
खेला खेलनम् । ‘खेलृ चलने’ (भ्वा० प० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । मुकुटस्तु ‘खेला’ इत्यस्य स्थाने ‘लीला’ इति पठति ॥
खेला खेलनम् । ‘गुरोश्च’ (३.३.१०३) इत्यः ॥
खोडः खविति । खोडति । ‘खोडृ गतिप्रनिघाते’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
गगनम् गच्छन्त्यनेनास्मिन्वा । ‘गमेर्गश्च’ (उ० २.७७) इति युच् गश्चान्तादेशः।
गङ्गा “गङ्गेति । गच्छति, ‘गन् गम्यद्योः’ (उ० १.१२३) ॥”
गङ्गाधरः धरतीति धरः । पचाद्यच् (३.१.१३४) । गङ्गाया धरः।
गजः गजति । ‘गज मदने’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
गजता गजानां समूहः । ‘गजसहायाभ्यां च’ (वा० ४.२.४३) इति तल् ॥
गजबन्धनी बध्यतेऽस्याम् । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । अधिकरणे ल्युट् (३.३.११७) । गजस्य बन्धनी ॥
गजभक्ष्या गजेति । गजैर्भक्ष्यते । ण्यत् (३.१.१२४) ॥ घञि (३.३.१९) ‘गजभक्षा’ वा ॥
गजाननः गज आननमस्य । ‘समुदायशब्दा अवयवेऽपि वर्तन्ते इति गजमुखपरो गजशब्दः ॥ नन्वत्र द्वन्दो न प्राप्नोति । विरूपाणामपि समानार्थानाम् (वा० १.२.६४) । इत्येकशेषविधानात् । मैवम् । स्वरूपपदार्थकानामेषां द्वन्द्वविधानात् । स्वरूपस्य च प्रतिशब्दं भिन्नत्वेन समानार्थताया एवाभावात् । अर्थपरता तु लक्षणया ज्ञेया । तारतम्यशब्दवत् । सर्वत्रैवं बोध्यम् ।
गञ्जा गञ्जेति । गञ्जन्त्यस्याम् । ‘गजि शब्दार्थः’ (भ्वा० प० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः । ‘गञ्जा खनौ सुरागृहे । गञ्जः स्यात्पुंसि रीढाया भाण्डागारे तु न स्त्रियाम् इति विश्वमेदिन्यौ ॥
गडकः अथेति । गडति । ‘गड सेचने’ (भ्वा० प० से०) । क्वुन् शिल्पिसंज्ञयोः’ (उ० २.३२) । पचाद्यचि (३.१.१३४) गडोऽपि । ‘गडो मीनान्तराययोः’
गडुलः “गडति, गड्यते, वा । ‘गड सेचने’ (भ्वा० प० से०) । बाहुलकादुः गडुरस्यास्ति । सिध्मादित्वात् (५.२.९७) लच् । ‘गडुः पृष्ठगुडे कुब्जे’ (इति मेदिनी) ॥”
गणः गण्यते । ‘गण संघाते’ (चु० उ० से०) । घञ् (३.३.१९) । ‘एरच्’ (३.३.५६) वा । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । ‘गणः प्रमथसंख्यौघे चण्डीसैन्यप्रभेदयोः’ (इति मेदिनी) ॥
गणः गण्यते । गणयति वा । ‘गण संख्याने’ (चु० उ० से०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा । ‘गणः प्रथमसंख्यौघे चण्डीसैन्यप्रभेदयोः’ (इति मेदिनी) ॥
गणकः गणयति । ‘गण संख्याने’ (चु० उ० से०) । ण्वुल् (३.१.१३३) ॥
गणरात्रम् गणानां बह्वीनां रात्रीणां समाहारः । गणशब्दस्य संख्यात्वात् (१.१.२३) तद्धितार्थ-’(२.१.५१) इति द्विगुः । ‘अहःसर्वैकदेश-’ (५.४.८७) इत्यच् । रात्राह्नाहाः पुंसि’ (२.४.२९) इति पुंस्त्वं तु न । ‘संख्यापूर्वा रात्रिः’ इति लिङ्गानुशासनसूत्रेण क्लीबत्वविधानात् । ‘भवति नपुंसकयोगः संख्यापूर्वस्य रात्रशब्दस्य’ इति वररुचिवचनाच्च । ‘रात्रं प्राक् संख्ययान्वितम्’ इति वक्ष्यमाणत्वाच्च । एतेन स्वामिमुकुटयोर्नपुंसकत्वसमर्थनसंभ्रमः परास्तः ।
गणरूपः नानात्वाद्गणा बहूनि रूपाण्यस्य ॥
गणहासकः गणं हासयति । ‘हसे हसने’ (भ्वा० प० से०) । ण्यन्तः । ण्वुल् (३.१.१३३) ॥ ‘गणः’ इत्यप्यस्य नाम । ‘गणः प्रमथ संख्यौघे चण्डासैन्यप्रभेदयोः’ इति रुद्रः ॥
गणाधिपः गणानां प्रमथानामधिपः ।
गणिका चित्ताकर्षकत्वाद्गणिकेव । ‘गणिका यूथीवेश्ये-भीतर्कारीषु ना तु दैवज्ञे’ इति मेदिनी ॥
गणिका गणः समूहोऽस्त्यस्याः । भर्तृत्वेन । ठन् (५.२.११५) । गणयति । ‘गण संख्याने’ (चु० उ० से०) । ण्वुल् (३.१.१३३) वा ॥
गणिकारिका गणनम् । ‘गण संख्याने’ (चु० उ० से०) । ‘इक् कृष्यादिभ्यः (वा० ३.३.१०८) । गणिं करोति । ‘कर्मण्यण्’ (३.२.१) । ङीप् (४.१.१५) । स्वार्थे कन् (५.३.७५) । यद्वा गणयति । ऋच्छति । ण्वुल् (३.१.१३३) । गणिका चासावारिका च ॥
गण्डः गेति । गण्डति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) अच् (३.१.१३४) । ‘गण्डः स्यात्पुंसि खड्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषणबुद्बुदे’ (इति मेदिनी) ॥
गण्डः गेति । गण्डति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘गण्डः स्यात्पुंसि खङ्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषणबुद्बुदे’ (इति मेदिनी) ॥
गण्डकः गण्डेति । गच्छति । ‘गम्लु गतौ’ (भ्वा० प० अ०) । ञमन्ताड्डः’ (उ० १.११४) । स्वार्थे कन् (५.३.७५) । यद्वा गण्डति संहतो भवति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । गण्डकः पुंसि खड्गे स्यात् संख्याविद्याप्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे इति विश्वमेदिन्यौ ॥
गण्डकाली गण्डेषु ग्रन्थिषु काली ॥
गण्डशैलाः “गण्डेति । ‘गण्डः कपोले पिटके’ इति विश्वः । गण्ड इव शैलाः । शैलशब्दस्तदवयवे वर्तते । ‘विशेषणं विशेष्येण (२.१.५७) इति समासः । शैलानां गण्डा इव, इनि वा । राजदन्तादिः (२.२.३१) । ‘गण्डशैलो ललाटे स्याच्च्युतस्थू लोपले गिरेः ।”
गण्डाली गण्डति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) । बाहुलकादालञ् । गण्डमलति वा । ‘कर्मण्यण्’ (३.२.१) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । गौरादिः (४.१.४१) वा ॥
गण्डीरः “गण्डीति । गण्डति, गण्ड्यते, वा । ‘गडि वदनैकदेशे (भ्वा० प० से०) । बाहुलकादीरन् । यद्वा गण्डीन् ग्रन्थीनीरयति । ईर प्रेरणे’ (अ० आ० से०) । ‘कर्मण्यण्’ (३.२.१) ॥”
गण्डूपदः गण्ड्वो ग्रन्थयः पदान्यस्य ॥
गण्डूपदी “‘जातेरस्त्री-’ (४.१.६३) इति ङीष् । (शिलमुञ्छे स्याद्, गण्डूपद्यां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधःस्थितदारुणि ।”
गतनासिकः विग्रेति । विगता नासिका यस्य । ‘प्रादिभ्यो धातुजस्य’ (२.२.२४) इति समासः । ‘वेर्ग्रो वक्तव्यः’ (वा० ५.१.११९) । ‘खुख्रौ च’ इति शाकटायनः । ‘ख्यश्च’ (वा० ५.४.११८) । ‘विखुः’ ‘विखः’ ‘विख्यः’ । ‘विग्रो विखुर्विनासिकः’ इति रभसः । विनसा हतबान्धवा इति तु टे ‘पद्दन्नस्–’ (६.१.६३) इति नस् । ‘विगतया नासिकयोपलक्षिता’ इत्यर्थः ॥
गदः गदति । अच् (३.१.१३४) । ‘गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे’ इति हैमः ॥
गदा गदति । पचाद्यच् (३.१.१३४) । ‘गदो भ्रातरि विष्णोश्च आमये नायुधे गदा’ |
गन्त्री गेति । गम्यतेऽनया । ष्ट्रन् (उ० ४.१४९) । षित्वान्ङीष् (४.१.४१) ॥
गन्धः गन्धयति । गन्ध अर्दने (चु० आ० से०) । अच् (३.१.९३४) । ‘गन्धः संबन्धलेशयोः गन्धकामोदगर्वेषु’ इति हैमः ।
गन्धकः गन्धोऽस्यास्ति । अर्शआद्यच् (५.२.१२७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘गन्धिकः’ इति पाठे ‘अत इनिठनौ’ (५.२.११५) इति ठन् ॥
गन्धकुटी गन्धस्य कुटीव ॥
गन्धनाकुली गन्धवती नाकुली ॥
गन्धफली गन्धवत् फलमस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् । ‘गन्धफल्यपि गुन्द्रायां चम्पकस्य च कोरके ॥
गन्धफली एतेति । गन्धः फलं साध्यमस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीष् । ‘प्रियंगौ स्त्री गन्धफली चम्पकस्य च कोरके इति रुद्रः ॥
गन्धमादनम् गन्धेन मादयति । “मदी हर्षे’ (दि० प० से०) । णिजन्तः । नन्द्यादिः (३.१.१३४) । ‘स्याद्गन्धमादनो भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री’ + चिरजीवी द्विकाजयोः ।
गन्धमूली गन्धं मूलमस्याः ॥
गन्धरसः गन्धवान् रसोऽस्य । राजदन्तादित्वात् (२.२.३१) । ‘रसगन्धः’ अपि–इति स्वामी ॥
गन्धर्वः गन्धं सौरभमर्वति गन्धर्वः । ‘अर्व गतौ’ (भ्वा०प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) ॥
गन्धर्वः गन्धं सौरभमर्वति । ‘अर्व गतौ” (भ्वा० प० से०) पवर्गीयान्तः । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) (‘गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरंगमे । अन्तराभवदेहे च ’ । प्रज्ञाद्यणि (५.४.३८) (गान्धर्वः) दीर्घादिरप्ययम् । ‘अपि गन्धर्वगान्धर्वदिव्यगायनगातवः’ इति शब्दार्णवात् ।
गन्धर्वः “गन्धेति । गन्धयति, गन्ध्यते, वा । वा ‘गन्ध अर्दने’ चुरादिः । अच् (३.१.१३४) । घञ् (३.३.१९) वा । अर्बति । ‘अर्ब गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । गन्धश्चासावर्बश्च शकन्ध्वादिः (वा. ६.१.९४) । यद्वा गन्धे अर्बो बोधोऽस्य । ‘गन्धर्बः पशुभेदे पुंस्कोकिलतुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च’ इति (स्पर्शान्ते) विश्वमेदिन्यौ ॥”
गन्धर्वः गन्धमर्वति । ‘अर्व गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च (इति हैमः) ॥
गन्धर्वहस्तकः गन्धर्वस्य मृगभेदस्य हस्त इव (हस्तः) पत्रमस्य ॥
गन्धवहः वहति । पचाद्यच् (३.१.१३४) । गन्धस्य वहः । यत्तु-गन्धस्य वहः इति विगृह्य अकाराद नुपपदात्सोपपदो भवति विप्रतिषेधेन’ (वा० ३.२.१) इत्यस्य प्रायिकत्वात् पचाद्यच् (३.१.१३४) इति मुकुटः । तन्न । प्रायिकत्वकल्पनाया निर्मुलत्वात् । उपपदाविवक्षायामचः (३.१.१३४) सिद्धत्वाच्च ।
गन्धवहा वहति ‘वह प्रापणे’ (भ्वा० उ० अ०) । अच् (३.१.१३४) । गन्धस्य वहा । स्याद्गन्धवहा नासायां पुंलिङ्गे मातरिश्वनि (इति मेदिनी) ॥
गन्धवाहः गन्धं वहति । ‘कर्मण्यण् (३.२.१) । (‘गन्धवाहो मृगेऽनिले । गन्धवाहा तु नासायाम्)
गन्धसारः गन्धेति । गन्धवान् सारः स्थिरभागोऽस्य । गन्ध एव सारोऽस्य वा ॥
गन्धाश्मा गेति । गन्धयुक्तोऽश्मा । शाकपार्थिवादिः (वा० २.१.७८) ॥
गन्धिनी प्रशस्तो गन्धोऽस्याः । ‘अत इनिठनौ’ (५.२.११५) ॥
गन्धोत्तमा
- गन्धेनोत्तमा । गन्ध उत्तमो यस्या वा । राजदन्तादिः (२.२.३१) ॥
गन्धोली गन्धविति । गन्धयते । ‘गन्ध अर्दने’ (चु० आ० से०) । बाहुलकादोलच् । गौरादिः (४.१.५१) (‘गन्धोली वरटाशुठ्योर्भद्रायाम्’ इति हैमः) ॥
गभस्तिः गम्यते । अन्यत्रापि (वा० ३.२.४८) इति डः । गो ज्ञेयवर्गः । तं बभस्ति दीपयति । गभस्तिः । ‘भस भर्त्सनदीप्त्योः’ (जु० प० से०) । जुहोत्यादिः । क्तिच्क्तौ च-’ (३.३.१७४) इति क्तिच् । एवं च-गगने भसति दीप्यते । ‘भस भर्त्सनप्तयोः । वसेस्तिः (उ० ४.१८०) इति बाहुलकात्तिप्रत्ययः । पृषोदरादित्वात् (६.३.१०९) गनभागलोपः इति मुकुटकृतं क्लिष्टकल्पनमनुपादेयम् । भसतीति विगृह्योक्तधातोरुपन्यसनं प्रामादिकम् । (‘गभस्तिः किरणे सूर्ये ना स्वाहायां तु योषिति’) ।।
गभीरम् गाते जलजन्तवोऽत्र । गच्छन्ति वा । ‘गाङ् गतौ’ (अ० आ० अ०) । ‘गम्लृ गतौ’ (भ्वा० प० से०) । ‘गभीरादयश्च’ इति ‘गभीरगम्भीरौ’ (उ० ४.३५) इति वा निपातितौ । (२) (३) त्रीणि गम्भीरस्य ।
गमः भ्यो ल्युट् (३.३.११५) । गमेः ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘गमो नाक्षविवर्ते स्यादपर्यालोचितेऽध्वनि’ (इति मेदिनी) ॥
गमनम् गमि ॥
गम्भारी गमिति । कं जलं बिभर्ति । ‘डुभृञ् धारणपोषणयोः’ (जु० उ० अ०) । ‘कर्मण्यम्’ (३.२.१) । पृषोदरादित्वात् गत्वम् ॥ ‘कंभारी’ इत्यपि ॥
गम्भीरम् गाते जलजन्तवोऽत्र । गच्छन्ति वा । ‘गाङ् गतौ’ (अ० आ० अ०) । ‘गम्लृ गतौ’ (भ्वा० प० से०) । ‘गभीरादयश्च’ इति ‘गभीरगम्भीरौ’ (उ० ४.३५) इति वा निपातितौ । (२) (३) त्रीणि गम्भीरस्य ।
गरलम् गिरति जीवम् । ‘गृ निगरणे’ (तु० प० से०) । अच् (३.१.१३४) । गरं लाति । ‘ला दाने’ (अ० प० अ०) । कः (३.२.३) । भावपरत्वं गरशब्दस्य । गिरतेबहुलकादलच् वा । ‘गरलं पन्नगविषे तृणपूलकमानयोः’ इति हैमः ।
गरी गृणाति। ‘गॄ शब्दे’ (क्र्या० प० से०) । पचाद्यच् । (गौरादिः) (४.१.४१) । ‘गरी खरायां करणे क्लीबं नागविषे विषे’ ॥ खरं विषमागिरति । मूषकविषघ्नत्वात् । ‘खरागरी’ इत्येकमाहुः ॥ -गरामागिरति । ‘गरागरी’ इति तु स्वामी ॥ तदुक्तम् - ‘जीमूतको देवतो वृन्तकोशो गरागरी’ इति ॥
गरुडः गरुद्भिर्डयते । ‘डीङ् विहायसा गतौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । पृषोदरादित्वात् (६.३.१०९) तलोपः ।।
गरुडध्वजः गरुडो ध्वजश्चिह्नमस्या ॥
गरुडाग्रजः गरुडस्याग्रजः ।
गरुत् गरुदिति । गिरति । ‘गॄ निगरणे’ (तु० प० से०) । यद्वा गृणाति । ‘गृ शब्दे’ (क्र्या० प० से०) । ‘मृग्रोरुतिः’ (उ० १.९४) ॥
गरुत्मान् गरुत्मानिति । गरुतः पक्षाः सन्त्यस्य । मतुप् (५.२.९४) । यवादित्वात् (८.२.९) ‘झयः’ (८.२.१०) इति वत्वं न ।
गरुत्मान् गरुतः पक्षाः सन्त्यस्य । मतुप् (५.२.९४) । ‘झयः’ (८.२.१०) इति वत्वं तु न । यवादित्वात् (८.२.९) ‘तसौ मत्वर्थे’ (१.४.१९) इति भत्वम् ॥
गर्गरी -‘गर्ग’ इति शब्दं राति । ‘आतः-’ (३. २.३) इति कः । गौरादिः (४.१.४१) गिरति वा । ‘गॄ निगरणे’ (तु० प० से०) । बाहुलकाद्गरट् ॥
गर्जितः गर्जयति । ‘गर्ज शब्दे’ (चु० प० से०) । अकर्मकत्वात् (३.४.७२) । कर्तरि क्तः । गर्जो जातोऽस्य । तारकादित्वात् (५.२.३६) इतच् । ‘गर्जितं वारिवाहादिध्वनौ ना मत्तकुञ्जरे’ इति विश्वमेदिन्यौ ॥
गर्जितम् “‘गर्ज शब्दे’ (भ्वा०, चु० प० से०) । ‘रस शब्दे’ (भ्वा० प० से०) । ‘एभ्यो भावे क्तः’ (३.३.११४) ।”
गर्तः गर्तेति। गिरति ‘गृ निगरणे’ (तु० प० से०) । ‘हसिमृग (उ० ३.८६) इति तन् । स्त्रियां टाप् (४.१.५) ‘शरट कृसर-गर्त-श्रृङ्गाः’ इति स्त्रीपुंसप्रकरणे रभसात् । ‘गर्तोऽवटे कुकुन्दरे । त्रिगर्तांशे’ इति हैमः ।
गर्दभः “गर्दति । ‘गर्द शब्दे’ (भ्वा० प० से०) । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । ‘गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे, गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः’ इति विश्वः (मेदिनी) ॥”
गर्दभाण्डः गर्देति । ‘गर्दभो गन्धभिद्यपि । गर्दभममिति । ‘अम गत्यादिषु (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) ॥
गर्भः गर्भ इति । गीर्यते उदीर्यते शब्द्यते वा । ‘गॄ निगरणे’ (तु० प० से०) । ‘गॄ शब्दे’ (क्र्या० प० से०) वा । ‘अर्तिगभ्यां भन्’ (उ० ३.१५२) । ‘गर्भो भ्रूणेऽर्भके कुक्षौ संधौ पनसकण्टके’ इति विश्वमेदिन्यौ ॥
गर्भकः केशेति । गर्भ इव । ‘इवे-’ (५.३.९६) इति कन् ॥
गर्भागारम् गर्भेति । गर्भ इवागारम् ॥
गर्भाशयः गर्भेति । गर्भ आशेते अत्र । ‘पुंसि-’ (३.३.११८) इति घः ॥
गर्भिणी गर्भोऽस्त्यस्याः । इनिः (५.२.११५) ॥
गर्भोपघातिनी गर्भमुपहन्ति । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः ॥
गर्मुत् गिरति गीर्यते वा । ‘गॄ निगरणे’ (तु० प० से०) । ‘ग्रो मुट् च’ (उ० १.९५) इत्युतिः ॥
गर्वः गर्व इति । ‘गर्व माने (चु० अ० से०) । घञ् (३.३.१८) ।
गर्हणम् ‘गर्ह गल्ह कुत्सायाम्’ (भ्वा० आ० से०) । ल्युट् (३.३.११५) ॥
गलः गिलति । ‘गॄ निगरणे’ (तु० प० से०) । अच् (३.१.१३४) । ‘अचि विभाषा’ (८.२.२१) इति वा लः । गीर्यतेऽनेन । ‘पुंसि-’ (३.३.११८) इति घः । यद्वा गलति । ‘गल अदने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘गलः कण्ठे सर्जरसे’ (इति मेदिनी) ॥
गलकम्बलः गलस्य । कम्बलः । ‘कम्बलो नागराजे स्यात्सास्नाप्रावारयोः कृमौ । (कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम्)’ इति विश्वः ॥
गलन्तिका गलति । ‘गल अदने’ (भ्वा० प० से०) । शता (३.२.१२४) । ‘उगितश्च’ इति ङीप् । (४.१.६) । ‘शप्श्यनोः-’ (७.१.८१) इति नुम् स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥
गलोद्देशः गलस्योद्देशः समीपभागः ॥‘घण्टाबन्धसमीपस्थो निगालः कीर्तितो बुधैः । तस्मिन्नेव मणिर्नाम रोमजः शुभकृन्मतः’ इत्यश्वशास्त्रम् ॥
गवयः गवते । ‘गुङ शब्दे’ (भ्वा० आ० अ०) । बाहुलकादयः । यद्वा गवनम् । ‘ऋदोरप्’ (३.३.५७) गवं गवेन वा याति । मूलविभूजादिकः (वा० ३.२.५) ।
गवलम् गवलम् ।
गवाक्षः गवामक्षीव । ‘अक्ष्णोऽदर्शनात्’ (५.४.७६) इत्यच् । गावो जलानि किरणा वाक्षन्ति व्याप्नुवन्ति एनमनेन वा । ‘अक्षू व्याप्तौ (भ्वा० प० से०) । अकर्तर्यर्थे घञ् (३.३.१९) । यत्तु ‘इन्द्राक्षयोः समासे च’ इत्यवङ् इति स्वामिनोक्तम् । तन्न । एतद्वचनस्यादर्शनात् । ’गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥
गवाक्षी गां भूमिमक्ष्णोति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ’ इति हैमः ॥
गवीश्वरः द्वाविति । गवामीश्वरः ॥
गवेधुः स्त्रीति । गवा जलेन तत्र वा एधते । ‘एध वृद्धौ’ (भ्वा० आ० से०) । मृगय्वादित्वात् (उ० १.३७) कुः ॥
गवेधुका स्वार्थे कन् (ज्ञापि० ५.४.५) ।-गवे गवार्थं दीयते रक्ष्यतेऽसौ । ‘देङ् रक्षणे’ (भ्वा० आ० अ०) । मृगय्वादित्वात् (उ० १.३७) कुः । नैरुक्तो दकारस्य डः । ‘तत्पुरुषे कृति-’ (६.३.१३) इत्यलुक् । ‘गवेडुः’–इत्याह मुकुटः ॥
गवेषणा ‘गवेष मार्गणे’ । चुरादिण्यन्ताद्युच् (३.३.१०७) ॥
गव्यम् गेति । गोरिदम् । ‘गोपयसोर्यत्’ (४.३.१६०) । ‘वान्तो यि प्रत्यये’ (६.१.७९) । ‘गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् । गोसमूहे त्रिलिङ्गं तु गोदुग्धादौ च गोहिते’ इति (मेदिनी) ॥
गव्या गेति । गवां संहतिः । ‘खलगोरथात्’ (४.२.५०) इति यः ॥
गव्यूतिः गव्यूतिरिति । ‘गोर्यूतौ छन्दस्युपसंख्यानम्’ ‘अध्वपरिमाणे च’ (वा० ६.१.७९) इत्यवादेशः । धन्वन्तरसहस्रं तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तत् इति वाचस्पतिः । ‘धनुर्हस्तचतुष्टयम्’ ‘द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः’ इति शब्दार्णवः ॥
गहनम् गाह्यते । ‘गाहू विलोडने’ (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि’ (उ २.७८) इति युच् । ‘कृच्छ्रगहनयोः’ (७.२.२२) इति निर्देशाद्ध्रस्वः । ‘गहनं वनदुःखयोः । गहरे कलिले चापि’ इति हैमः ।
गह्वरम् गाह्यते । ‘गाहू विलोडने’ (भ्वा० आ० से०) । ‘छित्वरछत्वर-’ (उ० ३.१) इति ष्वरजन्तं निपात्यते । (‘अथ गह्वरम् । गुहागहनदम्भेषु निकुञ्जे तु पुमानयम्’) ॥ केचित्तु ‘देवखाते बिलं गुहा’ इति काल्यात् ‘गङ्गरं बिलदम्भयोः इति शाश्वताच्च (बिलं रन्ध्रे गुहायां च’ इति हैमतश्च) चत्वारि नामानि–इत्याहुः ।
गाङ्गेयम् गङ्गाया अपत्यम् । शुभ्रादित्वात् (४.१.१२३) ढक् । ‘यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्बं पर्वते न्यस्तं हिरण्यं समपद्यत’ इति वायुपुराणम् । ‘गाङ्गेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकसेरुणोः’ (इति मेदिनी) ॥
गाङ्गेरुकी गेति । गाङ्गं जलमीरयति । ‘ईर गतौ क्षेपणे च’ (अ० आ० से०) । ‘मृगय्वादयश्च’ (उ० १.३७) इति साधुः । कन् (५.३.७५) । गौरादिः (४.१.४१) ॥
गाढम् गाढमुद्गाढवत् ।।
गाणिक्यम् गेति । गणिकानां समूहः । ‘गणिकायाश्च यञ् वाच्यः’ (वा० ४.२.४०) ॥
गाण्डिवः केति । कपिर्हनुमान् ध्वजो ध्वजे वा यस्य । गाण्डिर्ग्रन्थिरस्यास्ति । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् । ‘गाण्ड्यजगात्-’ (५.२.११०) इति वः । अत्र संहितया- ह्रस्वदीर्घयोर्ग्रहः । ‘जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डिवं तथा’ इति शाश्वतः । कोदण्डे धनुर्मात्रेऽपि ॥
गाण्डीवः केति । कपिर्हनुमान् ध्वजो ध्वजे वा यस्य । गाण्डिर्ग्रन्थिरस्यास्ति । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् । ‘गाण्ड्यजगात्-’ (५.२.११०) इति वः । अत्र संहितया- ह्रस्वदीर्घयोर्ग्रहः । ‘जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डिवं तथा’ इति शाश्वतः । कोदण्डे धनुर्मात्रेऽपि ॥
गात्रम् गाते । ‘गाङ् गतौ’ (अ० आ० अ०) । ष्ट्रन् (उ० ४.१५९) इति वा । ‘बहुलं तणि’ (वा० २.४५४) इति इणो गा । ‘गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे’ इति विश्वमेदिन्यौ ॥
गात्रम् द्वाविति । पूर्वा च पश्चाच्च पूर्वपश्चाच्च ते जङ्घे च । पूर्वपश्चाज्जङ्घे आदी यस्य सः । पूर्वपश्चादिश्चासौ देशश्च । पूर्वजङ्गाभागो गात्रम् । पश्चाज्जङ्घाभागोऽवरम् । गातेऽनेन । ‘गाङ् गतौ’ (अ० आ० अ०) । यद्वा एत्यनेन । ‘इण् गतौ’ (अ० प० अ०) । ‘बहुलं तणि’ (वा० २.४.५४) इति गादेशः । ष्ट्रन् (उ० ४.१५९) । ‘गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे’ (इति मेदिनी) ॥
गात्रानुलेपनः गेति । गात्रमनुलिप्यते यया । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
गानम् गीतमिति । गीयते । भावे क्तः (३.३.११४) । -ल्युटौ (३.३.११५) । ‘गीतं शब्दितगानयोः’ इति हैमः
गान्धारः गन्धारदेशे भवः । अण् (४.३.५३) । ‘गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे’ इति हैमः ॥
गायत्री गायेति । गायन्तं त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘गायत्री खदिरे स्त्री स्यात्’ इति रभसः । ‘गायत्री त्रिपदादेवीछन्दोभित्खदिरेषु च’ ॥ ‘वह्रिगायत्रिणां तथा’ इति वैद्यकान्नान्तोऽपि । व्रीह्यादित्वात् (५.२.११६) इनिः ॥
गायत्री गेति । गायन्तं त्रायते । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) । यद्वा गानम् । गायः । घञ् (३.३.१८) । युक् (७.३.३३) । गायेन गानेन त्रायते । ‘त्रैड् पालने’ (भ्वा० आ० अ०) । ‘सुपि’ (३.२.४) इति योगविभागात् कः । मूलविभुजादित्वकल्पनमपार्थकम् । तस्यानाकारान्तार्थत्वात् । ‘गायत्री त्रिपदादेवीछन्दोभिखदिरेषु च’ (इति मेदिनी) ॥ षडक्षरपदा गायत्री । प्रमुखपदेन उष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्यतिजगतीशक्वरीत्यादि एकाक्षरवृद्ध्या बोध्यम् ॥
गारुत्मतम् गेति । गरुत्मतो जातत्वात् ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥
गार्भिणम् गर्भिणीनां समूहः । ‘भिक्षादिभ्योऽण्’ (४.२.३८) । ‘भस्याढे तद्धिते’ (वा० ६.३.३५) इति पुंवद्भावः । ‘नस्तद्धिते’ (६.४.१४४) इति टेर्लोपे प्राप्ते ‘इनण्यनपत्ये’ (६.४.१६४) इति प्रकृतिभावः ॥
गार्हपत्यः गृहपतिना संयुक्तः । ‘गृहपतिना संयुक्ते ञ्यः’ (४.४.९०) ॥
गालवः गालेति । गालवस्यापत्यम् । ‘ऋष्यन्धक-’ (४.१.११४) इत्यण् । गालं नेत्रस्रवं वायति । ‘ओवै शोषणे’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति को वा । ‘गालवो मुनिभेदे स्याल्लोध्रवृक्षे च कीर्तितः ॥
गिरिः गिरति । ‘गृ निगरणे’ (तु० प० से०) । बाहुलकात्किः । ॠत इद्धातोः’ (७.१.१००) । गिरिः पूज्येऽक्षिरुजिकन्दुके । शैले गैरेयके गीर्णावपि’ इति हैमः ॥
गिरिकर्णी गिरिर्बालमूषिका कर्णोऽस्याः । तत्कर्णतुल्यपत्रत्वात् ॥
गिरिका गिरीति । गिरति । ‘कॄगॄपॄकुटि-’ (उ० ४.१४३) इति इः किच्च । ‘ॠत इत्-’ (७.१.१००) संज्ञायां कन् (५.३.७५) ।
गिरिजम् गिरौ जातम् । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘सप्तम्यां जनेर्डः’ (३.२.९७) । (‘गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे । लोहेऽपि गिरिजा गौरीमातुलुङ्गयोश्च योषिति’ इति मेदिनी) ॥
गिरिजम् गिरेर्जातम् । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः । गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे । लोहेऽपि गिरिजा गौरीमातुलुङ्ग्योश्च योषिति’ (इति मेदिनी)॥
गिरिमल्लिका गिरिमल्लीव । इवार्थे कन् (५.३.९६) ॥
गिरिशः “गिरिराश्रयत्वेनास्यास्ति । लोमादित्वात् (५.२.१००) शः । स्वामी तु ‘गिरिं श्यति उपभोगेन तनूकरोति, गिरौ शेते वा । गिरौ डश्छन्दसि (वा० ३.२.१५) । लोके तु ‘आशुशुक्षणिवत्’ इत्याह ॥”
गिरीशः गिरेरीशः । (गिरीशोऽद्रिपतौ वाचस्पतिशंकरयोः पुमान्’) ।
गीः गृणन्त्येताम् । ‘गॄ शब्दे’ (क्र्या० प० से०) । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । ‘गीः स्त्री भाषा सरस्वत्योः’)। भागुरिमते गिरापि । ब्रह्माणी वचनं वाचा जल्पितं गदितं गिरा’ इति शब्दार्णवः ।
गीःपतिः गिरां पतिः । अहरादीनां-’ (वा० ८.२.७०) इति वा रेफः । पक्षे । विसर्गोपध्मानीयौ । कस्कादित्वात्(८.३.४८) षः - इति केचित् ।
गीतम् गीतमिति । गीयते । भावे क्तः (३.३.११४) । - ल्युटौ (३.३.११५) । ‘गीतं शब्दितगानयोः’ इति हैमः ।
गीर्वाणाः गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् । दन्तोष्ठ्यपाठे गिरं वन्वते स्तुतिप्रियत्वात् । ‘वनु याचने’ (त० आ० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् ॥
गुग्गुलुः गोजति । ‘गुजँ अव्यक्ते शब्दे’ (भ्वा० प० से०) । क्विप् (३.२.१७८) । गुजो व्याधेर्गुडति । ‘गुड रक्षणे’ (तु० प० से०) । बाहुलकादुः । डलयोरेकत्वम् ॥
गुच्छः गवनम् । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । ‘सम्पदादिक्विप्’ (वा० ३.३.१०८) । तुक् (६.१.७१) । गुतं छ्यति । ‘छो छेदने (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
गुञ्जा गुञ्जति । ‘गुजि अव्यक्ते शब्दे (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘गुञ्जा तु काकचिञ्चायां पटहे च कलध्वनौ’ (इति मेदिनी) ॥
गुडपुष्पः गुड इव पुष्पमस्य ॥
गुडफलः गुड इव फलमस्य ॥
गुडा गुडति । ‘गुड वेष्टने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘गुडौ गोलेक्षु विकृती स्नुहीगुडिकयोर्गुडा’ इति रुद्रः । ‘गुडश्च स्नुहीगुडयोर्गुड ऐक्षवगोलयोः’ इत्यजयः ॥
गुडूची गुडति । ‘गुड रक्षणे’ (तु० प० से०) । बाहुलकादूचट् ॥
गुणः
- गुण्यते । ‘गुणो आमन्त्रणे’ (चु० उ० से०) । अदन्तः । ‘एरच्’ (३.३.५६) । ‘गुणो मौर्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि वट्यां च’ (इति मेदिनी) ॥
गुणः गुण्यते । ‘गुण आमन्त्रणे’ (चु० उ० से०) । घञ् (३.३.१९) । अच् वा (३.३.५६) ‘गुणो ज्यासूत्रतन्तुषु । रज्जौ सत्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे’ इति हैमः ॥
गुणवृक्षकः गुणानां रज्जूनां वृक्षः । ‘संज्ञायां कन्’ (५.३.७५) ॥ द्वे नौमध्यस्थरज्जुबन्धनकाष्ठस्य ।
गुणा गुणयते । ‘गुण निमन्त्रणे’ (चु० उ० से०) । अदन्तः । अच् (३.१.१३४) । ‘गुणो मौर्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि बुद्ध्यां च’ (इति मेदिनी) ॥
गुत्सः हारेति । यष्टीनां भेदात् हारभेदाः स्युः । गुध्यते । ‘गुध परिवेष्टने’ (दि० प० से०) । ‘उन्दिगुधिकुषिभ्यश्च’ (उ० ३.६८) इति सः कित् । बाहुलकाद्भष् भावो न । ‘गुत्सः स्यात्स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः’ इति दन्त्यान्तेषु मेदिनी । छान्तोऽपि । ‘स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः’ (इति मेदिनी) । गूयते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । बाहुलकाच्छक् ।‘द्वात्रिंशल्लतिकोगुच्छः’ ॥
गुत्सकः स्यादिति । गुध्यते ‘गुध परिवेष्टने’ (दि० प० से०) । ‘उन्दिगुधिषिभ्यश्च’ (उ० ३.६८) इति सः कित् । ‘स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः’ इति दन्त्यान्तेषु रुद्रः ॥ श्रीभोजस्तु ‘शस्यादिभ्यश्छक्’ इत्याह । स्वार्थे कन् (५.३.७५) । ‘पुष्पादिस्तबके गुच्छो मुक्ताहारकलापयोः’ इति चवर्गान्ते रन्तिदेवः ॥
गुत्सार्धः ‘गुच्छार्धस्तत्त्वसंख्यकः’ । गुत्स्य गुत्स्यार्धः । समप्रविभागाभावात् पुंस्त्वम् । चतुर्विंशतियष्टिको हारो गुत्सार्धः ॥
गुधम् ग्विति । गोदते । ‘गुद क्रीडायाम्’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ।- गुद्यति इति मुकुटस्य प्रमादः । यद्वा गूयतेऽनेन ‘गु पुरीषोत्सर्गे’ (तु० प० अ०) । गवते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) वा । ‘अब्दादयश्च’ (उ० ४.९८) इति साधु । -‘गुदादयः’ -इति मुकुटस्त्वपाणिनीयत्वादुपेक्ष्यः ॥
गुन्द्रः ग्विति । गोदते । ‘गुद क्रीडायाम्’ (भ्वा० आ० से०) । बाहुलकाद्रक् । पृषोदरादिः (६.३.१०९) । ‘गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके’ (इति मेदिनी) ॥
गुन्द्रा गां जलं द्राति। ‘द्रा गतौ’ (अ० प० अ०) ‘आतोऽनुप-’ १ २.३) इति कः । पृषोदरादिः (६.३.१०९) । ‘गुंद्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके’ (इति मेदिनी) ॥
गुन्द्रा गुन्द्रयति । ‘गुद्रि क्षोदे’ । अच् (३.१.१३४) । ‘गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके’ ॥
गुरुः गृणाति उपदिशति । ‘गॄ शब्दे’ (क्र्या० प० से०) । ‘कृग्रोरुच्च’ (उ० १.२४) इति कुः उश्चान्तादेशः (रपरः) । ‘गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके । अलघौ दुर्जरे चापि’ इति हैमः ।
गुरुः अथेति । सोऽध्यापकः । निषेको गर्भाधानमादिर्यस्य सीमन्तोन्नयनादेस्तस्य कर्ता । गृणाति धर्मादि । गिरत्यज्ञानं वा । ‘गॄ शब्दे(क्र्या० प० से०) । गॄ निगरणे’ (तु० प० से०) वा । कृग्रोरुच्च (उ० १.२४) इत्युः । ‘गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि । पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि’ (इति मेदिनी) । मनुश्च (२.१४२) निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥
गुर्विणी ‘गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि’ (इति मेदिनी) । गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः । व्रीह्यादीनिः (५.२.११६) । संज्ञापूर्वकत्वान्न गुणः (६.४.१४६) । यद्वा गर्वति । ‘गर्वेरत उच्च’ (उ० २.५४) इतीनन् । गौरादिः (४.१.४१) ॥
गुल्फः “गलति, गल्यते वा । ‘गल अदने’ (भ्वा० प० से०) । ‘कलिगलिभ्यां फगस्योच्च’ (उ० ५.२६) इति फक् । अत उत्वं च ॥”
गुल्मः “गुडति। ‘गुड रक्षायाम् (तु० प० से०) । बाहुलकान्मन् । डलयोरैक्यम् । ‘गुल्मः सेनाघट्टभिदोः सैन्य रक्षणरुग्भिदोः । स्तम्बे, स्त्रियामामलक्येलावनी वस्त्रवेश्मसु ।”
गुल्मः ग्विति । गुड्यतेऽस्मात् ‘गुड रक्षायाम्’ (तु० प० से०) । मक् । ‘भीमादयोऽपादाने’ (३.४.७४) ॥
गुल्मः “गुडति, गुड्यते, वा । ‘गुड रक्षायाम्’ (तु० प० से०) । बाहुलकान्मः । डलयोरेकत्वम् । ‘गुल्मः सेनाघट्टभिदोः सेनारक्षणरुग्भिदोः । स्तम्बेऽस्त्रियामामलक्येलावली वस्त्रवेश्मसु’ (इति मेदिनी) ॥”
गुल्मिनी गुल्मः प्रतानोऽस्त्यस्याः । ‘अत इनि-’ (५.१.११५) वा ।
गुवाकः गुवन्त्यनेन । स्रंसकत्वात् । ‘गुपुरीषोत्सर्गे (तु० प० अ०) । ‘पिनाकादयश्च’ (उ० ४.१५) इति साधुः । यत्तु मुकुट – बाहुलकाद्गुणाभाव इति । तन्न । अस्य कुटादित्वात् ॥ गुवाकोऽपि च गूवाकः’ इति तारपालः । तत्र बाहुलकाद्दीर्घः ॥
गुहः गूहति रक्षति सेनाम् । ‘गुहू संवरणे’ (भ्वा० उ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘गुहः षाण्मातुरे गुहा । सिंहपुच्छय्यां च गर्ते च पर्वतादेश्च कंदरे ॥
गुहा गूहति । ‘गुहू संवरणे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यत्तु-गुह्यतेऽनया । भिदाद्यङ् (३.३.१०४) इति मुकुटः । तन्न । अजब्भ्याम्’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । `गुहः षाण्मातुरे गुहा । सिंहपुच्छ्यां च गर्ते च पर्वतादेश्च गह्वरे’ ॥
गुहा गूहति । ‘गुहू संवरणे’ (भ्वा० उ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
गुह्मकेश्वरः गुह्यं कायति । ‘आतोऽनुप-’(३.२.३) इति कः । गुह्यकानामीश्वरः ।
गुह्यकः गूहति निधिं रक्षति । ‘गुहू संवरणे’ (भ्वा० उ० से०) ‘ण्वुल्’ (३.१.१३३) । पृषोदरादित्वाद्यगागमः । तथा च व्याडिः-‘निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः’ इति । यद्वा गुह्यं कुत्सितं कायति । ‘कै शब्दे’ (भ्वा० प० अ०) ‘आतोऽनुपसर्गे कः’ (३.२.३) गुह्यं गोपनीयं कं सुखं यस्येति वा । अनयोः पक्षयो; ‘शंसिदुहिगुहिभ्यो वा’ (वा० ३.१.१०९) इति काशिकाकारवचनाद्गुहेः क्यप् । तत्र दुहिगुह्योर्ग्रहणं निर्मूलमिति भट्टोजीदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥
गूढपाद् गूढाः पादा अस्य । पृषोदरादिः (६.३.१०९) । ‘पादानामपि विज्ञेये द्वे शते द्वे च विंशती’ इत्यागमः । यद्वा गूढं पादयति । ‘पद गतौ (दि० आ० अ०) । ण्यन्तात् (३.१.२६) क्विप् (३.२.१७८) ।
गूढपुरुषः गूढश्चासौ पुरुषश्च ॥
गूथम् गूयते । ‘गुङ् शब्दे’ (भ्वा आ० अ०) । ‘गु पुरीषोत्सर्गे’ (तु० प० अ०) वा । ‘तिथपृष्ठगूथ-’ (उ० २.१२) इति साधुः ॥
गृञ्जनम् “गृञ्जते = भक्ष्यत्वेन कथ्यते रोगेषु । ‘गृजि शब्दे’ (भ्वा० प० से०) । कर्मणि ल्युट् । ‘गृञ्जनम् । विषदिग्धपशोर्मांसे क्लीबं, पुंसि रसोनके’ (इति मेदिनी) । ‘लशुनं गृञ्जनं चैव पलाण्डुकवकानि च । वृत्ताकारालिकालाबुजातीया जातिदूषितम्” इति । श्वेतकन्दः पलाण्डुविशेषो गृञ्जनम् । लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्च लतार्कश्चापराजिता । गृञ्जनं यवनेष्टश्च पलाण्डोर्दश जातयः इति सुश्रुतेनोक्तत्वात् । ‘गन्धाकृतिरसैस्तुल्यो गृञ्जनस्तु पलाण्डुना । दीर्घनालाग्रपत्रत्वात् भिद्यतेऽसौ पलाण्डुतः ॥”
गृध्रः गृध्यति । ‘गृधु अभिकाङ्क्षायाम्’ (दि० प० से०) । ‘सुसूधाञ्गृधिभ्यः क्रन्’ (उ० २.२४) । ‘गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु लुब्धके’ (इति मेदिनी) । -गर्धते-इति मुकुटश्चिन्त्यः । गृधेर्दैवादिक- त्वात् ॥
गृष्टिः गृह्णाति । क्तिच् (३.३.१७४) । पृषोदरादिः (६.३.१०९) । यत्तु–‘गर्षति | हिनस्ति रोगम्’ ‘गृषु हिंसायाम्’ । क्तिन् (३.३.९४)-इति व्याख्यातं मुकुटेन । तन्न । उक्तधातोरदर्शनात् । कर्तरि क्तिनोऽसम्भवाच्च । ‘अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम्’ । (इति मेदिनी) ॥ ‘घृष्टिः’ इति पाठान्तरम् । घर्षति । ‘घृषु संघर्षे (भ्वा० प० से०) । क्तिच् (३.३.१७४) । ‘घृष्टिः स्त्री घर्षणस्पर्धाविष्णुक्रान्तासु ना किरौ’ (इति मेदिनी) ।
गृहः गृहशब्दो भूम्न्येव पुंसि । चात् क्लीबे ॥
गृहगोधिका अल्पा गोधा । ‘अल्पे (५.३.८५) इति कन् । गृहस्य गोधिका । ‘ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिका’ इति साहसाङ्कः । ‘गृहगोलिका’ इति पाठः सभ्यः इति स्वामी ॥
गृहपतिः गृहस्य पतिः ॥
गृहम् गृहमिति । गृह्णाति । ‘ग्रह उपादाने (क्र्या० उ० से०) । ‘गेहे कः’ (३.१.१४४) । (‘गृहं गृहाश्च पुम्भूम्नि कलत्रेऽपि च सद्मनि’ इति मेदिनी) ॥
गृहारामाः गृहेति । गृहस्यारामाः ॥
गृहावग्रहणी गृहेति । गृहमवगृह्यतेऽनया । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । करणा-’ (३.३.११७) इति ल्युट् ॥
गृहिन् गृहा दाराः सन्त्यस्य । इनिः (५.२.११५) ॥
गृह्मकः “गृह्यते । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । ‘पदास्वैरिबाह्यापक्ष्येषु च’ (३.१.११९) इति क्यप् । ‘गृह्यं गुदे ग्रन्थभेदे क्लीबं, शाखापुरे स्त्रियाम्, । गृहासक्तमृगादौ ना, त्रिषु चास्वैरिपक्ष्ययोः’ (इति मेदिनी) । ततोऽनुकम्पायां कन् (५.३.७६) । ‘गृह्यको निघ्नके छेके’ (इति मेदिनी) ॥”
गेन्दुकः “गयिति । गाते । ‘गाङ् गतौ’ (अ० आ० अ०) । विच् (३.२.७५) । गा गच्छन्निन्दुरिव । ‘इवे’ (५.३.९६) इति कन् । गे गगने इन्दुरिव, इति वा ॥”
गेपरसः “रसयति, रस्यते, अनेन वा । ‘रस आस्वादने’ (चु० उ० से०) । अच् (३.१.१३४) । गोपे उत्पत्तौ रसोऽस्य । ‘गोपरसः’ इति समस्तमपि–इति स्वामी ॥”
गेहम् “गेन गणेशेन ईह्यते काम्यते । ‘ईह चेष्टायाम्’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । गो गणेशो गन्धर्वो वा ईह ईप्सितो यस्मिन्वा । ‘गेहमस्त्री, शालासभे स्त्रियाम्’ इति वाचस्पतिः ॥”
गैरिकम् गैरीति । गिरौ भवम् इति विग्रहे गिरिकशब्दादण् (४.३.५३) । अव्यविकन्यायात् । अध्यात्मादित्वात् (वा ४.३.६०) ठञ् वा । गैरिकं तु विशेषेण धातुः । धातुशब्देनैव प्रसिद्धत्वात् गैरिकं धातुरुक्मयोः’ ॥
गैरेयम् गैरयिति । गिरौ भवम् । ‘नद्यादिभ्यः-’ (४.२.९७) इति ढक् ॥
गोकण्टकः गोर्धेनोः पृथिव्या वा कण्टकः । ‘गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे’ (इति मेदिनी) ॥
गोकर्णः गोरिव कर्णावस्य । ‘गोकर्णेऽश्वतरे सर्पे सारङ्गे च गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ’ इति मेदिनी ॥
गोकर्णः गोः कर्ण इव । गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ’ (इति विश्वः) ॥
गोकर्णी “गोः कर्ण इव, गौः कर्णो यस्याः, इति वा । ‘पाककर्ण-’ (४.१.५४) इति ङीष् । ‘गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पगणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ’ इति विश्वः ॥”
गोकुलम् गविति । गवां कुलम् ॥
गोक्षुरकः क्षुरति । ‘क्षुर विलेखने’ (तु० प० से०) । ‘इगपध-’ (३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) । गोर्गौर्वा क्षुरकः ॥
गोजिह्वा गोजीति । गोजिह्वेव ॥
गोडुम्बा गां भुवं तुम्बति । ‘तुबि अर्दने’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । टाप् (४.१.४) । पृषोदरादिः (६.३.१०९) । मुकुटस्तु-गां डुम्बयति । ‘डुबि अर्दने’ । अण् (३.२.१) – इत्याह । तन्न । धातुपाठेषु डुबिधातोरदर्शनात् । अणि ङीप्रसङ्गाच्च ॥
गोत्रः “गां त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतः (३.२.३) इति कः । ‘गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्ये बोधवर्त्मनोः । वने नाम्नि च, गोत्रोऽद्रौ, गोत्रा भुवि गवां गणे’ इति हैमः ।”
गोत्रभिद् गोत्रान् गिरीन् भिनत्ति । ‘सत्सूद्विष-’(३.२.६१) इति भिदेः क्विप् ।
गोत्रम् गूयते । ‘गुड् शब्दे’ (भ्वा० प० से०) । ष्ट्रन् (उ० ४.१४५) । ‘गोत्रा भूगव्यगोगोंत्रः शैले गोत्रं कुलाख्ययोः । सम्भावनीयबोधे च काननक्षेत्रवर्मसु । (इति मेदिनो) ॥
गोत्रा गोत्राः शैलाः सन्त्यस्याम् । अर्शआद्यच् (५.२.१२७) । गां जलं त्रायते वा । ‘त्रैड् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
गोत्रा ‘इनित्रकट्यचश्च’ (४.१.५१) इति त्रः ॥
गोदारणम् गां भूमिं दारयति । ल्युट् (३.३.११३) । गौभूमिर्दार्यतेऽनेन । करणे ल्युट् (३.३.११७) । नन्द्यादि (३.१.१३३) ल्युर्वा मुकुटः । तन्न । ल्योः कर्तरि विधानात्करणेऽसम्भवात् ॥
गोदुक् सुधाव्याख्या – गोदुक् ।
गोधनम् गवां धनं समूहः । ‘गोकुले धनगोधने’ इति व्याडिः ॥
गोधा गविति । गुध्येते बाहुभ्याम् । ‘गुध परिवेष्टने’ (दि० प० से०) ‘हलश्च’ (३.३.१२१) इति घञ् । गोधा तलनिहाकयोः’ (इति मेदिनी) ॥
गोधापदी गोधेति । गोधाया इव पादो मूलमस्याः । ‘कुम्भपदीषु च (५.४.१३९) इति साधुः ॥
गोधिः गुध्यते । ‘गुध परिवेष्टने’ (दि० प० से०) । इन् (उ० ४.११८) । गावौ नेत्रे धीयते यस्मिन् । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किर्वा । पुंस्ययम् । ‘गोधिभालौ महाशङ्खः’ इति त्रिकाण्डशेषात् ॥
गोधिका गुध्यति । गुध परिवेष्टने’ (दि० प० से०) । ण्वुल् (३.१.१३३) । (पचाद्यचि) (३.१.१३४) गोधापि । ‘गोधा तलनिहाकयोः’ ॥ द्वे गोह जलगोधिका इति ख्यातायाः ।
गोधूमः “गविति । गुध्यति, गुध्यते, वा । ‘गुध परिवेष्टने’ (दि० प० से०) । ‘गुधेरूमः’ (उ० ५.२) । ‘गोधूमो नागरङ्गे यादोषधिव्रीहिभेदयोः’ (इति मेदिनी) ॥”
गोनर्दम् गां जलं नर्दयति । ‘नर्द शब्दे’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
गोनसः “अथेति । गोरिव नासिका यस्य । ‘अञ्नासिकायाः’ (५.४.११८) इत्यच्, नसादेशः । गोनासोऽप्यत्र । गोनासगोनसौ । । इति त्रिकाण्डशेषात् ।”
गोपः गविति । गोपायति । ‘गुपू रक्षणे’ (भ्वा० प० से०) । आयादय आर्धधातुके वा’ (३.१.३१) । अच् (३.१.१३४) । ‘गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौधाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम्’ (इति मेदिनी) ॥
गोपः गविति । गां पाति । ‘पा रक्षणे’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि सारिवाख्यौषधौ स्त्रियाम्’ इति विश्वः (मेदिनी) ॥
गोपतिः गवां पतिः ॥
गोपानसी गोपेति । ‘गोपायति । ‘गुपू रक्षणे’ (भ्वा० प० से०) बाहुलकान्नसट् प्रत्ययः । अल्लोप (६.४.४८) यलोपौ (६.१.६६) । यद्वा गवां गोभिर्वा पानं गोपानं किरणानां किरणैर्वा शोषणम् । तत् स्यति निवर्तयति । ’षो अन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप्-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥
गोपी गोपीति । गोपायति । ‘गुपू रक्षणे’ (भ्वा० प० से०) । आयाभावे पचाद्यच् (३.१.१३४) । गौरादिङीष् (४.१.४१) ॥ केचित्तु अजादित्वात् (४.१.४) टापमाहुः । ‘गोपी श्यामा गोपवल्ली गोपा गोपालिका च सा’ इति वाचस्पतिः ॥
गोपुरम् गोपायति । गुपू रक्षणे’ (भ्वा० प० से०) । बाहुलकादुरच् । यद्वा पोलति । पुल महत्त्वे’ (भ्वा० प० से०) । इगुपधत्वात्कः (३.१.१३५) ॥ रलयोरभेदः । गोभिः पुरम् । गाः पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । ण्यर्थः । ‘मूलविभुजा- (वा० ३.२.५) इति कः ॥
गोपुरम् “गां जलं पिपर्ति। ‘पृ पालने’ (जु० प० से०) । मूलविभुजादिः (३.२.५) । गौर्जलं पुरमस्य, इति वा ॥”
गोप्यकः
- गुप्यते । ‘गुपू रक्षणे’ (भ्वा० प० से०) । ण्यत् (३.१.१२४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । गोप्यं कायति वा । ‘कै शब्दे’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
गोमत् बहवो गावोऽस्य । भूम्नि मतुप् (५.२.९४) ॥
गोमयम् गोः पुरीषम् । ‘गोश्चपुरीषे’ (४.३.१४५) इति मयट् ॥
गोमायुः गां विकृतां वाचं मिनोति । ‘डुमिन् प्रक्षेपणे’ (स्वा० उ० से०) । ‘कृवापा-’ (उ० १.१) इत्युण् ॥
गोमी ‘ज्योत्स्ना -’ (५.२.११४) इति मिनिश्च ॥
गोरसः गोरसस्य दुग्धस्य विकारत्वादुपचारात् ॥
गोर्दम् गूर्यते । गुरते वा । ‘गुरी उद्यमने’ (तु० आ० से०) । ‘अब्दादयः’ (उ० ४.९८) इति साधुः ॥
गोलकः म्रिति । ‘जारजः’ इत्येव । गुड्यते । ‘गुड रक्षायाम्’ (तु० प० से०) । घञ् (३.३.१९) । स्वार्थे कन् (ज्ञा० ५.४.५) । ‘गोलको विधवापुत्रे जारात् स्यान्मणिके गुडे’ (इति मेदिनी) ॥
गोला गां दीप्तिं लाति । कः (३.२.३) । गुड्यते वा । ‘गुड वेष्टने’ (तु० प० से०) । घञ् (३.३.१९) । डलयोरैक्यम् । ‘गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् । पात्त्राञ्जने मण्डने चालिञ्जरे वालखेलने’ ‘चला लक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत्-’ (इति मेदिनी) ॥
गोलीढः गोलीति । गोभिर्लिह्यते स्म । ‘लिह आस्वादने (अ० उ० अ०) । क्तः (३.२.१०२) ॥
गोलोमी गौर्लोमास्याः । गोशब्दो गोलोमसदृशे लाक्षणिकः । अच् (५.४.७५) योगविभागात् समासान्तः । गौरादिङीष् (४.१.४१) । ‘गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः’ (इति मेदिनी) ।
गोलोमी अथेति । सा दूर्वा । सिता शुक्ला । गोलोमसु जाता । ‘तत्र जातः’ (४.३.२५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । ‘गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः’ (इति मेदिनी) ॥
गोलोमी गविति । गोलोम्नामियम् । अण् (४.३.१२०) । संज्ञापूर्वकत्वाद्वृद्ध्यभावोऽपि । ‘गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः’ इति विश्वः (मेदिनी) ॥
गोवन्दनी गवि भूमौ वन्द्यते । ‘वदि अभिवादनस्तुत्योः’ (भ्वा० आ० से०) । कर्मणि ल्युट् (३.३.११३) ।
गोविट् गविति । गोर्विट् ॥
गोविन्दः गां भुवं धेनुं स्वर्गं वेदं वा अविदत् । (विन्दति) । विद्लृ लाभे (तु० उ० अ०) । गवादिषु विन्देः संज्ञायाम् (वा० ३.१.१३८) इति शः । वराहरूपेणोद्धरणात् । कामधेनोगैश्वर्यप्राप्तेः । इन्द्रेण स्वर्गस्य निवेदनात् । मत्स्यादिरूपेण वेदाहरणाद्वा । (गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पतौ’) ॥
गोशीर्षम् गोः शीर्षमिव । तैलपर्णगोशीर्षो गिरी आकरावस्य इति स्वामी ॥
गोष्ठम् “गोष्ठमिति । गावस्तिष्ठन्ति यत्र । ‘घञर्थे-’ (वा० ३.३.५८) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् । ‘गोष्ठं गोस्थानके, गोष्ठी सभासंलापयोः स्त्रियाम् ॥”
गोष्ठी गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । घञर्थे कः (वा० ३.३.१०८) ।‘अम्बाम्ब-’(८.३.९७) इति षत्वम् । गौरादि ङीष् (४.१.४१) । ‘गोष्ठी सभासंलापयोः स्त्रियाम्’ (इति मेदिनी) ॥
गोसंख्यः गां सञ्चष्टे । ‘चक्षिङ् व्यक्तायां वाचि’ (अ० आ० से०) । ‘चक्षिङः ख्याञ्’ (२.४.५४) ‘समि ख्यः’ (३.२.२७) इति कः ॥
गोस्तनः ‘चतुस्त्रिंशल्लतो । हारश्चतुःसरिच्च गोस्तनः’ । गोः स्तन इव ॥
गोस्तनी गौः स्तनोऽस्याः । गोस्तनसदृशे गोशब्दो गौणः । ‘स्वाङ्गाच्चोपसर्जनात्-’ (४.१.५४) इति ङीष् । ‘गोस्तनो हारभेदे ना द्राक्षायां गोस्तनी स्त्रियाम्’ (इति मेदिनी) ॥
गोस्थानकम् गवां स्थानम् । स्वार्थे कः (५.३.७५) ॥
गौः गच्छति । ‘गमेर्डोः’ (उ० २.६७) । ‘गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च’ इति विश्वमेदिन्यौ ॥
गौः इच्छति । ‘गमेर्डोः’ (उ० २.६७) ॥
गौतमः गोतमस्यायं शिष्यः । तस्येदम्’ (४.३.१२०) इत्यण् । ‘तद्गोत्रावतारात्’ इति स्वामी । (‘गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्याम्’) ॥
गौधारः ‘आरगुदीचाम्’ (४.१.१३०) ॥
गौधेयः शुभ्रादित्वात् (४.१.१२३) ढक् ॥
गौधेरः त्रेति । गोधाया अपत्यम् । ‘गोधाया ढ्रक्’ (४.१.१२९) ॥
गौरः “गुरते उद्युङ्क्ते मनोऽस्मिन् । ‘गुरी उद्यमने’ (तु० अ० से०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति निपातितः । ‘गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे’ इति हैमः । यत्तु—गोरते’ इति स्वामी, गोरति’ इति मुकुटश्च तन्न । ‘गुरी उद्यमने’ इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- सम्भवात् ।”
गौरः “गुरते उद्युङ्क्ते मनोऽस्मिन् । ‘गुरी उद्यमने’ (तु० अ० से०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति निपातितः । ‘गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि । विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे’ इति हैमः । यत्तु—गोरते’ इति स्वामी, गोरति’ इति मुकुटश्च तन्न । ‘गुरी उद्यमने’ इति धातुमुपन्यस्योक्तरूपोपन्यासस्या- सम्भवात् ।”
गौरी गौरो वर्णोऽस्त्यस्याः । गौरादित्वात् (४.१.४१) ङीष् । (‘गौरी त्वसंजातरजः कन्या शंकरभार्ययोः रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि यादसाम्पतियोषिति) ।
गौरी गौरीति । गूयते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इत्यादिना रन्नन्तो निपातितः । गौरादित्वात् (४.१.४१) ङीष् । ‘गौरी त्वसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियंगुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोषिति’ (इति मेदिनी) ॥
गौष्ठीनम् तत्विति । पूर्वं भूतं गोष्ठम् । ‘गोष्ठात्खञ् भूतपूर्वे’ (५.२.१८) इति खञ् ।
ग्रन्थिः ग्रन्थिरिति । ग्रन्थते । ‘ग्रथि कौटिल्ये’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) ‘ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः’ (इति मेदिनी) ॥
ग्रन्थिपर्णम् “ग्रन्थीति । ग्रन्थौ पर्णान्यस्य । ग्रन्थस्य इव पर्णान्यस्य, इति वा ॥”
ग्रन्थिलः ग्रन्थिरस्यास्ति । सिध्मादित्वाल्लच् (५.२.९७) ॥
ग्रन्थिलः ग्रन्थिरस्यास्ति । सिध्मादित्वात् (५.२.९७) लच् । ग्रन्थिं लाति वा । ‘ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् । सग्रन्थौ त्रिषु’ (इति मेदिनी) ॥
ग्रस्तम् ग्रस्यते स्म । ‘ग्रसु अदने’ (भ्वा० आ० से०) । क्तः (३.२.१०२) । ‘ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते’ ॥
ग्रहः ग्रहणं ग्रहः । ‘ग्रहवृट्ट- (३.३.५८) इत्यप् । ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ।
ग्रहणीरुज् ग्रेति । गृह्णाति जठराग्निम् । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । ‘कृत्यल्युटः’ (३.३.११३) इति ल्युट् ॥
ग्रहपतिः ग्रहाणां पतिः ।
ग्रान्थिकम् ग्रेति । ग्रन्थेः प्रतिकृतिः । ‘इवे-’ (५.३.९६) इति कन् । ‘ग्रन्थिकं पिप्पलीमूले गुग्गुलुग्रन्थिपर्णयोः । करीरे पुंसि दैवज्ञे सहदेवाख्यपाण्डवे’ इति विश्वः (मेदिनी) ॥
ग्रामः ग्रसते । ‘ग्रसु अदने (भ्वा० आ० से०) । ‘ग्रसेरा च’ (उ० १.१४३) इति मन् आत्वम् । ‘ग्रामः स्वरे संवसथे’ ग्रीष्म ऊष्मर्तुभेदयोः ॥
ग्रामतक्षः
- ग्रामस्य तक्षा । ‘ग्रामकौटाभ्यां च तक्ष्णः’ (५.४.९५) इति टच् ॥
ग्रामाधीनः
- ग्रेति । ग्रामेऽधि । ‘सप्तमी’ (२.१.४०) इति समासः । ‘अषडक्ष-’ (५.४.७) इति खः ॥
ग्रामान्तम् ग्रामेति । ग्रामस्यान्तं समीपम् ।
ग्रामीणा ग्रामे भवा । ‘ग्रामाद्यखञौ’ (४.२.८४) । ‘ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत्’ (इति मेदिनी) ॥
ग्राम्यधर्मः ग्रामे भवः ।‘ग्रामाद्यखञो’ (४.२.९४) । ग्राम्याणां जनानां धर्मः ॥
ग्राम्यम् ग्राम्यमिति । ग्रामे भवम् । ‘ग्रामाद्यखञौ’ (४.२.९४) इति यत् । ’ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु ॥
ग्रावा ग्रसते । ‘ग्रसु अदने’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि (३.२.७५) इति वनिप् । पृषोदरादिः (६.३.१०९) ।
ग्रावा “गिरति, गृणाति वा । ‘गृ निगरणे’ (तु० प० से०) ‘शब्दे (क्र्या० प० से०) वा । अन्येभ्योऽपि’ (३.२.७५) इति वनिप् । पृषोदरादिः (६.३.१०९) । यद्वा गरति । ‘गृ सेके (भ्वा० प० अ०) । मूलविभुजादिः (वा० ३.२.५) । अवति । अव रक्षणादौ’ (भ्वा० प० से०) । बाहुलकात्कनिः । ग्रश्चासाववा च । ‘ग्रावा तु प्रस्तरे पृथ्वीधरे पुंसि’ इति मेदिनी ।”
ग्रासः क्षोधनम् । ‘क्षुध बुभुक्षायाम्’ (दि० प० अ०) । क्विप् (३.२.१७८) । भागुरिमते टापि ‘क्षुधा’ च ॥
ग्राहः ग्राह इति । गृह्णाति । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । ‘विभाषा ग्रहः’ (३.१.१४३) इति णः । ‘ग्राहो ग्रहे जलचरे’ इति हैमः ।
ग्राही गृह्णाति । ‘ग्रह उपादाने’ (क्र्या० प० से०) । ग्रह्यादित्वात् (३.१.१३४) णिनिः ॥
ग्रीवा अथेति । गीर्यतेऽनया । ‘शेवयह्वजिह्वाग्रीवा –’ (उ० १.१५४) इति साधुः । ‘ग्रीवे शिरोधितच्छिरे’ (इति हैमः) ॥
ग्रीष्मः “ग्रीष्म इति । ग्रसते रसान् । ‘ग्रसु अदने’ (भ्वा० आ० अ०) । आतो मक्, धातोर्ग्रीभावः षुगागमश्च ‘ग्रीष्मः (१.१४९) इत्युणादिसूत्रेण निपातितः । ‘ग्रीष्म ऊष्मर्तुभेदयोः’ ॥”
ग्रैवेयकम् ग्रैवेयेति । ग्रीवायां भवम् । ‘कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु (४.२.९६) इति ढकञ् । ‘ग्रीवाया अण् च’ (४.३.५७) इति ढञि ‘ग्रैवेयम्’ अपि इति मुकुटः ॥
ग्लहः
- ग्लह्यते अनेन । ‘ग्लहू आदाने’ (भ्वा० आ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘हलश्च’ (३.३.१२१) इति घञ् वा । संज्ञापूर्वकत्वान्न वृद्धिः । गृह्यते वा । ‘अक्षेषु ग्लहः’ (३.३.७०) इति साधुः ॥
ग्लानः ग्लेति । ग्लायति स्म । ‘ग्लै हर्षक्षये’ (भ्वा० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘संयोगादेः-’ (८.२.४३) इति नत्वम् ॥
ग्लास्नुः ग्लानशीलः । ‘ग्लाजिस्थश्च ग्स्नुः’ (३.२.१३९) ॥
ग्लौः ग्लायति । ‘ग्लै हर्षक्षये’ (भ्वा० प० अ०) । ‘ग्लानुदिभ्यां डौः’ (उ० २६४) ॥
घटः घटति । ‘घट चेष्टायाम्’ (भ्वा० आ० से०) । अच् (३.१.१३४) । स्त्रियां घटी । ‘घटाः समाधिभेदे ना शिरः कूटकुटेषु च । घटा घटन गोष्टीभघटनासु च योषिति’ (इति मेदिनी) ॥
घटना केति । घटनम् । ‘घट सङ्घाते’ चुरादिः । ‘ण्यासश्रन्थः-’ (३.३.१०७) इति युच् ॥
घटा ‘घटादयः षितः’ (भ्वा० ग० सू०) इति षित्वात् (३.३.१०३) अङ् । ‘घटः समाधिभेदेभशिरःकूटकुटेषु च । घटा घटनगोष्ठीभघटनासु च योषिति’ (इति मेदिनी) ॥
घटीयन्त्रम्
- घटीनां यन्त्रम् ॥ प्रहेः कूपात् । सलिलमुद्वाह्यतेऽनेन ।
घण्टापथः घण्टेति । घण्टोपलक्षितः पन्थाः । शाकपार्थिवादिः (वा० २.१.६९) । यद्वा घण्टानां पन्थाः । घण्टाग्रहणं वादित्राणां तद्वतां हस्त्यादीनां चोपलक्षणम् । ‘ऋक्पूर्-’ (५.४.७४) इत्यः ।
घण्टापाटलिः “अहानि । घण्टा । बाहुलकाद्धन्तेष्टो धत्वं च । ‘पट गतौ (भ्वा० प० से०) । घञ् (३.३.१८) । पाटं लाति । बाहुलकाडिः । घण्टा चासौ पाटलिश्च ॥ स्वामी तु (घण्टा, पाटलिः) इति नामद्वयमाह ॥”
घण्टारवा घण्टेति । घण्टेवारौति । अच् (३.१.१३४) ॥
घनः हन्यते वायुना । ‘मूर्तौ घनः’ (३.३.७७) इत्यप् कुत्वं च । (‘घनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्दौघदार्ढ्येषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे)
घनः हन्यतेऽनेन । ‘मूर्तौ घनः’ (३.३.८१) इत्यघनादेशौ । ‘घनः सान्द्रे दृढे दाढर्ये विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्यनृत्यवाद्यप्रकारयोः’ इति हैमः ॥
घनम् ‘कांस्यतालादिकं घनम् । कांस्येति । कांस्यमयस्तालः कांस्यतालः । आदिना घण्टादि घनं निबिडत्वा । हन्यते । ‘हन हिंसागत्योः’ (अ० प० अ०) मूर्तौ घनः’ (३.३.७७) इत्यप् घनादेशश्च । ‘घनः सान्द्रे द्रढे दार्ढ्ये विस्तारे मुद्ररेऽम्बुदे । सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रभेदयोः’ इति हैमः
घनम् हननम् । हन ‘हिंसागत्योः (अ० प० अ०) । मूर्तौ घनः’ (३.३.७७) इत्यप् घनादेशश्च । ‘सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रभेदयोः’ इति हैमः ।
घनरसः घनस्य रसः । ‘पुंलिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः’ इति रभसः । ‘नारं घनरसः पुमान्’ इति शब्दार्णवः । ‘अप्स्वपि शंव (शम्ब) । रपिप्पल कुशकमलकाण्डविषवनपयांसि । घनरसमम्बु क्षीरं घृतममृतं जीवनं भुवनम्’ इति रत्नकोषात् क्लीबमपि ।
घनसारः घनो दृढः सारोऽस्य । ‘घनः सान्द्रे दृढे दार्ढ्ये इति विश्वः । घनस्य सार इव वा । शीतत्वात् शिताभ्राकारत्वाच्च । ‘घनसारस्तु कर्पूरे दक्षिणावर्तपारदे’ इति हैमः ॥
घर्मः घर्म इति । जिघर्त्यङ्गमनेन । ‘घृ क्षरणदीप्त्योः’ (जु० प० अ०) । ‘घर्म-’ (उ० १.१४९) इति निपातितः । यत्तु ‘घरति’ इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तत्तु ‘घृ क्षरण इति धातूपन्यसनेन विरुध्यते । घरत्यङ्गमनेन वा । ‘घृ सेके’ (भ्वा० प० अ०) । ‘घर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्बुनोरपि’)
घस्रः घस्र इति । घसत्यन्धकारम् । ‘घस्लृ अदने’ (भ्वा० प० अ०) । ‘स्फायित-’ (उ० २.१३) इति रक् । ‘घस्रस्तु दिवसे हिंस्रे ॥
घाटा “घाटयति घाट्यते, वा । ‘घट सङ्गाते’ चुरादिः । अच् (३.१.१३४) घञ् (३.३.१९) वा ॥”
घाण्टिकः घण्टया चरन्ति । ठक् (४.४.८) ॥
घातः हननम् । ‘हन हिंसायाम्’ (अ० प० अ०) । घञ् (३.३.१८) । ‘हनस्तोऽचिण्णलोः’ (७.३.३२) । ‘हो हन्तेर्ञ्णिन्नेषु’ (७.३.५४) ॥
घासः घेति । अद्यते । घञ् (३.३.१९) ‘घञपोश्च’ (२.४.३८) इत्यदेर्घस्लृ - ‘घस्यते’ - इति विगृह्वन्तौ स्वामिमुकुटौ चिन्त्यौ । घसेः सर्वत्र प्रयोगाभावात् । अन्यथा ‘घञपोश्च’ (२.४.३८) इति सूत्रवैयपातात् ॥
घुटिका तदिति । तस्य पादस्य ग्रन्थी । घोटतेऽनया । ‘घुट परिवर्तने’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) ॥
घृणा घ्रियन्तेऽनया । | घृ सेचने’ (भ्वा० प० अ०) । बाहुलकान्नक् । ’घृणा तु स्याज्जुगुप्सायां करुणायाम्’ इति हैमः ।
घृणिः जिघर्ति । ‘घृ क्षरणदीप्त्योः’ (जु० प० अ०) । जुहोत्यादिः । छान्दसस्यापि भाषायां प्रयोगः इति प्राञ्चः । वस्तुतस्तु घरति । ‘घृ सेचने’ (भ्वा० प० अ०) भ्वादिः । घृणिपृश्नि-’ (उ० ४.५२) इति निप्रत्ययो गुणाभावश्च निपातितः । (‘घृणिः पुनः अंशुज्वालातरङ्गेषु)॥
घृतम् घ्रिति । घ्रियते । ‘घृ सेके’ (भ्वा० प० अ०) । ‘अञ्जिघृसिभ्यः क्तः’ (उ० ३.८९) । ‘घृतमाज्याम्बुदीप्तेषु’ इति हेमचन्द्रः ॥
घृष्टिः घर्षति । ‘घृषु संघर्षे’ (भ्वा० प० से०) । क्तिच् (३.३.१७४) । ‘घृष्टिः स्त्री घर्षणस्पर्धाविष्णुक्रान्तासु ना किरौ’ इति विश्वः ॥
घोटकः घोटेति । घोटते । ‘घुट परिवर्तने’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । पचाद्यचि ‘घोटः’ अपि । ‘घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः’ इति रभसः ॥
घोणा घोणति । अनया वा । ‘घुण भ्रमणे’ (भ्वा० प० से०) । अच् (३.१.१३४) ‘हलश्च’ (३.३.२२१) इति घञ् वा ॥
घोणा घविति । घोणते । ‘घुण भ्रमणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
घोणी घोणा नासास्य । व्रीह्यादिः (५.३.११६) ॥
घोण्टा घोण्टेति । घोणते । ‘घुण भ्रमणे’ (भ्वा० आ० से०) । बाहुलकात् टः । ‘घोण्टा तु बदरीपूगवृक्षयोरपि योषिति (इति मेदिनी) ॥
घोण्टा घोणते । ‘घुण भ्रमणे’ (भ्वा० आ० से०) । बाहुलकाट्टः । ‘घोण्टा तु बदरीपूगवृक्षयोरपि योषिति’ (इति मेदिनी) । ‘बदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते’ ॥ स्वामी तु आद्यास्त्रयो वृक्षार्थाः । अन्ये फलार्थाः । घोण्टा तूभयार्था — इत्याह । स्वामी तु घोण्टाकोले व्यत्यासेन पठति ।
घोरम् घोरयति । ‘घुर भीमार्थशब्दयोः’ (तु० प० से०) । ण्यन्तात् (३.१.२६) अच् (३.१.१३४) । हन्ति वा । ‘हन्तेर्घुरच्च’ (उ० ५.६४) इत्यच् प्रत्ययो घुरादेशश्च । ‘घोरो हरे दारुणे च’ इति हैमः ॥
घोषः घोष इति । घोषन्ति गावोऽत्र । घुषिर् विशब्दने’ (भ्वा प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘घोष आभीरपल्ल्यां स्याद्गोपालध्वनिघोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ ॥
घोषकः घोषति । ‘घुषिर विशब्दने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । स्वार्थे कन् (५.३.७५) । ‘घोष आभीरपल्ल्यां स्याद्गोपालध्वान घोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ’ (इति मेदिनी) ॥
घोषणा ण्यास-’ (३.३.१०७) इति युच् ॥
घ्राणतर्पणः घ्राणं तर्पयति । नन्द्यादिल्युः (३.१.१३४)
घ्राणम् क्लीबे इति । घ्रायतेऽनेन । ‘घ्रा गन्धोपादाने’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । ‘घ्राणं क्लीबं नासिकायां घ्राते स्याद्वाच्यलिङ्गकम्’ (इति मेदिनी) ॥
च
- चनति । चिनोति वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
चकोरकः चकति । ‘चक तृप्तौ’ (भ्वा० प० से०) । ‘कठिचकिभ्यामोरन्’ (उ० १.६४) । स्वार्थे कन् (५.३.७५) ॥
चक्रः “क्रियते निशया वियोगी । - घञर्थे कः - इति मुकुटः । तन्न । परिगणनात् । वस्तुतस्तु ‘ढकि लोपः’ (४.१.१३३) इतिवत् ‘के कृञादीनाम्’ (वा० ६.१.१२) इत्यनेनैव कः द्वित्वं च । चकते । ‘चक तृप्तौ’ (भ्वा० आ० से०) । रक् (उ० २.१३) वा । ‘चक्रः कोके पुमान्, क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्तेऽपि’ (इति मेदिनी) ॥”
चक्रकारकम् चक्रस्य कारकम् ॥
चक्रपाणिः चक्रं पाणौ यस्य । ‘प्रहरणार्थेभ्यः (वा० २.२.३६) इति सप्तम्याः परत्वम् ॥
चक्रमर्दकः चक्रं दद्रुं मुमृद्नाति । ‘मुद क्षोदे’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) ॥
चक्रम् “चेति । क्रियते गतिरनेन । ‘घञर्थे कः’ (वा० ३.३.५८) । ‘कृञादीनां के’ (वा० ६.१.१२) इति द्वित्वम् । ‘चक्रः कोके पुमान्, क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः जलावर्तेःऽपि’ (इति मेदिनी) ॥”
चक्रम् क्रियतेऽनेन । ‘घञर्थे कः’ (वा० ३.३५८) । ‘के कृञादीनाम्’ (वा० ६.१.१२) इति द्वित्वम् ॥
चक्रला चक्रं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
चक्रवर्तिनी चक्रं चक्रमिव वा वर्तितुं शीलमस्याः । ‘सुपि (३.२.७८) इति णिनिः ॥
चक्रवर्ती चेति । चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘चक्रं गणे चक्रवाके इति विश्वः । यद्वा चक्रं सैन्यं वर्तयितुं सर्वभूमौ चालयितुं शीलमस्य । अवश्यं वा चक्रं वर्तयति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः ॥
चक्रवाकः चक्रशब्देनोच्यते । ‘वच भाषणे’ (अ० प० अ०) । घञ् (३.३.१९) ॥
चक्रवान् चेति । चक्रवद्भ्रमणं चक्रम् । तदस्यास्ति । मतुप् (५.२.९४) । आसन्दीवत्-’ (८.२.१२) इति साधुः ॥
चक्रवालः चक्रे भूमण्डलं वलते । ‘वल वेष्टने’ (भ्वा० आ० से०) । ‘कर्मण्यण्’ (३.२.१) । डलयोरेकत्वस्मरणात् ‘चक्रवाडः’ अपि । यद्वा चक्राकारेण वाडते । वाडृ आप्लाव्ये (भ्वा० आ० से०) । पचाद्यच् (३.१.१३५) । ‘चक्रवालमस्यास्ति’ इति वा । अर्श आद्यच् (५.२.१२७) । ‘चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले’ इति हैमः ।
चक्रवालम् चक्रेति । चक्राकारेण वलते । ‘वल संवरणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) ‘अन्येषामपि-’ (६.३.१३७) दीर्घः । यद्वा-भावे घञि वालः । चक्रमिव वालो यस्य यद्वा-चक्राकारेण वाडते । ‘वाडृ आप्लाव्ये’ (भ्वा० आ० से०) अच् (३.१.१३४) चक्रवाडम् । डलयोरेकत्वस्मरणाच्चक्रवालम् । (‘चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले’ ।
चक्राङ्गः चक्राण्यङ्गान्यस्य । ‘चक्राङ्गो मानसौकसि । चक्राङ्गी कटुरोहिण्याम्’ (इति मेदिनी) ॥
चक्राङ्गी चक्राकारमङ्गमस्याः । गौरादिः (४.१.४१) । ‘अङ्गगात्र-’ इति निर्मूलम् । ‘चक्राङ्गो मानसौकसि । चक्राङ्गी कटुरोहिण्याम्’ इति मेदिनी ॥
चक्री चक्रमस्यास्ति । ‘अत इनिः (५.२.११५) । ‘चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि’ इति हैमः ।
चक्षुः “चष्टे । चक्षतेऽनेन, वा । ‘चक्षिङ्’ (अ० आ० अ०) । ‘चक्षेः शिच्च’ (उ० ३.११९) इत्युसिः । शित्त्वादनार्धधातुकत्वात् ख्याञ् न । बाहुलकात् ख्याञ् न–इति मुकुटस्त्वपाणिनीयः ॥”
चक्षुःश्रवाः चक्षुः श्रवः कर्णोऽस्य । सान्तः । अत एव ‘गोकर्णः’ अपि । (‘गोकर्णः प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने मृगेऽश्वतरसर्पयोः’) ।
चक्षुष्या चेति । चक्षुषे हिता । ‘शरीरावयवाद्यत्’ (५.१.६) । ‘चक्षुष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत्’ (इति मेदिनी) ॥
चञ्चला ‘चञ्चु गतौ’ (भ्वा० प० से०) । घञ् (३.३.१८) । चञ्चं लाति । कः (३.२.३) । ‘चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलश्चपलेऽनिले’ ।
चञ्चुः “चञ्चति । ‘चञ्चु गत्यर्थः (भ्वा० प० से०) । यत्तु - ‘चकि, मकि गतौ’ इति धातूपन्यसनं मुकुटस्य । तच्चिन्त्यम् । बाहुलकादुः । ‘चञ्चुस्रोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके ॥”
चञ्चुः चञ्चुरिति । चञ्चति । ‘चञ्चु गतौ’ (भ्वा० प० से०) । बाहुलकादुः । ‘चञ्चूश्चञ्चुस्तथा त्रोटिः’ इति हलायुधः । मित्रय्वादौ (१) निपातितः । अपष्ट्वादित्वादित्यन्ये—इति मुकुटः । तन्न । गणद्वयस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘चञ्चुः पञ्चाङ्गुले त्रोट्याम्’ इति हैमः ॥
चटकः चटेति । चटति । ‘चटेँ वर्षावरणयोः’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
चटका तस्येति । चटकस्य स्त्रीति स्त्रीत्वविवक्षायां ‘पुंयोगात्’ (४.१.४८) इति प्राप्तो डीप् जातिलक्षणङीष् (४.१.६३) च अजादि (४.१.४) पाठाद्वाध्यते । क्षिपकादित्वात् (७.३.४५) नेत्वम् ॥
चटका स्त्र्येति । स्त्री च तदपत्यं चेति । तस्मिन् । ‘स्त्रियामपत्ये लुग्वक्तव्यः’ (वा० ४.१.१२८) इत्यैरको लुक् । ‘लुक्तद्धितलुकि’ (१.२.४९) । पुनष्टाप् (४.१.४)
चटकाशिरः चटकायाः शिर इव । ‘शिरः’ अपि । ‘शिरो ना पिप्पलीमूले’ इति रभसः । (‘शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति’ इति रान्ते मेदिनी) ॥
चणकः चेति । चण्यते । ‘चण दाने’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
चण्डा चण्डते । ‘चडि कोपे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘चण्डा धनहरीशङ्खपुष्प्योस्त्रिष्वतिकोपने । तीव्रेऽपि’ (इति मेदिनी) ॥
चण्डातः चण्डमतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
चण्डातकः अर्धेति । ‘ऊरोरर्धम्’ । ‘अर्धं नपुंसकम्’ (२.२.२) इति समासः । अर्धारौ काशते । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । चण्डां कोपनां वरस्त्रियमतति । क्वुन् (उ० २.३२) । ‘अर्धोरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः’ इति पुंकाण्डे वोपालितात्पुंलिङ्गोऽपि ॥
चण्डालः
- चेति । चण्डते । ‘चडि कोपे’ (भ्वा० आ० से०) । ‘पतिचण्डिभ्यामालञ्’ (उ० १.११७) ॥
चण्डालः
- स्येति । चण्डति । ‘चडि कोपे’ (भ्वा० प० से०) । ‘पतिचण्डिभ्यामालञ्’ (उ० १.११७) ॥
चण्डालवल्लकी
- चण्डालस्य वल्लकी ॥
चण्डिका चण्डते । ‘चडि कोपे’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । पचाद्यच् (वा० ३.१.१३४) ‘बह्वादिभ्यश्च ४.१.४५) इति ङीषि चण्डी’ इत्यपि । ‘चण्डी कात्यायनी देव्यां हिंस्रकोपनयोषितोः ।
चतुःशालम् चतस्रः शालाः समाहृताः । ‘आबन्तो वा’ (वा० २.४.३०) इति वा क्लीबत्वम् ।
चतुरः “- चतति, चत्यते वा । ‘चते याचने’ (भ्वा० उ० से०) । मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्’ (उ० १.३८) ।”
चतुरङ्गुलः चतस्रोऽङ्गुलयः प्रमाणमस्य पर्वणः । तद्योगाद् वृक्षोऽपि ।
चतुरब्दा चेति । चत्वारोऽब्दा यस्याः ॥
चतुराननः चत्वार्याननान्यस्य ॥
चतुर्भद्रम् सेति । बलेन सहितैर्धर्मादिभिः । चत्वारि भद्राणि श्रेष्ठान्यत्र वृन्दे । यद्वा चत्वारि भद्राणि । ‘दिक्संख्ये संज्ञायाम्’ (२.१.५०) इति समासः । ‘भद्रो वाच्यवच्छ्रेष्ठसाधुनोः’ इति विश्वः ॥
चतुर्भुजः चत्वारो भुजा यस्या । यद्वा ‘भुङ्क्ते भुनक्ति’ इति भुजः चतुर्णा धर्मार्थकाममोक्षाणां भुजः ॥
चतुर्वर्गः चेति । चतुर्णां वर्गः॥मोक्षेण सहितैर्धर्मकामार्थैः कृत्वा । उपलक्षितो वा ॥
चतुष्पथम् “चतुर्णां पथां समाहारः । तद्धितार्थो-’ (२.१.५१) इति समासः । ‘ऋक्पूर्-’ (५.४.७४) इति समासान्तः । इदुदुपधस्य- (८.३.४१) इति षत्वम् । ‘पथः संख्या-’ (वा० २.४.३०) इति क्लीबत्वम् । (‘चतुष्पथं चतुर्मार्गसंगमे, ब्राह्मणे तु ना’) ॥ (२) द्वे चतुष्पथस्य ।”
चत्वरम् चत्यते । चते याचने’ (भ्वा० उ० से०) । ‘कॄगॄशॄञ्चतिभ्यः ष्वरच् (उ० २.१२१) । चत्वरं स्यात्पथां श्लेषे स्थण्डिलाङ्गनयोरपि इति हैमः ॥
चत्वरम् चतन्त्यस्मिन् । ‘चते याचने’ (भ्वा० उ० से०) । कॄगॄशॄवृञ्चतिभ्यः ष्वरच् (उ० २.१२१) । ‘चत्वरं स्थण्डिलेऽङ्गणे (इति मेदिनी) ॥
चन
- चनति । ‘चन शब्दे’ । पचाद्यच् (३.१.१३४) ॥
चन्दनः चन्दयति । ‘चदि आह्लादे’ (भ्वा० प० से०) । ण्यन्तः । ल्युट् (३.४.११३) ॥
चन्द्रः चन्दति । ‘चदि आह्लादने-’ (भ्वा० प० से०) । ‘स्फायितञ्छि-’ (उ० २.१३) इति रक् । चंद्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कर्पूरे काम्पिल्ये मेचकेऽपि च’ इति हैमः । अचि (३.३.१३४) रेफशून्योऽपि । ‘हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः’ इति शब्दार्णवात् ।
चन्द्रः चन्दति । ‘चदि आह्लादने (भ्वा० प० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् । ‘चन्द्रः कर्पूरकाम्पि ल्लसुधांशुस्वर्णवारिषु’ (इति मेदिनी) ॥
चन्द्रकः समाविति । चंद्र इव । ‘इवे प्रतिकृतौ’ (५.६.९६) इति कन् ॥
चन्द्रबाला चन्द्रस्य कर्पूरस्य बालेव । कर्पूरगन्धित्वात् ॥
चन्द्रभागा “चन्द्रभागयोः पर्वतयोरियम् । तत्रभवत्वात् ’तस्येदम्’ (४.३.१२०) इत्यण् । ‘टिड्ढा’ (४.१.१५) इति ङीप् प्राप्तः चन्द्रभागान्नद्याम्’ (४.१.४५) इति बाह्वादिगणसूत्रान्न भवति । स्वररूपयोरविशेषात् । ‘तापी तु तपती सैत्या, चान्द्रभागी तु चन्द्रिका । चान्द्रभागा, शारदा तु कश्मीरेषु सरस्वती’ इति शब्दार्णवः । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘चन्द्रभागा चान्द्रभागा चान्द्रभागी च सा मता । चन्द्रभागी च सैवोक्ता ’ इति द्विरूपकोषः ।”
चन्द्रमाः चन्द्रं कर्पूरं सादृश्येन माति तुलयति । ‘चन्द्रे मो डिच्च’ (उ०४.२२८) इत्यसुन् । चन्द्रमाह्लादं मिमीते निर्मिमीते इति वा । बाहुलकात्केवलादप्यसिः मिमीते आनन्दम्’ इत माः = चन्द्रः । ‘मास्शब्दः केवलोऽपीह संमतो बहुदृश्वनाम् इत्युत्पलिनी । (‘माश्चन्द्रमासयोः पुमान्’) कालं मिमीते माश्चासौ चन्द्रश्च = चन्द्रमाः - इति वा । राजदन्तादिः (२.२.३१) |
चन्द्रशेखरः चन्द्रः शेखरो यस्य ।।
चन्द्रसंज्ञः चन्द्रस्य संज्ञा संज्ञा यस्य ॥
चन्द्रहासः “चन्द्र इव हासः प्रभास्य । चन्द्रे हसति वा । द्युतिमत्त्वात् । ‘हसे हसने’ (भ्वा० प० से०) । ‘चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च, कनीयसि च गुग्गुलौ’ (इति हैमः) ॥”
चन्द्रिका चन्द्रिकेति । चन्द्रोऽस्त्यस्याः । ठन् (५.२.११५) । चन्द्रं कायति वा इति मुकुटः । तन्न । इत्वाभावप्रसङ्गात् । चन्द्रयति । तत्करोति-’ (वा० ३.१.२६) इति ण्यन्तात् ण्वुल् (३.१. १३३) इति वा । चन्द्रिका चन्द्रिमा चार्वी’ इति शब्दार्णवः ।
चपलः अथेति । चोपति । ‘चुप मन्दायां गतौ’ (भ्वा० प० से०) । ‘चुपेरच्चोपधायाः’ (उ० १.१११) इति कलः । यद्वा चपनम् । ‘चप शक्तौ’ () । ण्यन्तः । ‘एरच्’ (३.३.५६) । चपं लाति । ‘ला आदाने’ (अ० प० अ०) । कः (३.२.३) । ‘चपलश्चोरके चले । क्षणिके चिकुरे शीघ्र पारदे प्रस्तरान्तरे । मीने च चपला तु स्यात् पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामपि’ इति हेमचन्द्रः ॥
चपलम् चोपति । ‘चुप मन्दायां गतौ’ (भ्वा० प० से०) । ‘चुपेरच्चोपधायाः (उ० १.१११) इति कलः प्रत्ययः (‘चपलः पारदे मीने चोरके प्रस्तरान्तरे । चपला कमला विद्युत्पुंश्चलीपिप्पलीषु च । नपुंसकं तु शीघ्रे स्याद्वाच्यवत्तरले चले’)
चपला चोपति । ‘चुप मन्दायां गतौ’ (भ्वा० प० से०) । ‘चुपेरच्चोपधायाः (उ० १.१११) इति कलच् । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसकं तु शीघ्रे स्याद्वाच्यवत्तरले चले ।
चपला चपति । चप सान्त्वने (भ्वा० प० से०) । वृषादित्वात् (उ० १.१.१०६) कलच् । ‘चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च (इति मेदिनी) ॥
चपेटः पेति । चपति । ‘चप सान्त्वने’ (भ्वा० प० से०) । अच् (३.१.१३४) । एटति । ‘इट गतौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । चपश्चासाविटश्च । ‘चर्पटः’ अप्यत्र । ‘चर्पटः स्फारविपुले चपेटे पर्पटेऽपि च’ (इति विश्वमेदिन्यौ) ॥
चमरः “चमति, चम्यते, वा । ‘चमु अदने’ (भ्वा० प० से०) । ‘अर्तिकमिभ्रमिचमि (उ० १३२) इत्यरः । ‘चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः’ इति मेदिनी) ॥”
चमरिकः चमरमस्यास्ति । ‘अत इनिठनौ’ (५.२.११५) ।
चमू चमति शत्रून् । ‘कृषिचमितनि-’ (उ० १.८०) इत्यूः। -‘चमितमिवधिभ्य ऊः’-इति मुकुटः । तन्न । तादृशसूत्राभावात् । ‘चमूः सेनाविशेषे च सेनामात्रे च योषिति’ (इति मेदिनी) ॥
चमू चमति शत्रून् । ‘कृषिचमितनि-’ (उ० १.८०) इत्यूः। -‘चमितमिवधिभ्य ऊः’-इति मुकुटः । तन्न । तादृशसूत्राभावात् । ‘चमूः सेनाविशेषे च सेनामात्रे च योषिति’ (इति मेदिनी) ॥
चमूरुः चमति । ‘चमु अदने’ (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । पृषोदरादित्वात् (६.३.१०९) अत उत् । यद्वा चमूः चम्वां वा ऊरुर्यस्य ॥
चम्पकः “चम्पयति, चम्प्यते वा । ‘चपि गत्याम्’ (चु० प० से०) । क्वुन् (उ० २.३२) ॥”
चयः स्यादिति । चीयते । चिञ् चयने’ (स्वा० उ० अ०) । कर्मणि ‘एरच्’ (३.३.५६) ॥
चयः चीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘एरच्’ (३.३.५६) । ‘चयः समूहे प्राकारमूलबन्धे समाहृतौ’ (इति मेदिनी) ॥
चरः चरति । ‘चर गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘चरोऽक्षधूतभेदे च भौमे चारे त्रसे चले’ (इति मेदिनी) ॥ प्रज्ञाद्यणि (५.४.३८) ‘चारः’ अपि । ‘चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः’ (इति मेदिनी) ॥
चरणः चरन्त्यनेन । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘चरणोऽस्त्री बहृचादौ मूले गोत्रे पदेऽपि च । भ्रमणे भक्षणे चापि नपुंसक उदाहृतः’ इति मेदिनी ॥
चरणायुधः चरण आयुधमस्य ॥
चरमक्ष्माभृत् चरन्त्यत्र । ‘चर गतौ (भ्वा० प० से०) । ‘चरेरमः’ (उ० ५.६९) ॥
चरुः चन्दते । चदि आझादने दीप्तौ च (भ्वा० आ० से) । चन्देरादेश्च छः’ (उ० ४.२.१९) इत्यसुन् ॥ प्रथमप्रमुखे चोभे प्रधाने च प्रकीर्तिते’ इत्यजयः ॥ छन्दसाम् ॥ हेति । पच्यते । कर्मणि घञ् (३.३.१९) । हव्यं च तत् पाकश्च । यद्वा भावे घञ् (३.३.१८) । पचनं पाकः । हव्यस्य पाकः ‘अनवस्रावितान्तरूष्मपाक ओदनश्चरुः’ इति याज्ञिकाः ॥ चर्यते भक्ष्यते । ‘चर गतौ भक्षणे च’ (भ्वा० प० से०) । भृमृशीतृचरि-’ (उ० १.७) इत्युः । मीमांसकैरपि त्रिवृच्चर्वधिकरणे अन्नपरत्वं चरुशब्दस्याभ्युपगतम् । ‘उगवादिभ्यो यत् (५.१.२) इति सूत्रे कैयटस्तु (टार्थस्तु) ‘स्थालीवाची चरुशब्दः तात्स्थ्यादोदने भाक्तः’ इत्याह । विश्वप्रकाशे तु ‘चरुर्भाण्डे च हव्याने’ इत्यनेकार्थतोक्ता॥ अथ चरुः पुमान् हव्यान्नभाण्डयोः’ इति मेदिनी च । स्वामी तु-पक्वं होतव्यं चरुः । चर्यते रध्यते इति । स्थाल्यपि चरुः हव्यस्य पाकोऽत्र इत्याह । एतेन –केचितु पच्यतेऽत्रेति । ’हलश्च (३.३.१२१) इति घञ् । ‘पाकं व्युत्पद्य हव्यपाकस्थाल्यादिरुच्यते । अन्यत्रौपचारिकः’ इत्याहुः । तदसत् ।-इति मुकुटः प्रत्युक्तः । प्रयोग दर्शनमपि सूपपादमनेकार्थकतायाम् ।
चर्चा ‘चर्च अध्ययने’ (चु० उ० से०) । चुरादि ण्यन्ताद्भावे ‘चिन्तिपूजि-’ (३.३.१०५) इत्यङ् । (‘चर्चा स्याच्चर्यमुण्डायां चिन्तास्थासकयोरपि’)
चर्चा चेति । चर्चनम् । ‘चर्च अध्ययने’ (चु० उ० से०) ‘चिन्तिपूजिकथि-’ (३.३.१०५) इत्यङ् । ‘चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि’ (इति हैमः) ॥
चर्म “चरति । चर्यते, वा । ‘चर गतौ’ (भ्वा० प० से०) । मनिन् । (उ० ४.१४५) । ‘चर्मकृत्तौ च फलके’ (इति मेदिनी)॥”
चर्म चरति । चर्यते वा । अनेन वा । मनिन् (उ० ४.१४५) । ‘चर्म कृत्तौ च फलके’ इति विश्वः ॥
चर्मकषा चर्मणः कषा ॥
चर्मकारः
- चर्म करोति । अण् (३.२.१) ॥
चर्मप्रभेदिका
- चर्मणः प्रभेदिका ॥
चर्मप्रसेविका
- चर्मणा प्रसीव्यते । ‘षिवु तन्तुसंताने’ (दि० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल् वा ॥
चर्मी प्रशस्तं चर्मास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः । ‘चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गिरिटावपि’ ॥
चर्मी चेति । चर्मास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः ॥
चर्या चेति । चरणम् । ‘गदमदचरयमश्च-’ (३.१.१००) इति यत् । यद्वा ‘परिचर्या’ इत्यत्र ‘परि’ इत्यस्याविवक्षणात् ‘चर्या’इति साधुः ॥ईर्यते ज्ञायते । ‘ईर गतौ’ (अ० आ० से०) । ण्यत् (३.१.१२४) ईर्यायाः पन्थाः । ‘ऋक्पूर-’ (५.४.७४) इत्यः ।
चर्षणी कर्षति मनः । ‘कृष विलेखने’ (भ्वा० प० अ०) । ‘कृषेरादेश्च चः’ (२.१०४) इत्यनिः—इति स्वामी ॥ ‘धर्षणी’ इति वा पाठः । धर्षयति । ‘ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । ल्युट् (३.३.११३) । ‘धर्षणं स्यात्परिभवे रतेऽसत्यां तु ‘धर्षणी’ (इति मेदिनी) । ‘धर्षिणी’ इति क्वचित् पाठः ‘आवश्यका-’ (३.३.१७०) इति णिनिः ॥
चलदलः चलं दलमस्य ॥
चलितम् चलितशब्दस्य समानार्थकम् । ‘प्रचक्रं चलितं त्रिषु’ इत्यमरमाला ॥
चविकम् क्वुन् । (उ० २.३२) । चविकम् ॥ स्त्रियामपि । ‘चव्या कोला च चविका चव्यं कुञ्जरपिप्पली’ इति हट्टचन्द्रः ॥ द्वे ‘चव्य’ इति ख्यातस्य । केचित्तु पूर्वान्वयमाहुः । यदाह चन्द्रनन्दनः-‘चव्या कोलाथ चविका श्रेयसी गजपिप्पली । च्य वना कोलवल्ली तु चव्यं कुञ्जरपिप्पली’ । अत्र तुस्थाने चः पाठ्यः ।
चव्यम् चेति । चर्व्यते । ‘चर्व अदने’ (भ्वा० प० से०) । ण्यत् (३.१.१२५) । पृषोदरादिः (६.३.१०९) । ‘चव्यं तु चविके क्लीबं वचायामपि योषिति’ (इति मेदिनी) ॥
चषकः
- चेति । चष्यतेऽनेन । ‘चष भक्षणे’ (भ्वा० उ० से०) । क्वुन् (उ० २.३२) । ‘चषकोऽस्त्री सुरापात्रे मद्यमद्यप्रभेदयोः’ (इति मेदिनी) ॥
चषालः चेति । चषति । चष्यते वा । ‘यचष भक्षणे’ (भ्वा० उ० से०) । ‘सानसिवर्णसि–’ (उ० ४.१०७) इति साधुः ॥
चाक्रिकः चेति । चक्रेण समूहेन चरन्ति । ‘चरति’ (४.४.८) इति ठक् ॥
चाङ्गेरी चेति । ‘चाङ्गस्तु शोभने दक्षे (इति मेदिनी) । चाङ्गमीरयति । ‘इर् गतौ’ (अ० आ० से०) । ‘कर्मण्यण्’ (३.२.१.) ॥
चाटकैरः तयोरिति । चटकायाश्चटकस्य वा पुमपत्यम् । ‘चटकाया ऐरक्’ (४.१.१२८) । ‘चटकादपीति वक्तव्यम्’ (४.१.१२८) फलितम् । तयोश्चटकाचटकयोः - इति मुकुटः । तन्न । ‘पुमान् स्त्रिया’ (१.२.६६) इत्यन्तरङ्गेकशेषप्रवृत्त्या द्वन्द्वासम्भवात् ॥
चाण्डालः
- स्वार्थे अञ् (५.३.११७) । ‘चाण्डालः अपि ।—प्रज्ञाद्यणि चाण्डालः–इत्येके । तन्न । ‘कुलालवरुड- कर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि’ (५.४.३६ सूत्रे) इति वार्तिकेन छन्दस्यविधानाल्लोके तदभावात् ॥
चाण्डालिका
- चेति । चण्डालस्येयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘टिड्ढ्वा-’ (४.१.१५) इति ङीप् । स्वार्थे कन् (ज्ञापि० ५.४.५) चण्डालेन कृता वा । ‘कुलालादिभ्यो वुञ्’ (४.३.११८) चाण्डालिका किंनरायामुमायामोषधीभिदि’ (इति मेदिनी) ॥
चातकः चतति । ‘चते याचने (भ्वा० प० से०) । ण्वुल् (३.१.१३३) ॥
चातुर्वर्ण्यम् वीति ॥ विप्रश्च क्षत्त्रियश्च विट् च शूद्रश्च । चत्वार एव वर्णाः । ‘चतुर्वर्णादीनाम्’ (वा० ५.१.१२४) इति स्वार्थे ष्यञ् ।
चापः चपस्य वंशभेदस्य विकारः । ‘अवयवे च प्राण्यौषधि-’ (४.३.१३५) इत्यण् ॥
चामरम् “चेति । चमति, चम्यते, वा । अनेन वा । ‘चमु अदने’ (भ्वा० प० से०) । ‘अर्तिकमिभ्रमिचमि-’ (उ० ३.१३२) इत्यमरः । ‘चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः’ (इति मेदिनी) । ‘चमरश्चामरे दैत्ये चमरी तु मृगान्तरे’ इति हैमः । प्रज्ञाद्यण् (५.४.३८) वा । अजादित्वात् (४.१.४) टाप् । चामरा चामरं बालव्यजनं रोमगुच्छकम्’ इति रभसः । ‘चामरं चामरापि च । दण्डे च बालव्यजने’ (इति मेदिनी) ॥”
चामीकरम् चमीकरे आकरे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । यद्वा चमनम् । ‘चमु अदने’ (भ्वा० प० से०) । ‘इञजादिभ्यः’ (वा० ३.३.१०८) । ‘अनाचमेः’ (७.३.३४) इति आङोऽविवक्षितत्वाद्वृद्धिः । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । चामीं करोति । ‘कृञो हेतु-’ (३.२.२०) इति टः ॥
चाम्पेयः अथेति । चम्पाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) । ‘चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेसरे’ इति मेदिनी ॥
चाम्पेयः चेति । चम्पाया अपत्यम् । ‘चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेसरे’ इति मेदिनी ॥
चारः चरति । ‘चर गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘चरोऽक्षधूतभेदे च भौमे चारे त्रसे चले’ (इति मेदिनी) ॥ प्रज्ञाद्यणि (५.४.३८) ‘चारः’ अपि । ‘चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः’ (इति मेदिनी) ॥
चारटी चारयति । ‘शकादिभ्योऽटन् (उ० ४.८१) ॥
चारणाः
- चेति । चारयन्ति कीर्तिम् । ‘चर गतौ’ (भ्वा० प० से०) । णिजन्तः । नन्द्यादिल्युः (३.१.१३४) ॥
चार्चिक्यम् ‘धात्वर्थनिर्देशे ण्वुल्’ (वा० ३.३.१०८) ‘चर्चिका’ । ततः स्वार्थे ष्यञ् (वा० ५.१.१२४) ॥
चालनी “चेति । चाल्यते । अनया वा ‘चल गतौ’ (भ्वा० प० से०) । ण्यन्तः । ल्युट् (३.३.११३, ११७) । ‘क्षुद्रच्छिद्रशतोपेतं चालनं तितउः स्मृतः’ इति कात्यः ॥”
चाषः अथेति । चाषयति । ‘चष हिंसायाम्’ (चु० प० से०) । स्वार्थण्यन्तः । ‘चष भक्षणे’ (भ्वा० उ० से०) हेतुमण्ण्यन्तो वा । अच् (३.१.१३४) । ‘चासः’ अपि । ‘इक्षुपक्षिभिदोश्चासः इति दन्त्यान्तेषु रभसः ॥
चिकित्सकः चिकित्सति । ‘कितेर्व्याधिप्रतीकारे’ इति सन्नन्तात् ण्वुल् (३.१.१३३) ॥
चिकित्सा चिकीति । ‘कितेर्व्याधिप्रतीकारे’ इति सन् । चिकित्सनम् । ‘अ प्रत्ययात्’ (३.३.१०२) ॥
चिकुरः चीति । ‘चि’ इति अव्यक्तं कुरति । ‘कुर शब्दे’ (तु० प० से०) ‘इगुपध-’ (३.१.१३५) इति कः । ‘कुन्तला मूर्धजास्त्वस्राश्चिकुराश्चिहुराः कचाः’ इति दुर्गः ॥
चिक्कणम् चीति । चिक्कनम् । ‘चिक्क गतौ । संपदादिक्विप् (वा० ३.३.१०८) । चिक्कं कणति । ‘कण शब्दे’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । यद्वा चिक्कनम् । घञ् (३.३.१८) चिक्कस्य अणम् ‘अण शब्दे’ (भ्वा० प० से०’) । अच् (३.१.१३४) शकन्ध्वादिः (वा० ६.१.९४) । चित्यते । ‘चिती संज्ञाने’ (भ्वा० प० से०) । ‘चित्तेः कणः कश्च’ (उ० ४.१७६) इति मुकुटस्त्वपाणिनीयः ॥
चिञ्चा ‘चिम्’ इत्यव्यक्तं शब्दं चिनोति । ‘चिञ् चयने (स्वा० उ० अ०) । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः ॥
चिता चीति । चीयते स्म । क्तः (३.२.१०२) । ‘चितं छन्ने त्रिषु चिता चित्यायां संहतौ स्त्रियाम्’ (इति मेदिनी) ॥
चितिः क्तिन् (३.३.९४) । चितिश्चित्यावृन्दयोः स्त्री’ (इति मेदिनी) ॥ अधिकरणे वा प्रत्ययः ।
चित्
- चेतति । ‘चिती संज्ञाने’ (भ्वा० प० से०) । क्विप् (३.२. १७८) ॥
चित्/चिद् चिती संज्ञाने (भ्वा० प० से०) संपदादित्वात् (३.३.१०८) क्विप् । चित् तान्ता ।
चित्तम् चित्तमिति । चिती संज्ञाने’ (भ्वा प० से०) । भावे क्तः (३.३.११४) । ‘श्वीदितः - (७.२.१४) इतीण्निषेधः ।
चित्तविभ्रमः चित्तस्य विभ्रमोऽनवस्थानम् ।
चित्तसमुन्नतिः चित्तस्य समुन्नतिः द्वे (अतियोग्यमपि प्रति चित्तोत्कर्षप्रत्ययस्य) गर्वादयः पञ्चापि पर्याया इति तु युक्तम् ।
चित्ताभोगः चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता वा । ‘आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि’ । ‘भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । भावे घञ् (३.३.१८) ।
चित्या ‘चित्याग्निचित्ये च’ (३.१.१३२) इति क्यप् । ‘चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्त्रियाम्’ (इति मेदिनी) ॥
चित्रकः चित्रयति । ‘चित्र अद्भुतादौ (चु० उ० से०) । क्वुन् (उ० २.३२) । चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाठिषु’ ॥
चित्रकः चित्तं बुद्धिं त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । स्वार्थे कन् (५.३.७५) । ‘चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाठिषु (इति मेदिनी) ॥
चित्रकम् चित्रयति । ‘चित्र चित्रक्रियायाम्’ (चु० उ० से०) । क्वुन् (उ० २.३२) चित्रं करोति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाटिषु’ (इति मेदिनी) ॥
चित्रकरः
- चित्रं करोति । ‘दिवाविभानिशा-’ (३.२.२१) इति टः ॥
चित्रकृत् चित्रं करोति। अतिदार्ढ्येऽपि लघुत्वात् । क्विप् (३.२.७६) ॥
चित्रतण्डुला चित्रास्तण्डुला अस्याः ॥
चित्रपर्णी चित्रं पर्णमस्याः ॥
चित्रभानुः चित्रा भानवोऽस्य । क्षुभ्नादिः (८.४.३९) (चित्रभानुः पुमान्वैश्वानरे चाहस्करेऽपि च’) ।
चित्रभानुः चित्रा भानवोऽस्य । ‘चित्रभानुः पुमान्वैश्वानरे चाहस्करेऽपि च ।
चित्रम् चीयते । ‘चिञ् चयने’ (भ्वा० उ० अ०) । अमिचिमिदि-’ (उ० ४.१६४) इति क्रः । चित्तं त्रायते वा । । त्रैङ् पालने’ (भ्वा० आ० अ०) । कः (३.२.३) । ‘चित्रकिर्मीर-’ इति समासमकृत्वा पृथग्रूपभेददर्शनं ‘गुणे शुक्लादयः पुंसि’ इत्यस्य बाधनार्थम् । ‘चित्राखुपर्णीगोडुम्बासु भद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गम् । नामलिङ्गानुशासने तु नानार्थपुंस्काण्डेऽयं पठितः । तदनुरोधेनेहापि ‘चित्रकिर्मीर-’ इति समस्तं केचित्पठन्ति ।
चित्रम् चित्रयति । ‘चित्र चित्रकरणे’ (चु० उ० से०) । ण्यन्तात् पचाद्यच् (३.१.१३४) । (‘चित्रं खे तिलकेऽद्भुते । आलेख्ये कर्बुरे) चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः’ इति हेमचन्द्रः ।
चित्रशिखण्डिजः ‘ऋषयः सप्तधीमद्भिः स्मृताश्चित्रशिखण्डिनः’ इति हारावली । तदन्तर्गतादङ्गिरसो जातत्वाच्चित्रशिखण्डिनो जातः । ‘पञ्चम्याम्- (३.२.९८) इति डः ।
चित्रा चित्रेति । चीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘अमिचि-’ (उ० ४.१६४) इति कः । ‘चित्राखुपर्णी गोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम्’ (इति मेदिनी) ॥
चित्रा चित्रेति । चित्रं रूपमस्याः । ‘चित्राखुपर्णीगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम्’ (इति मेदिनी) ॥
चिन्ता “स्यादिति । चिन्तनम् । ‘चिति स्मृत्याम् (चु० प० से०) । चिन्तिपूजि-’(३.३.१०५) इत्यङ् । यत्तु-अप्रत्यये कार्ये | चिन्तिपूजि-’ इत्यङ् विधानं गुणाभावार्थम् । तत्सामर्थ्याण्णिलोपाभावोऽपि, इति चिन्तया इत्यपि–इति मुकुटेनोक्तम् । तन्न । भिदा’ इत्यादौ ङित्वस्य चरितार्थत्वेन ‘व्यवधा’ इत्यत्रातोलोपार्थत्वेनोत्तरार्थत्वेन सामर्थ्यविरहात् ॥”
चिपिटकः “नासिकाया नतम् । ‘इनच्पिटच्चिकचि च’ (५.२.३३) इति पिटच्, नेश्चिरादेशः । चिपिटमिव । ‘संज्ञायां कन्’ (५.३.७५) । ‘इवे-’ (५.३.९६) इति वा । कन् ॥”
चिबुकम् “अधेति । चीवति, चीव्यते, वा । ‘चीवृ आदानसंवरणयोः (भ्वा० उ० से०) । मृगय्वादिः (उ० १.३७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । चिनोति शोभां वा । प्राग्वत् ॥ ‘अधस्तादधरोष्ठस्य चिवुः स्याच्चिबुकं तथा’ इति निगमः ॥”
चिरण्टी चिरेति । चिरेणाटति पितृगेहाद्भर्तृगेहम् । अच् (३.१.१४) । पृषोदरादिः (६.३.१०९) । ‘वयस्यचरमे’ (वा० ४.१.२०) इति ङीप् । चरति । बाहुलकादण्टप्रत्यये ‘चरण्टी’ इत्येके । चिरिणोति । चिरण्टी ।—इति स्वामी । तत्र ‘चिरि हिंसायाम्’ (स्वा० प० से०) इति धातुः; पृषोदरादिः । (चिरिण्टी तु सुवासिन्यां स्याद्द्वितीयवयः स्त्रियाम्’ (इति मेदिनी) ॥
चिररात्राय
- चिरा रात्रयः । ‘अच्प्रत्यन्वव (५.४.७५) इत्यत्र ‘अच्’ इति योगविभागादच् । चिररात्रानयते । ‘कर्मण्यण्’ (३.२.१) ॥
चिरसूता चीति । चिरं सूता । ‘सुप्सुपा’ (२.१.४) इति समासः ॥
चिरस्य
- चिरमस्यति । ‘असु क्षेपणे’ (दि० प० से०) । ण्यत् (३.१.१२४) । संज्ञापूर्वकत्वाद्ध्यभावः । शकन्ध्वादिः (वा० ६.१.९४) ॥ आद्यपदेन ‘चिरम्’ ‘चिरेण’ ‘चिरात्’ ‘चिरे’ इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥
चिराय
- चिरमयते । ‘अय गतौ’ (भ्वा० आ० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
चिरिबिल्वः चिरेति । चिरं विलति । ‘विल भेदने’ (तु० प० से०) । बाहुलकाद्वः ॥ ‘चिरिबिल्वः’ इत्यन्ये ॥
चिलिचिमः चिल विलसने (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) । वीप्सायां द्वित्वम् (८.१.४) । चिलिं चिलिं विलासं मिमीते । ‘माङ् माने’ (जु. आ. अ.) । ‘आतोऽनुप-’ (३.२.३) इति कः । (पृषोदरादिः) (६.३.१०९) । त्रीकारोऽदन्तः । ‘नलमीनश्चिलीचिमो बृहन्मीनोऽब्धिजस्तिमिः’ इति रत्नमाला । ‘लक्ष्मणा सारसी क्रौञ्ची नलमीनचिलीचिमिः’ इति बोपालिताच्चतुरिकारवान्मध्यदीर्घ इदन्तोऽपि ॥ द्वे नलवनचारिणो मत्स्यविशेषस्य ।
चिल्लः चिल्लति । ‘चिल्ल शैथिल्ये हावकृतौ च’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘चिल्लः खगे स चुल्लश्च पिल्लवत् क्लिन्नलोचने । क्लिन्नाक्ष्णि’ इति हैमः ॥
चिल्लः “स्युरिति । (वा० ५.२.३३) क्लिन्नस्य लप्रत्ययः । चुल्, चिल्, पिल्, आदेशाः ‘अस्य चक्षुषि’ इत्यर्थे । चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्योगाच्चक्षुश्रुल्लादिवाच्यम् । तच्चक्षु- र्योगात्पुरुषोऽपि । ‘चिल्लः खगे सचुल्लश्च पिल्लवत् । क्लिन्नलोचने । क्लिन्नाक्ष्णि’ इति हैमः ॥”
चिह्नम् “चाहयति, चह्यतेऽनेन वा । ‘चह परिकल्कने’ (भ्वा० प० से०) । बाहुलकान्नक् । उपधाया इत्वं च । चिह्नं लक्ष्मपताकयोः’ इति मेदिनी ।”
चीनः चिनोति । ‘चिञ् चयने’ (स्वा० उ० अ०) । बाहुलकाद् नक् दीर्घश्च । ‘चीनो देशांशुकव्रीहिभेदे तन्तौ मृगान्तरे (इति मेदिनी) ॥
चीरी “चिनोति । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘शुसिचिमीनां दीर्घश्च’ (उ० २.२५) इति क्रन् । चीरी झिल्ल्यां, नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखन भेदयोः’ (इति मेदिनी) ॥”
चीरुका ‘ची’ इति रौति । ‘रु शब्दे’ (अ० प० अ०) । बाहुलकात् कक् । ‘झीरुका इति मुकुटः ॥
चुक्रः चुक्क्यत्यनेन । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति साधुः ॥
चुक्रम् चकति(ते) । ‘चक तृप्तौ प्रतीघाते च’ (भ्वा० आ० से०) । ‘चकिरम्योरुच्चोपधायाः’ (उ० २.१४) इति रक् । चुक्रं वृक्षाम्ले चाङ्गेर्यां स्त्री पुंस्यम्लेऽम्लवेतसे’ इति विश्वः (मेदिनी) ॥
चुक्रिका चुक्क्यति । ‘चुक्क व्यथने’ (चु० प० से०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति साधु । स्वार्थे कन् (५.३.७५) । चुक्रमिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् वा ॥
चुल्लः “स्युरिति । (वा० ५.२.३३) क्लिन्नस्य लप्रत्ययः । चुल्, चिल्, पिल्, आदेशाः ‘अस्य चक्षुषि’ इत्यर्थे । चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्योगाच्चक्षुश्रुल्लादिवाच्यम् । तच्चक्षु- र्योगात्पुरुषोऽपि । ‘चिल्लः खगे सचुल्लश्च पिल्लवत् । क्लिन्नलोचने । क्लिन्नाक्ष्णि’ इति हैमः ॥”
चुल्लिः चुल्ल्यतेऽत्र । ‘चुल्ल भावकरणे’ । (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘चुद्यतेऽत्राग्निरिति वा’ । ‘चुद प्रेरणे’ (चु० प० से०) । बाहुलकाल्लिक् । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् ॥
चूचुकः च्विति । चूष्यते । ‘चूष पाने’ (भ्वा० प० से०) । बाहुलकादुकः । पृषोदरादिः (६.३.१०९) । ‘चूचु’ इत्यव्यक्तं कायति पीयमानम् । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
चूडा चुड्यते । ‘चुड समुच्छ्राये’ (तु० प० से०) । भिदादिपाठाद् (३.३.१०४) अङ् । दीर्घः । ‘चूडा वडभौ शिखायां बाहुभूषणे’ (इति मेदिनी) ॥
चूडा चुड्यते । ‘चुड समुच्छ्राये’ (चु० प० से०) । ‘चुरादीनां णिज्वा’ इति पक्षे भिदादिपाठात् (३.३.१०४) अङ्दीर्घत्वे । ‘चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च’ इति हैमः ॥
चूडामणिः चूडेति । चूडाया मणिः । ‘चूडामणिः काकचिञ्चाफले मूर्धमणावपि’ इति हैमः ॥
चूडाला चूडेति । चूडास्त्यस्याः । ‘प्राणिस्थादातो लजन्यतरस्याम् (५.२.९६) । ‘चूडाला तूच्चटायां स्त्री चूडावति च वाच्यवत्’ (इति मेदिनी) ॥
चूतः चूष्यते स्म । ‘चूष पाने’ (भ्वा० प० से०) । क्तः (३.२.१०२) । पृषोदरादिः (६.३.१०९) । च्योतति रसम् इति वा । ‘च्युतिर् क्षरणे’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
चूर्णः च्विति । चूर्ण्यते । ‘चूर्ण पेषणे’ चुरादिः । ‘एरच्’ (३.३.५६) ‘चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्करा’ इति शाश्वतः॥
चूर्णकुन्तलः चूर्णस्य कर्चुरादिक्षोदस्य कुन्तलाः ॥
चूर्णम् च्विति । चूर्ण्यते । ‘चूर्ण प्रेरणे’ (चु० प० से०) । घञ् । (३.३.१९) । ‘चूर्ण धूलौ क्षारभेदे चूर्णानि वासयुक्तिषु’ (इति मेदिनी) ॥
चूलिका केति । कर्णस्य मूलम् । चूल्यतेऽनया । ‘चूल समुच्छ्राये’ () । ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल् । ‘चूलिका नाटकस्याङ्के कर्णमूले च हस्तिनाम्’ (इति मेदिनी) ॥
चेटकः
- चेट्यते । ‘चिट परप्रेष्ये’ (भ्वा० प० से०) । कृञादिभ्यो वुन् (उ० ५.३५) ॥
चेतः असुनि (उ० ४.१८९) चेतः ।
चेतकी चेतयति । ‘चिती संज्ञाने’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । गौरादिः (४.१.४१) ॥
चेतनः “चेतयते, चेतति वा । नन्द्यादिः (३.१.१३४) । (‘चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः’)”
चेतना ‘चित संचेतने’ (चु० अ० से०) चुरादिः । ‘ण्यासश्रन्थः-’ (३.३.१०७) इति युच् । चेतना संविदि स्त्रियाम् । वाच्यवत्प्राणयुक्ते ॥
चेत्
- चेतति । ‘चिती’ (भ्वा० प० से०) । विच् (३.२.७५) ॥
चेलम् चिल्यतेऽनेन । ‘चिल वसने’ (तु० प० से०) । घञ् (३.३.१९) । गौरादिः (४.१.४१) । -‘कल्पचेलट्-’ (६.३.४३) इति टित्त्वनिपातनाद्वा ङीप् । ‘चेलो नीचेऽधमे त्रिषु । नपुंसकं तु वसने’ इति मेदिनी ॥
चैत्यम् चैत्यमिति । चीयते । चित्याग्निचित्ये च’ (३.१.१३२) इति साधुः । चित्याया इदम् । तस्येदम्’ (४.३.१२०) इत्यण् । तस्येदम् इति विग्रहप्रदर्शनं मुकुटस्य प्रमादः । चित्यायाः स्त्रीलिङ्गत्वात् । ‘चैत्यमायतने बुद्धबिम्बेऽप्युद्देश्यपादपे इति रुद्रः ॥
चैत्रः चित्रया युक्ता पौर्णमास्यस्मिन् । अण्ठकौ (४.२.२३) । (‘चैत्रं मृते देवकुले ना भूभृन्मासभेदयोः’)
चैत्ररथम् अस्येति । उद्यान्ति अस्मिन् । ‘या प्रापणे’ (अ० प० से०) ल्युट् (३.३.११७) । चित्ररथेन निर्वृत्तम् ‘तेन निर्वृत्तम् (४.२.६८) इत्यण् ।
चैत्रिकः चित्रया युक्ता पौर्णमास्यस्मिन् । अण्ठकौ (४.२.२३) । (‘चैत्रं मृते देवकुले ना भूभृन्मासभेदयोः’)
चोचम् प्रशस्तं चोचमस्यास्ति । अर्शआद्यच् (५.२.१२७) । त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्त्रके’ इति धरणिः ॥
चोरः
- चाविति । चोरणम् । ‘चुर स्तेये’ (चु० प० से०) । ‘अ प्रत्ययात्’ (३.३.१०२) । संज्ञापूर्वकत्वान्न गुणः । चुरा शीलमस्य । ‘छत्त्रादिभ्यो णः’ (४.४.६२) । ‘चौरः पाटच्चरेऽपि स्याच्चौरपुष्पौषधावपि’ इति विश्वः (मेदिनी) । पचाद्यचि ‘चौरः’ अपि ॥
चोरपुष्पी चोर इव पुष्पं यस्याः । रात्रिविकासित्वात् । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
चोलः चोलेति । चोल्यतेऽनेन । ‘चुल समुच्छ्राये’ (चु० प० से०) अच् (३.३.५६) । घः (३.३.११८) वा । अल्पश्चोलः । गौरादिः (४.१.४१) । चोली ॥
चौरिका
- चाविति । चौरस्य भावः कर्म वा । मनोज्ञादित्वात् (५.१.१३३) वुञ् ॥
चौर्यम्
- चौरस्य कर्म ष्यञ् (५.१.१२४) ॥
छगलकः छायते । ‘छो छेदने’ (दि० प० अ०) । ‘छो गुक् ह्रस्वश्च’ (उ० १.११३) इत्यलच् । स्वार्थे कन् ॥
छगलान्त्री छगलस्येवान्त्रमस्याः ॥ ‘छगला’ इति पृथग् नाम–इत्यन्ये । ‘छागे तु छगलश्छागीवृद्धदारकयोः स्त्रियाम्’ इत्यनेकार्थकोशः ॥
छत्त्रा छत्रमस्यास्ति । छत्राकारस्तबकत्वात् । ‘छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्द्रयोः । नपुंसकं चातपत्रे’ (इति मेदिनी) ॥
छत्त्रा “छत्रेति । छदति, छादयति, वा । छद अपवारणे । ष्ट्रन् (उ० ४.१५९) । ‘इस्मन्त्रन्क्विषु च’ (६.४.९७) इति ह्रस्वः। ‘छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः - । नपुंसकं चातपत्रे (इति मेदिनी)॥”
छत्त्रा अथेति । छत्त्रमस्त्यस्याः । अर्श आद्यच् (५.२.१२७) । टाप् (४.१.४) । छत्रं स्यादातपत्राणे छत्रा मधुरीकौषधौ । धान्याके च शिलीन्ध्रे च’ इति हेमचन्द्रः ॥
छत्रम् छेति । छादयति । अनेन वा । ‘छद अपवारणे’ (चु० उ० से) । ण्यन्तः । ष्ट्रन् (उ० ४.१५९) । ‘इस्मन्त्रक्विषु च’ (६.४.९७) इति ह्रस्वः ॥
छत्राकी छत्रमकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
छदः छद्यतेऽनेन । णिजभावे ‘पुंसि संज्ञायाम्’ (३.३.११९) इति घः । णिजन्तस्यापि छाद्यतेऽनेन । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः । ‘छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः’ । ‘पुमान्’ इति विशेषणं सान्तक्लीबभ्रमनिरासार्थम् ॥
छदः छाद्यतेऽनेनाङ्गम् । ‘छद संवरणे’ (चु० उ० से०) । ण्यन्तः । ‘पुंसि-’ (३.३.१२१) इति घः । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः । ‘गरुत्पक्षौ नरौ छदम्’ इति वोपालितात्क्लीबमपि ॥
छदनम् छद्यतेऽनेन । ‘छद अपवारणे’ (चु० उ० से०) । ‘आधृषाद्वा’ (ग० ३.१.२५) इति णिजभावे पक्षे करणे ल्युट् (३.३.११७) । ‘छदनं च दले पक्षे पिधाने’ ॥
छदिः छादयति । ‘छद अपवारणे चुरादिः । अर्चिशुचि’ (उ० २.१०८) इतीसिः । ‘इस्मन् (६.४.९७) इति ह्रस्वः । –‘साहचर्यात् सान्तं क्लीबम् इति मुकुटः । तन्न । ‘छदिः स्त्रियाम् इति लिङ्गानुशासनसूत्रात् ॥
छद्म छाद्यतेऽनेन । ‘छद अपवारणे’ (चु० उ० से०) । मनिन् (३.२.७५) । ‘इस्मन्त्रन्क्विषु च’ (६.४.९७) इति हस्वः । (‘छद्म शाठ्येऽपदेशे घातिकर्मणि’)
छन्दः छन्दः
छन्नः छद्यते स्म । ‘छद अपवारणे’ (चु० उ० से०) । क्तः (३.२.१०२) । आगमशास्त्रस्यानित्यत्वान्नेट् । ‘छन्नं त रहसि क्लीबं छादिते वाच्यलिङ्गकम्’ (इति मेदिनी) । मुकुटस्तु-‘वा दान्तशान्त-’ (७.२.२७) इति निपातनात् इत्याह । तन्न । णिजन्तस्य निपातनात् ॥
छलम् छालम् । “छो छेदने’ (दि० प० अ०) । वृषादित्वात् (उ० १.१०५) कलच् । ‘आतो लोप-’ (६.४.६४) इत्याकारलोपः । (‘छलं छद्मस्खलितयोः’ इति हैमः) ॥
छविः छ्यति । छिनत्त्यसारमिति वा । ‘छो छेदने’ (दि० प० अ०) । ‘छिदिर् द्वैधीकरणे’ (रु० उ० अ०) । ‘कृविघृष्विच्छवि-’ (उ० ४.५६) इति क्विन्नन्तो निपातितः । (‘छविस्तु रुचिशोभयोः’) ॥ । एषु भावे वा प्रत्ययाः । शोभेत्यत्र ‘खनो घ च’ (३.३.१२५) इति घः । द्युतिरित्यत्र ‘इक् कृष्यादिभ्यः’ (वा० ३.३.१०८) इति दिक् ।
छविः छयति छिनति वा तमः’कृविघृष्विच्छवि -’ (उ० ४.५६) इति क्विन्नन्तो निपातितः ।
छागः “छ्यति, छायते, वा । ‘छो छेदने’ (दि० प० से०) । ‘छापूखडिभ्यः कित्’ (उ० १.१२४) इति गन् । ‘जातेः-’ (४.१.६३) इति ङीष् ॥”
छागी “छ्यति, छायते, वा । ‘छो छेदने’ (दि० प० से०) । ‘छापूखडिभ्यः कित्’ (उ० १.१२४) इति गन् । ‘जातेः-’ (४.१.६३) इति ङीष् ॥”
छातः छयति स्म । ‘छो छेदने’ (दि० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । छायते स्म वा । क्तः (३.२.१०२) । ‘शाछोरन्यतरस्याम्’ (७.४.४१) इत्वम् । ‘शातः’ इति वा पाठः । तत्र ‘शैङ् गतौ’ (भ्वा० आ० अ०) । क्तः (३.२.१०२) । ‘दुर्बले निशिते स्यातां शितशाताविमौ त्रिषु’ इति तालव्यादौ रभसः ॥
छात्रः छेति । गुरुदोषाच्छादनं छत्त्रम् । तच्छीलमस्य । ‘छत्त्रादिभ्यो णः’ (४.४.६२) ॥
छान्दसः पक्षे ‘तदधीते तद्वेद । (४.२.५९) इत्यण् ॥
छिद्रम् छिद्यते । छिद्र भेदने (चु० उ० से०) । घञ् (३.३.१८) । यद्वा छिद्यते ‘छिदिर् द्वैधीकरणे’ (रु० उ० अ०) ‘स्फायि-’ (उ० २.१३) इति रक्। छिद्रं विवररन्द्रवत् । गर्ते दोषे’ इति हैमः ।
छिन्नरुहा छिन्ना रोहति । ‘इगुपध-’ (३. १.१३५) इति कः । ‘ड्यापोः’ (६.३.६३) इति ह्रस्वः ॥
छुरिका छुरति । ‘छुर छेदने’ (तु० प० से०) । क्वुन् (उ० २.३५) । ‘इगुपध-’ (३.२.१३५) इति कः । कन् (ज्ञापि० ५.४.५) वा ॥
छेकः “गृहेति । छ्यति छीयते, वा । ‘छो छेदने’ (दि० प० अ०) । बाहुलकादीकन् । ‘छेको गृहाश्रितमृगपक्षिणोर्नागरे त्रिषु’ (इति मेदिनी) । ‘छेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे’ इति चवर्गादौ रभसः ॥”
जगती अथविति । गच्छति । ‘गम्लृ गतौ’ (भ्वा० प० उ०) । ‘पृषद्बृहन्महज्जगत्- (उ० २.८४) इति निपातितः । शतृवद्भावात् ‘उगितश्च’ (४.१.६) इति डीप् । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च’ ॥
जगत् “यत्तु-जङ्गम्यते-इति स्वामिना विगृहीतम् । यच्च पुनः पुनर्वृद्धिक्षयो गच्छति-इति मुकुटेन । तन्न । ’वर्तमाने बृहत्-’ (उ० २.८४) इति सूत्रे यङर्थस्य वृत्तिकृद्भिरनुक्तेः । गत्यर्थानां कौटिल्य एव यङ्विधानाच्च । ‘जगत् स्याद्विष्टपे क्लीबं, वायौ ना, जङ्गमे त्रिषु ॥ ‘एकं महाभूतं पृथ्वी, पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्’ इति पृथ्वीजगतोर्भेदः ।”
जगत्प्राणः “अत एव जगत्प्राणौ पृथगपि । ‘जगत् स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु’ इति रुद्रकोषः । ‘जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च । जगती भुवने ख्याता छन्दोभेदे जलेऽपि च’ इति विश्वः । तत्र ‘द्युतिगमिजुहोतीनां द्वे च’ (वा० ३.२.१७८) इति क्विपि द्वित्वे ‘गमः क्वौ’ (६.४.४०) इति मलोपे तुकि जगत् जगतौ । यदा तु वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च’ (उ० २.८४) इति व्युत्पाद्यते, तदा ‘उगिदचाम् (७.१.७०) इति नुम् । जगत्, जगन्तौ । यत्तु-मुकुट; ‘यदा वर्तमाने पृषद्बृहन्महज्जगच्छतृवद् इत्येतन्नास्ति’-इत्यवोचत् । तन्न । उणादिसूत्रस्यासत्त्वे मानाभावात् । उगित्कार्यार्थत्वाच्च । एकत्वे तु जगतां प्राणः ।”
जगरः जगता गृह्यते । ‘प्रातिपदिकाद्धात्वर्थे-’ (चु० ग० सू०) । इति णिच् (टिलोपश्च) । बाहुलकादरः । जागर्ति अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) वा । ‘जगरः कर्कटो योगः संनाहः स्यादुरश्छदः’ इति वोपालितः ॥
जगलः “- भृशं गलति, गल्यते, वा । ‘गल अदने’ (भ्वा० प० से०) । यङ्लुगन्तादच् (३.१.१३४) । संज्ञापूर्वकत्वात् ‘दीर्घोऽकितः’ (७.४.८३) इति दीर्घो न । ‘जगलो मदनद्रुमे । मेदके पिष्टमद्ये च (इति मेदिनी) ॥”
जग्धिः जेति । अदनम् । ‘अद भक्षणे’ (अ० प० अ०) । क्तिन् (३.३.९४) । ‘अदो जग्धिः ’ (२.४.३६) ॥
जघनम् क्लीति । हन्यते । ‘हन्तेः शरीरावयवे द्वे च’ (उ० ५.३२) इत्यच् ।–‘हनो जघ-’ इति क्युर्जघादेशश्च इति मुकुटस्त्वपाणिनीयः । यद्वा वक्रं हन्ति । यङ्लुगन्तात् ‘अच-’ (३.१.१३४) । गत्यर्थस्य ‘भृशं हन्यते’ इति विग्रहासम्भवात् । गत्यर्थानां कौटिल्य एव यङ्विधानात् । ‘हन्यते’ इति कर्मविग्रहे पचाद्यचोऽसम्भवाच्च । जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि’ (इति मेदिनी) ॥
जघनेफला जघने फलं यस्याः । ‘अमूर्धम-’ (६.३.१२) इति सप्तम्या अलुक् ॥
जघन्यजः जघेति । जघन्येऽवरकाले जातः । डः (३.२.९७) ॥
जघन्यजाः
- जघन्यात् पादाज्जाताः । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘पञ्चम्याम्-’ (३.२.९८) इति डः । ‘जघन्यं मेहने क्लीबे चरमे गर्हितेऽन्यवत्’ (इति मेदिनी) ॥
जङ्घा जेति । जायते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘अच् तस्य जङ्घ च’ (उ० ५.३१) । यद्वा जङ्घन्यते कुटिलं गच्छति । हन्तेर्यङ्लुगन्तात् ‘अन्येभ्योऽपि’ (वा० ३.१०१) इति डः ॥
जङ्घाकरिकः “जेति । जज्ञाङ्घासाध्यत्वादुपचाराद्गतिर्जङ्घा । सैव करो राजदेयो भागः, आकरः श्रेष्ठो वा । जह्वाकरोऽस्यास्ति । ठन् (५.२.११५) जङ्घैव करी हस्ती यस्य, इति वा ॥”
जङ्घालः जेति । अतिशयिता जङ्घास्य । सिध्मादित्वात् (५.२.९७) लच् । पिच्छादित्वात् (५.२.१००) इलचि जङ्घिलोऽपि । ‘प्रज्ञालप्रज्ञिलौ तुल्यौ जङ्घालजङ्घिलादयः’ इति वाचस्पतिः ॥
जटा जटति । ‘जट संघाते’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) ॥
जटा जटाऽस्त्यस्याः । अर्श आद्यच् (५.२.१२७) । यद्वा जटति । ‘जट संघाते’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
जटा “व्रेति । व्रतिनः शिखा । जायते, जन्यते वा । ‘जनेष्टन् लोपश्च (उ० ३.३०) । यद्वा जटति । ‘जट सङ्गाते’ (भ्वा० प० से०) अच् (३.१.१३४) । ‘जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी’ (इति मेदिनी) ॥”
जटाजूटः जटानां जूटो बन्धः ।
जटिला जटाऽस्त्यस्याः । पिच्छादीलच् (५.२.१००) । ‘जटिला पिप्पलीमांस्योर्जटायुक्ते तु वाच्यवत्’ इति मेदिनी) ॥
जटी “जटति । ‘जट सङ्घाते’ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ङीष् (ग० ४.१.४५) वा । ‘जटा लग्नकचे मूले मांस्यां, प्लक्षे पुनर्जटी’ । रुद्रे तु –‘गर्दभाण्डे जटीप्लक्षौ’ ॥”
जठरः “जायतेऽत्र जन्तुर्मलो वा । ‘जनेररष्ठ च’ (उ० ५.३८) इत्यरप्रत्यये ठोऽन्त्यादेशः । ‘जठरो न स्त्रियां कुक्षौ, बद्धकक्खटयोस्त्रिषु’ (इति मेदिनी) । मुकुटस्तु-जनयत्यन्नादिना स्वभरणम् । बाहुलकादरन् । पृषोदरादित्वात् (६.३.१०९) अन्त्यस्य ठः इति । स उक्तसूत्रास्मरणप्रयुक्तः ।-जमत्याहारम् । जठरम्-इति स्वाम्यप्येवम् ॥”
जडः जलति घनीभवति । ‘जल घातने’ (भ्वा० प० से०) । अच् (३.१.१३४) । डलयोरेकत्वस्मरणात् ‘जडः’ । (‘जडो मूर्खे हिमाघाते जडा स्याच्छूकशिम्बिका’) ॥
जडा जडयति । ‘तत्करोति-’ (वा० ३.१.२६) इति णिजन्तादच् (३.१.१३४) । ‘जडा स्त्रियाम् । शूकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु तु त्रिषु’ (‘इति मेदिनी) । मुकुटस्तु-कण्ड्वादिना दौःस्थ्यजननादिन्द्रियाणि जडयति स्तम्भयति । ‘जल अपवारणे’ (चु० प० से०) इत्यवोचत् । तन्न । णौ वृद्धिप्रसङ्गात् । जडति वा । डलयोरैक्यात् ॥ न जहाति शूकान् । अजहा । ‘ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी’ इतीन्दुः - इति स्वामी ॥
जडुलः त्रिष्विति । जराशब्दादवरा अर्वाचीना उत्तानशयाद्यास्त्रिलिङ्गाः ॥ जेति । जलति । ‘जल घातने’ (भ्वा० प० से०) । बाहुलकादुलच् । ‘जटुलः’ इति मुकुटः । ‘जट संघाते’ (भ्वा० प० से०) ॥
जतुकम् जत्विव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । जतुकाजिनपत्रायां जतुकं हिङ्गुलाक्षयोः’ (इति मेदिनी) ॥
जतुका जत्विति । जत्विव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । ‘रामठे जतुकं चर्मपत्राजतुकृतोः स्त्रियाम्’ इति चवर्गतृतीयादौ रभसः ॥
जतुकृत् जतु करोति । क्विप् (३.२.१७८) ॥
जतुम् जायते । ‘फलिपाटि-’ (उ० १.१८) इत्युः तोऽन्तादेशः । यतु-बाहुलकात्तुगात्वाभावश्च-इति मुकुटः उक्तसूत्रास्मरणमूलकः ॥
जतूका जायते । ‘जनी’ (दि० आ० से०) । ‘उलूकादयश्च’(उ० ४. ४१) इति साधुः॥ जतुशब्दात् ‘संज्ञायां-’ (५.३.७५) इति कनि ‘जतुका’ च ॥
जत्रुम् समिति । जायते बाहुरस्मात् । ‘जत्र्वादयश्च’ (उ० ४.१०२) इति साधु ॥
जनंगमः “- अधार्मिकाञ्जनान् गच्छति, जनेभ्यो गच्छति, वा । ‘गमश्च’ (३.२.४७) इति खच् ॥”
जनकः जनयति । ण्वुल् (३.१.१३३) । ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः । ‘जनकः पितृभूपयोः’ इति हैमः ॥
जननम् ल्युटि (३.३.११५) जननम् । यत्तु – ‘जन जनने’ (जु० प० से०) – इति मुकुटेनोक्तम् । तन्न । तस्य छान्दसत्वात् । (जननी तु दयामात्रोर्जननं वंशजन्मनोः’)
जननम् जन्यते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘जन जनने’ वा (जु० प० से०) । ण्यन्तः । ‘कर्माणि ल्युट् (३.३.११३) । ‘जननं वंशजन्मनोः’ (इति मेदिनी) ॥
जननी जनयति । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् ॥
जनपदः जन पदं वस्तु यत्र । ‘भवेज्जनपदो जानपदोऽपि जनदेशयोः इति विश्वमेदिन्यौ ॥
जनयित्री जनेति । जनयति । तृच् (३.१.१३३) । ‘ऋन्नेभ्यो ङीप्’ (४.१.५) । अन्तर्भावितण्यर्थात् ‘जनित्री’ ॥
जनश्रुतिः जनेभ्यः श्रूयते । क्तिन् (३.३.९४) ॥
जनार्दनः “जननं जनः । भावे घञ् (३.३.१८) । ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः। जनो जन्म । तमर्दयति जनार्दनः । ‘अर्द हिंसायाम्’ (चु० उ० से०) नन्द्यादित्वात् (३.१.१३४) ल्युः। जनाः समुद्रस्थदैत्यभेदाः, तेषामर्दन इति वा (जनैरर्द्यत इति वा । अर्द गतौ याचने च । ‘कृत्यल्युटः-’ (३.३.१३३) इति कर्मणि ल्युट्) ॥”
जनाश्रयः जनानामाश्रयः ।
जनिः ‘जनिघसिभ्यामिण्’ (उ० ४.१३०) । ‘जनिवध्योश्च’ (७.३.३५) इति वृद्धिनिषेधः । उत्पत्तिसाहचर्याज्जनेः स्त्रीत्वम् ।
जनी जनीति । जायते आरोग्यमनया । ‘जनिघसिभ्यामिण्’ (उ० ४.१३०) । ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः । ‘कृदि-’ (ग० ४.१.४५) इति वा ङीष् । ‘जनी सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि’ (इति मेदिनी) ॥
जनी जायते वंशोऽस्याम् । ‘जनिघसिभ्यामिण्’ (उ० ४.१३०) । ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः । ‘कृदि-’ (ग० ४.१.४५) इति वा ङीष् । ‘जनो लोके जगद्भदे पृथग्जने । जनी स्नुषावनितयोः’ इति हैमः । ‘जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि’ (इति मेदिनी) ॥
जनुः जनुरिति । जननम् । ‘जनी प्रादुर्भावे’ (दि० आ० से) । ‘जनेरुसिः’ (उ० २.११५) ॥
जन्तुः जायते । ‘कमिगमिजनि-’ (उ०१.७३) इति तुन् ।
जन्तुफलः जन्तवः फलेऽस्य ॥
जन्म मनिनि (उ० ४.१४५) जन्म ॥ ‘इषियुधीन्धि-’ (उ० १.१४५) इति मकि जन्मशब्देऽदन्तः पुंलिङ्गः । ‘क्लीबोऽपि’ इत्युज्ज्वलदत्तः ।
जन्मी जन्मास्यास्ति । ‘अत इनि-’ (५.२. ११५) । नान्तात्तु व्रीह्यादित्वात् (५.२.११६)
जन्यः जेति । जनीं वधूं वहन्ति । ‘संज्ञायां जन्या’ (४.४.८२) इति यदन्तो निपातितः ॥ वरस्य जामातुर्ये स्निग्धास्तत्पक्षा वयस्यादयः । ‘जन्यो वरवधूज्ञातिप्रियभृत्यहितेषु च’इति विश्वः ॥
जन्यम् जननम् । ‘जनेर्यक्’ (उ० ४.१११) । जायते वा । ‘भव्यगेय-’ (३.४.६८) इति साधुः । ‘जन्यं हट्टे परीवादे संग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः । वरस्निग्धे’ इति विश्वमेदिन्यौ ॥
जन्युः ‘यजिमनि-’ (उ० ३.२०) इति युच् ॥ (‘जन्युः स्याज्जन्तुमात्रे च पावके परमेष्ठिनि’)
जपः जपनम् । ‘जप मानसे च’ (भ्वा० प० से०) । ‘व्यधजपोः’ (३.३.६१) इत्यप् ॥
जपापुष्पम् जवति । ‘जु’ सौत्रो धातुर्गतौ वेगे च । अच् (३.१.१३४) ॥ जपति । अच् (३.१.१३४) । ‘जवायां तु जपा स्मृता’ इति धर्मदासः । ‘ओड्रपुष्पेऽपि वृक्षेऽपि जवाशब्दः प्रकीर्तितः’ इति त्रिकाण्डशेषः ॥
जम्पती दम्पेति । जाया च पतिश्च । राजदन्तादि (२.२.३१) गणे पाठाज्जायाशब्दस्य ‘दम्’ ‘जम्’ भावो वा निपात्यते । ‘दाराः पुसि बहुत्वे च दं कलत्रे नपुंसकम्’ इत्यमरमाला । ‘पत्न्यां जं दमलिङ्गत्वे’ इति नामप्रपञ्चः ॥
जम्बालः जमति । ‘जमु अदने’ (भ्वा० प० से०) । बाहुलकाद्बालन् । यद्वा ‘जम्ब अदने’ इति धातुः । भावे घञ् (३.३.१८) । जम्बम् आलाति । ‘ला दाने’ (अ० प० अ०) । आतोऽनुप–’ (३.२.३) इति कः । ‘जम्बालः शैवले पङ्के ।
जम्बीरः स्युरिति । जम्यते । ‘जमु अदने’ (भ्वा० प० से०) । ‘गम्भीरादयश्च’ (उ० ४.३५) इति साधुः । ‘जम्बीरः प्रस्थपुष्पे स्यात्तथा ‘दन्तशठद्रुमे’ ॥
जम्बु लुकि ‘ह्रस्वो नपुंसके-’ (१.२.४८) इति ह्रस्वे जम्बुः ॥
जम्बुकः “जमति । ‘जमु अदने’ (भ्वा० प० से०) । मृगय्वादिः (उ० १.३७) ।-मितवादित्वात् (वा० ३.२.१८०) डुः, वुक च- इति मुकुटश्चिन्त्यः । टिलोपप्रसङ्गात्। वुकोऽप्रसङ्गाच्च ॥ उलूकादित्वात् (उ० ४.४१) जम्बूकश्च । ‘खरोष्ट्रकपिजम्बूकवायसाजम्बरो यमः’ इति वाचस्पतिः ॥”
जम्बूः फले इति । जमति । ‘जमु अदने’ (भ्वा० प० से०) ॥ ‘अन्दूदृम्भूजम्बू-’ (उ० १.९३) इत्यनेन कूप्रत्ययो बुगागमश्च निपातितः । ‘जम्बूः स्यात्पादपान्तरे । तथा सुमेरुसरिति द्वीपभेदेऽपि च स्त्रियाम्’ । जम्ब्वाः फलम् । ‘जम्ब्वा वा’ (४. ३.१६५) इत्यम् । तस्य विधानसामर्थ्यान्न लुक्। पक्षे ‘ओरञ्’ (४.१.१३९) तस्य ‘लुप् च’ (४.३.१६६) इति वा लुप् । ‘लुपि युक्तवत्-’ (१.२.५१) । पक्षे फले ‘लुक्’ (४.३.१६३) । लुपि जम्बूः ॥
जम्भः जम्भयत्यम्लत्वात् । ‘जभी गात्रविनामे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । ‘रधिजभो’ (७.१.६१) इति नुम् । ‘जम्भः स्याद्दानवान्तरे । दन्तभोजनयोरंसे हनौ जम्बीरतूनयोः’ ॥
जम्भभेदी जम्भमसुरं भेत्तुं शीलमस्य । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः ।
जम्भलः वृषादित्वात् (उ० १.१०६) कलच् । (‘जम्भलः पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च’) ॥
जम्भीरः गम्भीरादित्वात् (उ० ४.३५) इरन् ॥
जम्वीरः जम्यते । ‘जमु अदने’ (भ्वा० प० से०) । विच् (३.२.७५) । वीरयति । अच् (३.१.१३४) । जम् चासौ वीरश्च । ‘जंबीरः प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे (इति मेदिनी) ॥
जयः जयति । पचाद्यच् (३.१.१३४) । ‘जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे’ इति मेदिनी ॥
जयः ‘जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्ये ना जयन्ते विजये च युधिष्ठिरे’ (इति मेदिनी) ॥
जयन्तः जयति । ‘तृभूवहि-’ (उ० ३.१२८) इत्यादिना झच् । ‘झोऽन्तः’ (७.१.३) (‘जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः । जीवन्त्योः । सिंहपुच्छ्यां च इन्द्रपुत्र्यां च’) । पाकशासनस्यापत्यम् । अत इञ्’ (४.१.९५)
जयन्ती ‘तृभूवहि-’ (उ० ३.१२८) इति झच् । ‘षित् इत्यनुत्तेर्ङीष् (४.१.४१) । ‘जयन्ती वृक्षभिद्गौर्योरिन्द्रपुत्रीपताकयोः । पुमानैन्द्रौ हरे भीमे’ इति मेदिनी ॥
जया जयेति । जयति । ‘जि जये’ (भ्वा० प० अ०) । पचाद्यच् । (३.१.१३४) । ‘जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च। अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे’ इति मेदिनी ॥
जय्यः “जेति । जेतुं शक्यः । ‘जि जये, अभिभवे वा’ (भ्वा० प० अ०) ‘शकि लिङ् च’ (३.३.१७२) इति शक्तौ ‘अचो यत्’ (३.३.९७) । ‘क्षय्यजय्यौ शक्यार्थे’ (६.१.८१) ॥”
जरणम् जरयति ‘जॄष वयोहानौ’ (दि० प० से०) । नन्द्यादिल्युः (३.१.१३४) । ‘जरणं हिङ्गुनि स्मृतम् । जरणो जीरकेऽपि स्यात्कृष्णे सौवर्चलेऽपि च’ इति विश्वः ॥
जरत् ‘जीर्यतेरतृन्’ (३.२.१०४) ॥
जरत्गवः जरंश्चासौ गौश्च । ‘पूर्वकालैक-’ (२.१.४९) इति समासः । ‘गोरतद्धितलुकि’ (५.४.९२) इति टच् ॥
जरा जीर्यतेऽनया । ‘जॄष् वयोहानौ’ (दि० प० से०) । षिद्भिदादिभ्योऽङ्’ (३.३.१०४) । यद्वा जरणम् । भावेऽङ् (३.३.१०४) । ‘ऋदृशोऽङि गुणः’ (७.४.१६) ॥
जरायुः जरामेति । ‘किंजरयोः श्रिणः’ (उ० १.४) इति ञुण् ॥
जलजन्तवः जलानां जन्तवः । (२) द्वे जलचरमात्रस्य ।
जलधरः (जलधरस्तोयधरादीनामप्युपलक्षणम् । तोयधरो मुस्तासुनिषण्णौषधीघने)
जलनिर्गमाः निर्गमनानि । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । ‘ग्रहवृदृनिश्चिगमश्च’ (३.३.५८) इत्यप् । करणे वा । ‘खनो घ च’ (३.३.१२५) । इति घः । जलानां निर्गमाः । द्वे जलनिःसरणजालकस्य । नद्यादौ अधःस्थजलस्योर्ध्वनिःसरणस्येत्यन्ये । स्वामी तु—चत्वार्थेकार्थानि इत्याह ।
जलनीली जलेति । जलं नीलयति । णील वर्णे’ (भ्वा० प० से०) । णिच् (३.१.२५) । ‘कर्मण्यण्’ (३.२.१) ॥ जले शेते तिष्ठति । ‘शीङो वलञ्वलन्वालनः (उ० ४.३८) । शेवलश्चैव शेवालः शैवलो जलनीलिका’ (इति वाचस्पतिः) ।
जलप्रायः जलेति । जलं प्रायं यत्र ॥
जलमुक् जलं मुञ्चति । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । क्विप् (३.२.७६) ।
जलम् जलति । ‘जल अपवारणे’ (चु० प० से०) । पचाद्यच् (३.१.१३४) । ‘जलं गोकलले नीरे ह्रीबेरेऽप्यन्यवज्जडे’ इति मेदिनी ॥
जलव्यालः जलस्थो व्यालः
जलशुक्तिः जलजाः शुक्तयः ॥ द्वे सर्वजलशुक्तिनाम् ।
जलाधाराः आध्रियतेऽत्र । ‘धृङ् अवस्थाने’ (तु० आ० अ०) । ‘अध्यायन्याय-’ (३.३.१२२) इति घञ् । जलस्याधाराः ॥ (२)
जलाशयः “जलेति । जलम् आशयो हृदयम् अस्य । जलम् आशेते तिष्ठति अत्र, इति वा । ‘पुंसि’ (३.३.११८) इति घः । जलशयो जलाधारे स्यादुशीरे नपुंसकम्’ ।”
जलाशयम् जले आशेते । अच् (३.१.१३४) यद्वा जलो जड आशयो यस्य । ‘जलाशयो जलाधारे स्यादुशीरे नपुंसकम्’ (इति मेदिनी) ॥
जलोच्छ्वासः जलोच्छ्वासा इति । जलान्युच्छ्वसन्ति परिवहन्त्येभिः । ‘श्वस प्राणने (अ० प० से०) । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपसर्गस्य घञि-’ (६.३.१२२) इति वा दीर्घः । यद्वा जलानामुच्छ्वासनम् । परिवहनं च । भावे घञ् (३.३.१८)
जलौकसः सान्तोऽपि । ‘जलोरगी जलोका तु जलौका च जलौकसि’ इति संसारावर्ताद्बहुवचनं प्रायिकम् । ‘जलौकापि जलोका स्याज्जलूका जलजन्तुका’ इति तारपालः ।
जलौका जलमोकोऽस्याः । ओक उचः के’ (७.३.६४) इति निपातितोऽदन्त ओकशब्दः ।
जवः ‘जु’ इति सौत्रो (३.२.१५०) धातुः । जवनम् । ‘ॠदोरप्’ (३.३.५७) । चवर्गादिः (‘जवो वेगवति त्रिषु । पुंलिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा स्मृता । (५) इति मुकुटः। वस्तुतस्तु रंह आदिष्वपि भावव्युत्पत्तिरेव न्याय्या ।
जवः अच् (३.१.१३४) (जवो वेगवति त्रिषु) पुंलिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा मता’ (इति मेदिनी) ॥
जवनः जेति । जवनशीलः । ‘जु’ इति ‘सौत्रो धातुर्गतौ वेगे च’ । ‘जुचङ्क्रम्य-’ (३.२.१५०) इति युच् । ‘जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु’ (इति मेदिनी) ॥
जवनः ‘जुचङ्क्रम्य-’ (३.२.१५०) इति युच् । ‘जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु’ (इति मेदिनी) ॥
जवनिका जवत्यस्याम् । ‘जुः’ सौत्रो गतौ वेगे च । ल्युट् (३.३.११७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘यमनिका’ इति वा पाठः । यमयति । ‘यम उपरमे’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । कन् (ज्ञापि० ५.४.५) ॥
जवाधिकः जवेन वेगेनाधिकः ॥
जह्नुतनया जह्नो राजर्षेस्तनया ॥
जाङ्गुलिकः जाङ्गुलीं विषविद्यामधीते वेद वा । वसन्तादित्वात् (४.२.६३) ठक् । ‘परीक्षितं समश्नीयाज्जाङ्गलीमिर्मिषग्वृतः । जाङ्गुल्या दीव्यतीति वा । ‘तेन दीव्यति’ (४.४.२ ) इति ठक् ।
जाङ्घिकः जङ्घाभ्यां जीवति । ‘वेतनादिभ्यो जीवति’ (४.४.१२) इति ठक् ॥
जातम् “क्ते (३.३.१७४) जातम् । ‘जातं व्यक्तौघजन्मसु । क्लीबं, त्रिलिङ्गमुत्पन्ने’ ।”
जातरूपम् जातं रूपं यस्य । यद्वा प्रशस्तं जातम् । ‘प्रशंसायां रूपप्’ (५.३.६६) ॥
जातवेदाः “विद्यते लभ्यते । विद्लृ लाभे (तु० उ० अ०) । असुन् (उ० ४.१८९) । जातं वेदो धनं यस्मात् । जाते जाते विद्यते इति वा । ‘विद सत्तायाम् (दि० आ० अ०) । जातं वेत्ति वेदयते वा । विद चेतनादौ (अ० प० से०), (रु० आ० अ०) , ण्यन्तः, (चु० आ० से०) । असुन् (उ० ४.१८९) ।”
जातापत्या जातेति । जातमपत्यमस्याः ॥
जातिः जायते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘क्तिच्क्तौ च-(३.३.१७४) इति क्तिच् । ‘जनसन (६.४.४२) इत्यादिनात्वम् । तितुत्र-’ (७.२.९) इति नेट् । ‘जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्ल्यां कम्पिल्लजन्मनोः । जातीफले छन्दसि च’ इति हैमः ।
जातिः जायते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । क्तिच् (३.३.१७४) । ‘जनसन-’ (६.४.४२) इत्यात्वम् । वा ङीष् (ग० ४.१.४१) । यत्तु - जायते प्रीतिरनयेति बाहुलकाज्जनेः कर्तरि क्तिच् – इत्याह । तन्न । ‘अनया’ इति करणविग्रहं प्रदर्श्य ‘कर्तरि’ इति कथनं व्याहतम् । ‘बाहुलकात्’ इति च । ‘क्तिच्क्तौ च’ (३.३.१७४) इति सूत्रस्य सत्त्वात् । ‘जातिः स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि । जातीफले च मालत्याम्’ (इति मेदिनी) ॥
जातीकोशम् अथेति । जात्याः कोशः । जातिरपि । ‘जातिर्जातीफलेऽपि च’ इति रभसः । ‘कोषोऽप्रकृते पेश्यां पात्रे जातिकोषे’ इति रभसः ॥
जातीफलम् जात्याः फलम् । ‘फलम्’ अपि । ‘फलं लाभे जातिकोषे बाणाग्रे फलकेऽपि च’ इति रुद्रः ॥
जातु
- जायति । ‘जै क्षये’ (भ्वा० प० अ०) । बाहुलकात्तुन् ॥
जातोक्षः विति । जातश्चासावुक्षा च । ‘अचतुर-’ (५.४.७७) इति । साधुः ॥
जानुः जान्विति । जायते । ‘दृसनिजनिचरि-’ (उ० १.३) इति ञुण् । ‘जनिवध्योश्च’ (७.३.३५) इति न प्रवर्तते । अनुबन्धद्वयसामर्थ्यात् । जानुरर्धर्चादिः (२.४.३१) । ‘अस्त्रियाम्’ इति त्रिभिः सम्बध्यते । (समस्तत्वात्) ॥
जामातृः “जेति । जायां मिमीते । मिनोति, वा । ‘माङ् माने’ (जु० आ० अ०) । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) वा । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः ॥”
जाम्बवम् अणि जाम्बवम् ॥
जाम्बूनदम् जम्बूरसस्य नद्यां भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् ॥
जायकम् अथेति । जयति गन्धान्तरम् । ‘जि अभिभवे’ (भ्वा० प० से०) ण्वुल् (३.१.१३३) ॥
जाया जायतेऽस्याम् । ‘जनेर्यक्’ (उ० ४.१११) । ‘जायायास्तद्धि’ जायात्वं यदस्यां जायते पुनः’ (९.८) इति मनुः ॥
जायाजीवाः
- जायया जीवन्ति । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति । कः ॥
जायापती दम्पेति । जाया च पतिश्च । राजदन्तादि (२.२.३१) गणे पाठाज्जायाशब्दस्य ‘दम्’ ‘जम्’ भावो वा निपात्यते । ‘दाराः पुसि बहुत्वे च दं कलत्रे नपुंसकम्’ इत्यमरमाला । ‘पत्न्यां जं दमलिङ्गत्वे’ इति नामप्रपञ्चः ॥
जायुः जयति रोगान् । ‘जि अभिभवे’ (भ्वा० प० अ०) । ‘कृवापाजि-’ (उ० १.१) इत्युण् ॥
जारः जेति । जारयति । ‘जॄष् वयोहानौ’ (भ्वा० प० से०) । ‘दारजारौ कर्तरि णिलुक् च’ (वा० ३.३.२०) इति घञ् । यत्तु-जीर्यतेऽनेन । करणे घञ् (३.३.१९)–इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । ‘जारस्तूपपतौ जायौषधीभिदि’ इति हैमः ॥
जालकम् जालमिव । ‘इवे प्रति-’ (५.३.९६) इति कन् । जालकं कोरके दम्भे कुलायानाययोरपि । न पुंसि मोचनफले स्त्रियां तु वसनान्तरे । गिरिसारजलौकायामपि स्याद्विधवास्त्रियाम् । भटानामश्मरचिताङ्गक्षिण्यां च जालिका’ ॥
जालम् “जले क्षियते । ‘शेषे (४.२.९२) इत्यण् । जलति घनीभवति । ‘जल धान्ये (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु, नीपे ना, स्त्री तु घोषके’ इति रभसः ।”
जालिकः
- द्वाविति । वागुरया (१) जालेन च चरति । ‘चरति’ (४.४.८) इति ठक् ॥
जाली जलति । ‘जल धान्ये’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘जातेः-’ इति - गौरा-’ (४.१.४१) इति वा ङीष् । ‘जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः । जालो नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम् (इति मेदिनी) ॥
जाल्मः
- जालयति । ‘जल आच्छादने’ (चु० प० से०) । जालं करोति । बाहुलकान्मः । ‘नेड्वशि कृति’ (७.२.८) । ‘जाल्मस्तु पामरे । असमीक्ष्यकारिणि च’ इति हैमः ॥
जावालः “- जेति । जवमलति, आलाति वा । ‘अल भूषणादौ’ (भ्वा० प० से०) । अण् (३.२.१) । कः (भ्वा० ३.२.५) वा । जवालोऽजः । तस्यायम् ॥”
जिङ्गी जिङ्गति । ‘जिगि गतौ इति केचित्पठन्ति । गौरादिः । (४.१.४१) ॥
जित्वरः ‘इण्नश्जि-’ (३.२.१६३) इति क्वरप् ॥
जिनः “जयति जिनः । ‘इण् षिञ्जिदीङुष्यविभ्यो नक्’ (उ० ३.२) । ‘जिनाति’ इति स्वामिमुकुटौ । तन्न । ‘अङ्गस्य’ ‘हलः’ (६.४.१,२) इति दीर्घप्रसङ्गात् । (‘जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु’) ॥”
जिष्णुः “जयति । ‘जि जये, अभिभवे वा’ (भ्वा० प० अ०) । ‘ग्लाजिस्थश्च-’ (३.२.१३९) इति ग्स्नुः । जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवत्प्रोक्तो विष्णावर्के वसुष्वपि’ ।”
जिष्णुः ‘ग्लाजिस्थश्च ग्स्नुः’ (३.२.१३९) । ‘जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवत्’ (इति मेदिनी) ॥
जिह्मगः जिह्मं कुटिलं गच्छति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति ङः। जिह्मगोऽहौ च मन्दगे’ इति विश्वः ।
जिह्वा लेढि । लिहन्त्यनया वा । ‘लिह आस्वादने’ (आ० उ० अ०) । ‘शेवयह्वजिह्वा-’ (उ० १.१५४) इति साधुः । -लिहेः ‘पूर्वजिह्वग्रीवा’ इति वन्प्रत्ययः इति मुकुटोऽपाणिनीयः ॥
जीनः जिनाति स्म । प्राग्वत् क्तः (३.४.७२) । ‘ग्रहिज्या–’ (६.१.१६) इति सम्प्रसारणम् । ‘हलः’ (६.४.२) इति दीर्घः । ‘ल्वादिभ्यश्च’ (८.२.४४) इति नत्वम् ॥
जीमूतः “जीवनं जलं मूतं बद्धमनेन । ‘मूङ् बन्धने’ (भ्वा० आ० से०) । कर्मणि क्तः (३.२.१०२, ३.४.७०) । पृषोदरादिः (६.३.१०९) ज्यानं जीः । ‘ज्या वयोहानौ (क्र्या० प० अ०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । जिया वयोहान्या मूतो बद्ध इति वा । (‘जीमूतो वासनेऽम्बुदे । घोषकेऽद्रौ भृतिकरे’) ।”
जीमूतः जीमूत इव जीमूतोऽद्रौ भृतिकरे देवताडे पयोधरे’ इति मेदिनी ॥
जीरकम् जीति । जवति । ‘जुः’ सौत्रः । ‘जोरी च’ (उ० २.२३) इति रक् । जिनाति वा । ‘ज्या वयोहानौ’ (क्र्या० प० अ०) । ‘ज्यश्च’ इति रक् । ‘संज्ञायाम्-’ (५.३.७५) इति कन् ॥
जीर्णः जीर्यति स्म । ‘जॄष् वयोहानौ’ (दि० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । (‘जीर्णं परिपक्वपुराणयोः’ (इति मेदिनी) ॥
जीर्णवस्त्रम् जीर्णं च तद्वस्त्रं च ॥
जीवंजीवः जीवं जीवयति । तद्दर्शनेन विषनाशकत्वात् । ‘कृत्यल्ल्युटो बहुलम्’ (वा० ३.३.११३) इति बाहुलकात्खच् । ‘जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च’ इति हैमः ॥
जीवः जीवयति । अच् (३.१.१३४) । मृतसंजीवनमन्त्रज्ञत्वात् । ‘जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि’ इति हैमः ।
जीवः जीति । जीवनम् । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । घञ् (३.३.१८) । ‘जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृहस्पतौ । जीवा जीवन्तिकामौर्वीवचाशिञ्जितभूमिषु । न स्त्री तु जीविते’ (इति मेदिनी) ॥
जीवकः जीवयति । ण्वुल् (३.१.१३३) । ‘जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चशीर्षे च पुंसि स्यादाजीवे जीविको मता । त्रिषु सेविनि वृद्ध्याशीर्जीविनोराहितुण्डिके’ (इति मेदिनी) ॥
जीवकः जीवयति । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चशीर्षे च पुंसि स्यात् ॥
जीवनम् जीव्यतेऽनेन । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । करणे ल्युट् (३.३.११६) । ‘जीवनं वर्तते । नीरप्राणधारणयोरपि । जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात् ।
जीवनम् जीवन्त्यनेन । ल्युट् (३.३.११७) ॥
जीवनी जीव्यतेऽनया । ‘करणा-’ (३.३.११७) इति ल्युट् । युच् (उ० २.३७) वा । ‘जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात्’ (इति मेदिनी) ॥
जीवनीया जीवनाय हिता । ‘तस्मै हितम् (५.१.५) इति छः ॥
जीवनौषधम् जीवनस्यौषधम् ॥
जीवन्तिका जीवति । ‘रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि’ (उ० ३.१२७) इति झच् । षित्त्वात् (४.१.४१) ङीष् । कन् (५.३.७५) । ‘जीवन्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः’ (इति मेदिनी) ॥
जीवन्तिका जीवति । झच् (उ० ३.१२७) । ‘जीवन्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः’ इति मेदिनी ॥
जीवन्ती जीवेति । जीवति । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । शता (३.२.१२४) । ‘उगितश्च’ (४.१.६) इति ङीप् । ‘जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि’ (इति मेदिनी) ॥
जीवा जीवयति । पचाद्यच् (३.१.१३४) । ‘जीवा जीवन्तिकामौर्वींवचाशिञ्जितभूमिषु । न स्त्री तु जीविते’ (इति मेदिनी) ॥
जीवातुः नेति । जीवत्यनेन । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । ‘जीवेरातुः’ (उ० १.७८) । ‘जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे’ (इति मेदिनी) ॥
जीवान्तकः
- जीति । जीवानामन्तकः ॥
जीविका जीव्यतेऽनया । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः । ‘संज्ञायां कन्’ (५.३.७५) । क्वुन् (उ० २.३२) वा । ‘जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चशीर्षे च पुंसि स्यादाजीवे जीविका मता । त्रिषु सेविनि वृद्ध्याशीर्जीविनोराहितुण्डिके’ (इति मेदिनी) ॥
जीवितकालः जीवितस्य कालः ॥
जुगुप्सा ‘गुप गोपनकुत्सनयोः’ (भ्वा० आ० से०) । गुपेर्निन्दायां सन् (३.१.५) । ‘अ प्रत्ययात् (३.३.१०२) ॥
जुङ्गः जुङ्गति । ‘जुगि वर्जने’ (भ्वा० प० से०) । अच् (३.१.१३४) । जुङ्ग्यते वा । घञ् (३.३.१९) ॥
जुहू जुहोति । ‘द्युतिगमिजुहोतीनां द्वे च’ ‘जुहोतेर्दीर्घश्च’ (वा० ३.२.१७८) इति क्विप् दीर्घश्च ॥
जृम्भः “जृम्भ इति । ‘जृभि गात्रविनामे’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘गुरोश्च-’(३.३.१०३) इत्यः । जृम्भा विकासजृम्भणयोस्त्रिषु । घञन्तस्यैव क्लीबत्वमपि । ‘लिङ्गशेष विधिर्व्यापी विशेषैर्यद्यबाधितः’ इति वक्ष्यमाणत्वात् । यत्तु - जृम्भं तु, अज्विधौ भयादिपाठात् इति मुकुटेनोक्तम् । तन्न । ‘अज्विधौ इत्युक्तत्वेन क्लीबत्वस्याविधानात् ।”
जृम्भणम् ल्युटि (३.३.११५) जृम्भणम् ।
जेतृः जायिति । जयनशीलः । ‘तृन्’ (३.२.१३५) । प्रज्ञाद्यण् (७.४.३८) ॥
जेतृः जयिति । जयनशीलः । ‘तृन्’ (३.२.१३५) ॥
जेमनम् ‘जिमु अदने’ (भ्वा० प० से०) । ल्युट् (३.३.११५) ॥
जेयः जयिति । शक्यार्थादन्यत्र ‘अर्हे कृत्यतृचश्च’ (३.३.१६९) इति योग्यतायाम् ‘अचो यत्’ (३.१.९७) ॥
जैत्रः जायिति । जयनशीलः । ‘तृन्’ (३.२.१३५) । प्रज्ञाद्यण् (७.४.३८) ॥
जैवातृकः जीवयति । अन्तर्भावितण्यर्थः। ‘जीवेः’ इत्यनुवृत्तौ ‘आतृकन् वृद्धिश्च’ (उ० १.७९) इति साधुः । ‘जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु’ ॥
जोङ्गकम् “जुङ्गति । जुङ्ग्यते, वा । ‘जुगि वर्जने’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । पृषोदरादिः (६.३.१०९) । बाहुलकाद्गुणो वा ॥ ‘अगुरु प्रवरं लोहं क्रिमिजग्धमनार्यजम्’ इति शाश्वतः ।”
ज्ञः जानाति । ‘इगुपध-’ (३.१.१३५) इति कः । ‘ज्ञो ब्रह्मबुधविद्वत्सु (इति मेदिनी) ॥
ज्ञप्तिः ज्ञप मिच्च’ (चु० प० से०) चुरादिः । ण्यन्तत्वाद्युचि (३.३.१०७) प्राप्ते आवादित्वात् (वा० ३.३.९४) बाहुलकाद्वा क्तिन् । यदा तु चुरादीनां णिजभावे सामान्यापेक्षं ज्ञापकम् । तदा क्तिन् न्याय्य एव । तितुत्र- (७.२.९) इति नेट् ।
ज्ञातसिद्धान्तः ज्ञातः सिद्धान्तो येन ॥
ज्ञातिः जानाति । क्तिच् (३.३.१७४) ज्ञायते वा । क्तिन् (३.३.९४) । (‘ज्ञातिस्तातसगोत्रयोः’ इति मेदिनी) ॥
ज्ञातेयम् ज्ञेति । ज्ञातेर्भावः । ‘कपिज्ञात्योर्ढक्’ (५.१.१२७) ॥
ज्ञानम् मोक्षफलिका धीर्ज्ञानम् ।
ज्ञानी ज्ञानमस्यास्ति । इनिः (५.२.११५) ॥
ज्या जिनाति । ‘ज्या वयोहानौ’ (क्र्या० प० अ०) । अग्न्यादित्वाद्यदन्तो (उ० ४.११२) निपातितः । ‘ज्या मौर्वी ज्या वसुन्धरा’ इति शाश्वतः । (‘ज्या तु मातरि’ इति हैमः)
ज्या जिनाति । ‘ज्या वयोहानौ’ (क्र्या० प० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
ज्यायस् अतिशयेन वृद्धः । ‘वृद्धस्य च’ (५.३.६२) इति ज्यादेशः । ‘ज्यादादीयसः’ (६.४.१६०) इत्यात्वम् ॥
ज्यैष्ठः पूर्ववदण्द्वयेन ज्यैष्ठः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावे ज्येष्ठोऽपि । ‘ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ’ इति त्रिकाण्डशेषः । (‘ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः । ज्येष्ठा मे गृहगोधिकायाम्’)
ज्योतिरिङ्गणः ज्योतिर्नक्षत्रम् । तद्वदिङ्गति । ‘इगि गतौ’ (भ्वा० प० से०) । ‘चलनशब्दार्थात्-’ (३.२.१४८) इति युच् ॥
ज्योतिष्मती ज्योतिरस्त्यस्याः । मतुप् (५.२.८४) ॥
ज्योत्स्ना ज्योतिरस्त्यस्याम् । ‘ज्योत्स्नातमिस्रा-’ (५.२.११४) इति निपात्यते । ‘ज्योत्स्ना चन्द्रातपेऽपि स्याज्ज्यो त्स्नायुक्तनिशि स्मृता’ ।
ज्यौतिषिकः ज्योतिर्नक्षत्राद्यधिकृत्य कृतो ग्रन्थः । ‘अधिकृत्य कृते ग्रन्थे’ (४.३.८७) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । ज्योतिषमधीते वेद वा । ‘क्रतूक्थादि-’ (४.२.६०) इति ठक् ॥
ज्यौत्स्नी ज्योत्स्नीस्त्यस्याम् । प्राग्वदण् (वा० ५.२.१०३) । (‘ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तनिशि स्त्रियाम्’)
ज्यौत्स्नी ज्यौत्स्नीति । ज्योत्स्नास्त्यस्याः ‘ज्योत्स्नादिभ्य उपसंख्यानम्’ (वा० ५.२.१०१) इत्यण् । ‘ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोः’ इति हैमः ॥ संज्ञापूर्वकत्वात् वृद्ध्यभावे ‘ज्योत्स्नी’ अपि ॥
ज्वरः ‘ज्वरति । ‘ज्वर रोगे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ज्वरणं वा । ण्यन्तात् घञ् (३.३.१८) । णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । ‘एरच्’ (३.३.५६) वा ॥
ज्वलनः ज्वलति । ‘जुचङ्क्रम्य-’ (३.२.१५०) इति युच् ॥
ज्वाला ज्वलति । ‘ज्वलितिकसन्तेभ्यो णः’ (३.१.१४०) । स्त्रियां टाप् (४.१.४) ।
झटा झट्यते । ‘झट संघाते’ (भ्वा० प० से०) । घञ् (३. ३.१८) संज्ञापूर्वकत्वान्न वृद्धिः । झटति वा अच् (३.१.१३४) ॥
झटिति
- ‘झट संघाते’ (भ्वा० प० से०) । संपदादिः (वा० ३.३.१०८) । झटमेति । ‘इण्’ (अ० प० अ०) । क्तिच् (३.२.७५) ॥
झरः एवं झरः । षित्वात् (३.३.१०४) अङि झरा ॥ ‘अच इः’ (उ० ४.२३९) ‘झरिः’ ॥ ततो ङीषि (ग० ४.१.४५) ‘झरी’ च ॥ उपसर्गान्तरनिवृत्त्यर्थो निर् ॥
झर्झरः “झर्झशब्दं राति । आतः-’ (३.२.३) इति कः । यद्वा ‘झर्झशब्दे’ (भ्वा०, तु० प० से०) । अरन् । ‘झर्झरः स्यात्कलियुगे वाद्यभाण्डे नदान्तरे । झल्लरी झर्झरी च द्वे केशचक्रे तु वाद्यके ।”
झषः “झषति ‘झष हिंसार्थः (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यद्वा झष्यते । ‘खनो घ च’ (३.३.१२५) इति घः । मुकुटस्तु-‘पुंसि (३.३.११८) इति घः - इत्याह । तन्न । ‘हलश्च’ (३.३.१२१) इति घञस्तदपवादत्वात् । ‘करणाधिकरणयोः (३.३.११७) इत्यनुवर्तनाच्च । ‘झषा नागबलायां स्त्री, तापमत्स्याटवीषुना’ ॥”
झषा झषति वातम् । ‘झष हिंसार्थः (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘झषा नागबलायां स्त्री तापमत्स्याटवीषु ना’ (इति मेदिनी) ॥
झाटलः झाट संघातं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
झावुकः ‘झा’ इति शब्दं वेति गच्छति । ‘वी गत्यादिषु’ (अ० प० अ०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः। ततः ‘संज्ञायां कन्’ (५.३.७५) ॥
झिण्टी ‘झिम्’ इति रटति अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । गौरादिङीष् (४.१.४१)॥
झिल्लिका चिल्लति । ‘चिल्ल शैथिल्ये’ (भ्वा० प० से०) । अच् (३.१.१३४) पृषोदरादित्वाच्चस्य झः । गौरादिः (४.१.४१) । स्वार्थे कन् (५.३.७५) । झिल्ली चीर्यातपरुचोर्वमुद्वर्तनांशके’ (इति मदिनी) ॥
टङ्कः
- टेति । टङ्कयति । ‘टकि बन्धने’ चुरादिः । अच् (३.१.१३४) । ‘टम्’ इति शब्दं कायति वा । ‘कै शब्दे’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘सुपि-’ (३.२.४) इति वा ॥
टिट्टिभकः ‘टिट्टि’ शब्दं भाषते । ‘टिट्टि’ शब्देन भाति वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । कन् (५.३.७५) ॥
टुण्टुकः ‘टुण्टु’ इति कायति । ‘कै शब्दे (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘टुण्टुकः शोणकाल्पयोः ॥
डमरुः वाद्येति । ‘डम्’ इति शब्दमियर्ति । मृगय्वादित्वात् (उ० १.३७) अर्ते कुः । गणपाठादेव गुणः॥
डयनम् डीयतेऽनेन ‘डीङ् । विहायसा गतौ’ (दि० आ० से०) । ल्युट् (३.३.११७) । ‘हयनम्’ इति पाठे ‘हय गतौ’ (भ्वा० प० से०) । ल्युट् । (३.३.११७) ॥
डहुः “दहति, तोहति, वा । ‘दह भस्मीकरणे (भ्वा० प० अ०) । ‘तुहिर् अर्दने’ (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) निपातितः ॥ ‘अडहुः’ इत्यपि – इति स्वामी ॥”
डिण्डिमः ‘डिण्डि’ इति शब्दं मिनोति प्रकाशयति । डः (वा० ३.२.१०१)
डिम्भः “डिम्भयति । ‘डिभडिभि संघे’ चुरादिः । अच् (३.१.१३४) । ‘डिम्भोऽपि बालिशे बाले’ (इति मेदिनी) डीङ आत्मनेपदित्वात्-‘डयति-’ इति स्वामी,-डयनं डीः । डियाभाति–इत्यादि मुकुटश्चोपेक्ष्यौ ॥”
डिम्भा डिम्भयति । ‘डिभि संघे’ चुरादिः । अच् (३.१.१३४) । डिम्भ्यते वा । घञ् (३.३.१९) । अच् (३.३.५६) वा । ‘डिम्भोऽपि बालिशे बाले’ (इति मेदिनी) ॥
डुण्डुभः “‘डुण्डु’ इत्यनुकरणशब्दः । तं भणति, तेन भाति, इति वा । अन्यभ्योऽपि-’ (वा० ३.२.१०२) इति ङः । लण्ड्यते । ओ लडि उत्क्षेपणे (चु० प० से०) । घञ् (३.३.१८) । डलयोरेकत्वम् । उभति । ‘उभ पूरणे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । डुण्डुश्चासावुभश्च । पृषोदरादिः (६.३.१०९) । यत्तु ‘डुडि तुडि निमज्जने’ । घञ् (३.३.१८) । डुण्डेन भाति । आतोऽनुप-’ (३.२.३) इति कः । ‘कर्तृकरणे कृता-’ (२.१.३२) इति समासः । पृषोदरादिः (६.३.१०९) । तवर्गतृतीयादिरपि । अत एव ‘दो डो दो लश्च इति नरसिंहः इति मुकुटः। ‘दण्ड भाषणे’ । ‘दण्डुभः’ इत्येके-इति स्वामी । तन्न । उक्तधातूनामर्दशनात् । ‘आतोऽनुप-’ (३.२.३) इति कस्य कर्मण्युपपदे विधानात् । परत्वादुपपदसमासस्य (२.२.१९ ) न्याय्यत्वाच्च ।”
ढक्का ‘ढक्’ इति कायति । ‘कै शब्दे’ (भ्वा० प० से०) । ‘आतोऽनुप-’ (३.२.३) इति ‘सुपि’ (३.२.४ योगविभागात्) इति वा कः ॥
तक्रम् तेति । तञ्चति । तञ्च्यते वा । ‘तञ्चु गतौ’ (भ्वा० प० से०) । ‘स्फायितञ्चि-’ इति रक् (उ० २.१३) । न्यङ्क्वादिः (७.३.५३) ॥
तक्षा
- तेति । तक्ष्णोति । ‘तक्षू तनूकरणे’ (भ्वा० प० से०) । युवृषि-’ (उ० १.१५६ ) इत्यादिना कनिन् ॥
तटम् तटति । ‘तट उच्छ्राये’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । स्त्रियां तटी । ‘जातेः (४.१.६३) इति ङीष् ॥ (५)
तटिनी तटमस्त्यस्याः ।
तडागः “तड्यते । ‘तड आघाते (चु० प० से०) । ‘तडागादयश्च’ इति निपातितः । तडागस्तु जलाधारविशेषे यन्त्रकूपके’ इति मेदिनी । पिनाकादित्वात् (उ० ४.१५) ‘तडाकः’ इति कश्चित् ।* ॥ तटम् अकति अगति वा । ‘अक अग कुटिलायां गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । (तटाकः, तटागः) इत्येके । द्वे सपद्मागाधजलाशयस्य ।”
तडित् ताडयति । ‘तड आघाते’ (चु० प० से०) । ‘ताडेर्णिलुक्च (उ० १.१८) इतीतिः । डलयोरेकत्वात् ‘तलित्’ अपि । ‘दूरेचित्सं तलिदिवातिरोचसे’ इति मन्त्रः ।
तडित्त्वान् तडितः सन्त्यस्मिन् । मतुप् (५.२.९४) । झयः’ (८.२.१०) इति वत्वम् ॥
तण्डुलः तड्यते । ‘तड आघाते’ (चु० प० से०) । ‘सानसिंवर्णेसि-’ (उ० ४.१०७) निपातः । ‘तण्डुलः स्याद्विडङ्गेऽपि धान्यादिनिकरे पुमान्’ (इति मेदिनी) ॥ तन्तुं कृमिसूत्रं लाति । कः (३.२.३) । ‘तन्दूलः’ इति मुकुटः ॥
तण्डुलीयः तेति । तण्डुलाय हितः । तस्मै हितम्’ (५.१.५) इति छः । ‘तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः’ (इति हैम मेदिन्यौ) ॥
ततः
- यस्मात् तस्मात् यत्तद्भ्याम् ‘पञ्चम्यास्तसिल्’ (५.३.७) । त्यदाद्यत्वम् (७.२.१०२) ॥
ततम् ततमिति । वीणादि यद्वाद्यं वादनीयम् । तत्ततम् । आदिना सैरन्ध्रीरावणहस्तकिंनरादि तन्यते तनिमृङ्भ्यां किच्च (उ० ३.८८) इति तन् । अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु सदागतौ ॥
तत्
- तनोति । ‘तनु विस्तारे’ (त० उ० से०) । क्विप् (३.२.१७८) । अनुनासिकलोपः (वा० ६.४.४०) । तुक् (६.१.७५) ॥
तत्कालः तेति । स चासौ कलश्च ॥
तत्त्वम् एषु यथाक्रमं तत्वादित्रयम् । तननम् । तत् । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । तदस्यास्ति । ‘वप्रकरणेऽन्यत्रापि (वा० ५.२.१०९) इति वः । ‘तसौ मत्वर्थे’ (१.४.१९) इति भत्वान्न जश्त्वम् । ‘तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च । इति हैमः ।
तथा
- येन तेन प्रकारेण । ‘प्रकारवचने थाल्’ (५.३.२३) विभाक्तित्वात् (५.३.१) त्यदाद्यत्वम् (७.२.१०२) ॥
तथागतः तथा सत्यं गतं ज्ञानं यस्य ॥
तथ्यम् तथा सत्ये साधु तथ्यम् ॥
तदा
- तस्मिन् काले । ‘तदो दा च’ (५.३.१९) ॥
तदात्वम् ‘तदा’ इत्यस्य भावः ॥
तदानीम्
- (चात्) दानीं च ॥
तनयः तनोति कुलम् । तन्यते वा । ‘तनु विस्तारे’ (तु० उ० से०) । ‘वलिमलितनिभ्यः कयन्’ (उ० ४.९९) ॥
तनुः “तनोति, तन्यते, वा । ‘भृमृशि-’ (उ० १.७) इत्युः । ‘तनुर्वपुस्त्वचोः विरलेऽल्पे कृशे’ (इति हैमः) । ‘तनुः काये त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे’ इति (नान्तेषु) विश्वमेदिन्यौ । ‘अर्ति- पॄवपि-’ (उ० २.११७) इत्यादिना उसि ‘तनुः’ सान्तापि ।”
तनुत्रम् अथेति । तनुं त्रायते । प्राग्वत् ॥
तनूः ‘प्राणिजातेः-’ (४.१.६६) इत्यूङ् ॥
तनूनपात् “तनूं शरीरं न पातयति । ‘नभ्राण्नपात्-’ (६.३.७५) इति निपातितः । तनूनपातौ । ‘तनूनपातमुषसस्य’ निंसाते इति मन्त्रः । तनूं स्वं स्वरूपं न पाति न रक्षति आशुविनाशित्वाद् इति तनूनपात् शत्रन्तः । ‘उगिदचाम्-’ (७,१.७०) इति नुमि तनूनपात्, तनूनपान्तौ, तनूनपान्तः इति वा । तन्वा ऊनं कृशं पाति । तनूनपं घृतादि, तदत्ति । ‘अदोऽनन्ने’ (३.२.६८) इति विट् । तनूनपादौ, तनूनपादः इति वा ।।”
तनूरुहः तेति । तन्वां रोहति । मूलविभुजादिकः (वा० ३.२.५) । ‘तनूरुहं तु लोम्नि स्यात्पतत्त्रे च नपुंसकम्’ इति मेदिनी । ‘तनूरुहस्तु पुत्रे गरुति लोम्नि च’ इति हैमः ॥
तनूरुहम् तन्वां रोहति । ‘इगुपध-’ (३.१.१३५) इति कः ॥
तन्तुः
- नरि पुंसि । तन्यते । ‘तनु विस्तारे’ (त० उ० से०) । ‘सितनि-’ (उ० १.६९) इति तुन् । ‘सूत्रतन्तुः’ इति हारावल्याः संहतोऽपि ॥
तन्तुभः तन्तुना भाति । ‘भा दीप्तौ’ (अ० प० से०) । ‘सुपि-’ (३.२.४) इति कः । स्वामी तु-तुदति । तुन्तुभः–इत्याह । बाहुलकादुभच् । पृषोदरादिः (६.३.१०९) ॥
तन्तुवायः “- तेति । तन्तून् वयति । ‘वेञ् तन्तुसन्ताने’ (भ्वा० उ० अ०) । ‘ह्रावामश्च’,(३.२.२) इत्यण् । ‘तन्त्रवायः इति पाठे तन्तवो वितन्यन्ते यस्मिंस्तत्तन्त्रम् । तद्वयति । ‘तन्त्रवापः’ इति पाठान्तरम् । तत्र ‘डुवप्’ (भ्वा० उ० अ०) । अण् (३.२.१) ॥”
तन्तुवायः तन्तून् वयति । ‘वेञ् तन्तुसंताने (भ्वा० उ० अ०) । ‘ह्वावामश्च’ (३.२.२) इत्यण् ॥ तन्त्रं तन्तून् वयति ‘तन्त्रवायः’ इति स्वामी ॥
तन्त्रकः ‘तन्त्रादचिरापहृतम् । ‘तन्त्रादचिरापहृते’ (५.२.७०) इति साधु ॥
तन्त्रिका तन्त्रयति । तत्रि कुटुम्बधारणे’ (चु० उ० से०) । ण्वुल् (३.१.१३३) ॥
तन्द्री तत्पूर्वाद्रातेः ‘स्पृहिगृहि-’ (३.२.१५८) इत्यादिना ‘तन्द्रा’ इति निपात्यते । तन्द्रायाः करणम् । ’तत्करोति (वा० ३.१.२६) इति ण्यन्ताद् अच इः’ (उ० ४.१३९) । तन्द्रिः । ‘कृदिकारात्-’ (ग० ४.१.४५) इति डीष् वा । ‘तन्द्री निद्राप्रमीलयोः । णिजभावे ‘तन्द्रा’ इत्यपि । मुकुटस्तु इन्द्रियाणां तननं द्रात्यस्याम् । तन्द्रधातोः सौत्रान्मूर्च्छार्थात् ‘तन्द्रेरिदीतौ’ इति हस्वेकारप्रत्यये तन्द्रिः । ङीषि तन्द्री । दीर्घेकारप्रत्यये लक्ष्मीशब्दवच्च इत्याह । तन्न । द्रातिना विगृह्य सौत्रधातोरुपन्यासस्य विरुद्धत्वात् । ’तदो नान्तत्वनिपातनाभ्युपगमविरोधात् । ‘तन्द्रेरिदीतौ इति सूत्रस्यादर्शनाच्च । ईप्रत्ययविधायकाभावाच्च । (यदपि) ‘तन्द्रिस्तन्द्री तन्द्रीस्तन्द्रा’ इति रूपचतुष्टयम् । इत्युक्तम् । तदपि न । दीर्घविसर्गान्ते प्रमाणाभावात् ।
तपः तपा इति । तपन्त्यस्मिन् । असुन् । (उ० ४.१८९) सान्तः । ‘तपो लोकान्तरेऽपि च । चान्द्रायणादौ घर्मे च पुमान् शिशिरमाघयोः ।
तपः तपति । पचाद्यच् (३.१.१३४) ।
तपनः तपति । ल्युः (३.१.१३४) । ‘तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे । प्रज्ञाद्यणि (५.४.३८) तापनोऽपि । तापयति वा । ल्युः (३.१.१३४) ‘तपनस्तापनो रविः’ इति संसारावर्तात् ॥
तपनः तदिति । तस्य नरकस्य भेदाः । तपति । ल्युः (३.१.१३४) । तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे ।
तपनीयम् तप्यतेऽनेन । ‘तप संतापे’ (भ्वा० प० अ०) । ‘कृत्यल्युटः’ (३.३.११३) इत्यनीयर् ॥
तपस्यः तपसि साधुः । तत्र साधुः(४.४.९८) इति यत् । (‘तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ’)
तपस्विनी तपेति । तपोऽस्त्यस्याः । जटिलत्वात् । ‘अस्माया-’ (५.१.१२१) इति विनिः ॥
तपस्वी तेति । तपोऽस्यास्ति । ‘तपःसहस्राभ्याम्’ (५.२.१०२) इति विनिः । ‘तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः’ (इति मेदिनी) ॥
तमः तम इति । ताम्यति । ‘तमु ग्लानौ (दि० प० से०) । असुन् (उ० ४१८९) । तमु काङ्क्षायाम्’ (दि० प० से०) इति मुकुटस्य प्रमादः। ताम्यतीति विगृहीतत्वात् । ‘तमांसि गुणतिमिरसैंहिकेयाः’ इति त्रिकाण्डशेषः । पचाद्यचि (३.१.१३४) अदन्तः पुंलिङ्गोऽपि । ‘स्वर्भानुस्तु तमो राहुः | इति पुंस्काण्डे रत्नकोषामरमालयोर्दर्शनात् ।
तमः ताम्यत्यनेन । ‘तमु ग्लानौ’ (दि० प० से०) । असुन् । कप्रत्यये रजतमौ अदन्तपुंलिङ्गावपि । पुष्पे वेशे गुणे चैव रजोऽयं रजसा सह’ इत्युत्पलिनी । रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु’ इत्यजयः ।
तमः “ताम्यत्यनेन । तमु ग्लानौ (दि० प० से०) । असुन् (४.१८९) । (‘तमो ध्वान्ते गुणे शोके क्लीबं, वा ना विधुंतुदे’) इति मेदिनी । (उ० ३.११७) असचि) तमसमपि । ‘तमसं तु निशाचर्म’ इति त्रिकाण्डशेषात् । (स्त्रियां तु तमसा नदीविशेषे) ।”
तमस्विनी तमोऽस्त्यस्याम् । अस्माया-’ (५.२.१२१) इति विनिः ।
तमालः ताम्यति । ‘तमु ग्लानौ’ (दि० प० से०) । ‘तमिविशि-’ (उ० १.११८) इति कालन् । ‘तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे । इति मेदिनी ॥
तमालपत्रम् तेति । तमालपत्रमिव । तदाकृतित्वात् । ’तमालपत्रं तापिच्छे तिलके पत्रके’ इति विश्वः । ‘तमालस्तिलके खङ्गे’ इति विश्वात्तमालोऽपि ॥
तमिस्रम् “तमोऽस्त्यत्र । भावप्रधानो निर्देशः । ‘ज्योत्स्नातमिस्रा-’ इति साधु । तमिस्रास्त्याश्रयत्वेनास्येति वा अर्श आद्यच् (५.२.१२७) । ‘तमिस्रं तिमिरे कोपे, तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च’ इति विश्वमेदिन्यौ ।”
तमिस्रा तमिस्त्रेति । तमो बहुलमस्त्यस्याम् । ज्योत्स्नातमिस्रा (५.२.११४) इति निपातिता । ‘तमिस्रं तिमिरे कोपे पुंसि स्त्री तु तमस्ततौ । कृष्णपक्षनिशायां च’ ।
तमी ताम्यन्त्यस्याम् । तमु ग्लानौ (दि० प० से०) । इन् (उ० ४.११८) । कृदिकाराद्-’ (ग० ४.१.४५) इति डीष् आदि पक्षे तमिः । पचाद्यचि ‘तमा’ ।
तरः तरन्त्यनेन । ‘तॄ प्लवनतरणयोः (भ्वा० प० से०) । असुन् (उ० ४.१८९) ।
तरः तरत्यनेन । ‘तॄ प्लवनादौ’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘तरो जवे बले’ इति हैमः ॥
तरक्षुः तरेति । तरं गतिं मार्ग वा क्षिणोति । ‘क्षिणु हिंसायाम्’ (ते० उ० से०) । मितद्रवादिडुः (वा० ३.२.१८०) ॥
तरङ्गः तरति । तॄ प्लवनसंतरणयोः (भ्वा० प० से०) । ‘तरत्यादिभ्यश्च (उ० १.२०) इत्यङ्गच्
तरङ्गिणी तरङ्गाः सन्त्यस्याम् । अत इनिः (५.२.११५) ॥
तरणिः तरन्त्यनया । ‘तॄ प्लवनतरणयो’ (भ्वा० प० से०) । ‘अति सृघम्यश्यवितृभ्योऽनिः’ (उ० २१०२) । ‘तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ’ इति हैमः ॥
तरणिः तरन्त्यनेन संसारम् । तरणिः । ‘अर्तिसृधृ-’ (उ० २.१०२) इत्यादिना तरतेरनिः । तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् ।
तरणिः तरत्यनया । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘अर्तिसृधृभ्रम्यम्यश्य वितृभ्योऽनिः’ (उ० २.१०२) । ‘तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् (इति मेदिनी) ॥
तरपण्यम् तरणम् । ‘ऋदोरप्’ (३.३.५७) । तरस्य पण्यम् । द्वे नद्यादितरणे देयमूल्यस्य ।
तरलः तेति । ‘तरस्तु तरणे पुंसि’ (इति मेदिनी) । तरं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘तरलं चञ्चले षिङ्गे भास्वरेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः स्त्रियाम्’ (इति मेदिनी) ॥ हारस्य मध्यं हारमध्यं गच्छति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ।
तरला तरणम् । ‘तॄ प्लवनादौ’ (भ्वा० प० से०) । ‘ॠदोरप्’ (३.३.५७) । तरं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
तरसम् ‘तरो जवे बले’ इति हैमः । तरो बलमस्त्यस्मिन् । अर्शआद्यच् (५.२.१२७) ॥
तरस्वी तेति । तरो वेगोऽस्यास्ति । ‘अस्मायामेधा-’ (५.२.१२१) इति विनिः । ‘तरस्वी शूरवेगिनोः’ (इति मेदिनी) ॥
तरिः ‘अच इः’ उ० (४.१३९) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् वा । तरणी । तरी । ‘तरिर्दशायां वेडायां वस्त्रादीनां च पेटके’ इति हैमः ॥
तरुः तरति । तरन्त्यनेन इति वा । ‘तॄ प्लवनसंतरणयोः’ (भ्वा० प० से०) । ‘भृमृशीङ्-’ (उ १.७) इत्युः ।
तरुणः तरति । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो रश्च लो वा’ (उ० ३.५४) इत्युनन् । ‘तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु’ इति विश्वः ॥
तरुणी तेति । तरति । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो रश्च लो वा’ (उ० ३.५४) इत्युनन् । ‘वयसि-’ (४.१.२०) इति ङीप् । ‘नञ्स्नञीकक्-’ (वा० ४.१.१५) इति वा । ‘तरुणी तलुनीति च’ इति शब्दभेदः । (‘तलुनः पवने यूनि युवत्यां तलुनी स्मृता’ इति मेदिनी) ॥
तर्कः “अपूर्वोत्प्रेक्षणं तर्कणम् । ‘तर्क भाषार्थः । चुरादौ ‘पटपुट’ इति दण्डके पठितः । भावे घञ् (३.३.१८) कृन्तति, कृन्तते वा अच् (३.१.१३४) । घञौ (३.३.१९) । पृषोदरादित्वात् (६.३.१०९) वर्णविपर्ययः । ‘कर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः’ इति हैमः ।”
तर्कारी तर्कमृच्छति । ऋ गतौ’ (भ्वा० प० अ०) । कर्मण्यण् (३.२.१) ॥
तर्जनी तेति । तर्ज्यतेऽनया । ‘तर्ज भर्त्सने’ (भ्वा० प० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
तर्णकः सेति । तृणोति । ‘तृणु भक्षणे’ (त० उ० से०) । ण्वुल् (३.१.१३३) ॥
तर्दूः “स्यादिति । तरति । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो दुट् च (उ० १.८९) इत्यूः, दुडागमश्च । तर्दति । ‘तर्द हिंसायाम्’ (भ्वा० प० से०) । तृणत्ति वा । ‘उतृदिर् हिंसानादरयोः’ (रु० उ० अ०) इति क । बाहुलकादूः ॥”
तर्पण ‘तृप्त प्रीणने’ (दि० प० अ०) । ल्युट् (३.३.११५) ॥
तर्पणम् तृप्यति । ‘तृप प्रीणने’ (दि० प० अ०) । भावे ल्युट् (३.३.११५) ॥
तर्मन्म् “तरति, मनिन् (३.२.७५) ॥”
तर्षः “स इति । स तर्षो महांश्चेत् ‘लल ईप्सायाम्’ () औणादिकोऽसण् । यद्वा ‘लस कान्तौ’ () भृशं लसनम्, इत्यर्थे यङन्तादः (३.३.१०२) । टाप् (४.१.१०२) । घञि तु लालसः । स्त्रीनिर्देश आबन्ततासूचनार्थः । ‘लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः इति विश्वमेदिन्यौ ।”
तर्षः घञ् (३.३.१८) वा । ‘तृषा’ लिप्सातृषोः स्त्रियाम्’ इति विश्वः (मेदिनी) ॥
तलः तलति । ‘तल प्रतिष्ठायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) तलश्चपेटे चालद्रौ तलं ज्या- घातवारणे । त्सरौ स्वभावाधरयोस्तन्त्रीघाते च सव्यतः । तलं स्व रूपेऽनूर्ध्वेऽस्त्री क्लीबं ज्याघातवारणे’ (इति मेदिनी) ॥
तल्लजः लजतीति लजः । ‘लज कान्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । तद्वल्लजः तल्लजः । कुमारीतल्लजः ।
तस्करः
- तत् करोति । ‘किंयत्तत्तद्बहुषु (वा० ३.२.२१) इत्यच् । ‘तद्बृहतोः करपत्योः ’ (ग० ६.१.१५७) इति सुट्तलोपौ ॥
ताण्डवम् “अथेति । अस्रियां ताण्डवम्, इत्यन्वयः । तण्डुना प्रोक्तं ताण्डवम् । ‘तेन प्रोक्तम्’ (४.३.१०१) इत्यण् । ‘ताण्डवं तृणभिन्नाट्यभेदयोः’ इति हैममेदिन्यौ ॥”
तातः “तातेति । तनोति । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३.९०) इति क्तः । ‘अनुदात्त-’ (६.४.३७) इति नलोपः-‘तातपलितजर्तुसूरताः’ इति तनोतेः क्तः, नलोपदीर्घौ च-इति मुकुटस्तु चिन्त्यः । तादृशसूत्राभावात् । तातोऽनुकम्प्ये पितरि’ इति हेमचन्द्रः ॥”
तान्त्रिकः तेति । तन्त्रं सिद्धान्तमधीते वेद वा । प्राग्वठ्ठक् (४.२.६०) ॥
तापसः ‘अण् च’ (५.२.१०३)॥
तापसतरुः तपस्विन उपयुक्तस्तरुः ॥
तापिच्छः तापिनं छादयति । ‘छद अपवारणे (चु० उ० से०) । ‘कर्मण्यण्’ (३.२.१) । पृषोदरादिः (६.३.१०९) । यत्तु–‘तत्पुरुषे कृति-’ (६.३.१४) इत्यमोऽलुकि ‘तापिंछः’- इति मुकुटः । तन्न । अलौकिकविग्रहेऽमः प्रवेशाभावात् ॥
तामरसम् ‘तामरं घृतमर्णश्च’ इति रुद्रः । तत्र सस्ति । ‘षस स्वप्ने’ (अ० प० से०) । अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । यद्वा तम्यते । ‘तमु काङ्क्षायाम्’ (दि० प० से०) । घञ् (३.३.१९) । ‘नोदात्तोपदेशस्य-’ (७.३.३४) इति निषेधस्यानित्यत्वान्न वृद्धिनिषेधः । रस्यत । ‘रस आस्वादने । चुरादावदन्तः । ‘एरच् (३.३.५६) । तामं च तद्रसं च । ‘तामरसं पद्मे ताम्रकाञ्चनयोरपि’ ॥
तामलकी तनुश्वासावामलकी च । पृषोदरादिः ॥
तामसी ज्योत्स्नादिभ्य उपसंख्यानात् (वा० ५.२.१०३) मत्वर्थेऽण् । ‘तामसी निशि दुर्गायां तामसो भुजगे खले’ ।
ताम्बूलवल्ली तेति । ताम्यति । ‘तमु ग्लानौ’ (दि० प० से०) । क्विप् (३.२.१७८) । ‘अनुनासिकस्य-’ (६.४.१५) इति दीर्घः । वोलति । ‘वुल् मज्जने’ (चु० प० से०) । चुरादीनां णिज्वा । ‘इगुपध-’ (३.१.१३५) इति कः । ताम् चासौ वुली च । पृषोदरादिः (६.३.१०९) । ताम्बूलाख्या वल्ली शाकपार्थिवादिः (वा० २.१.६९) ॥
ताम्बूली गौरादिः (४.१.४१) । ‘ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम्’ (इति मेदिनी) ॥
ताम्रकम् “अथेति । ताम्यति, तम्यते, वा । ‘तमु काङ्क्षायाम्’ (दि० प० से०) । ‘अमितम्योर्दीर्घश्च’ (उ० २.१६) इति रक् । स्वार्थे कन् (ज्ञापि० ५.४.५) । -‘तम्यमिचमां दीर्घश्च’ इति रक्-इति मुकुटस्त्वपाणिनीयः ॥”
ताम्रकर्णी ताम्रौ कर्णौ यस्याः । ‘पाककर्ण-’ (४.१.६४) इत्यादिना ङीष् । ‘नासिको (४.१.५५) इति वा ।
ताम्रकुट्टकः
- ताम्रं कुट्टयति । ‘कुट्ट छेदने’ (चु० प० से०) । अण् (३.२.१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
ताम्रचूडः ताम्रा चूडास्य ॥
तारः तार इति । तारयति अतिक्रामत्यन्याञ्शब्दान् । ‘बहुलमेतन्निदर्शनम्’ इति चुरादिगणसूत्रात्स्वार्थे णिच् । पचाद्यच् (३.१.१३४) ॥ त्रयस्त्रिषु’ ॥ त्रय इति । त्रयः कलमन्द्रताराः (त्रिषु विशेष्यनिघ्नाः) ।
तारकजित् तारकं जयति ।।
तारका ण्वुलि (३.१.१३३) तारका । ‘तारका ज्योतिषि (वा० ७.३.४५) इतीत्वाभावः । अपिशब्दात्तारकापि वा स्त्रियाम् । स्त्रीत्वाभावे क्लीबत्वमुडुसाहचर्यात् । ‘नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च’ इति शाश्वतः । (‘तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दृशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु) ।।
तारका तेति । तारयति । ‘तॄ प्लवनादौ’ (भ्वा० प० से०) । ‘ण्वुल्’ (३.१.१३३) । ‘तारका ज्योतिषि’ (वा० ७.३.४५) इतीत्वाभावः । ‘तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दृशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु’ (इति मेदिनी) ॥
तारा “तरन्त्यनया । भिदादित्वात् (३.३.१०४) । गुणः (७.४.१६) । निपातनाद्दीर्घः । * । तारयतेः पचाद्यचि (३.१.१३४) तारोऽपि ‘नक्षत्रे नेत्रमध्ये च तारा स्यात्तार इत्यपि’ इति व्याडिः । (तारो वानरभिन्मुक्ताविशुद्ध्योः शुद्धमौक्तिके । ना, नक्षत्रेऽक्षिमध्ये च न ना, रूप्ये नपुंसकम् । स्वी बुद्धदेवताभेदे वालिगीर्पतिभार्ययोः । त्रिलिङ्गोऽत्युच्चशब्दे च’) ॥”
तारुण्यम् तेति । तरुणस्य भावः । ष्यञ् (५.१.१२४) ॥
तार्क्ष्यः तार्क्ष्यस्य कश्यपस्यापत्यम् । ऋष्यण् (४.१.११४) । बहुत्वे तार्क्ष्याः तृक्षस्यापत्यम् गर्गादित्वात् (४.१.१०५) यञ्वा । बहुत्वे । तृक्षाः इत्यन्ये । तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तार्क्ष्यं तु रसानाञ्जने । अहौ च ||
तार्क्ष्यशैलम् “तार्क्ष्यशैले भवम् । अभेदोपचारात्, इति मुकुटः ॥”
तालः ताल इति । तलनम् । तल प्रतिष्ठाकरणयो’ (चु० प० से०) । घञ् (३.३.१८) तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीताकालक्रियामाने करास्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्’ इति विश्वमेदिन्यौ ॥ कालस्य क्रियया आवापनिष्क्रमादिकया मानं परिच्छेदनम् ।
तालः तालयति । “तल प्रतिष्ठायाम्’ चुरादिः । पचाद्यच् (३.१.१३४) । ‘तालः करतले ऽङ्गुष्ठमध्यमाभ्यां च संमितेः । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्’ (इति मेदिनी) ॥ तलति । अच् (३.१.१३४) ‘तलश्चपेटे तालद्रौ तलं ज्याघातवारणे । त्सरौ स्वभावधरयोस्तन्त्रीघाते च संमतम् ॥
तालः तलत्यत्र । ‘तल प्रतिष्ठायाम्’ (चु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे’ (इति मेदिनी) ॥
तालपत्रम् तालस्य पत्त्रम् । ‘तालपत्त्रं तु कुण्डले । स्यातलपत्त्री रण्डायाम्’ इति हैमः ॥ ‘ताटङ्कः’ अप्यत्र । सुवर्णरचितस्यापीदमेव नाम ।
तालपर्णी तालेति । तालः पर्णमस्याः । तालशब्दस्तालपर्णसदृशे लाक्षणिकः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
तालमूलिका तालो मूलमस्याः । तालशब्दस्तालमूलसदृशे लाक्षणिकः। ‘पाककर्ण-’ (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥
तालम् “तालयति, तल्यते वा । ‘तल प्रतिष्ठायाम् (चु० प० से०) । ण्यन्तः । अच् (३.१.१३४, ३.३.५६) । ‘तालः कालक्रियामाने हस्तमानद्रुभेदयोः । करास्फोटे करतले हरिताले त्सरावपि (इति हैमः) । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्लीबं तु हरिताले स्यात्’ इति विश्वः (मेदिनी) ॥”
तालवृन्तकम् तालस्येव वृन्तमस्य । ताले करतले वृन्तमिव बन्धनमस्य । ‘वृन्तं प्रसवबन्धे स्याद्धटधाराकुचाग्रयोः इति विश्वः ॥
तालाङ्कः तालोऽङ्को ध्वजो यस्य । (‘तालाङ्कः करपत्रे स्याच्छाकभेदेऽच्युताग्रजे । महालक्षणसम्पन्नपुरुषे पुस्तके हरे’)
ताली तालयति । “तल प्रतिष्ठायाम्’ (चु० प० से०) । ण्यन्तः । अच् (३.१.१३४) । ‘तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने करस्फाले द्रुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली झटौषधौ । क्लीबं तु हरिताले स्यात्’ (इति मेदिनी) ॥
ताली तालयति । “तल प्रतिष्ठायाम्’ चुरादिः । अच् (३.१.१३४) । जातित्वात् (४.१.६३) गौरादित्वात् (४.१.४१) वा ङीष् ॥
तालुम् तेति । तरन्त्यनेन । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो रश्च लः’ (उ० १.५) इति ञुण् । तालयति । ‘तल प्रतिष्ठायाम्’ चुरादिः । मृगय्वादिः (उ० १.३७) वा ॥
तिक्तः तेजयति स्म । तिज निशाने (चु० प० से०) । सामान्यापेक्षज्ञापकाच्चुरादीनां णिजभावे ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । पक्षान्तरे तु संज्ञापूर्वकत्वाद्गुणाभावः । तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे’ इति हैमः ।
तिक्तकः तिक्त एव । स्वार्थे कन् (५.३.७५) ॥
तिक्तशाकः तिक्तः शाकोऽस्य । शाकत्वं चास्य पत्राणां शाकमध्ये पाठात् । ‘तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे’ ॥
तिग्मम् तिग्ममिति । तेजयति । तिज निशाने (चु० प० से०) । ‘युजिरुचितिजां कुश्च’ (उ० १.१४६) इति मक् कवर्गश्चान्तादेशः ।
तितउः द्वे तनोति । तन्यते वा । अनेन वा । ‘तनु विस्तारे’ (त० उ० से०) । तनोतेर्ड उः सन्वच्च’ (उ० ५.५२) । ‘चालनं तितउ प्रोक्तम्’ इति क्लीबकाण्डे रत्नकोषः । ‘न स्त्री तितउ चालनी’ इति त्रिकाण्डशेषः ॥
तितिक्षा तिजेः (भ्वा० आ० से०) । क्षमायां सन् (३.१.१५) । तदन्तादप्रत्यये (३.३.१०२) टाप् (४.१.४) ।
तित्तिरिः ‘तित्तिशब्दं’ राति । बाहुलकात्किः । ‘तित्तिरिः पक्षिणि मुनौ’ इति हैमः । अदन्तपक्षे ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कपोतलावतित्तिराः’ इति वाचस्पतिः ॥
तिथिः तदाद्या इति । सा प्रतिपद् आद्या यासां ताः । अत सातत्यगमने’ (भ्वा० प० से०) ‘ऋतन्यङ्गि-’ (उ० ४.२) इत्यतेरिथिन् । पृषोदरादित्वात् (६.३.१०९) अल्लोपः।
तिनिशः तिनीति । अतिशयेन नेशति । ‘णिश समाधौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा अतिक्रान्तो निशाः । ‘अत्यादयः-’ (वा० २.२.१८) इति समासः । पृषोदरादिः (६.३.१०९) ॥
तिन्तिडी तिन्तीति । तिम्यति । ‘तिम आर्दीभावे’ (दि० प० से०) । ‘अलीकादयश्च’ (उ० ४.२५) इति निपातः । ‘तिन्तिडी त्वम्ब्लिका चिञ्च तिन्तिडीका कपिप्रिया’ इति वाचस्पतिः । (तिन्तिडी चुक्रे चिञ्चायाम्’) ॥
तिन्तिडीकम् तीति । तिम्यति । ‘तिम आर्द्रीभावे’ (दि० प० से०) । ‘अनी(ली)कादयश्च’ (उ० ४.२५) इति साधु ॥
तिन्दुकः तीति । तिम्यति । ‘तिम आर्द्रत्वे’ (दि० प० से०) । मृगय्वादिः (उ० १.३७) । ‘संज्ञायां कन् (५.३.७५) ॥
तिमिः “ताम्यति । ‘तमु ग्लानौ’ (दि० प० से०) । ““क्रमितमिशतिस्तम्भामत इच्च’ (उ० ४.१२२) इतीन् ।”
तिमिङ्गिलः तिमिं गिरति । ‘गॄ निगरणे’ (तु० प० से०) । ‘मूलविभुजा- (वा ३.२.५) इति कः । अचि विभाषा’ (८.२.२१) इति लः । गिलेऽगिलस्य’ (वा० ६.३.७०) इति मुम् । आदिशब्दात् तिमिंगिलगिलनन्दीवर्तादयः ॥ मत्स्यविशेषाणां पृथगेकैकम् ।
तिमिरम् तिम्यति । तिम आर्द्रीभावे’ (दि० प० से०) । किरच् (बाहुलकात्) । ‘तिमिरं ध्वान्ते नेत्रामयान्तरे’ ॥
तिरः
- तरणम् । ‘तॄ’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘क्वचिदपवादविषयेऽपि-’ इतीर् ॥
तिरस्करिणी तिरस्करोति । ग्रह्यादित्वात् (३.१.१३४) णिनिः । निपातनाद्वृध्द्यभावः । संज्ञापूर्वकत्वाद्वा । तिरस्क्रियतेऽनया । ल्युट् (३.१.११७) । ‘तिरस्करणी’ ॥
तिरस्क्रिया तिरस्करणम् । कृञः श च (३.३.१००) इति शः । ‘तिरसोऽन्यतरस्याम् (८.३.४२) इति सत्त्वम् ॥
तिरीटः तीर्यते मलमनेन । ‘कॄतॄकृपिभ्यः कीटन्’ (उ० ४.१८५) । इत्वम् (७.१.१००) । रपरत्वम् (१.१.५१) ॥
तिरोधानम् ‘तिरोऽन्तर्धौ’ (१.४.७१) इति गतित्वे ‘कुगति-(२.२.१८) इति समासः ।
तिरोहितः तिरो धीयते स्म । ‘डुधाञ्’ हिनोति स्म वा । ‘हि गतौ’ वा । ‘गत्यर्था-’ (३.४.७२) इति कर्तरि क्तः । धाञस्तु कर्मणि क्तः (३.२.१०२) ॥ भावक्तान्तेभ्योऽर्शआद्यच् (५.२.१२७) वा ॥
तिलकः “तिलेति । तिलति । ‘तिल स्नेहने’ (तु० प० से०) । ‘क्युन् शिल्पिसंज्ञयोः’ (उ० २.३२) । तिल इव, इति वा । कन् (५.३.९६) । ‘तिलको दुमभेदेऽश्वभेदे च तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके’ ॥”
तिलकः तीति । तिल इव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥
तिलकम् तिलति । ‘तिल स्नेहने’ (तु० प० से०) । तेलति वा । ‘तिल गतौ’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ‘तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके । तिलकं रुचके लोम्नि’ इति हैमः ॥
तिलकम् तीति । तेलति । ‘तिल गतौ’ (भ्वा० प० से०) । तिलति वा । ‘तिल स्नेहने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । क्वुन् (उ० २.३२) वा । ‘तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके’ इति विश्वमेदिन्यौ ॥
तिलकम् तीति । तिलति । ‘तिल स्नेहने’ (तु० प० से०) । तेलति । ‘तिल गतौ’ (भ्वा० प० से०) वा । क्वुन् (उ० २.३२) । ‘तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके’ (इति मेदिनी) ॥
तिलकालकः तिल इव कालकः ॥
तिलपर्णी तिलेति । तिलस्येव पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् । यद्वा तिलपर्णी नदी आकरोऽस्याः ॥
तिलपिञ्जः द्वाविति । निष्पलस्तिलः । ‘तिलान्निष्पलात्पिञ्जपेजौ’ (वा० ४.२.३६) ॥ ‘जर्तिलः’ अपि । ‘जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः’ ।
तिलपेजः द्वाविति । निष्पलस्तिलः । ‘तिलान्निष्पलात्पिञ्जपेजौ’ (वा० ४.२.३६) ॥ ‘जर्तिलः’ अपि । ‘जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः’ ।
तिलित्सः तेलति । तिल गतौ (प० से०) भ्वादिः । तिलति । तिल स्नेहने’ (प० से०) तुदादिः । तिल इदुक् च’ इति स इदुगागमश्च इति मुकुटः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्राभावात् तेलनम् । तिल् । सम्पदादिक्विप् । (वा० ३.३.१०८) तिलमेति । ‘इण् गतौ’ (अ० प० अ०) । क्विप् (३.२.१७८) । तुक् (६.१.७१ ) । तिलित् । तिलितं स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । कः (३.२.३) । यद्वा तेलनम् । तिलिः । कृष्यादित्वात् (वा० ३.३.१०८) इक् । तिलिं गतिं त्सरति । ‘त्सर छद्मगतौ (भ्वा० प० से०) । अन्येभ्योऽपि’ (वा० ३.२.१०२) इति डः । ‘गोनसी मण्डली वोडः’ इति तु विक्रमादित्यः ।
तिल्यम् तीति । तिलानाम् ॥
तिल्वः तिलत्यनेनाङ्गम् । ‘तिल स्नेहने’ (तु० प० से०) । उल्वादिः (उ० ४.९५) ॥
तिष्यः (तुष तुष्टौ) तुष्यन्त्यस्मिन् । ‘सूर्यतिष्य-’ (६.४.१४९) इति निपातनात्क्यप् उपञ्चधेत्वं च’ । तिष्यो नक्षत्रभेदे स्यात्कलौ धात्र्यां च योषिति’ ।
तिष्यफला “तिष्येति । ‘नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये । नित्यं शङ्खे च पद्मे च नित्यं शुक्ले च वाससि’ इति श्रवणात् तिष्यं मङ्गल्यं फलमस्याः । अजादित्वात् (४.१.४) टाप् । तिष्ये कलियुगे फलमस्याः सेवया, इति वा ॥”
तीक्ष्णगन्धकः तीक्ष्णो गन्धोऽस्य । ‘शेषाद्विभाषा’ (५.४.१५४) इति कप् ॥
तीक्ष्णम् तिजेदीर्घश्च’ (उ० ३.१८) इति क्स्न प्रत्यये तीक्ष्णम् । तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवाग्रके पुंसि तिग्मार्थत्यागिनोस्त्रिषु ।
तीक्ष्णम् “तेजयति, तेज्यते वा, अनेन वा । ‘तिज निशाने’ (चु० प० से०) । ‘तिजेर्दीर्घश्च’ (उ० ३.१८) इति क्स्नः । ‘तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं, यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु’ (इति मेदिनी) ॥”
तीरम् तीरयति । ‘पार तीर कर्मसमाप्तौ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । यत्तु मुकुटः तीर्यते तरणकर्म समाप्यतेऽनेनात्र वा । चुरादिण्यन्तात् ‘एरच्’ (३.३.५६) इत्याह । तन्न । ‘अजब्भ्यां स्त्रीखलनाः’ (वा० ३.३.१२६) इति ल्युट् प्रसङ्गात् । ‘पुंसि संज्ञायाम्’ (३.३. ११८) इति घप्रसङ्गाच्च । ‘तीरो वङ्गे तीरं पुनस्तटे’ इति हैमः ॥
तीव्रम् तीवति । “तीव स्थौल्ये’ (भ्वा० प० से०) । दन्त्योष्ठ्यान्तः । बाहुलकाद् ।
तीव्रवेदना विद वेदनाख्यानविवासेषु’ (चु० अ० से०) । णिच् (३.१.२६) । युच् (३.३.१०७) तीव्रा चासौ वेदना च । (३) त्रीणि तीव्रदुःखस्य । नरकरुज इति स्वामी ।
तु – तु ।
तु
- तुदति । डुः (वा० ३.२.१८०) ॥
तुङ्गः “तुञ्ज्यते । ‘तुजि हिंसायाम्’ (भ्वा० प० से०, चु० उ०) । घञ् (३.३.१८) । न्यङ्क्वादिः (७.३.५३) । उच्चत्वाद्वा । ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते’ इति हैमः ॥”
तुङ्गी तुञ्जति । ‘तुजि हिंसायाम्’ (भ्वा० प० से०) । अच् (३.१.१३५) । न्यङ्क्वादिः (७.३.५३) । ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते’ (इति हैमः) ॥
तुण्डम् तुण्डति । ‘तुडि तोडने’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
तुण्डिकेरी तुण्डीति । तुण्डिकाञ्शरीराणि ईरयति । ‘ईर गतिप्रेरणयोः (अ० आ० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
तुण्डिकेरी तुण्डीति । तुण्डं चञ्चुरस्ति येषाम् । ‘अतः’ (५.२.११५) इति ठन् । तुण्डिकानीरयति । ‘ईर प्रेरणे’ (अ० आ० से०) । ‘कर्मण्यण्’ (३.२.१) ॥ (तुण्डकेरी) इति पाठान्तरे प्रशस्तं तुण्डम् । ‘प्रशंसायां कन्’ । तुण्डकमीर्ते । अण् (३.२.१) ॥
तुण्डिभः सिध्मादित्वात् (५.२९६) लच् । ‘तुन्दिल’ इति पाठे ‘तुन्दादिभ्य इलच्’ (३.२.११७) ॥
तुण्डिलः तुण्ड्यते । ‘तुडि तोडने’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । तुण्डिबलिवटेर्भः’ (५.२.१३९) ॥
तुत्था तुदति । ‘तुद व्यथने’ (तु० उ० अ०) । ‘पातृतुदि-’ (उ० २.७) इति थक् । ‘तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम्’ इति मेदिनी) ॥
तुत्था तुद्यते । ‘तुद व्यथने (तु० उ० अ०) | ‘पातॄतुदि-’ (उ० २.७) इति थक् । तुत्थयति वा । ‘तुत्थ आवरणे’ । पचाद्यच् (३.१.१३४) । “तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम्’ (इति मेदिनी) ॥
तुत्थाञ्जनम् “त्विति । तुत्थयति, तुत्थ्यते, वा । ‘तुत्थ आवरणे’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । ‘एरच्’ (३.३.५६) वा । तुत्थं च तदञ्जनं च ॥”
तुन्दपरिमृजः
- तुन्दमुदरं परिमार्ष्टि । ‘मृजू शुद्धौ’ (अ० प० से०) । ‘तुन्दशोकयोः-’ (३.२.५) इति कः ॥
तुन्दम् तुदति । ‘तुद व्यथने’ (तु० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘आच्छीनद्योः-’ (७. १.८०) इत्यत्र ‘नुम्’ इति योगविभागान्नुम् । यद्वा तर्णोत्यन्नम् ‘तृणु अदने’ (त० उ० से०) । ‘अब्दादयश्च’ (उ० ४.९८) इति साधुः ॥
तुन्दिकः त्विति । अतिशयितं तुन्दमुदरमस्य । ‘तुन्दादिलच्च’ (५.२.११७) । चादिनिठनौ । ‘तुन्दिभः’ इति पाठे तु ‘तुन्दिबलिवटेर्भः’ (४.२.१३९) ॥
तुन्दिलः त्विति । अतिशयितं तुन्दमुदरमस्य । ‘तुन्दादिलच्च’ (५.२.११७) । चादिनिठनौ । ‘तुन्दिभः’ इति पाठे तु ‘तुन्दिबलिवटेर्भः’ (४.२.१३९) ॥
तुन्दी त्विति । अतिशयितं तुन्दमुदरमस्य । ‘तुन्दादिलच्च’ (५.२.११७) । चादिनिठनौ । ‘तुन्दिभः’ इति पाठे तु ‘तुन्दिबलिवटेर्भः’ (४.२.१३९) ॥
तुन्नः अथेति । तुद्यते स्म । ‘तुद व्यथने (तु० उ० अ०) । क्तः (३.२.१०२) ॥
तुन्नवायः
- त्विति । तुन्नं छिन्नं वयति । ‘वेञ्’ (भ्वा० उ० अ०) । अण् (३.२.१) ॥
तुमुलम् त्विति । तवनम् । तौति वा । ‘तु’ सौत्रः । बाहुलकान्मुलक् (‘तुमुलं रणसङ्कुले । तुमुलो विभीतकद्रौ’ इति हैमः) । ‘तुमुलं व्याकुले रणे’ इति त्रिकाण्डशेषः ॥
तुम्बी त्विति । तुम्बति रुचिम् । ‘तुवि अर्दने’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । इन् (उ० ४.११८) वा । ‘कृत्-’ (ग० ४.१.४५) इति वा ङीष् ॥
तुरगः तोरणम् । ‘तुर त्वरणे’ (जु० प० से०) । ‘घञर्थे कः’ (वा० ३.३.५८) । बाहुलकात् घञ् (३.३.१८) वा । संज्ञा पूर्वकत्वान्न गुणः । तुरेण त्वरया गच्छति । ‘अन्येभ्योऽपि-’ (वा० ३.२.४८) इति डः । ‘तुरगी चाश्वगन्धायां तुरगश्चित्तवाजिनोः (इति मेदिनी) ॥
तुरङ्गः तुरेण गच्छति । ‘गमेश्च (३.२.४७) इति खच् । ‘खच्च वा डित्’ (वा० ३.२.३८) । ‘अरुर्दिष-’ (६.३.६७) इति मुम् ॥
तुरङ्गमः तुरेण गच्छति । ‘गमेश्च (३.२.४७) इति खच् । ‘खच्च वा डित्’ (वा० ३.२.३८) । ‘अरुर्दिष-’ (६.३.६७) इति मुम् ॥
तुरङ्गवदनः तुरंगस्येव वदनमस्य ।
तुराषाट् “तुतोर्ति = तुरः । तुर त्वरणे’ (जु० प० से०) । इगुपध’=(३.१.१३५) इति कः । तुरं वेगवन्तं साहयत्यभिभवति । ‘अधेः प्रसहने’ (१.३.३३) इति सूत्रे ‘प्रसहनमभिभवः’ इति वृत्तेः । ण्यन्तात् (३.१.२६) सहेः (भ्वा० आ० से०) क्विप् (३.२.७६) । सहेः साडः सः (८.३.५६) इति षत्वम् । अन्येषामपि-”"(६.३.१३७) इति पूर्वपदस्य दीर्घः । आङ्प्रश्लेषो वा । ‘नहिवृतिवृषि (६.३.११६) इति वा दीर्घः । एकदेशविकृतस्यानन्यत्वात् । दीर्घविधौ (१.१.५८) इति, ’क्विलुग्-’ (वा० १.१ ५८) इति वा (णिलोपस्य) स्थानिवत्वनिषेधात्क्विप्परत्वान पायात् । यत्तु - तुरं सहते इति विगृह्य ‘छन्दसि सहः (३.२.६३) इति ण्विः इति स्वामी । तन्न । छान्दसस्य लोके प्रयोगाभावात् । यदपि-‘नहिवृतिवृषि–’ (६.३.११६) इति पूर्वपदस्य दीर्घः - इत्युक्तम् । तदपि न । क्विबन्तेषु नह्यादिष्वस्य प्रवृत्तेर्ण्यन्तेऽस्योपन्यासस्यान्याय्यत्वात् । एतेन तुरं वेगवन्तं सहते इति वा, तुरस्त्ववरितः सन् परबलानि सहते इति वा’ इति विगृह्य छन्दसि सहः’ (३.२.६३) इति ण्विः - इत्युपन्यस्यन् मुकुटोऽपि प्रत्युक्तः ।”
तुरुष्कः त्विति । तुतोर्ति । ‘तुर त्वरणे’ (जु० प० से०) । बाहुलकादुस् गुणाभावश्च । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘तुरुष्कः सिल्हके म्लेच्छजातौ देशान्तरेऽपि च’ इति विश्वमेदिन्यौ ॥
तुला तुला
तुला तुला ।
तुलाकोटिः तुलां तुलया वा कोटयति । ‘कुट प्रतापने’ चुरादिः । ‘अच इः’ (उ० ४.१३९) । तुलाकारं कोटिरग्रमस्य । ‘तुलाकोटिर्मानभेदेऽम्बुदे स्यान्नूपुरेऽपि च’ इति हैमः ॥
तुल्यः
- तुलया सम्मितः । ‘नौवयो-’ (४.४.९१) इति यत् ॥
तुल्यपानम् तुल्यं च यत्पानं च ॥
तुवरः ‘तुः’ सौत्रो धातुः । तवीति हिनस्ति रोगान् । छित्वरछत्वर-’ (उ०३१) इत्यादिना ष्वरच् । (‘तुवरस्तु कषाये स्यात्काक्ष्याढक्योस्तुवर्यपि’) । दीर्घादिरपि । ‘नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः । काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते’ । इत्युत्पलिनी । ‘नापि कषायस्तुवरः इति बोपालितः । पुंसि कषायस्तुवरम्’ इति क्लीबकाण्डे रत्नकोषः ।
तुवरिका तुवरोऽस्त्यस्याः । ठन् (५.२.११५) । टाप् (४.१.४) ॥ ‘वार्षिका मल्लिका तूवर्याढकी कच्छुरा छटी’ इति बोपालितात् ‘तूवरी’ च ॥
तुषः तुष्यति । ‘तुष तुष्टौ’ (दि० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । -‘घञर्थे कः’ (वा० ३.३.५८) –इत्युक्तिश्चिन्त्या । परिगणनात् ‘धान्यत्वचि तुषः पुंसि विभीतकतरावपि’ इति मूर्धन्यान्ते रुद्रः ॥
तुषः तुष्यति । ‘तुष तुष्टौ’ (दि० प० अ०) । ‘इगुपध-’ (३.१.१३६) इति कः । ‘तुषस्तु धान्यत्वचि विभीतके’ इति हेमचन्द्रः ॥
तुषारः तोषयति । तुषेः (दि० प० अ०) अन्तर्भावितण्यर्थात् ‘कमेः कित्’ इत्यनुवृत्तौ ‘तुषारादयश्च (उ० ३.१३९) इत्यारन् किच्च । (तुषारो हिमदेशयोः । शीकरे हिमभेदे च’) ।।
तुषारः तोषयति । तुषेः (दि० प० अ०) अन्तर्भावितण्यर्थात् ‘कमेः कित्’ इत्यनुवृत्तौ ‘तुषारादयश्च (उ० ३.१३९) इत्यारन् किच्च । (तुषारो हिमदेशयोः । शीकरे हिमभेदे च’) ॥
तुषिताः तुष्यन्ति । ‘तुष तुष्टौ । ‘रुचिकुटिरुषिभ्यः कितच्’ (उ० ४.१८६) इति बाहुलकात् कितच् । यद्वा तोषणं तुट् । सम्पदादिः (वा० ३.३.१०८) । ततः ‘तारकादित्वादितच्’ (५.२.३६) ॥
तुहिनम् तोहति । ‘तुहिर् दुहिर् अर्दने’ (भ्वा० प० से०) । ‘वेपितुह्योर्ह्रस्वश्च’ (उ० २.५२) इतीनन् ।
तूणः त्विति । तूणयति । ‘तूण सङ्कोचे’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) तूण्यते शरैः । घञ् (३.३.१९) वा । तूणा च । ‘स्त्रियां तूणेषुधी उपासङ्गः’ इति रत्नकोषः ॥
तूणी तूणयति । ‘तूण सङ्कोचे’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) । तूण्यते शरैः । घञ् (३.३.१९) वा । गौरादित्वात् (४.१.४१) ङीषपि । ‘तूणी नील्यां निषङ्गे वा ना’ (इति मेदिनी) । (‘तूणी तु नील्यां तूणौ निषङ्गके’ इति विश्वः) ॥
तूणीरः तूणीं तूणत्वमीर्ते । ‘ईर गतौ’ (अ० आ० से०) । ‘कर्मण्यण्’ (३.२.१) । यद्वा तूणीं शरैः संकोचं राति । ‘रा दाने आदाने च’ (अ० प० अ०) ‘आतोऽनुप-’ (३.२.३) इति कः ।
तूर्णम् इडभावे तूर्णम् । ‘-ज्वरत्वर (६.४.२०) इत्यूठ् । ‘रदाभ्याम्- (८.२.४२) इति नत्वम् । ‘रषाभ्याम्-’ (८.४.१) इति णत्वम् ॥
तूलः “तूलयति । तुल्यते, वा । ‘तूल निष्कर्षे’ (भ्वा० प० से०) ‘इगुपध-’ (३.१.१३५) इति कः । घञ् (३.३.१९) वा । ‘तूलं स्याद्ब्रह्मदारुणि । आकाशेऽथ | पिचौ न स्त्री’ इति विश्वः (मेदिनी) । ‘पिचुतूलः’ इति रभसात्सङ्घातोऽपि ॥”
तूलम् “तूलयति तुल्यते, वा । ‘तूल निष्कर्षे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । घञ् (३.३.१९) वा । ‘पुंलिङ्गस्तु पिचौ तूलः क्लीबं स्याद्ब्रह्मदारुणि’ इति रुद्रः ॥”
तूलिका
- तूलति । ‘तृल निष्कर्षे’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
तूष्णीकाम्
- अकच्प्रकरणे ‘तूष्णीमः काम् वक्तव्यः’ (वा० ५.३.७१) । ‘मिदचोन्त्यात्परः’ (१.१.४६) ॥
तूष्णीम्
- तोषणम् । ‘तुष तुष्टौ’ (दि० प० अ०) । बाहुलकान्नीम् । उपधाया ऊत् ॥
तृट् तर्षणम् । ञितृष पिपासायाम्’ (दि० प० से०) । सम्पदादि क्विप् (वा० ३.३.१०८) । (‘तृट् लिप्सायामुदन्यायां स्मरपुत्र्यामपि स्त्रियाम्) । (टाबन्तापि भागुरिमते) । (*तृषा लिप्सातृषोः स्त्रियाम् इति मेदिनी) । घञि (३.३.१८) ॥ ‘तर्षो लिप्सोदन्ययोः’ ॥
तृट् तर्षणम् । ‘ञितृषा पिपासायाम्’ (दि० प० से०) । सम्पदादिः (वा० ३.३.१०८) । (‘तृट् तृष्णावर्तर्षवच्च भवेल्लिप्सापिपासयोः इति हैमः) ॥
तृणधान्यम् त्रिति । तृणानीव धान्यानि । अकृष्टोत्पन्नत्वात् ॥
तृणध्वजः तृणेषु ध्वज इव ॥
तृणम् नलेति । तृणजातयः । तृण्यते । ‘तृणु अदने’ (त० उ० से०) । घञ् (३.३.१९) । संज्ञापूर्वत्वाद्गुणो न । घञर्थे कस्तु परिगणनान्न ॥
तृणम् तृणमिति । तृण्यते । ‘तृणु अदने’ (त० उ० से०) । घञ् (३.३.१९) । संज्ञापूर्वकत्वान्न गुणः ॥
तृणराजा तृणेति । तृणानां राजा । ‘राजाहःसखिभ्यष्टच्’ (५.४.९१) । तृणराज इत्याह्वयो यस्य ॥
तृणशून्यम् तृणेति । ‘इतो धत्तूरान्तानि पुष्पाणि’ इति स्वामी । तृणशून्ये स्थाने साधु । ‘तत्र साधुः’ (४.४.९८) इति यत् । हलोयमाम् (८.४.६४) यलोपः । तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले’ इति विश्वमेदिन्यौ ॥ ‘तृणशूले गुल्मे साधु तृणशूल्यम्’ इति तु स्वामी ॥
तृण्या तृणेति । तृणानां संहतिः समूहः । ‘पाशादिभ्यो यः’ (४.२.४९) ॥
तृतीयाकृतम् तृतीयं कृतम् । ‘कृञो द्वितीय-’ (५.४.५८) इति डाच् ॥
तृतीयाप्रकृतिः तृतीति । स्त्रीपुंसावपेक्ष्य तृतीया प्रकृतिः = तृतीयः प्रकारः । असमस्तमेतत् । समासे तु ‘तृतीयप्रकृतिः’ ॥
तृप्तिः क्तिन् (वा० ३.३.९४) ॥
तेजः तेजयति । ‘तिज निशाने’ (भ्वा० आ० से०) । असुन् (उ० ४.१८९) ॥
तेजनः तेजयति शस्त्रमग्निं वा । नन्द्यादिल्युः (३.१.१३४) । युच् (उ० २.७८) वा ॥
तेजनकः तेजयति । ‘तिज निशाने’ चुरादिः । ण्वुल् (३.१.१३३) । क्वुन् (उ० २.३२) वा ॥
तेजनी तेजति । ‘तेज पालने’ (भ्वा० प० से०) । ल्युट् (३.३.११३) ॥
तेमनम् स्येति । तिम्यतेऽनेन । ‘तिम आर्द्रीभावे’ (दि० प० से०) । ‘करणे ल्युट्’ (३.३.११७) । ‘तेमनं व्यञ्जने क्लेदे तेमनी चुल्लिभिद्यपि’ इति हेमचन्द्रः ॥
तैजसम् सेति । तेजसो विकारः । ‘तस्य विकारः’ (४.३.१३४) इत्यण् । यद्वा तेजोऽस्त्यस्य । ज्योत्स्नाद्यण् (वा० ५.२.१०३) ।
तैजासावर्तनी
- तैजेति । तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् । ‘वृतु वर्तने’ (भ्वा० आ० से०) । ण्यन्तः । अधिकरणे ल्युट् (३.३.११७) ॥
तैत्तिरम् “कपोतादीनां गणस्य पृथक्पृथगेकैकम् । | कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति । तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोतानाम्, शुकानाम्, मयूराणाम्, तित्तिरीणाम्, च गणः । ‘अनुदात्तादेरञ्’ (४.२.४४) । शुकात्तु ‘तस्य समूहः’ (४.२.३७) इत्यण् । आदिना काकवर्तकोलृकादीनां ग्रहः । ‘कापोतो रुचके, क्लीबं कपोतौघेऽञ्जनान्तरे’ (इति मेदिनी) ॥ ‘शौकं शुकगणे स्त्रीणां करणे’ (इति मेदिनी) ॥”
तैलपर्णिकम् तैलेति । तिलपर्णे वृक्षभेदे जाता । ‘तत्र जातः’ (४.३.२५) इत्यण् । ङीप् (४.१.५) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । ‘तैलपर्णी मलयजे श्रीवासे सिह्नकेऽपि च’ (इति मेदिनी) ॥
तैलपायिका “तैलं पिबति । ‘पा पाने’ (भ्वा० प० अ०) । ण्वुल् (३.१.१३३) ॥ ‘तनुकृमिस्त्विन्द्रगोपः, परोष्णी तैलपायिका । तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम्’ इति रभसः ।”
तैलीनम् तीति । तिलानाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
तैषः पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । नक्षत्रेण- (४.२.३) इत्यण् । तिष्यपुष्ययोर्नक्षत्राणि यलोपः (वा० ६.४.१४९) । डीप् (४.१.१५) । ततः ‘सास्मिन् (४.२.२१) इत्यण् । (‘पौषो मासप्रभेदे स्यात्पोषं तु महयुद्धयोः) ॥
तोकम् तौति । ‘तुः’ सौत्रो हिंसावृत्तिपूर्तिषु । बाहुलकात् कः । ‘तोकं संतानसुतयोः’ इति हैमः ॥ तयोस्तनयदुहित्रोः । समे समानलिङ्गे ॥
तोक्मः “तविति । तकति । तक्यते वा । ‘तक सहने हासे च’ (भ्वा० प० से०) । बाहुलकान्मः, ओत्वम्, च । (‘तोक्मं कर्णमले, पुंसि हरिते च हरिद्रवे” इति मेदिनी) ॥”
तोत्रम् तविति । तुद्यतेऽनेन । ‘तुद व्यथने’ (तु० उ० अ०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् । ‘तोत्रं तु प्राजने वैणुकेऽपि च’ (इति मेदिनी) ॥
तोत्रम् ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् । ‘तोत्रं तु प्राजने वेणुकेऽपि च’ इति विश्वः (मेदिनी) ॥
तोदनम् तुद्यतेऽनेन ‘तुद व्यथने’ (तु० उ० अ०) । ल्युट् (३.३.११५) ॥
तोमरः तौति । ‘तुः’ सौत्रो गतौ । विच् (३.२.७५) म्रियते । ‘मृङ् प्राणत्यागे’ (तु० आ० अ०) अन्तर्भावितण्यर्थः । अच् (३.१.१३४) तोश्चासौ मरश्च । तौर्गन्ता प्रियतेऽनेन वा । ‘पुंसि-’ (३.३.११८) इति घः ॥
तोयपिप्पली तोयस्य पिप्पलीव ॥
तोयम् तौति । तुः सौत्र आवरणार्थः । औणादिको यः (४.११२)
तोरणम् तोरेति । तुरन्त्यत्र । ‘तुर त्वरणहिंसनयोः । अधिकरणे ल्युट् (३.३.११७) । तोलयन्त्यत्र’ इति वा । ‘तुल उन्माने (चु० प० से०) । रलयोरेकत्वम् । तुतुरत्यनेन । ‘तुर त्वरणे’ जौहोत्यादिकः ।
तौर्यत्रिकम् तौर्यति । नृत्यगीतवाद्यं तौर्यत्रिकम् । तुर त्वरणे (जु० प० से०) । ‘ऋहलोर्यत्’ (३.१.१२४) । गुणं बाधित्वा बाहुलकात् ‘हलि च (८.२.७७) इति दीर्घः । तूर्यं मुरजादिः । तत्र भवं तौर्यं शब्दः । त्रयोंऽशा यस्य त्रिकम् । ‘संख्याया अतिशदन्तायाः कन् (५.१.२२) । ‘संख्यायाः संज्ञासङ्घ (५.१.५८) इति वा । ‘तौर्योपलक्षितं त्रिकम्’ इति विग्रहः
त्यागः त्येति । त्यजनम् । ‘त्यज हानौ’ (भ्वा० प० अ०) । घञ् (३.३.१८) । ‘त्यागो दाने च वर्जने’ (इति मेदिनी) ॥
त्रपा त्रपूषे लज्जायाम्’ (भ्वा० आ० से०) । षित्वात् (३.३.१०४) अङ ‘त्रपा लज्जाकुलटयोः इति हैमः ।
त्रपुः त्रेति । त्रपते । ‘त्रपूष् लज्जायाम्’ (भ्वा० आ० से०) । ‘शृस्वृस्निहि-’ (उ० १.१०) इत्युः । ‘रङ्गसीसकयोस्त्रपुः’ इति रुद्रः ॥
त्रयी इति एते त्रयो वेदास्त्रयी । त्रयोऽवयवा यस्याः सा संहतिः । त्रिशब्दात् ‘संख्याया अवयवे तयप्’ (५.२.४२) । द्वित्रिभ्यां तयस्य-’ (५.२.४३) इत्ययच् । टिड्ढा-’(५.१.१५) इति डीप् । ‘त्रयी त्रिवेद्यां त्रितये पुरंध्र्यां सुमतावपि इति हैमः ॥
त्रायन्ती “त्राणम् । त्राः । सम्पदादिः (वा० ३.३.१०८) । त्रा अयति । ‘इ गतौ (भ्वा० प० से०) । शता (३.२.१२४), (ङीप् ४.१.६) । ‘शप्श्यनो- (७.१.८१) इति नुम् ॥”
त्रायमाणा “त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । शानच् (३.२.१२८) चानश् (३.२.१२९) वा । (‘त्रायमाणा वार्षिके, स्त्री रक्ष्यमाणेऽभिधेयवत्’ इति मेदिनी) ॥”
त्रासः ‘त्रसी उद्वेगे’ (दि० प० से०) । घञ् (३.३.१८) ‘त्रासो भये मणेर्दोषे’ इति हैमः॥
त्रिककुद् त्रीणि ककुद सदृशानि श्रृङ्गाण्यस्य । ‘त्रिककुत् पर्वते’ (५.४.१४७) ॥
त्रिकटुः त्रीणि शुण्ठीपिप्पलीमरिचानां समाहारस्य त्रिकटु त्र्यूषणं व्योषम् त्रीति । त्रयाणां कटूनां समाहारः ॥
त्रिकम् पृष्ठेति । पृष्ठवंशस्याधोभागे । त्रयाणां संघः । ‘संख्यायाः संज्ञासंघ-’ (५.१.५८) इति कन् । ‘त्रिका कूपस्य नेम स्यात्त्रिकं पृष्ठाधरे त्रये’ (इति मेदिनी) ॥
त्रिका तिस्रोऽस्रयोऽस्याः । ‘संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु’ (५.१.५८) इति कन् । त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये’ इति विश्वमेदिन्यौ । द्वे कूपस्यान्तरे रज्ज्वादिधारणार्थदारुयन्त्रस्य ।
त्रिकूटः त्रिकूट इति । त्रीणि कूटान्यस्य । त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे’ इति हैमः ॥
त्रिगुणाकृतम् त्रीति । त्रिगुणं कृतम् । ‘संख्यायाश्च गुणान्तायाः’ (५.४.५९) इति डाच् ॥
त्रिदशाः तृतीया यौवनाख्या दशा सदा येषाम् । त्रिशब्दस्य तृतीयार्थता त्रिभागवत् । त्रिर्दश वा । ‘संख्ययाऽव्यया-’(२.२.२५) इति बहुव्रीहिः । ‘बहुव्रीहौ संख्येये-(५.४.७३) इति डच् । जन्मसत्ताविनाशाख्यास्तिस्रो दशा येषामिति वा । ‘त्रीन् तापान् दशन्ति ‘दंश दशने’ (भ्वा० प० अ०) पचाद्यचि पृषोदरादित्वात् (६.३.१०९) न लोपः’ इति राजदेवः । तन्न । उक्तविग्रहे कर्मण्यणः (३.२.१) प्रसङ्गेनाचोऽप्राप्तेः । मूलविभुजादित्वादित्येके (३.२.५ वा०) वा समाधेयम् ॥
त्रिदशालयः त्रिदशानामालयः ।
त्रिदिवः इगुपधत्वात् (३.१.१३५) कः । त्रयः दीव्यन्ति अत्र ।
त्रिदिवेशाः त्रिदिवस्येशाः ।
त्रिपथगा त्रीन् पथो गच्छति । डः (वा० ३.२.४८) । यद्वा त्रयाणां पथां समाहारः त्रिपथम् । तेन गच्छति । डः (३.२.४८) ॥
त्रिपुटा त्रयः पुटा यस्याः । ‘त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिवृतो स्त्रियाम्’ (इति मेदिनी) ॥ ‘त्रिपुटी’ इत्यपि । ‘त्रिपुटी महती स्वाशा’ इति वाचस्पतिः ॥
त्रिपुटा त्रयः पुटा यस्याः । ‘त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम् । सतीनके च तीरे च त्रिपुटः समुदाहृतः’ (इति मेदिनी) ॥
त्रिपुरान्तकः “त्रयाणां धातूनां पुराणि, तेषामन्तकः । त्र्यवयवं पुरं त्रिपुरम्, तस्यान्तक इति वा । त्रयाणां पुराणां समाहार । ‘पात्रादिः’ (वा० २.४.३०) इति प्राञ्चः । तन्न । तथा सति पञ्चपात्री’ इतिवत् ‘त्रिपुरी’ इति प्रयोगभावप्रसङ्गात् ।”
त्रिफला त्रीति । त्रयाणां फलानां समाहारः । अजादिः (४.१.४) । तृफति । ‘तृफ तृप्तौ’ (तु० प० से०) ।-‘तृफश्च’ (उ० १.१०४) इति कलः । ‘त्रिफला तृफलापि च’ इति त्रिकाण्डशेषः ॥
त्रिभण्डी त्रीन् दोषान् भण्डते । ‘भडि परिभाषणे’ (भ्वा० आ० से०) । ‘कर्मण्यम्’ (३.२.१) ॥
त्रियामा त्रयो यामा यस्याः । आद्यन्तयोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् । यद्वा त्रीन्धर्मादीन् यापयति निरवकाशीकरोति कामप्रधानत्वात् । अन्तर्भावितण्यर्थाद्यातेः अर्तिस्तुसु-’ (उ० १.१४०) इति मन् ।
त्रिलोचनः त्रीणि लोचनानि यस्य । त्रिषु कालेषु लोकेषु गुणेषु वेदेषु लोचनं ज्ञानं यस्येति वा । त्रयो वेदा वर्णा अकारोकारमकारा वा लोचनानि यस्मिन् वा ॥
त्रिवर्गः त्रीति । त्रयाणां वर्गः समूहः ॥धर्मश्च कामश्च अर्थश्च । तैः कृत्वा॥
त्रिवर्गः ‘कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरबलादानं शून्यानां च विवेचनम्’ इत्य- ष्टवर्गः । त्रयाणां वर्गः ॥
त्रिविक्रमः “त्रिषु लोकेषु गुणेषु वा, त्रयो वा विक्रमाः पादविन्यासा यस्य ॥”
त्रिविष्टपम् “विशन्त्यस्मिन् सुकृतिन इति विष्टपम् । ‘विटप-विष्टप-विशिपोलपाः (उ० ३.१४५) इति विशेः विश प्रवेशने (तु० प० अ०) कपप्रत्ययः, तस्य च तुट् । ‘व्रश्च-’ (८.२.३६) इति षत्वम् । तृतीयं विष्टपं त्रिविष्टपम् । पूरणप्रत्ययस्तु वृत्तौ गतार्थत्वान्न प्रयुज्यते । (रूपभेदेनैव क्लीबत्वे लब्धे रूपभेदलब्धलिङ्गविशेषस्यानित्यत्वापनार्थं क्लीब इत्युक्तम् । तस्य फलं ‘कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः’ इत्यत्र नपुंसकत्व उक्तेऽपि पुंलिङ्गत्वं सिद्धम् । अतः ‘कर्मव्याप्ये क्रियायां च पुंनपुंसकयोर्मतम्’ इति रुद्रकोशेन सह न विरोधः शङ्कनीयः) । केचित्तु ‘पिष्टप’ इति सूत्रं पठित्वा विशतेरादेः पो निपात्यते-इत्याहुः । अयं पुंस्यपि । तथा चामरमाला-‘पिष्टपो विष्टपोऽप्यस्त्री भुवनं च नपुंसकम्” इति । ‘नभो विष्टपं वृषो गौर्ना पृश्निश्चापि सुरालयः’ इति रत्नमाला । एवं शक्रभवनफलोदयावरोहोर्ध्वलोकादयोऽप्यूह्याः ।”
त्रिवृता त्रिभिरवयवैर्वृता ॥
त्रिवृत् त्रीनवयवान् वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । क्विप् (३.२.१७८) । तुक् (६.१.७१) ॥
त्रिसीत्यम् त्रिवारं सीतया सम्मितम् । यत् (४.४.९१) ॥
त्रिस्रोतम् त्रीणि स्रोतांसि यस्याः (त्रिस्रोता जह्नुकन्यायां स्रोतस्वत्यन्तरे स्त्रियाम्’) ॥
त्रिहल्यम् त्रिवारं हलेन कृष्टम् । ‘मतजन-’ (४.४.९७) इति यत् । ‘रथसीताहलेभ्यो यद्विधौ’ (वा० १.१.७२) इति तदन्तविधेः ॥
त्रिहायणी त्रयो हायना यस्याः ॥
त्रुटिः त्रुटति । ‘त्रुट छेदे’ (तु० प० से०) । ‘इगुपधात्-’ (उ० ४.१२०) इतीन् । त्रुटिः स्त्रीसंशये स्वल्पे सूक्ष्मैलाकालमानयोः’ (इति मेदिनी) ॥
त्रेता “अग्नीति । त्राणम् । त्राः सदा संधुक्षणम् । तामिता । यद्वा त्रायन्ते त्रा आहुतयः । ताभिरिता । त्रित्यमिता, इति वा । पृषोदरादिः (६.३.१०९) । ‘त्रेता युगेऽग्नित्रये च’ इति हैमः ॥”
त्रोटिः त्रोट्यते । ‘त्रुट छेदने (चु० आ० से०) चुरादिः । ‘अच इः’ (उ० ४.१३९) । ‘त्रोटिश्चवां खगान्तरे । मीनकट्फलयोः’ इति हैमः ॥
त्र्यब्दा एवमिति । त्रयोऽब्दा यस्याः ॥
त्र्यम्बकः त्रीण्यम्बकान्यस्य । त्रिष्वम्बकमस्येति वा । अम्बकं नयनं दृष्टिः इति हलायुधः । त्रयाणां लोकानामम्बकः पिता इति वा । त्रीन्वेदानम्बते शब्दायते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) कर्मण्यण् (३.२.१) संज्ञायाम् (५.३ ८७) इति कः (न्) त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो यस्येति वा । त्रयः अकारोकारमकारा अम्बाः शब्दा वाचका यस्येति वा । तिस्रोऽम्बाः द्यौर्भूम्यापो यस्येति तु भारतम् ।।
त्र्यम्बकसखः त्र्यम्बकस्य सखा । राजा-’(५.४.९१) इति टच् ।
त्र्यूषणम् त्र्यूषणम्
त्वक् “त्वगिति । त्वचति । ‘त्वच संवरणे’ (तु० प० से०) । क्विप् (३.२.१८०) । यद्वा तनोति, तन्यते, वा । ‘तनु विस्तारे’ (त० उ० से०) । ‘तनोतेरनश्च वः’ (उ० २.६३) चाच्चिक् । (‘त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः’) ॥”
त्वक्पत्रम् त्वगिति । त्वगिव पत्रमस्य ॥ ‘त्वग् अपि नामास्य । ‘त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः’ (इति मेदिनी) ॥
त्वक्षीरी त्वेति । त्वचो वंशात् क्षीरमस्याः । गौरादिः (४.१.४१) ॥
त्वक्सारः त्वक् त्वचि वा सारोऽस्य ॥
त्वचम् प्रशस्ता त्वगस्यास्ति । ‘अर्शआद्यच्’ (५.२.१२७) ॥
त्वचिसारः ‘हलदन्तात्-’ (६.३.९) इति वा लुक् ॥
त्वच् स्त्रीति । त्वचति । ‘त्वच संवरणे’ (उ० प० से०) । क्विप् (३.२.१७८) यद्वा तनोति । ‘तनोतेरनश्च वः’ (उ० २.६३) इति चिक् च । ‘त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः’ (इति मेदिनी) । ‘पुंसि-’ (३.३.११८) इति घे ‘त्वच’ इत्यदन्तोऽपि । ‘त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्त्रके’ इति धरणिः ॥
त्वरितः “त्वरते । ‘ञित्वरा सम्भ्रमे’ (भ्वा० आ० से०) । ‘ञीतः क्तः’ (३.२.१९७) । त्वरा सञ्जातास्य, इति वा । इतच् (५.२.३६) ‘त्वरितं वेगतद्वतोः’ (इति हैमः) ॥”
त्वरितम् त्वरते स्म । ‘ञित्वरा सम्भ्रमे’ (भ्वा० प० से०) । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति कर्तरि क्तः। ‘रुष्यमत्वरसंघुषास्वनाम् (७.२.२८) इति वेट् । (त्वरितं वेगतद्वतोः) । इडभावे तूर्णम्‘-ज्वरत्वर (६.४.२०) इत्यूठ् । ‘रदाभ्याम्- (८.२.४२) इति नत्वम् । ‘रषाभ्याम्-’ (८.४.१) इति णत्वम् ।
त्वरितोदितम् त्वरितमुदितम् ॥ निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यूते प्रतिहते च’ इति हैमः ॥
त्वष्टा
- त्वक्षति । ‘त्वक्षू तनूकरणे’ (भ्वा० प० से०) । तृच् (३.१.१३३) । ‘त्वष्टा पुमान्देवशिल्पितक्ष्णोरादित्यभिद्यपि’ (इति मेदिनी) ॥
त्विट्/त्विड् त्वेषति । ‘त्विष दीप्तौ (भ्वा० उ० से०) । क्विप् (३.२ १७८) । (त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि’) ।
त्विषांपतिः त्विषां पतिः । अलुक् ।
त्सरुः त्सेति । त्सरति । ‘त्सर छद्मगतौ’ (भ्वा० प० से०) । ‘भृमृशी-’ (उ० १.७) इत्युः ॥ आदिना कटितलच्छुरिकादिग्रहः । एकम् ‘खड्गाद्यायुधमुष्टीनाम्’ ॥
दंशः दंश इति । दशति । ‘दंश दशने’ (भ्वा० प० अ०) । अच् (३.१.१३४) । ‘दंशः कीटविशेषे च वर्मदंशनयोः पुमान्’ (इति मेदिनी) ॥
दंशनम् दंश्यतेऽनेन । ‘दशि दंशनस्पर्शनयोः’ (चु० आ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘दंशनं वर्मदंशयोः’ इति हैमः ॥
दंशितः दंशः सञ्जातोऽस्य । इतच् (५.२.३६) । यद्वा-दंश्यते स्म । ‘दशि दंशनादौ’ (चु० अ० से०) । क्तः (३.२.१०२) ॥
दंशी दंशीति । अल्पा दंशजातिः । अपचयविक्षायां गौरादित्वात् (४.१.४१) ङीष् । –‘जातेः-’ (४.१.६३) इति ङीष्-इति मुकुटः ॥
दंष्ट्री दंष्ट्रास्त्यस्य । व्रीह्यादीनिः (५.२.११६) ॥
दक्षः
- देति । दक्षते । ‘दक्ष वृद्धौ शीघ्रार्थे च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्याम्’ इति विश्वः (मेदिनी) ॥
दक्षिणस्थः दक्षिणे तिष्ठति । ‘सुपि-’ (३.२.४) इति कः ॥ रथं कुटुम्बयितुं शीलमस्य । ‘कुटुम्ब धारणे’ (चु० अ० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः । यद्वा रथ एव कुटुम्बम् । रथकुटुम्बमस्यास्ति । इनिः (५.२.११५) ॥
दक्षिणाग्निः देति । दक्षिणोऽग्निः । ‘दिक्संख्ये संज्ञायाम्’ (२.१.५०) इति समासः । मुकुटस्तु-दक्षिणाया दिशोऽग्निः । ‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ (वा० ५.३.२८) । दक्षिणाग्निः इत्याह । तन्न । संज्ञात्वेन दिक्संख्ये-’ इत्येतत्सूत्रोदाहरणत्वात् । तत्र च ‘समानाधिकरणेन’ इत्यधिकारात् ॥
दक्षिणेर्मा
- देति । दक्षिणेऽरुरस्य । दक्षिणे ईर्ममस्य । ‘दक्षिणेर्मा लुब्धयोगे’ (२.५.१२६) इति साधुः ॥
दग्धिका दह्यते स्म । क्तः (३.२.१०२) । कुत्सिता दग्धा । ‘कुत्सिते (५.३.७४) इति कन् ॥
दण्डः दण्डोऽस्यास्ति । अच् (५.२.१२७) । दण्डयतीति वा । (‘दण्डः सैन्ये दमे यमे । मानव्यूहप्रभेदेष्वश्वेऽर्कानुचरे मथि । प्रकाण्डे लगुडे कोणे चतुर्थोपायवर्गयोः’ ।
दण्डः दमनम् । ‘दमु उपशमे’ (दि० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । दण्डः शास्तिः ॥
दण्डः ‘ञमन्ताड्डः’ (उ० १.११४) । ‘दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्थानुचरे मथि । प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः’ इति हैमः ॥
दण्डः दण्डः
दण्डधरः दण्डस्य धरः । (दण्डं धरतीति विग्रहे) । ‘कर्मण्यण्’ (३.२.१) इत्यणि ‘दण्डधारः अपि । ‘दण्डधारो यमे राज्ञि) ।
दण्डनीतिः दम्यतेऽनेन । ‘दमु उपशमे’ (दि० प० से०) । ञमन्ताड्डः (उ० १.११४) । दण्डो नीयते बोध्यतेऽनया दण्डनीतिः । क्तिन् (३.३.९४) । यद्वा दण्डं लयति दण्ड्यान्प्रति प्रापयति । क्तिच् (३.३.१७४) । आन्वीक्षिकीसाहचर्यात्स्त्रीत्वम् । (१) अर्यते गम्यते । ऋ गतौ (भ्वा० प० अ०) । ‘उषिकुषि-’ (उ० २.३) इति थन् । अर्थस्य भूम्यादेः शास्त्रम् ।
दण्डविष्कम्भः दण्डं विष्कभ्नाति । ‘स्कम्भु रोधने’ सौत्रः । ‘कर्मण्यण्’ (३.२.१) । ‘वेः स्कभ्नातेर्नित्यम्’ (८.३.७७) इति षत्वम् ॥
दण्डाहतम् देति । दण्डेन मथाहतं विलोडितम् । ‘कर्तृकरणे-’ (२.१.३२) इति समासः ॥
दद्रुघ्नः दद्रं हन्ति । ‘अमनुष्यकर्तृके च’ (३.२.५३) इति टक् । ‘अत्पूर्वस्य’ (८.४.२२) इति नियमान्न णत्वम् ।—क्षुभ्नादित्वात् (८.४.३९) - इति मुकुटस्तु चिन्त्यः ॥
दधित्थः दधिवर्णो द्रवस्तिष्ठत्यस्मिन् ॥
दधिफलः दधि फलेऽस्य ॥
दधिसक्तु सचते । ‘षच समवाये’ (भ्वा० उ० से०) । ‘सितनिगमि-’ (उ० १.६९) इत्यादिना तुन् । (‘धानाचूर्णं तु सक्तवः’ इति नाममाला) । दध्युपसिक्ताः सक्तवः । ‘अनेन व्यञ्जनम्’ (२.१.३४) इति समासः । शाकपार्थिवादिः (२.१.७८) वा ॥
दनुजः “दनोर्दनौ वा जाताः । ‘सप्तम्यां जनेर्डः’ । ‘पञ्चम्यामजातौ’ (३.२.९७, ९८) ॥”
दन्तः दाम्यति । ‘दमु उपशमे’ (दि० प० से०) । अन्तर्भावितण्यर्थाद्बाहुलकात्तन् । ‘दन्तोऽद्रिकटके कुञ्जे दशनेऽथौषधौ स्त्रियाम्’ इति मेदिनी) ॥
दन्तधावनः दन्तान् धावति । ‘धावु गतिशुद्ध्योः’ (भ्वा० उ० से०) । ल्युट् (३.३.११४) ॥
दन्तभागः देति । दन्तस्य भागः । दन्तसम्बन्धी भागो वा । शाकपार्थिवादिः (वा० २.१.७८) ॥
दन्तशठः दन्तानां शठ इव । अपकारित्वात् ॥ सप्त कपित्थस्य ‘कैथ’ इति ख्यातस्य ।
दन्तशठः दन्तानां शठ इव । (‘स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके । नागरङ्गेऽपि च पुमान् स्याच्चाङ्गेयर्यां तु योषिति’ ।
दन्तशठा शठति । ‘शठ हिंसाक्लेशकैतवे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । दन्तानां शठा । ‘स्याद्दन्तशठो जम्बीरे कपित्थे करमर्दके । नारङ्गेऽपि च पुमान् स्वाच्चाङ्गेर्यां च योषिति’ (इति मेदिनी) ॥
दन्तावलः ‘दन्तशिखात् संज्ञायाम्’ (५.२.११३) इति वलच् । ‘वले’ (६.३.११८) इति दीर्घः ॥
दन्तिका दाम्यति । दम्यते वा । ‘दमु उपशमे’ (दि० प० से०) । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । स्वार्थे कन् (५.३.७५) । ‘दन्तोऽद्रिकटके कुञ्चे दशनेऽथौषधौ स्त्रियाम् (इति मेदिनी) ॥
दन्ती देति । अतिशयितौ दन्तावस्य । इनिः (५.२.११५) ॥
दन्दशूकः गर्हितं दशति । ‘लुपसद-’(३.१.२४) इति यङ् । ‘जपजभ-’ (७.४.८४) इति नुकि अनुस्वारः (८.३.२४) । ‘यजजप-( ३.२१६६ ) इत्यूकः । ‘दन्दशूकस्तु पुंलिङ्गो राक्षसे च सरीसृपे’
दमः दमनम् । ‘दमु उपशमे’ (दि० प० से०) । घञ् (३.३.१८) । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च’ इति हेमचन्द्रः ॥
दमुनाः “दमु उपशमे’ (दि० प० से०) । अन्तर्भावितण्यर्थाद् ‘दमेरुनसिः । (उ० ४.२३५) । दाम्यति । दमूनाः, दमुनसौ । दीर्घमध्योऽपि । दमूना दमुनाः प्राचीनबर्हिः शुचिबर्हिषौ’ इति नामनिधानात् ।।”
दम्पती दम्पेति । जाया च पतिश्च । राजदन्तादि (२.२.३१) गणे पाठाज्जायाशब्दस्य ‘दम्’ ‘जम्’ भावो वा निपात्यते । ‘दाराः पुसि बहुत्वे च दं कलत्रे नपुंसकम्’ इत्यमरमाला । ‘पत्न्यां जं दमलिङ्गत्वे’ इति नामप्रपञ्चः ॥
दम्भः दभ्यतेऽनेन । ‘दम्भ दम्भने’ (स्वा० प० से०) । घञ् (३.३.१८) । ‘दम्भः कल्के कैतवे च’ इति हेमचन्द्रः ।
दम्भोलिः ‘दम्भु रोधने’ (स्वा० प० से०) । असुन् (उ० ४.१८९) । दम्भसि रोधने अलिः समर्थः । ‘अलं भूषणपर्याप्तिवारणेषु (भ्वा० प० से०) । इन् (४.१९८) । दभ्नोति खेदयति । ‘दम्भु दम्भने’ (स्वा० प० से०) औणादिक ओलिरिति वा ।
दम्यः देति । दमनार्हः । ‘दमु शमने’ (दि० प० से०) । ‘अहं कृत्यतृचश्च’ (३.३.१०९) इत्यर्थे ‘पोरदुपधात् (३.१.९८) इति यत् ॥
दया दयते रक्षत्यनया । ‘दय दानगतिहिंसारक्षणेषु । भिदाद्यङ् (३.३.१०४)
दरः दरेति । दीर्यतेऽस्मात् । ‘दॄ भये’ (भ्वा० प० से०) । अप् (३.३.५७) । ‘दरः स्याभयगर्तयोः । दरी तु कन्दरे’ इति हैमः ॥
दरी दरीति । दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । पचादौ (३.१.१३४) ‘दरट्’ इति पाठात् टिड्ढा- (४.१.१५) इति ङीप् । ‘दरोऽस्त्री साध्वसे गर्ते कंदरे तु दरी स्मृता । दराऽव्ययं मनागर्थे ।
दर्दुरः दृणाति शब्दैः कर्णौं । दॄ विदारणे’ (क्र्या० प० से०) । ‘मुकुरददुरौ’ (उ० १.४०) इति निपातितः । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरी चण्डिकायां स्याद् ग्रामजाले नपुंसकम्’ । षट् मण्डूकस्य ।
दर्द्रुणः देति । दरिद्राति । ‘दरिद्रा दुर्गतौ’ (अ० प० से०) । ‘दरिद्रातेर्यालोपश्च’ (उ० १.९०) इति साधुः । दर्द्रूरस्यास्ति । ‘शाकीपलाशीदर्द्रूणां ह्रस्वश्च’ इति पामादिषु (ग० ५.२.१००) पाठान्नः ॥
दर्द्रुरोगिन् दर्द्रूश्चासौ रोगश्च । ‘इको ह्रस्वोऽङ्यः’ (६.३.६१) इति ह्रस्वः । दर्द्रूरोगोऽस्यास्ति । ‘द्वन्द्वोपताप-’ (५.२.१२८) इतीनिः ॥
दर्पकः दर्पयति । ण्वुल् (५.१.१३३)
दर्पणः देति । दर्पयति । ‘दृप हर्षमोचनयोः’ (दि० प० अ०) ण्यन्तः । नन्द्यादिः (३.१.१३४) ‘दृप संदीपने’ चुरादिव । ‘आदर्शो दर्पणः प्रोक्तः’ इत्यमरमाला ॥
दर्भः दृभ्यते । ‘दृभी’ (तु० प० स०) । घञ् (३.३.१९) ॥
दर्विः देति । दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘वृदृभ्यां विन्’ (उ० ४.५३) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीषि दर्वी च । (‘दर्वी पणातर्द्वोः’ इति हैमः) ॥
दर्विका दर्वीव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥ ‘दार्विका’ इति पाठे दारयति । ‘दॄ विदारणे (क्र्या० प० से०) । उल्वादित्वात् (उ० ४.९५) साधुः । ‘दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ (इति मेदिनी) ॥
दर्वीकरः “दर्व्याकारः फण एव करो यस्य प्रहारसाधनत्वात् । दर्वी फणं करोति, इति वा । ‘कृञो हेतु-’ (३.२.२०) इति टः ।”
दर्शः दृश्यते शास्त्रेण । ‘पुंसि संज्ञायाम्’ (३.३.११८) इति घः । पक्षान्तेऽब्धौ दर्शने च दर्शः सूर्येन्दुसङ्गमे’ ।
दर्शः देति । दर्श अमावास्यायां क्रियमाणत्वादुपचाराद्दर्शशब्देन याग उच्यते । ‘पक्षान्तेष्टौ दर्शने च दर्शः सूर्येन्दुसङ्गमे’ । (‘दर्शस्तु स्यादमावास्या यागभेदावलोकने’इति मेदिनी) ॥
दर्शकः “द्वारि तिष्ठति स्म । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘द्वाःस्थितः, दर्शकः’ इति व्यस्तं नाम । (‘द्वाःस्थितो वेत्रधारकः इति त्रिकाण्डशेषः) । ‘स्याद्दर्शको दर्शयिता प्रतीहारोऽपि दर्शकः’ इति रुद्रः । (द्वाःस्थितस्य दर्शकः इति) समस्तं नाम (इत्यन्ये) । ‘द्वारपो द्वाःस्थितादर्शी’ इति रभसः ॥”
दलम् दलति । ‘दल विदारणे’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । ‘दलमुत्सेधखण्डयोः । शस्त्रीछदेऽप्यद्रव्ये पत्रे’ ॥
दशनः दश्यतेऽनेन । करणे ल्युट् (३.३.११७) । ‘दहदश-’ (३.१.२४) इति निर्देशात्क्वचिदक्वित्यपि लोपः । यद्वा कर्तरि ल्युट् (३ ३.११३) ॥
दशनवासस्म् दशनानां वाससी इव । आवरकत्वात् ॥
दशबलः दश बलान्यस्य । यदाहुः-‘दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै’ इति ॥
दशमिन् दशमोऽवस्थाविशेषोऽस्यास्ति । ‘वयसि पूरणात्’ (५.२.१३०) इतीनिः ॥
दशा स्त्रीति । दश्यते । ‘दंश दशने’ (भ्वा० प० अ०) भिदाद्यङ् (३.३.१०६) । ‘दशा वर्त्यामवस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियोः’ इति रभसः ॥
दस्युः
- दस्यति । ‘दसु उपक्षये’ (दि० प० से०) । ‘-जनिमनिदसिभ्यो युः’ (उ० ३.२०) । ‘अनुनासिकयोः’ इत्युक्तत्वान्नानः (७.१.१) । ‘दस्युश्चौरे रिपौ पुंसि’ इति हैमः (मेदिनी) ॥
दस्युः दस्यति । ‘दसु उपक्षये’ (दि० प० से०) । ‘यजिमनिशुन्धिदसिजनिभ्यो युच्’ (उ० ३.२०) । बाहुलकादनादेशस्य (७.१.१) अभावः ॥
दस्रौ दस्यतः क्षिपतो रोगान् । ‘दसु उपक्षये’ (दि० प० से०) ।‘स्फायितञ्चि-’ (उ० २ः१३) इति रक् । (दस्रः खरेऽश्विनीसुते)
दहनः दहति । ल्युः (३.१.१३४) । दहनः श्चित्रके भल्लातकेऽग्नौ दुष्टचेष्टिते) ।
दाक्षायणी दक्षस्यापत्यानि । ‘वा नामधेयस्य’ (वा० १.१.७३) इति वृद्धसंज्ञायाम् ‘उदीचां वृद्धादगोत्रात् (४.१.१५७) इति फिञ् । गौरादित्वात् (४.१.४१) डीष् । यत्तु—‘आसुरेरुपसंख्यानम्’ (वा० ४.१.१९) इत्यत्र केचिद् ‘आसुरिदाक्ष्योः’ इति - इति मुकुट आह । तन्न । भाष्ये दाक्षेरदर्शनात् । यदपि-गोत्रत्वमुपचर्य ‘गोत्रे कुञ्जादिभ्यश्चफञ्’ (४.१.९८) इति च्फञि ‘जातेरस्त्रीविषयादयोपधात् (४.१.६३) इति ङीष्-इत्याह । तदपि न । कुञ्जादिगणेऽस्य पाठाभावात् । उक्तरीत्योपचारं विना निर्वाहाच्च । यत्तु-‘अत इन्’ (४.१.९५) । अनन्तरापत्येऽपि द्वैपायनवत् ‘यञिञोश्च (४.१.१०१) इति फक्-इति स्वाम्याह । तदपि न । अनन्तरापत्ये फकोऽदर्शनात् । द्वीपमयनमस्य द्वीपायनः । द्वीपायनस्यापत्यं द्वैपायनः । ऋष्यण् (४.१.११४) इति द्वैपायनशब्दव्युत्पत्तेर्दृष्टान्तासम्भवाच्च । यदपि-‘इतो मनुष्यजातेः (४.१.६५) इत्यत्र इञः उपसंख्यानान्ङीष् । कौरव्यमाण्डूकाभ्यां च (४.१.१९) इति चकारादासुरायणीवत् फः इति । तदपि न । त्वदुक्तोपसंख्यानाप्रसिद्धेः । चकारस्यानुक्तसमुच्चयार्थत्वे मानाभावाच्च । यदपि दक्षमयते । ल्युः (३.१.१३४) । प्रज्ञायण् (५.४.३८) इत्याह मुकुटः । तदपि न । प्रज्ञप्राज्ञवद्रूपद्वयप्रसङ्गात् । अश्विन्याद्याः सप्तविंशतितारका दाक्षायण्य उच्यन्ते । (‘दाक्षायणी त्वपर्णायामश्विन्याद्युडुषु स्त्रियाम्’) ।
दाक्षाय्यः दाक्षेति । दक्षते । ‘दक्ष वृद्धौ शीघ्रार्थे च’ (भ्वा० आ० से०) । ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः’ (उ० ३.९६) । दक्षाय्यस्यायम् । अण् (४.३.१२०) ॥
दाडिमः दलनं दालः । ‘दल विशरणे’ (भ्वा० प० से०) । घञ् (३.३.१८) । दालेन निर्वृत्तः । ‘भावप्रत्ययान्तादिमप्’ (वा० ४.४.२०) । डलयोरेकत्वम् । ‘दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु’ इति मेदिनी ॥ दाडिम्बोऽपि । ‘दाडिम्बसारपिण्डीरस्वाद्वम्लशुकवल्लभाः’ इति रभसात् ॥
दाडिमपुष्पकः दाडिमस्य पुष्पमिव पुष्पमस्य ॥
दात्यूहः देति । ‘दाप् लवने’ (अ० प० अ०) । क्तिन् (३.३.९४) । दार्ति मारणमूहृते । ‘ऊह वितर्के’ (भ्वा० आ० से०) । अण् (३.२.१) । यद्वा दित्यौहोऽयम् । ‘तस्येदम्’ । (४.३.१२०) इत्यण् । ‘देविकाशिंशपा-’ (७.३.१) इत्यात्वम् । ‘वाह ऊठ्’ (६.४.१३२) । शकन्ध्वादिः (वा० ६.१९४) । ‘दात्यूहः कालकण्ठके । चातकेऽपि’ इति हैमः ॥
दात्रम् देति । दात्यनेन । ‘दापू लवने’ (अ० प० अ०) । ‘दाम्नी- (३.२.१८२) इति ष्ट्रन् ॥
दानम् दत्तम् । दाञः (जु० प० अ०) । भावे ल्युट् (३.३.११५) । ‘दानं गजमदे त्यागे पालन- च्छेदशुद्धिषु’ इति विश्वमेदिन्यौ ॥
दानम् स्वधनस्य परेभ्यः प्रतिपादनं दानम् ॥ उपायतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । उपायः सामभेदादौ तथैवोपगतौ पुमान्’ (इति मेदिनी) । उपायानां चतुष्टयम् । अन्यत्र सप्तोपाया उक्ताः । ‘साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः’ ॥
दानम् द्यत्यनेन । ‘दो अवखण्डने’ (दि० प० अ०) । ल्युट् (३.३.११७) । ‘दानं गजमदे त्यागे- पालनच्छेदशुद्धिषु’ (इति विश्वमेदिन्यौ) ॥
दानवाः दनोरपत्यानि ॥
दानवारयः दानवानामरयः ॥
दान्तः दाम्यति स्म । ‘दमु उपशमे’ (दि० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘यस्य विभाषा’ (७.२.१५) इति नेट् । ‘अनुनासिकस्य-’ (६.४.१५) इति दीर्घः ।– ‘वा दान्त-’७.२.२७) इति साधुः इति स्वामिनः प्रमादः । तस्य णिजन्तात्कर्मक्तान्तविषयत्वात् । ‘दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे त्रिषु’ (इति मेदिनी) ॥
दाम “नेति । द्यति । ‘दो अवखण्डनम्’ । दीयते वा, अनेन वा । ‘देङ् रक्षणे’ (भ्वा० आ० अ०) । मनिन् (उ० ४.१४५) ॥”
दामनी दामैव । प्रज्ञाद्यण् (५.४.३८) । ‘अन्’ (६.४.१६७) इति प्रकृतिभावः । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । ‘नित्यं संज्ञाच्छन्दसोः’ (४.१.२९) इति ङीष् वा । ‘बन्धनी’—इति पाठः इति कश्चित् ॥
दामोदरः दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिकरण्येऽपि समासः । ‘सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति लिङ्गात् । गमकत्वादिति मुकुटोक्तो हेतुस्त्वप्रयोजकः ॥
दारः दारयन्ति भ्रातॄन् । ‘दॄ विदारणे’ (क्र्या० प० से०) । णिजन्तः । ‘दारजारौ कर्तरि णिलुक् च’ (वा० ३.३.२०) इति घञ् । यद्यपि दारयतेः पचाद्यचा (३.१.१३४) सिद्धम् । स्वरश्च समः । ‘कर्षात्वतः-’ (६.१.१५९) इति घञ्ञ्यन्तोदात्तत्वात् । तथापि ‘अच्कावशक्तौ’ (६.२.१५७) इति स्वरबाधनार्थमिदम् । टाबन्तोऽपि । ‘क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । ‘क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः’ इति व्याडिशुभाङ्कौ ॥
दारदः दरदि देशे भवः । दारदो विषभेदे स्यात्पारदे हिङ्गुले पुमान्’
दारु दीर्यते । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘दॄसनिजनि-’ (उ० १.३) इति ञुण् । ‘पुंनपुंसकयोर्दारु’ इति त्रिकाण्डशेषः ॥
दारुः दीर्यते । ‘दॄ विदारणे’ (क्र्या० प० से ०) । ‘दृसनिजनि’ (उ० १.३) इति ञुण् । ‘पुंनपुंसकयोर्दारुः इति त्रिकाण्डशेषः । ‘दारु स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥
दारुणम् दारयति चित्तम् । ‘दॄ भये’ (भ्वा० प० से०) । ‘कॄविदारिभ्य उनन्’ (उ० ३.५३) । दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे इति विश्वमेदिन्यौ ।
दारुहरिद्रा दारुश्चासौ हरिद्रा च ॥
दारुहस्तकः हस्तप्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । दारुणो हस्तकः ॥ एतत्साहचर्यात्पूर्वः पुंसि ।
दार्वाघाटः दारु आहन्ति । ‘दारावाहनोऽणन्त्यस्य च टः-’ (वा० ३.२.४९) । वासार्थं दारु आघाटयति । ‘घट संघाते’ चुरादिः । अण् (३.२.१) । सुभूतिस्तु चिन्त्यः । घट्टिना विगृहीतत्वात् । ‘काष्ठकुट्टः शतच्छदः’ इति त्रिकाण्डशेषः ॥
दार्विका दार्वी दारुहरिद्रा । तद्विकारोऽपि दार्वी अभेदोपचारात् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
दार्वी दीर्यते । ‘दॄ विदारणे’ (क्रया० प० से०) । “दॄसनि-’ (उ० १.३) इति ञुण् । ‘वोतः-’ (४.१.४४) इति ‘-गौरादिभ्यः-’ (४.१.४१) इति वा ङीष् । ‘दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ’ (इति मेदिनी) ॥
दाविकः त्रिष्विति । दीव्यति । ‘दिवु क्रीडादौ’ (दि० प० से०) । ण्वुल् (३.१.१३३) । देविकायां नद्याम् सरति । ‘सर्तेरयुः’ (उ० ३.२२) अयुः इत्येके । सरय्वां च भवे । ‘तत्र भवः’ (४.३.५३) इत्यण् । देविकाशिंशपा-’ (७.३.१) इत्यचामादेरात्त्वम् । ‘दाण्डिनायन–’ (६.४.१७४) इति लोपः । स्त्रियां टिड्ढा-’ (४.१.१५) इति ङीप् ॥ (१) देविकासरयूद्धवयोः क्रमेणैकैकम् ।
दाशः “दशति मत्स्यान् । ‘दंश दशने’ (भ्वा० प० अ०) ‘दंशेश्च (उ० ५.११) इति टटनौ न आ च । यद्वा दाश्यते मूल्यमस्मै । ‘दाशृ दाने’ (भ्वा० उ० से०) । घञ् (३.३.१८) । ‘शालो झषे, धीवर एव दाशः इति शभेदात्तालव्यान्तः । ‘कैवर्तभृत्ययोर्दासो दासो बाणा च चेटिका’ इति रुद्राद्दन्त्यान्तः । ‘दासो भृत्ये च शूद्रे च ज्ञानेऽर्थिनि च धीवरे’”
दाशपुरम् दाशान् कैवर्तान् पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । मूलविभुजादित्वात् । (वा० ३.२.५) कः ॥ ‘दशपूरम्’ इति ‘दशपुरं’ इति च क्वचित् पाठः । दश पूरयति । ‘पुर पूर्तौ । ‘कर्मण्यण्’ (३.२.१) । यत्तु–दश पूरयति इति विगृह्य इगुपधत्वात् (३.१.१३५) ‘कः’-इत्याह मुकुटः । तन्न । ‘णिजन्तस्येगुपधत्वाभावात् । अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन’ (३.२.१) इति वार्तिकाद् अण् प्रसङ्गाच्च ॥ दश पुरोऽस्याः ‘ऋक्पूरब्धूर्-’ (५.४.७४) इति समासान्तः । ‘दशपूरं दशपुरं प्लवनं जीविताह्वयम्’ इति वाचस्पतिः ॥
दासः “- दंसयति दंस्यते वा । ‘दसि दीप्तौ’ (चु० प० से०) । ‘दंसेष्टटनौ न आ च’ (उ० ५.१०) । यद्वा दास्यते । ‘दासृ दाने’ (भ्वा० उ० से०) । घञ् (३.३.१८) । (दाश, इति) तालव्यान्तपक्षे ‘दंशेश्च’ (उ० ५.११) ॥”
दासी दस्यते । ‘दसु उपक्षये (दि० प० से०) । कर्मणि घञ् (३.३.१९) । गौरादिः (४.१.४१) । ‘दासी बाणाभुजिष्ययोः’ (इति मेदिनी) ॥
दासेयः
- दास्या अपत्यम् । ‘ढ्यचः’ (४.१.१२१) इति ढक् ॥
दासेरः
- ‘क्षुद्राभ्यो वा’ (४.१.१३१) इति ढ्रक् च ॥
दिग्धः वीति । दिह्यते स्म । ‘दिह उपचये’ (अ० उ० अ०) । क्तः (३.२.१०२) ॥
दितिसुताः दितेः सुताः ॥
दिधिषूः दधाति पापम् । ‘डुधाञ् धारणपोषणयोः’ (जु० उ० अ०) । धिष्यते । ‘धिष शब्दे’ (जु० प० से०) । ‘अन्दूदृम्भू-’ (उ० १.९३) इति साधुः । यद्वा दिधिं धैर्यं स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । प्राग्वत् ॥
दिधिषूः ‘द्वित्रिचतुर्भ्यः सुच्’ (५.४.१८) । ‘अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः’ (याज्ञवल्क्यः १.६७) ॥ तेति । तस्या दिधिष्वाः । दिधिषूमात्मन इच्छति । ‘सुप आत्मनः क्यच्’ (३.१.८) । क्विप् (३.२.१७८) । ‘पुनर्भूपतिरुक्तश्च पुनर्भूर्दिधिषूस्तथा’ इत्येषोऽप्यूदन्त इति स्वामी । मुकुटस्तु (दिधिषुम्) हृस्वमाह बाहुलकात् ॥
दिनम् “दीयते क्षीणं भवति । ‘दीङ् क्षये ’ (दि० आ० अ०) दिवादिः । ‘इणसिञ्जीदीङ् - (उ० ३.२) इति नक् । बाहुलकाद्द्मस्वः । द्यति तमो, निर्व्यापारस्थितिं चेति वा । द्यतेः किनन् (उ० २.४९) ।”
दिवसः दीव्यन्त्यत्र । दिवादिभ्यः कित्’ (उ० ३.१२१) इत्यसच् ।
दिवस्पतिः दिवः पतिः । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्यत्र बहुलग्रहणादकृत्यप्यलुग् इति मुकुटः । तन्न । ‘पातेर्डतिः’ (४.५७) इत्युणादिसूत्रसत्त्वात् । वस्तुतस्तु ‘षष्ठ्याः पतिपुत्र -’ (८.३.५३) इति सत्वविधानसामथ्र्याल्लोकवेदसाधारण्येन ‘वृद्धकुमारीवर न्यायेनालुक् ज्ञापितः । कस्कादित्वात् (८.४.४८) सः । यत्तु — ‘षष्ठ्याः पतिपुत्र-’ (८.३.५३) इति सत्वम् इति मुकुटेनोक्तम् । तन्न । तत्र छन्दोऽधिकारात् ॥
दिवा
- दीव्यन्त्यत्र । काप्रत्ययः ॥ अह्नि दिवसे । इतिना अधिकरणार्थप्रधानतां दर्शयति ।
दिवाकरः दिवा दिनं करोति । दिवाविभा–’ (३.२.३१) इति टः ।
दिवाकीर्तिः
- दिवा कीर्तिरस्य । ‘दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसायिनोः’ इति विश्वः (मेदिनी) ॥
दिवाकीर्तिः
- दिवा कीर्तिरस्य । दिवा अकीर्तिरस्य-इति मुकुटः ॥
दिविषदः “दिवि सीदन्ति वर्तन्ते । ‘षद्लृ विशरणगत्यवसादनेषु’ (भ्वा० प० अ०, तु० प० अ०) । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् । ‘हृद्द्युभ्यां च’ (६.३.९ वा०) इति ङेरलुक् । ‘सुषामादिषु च’ (८.३.९८) इति षत्वम् ॥* ‘तत्पुरुषे कृति बहुलम्’ (६.३.१४) इति ङेर्लुकि ‘द्युसदः’ अपि । ‘मनःसु येन द्युसदां न्यधीयत’ इति माघः ॥”
दिवौकसः दिवमोको येषां ते दिवौकसः । दिवशब्दोऽदन्तः । ‘मन्दरः सैरिभः शक्रभव(सद)नं खं दिवं नभः’ इति त्रिकाण्डशेषात् । द्यौरोको येषामिति विग्रहे ‘दिवोकसः अपि । ‘स्याद्दिवौका दिवोकाश्च देवे चापीह पक्षिणि’ इति रन्तिदेवः । ‘दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके’ । शब्दपरविप्रतिषेधात्परस्य यणादेशः । स्थानिवत्वेन पूर्वस्य न यण् । ‘सकृद्गतौ’ (१.४.२ प०) इति न्यायात् ॥
दिव् “दीव्यन्त्यस्यामिति । बाहुलकात् (३.३.१) दिवेः (दिवु क्रीडादिषु (दि० प० से०) दिविः । द्यौः, दिवौ, दिवः, द्युभ्याम् । (द्यौः स्वर्गनभसोः’) ॥ यत्तु- ‘दिवेड्योः ’ इति ड्यो प्रत्ययः-इत्याह मुकुटः । तन्न । उक्तसूत्रस्यादर्शनात् । स्वामी तु-द्योशब्दोऽप्योकारान्तोऽस्ति । भाष्ये (६.१.९३) ‘गोतो णित्’ (७.१.२०) इत्यत्र ‘ओतो णित्’ इति पाठान्तराम्नानात् इत्याह । तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठस्योपक्षीणत्वात् । यदपि-दिवेः क्विप् (३.२.७६) इत्युक्तम् । तदपि न । दिवौ दिव इत्यादौ ‘च्छ्वोः शूड्-’ (६.४.१९) इत्यूठः प्रसङ्गात् । सुभूतिस्तु-‘द्यु अभिगमने’ द्यूयते अभिगम्यते बाहुलकात्कर्मणि डोप्रत्ययः-इत्याह । ‘द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम्’ । यत्तु स्वामिना ‘दिवशब्दो वृत्तिविषयः’ इत्युक्तम् । तदेतेन परास्तम् । उक्तमेदिन्यां वृत्तिविषयत्वानभिधानात् । ‘मन्दरः सैरिभः शक्रभव (सद) नं खं दिवं नभः’ इति त्रिकाण्डशेषाच्च ॥”
दिशः “दिश इति । दिशत्यवकाशम् । ‘दिश अतिसर्जने’ (तु० उ० अ०) । क्विन् ‘ऋत्विग्दधृक्-’ (३.२.५९) इत्यादिना निपातनात् । यतु - मुकुटः कर्मण्येव क्विन्, कर्तरि तु क्विबेव- इत्याह । तन्निर्मूलम्, आकरविरुद्धं च ॥ भागरिमतेन टापि दिशा । दिक् तु स्त्रियां दिशा दान्ती ककुब् देववधूः पविः’ इति शब्दार्णवः ।”
दिश्यम् दिश्यमिति । दिशि भवं दिश्यम् । ‘दिगादिभ्यो यत्’ (४.३.५४)
दिष्टः दिशति । ‘दिश अतिसर्जने (तु० उ० अ०) । क्तिच्क्तौ संज्ञायाम्’ (३.३.१७४) इति क्तः । ‘दिष्टं दैवे पुमान्काले ।
दिष्टम् दिश्यते उपदिश्यते स्म । दिश अतिसर्जने (तु० उ० अ०) । क्तः (३.२.१०२) । ‘भाग्यैकदेशयोर्भागः’ इति रुद्रः । भाग एव । ‘भागरूपनामभ्यो धेयः’ (वा० ५.४.३५) । (भागधेयं मतं भाग्ये भागप्रत्यययोः पुमान्)
दिष्टान्तः दिष्टस्य दैवस्यान्तः ॥
दिष्ट्या
- देशनम् । सम्पदादिः (वा० ३.३.१०८) । दिशं स्त्यायति । स्त्यै शब्दादौ’ (भ्वा० प० अ०) । क्विप् (३.२.१७८) । षत्वम् (८.२.३६) । ष्टुत्वम् (८.४.४१) । संज्ञापूर्वकत्वाज्जश्त्वं न । यद्वा दिशति । अघ्न्यादिः (उ० ४.११२) ॥
दीक्षितः स इति । स व्रती सोमपानवति यागे आदेष्टा सन्॥दीक्षते स्म । ‘दीक्ष मौण्ड्येज्योपनयनादौ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । यद्वा दीक्षा जातास्य । तारका दीतच् (५.२.३६) ॥
दीदिविः दीव्यत्यनेन । ‘दिवु क्रीडायाम्’ (दि० प० से०) । ‘दिवो द्वे दीर्घश्चाभ्यासस्य’ (उ० ४.५५) इति क्विन् ।–‘हव्यादयश्च इति क्विन्–इति मुकुटस्त्वपाणिनीयः ।-‘सः’ इति विशेषणात्पुंसि-इति स्वामी । ‘दीदिविर्धिषणे पुंसि स्यादन्ने च तदस्त्रियाम्’ इति विश्वः ॥
दीधितिः दीधीते दीप्यते । दीधीङ् दीप्तिदेवनयोः’ (अ० आ० से०) । क्तिच् (३.३.१७४) । ‘तितुत्र-’ (७.२.९) इतीण्निषेधस्तु न । ‘अग्रहादीनाम्’ इति वार्तिकात् । यीवर्णयो- (७.४.५३) इतीकारलोपः । अयं स्त्रियामेव । दीधितिः स्त्रियाम्’ इति लिङ्गानुशासनात् । काकाक्षिगोलकन्यायेन ‘दीधितिः’ इत्यत्र स्त्रियामिति सम्बध्यते । उत्तरत्रापि ।
दीपः दीति । दीप्यते । अनेन वा । दीपयति वा । ‘दीपी दीप्तौ’ (दि० आ० से०) । इगुपधत्वात् (३.१.१३५) कः । घञ् (३.३.१९) वा । अच् (३.१.२३४) वा ॥
दीप्तिः दीप्यतेऽनया । दीपी दीप्तौ’ (दि० आ० से०) । क्तिन्नाबादिभ्यः’ (वा० ३.३.९४) ।
दीप्यः दीपनम् । घञ् (३.३.१८) । दीपे साधुः । तत्र साधुः’ (४.४.९८) इति यत् ॥ ‘दीपकः अपि । ‘अलंकारे यवान्यां च दीपको लोचमस्तके’ इति रभसः ॥
दीर्घकोशिका दीर्घः कोशो यस्याः । ‘जातेः- (४.१.६३) इति ङीष् । ‘संज्ञायां कन्’ (५.३.७५) । केऽणः’ (७.४.१३) इति ह्रस्वः । (मूर्धन्यषान्ता च) ‘तालव्या मूर्धन्याश्चैते शटी च परिवेशः । विश्वक्सेनो भ्रेशः प्रतिष्कशः कोशविशदौ च’ इत्यूष्मविवेकः ।
दीर्घदर्शिनी एवं दीर्घदर्शा ॥
दीर्घपृष्ठः दीर्घं पृष्ठमस्य ।
दीर्घवृन्तः दीर्घं वृन्तमस्य ॥
दीर्घिका दीर्घेव । संज्ञायां कन् (५.३.७५) ॥ द्वे वाप्याः ॥
दुःखम् दुष्टानि खान्यस्मिन् । यद्वा दुर्निन्दितं खनति । अन्येभ्योऽपि- (वा० ३.२.१०१) इति डः । यद्वा दुःखयति । ‘सुख दुःख तत्क्रियायाम्’ (उ० से०) चुरादिः । पचाद्यच् (३.१.१४) ।
दुःषमम्
- दुष्टं सममत्र ॥
दुःस्पर्शः दुःखेन स्पृश्यते । ‘स्पृश स्पर्शने’ (तु० प० अ०) । घञ् (३.३.१९) । खल् (३.३.१२६) वा । ‘दुःस्पर्शो धन्वयासे ना कण्टकार्यां स्त्रियां त्रिषु । खरस्पर्शे’ इति मेदिनी ॥
दुःस्पर्शा ‘दुस्पृश्यते । ‘ईषद्दुर्-’ (३.३.१२६) इत खल् ॥
दुकूलम् दुष्टं कूलति । ‘कूल आवरणे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.३५) इति कः । पृषोदरादिः (६.३.१०९) ॥
दुग्धम् द्विति । दुह्यते स्म । क्तः (३.२.१०२) । ‘दुग्धं क्षीरे पूरिते च’ इति हेमचन्द्रः ॥
दुग्धिका दुग्धमस्त्यस्याः । ठन् (५.२.११५) ॥
दुन्दुभिः ‘दुन्दु’ इति शब्देन भाति । बाहुलकात्किः । यद्वा द्यामुभति शब्देन । ‘उभ पूरणे’ (तु० प० से०) । पृषोदरादिः (६.३.१०९) । यत्त्वौणादिक ईः इति कौमुदी । तन्न । आतो लोपस्याप्रसङ्गात् । (‘दुन्दुभिस्तु भेर्यां दितिसुते विषे । अक्षबिन्दुत्रिकद्वन्द्वे’)
दुरध्वः दुष्टोऽध्वा ॥
दुरालभा दुःखेनालभ्यते । ‘डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) । ‘ईषदुःसुषु-’ (३.३.१२६) इति खल् । आगमशासनस्यानित्यत्वान्न नुम् ॥
दुरितम् इणो भावे क्तः (३.३.११४) । दुष्टमितं गमनमनेन ।
दुर्गतिः दुष्टा गतिः । ‘दुर्गतिः । नरके निःस्वतायां च’ इति हैमः ।
दुर्गन्धः दुर्गन्धे विकारो नेति विशेषः ।
दुर्गा दुःखेन गम्यते ज्ञायतेऽस्याम् । ‘सुदुरोरधिकरणे’ (वा० ३.२.४८) इति डः । दुःखेन दुष्टैर्वा गीयते स्तूयते । ‘गैशब्दे (भ्वा० प० अ०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् । ‘दुर्गं कोटे दुर्गमे स्यादुर्गा तु नीलिकोभयोः’ इति हेमचन्द्रः ।
दुर्दिनम् मेघच्छन्ने मेघान्धकारिते । अह्नीति रात्रेरप्युपलक्षणम् । रात्रावपि दुर्दिनम् । ‘दुर्दिनं जलदध्वान्तम्’ इति रत्नकोषः । दुर्निन्दितं दिनम् । ‘बादलं दुर्दिने मेघे’ इति ।
दुर्द्रुमः दुष्टो द्रुमः ॥
दुर्नामकम् दुरिति । दुष्टं नामास्य । पापरोगत्वात् । क्षुभ्नादिः (८.४.३९) ॥
दुर्नामा दुर्नामेति । दुर्निन्दितं नामास्याः । ‘अनो बहुव्रीहेः’ (४.१.१२) इति ङीप् न । (‘दुर्नाम क्लीबमर्शसि । स्याद्दीर्घकोषिकायां स्त्री’)* ॥ ‘डाबुभाभ्याम्-’ (४.१.१३) ॥ ‘अन उपधा-’ (४.१.२८) इति वा ङीप् । दुर्नाम्नी । क्षुभ्नादित्वात् (८.४.३९) न णत्वम् ॥
दुर्बलः दुष्टं बलमस्य ॥
दुर्वा दूर्वेति। दूर्वति । दूर्व्यते वा। ‘दूर्वी हिंसायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘उपधायां च’ (८.२.७८) इति दीर्घः ॥
दुर्हृद् दुष्टं हृदयमस्य । ‘सुहृद्दुर्हृदौ मित्त्रामित्रयोः’ (५.४.१५०) इति साधुः ॥
दुलिः “दोलति । ‘दुल उत्क्षेपे’ (चु० प० से०) । आधृषीयः । ‘इगुपधात् (उ० ४.१२०) इति इन् । दुलिः स्त्रियाम् । कमठ्यां, नामुनौ ।”
दुवर्णम् “द्विति । सुवर्णापेक्षया दुष्टो वर्णोऽस्य, अनेन वा । ‘दुर्वर्णं त्रिष्वसद्वर्णे क्लीबमैलेयरूप्ययोः’ (इति मेदिनी) ॥”
दुश्च्यवनः दुःखेन दुष्टं दुष्टेषु वा च्यवनमस्य । दुःसहश्च्यवनो मुनिरस्येति वा ॥
दुष्कृतम् दुष्टं कृतं करणमनेन । ‘इदुदुपधस्य-’ (८.३.४१) इति षः ।
दुष्ठु
- दुःस्थानम् । ‘अपदुःसुषु स्थः’ (उ० १.२५) । इति कुः । सुषामादित्वात् (८.३.९८) षः ॥
दुष्पत्रः दुष्टानि पत्राण्यस्य ॥
दुष्प्रधर्षणी दुःखेन प्रधृष्यते । ‘ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । कर्मणि ल्युट् (३.३.११३) ॥ आभीक्ष्ण्ये णिनौ (३.२.८१) तु ‘दुष्प्रधर्षिणी’ ॥
दुहिता दोग्धि । ‘दुह प्रपूरणे’ (अ० उ० अ०) । दहति । ‘दह भस्मीकरणे’ (भ्वा० ५० अ०) । ‘नप्तृनेष्ट-’ (उ० २.९५) इति साधु । खस्त्रादित्वात् (४.१.१०) न ङीप् (४.१.५) ।।
दूतः दवति । ‘दु गतौ’ (भ्वा० प० से०) । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३.९०) इति क्तः । यद्वा दूयते स्म । ‘दूङ् परितापे’ (दि० आ० से०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः
दूती दूतीति । दवति । ‘दु गतौ’ (भ्वा० प० अ०) । दुनोति ‘दु दु उपतापे’ (स्वा० प० अ०) वा । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३.९०) इति क्तः । गौरादिः (४.१.४१) यद्वा दूयते । ‘दूङ् उपतापे’ (दि० आ० से०) । क्तिच् (३.३.१७४) । दूयन्तेऽनया वा । बाहुलकात् क्तिन् । ‘कृत्-’ (ग० ४.१.४५) इति वा ङीष् । गौरादिः (४.१.४१) वा ॥
दूत्यम् द्विति । दूतस्य भावः कर्म वा । ‘दूतवणिग्भ्यां च’ इति यः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञि ‘दौत्यम्’ अपि । केचित्तु- ‘दूत्यं’ तद्भागकर्मणि’ -इति पाठं मन्यन्ते । तत्र ‘दूतस्य भागकर्मणी’ (४.४.१२०) इति यत् ॥
दूरदर्शिनी दूरान् दूराद्वा पश्यति । ‘शिर् प्रेक्षणे’ (भ्वा० प० अ०) । ग्रह्यादि णिनिः (३.१.१३४) सुपि-’ (३.२.७८) इति वा ॥
दूषिका द्विति । दूषयति । ‘दुष वैकृत्ये’ (दि० प० अ०) ण्यन्तः । दोषो ण’ (६.४.९०) इत्युत्वम् । ण्वुल् (३.१.१३३) । ‘अच इः’ (उ० ४.१३९) । ‘कृत्’ (ग० ४.१४५) इति ङीष् वा । स्वार्थे कन् (ज्ञापि० ५.४.५) अपि । पिच्चोण्डकं नेत्रमलं दूषी च दूषिकापि च’ इति वाचस्पतिः । ‘कषिदूषिभ्यामीकन्’ (उ० ४.१६) इति ‘दूषीका’ अपि ॥
दूष्यम् द्विति । दूष्यते । ‘दुष वैकृत्ये’ (दि० प० अ०) । ण्यन्तात् ‘अचो यत्’ (३.१.९७) । ‘दोषो णौ’ (६.४.९०) इत्युः । ‘दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे’ (इति मेदिनी) ॥ आद्येन कुटरपटकुटीपटवासादिग्रहः ।
दूष्या द्विति । दूष्यतेऽनया । ‘दूष वैकृत्ये’ (दि० प० अ०) । ण्यन्तः । ‘दोषो णौ’ (६.४.९०) इत्यूत् । ‘अचो यत्’ (३.१.९६) । ‘दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे’ (इति मेदिनी) । -चूष्यते पीयते पृष्ठमासेनादृश्यतां नीयते । ‘चूष पाने’ (भ्वा० प० से०) । कर्मणि ‘घञर्थे कः’ (वा० ३.३.५८) । (‘चूषा’) इति मुकुटः ॥
दृक् पश्यति । ‘दृशिर् प्रेक्षणे’ (भ्वा० प० अ०) । क्विप् (३.२.७८) । यद्वा दृश्यतेऽनया । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । ‘क्विन्प्रत्ययस्य’ (८.२.६२) इति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् ॥
दृढम् दृह दृहि वृद्धौ (भ्वा० प० से०) । ‘दृढः स्थूलबलयो’ (७.२.२०) इति निपातितम् । (‘दृढः स्थूले भृशे शक्ते)
दृषद् दृणाति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ‘दृणातेः पुग्घ्रस्वश्च (उ० १.१३१) इत्यदिः । ‘दृषत्पाषाणमात्रके । निष्पेषणार्थ पट्टेऽपि’ । (‘कषायः कूष्माण्डो महिष) वृषभव्योषदृषदः इत्यूष्मभेदान्मूर्धन्यमध्यः ।
दृष्टम् द्रिति । दृश्यते स्म । क्तः (३.२.१०२) ॥ स्वश्च परश्च स्वपरौ । तयोश्चक्रे सैन्ये । ताभ्यां जातम् । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः ।
दृष्टरजाः “दृष्टं रजो यस्याः, यया, वा ॥”
दृष्टिः क्तिन् (३.३.९४) । ‘दृष्टिर्ज्ञानेऽक्ष्णि दर्शने’ इति हैमः ॥
देवः दीव्यति । अच् (३.३.१३४) । ‘देवं हृषीके देवस्तु नृपतौ तोयदे सुरे’ इति हैमः ।
देवकीनन्दनः “देवक्या नन्दनः । देवकशब्दस्य तदपत्ये लक्षणया वृत्तौ ‘पुंयोगात्- (४.१.४८) इति डीष् । नहि तत्र दाम्पत्यलक्षण एव पुंयोगः, किं तु जन्यत्वाद्यपि’ इति हरदत्तादयः । अत एव ‘प्राक् केकयीतो भरतस्ततोऽभूत्’ इति भट्टिः । एवं रेवतीरमणोऽपि । अणि तु दैवकी । ‘दैवकी देवकी च’ इति द्विरूपकोषः । देवकानाचष्टे इति णिजन्तात् ॥ ‘अच इः’ (उ० ४.१३९)। ‘ततो डीष् (वा० ४.१.४५) इति, देवकस्यापत्यं वा । ‘अत इञ्’ (४.१.९५) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः इतो मनुष्यजातेः(४.१.६५) इति डीष् इति च मुकुटः ॥”
देवकुसुमम् देवानां कुसुमम् । कुसुमेषु देव इव । राजदन्तादिः (२.२.३१) । देवयोग्यं कुसुमं वा । शाकपार्थिवादिः (वा० २.१.७८) ॥
देवखातकम् देवेन खातम् ॥‘अखातो देवखातकः’ इति पुंस्काण्डेऽमरदत्तात् पुंस्यपि ॥ द्वे अकृत्रिमजलाशयस्य । देवद्वारस्थजलाशयस्येत्यन्ये ।
देवच्छन्दः देवेति । ‘हारः’ शतयष्टिकः सन् । देवैश्छन्द्यते । ‘छदि संवरणे’ । (चु० प० से०) । घञ् (३.३.१९) ॥ ‘यष्टिर्हारलताशस्त्रभेदयोः’ इति विश्वः । ‘यष्टिर्लता सरः सरिः’ इत्यनेकार्थमाधवी ।
देवजग्धकम् देवैरद्यते स्म । क्तः (३.२.१०२) । ‘अदो जग्धिय॑प्ति किति’ (२.४.३६)॥
देवताः “देवताः ॥ स्त्रियाम् । रूपभेदादेव स्त्रीत्वे सिद्धे बहुवचनान्तपुंलिङ्गशङ्कावारणार्थ ‘स्त्रियाम्’ इतिमुकुटः । तन्न । रूपभेदेनैव वारणाद्विसर्गं विना पुंलिङ्गकोटेरनुत्थानात् । अन्यथा ‘पद्मा गदा’ इत्यादौ तस्या अनिवारणात् । अतो ‘देवपर्यायाः पुंसि’ इति वक्ष्यति । तद्बाधनार्थमिदम् । ““तलन्तः”” इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन तल्-प्रत्ययान्तशब्दाः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यन्ते ।”
देवताडः ‘देवो मेघे सुरे राज्ञि स्यान्नपुंसकमिन्द्रिये’ इति मेदिनी ॥ देवमिन्द्रियं ताडयति । ‘तड आघाते’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘देवताडः सैंहिकेये जीमूते च हुताशने’ इति मेदिनी ॥
देवत्वम् ‘तस्य भावस्त्वतलौ’ (५.१.११९) ॥
देवदारु देवस्य दारु ॥
देवनः
- दीव्यन्ति येन । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि । अक्षेषु देवनः प्रोक्तः’ (इति विश्वः) ॥
देवभूयम् “दयिति। देवस्य भावः। देवभूयमादिर्यस्य। ‘देवत्वम्’, ‘देवसायुज्यम्’। तद्वत् ब्रह्मभूयादिवत् त्रिरूपी।”
देवमातृकः देवो मातास्य । ‘देवो मेघे सुरे राज्ञि’ । क्रमेण एकैकम् नद्यम्बुभिर्वृष्टयम्बुभिः सम्पन्नदेशस्य ।
देवरः देवते । ‘देवृ देवने’ (भ्वा० आ० से०) । ‘अर्तिकमिभ्रमि-’ (उ० ३.१३२) इत्यरः ॥ ‘देवृदेवरदेवानः’ इति शब्दार्णवः । द्वे ‘पत्युः कनिष्ठभ्रातुः’ इति स्वामी । ज्येष्ठस्तु श्वशुर एवेति सुभूत्यादयः ॥
देवलः
- देवान् जीविकार्थे लाति । कः (३.२.३) । देवं लक्षणया तत्स्वं लाति वा ॥
देववल्लभः देवानां वल्लभः ॥
देवसभा सह भान्त्यस्याम् । ‘सभा राजामनुष्यपूर्वा (२.४.२३) इति निपातनादङ् । देवानां सभा आस्थानगृहम् ॥
देवसायुज्यम् युनक्ति । ‘युजिर् योगे’ (स० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । युजेन सह । ‘तेन सह-’ (२.२.२८) इति बहुव्रीहिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य सः । यद्वा योजनम् । युक् । सम्पदादि क्विप् (वा० ३.३.१०८) सह युजा । सयुज्यस्य सयुजो वा भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ब्रह्मणः सायुज्यम्॥ | |
देवा स्वेति । पत्युर्भ्राता पत्न्याः । दीव्यति । ‘दिवेर्ॠ’ (उ० २.९९) ॥
देवाः दीव्यन्तीति देवाः । पचादिषु (३.१.१३४) पाठादच् । ‘देवः सुरे घने राज्ञि देवमाख्यातमिन्द्रिये । देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥
देवाजीवः “- देवेति । देवैराजीवितुं शीलमस्य । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । (देवाजीवः, इति) अदन्तपाठे देव आजीवोऽस्य ॥”
देवी देवीति । अच् (३.१.१३४) । टित्वात् ङीप् (४.१.१५) ॥ देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि’ इति हेमचन्द्रः ।
देवी दीव्यति । ‘देवी कृताभिषेकायां तेजनीपृक्कयोरपि’ (इति मेदिनी) ॥
देवी दीव्यति । पचादौ (ग० ३.१.१३४) ‘देवट्’ इति निपातनात् (४.१.४५) ङीप् । मुकुटोक्तं गौरादित्वं चिन्त्यम् । ‘देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि’ (इति मेदिनी) ॥
देशः देशेति । दिशति । ‘दिश अतिसर्जने’ (तु० उ० अ०) । पचाद्यच् (३.१.१३४) । दिश्यते वा । घञ् (३.३.१४)
देशरूपम् दिश्यते । ‘दिश अतिसर्जने’ (तु० उ० अ०) । घञ् (३.३.१९) । देशो रूपमस्य । दिश्यमानस्योचितस्य रूपम् । यद्वा देशनम् । घञ् (३.३.१८) । प्रशस्तं देशनं वा । ‘प्रशंसायां रूपप्’ (५.३.६६) ॥
देहः दिह्यते । ‘दिह उपचये’ (अ० उ० अ०) । घञ् (३.३.१९) ॥
देहली देहनम् । दिह उपचये’ (अ० उ० अ०) । भावे घञ् (३.३.१८) । देहं गोमयाद्युपलेपं लाति । ‘ला दाने’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) ॥
दैतेयः ङीषन्तात् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
दैत्यः दितेरपत्यानि । ‘दित्यदित्या-’ (४.१.८५) इति ण्यः । (‘दैत्योऽसुरे मुरायां तु दैत्या चण्डौषधावपि’) ॥
दैत्यगुरुः दैत्यानां गुरुः ।
दैत्या दितेरियम् । ‘दित्यदित्या-’ (४.१.८५) इति यः ॥
दैत्यारिः दैत्यानामरिः । (दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे’) ॥
दैर्घ्यम् दायिति । दीर्घस्य भावः । ‘गुण-’ (५.१.१२४) इति ष्यञ् ॥
दैवज्ञः दैवं प्राक्कृतं शुभाशुभं कर्म जानाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
दैवज्ञा दैवं शुभाशुभं जानाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘दैवज्ञो गणके पुमान् । दैवज्ञेक्षणिकायां स्त्री’ (इति मेदिनी) ॥
दैवतः नृणां वर्षेण । देवतानामयं दैवतोऽहोरात्रः । तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः ।
दैवतानि देवशब्दात्स्वार्थे तल् (५.४.२७) । ततः स्वार्थे प्रज्ञाद्यण् (५.४.३८) । विशेषविधेः पुंस्त्वम् । रूपभेदात्क्लीबत्वम् ॥
दैवम् देवादागतम् । ‘तत आगत’ (४.३.७४) इत्यण् ॥
दैवम् अङ्ग्विति । अङ्गुलीनामग्रे । देवानामिदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । देवो देवतास्य ‘सास्य देवता’ (४.१.२४) इत्यण् । ‘देवाद्य (वस्यय) ञञौ’ (वा० ४.१.८५) इत्यञ् वा ॥
दोला दोलयति । ‘दुल उत्क्षेपे’ (चु० प० से०) । पचाद्यच् । ‘दोला नील्यां यानान्तरेऽपि च’ (इति मेदिनी) ‘मेला’ इति स्वामी । ‘तुत्था श्रीफलिका मेला सारवाही च रञ्जनी’ इति निघण्टुः ॥
दोला दविति । दोलयति । दोल्यते वा । ‘दुल उत्क्षेपे’ चुरादिः । अच् (३.१.१३४) । घञ् (३.३.१९) वा ॥
दोषज्ञः दोषं जानाति । ‘आतोऽनुप-’(३.२.१) इति कः ॥
दोषा
- दुष्यन्त्यत्र । ‘दुष वैकृत्ये’ (दि० प० अ०) । आ प्रत्ययः । (‘दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ इति विश्वः ॥
दोस् “दाम्यत्यनेन । ‘दमु उपशमे’ (दि० प० से०) । ‘दमेडोस्’ (उ० २.६९) । भागुरिमते टाप् ॥ ‘दोर्दोषा च भुजा बाहुः, पाणिर्हस्तः करस्तस्था’ इति धनञ्जयः ।”
दोहदः अथेति । दोहमाकर्षं ददाति । आतोऽनुप-’(३.२.३) इति कः । अयमिच्छामात्रवाच्यपि विशेषेण गर्भिणीच्छायां प्रायुज्यते । ‘दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे इति हैमः ।
दोहदवती दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः । मतुप् (५.२.९४) ॥
द्युतिः ‘द्युत दीप्तौ’ (भ्वा० आ० से०) । द्योततेऽनया । – ‘इगुपधात्किः’ इति-मुकुटः । तन्न । ‘इगुपधात्कित्’ (उ० ४.१२०) इत्यनेन इन्विधानात्तस्य कित्वातिदेशात् । (‘द्युतिस्तु शोभादीधित्योः’) । ङीषि (ग० ४.१.४५) द्युती च द्यूयते वा । ‘द्यु अभिगमने’ क्तिन् । क्तिनि (३.३.९४) द्युत्तिः ।
द्युतिः ‘द्युत दीप्तौ’ (भ्वा० आ० से०) । द्योततेऽनया । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् ।
द्युमणिः दिवो मणिरिव ।
द्युम्नम् द्युम्नम् ।
द्यूतः
- द्द्विति । देवनम् । ‘दिवु क्रीडादौ’ (दि० प० से०) । भावे क्तः (३.३.११) ॥
द्यूतकारकः
- द्यूतं कारयन्ति । अण् (३.२.१) । स्वार्थे कन् (ज्ञा० ५.४.५) । ण्वुलि (३.१.१३३) तु द्यूतस्य कारकः ॥
द्यूतकृत्
- द्यूतं करोति । क्विप् (३.२.७६) ॥
द्योतः प्रकाश इति । प्रकाशद्योताविति । भावे (३.३.१८) । करणे (३.३.१९) वा घञन्तौ । (‘प्रकाशः स्फुटहासयोः उद्योतेऽतिप्रसिद्धे च’)
द्यौः द्योतन्तेऽस्यां द्यौः गोवत् । बाहुलकात् (३.३.१) । द्युतेः ‘द्युतदीप्तौ’ (भ्वा० आ० से०) डोः । द्यौति ‘द्यु अभिगमने’ (आ० प० अ०) । विच् (३.२.७५) वा । (द्यौस्तु स्वर्गविहा-यसोः’) ॥
द्यौः द्योतन्तेऽस्यां द्यौः गोवत् । बाहुलकात् (३.३.१) । द्युतेः ‘द्युतदीप्तौ’ (भ्वा० आ० से०) डोः । द्यौति ‘द्यु अभिगमने’ (आ० प० अ०) । विच् (३.२.७५) वा । (द्यौस्तु स्वर्गविहायसोः) ॥
द्यौः “दीव्यन्त्यस्यामिति । बाहुलकात् (३.३.१) दिवेः (दिवु क्रीडादिषु (दि० प० से०) दिविः । द्यौः, दिवौ, दिवः, द्युभ्याम् । (द्यौः स्वर्गनभसोः’) ॥ यत्तु- ‘दिवेड्योः ’ इति ड्यो प्रत्ययः-इत्याह मुकुटः । तन्न । उक्तसूत्रस्यादर्शनात् । स्वामी तु-द्योशब्दोऽप्योकारान्तोऽस्ति । भाष्ये (६.१.९३) ‘गोतो णित्’ (७.१.२०) इत्यत्र ‘ओतो णित्’ इति पाठान्तराम्नानात् इत्याह । तदपि न । स्मृत उर्येन स स्मृतौरित्यत्र वृद्धिविधानेन पाठस्योपक्षीणत्वात् । यदपि-दिवेः क्विप् (३.२.७६) इत्युक्तम् । तदपि न । दिवौ दिव इत्यादौ ‘च्छ्वोः शूड्-’ (६.४.१९) इत्यूठः प्रसङ्गात् । सुभूतिस्तु-‘द्यु अभिगमने’ द्यूयते अभिगम्यते बाहुलकात्कर्मणि डोप्रत्ययः-इत्याह । ‘द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम्’ । यत्तु स्वामिना ‘दिवशब्दो वृत्तिविषयः’ इत्युक्तम् । तदेतेन परास्तम् । उक्तमेदिन्यां वृत्तिविषयत्वानभिधानात् । ‘मन्दरः सैरिभः शक्रभव (सद) नं खं दिवं नभः’ इति त्रिकाण्डशेषाच्च ॥”
द्रप्सम् द्रेति । तृप्यन्त्यनेन । ‘तृप प्रीणने’ (दि० प० अ०) । ‘अघ्न्यादयश्च’ (उ० ४.११२) इति ‘त्रप्स्यम्’ इति निपातः इति मुकुटः । ‘द्रप्सम्’ इति स्वामी पठति । दृप्यन्त्यनेन । ‘दृप हर्षादौ’ (दि० प० अ०) ‘अनुदात्तस्य च’ (६.१.५९) इत्यम् । बाहुलकात् सः ।-द्रप्सं द्राक् प्सानीयम्-इति सर्वानिन्दः । ‘द्रप्सं दध्यघनं तथा’ इति नाममाला ॥ घनात् कठिनादन्यत् ॥ केचित्तु ‘द्रप्स’ स्थाने सरं पठन्ति । सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । ‘वाणद्रप्सौ सरौ’ इति दुर्गात् ।–उपरि प्लवमानम् इति व्याचक्षते ॥
द्रवः द्रवेति । द्रवणम् । ‘दु गतौ’ (भ्वा० प० अ०) । ‘ऋदोरप्’ (३.३.५७) । ‘द्रवो विद्रवनर्मणोः । प्राद्रवे रसगत्योश्च’ इति हैमः ।
द्रवः ‘द्रवः प्रद्रावनर्मणोः । विद्रवे रसगत्योश्च’ (इति हैमः) ॥
द्रवन्ती द्रवति । ‘द्रु गतौ’ (भ्वा० प० से०) । लटः शतृ (३.२.१२४) ॥
द्रविणम् द्रेति । द्रवत्यनेन । ‘द्रु गतौ’ (भ्वा० प० अ०) । ‘द्रुदक्षिभ्यामिनन्’ (उ० २.५०) । ‘द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यात्’ इति हेमचन्द्रः ॥
द्रविणम् द्रविणम् ।
द्रव्यम् द्रव्यम् ।
द्राक्
- द्राति । ‘द्रा कुत्सायां गतौ (अ० प० अ०) । ‘बाहुलकात् कः’ ॥
द्राक्षा द्राङ्क्ष्यते । ‘द्राक्षि काङ्क्षायाम्’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । आगमशासनमनित्यम् ॥
द्राविडकः द्रविडे देशे जातः । ‘तत्र जातः’ (४.३.२५) इत्यण् । स्वार्थे कन् (५.३.७५) ॥
द्रुः द्रवत्यूर्ध्वम् । ‘द्रु गतौ’ (भ्वा० प० अ०) । मितद्रवादित्वात् (वा ३.२.१८) डुः ।
द्रुकिलिमम् किलति । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । बाहुलकात् किमच् । द्रुश्वासौ किलिमं च ॥
द्रुघणः “द्र्विति । द्रर्वृक्षो हन्यतेऽनेन । ‘करणेऽयोविद्रुषु’ (३.३.८२) इत्यप्, घनादेशश्च । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । ‘द्रुघणो मुद्रेद्गरेपि स्याद्द्रुहिणे च परश्वधे’ इति विश्वमेदिन्यौ ॥ केचित्तु-क्षुभ्नादित्वात् (८.४.३९) न (णत्वम्) ‘द्रुधनः’-इत्याहुः ॥”
द्रुणः द्रुणति । “द्रुण हिंसागतिकौटिल्येषु (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘दुणं चापेऽलिनि द्रुणः’ (इति मेदिनी) ॥ अचि (३.१.१३४) । द्रोणः इत्येके - इति स्वामी ॥
द्रुत द्रुत
द्रुतम् द्रवति स्म । द्रु गतौ’ (भ्वा० प० अ०) । ‘गत्यर्था (३.४.७२) इति कर्तरि क्तः । (अथ द्रुतं त्रिषु । शीघ्रे विलीने विद्राणे’) । यत्तु—भावे क्तः-इति मुकुटेनोक्तम् । तन्न । त्वरितमित्यादावपि तथात्वप्रसङ्गात् । वैषम्ये बीजाभावात् । एतेन ‘लङ्घ्यते’ इति कर्मव्युत्पत्तिरपि परास्ता ।।
द्रुतम् द्रवन्ति शीघ्रं गच्छन्त्यत्र । ‘द्रु गतौ’ (भ्वा० प० अ०) । उभयत्रापि ’क्तोऽधिकरणे च’ (३.४.१७६) । इति क्तः । यत्तु–भावे क्तः (३.३.११४) इति मुकुटः । तन्न । अन्यपदार्थस्य नृत्यस्यालाभप्रसङ्गात् । ‘द्रुतं त्रिषु । शीघ्रे विलीने विद्राणे’ ।
द्रुमः समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते’इति न्यायात् द्रुः शाखाऽस्यास्ति । ‘द्युद्रुभ्यां मः’(५.२.१८) । ‘द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे’इति हैमः ।
द्रुमामयः द्रुमाणामामयः ॥
द्रुमोत्पलः अथेति । द्रुमे उत्पलं तदाकारं पुष्पमस्य । –‘सप्तमी (२.१.४०) इति योगविभागात् समासः - इति मुकुटोक्तिश्चिन्त्या । बहुव्रीहिविग्रहस्य प्रदर्शनात् ॥
द्रुवयम् द्रव्यम् ।
द्रुहिणः द्रुह्यति दुष्टेभ्यः । ‘बृह जिघांसायाम्’ (दि० प० से०) । दुहक्षिभ्यामिनन्’ (उ० २.५०) इतीनन् इति मुकुटः तन्न । ‘द्रुदक्षिभ्याम्’ इति तत्र पाठात् । ‘द्रविणं दक्षिणा इत्युदाहरणात् । अतः ‘बहुलमन्यत्रापि’ (उ० २.४९) इतीनच् । बाहुलकाद्गुणाभावः ‘द्रुघणः’ अपि । ब्रह्मात्मभूः स्याद्द्रुहिणो द्रुघणश्च पितामहः इति भागुरेः। ’करणेऽयोविद्रुषु’ (३.३.८२) इति हन्तेः करणेऽप् घनादेशश्च । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेनेत्यर्थः (‘द्रुघणो मुद्गरेऽपि स्याद्द्रुहिणे च परश्वघे’) ॥
द्रोणः द्रोणः ।
द्रोणकाकः “द्रोणेति । द्रुणति । ‘द्रुण हिंसागतिकौटिल्येषु’ (तु० प० से०) । अच् (३.१.१३४) । द्रोणाख्यः काकः । ‘द्रोणो ना दग्धकाके स्यादश्वत्थाम्नो गुरावपि’ इति रुद्रः । द्रोणोऽस्त्रियामाढके स्यादाढकानां चतुष्टये । पुमान् कृपीपतौ कृष्णकाके, स्त्री नीवृदन्तरे । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते’ इति मेदिनी ॥”
द्रोणक्षीरा द्रविति । द्रोणपरिमितं क्षीरमस्याः ॥
द्रोणदुघा द्रोणं दोग्धि । ‘दुहः कप घश्च’ (३.२.७०) इति कप् घश्चान्तादेशः ॥
द्रोणी द्रोणीति । द्रवति । ‘द्रु गतौ’ (भ्वा० प० अ०) । ’वहिश्रि’ (उ० ४.५१) इति निः । कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । द्रोणिः काष्ठाम्बुसेचनी द्रुणिश्च’ इति रूपरत्नाकरात् द्रुणिरपि । ‘द्रुण हिंसागत्योः (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) । (ङीषि द्रुणी । ‘द्रुण्यम्बुद्रोणिकच्छप्योः’ इति मेदिनी) । ‘द्रोणी काष्ठाम्बुवाहिन्यां मवादन्या मपीष्यते’
द्रोणी द्रवति। “द्रु गतौ’ (भ्वा० १० अ०) । ‘वहिश्रि-’ (उ० ४.५१) इति निः ॥ ‘तूणी’ इति स्वामी । ‘तूण पूरणे’ (चु० आ० से०) । तूण्यतेऽनया । ‘हलश्च’ (३.३.१२१) इति घञ् । गौरादिः (४.१.४१) । ‘तूणी नील्यां निषङ्गे ना’ (इति मेदिनी) ॥
द्रोहचिन्तनम् द्रोहस्य चिन्तनम् । ‘ल्युट् च’ (३.३.११५) । बाहुलकाल्ल्युट् - इति मुकुटः । तन्न । स्त्रीत्वविशिष्टे भावे अङः (३.३.१०५) विहितत्वेन नपुंसकत्वविशिष्टे भावे ल्युटो निरपवादत्वात् ।
द्रौणिकः द्रोणेति । द्रोणस्य वापः । ‘तस्य वापः’ (५.१.४५) इति ठञ् ॥
द्वन्द्वम् द्वौ द्वौ । ‘द्वन्द्वं रहस्य-’ (८.१.१५) इति साधुः । ‘द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयोः’ (इति मेदिनी) ॥ मुकुटस्तु द्वन्द्वस्योत्तरान्वयित्वमेव स्वीकुर्वन्नुक्तमेदिनीविरोधादुपेक्ष्यः ।
द्वयातिगः द्वयमतिगच्छन्ति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ॥
द्वाःस्थः द्वारि तिष्ठति । ‘सुपि-’ (३.३.४) इति कः ॥
द्वादशाङ्गुलः द्वादश अङ्गुलयः प्रमाणमस्य । ‘तद्धितार्थोत्तर-’ (२.१.५१) इति द्विगुः । ‘द्विगोर्नित्यम्’ । (वा० ५.२.३७) इति मात्रचो लुक् । ‘तत्पुरुषस्याङ्गुलेः’ (५.४.८६) इत्यच् ॥
द्वादशात्म द्वादश आत्मानो मूर्तयो यस्य ।
द्वापरः द्वौ परौ प्रकारौ यस्य । ‘सर्वनामसंख्ययोः -’(वा० २.२.३५) इति द्विशब्दस्य पूर्वनिपातः । पृषोदरादित्वात् (६.३.१०९) आत्वम् । (द्वापरं संशये युगे) ।
द्वारपालः द्वारं पालयति । ‘कर्मण्यण्’ (३.२.१) ॥
द्वारम् पचाद्यचि (३.१.१३४) द्वारम् । ‘द्वारं निर्गमेऽभ्युपाये’ इति हैमः ॥
द्वार् स्त्रीति । द्वारयति । ‘द्वृ वरणे’ णिजन्तः । विच् (३.२.७५) । यद्वा द्वार्यते । सम्पदादिः (३.३.१०८) ॥
द्वास्थितः “द्वारि तिष्ठति स्म । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘द्वाःस्थितः, दर्शकः’ इति व्यस्तं नाम । (‘द्वाःस्थितो वेत्रधारकः इति त्रिकाण्डशेषः) । ‘स्याद्दर्शको दर्शयिता प्रतीहारोऽपि दर्शकः’ इति रुद्रः । (द्वाःस्थितस्य दर्शकः इति) समस्तं नाम (इत्यन्ये) । ‘द्वारपो द्वाःस्थितादर्शी’ इति रभसः ॥”
द्विगुणाकृतम् द्विगुणाकृतम्
द्विजः द्विर्जायते । ‘अन्येष्वपि’ (३.२.१०१) इति डः । ‘द्विजः स्याद्ब्राह्मणक्षत्त्रवैश्यदन्ताण्डजेषु ना । द्विजा भार्ग्यां हरेणौ च’ (इति मेदिनी) ॥
द्विजराजः द्विजानां राजा । ‘राजा-’(५.४.९१) इति टच् । द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि’ इति विश्वः ॥
द्विजा अथेति । द्विर्जाता । ‘जनी’ (दि० आ० से०) । ‘अन्येष्वपि’ (३.२.१०१) इति डः । द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे । द्विजा भागीरेणुकयोः’ इति हेमचन्द्रः ॥
द्विजातिः द्वीति । द्वे जातौ जन्मनी यस्य । मातुरग्रेऽधि (वि)जननं द्वितीयं मौञ्जिबन्धनात् (मनुः २.१६९) ‘द्विजातिर्विप्राण्ड जयोश्च पुंलिङ्गः’ (इति मेदिनी) ॥
द्वितीया द्वयोः पूरणी । ‘द्वेस्तीयः’ (५.२.५४) । ‘द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः’ इति हेमचन्द्रः ॥
द्विपः द्वाभ्यां पिबति । प्राग्वत्कः ॥
द्विपाद्यः द्वीति । द्वौ पादौ परिमाणमस्य । ‘पणपाद-’ (५.१.३४) इति यत् । ‘पद्यत्यतदर्थे’ (६.३.५३) इति (न) पद्भावः। प्राण्यङ्गस्यैव पादस्य तत्र ग्रहणात् ॥
द्विरदः द्वौ रदावस्य ॥
द्विरेफः द्वौ रेफौ नाम्नि यस्य ॥
द्विवर्षा द्वे वर्षे वयःप्रमाणमस्याः । आयष्ठक् । तस्य ‘अध्यर्ध-’ (५.१.२८) इति लुक् ॥
द्विषत् द्वेष्टि । ‘द्विष अप्रीतौ’ (अ० उ० अ०) । द्विषोऽमित्रे’ (३.२.१३१) इति शतृ ॥
द्विष् द्वेष्टि । क्विप् (३.२.६१) ॥
द्विहायनी द्वीति । द्वौ हायनौ यस्याः । ‘दामहायना-’ (४.१.२७) इति ङीष् ॥
द्वीपम् द्वीप इति । द्विर्गता अन्तर्गता वा आपोऽत्र । ‘ऋक्पूर (५.४.७४) इत्यः समासान्तः ‘द्वन्तरुपसर्गेभ्योऽप ईत् (६.३.९७) काकाक्षिवत् ‘अस्त्रियाम् इत्युभाभ्यां सम्बध्यते ॥ (१) ॥ (२)
द्वीपवती द्वीपमस्त्यस्याम् । मतुप् (५.२.९४) ॥
द्वीपी द्वौ वर्णौ ईयते । ‘ईङ् गतौ’ (दि० आ० अ०) । बाहुलकात् पो गुणाभावश्च । द्वीपाकाररेखावत्त्वाद् द्वीपं चर्मास्त्यस्य। ‘अत-’ (५.२.११५) इतीनिः ॥
द्वेषणः द्वेषशीलः । ‘क्रुधमण्डार्थेभ्यश्च’ (३.२.१५१) इति युच् ॥
द्वैधम् द्विपकारम् । ‘संख्याया विधार्थे धा’ (५.३.४२) । ‘द्वित्र्योश्च धमुञ्’ (५.३.४५) ॥
द्वैपः उभाविति । द्वीपिनो व्याघ्रस्य च विकारः । ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) । द्वैपेन वैयाघ्रेण च चर्मणा परिवृतो रथः । ‘द्वैपवैयाघ्रादञ्’ (४.२.१२) ॥
द्वैमातुरः द्वयोर्मात्रोरपत्यम् । मातुरुत्संख्यासम्भद्रपूर्वायाः (४.१.११५) इत्यणि उत्वं रपरत्वं च । दुर्गाचामुण्डाभ्यां पालितत्वात् । गजमुखतया हस्तिन्या अपत्यत्वात् । गङ्गाया अपत्यत्वाद्वा । द्वैमातुरो जरासंधवारणाननयोः पुमान् ।
द्व्यष्टम् द्वे हेमरूप्ये अश्नुते स्म । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः ॥
धत्तूरः धयति धातून् । ‘धेट् पाने’ (भ्वा० प० अ०) । बाहुलकादूरच् । पृषोदरादिः (६.२.१०९) । धत्तूरस्तु स्मृतो धूर्तो देविता कितवः शठः’ इति स्वामी ॥ धूसयति । ‘धूस कान्तिकरणे’ (चु० प० से०) । क्विप् (३.२.१७८) । तूर्यते । ‘तूरी त्वरणहिंसयोः’ (दि० आ० से०) । इगुपधत्वात् कः (३.१.१३५) । धूश्चासौ तूरश्च । ‘धुस्तुरस्तु पुण्डरीको धूस्तूरः कनकाह्वयः’ इति शब्दार्णवः । इति मुकुटः ॥
धनञ्जयः धनं जयति । ‘संज्ञायां भृतॄ-’ (३.२.४६) इति खच् (‘धनंजयः सर्पभेदे ककुभे देहमारुते । पार्थेऽग्नौ) ।
धनदः धनं दयते । ‘देङ् पालने’ (भ्वा० आ० अ०) ।‘आत (३.२.४) इति कः ।
धनम् धनम् ।
धनहरी धनं हरति । ‘हरतेरनुद्यमनेऽच्’ (३.२.९) । गौरादिः (४.१.४१) । ‘दुष्कुलीना धनहरी विरोकः क्रोधमूर्छितः’ इति वाचस्पतिः ॥
धनाधिपः धनानामधिपः ।
धनिष्ठा एवमतिशयेन धनवती ।
धनुर्धरः धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । अच् (३.१.१३४) धनुषो धरः ॥
धनुर्मध्यम्म् धनुषो मध्यम् ॥
धनुष्पटः “दधन्ति धारयति । ‘धन धान्ये’ (जु० प० से०) । ‘भृमृशी-’ (उ० १.७) इत्युः । ‘धनुः पियालद्रुमः’ इति रूपरत्नाकरः। ‘धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने’ इति नान्तेषु मेदिनी ॥ उसिः (उ० २.११७) वा । ‘धनुः पियाले ना, न स्त्री राशिभेदे शरासने” इति सान्तेषु च मेदिनी ॥ पटति । ‘पट गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम्’ इति रभसः ॥ ‘धनुष इव पटो विस्तारोऽस्य, समस्तं नाम’ इति स्वामी ॥”
धनुष्मान् धनुरस्यास्ति । मतुप् (५.२.९४) । ‘तसौ मत्वर्थे (१.४.१९) इति भत्वम् ॥
धनुस् अथेति । धनति । ‘धन शब्दे’ (भ्वा०) । ‘अर्तिपॄवपि-’ (उ० ४.११७) इत्युसिः । ‘धनुः पियाले ना न स्त्री राशिभेदे शरासने । धनुर्धरे त्रिषु’ (इति सान्तेषु मेदिनी) । ‘भृम्रशी-’ (उ० १.७) इत्युप्रत्यये उदन्तोऽपि । (‘धनुः पुमान् पियालद्रौ राशिभेदे शरासने’ इति नान्तेषु मेदिनी । (‘कृषिचमितनिघनि-’ (उ० १.८०) इत्युप्रत्ययान्तः) स्त्रियामपि । (स्थावरं तु धनुर्गुणी) । ‘शरावापो घनूः’ स्त्री स्यात् (तृणता त्रिणतापि च)इति त्रिकाण्डशेषात् ॥
धन्वन्म् धन्वति । ‘धवि गतौ’ (भ्वा० प० से०) । ‘कनिन् युवृषि-’ (उ० १.१५६) इति कनिन् । ‘धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च’ (इति मेदिनी) ॥
धन्वयासः धन्वनो यासः । मारुभवत्वात् ॥
धन्वा धन्व्यतेऽस्मात् । धविर्गत्यर्थः सौत्रः इति मुकुटः । तन्न । धातुपाठे (भ्वा० प० से०) दर्शनात् । ‘कनिन् युवृषि–’ (उ० १.१५६) इति कनिन् । ‘धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च ।
धन्वी ‘धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च’ (इति मेदिनी । धन्वास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः ॥
धमनः धमति । ‘धम ध्वाने’ सौत्रः । धम्यते वा । ‘बहुलम् (उ० २.७८) इति युच् । यत्तु - ‘ध्मो धमश्च’ इति नप्रत्ययो धमादेशश्च – इत्याह मुकुटः । तन्न । उज्ज्वलदत्तादिष्वेतत्सूत्रस्यादर्शनात् । क्वुन् प्रकरणे दर्शनात् । सौत्रधातुना गतार्थत्वाच्च । ‘धमनो नले । क्रूरे भस्त्राध्यापके च धमनी कंधरा शिरा । हरिद्रा च’ इति हैमः ॥
धमनिः धमति । ध्वाने धमिः सौत्रः । ‘अर्तिसृधृ-’ (उ० २.१०२) इत्यनिः । ङीष् (ग० ४.१.४५) । ‘धमनी तु शिराहट्टविलासिन्योश्च योषिति’ (इति मेदिनी) ॥
धमनी धमेति । धम्यते । ‘धमिः सौत्रः’ । ‘अर्तिसृधृ-’ (उ० २.१०२) इत्यनिः । ङीष् ग० (४.१.४५) वा । ‘धमनो नाऽनले भस्त्राध्मापकक्रूरयोस्त्रिषु । धमनी तु शिराहट्टविलासिन्योश्च योषिति’ (इति मेदिनी) ॥
धम्मिल्लः अथेति । धमति । ‘धम ध्वाने’ सौत्रः । विच् (३.२.७५) । मिलति । ‘मिल सङ्गमे’ (तु० प० से०) । बाहुलकाल्लक् । धम् चासौ मिल्लश्च । ‘मो नो धातोः’ (८.२.६४) इति सौत्रेषु न भवति ॥
धरः धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३५) । ‘धरः कूर्माधिपे गिरौ । कार्पासतूलेऽथ धरा मेदोभूमिजरायुषु’ इति हैमः ।
धरणी अर्तिसृधृ- (उ० २.१०२) इत्यनिः । ‘कृदिकारात् (ग० ४.१.४५) इति ङीष् । गौरादित्वाङीष् (४.१.४१)-इति मुकुटस्य प्रमादः । (‘धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे) । धरणं धारणे मानविशेषे धरणी भुवि’ इति हैमः ॥
धरा धरति विश्वम् । धृञ् धारणे’ (भ्वा० उ० अ०) । यद्वा ध्रियते । ‘शृङ् अवस्थाने’ (तु० आ० अ०) । पचाद्यच् (३.१.१३४) । धराः सन्त्यस्यां वा । ‘धरः कूर्माधिपे गिरौ । कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु’ इति हैमः ।
धरित्री अशित्रादिभ्य इत्रोत्रौ’ (उ० ४.१७३) । गौरादिङीष् (४.१.४१) ।
धर्मः धरति विश्वम् । ‘धृञ् धारणे’ (भ्वा० उ० से०) । ‘अर्तिस्तुसु- (उ० १.१४०) इत्यादिना मन् । ‘धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ । अहिंसापनिषत्र्याये ना धनुर्यमसोमपे’
धर्मः “धर्म इति । तेन वेदेन विधीयते यज्ञादिः । एतेन वेदविहितत्वं धर्मत्वम्, वेदश्च धर्मे प्रमाणम्-इत्युक्तम् । धरति लोकान्। ध्रियते वा जनैरिति धर्मः । ‘अर्तिस्तुसु-’ (उ० १.१४०) इत्यादिना धृञो मन् ।”
धर्मचिन्ता धर्मस्य चिन्ता ॥
धर्मध्वजिन् धेति । धर्मस्य ध्वजश्चिह्नम् । धर्मो ध्वज इव वा । धर्मध्वजोऽस्यास्ति । इनिः (५.२.११५) ॥
धर्मपत्तनम् धर्मपत्तने जातम् । ‘तत्र जातः’ (४.३.२५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः ॥
धर्मराजः धर्मेण राजते । पचाद्यच् (३.१.१३४) । धर्मस्य राजेति वा । ‘राजाहःसखिभ्यष्टच्’ (४.४.९१) । (‘धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्’) ॥
धर्मराजः धर्मस्य राजा । ‘राजाहः-’ (५.४.९१) इणि टच् ।।
धर्मसंहिता धर्मबोधार्थं रचिता संहिता । सम्पूर्वाद्दधातेः कर्मणि क्ते ‘दधातेर्हिः’ (७.४.४२) ॥
धवः “धेति । धवति, धूयते, वा । ‘धूञ् कम्पने’ (चु० उ० से०) । ‘आधृषाद्वा’ (चु० गण०) इति वा णिच् । अच् (३.१.१३४) । घञ् (३.३.१९) वा । संज्ञापूर्वकत्वान्न वृद्धिः । ‘ॠदोरप्’ (३.३.५७) वा । ‘घवः पुमान्नरे धूर्ते पत्यौ क्षान्तरेऽपि च’ (इति मेदिनी) ॥”
धवलः धावति मनोऽत्र । ‘धावु गतिशुद्ध्योः (भ्वा० उ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । बाहुलकाद्ध्रस्वः । यद्वा धवनं धवः धूञ् कम्पने’ (क्र्या० उ० से०) । ॠदोरप्-’ (३.३.५७) । धवं लाति । ‘ला दाने’ (अ० प० अ०) । आतोऽनुप (३.२.३) इति कः । अथ धवलो महोक्षे सुन्दरे सिते । धवली गौः’ इति हैमः ।
धवला “धवलयोगात् । अनुदात्तत्वाभावान्न ङीष् । मुकुटस्तु–‘धवली’–इत्याह । तत्र गौरादिङीष् (४.१.४१) ॥ आदिना ‘कृष्णा-कपिला पाटला’ इत्यादयः । प्रमाणभेदात् दीर्घा ह्रस्वा खर्वा वामनी, इत्यादयः । अङ्गभेदात् पिङ्गाक्षी लम्बकर्णी वक्रशृङ्गी, इत्यादयः ‘धवलादिसंज्ञानाम्’ ॥”
धवित्रम् धेति । धूयतेऽनेन । ‘धूञ् (क्र्या० उ० से०) । ‘धू विधूनने’ (तु० प० से०) वा । ‘अर्तिलूधूसू-’ (३.२.१८४) इतीत्रः । धुवतेः कुटादित्वेन (१.२.१) ङित्वाद्गुणाभावादुवङिधुवित्रम्’ इत्येके ॥
धातकी धातुं करोति । ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्तात् ण्वुल् (३.१.१३३) । गौरादिः (४.१.४१) ॥
धाता दधाति । ’डुधाञ् धारणपोषणयोः’ (जु० उ० अ०) । तृच् (३.१.१३३) (‘धाता वेधसि पालके’) ॥
धातुः धातुरिति । दधाति शोभाम् । ‘सितनि-’ (उ० १.६९) इति तुन् ॥
धातृपुष्पिका धातृ पुष्पमस्याः । शैषिकः कप् (५.४.१५४) ॥
धाना धेति । दधति । ‘डुधाञ्’ (जु० उ० से०) । ‘धापॄवस्यज्यतिभ्यो नः’ (उ० ३.६) । बहुवचननिर्देशाद्भूम्नि । ‘घाना | भृष्टयवेऽङ्कूरे धान्याके चूर्णसक्तुषु’ इति हैमः ॥
धानुष्कः धनुः प्रहरणमस्य । ‘तदस्य प्रहरणम्’ (४.४.५७) इति ठक् । ‘इसुसुक्तान्तात्कः’ (७.३.५१) ॥
धान्यत्वक् धेति । धान्यस्य त्वक् ॥
धान्यम् धेति । धाने पोषणे साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । ‘धान्यं तु व्रीहौ धान्याके’ इति हैमः ॥
धान्याकम् धान्याकम् ।
धान्याम्लम् धान्याभिषुतमम्लम् । पूर्ववत् ॥
धामार्गवः धाम ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति विच् । धामार् चासौ गौश्च । ‘गोरतद्धितलुकि’ (४.४.९२) इति टच् । ‘धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके’ (इति मेदिनी) ॥
धामार्गवः धाम्नोऽर्गः । धामार्गं वाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके’ (इति मेदिनी) ॥ ‘अधामार्गवः’ । अधामार्गवोऽपामार्गः कोशातकी च इतिद्ब्यर्थे इति स्वामी ॥
धाय्या धीयते पुष्यतेऽग्निरनया । पाय्यसांनाय्यनिकाय्यधाय्या-’ (३.१.१२९) इति साधुः ॥ (अग्नेः समिन्धने समुद्दीपने या ऋक् तत्र) ॥
धारणा धारयति धर्मम् । नन्द्यादि ल्युः (३.१.१३४) । युच् (उ० २.७८) वा । (‘धारणाऽङ्गे च योगेऽस्य न पुंसि स्याद्विधारणे’ (इति मेदिनी) ॥
धारा “अमूरश्वानां पञ्च गतयः । धार्यन्तेऽश्वा अत्र, अनया वा ‘धृञ् धारणे’ ण्यन्तः । (भ्वा० उ० अ०) । भिदाद्यङ् (३.३.१०४) । (‘धारा सैन्याग्रिमस्कन्धे तुरङ्गगतिपञ्चके’ इति मेदिनी) ॥”
धाराधरः धाराणां जलस्य च धरः । धाराधरोऽसिमेघयोः ।
धारासंपातः धारेति । धाराणां संपातः सम्भूय पतनम् । पतेर्भावे घञ् (३.३.१८)
धार्तराष्ट्रः धार्तेति । कृष्णैश्चञ्चुचरणैरुपलक्षिताः । धृतराष्ट्रे भवाः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः’ इति रभसः । (‘धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्त्रियान्तरे । धृतराष्ट्री हंसपद्याम्’ इति हैमः) ॥
धावनिः धावति । ‘धावु गतिशुद्ध्योः ’ (भ्वा० उ० से०) । बाहुलकादनिः ॥
धिषणः प्रशस्ता धिषणास्य । अर्शआद्यच् (५.२.१२७) । यद्वा धृष्णोति । ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) ‘धृषेर्धिष च- (उ० २८२) इति क्युः । (धिषणस्त्रिदशाचार्ये धिषणा तु धियां मता’) ।।
धिषणा धृष्णुवन्त्यनया । ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । धृषेर्धिष् च संज्ञायाम्’ (उ० २.८२) इति युच् ।
धीः ध्यायत्यनया । ध्यानं वा । ‘ध्यायतेः संप्रसारणं च’ (वा० ३.२.१७८) इति क्विप् । ‘हलः’ (६.४.२) इति दीर्घः (‘धीर्ज्ञाने ज्ञानभेदेऽपि’)
धीन्द्रियम् धीसाधनमिन्द्रियं धीन्द्रियम् ।
धीमती धीरस्त्यस्याः । मतुप् (५.२.९४) ॥
धीमत् धीरस्यास्ति । मतुप् (५.२.११५) ।धीमान् पण्डिते च बृहस्पतौ’ (इति मेदिनी) ॥
धीरः धियं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । धियमीरयति । ‘ईर गतौ’ (अ० आ० से०) । अण् (३.२.१) वा । ‘धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम् ॥
धीरम् दधाति । धीयते वा । ‘डुधाञ् धारणादौ’ (जु० उ० से०) । ‘सुसूधागृधिभ्यः क्रन् ’ (उ० २.२४) । ‘घुमास्था-’ (६.४.६६) इतीत्वम् । ‘धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे ॥
धीवरः दधाति मत्स्यान् । छित्वरछत्वर–’ (उ० ३.१) इति निपातितः । (३) त्रीणि धीवरस्य ।
धीसचिवः धिया धियां वा सचिवः सहायः । धीप्रधानः सचिवो वा ॥
धुनी धुनोति वेतसादीन् । क्विप् (३.२.१७८) । पृषोदरादित्वात् (६.३.१०९) नुक् । नान्तत्वान्ङीष् (४.१.५) ॥
धुरन्धरः धुरं धारयति । ‘संज्ञायां भृतॄवृजि-’ (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । ‘वाचंयमपुरंदरौ च’ (६.३.६९) इति चकारस्यानुक्तसमुच्चयार्थत्वादक् । ‘अरुर्द्विष-’ (६.३.६७) इति मुम् ॥
धुरीणः ‘खः सर्वधुरात्’ (४.४.७८) इति योगविभागात् खः ॥
धुर्यः ‘धुरो यड्ढकौ’ (४.४.७७) ॥
धूः ध्विति । धूर्वति । ‘धूर्वी हिंसायाम् (भ्वा० प० से०) । ‘भ्राजभास-’ (३.२.१७७) इति क्विप् । ‘राल्लोपः’ (६.४.२१) । ‘र्वोः-’ (८.२.७६) इति दीर्घः । ‘धूर्यानमुखभारयोः’ इति हैमः) ॥
धूमयोनिः धूमो योनिरस्य । यद्यपि शब्दार्णवे ‘मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः । यज्ञजास्तु घना घोराः पुष्करावर्तकादयः’ इति विशेषपरत्वमुक्तम् । तथाप्यन्यत्रापि वृत्तिर्न विरुद्धा ।
धूमलः “धूमं लाति । ‘रा, ला, आदाने’ (अ० प० अ०) । कः (३.२.३) ॥”
धूम्याटः धूम्या धूमसमूह इवाटति । अच् (३.१.१३४) ॥
धूम्रः धूम्रेति । धूमं राति । कः (३.२.३) । पृषोदरादिः (६.३.१०९) ॥
धूर्जटिः धूर्मारभूता जटिर्यस्य । ‘जटझट संघाते’ (भ्वा० प० से०) । ‘सर्वधातुभ्यः (४.११८ उणा०) इतीन् । ‘जटिर्जटा’ इति द्विरूपकोशः । धूर्गङ्गा जटास्वस्य इति स्वामी । तन्न । जटिष्वस्यति वक्तुमुचितत्वात् ।
धूर्तः
- ध्विति । धूर्वति । ‘धुर्वी हिंसायाम्’ (भ्वा० प० से०) । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । ‘राल्लोपः’ (६.४.२१) । ‘धूर्तं तु खण्डलवणे धत्तुरे ना विटे त्रिषु’ (इति मेदिनी) । ‘धार्तः’ इति पाठे धावनम् । ‘धावु गतौ’ (भ्वा० उ० से०) । सम्पदादिः (वा० ३.३.१०८) । बाहुलकाद्वलोपः । धा धावनेनार्तिः धार्तिरस्यास्ति । ज्योत्स्नाद्यण् (वा० ५.२. १०३) । यद्वा धा धावनेनार्तः ॥
धूर्तः धूर्व्यते स्म । ‘धुर्वी हिंसायाम्’ (भ्वा० प० से०) । कर्मणि क्तः (३.२.१०२) । धूर्वति – इति तु प्राञ्चः । तत्र कर्तरि क्तो दुर्लभः । ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३.२.१८८) इति चकाराद्वा बोध्यः । यद्वा धूर्वणं धूर्तम् । भावे क्तः (३.३.११३) । तदस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘धूर्तं तु खण्डलवने धूस्तूरे ना विटे त्रिषु’ (इति मेदिनी) ॥
धूर्वहः ध्विति । वहतीति वहः । अच् (३.१.१३४) । धुरो वहः ॥
धूलिः “धुवति । धूयते, वा । ‘धू विधूनने’ (तु० प० से०) । बाहुलकाल्लिः । धवनम् । ‘धूञ् कम्पने’ (या० उ० से०) सम्पदादिः (वा० ३.३.१०८) धुवा लीयते ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) ॥”
धूसरः “धूनोति चेतः । ‘धू विधूनने’ (स्वा० आ० से०) । ‘कृधूमदिभ्यः क्सरः’ (उ० ३.७३) । बाहुलकादषत्वम् । यद्वा धूसनम् । धूस कान्तौ’ (चु० प० से०) चुरादिः । ‘एरच्’ (३.३.४६) । धूसं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप- (३.२.३) इति कः । ‘धूसरी किंनरीभेदे, ना खरेत्रिषु पाण्डुरे । ‘धूसरस्तु सितः पीतलेशवान्बकुलच्छविः’ इति शब्दार्णवः ।”
धृष्णिः “धृष्णोति । ‘ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । वृषिधृषिभ्यां कित्’ इति निः किच्च-इति मुकुटः । तन्न । तादृशसूत्राभावात् । अतो बाहुलकान्निः, गुणाभावश्च ॥ वृष्णिः इति पाठान्तरम् । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘सुवृषिभ्यां कित्’ (उ० ४.४९) इति निः पिच्च ॥ पृश्निः इत्येके पेटुः । ‘स्पृश संस्पर्शने’ (तु० प० अ०) । अस्य सलोपो गुणाभावश्च ‘घृणिपृश्नि-’ (उ० ४.५२) इति निपातितः । पर्शति । ‘पृशु सेचने’ (भ्वा० प० से०) वा ।”
धेनुः धयिति । धीयते । ‘धेट् पाने’ (भ्वा० प० से०) । ‘धेट इच्च’ (उ० ३.३४) इति नुः ।-‘धेन्वादयश्च-’ इति मुकुटस्त्वपाणिनीयः । ‘धेनुर्गोमात्रके दोग्ध्र्याम्’ इति हैमः ॥
धेनुका धेनुरिव । ‘इवे प्रति-’ (५.३.९६) इति कन् । ‘स्याद्धेनुका करिण्यां च धेनावपि पुंसि दानवविशेषे’ (इति मेदिनी) ॥
धेनुष्या धयिति । ‘संज्ञायां धेनुष्या’ (४.४.८९) इति साधुः ॥
धैनुकम् धेनूनां समूहः । ‘अचित्तहस्ति (४.२.४७) इति ठक् ॥
धैवतः धीमतामयं धैवतः । पृषोदरादिः (६.३.१०९) । ‘संज्ञायाम्’ (८.२.११) इति वा वत्वम् ॥
धोरणम् धोरति । अनेन वा । धोरयति वा । ‘धोर्ऋ गतिचातुर्ये’ (भ्वा० प० से०) । ल्युः (३.१.१३४) । ल्युट् (३.३.११३) वा ॥
धौतकौशेयम् धाव्यते स्म । ‘धावु गतिशुद्ध्योः’ (भ्वा० उ० से०) । क्तः (३.२.१०२) धौतं च तत्कौशेयं च ॥
धौरितकम् धोरणम् । धोर्ऋ गतिचातुर्ये’ (भ्वा० प० से०) । भावे क्तः (३.३.११४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘अथ धौरितकं घौर्यं धा (धो) रणं धौरितं च तत्’ इति वाचस्पतिः । वृद्धिमत्पाठे प्रज्ञाद्यण् (५.४.३८) बोध्यः । (‘तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् । बभ्रुकङ्कशिखिक्रोडगतिवत्’ इति हैमनाममाला) ॥
धौरेयः ‘धुरो यड्ढकौ’ (४.४.७७) ॥
ध्यामम् ध्यायन्ते पशुभिः । ‘ध्यै चिन्तायाम्’ (भ्वा० प० अ०) । बाहुलकान्मक् । (‘ध्यामं दमनके गन्धतृणे श्यामेऽभिधेयवत्’ इति विश्वः) ॥
ध्रुवः ध्रुवति स्थिरो भवति । ’ध्रु गतिस्थैर्ययोः’ (तु० प० अ०) । अच् (३.१.१३४) । कुटादित्वात् (१.२.१) ङित्वम् । यत्तु मुकुटेन- (उकारान्तधातुमुपन्यस्य) इगुपधत्वात् (३.१.१३५) कः-इत्युक्तम् । तद्रभसात् । वकारान्तधातौ वा तद्वोध्यम् । ‘ध्रुवः शङ्के हरे विष्णौ वटे चोत्तानपादजे । वसुयोगभिदोः पुंसि ध्रुवं खेऽजस्रतर्कयोः । स्त्री मूर्वाड्योः शालपर्ण्यां गीतिस्रुग्भेदयोस्त्रिषु । स्थिरे नित्ये निश्चिते च ध्रुवं क्लीबं प्रकीर्तितम् ।
ध्रुवः ध्रुवति । ‘ध्रुव गतिस्थैर्ययोः’(तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । ध्रुवो वटे । वसुयोगभिदोः शम्भौ । शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः । ध्रुवा मूर्वाशालिपर्ण्योः स्रुग्मेदे गोतभिद्यपि’ इति हैमः ।
ध्रुवा ध्रुवति । ‘ध्रुव स्थैर्ये’ (तु० प० अ०) । ‘ध्रुवो वटे वसुयोगभिदोः शम्भौ शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः । धुवा मूर्वा शालपर्ण्योः स्रुग्भेदे गीतभिद्यपि’ (इति हैमः) ॥
ध्रुवा ध्रुवेति । ध्रुवति । ‘ध्रुव स्थैर्ये (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । यद्वा ‘ध्रु स्थैर्ये (तु० प० अ०) । अच् (३.१.१३४) कुटादित्वात् (१.२.१) डित्वम् । उवड् (६.४.७७) । ‘ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तानपादजे । वसुयोगा भिदोः पुंसि क्लीबं निश्चिततर्कयोः । स्त्री मूर्वाद्योः शालपर्ण्यां गीतिसुरभेदयोस्त्रिषु । संतते शाश्वते च’ (इति मेदिनी) ॥
ध्वजः ध्वजति ‘ध्वज गतौ’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । पचाद्यच् (३.१.१३४) ‘ध्वजः पूर्वदिशो गृहे । शिश्ने चिह्ने पताकायां खट्वाङ्गे शौण्डिकेऽपि च’ इति हैमः॥
ध्वजिनी ध्वेति । ध्वजाः सन्त्यस्याम् । इनिः (४.२.११५) ॥
ध्वनिः ‘ध्वन शब्दे’ (भ्वा० प० से०) । ‘खनिकषि’ (उ० ४.१४०) इति इः ॥
ध्वाङ्क्षः “ध्वाङ्क्षति । ‘ध्वाक्षि घोरवाशिते च’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘ध्वाङ्क्षः काके वकेऽर्थिनि । गृहे, ध्वाल्ली तु काकोल्याम्’ (इति हैमः) ॥”
ध्वानः घञि ध्वानः (३.३.१८) ॥
ध्वान्तम् ध्वन्यते । ‘ध्वन शब्दे’ (भ्वा० प० वे०) । क्षुब्धस्वान्त-’ (७.२.१८) इति निपातितम् ।
न
- डश्च ॥
नकुलेष्टा नकुलानामिष्टा ॥
नक्तकः सेति । नजते । ‘ओ नजी व्रीडे’ (तु० अ० से०) । बाहुलकात्तन् । स्वार्थे कन् (ज्ञापि० ५.४.५) । नक्तं कं सुखमस्माद्वा । पृषोदरादित्वात् (६.३.१०९) मलोपः । क्वचित् ‘लक्तकः’ इति पाठः । लक्यते स्म । ‘लक आस्वादने’ () । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
नक्तमालः नक्तं मालो धारणमस्य। नक्तमा अलति वा । ‘अल भूषणादौ ’ (भ्वा० प० से०)। पचाद्यच् (३.१.१३४) ॥ ‘रक्तमालः’ इति स्वामी ॥
नक्तम्
- नज्जति । ‘ओ नस्जी व्रीडे’ (तु० प० से०) । तमु प्रत्ययः ॥ रजनौ रात्रौ इत्यर्थे ।
नक्रः नक्र इति । दूरस्थलम् । ‘क्रमु पादविक्षेपे (भ्वा० प० से०) । ‘अन्यत्रापि-’ (वा० ३.२.४८) इति डः । ‘नभ्राड्- (६.३.७५) इति नलोपो न । ‘नक्रं नासाग्रदारुणोः । नक्रो यादसि’ इति हैमः ।
नक्षत्त्रम् न क्षदते हिनस्ति । ‘क्षद’ इति सौत्रो धातुर्हिंसार्थ आत्मनेपदी । ष्ट्रन् (उ० ४.१५९) । नभ्राण्नपाद् (६.३.७५) इति नञः प्रकृतिभावः । यत्तु क्षदतीति विग्रहप्रदर्शनं मुकुटेन कृतम् । तच्चिन्त्यम् । यद्वा ‘णक्ष गतौ’ (भ्वा० प० से०) । नक्षति । ‘अभिनक्षिकलिभ्योऽत्रन् (उ० ३.१०५) न क्षणोति वा । ‘क्षणु हिंसायाम् (त० उ० से०) । ष्ट्रन् (उ० ४.१५९) । बाहुलकाण्णलोपः । न क्षत्रं वा । देवत्वात्क्षत्रभिन्नत्वात् ।
नक्षत्रमाला एकालल्येव सप्तविंशतिमुक्ताभिः कृता । नक्षत्राणां मालेव ॥
नक्षत्रेशः नक्षत्राणामीशः।
नखः न खमस्य । ‘न भ्राट्-’ (६.३.७५) इति साधुः । ‘नखी स्त्रीपुंसयोः शुक्तौ नखरे पुंनपुंसकम्’ (इति मेदिनी) ॥
नखम् न खनति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः’ इति हैमः ॥ (‘नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम्” इति मेदिनी)॥
नखरः “न खनति, खन्यते वा । ‘डडरेकवकाः’ (वा० ३.३.१२५) । नखं राति वा । ‘नखरं त्रिषु’ इत्यमरमाला ॥”
नगरी नगाः सन्त्यत्र । नगपांसुपाण्डुभ्यो रः’ (वा० ५.२.१०७) ॥
नगौकाः “नगो वृक्षः, नगे वा ओको यस्य । ‘नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि’ (इति मेदिनी) जलौकावद् ‘आदन्तः’ अपि–इति मुकुटः ॥”
नग्नह्वः “- ह्वानम्, हूयते वा । ‘हेञ्’ (भ्वा० उ० अ०) । सम्पदादिक्विप् (वा० ३.३.१०८) । नग्नस्य हूः ॥”
नग्निका “स्त्रीति । नजते स्म । ‘ओ नजी व्रीडे’ (तु० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । स्वार्थे कन् (५.३.७५) । ‘नग्नो बन्दिक्षपणयोः पुंसि, त्रिषु विवाससि’ (इति मेदिनी) ॥”
नग्निका नजते स्म । ‘ओणजी व्रीडे’ (तु० अ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । स्वार्थे कन् (५.३.७५) । ‘नाग्निका तु कुमार्यां स्यात् पुमान् क्षपणवन्दिनोः’ (इति मेदिनी) ॥
नटः नटति । ‘णट नृत्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) ॥
नटनम् ‘नट अवस्कन्दने’ (भ्वा० प० से०) ल्युट् (३.३.११५)
नटाः
- नटति । ‘नट नृत्तौ (भ्वा० प० से०) । अच् (३.१.१३४) ॥ ‘रङ्गावतारी शैलूषो नटो भरतभारतौ’ इति वाचस्पतिः ॥
नटी नटति । ‘नट स्पन्दने’ (चु० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) ॥
नडः नड इति । नडति । ‘नड गहने । अच् (३.१.१३४) ॥
नड्या नेति । नडानां संहतिः। ‘पाशादिभ्यो यः’ (४.२.४९) ॥
नड्वलः नडाः सन्त्यस्मिन् । ‘नडशादाड् ड्वलच्’ (४.२.८८)
नड्वान् नडेति । नडाः प्राया यत्र । ‘कुमुदनडवेतसेभ्यो ड्मतुप्’ (४.२.८७) । ‘क्षयः’ (८.२.१०) इति मादुपधायाः (८.२.९) इति वा वत्वम् ।
नदी “अथेति । नदति । ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । पचादिषु (३.१.१३४) । नदट्’ इति टित्त्वनिपातनात् टिड्ढा”” (४.१.१५) इति ङीष् । (‘नदी सरिति, शोणादौ ना’) ।”
नदीमातृकः देश इति । नद्यम्बुभिर्वृष्ट्यम्बुभिश्च सम्पन्नैर्धान्यैः पालितः । नदी मातास्य । ‘नद्यृतश्च’ (५.४.१५३) इति कप् ।
नदीसर्जः नेति । नद्याः सर्जः ॥
नध्री
- नेति । नह्यतेऽनया । ‘णह बन्धने’ (दि० उ० अ०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् ॥
ननान्दा ननेति । न नन्दति - न तुष्यति । ‘न नन्दयति भ्रातृजायाम्’ इति वा । ‘नञि च नन्देः’ (उ० २.९८) इति ऋन् । केचित् पूर्वसूत्रात् (२.९७) वृद्धिग्रहणमनुवर्तयन्ति । ‘ननन्दा तु स्वसा पत्युर्ननान्दा नन्दिनी च सा’ इति रभसः । -‘नञि च नन्देर्दीर्घश्च—इति मुकुटः । तन्न । उज्ज्वलदतादावभावात् ॥
ननुच
- “ननु” “च” निपातद्वयस्य समाहारद्वन्द्वः ॥
नन्दकः नन्दयति देवान् । ण्वुल् (३.११३३) । ‘नन्दको हरिखड्गे च हर्षके कुलपालके’ |
नन्दनः “नन्दयति । टुनदि समृद्धौ (भ्वा० प० से०) ल्युः (३.१.१३४) अथ नन्दनम् । इन्द्रोद्याने, नन्दनस्तु तनये हर्षकारिणि’ इति हैमः।”
नन्दिवृक्षः नन्दनम् । ‘टुनदि संमृद्धौ’ (भ्वा० प० से०) । इन् (उ० ४.११८) । ङीष् (ग० ४.१.४५) वा । नन्द्या वृक्षः ॥
नन्द्यावर्तः नन्दयतीति नन्दी आवर्तोऽत्र । (‘नन्द्यावर्तः पुमान्वेश्मप्रभेदे भगवद्द्रुमे’) ॥
नपलक्ष्मन्म् रेति । तत् छत्रम् । नृपस्य लक्ष्म ॥
नपुंसकः ‘न स्त्री न पुमान्’ इत्यस्य नपुंसकभावो ‘नभ्राट्-’ (६.३.७५) इत्यत्र निपातनात् । ‘स नपुंसको भवेत्’ इति भाष्यात्पुंस्यप्ययम्’ ॥
नप्त्री “नप्त्रीति । न पतन्ति पितरोऽनेन । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । ‘ऋन्नेभ्यो ङीप्’ (४.१.५) । ‘नप्ता, नप्त्री च पौत्रिका’ इति रभसः ॥”
नभः नह्यते मेघैः । ‘णह बन्धने’ (दि० उ० अ०)। ‘नहेर्दिवि भश्च (उ० ४.२११) इत्यसुन् भश्चान्तादेशः । न बभस्तीति वा क्विप् । (३.२.१७८) नभते । ‘णभ हिंसायाम्’ (भ्वा० आ० से०) असुन् (उ० ४.१८९) । सान्तम् । नभः क्लीबं व्योम्नि पुमान् घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे’ । ‘नभोव्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे’ । घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः इति विश्वः । ‘अत्यविचमितमि (उ०३.११७) इत्यसच् प्रत्यये तु नभसमदन्तमपि । नभसः पुंसि इत्युणादिवृत्तौ । (नभसस्तु नदीपतौ । गगने प्रावृषि’)
नभः “विरहिणो नभ्यति, नभ्नाति, नभते, वा नभाः । ‘णभ हिंसायाम्’ (भ्वा० प० से०, दि० प० से०, क्र्या० आ० से०) । असुन् (उ० ४.१८९) । स्वामी तु - न भासते मेघच्छत्रत्वात् - इत्याह । तन्न । नभासौ नभासः, नभाभ्याम्, नभाभिः, नभाःसु, इत्यादिरूपप्रसङ्गात् । ‘नभः खं श्रावणो नभाः’ इत्यनुपपत्तेश्च । ह्रस्वदीर्घोपधयोः शब्दभेदात् । भासते इत्यर्थकथनमात्रम् इत्यभिप्रेत्य ‘भस दीप्तौ’ (जु० प० से०) इति जुहोत्यादे ‘न बभस्ति’ इति व्युत्पत्त्याश्रयणे तु ‘अत्वसन्तस्य-’ (६.४.१४) इति दीर्घो न स्यात् । धनुर्धरे त्रिषु नभाः क्लीबं व्योम्नि पुमाङ्गने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे’ ॥”
नभसङ्गमः ‘नभसं खं मेघवर्त्म विहायसम्’ इति निगमाददन्तम् । नभसं गच्छति । ‘गमश्च’ (३.२.४७) इति खच् ॥
नभस्यः नभा अभ्रम् । तत्र साधुर्नभस्यः ।
नभस्वान् “नभोऽस्याश्रयत्वेनास्ति । मतुप् (५.२.९४) । ‘तसौ मत्वर्थे (१,४.१९) इति भत्वाद्रुत्वाभावः ।”
नमः
- नमनम् । ‘णम् प्रह्वत्वे’ (भ्वा० प० अ०) । असुन् (उ० ४.१८९) ॥
नमस्कारी नमेति । नमस्करणशीला । ‘सुपि’ (३.२.७८) इति णिनिः ॥
नमस्या नमस्करणम् । ‘नमोवरिवस्-’ (३.१.१९) इति क्यच् । ‘अ प्रत्ययात्’ (३.३.१२०२) इत्यकारः॥
नमुचिसूदनः “न मुञ्चति । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । ‘इगुपधात्कित्-’(४.१२०) इतीन् । नभ्राण्नपाद्-’ (६.३ ७५) इति नञ् प्रकृत्या । नमुचेर्दैत्यस्य सूदनः । ‘षूद क्षरणे । (भ्वा० आ० स०, चु० उ० से०) । नन्द्यादित्वात् (३.१ १३४) । ल्युः ॥”
नयनम् नीयतेऽनेन । ‘णीञ् प्रापणे’ (भ्वा० उ० से०) । ल्युट् (३.३.११७) ॥
नरः नयति । ‘नयतेर्डिच्च’ (उ० २.१००) इत्यृन् ॥
नरकः प्रज्ञाद्यणि (५.४.३८) नारकः ।
नरवाहनः नरो वाहनमस्य । क्षुभ्नादित्वात् (८.४.३९) न णत्वम् ।।
नराः “नरति । नृणाति वा । ‘नॄ नये’ (भ्वा०, क्र्या० प० से०) । अच् (३.१.१३४) ‘नरोऽजे मनुजेऽर्जुने । क्लीबं तु रामकर्पूरे’ (इति मेदिनी)—नयन्ति पूर्वपुरुषानुत्तमां गतिम् । ‘नयतेर्डिच्च’ (उ० २.१००) इति ऋन्, डित्त्वाट्टिलोपः इति मुकुटः । तन्न । एवं सत्यदन्तरूपानुपपत्तेः । ऋदन्तरूपापत्तेश्च । ऋदन्तस्य वक्ष्यमाणत्वाच्च ॥”
नर्तकी नर्तकीति । नृत्यति । ‘नृती गात्रविक्षेपे (दि० प० से०) । ‘शिल्पिनि ष्वुन् (३.१.१४५) । षित्वात् ४.१.४१) डीप् । नर्तकः केवले पोटगलचारणयोर्नटे । नर्तकी लासिकायां च करेण्वामपि योषिति’ ।
नर्तनम् भावे क्ते (३३११४) ‘नृत्तम् अपि । ल्युटि (३.३.११५) नर्तनम् । (६) ‘नृत्यं स्यात्सततेऽपि च’ । ‘शाश्वते त्रिषु’ ।
नर्म नरणम् । नॄ नये’ (भ्वा० प० से०) । मनिन् (३.२.७५) ।
नर्मदा नर्म ददाति द्यति वा । ‘डुदाञ् दाने’ (जु० उ० अ०) । ‘दो अवखण्डने’ (दि० प० से०) वा । ‘आतोऽनुप-’ (३.२.३) इति कः ॥ ‘नर्मदः केलिसचिवे नर्मदा सरिदन्तरे’ इति विश्वमेदिन्यौ ।
नलकूवरः पुत्रस्त्विति । नलः कूवरो युगंधरो यस्य । त्रिकाण्डशेषे तु– ‘पुत्रौ तु नलकूवरौ’ इत्युक्तम् । तत्तु नासत्यौ’ इतिवदौपचारिकं बोध्यम् । नलकूवरमणिग्रीवयोस्तत्पुत्रयोः पुराणप्रसिद्धत्वात् । नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ’ इति । भागवतम् ।।
नलदम् “नलं गन्धं ददाति, दयते, वा । ‘डुदाञ् दाने’ (जु० प० अ०) । ‘देड पालने’ (भ्वा० आ० अ०) वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः (इति मेदिनी) ॥”
नलमीनः नलेति । नलवनस्थो मीनः । नडाभो मीन इति वा ॥ ‘तलमीनः’ इति केचित्पठन्ति ॥
नलिनम् नलति । ‘णल गन्धे’ (भ्वा० प० से०) । इनन् (उ० २.४९) । ‘नलिनं नलिकातोयाम्बुजेषु’ ॥
नलिनी नलिन्यामिति । नडाः सन्त्यत्र । पुष्करादिभ्यः-’ (५.२.१३५) इतीनिः । डलयोरैक्यम् । यद्वा नलमत्रास्ति । ‘खलादिभ्यः (वा० ४.२५१) इतीनिः । (नलः पोटगले राज्ञि पितृदेवे कपीश्वरे) । नली मनः शिलायां तु नलिनेऽपि नलं मतम्’ इति विश्वः । नलिनी पुनः । पद्माकरे गङ्गाब्जिन्योः’ इति हैमः
नली नलति । ‘णल गन्धे’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । (‘नलः पोटगले राज्ञि पितृदेवे कपीश्वरे । कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितोः’ (इति मेदिनी)॥
नल्वः “नल्व इति । किष्कूणां हस्तानां चतुःशती । चतुःशतम्’ इति तु पात्रादित्वात् (वा० २.४.३०) । चतुर्गुणं शतम्, इति वा । शाकपार्थिवादिः (वा० २.१.६९) । नल्यते । णल बन्धने’ (भ्वा० प० से०) । उल्वादित्वात् (उ० ४.९५) | वः । कात्यस्तु नल्वं हस्तशतम्’ इत्याह । एकम् चतुःशतहस्तपरिमितस्य ।”
नवदलम् नवं च तद्दलं च ॥ (२)
नवनीतम् नेति । नवं च तन्नीतं च । ‘विशेषणम्-’ (२.१.५७) इति समासः ॥
नवमालिका नवा स्तुत्या मालास्याः । कप् (५.४.१५४) ॥
नवसूतिका नवं सूतं प्रसवोऽस्याः । ‘शेषात्-’ (५.४.१५४) इति कप् । ‘प्रत्ययस्थात्’ (७.३.४४) इतीत्वम् ॥
नवाम्बरम् नवं च तदम्बरं चा ॥
नवोद्धृतम् नवोद्धृतम्
नष्टः त्रीति । ‘त्रिषु’ इति पूर्वाभ्यामपि सम्बध्यते । नश्यति स्म । ‘णश अदर्शने’ (दि० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति कर्तरि क्तः ॥
नष्टचेष्टता नष्टा चेष्टा यस्य । तस्य भावः तल् (५.१.११९)
नष्टाग्निः नष्टोऽग्निर्यस्य॥
नस्तितः स्येति । नसनम् । ‘णस कौटिल्ये’ (भ्वा० आ० से०) । क्तः (३.३.११४) । नस्तं कृतमस्य । ‘प्रातिपदिकाद्धात्वर्थे-’ (चु० अ० सू०) इति णिच् । ततः कर्मणि क्तः (३.२.१०२) ॥
नस्योतः नासिकायां भवा । ‘शरीरावयवाच्च’ (४.३.५५) इति यत् । ‘नस्नासिकायाः यत्तस्क्षुद्रेषु’ (वा० ६.१.६३) इति नसादेशः । नस्यया नासारज्ज्वा उतः । ‘नस्तोतः’ इति पाठः-इति कश्चित् । नस्यते कर्मणि क्तः (३.२.१०२) । नस्तयोतः ॥
नहि
- नह्यति । ‘णह बन्धने’ (दि० उ० अ०) । इन् (उ० ४.११८) ॥
नाकः ‘नभ्राण्नपात्-’ (६.३.७५) इति नलोपो न ।
नाकुः “न अकति । ‘अक कुटिलायां गतौ (भ्वा प० से०) । बाहुलकादुः । यद्वा नम्यते भूरनेन ॥ ‘णम प्रह्वत्वे शब्दे च’ (भ्वा० प० अ०) । ‘फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च’ (उ० १.१८) इत्युः, नाकिश्च । इकार उच्चारणार्थः । (नाकुर्मुन्यन्तरे पृथ्वीधरवल्मीकयोः पुमान्’)”
नाकुली नेति । नकुलानामियम् । प्रियत्वात् । तस्येदम् (४.३.१२०) इत्यण् । न आकुलत्वं यया वा । ‘नाकुली कुक्कुटीकन्दे रास्नायां चव्यके स्त्रियाम्’ (इति मेदिनी) ॥
नागः नागा इति । नगे भवाः । तत्र भवः’ (४.३.५३) इत्यण् । यद्वा-न गच्छन्ति । अगाः । न अगाः। ‘सुप्सुपा’ (२.१.४) इति समासः । अनञ्त्वान्न नलोपः । (‘नागो मतङ्गजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः। नागं रङ्गे सीसपत्रे स्त्रीबन्धे कारणान्तरे’ इति हैमः ।
नागः न अगः । नगे भवो वा । अण् (४.३.५३) । ‘नागो मतङ्गजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेठे स्यादुत्तरस्थितः । नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे’ इति हैमः ॥
नागः नेति । नगे भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनाग(नागदन्तप्रभेदके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः’ इति मेदिनी) ॥
नागकेसरः नागाख्यः केसरः। ‘स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रियः’ इति रभसः ॥
नागजिह्विका नागानां जिह्वेव । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
नागबला नागानां हस्तिनां बला ॥
नागरङ्गः “नागा रजन्त्यत्र । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । नागस्य सिन्दूरस्येव रङ्गोऽस्य, इति वा ॥ ‘नागरङ्गे तु नारङ्गो नार्यङ्गस्तकवासनः’ इति वाचस्पतिः । ‘नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि च ॥”
नागरम् नगरे भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे’ (इति मेदिनी) ॥
नागलोकः नागानां लोक ।
नागवल्ली नागलोकस्य वल्ली ॥
नागसम्भवम् नागं सीसं सम्भवः (उत्पत्तिस्थानम्) अस्य ॥
नागान्तकः नागानामन्तकः ।
नाट्यम् नटस्य कर्म । ष्यञ् (५.१.१२४) । नटेर्यत् (३.१.१२४) वा । ‘नाट्यं तौर्यत्रिके लास्ये ॥
नाट्यम् इदमेव नृत्यादित्रयं नाट्यमपि । नटस्येदम् । ‘छन्दोगौक्थिक-’ (४.३.१२९) इति ञ्यः ॥
नाडिन्धमः
- नेति । नाडीं वंशनलीं धमति । ‘ध्मा शब्दाग्निसंयोगयोः’ (भ्वा० प० से०) । ‘नाडीमुष्ट्योश्च’ (३.२.३०) । इति खश् । ‘खित्यनव्ययस्य’ (६.३.६६) इति ह्रस्वः ॥
नाडी “नेति । नाडयति । नाड्यते, वा । ‘नड भ्रंशे’ (चुरादिः) । ‘अच इः’ (उ० ४.१३९) । ‘नाडी नाले व्रणान्तरे । शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेपि’ (इति मेदिनी) ॥”
नाडी नेति । नलत्यनेन । ‘णल गन्धे (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । नालयति । अच् (३.१.१३४) । डलयोरेकत्वम् । गौरादिः (४.१.४१) । ‘नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः । नाले गुणान्तरे स्नायौ’ इति हैमः ॥ ‘नालं काण्डे मृणाले च नाली शाककलम्बके’ इति च (हैमः) ॥
नाडीव्रणः नेति । नाड्यां व्रणः ॥
नादः ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । ‘नौ गदनद-’ (३.३.६४) इत्यप् ॥ पक्षे घञ् (३.३.१८) ॥
नादेयी नादेति । नद्यां भवा । ‘नद्यादिभ्यो ढक्’ (४.२.९७) । ‘नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां च जम्ब्वां च कङ्गुष्ठेऽपि च योषिति’ (इति मेदिनी) ॥
नादेयी नद्यां भवा । ‘नद्यादिभ्यो ढक्’ (४.२.९७) । ‘नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्बां च जम्ब्बां च काङ्गुष्ठेऽपि च योषिति’ ॥
नादेयी नेति । नद्यां भवा । ‘नद्यादिभ्यो ढक्’ (४.२.९७) । ‘नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां जपायां च काङ्गुष्ठे च समीक्ष्यते’ इति विश्वः ॥
नादेयी नद्यां भवा । ‘नद्यादिभ्यो ढक् (४.२.९७) । ‘टिड्ढा -’ (४.१.१५) इति ङीप् ॥
नाना
- नञो ‘विनञ्भ्याम् (५.२.२७) इति नाञ् प्रत्ययः ॥
नापितः
- न पियति स्म । ‘पि गतौ’ (तु० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । न—अपितः । निषेधार्थकेन नशब्देन ‘सुप्सुपा’ (२.१.४) इति समासः । यद्वा नापनम् । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । घञ् (३.३.१८) । नापो जातोऽस्य । ‘तदस्य संजातम् (५.२.३६) इतीतच् ॥
नाभिः नह्यन्तेऽरा अत्र । ‘णह बन्धने’ (दि० उ० अ०) । ‘नहो भश्च’ (उ० ४.१२६) इतीञ् हस्य भः । यद्वा नभ्यतेऽक्षेण । ‘णभ हिंसायाम्’ (भ्वा० आ० से०) । ‘इञ(ण)जादिभ्यः’ (वा० ३.३.१०८) ‘नाभिर्मुख्यनृपे चक्रमध्यक्षत्त्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे’ (इति मेदिनी) ॥
नाम म्नायते । ‘म्ना अभ्यासे (भ्वा० प० से०) । यद्वा नम्यतेऽभिधीयतेऽर्थोऽनेन । ‘णम प्रह्वत्वे शब्दे च (भ्वा० प० अ०) । ‘नामन्सीमन्-’ (उ० ४.१५१) इति निपातितः । ‘भागरूपनामभ्यो धेयः’ (वा० ५.४.३५) इति स्वार्थे वा धेयः ।
नामधेयम् म्नायते । ‘म्ना अभ्यासे (भ्वा० प० से०) । यद्वा नम्यतेऽभिधीयतेऽर्थोऽनेन । ‘णम प्रह्वत्वे शब्दे च (भ्वा० प० अ०) । ‘नामन्सीमन्-’ (उ० ४.१५१) इति निपातितः । ‘भागरूपनामभ्यो धेयः’ (वा० ५.४.३५) इति स्वार्थे वा धेयः ।
नारकः “स्यादिति । नरति, नृणाति वा । ‘नॄ नये’ (भ्वा०, क्र्या० प० से०) । ‘कृञादिभ्यः संज्ञायां वुन्’ (उ० ५.३५) ॥ ’ नरकः पुंसि निरयदेवारातिप्रभेदयोः’ इति विश्वमेदिन्यौ ।”
नारकाः आद्यशब्देन तामिस्रान्धतामिस्रासिपत्रवनादयः । नरकभेदानां पृथक्-पृथक् । सत्त्वा इति । नरकस्थाः सत्त्वाः जन्तवः । नरके भवाः । तत्र भवः’ (४.३.५३) इत्यण् ।
नारदः नरस्य धर्म्यम् । ‘नराच्चेति वक्तव्यम् (वा० ४.४.४९) इत्यण् (ञ्) । नारं ददाति । ‘आतोऽनुप (३.२.३) इति कः । यद्वा नारं पानीयमित्युक्तं तत् पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यति’ इत्यागमः । नारं नरसमूहं द्यति कलहेनेति वा । नुरिदं नारमज्ञानम् । तद्दयति ज्ञानोपदेशेनेति वा । दो अवखण्डने (दि० प० अ०) कः (३.२.३) ।
नाराचः नरानाचामन्ति । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । प्रज्ञाद्यण् (५.४.३८) । यद्वा नराणां समूहो नारम् । नारमाचामति । डः (वा० ३.२.१०१) ॥
नाराची
- नेति । स्वल्पो नाराचो बाणभेदः । गौरादिः (४.१.४१) ॥
नारायणः “नराणां समूहो नारम् । ’तस्य समूहः’ (४.२.३७) इत्यण् । तदयनं यस्य । पूर्वपदात्-’ (८.४.३) इति णत्वम् । नरा अयनं यस्येति विग्रहे ‘नरायणः’ अपि ‘पृषोदरादित्वात् (६.३.१०९) इति मुकुटस्तु चिन्त्यः। अथ नारायणो विष्णुरूर्ध्वकर्मा नरायणः’ इति शब्दार्णवः। ‘वासुर्नारायणः पुनर्वसुविश्वरूपाः’ इति त्रिकाण्डशेषश्च नरस्यापत्यम् । ‘नडादिभ्यः फक् (४.१.९९) इति वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावो वा । नराज्जाताः नारा आपः तत्त्वानि वा अयनं (यस्य) नारम् अयते जानाति वा, आययति प्रवर्तयति वा अय गतौ (भ्वा० आ० से०) णिजन्तोऽपि । ‘कृत्यल्युटः-’(३.३. ११३) इति ल्युट् । (‘नारायणस्तु केशवे नारायणी शतावर्युमा श्रीः’)”
नारायणी नारायणाज्जाता । ‘नारायणोऽच्युतेऽभीरुगौयोर्नारायणी मता’ (इति मेदिनी) ॥
नारी “‘नृनरयोर्वृद्धिश्च’ इति शार्ङ्गरवादि (४.१.७३) गणे पाठान्ङीन् । जातिलक्षणस्य (४.१.६३) ङीषोऽपवादः, ङीन्संनियोगेन वृद्धिश्च । मुकुटस्तु - नुर्नरस्य वा धर्म आचारोऽस्याः । ‘नृनराभ्यां च’ (वा० ४.४.४९) इत्यञ् । वृद्धिः (७.२.११७) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । नारी । नुर्नरस्य वेयम् । ‘तस्येदम्’ (४.३.१२०) इत्यणि वृद्धौ (७.२.११७) नारी, इति वा इत्याह तन्न । ‘नृनराभ्याम्’ इत्यस्याप्रसिद्धत्वात् । ‘तस्येदम्’ (४.३.१२०) इत्यणि ‘नृनरयोः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । ङीप्ङीनोः स्वरभेदाच्च ॥”
नालम् नालेति । नलति । ‘णल बन्धे’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘नालं न ना पद्यदण्डे नाली शाककलम्बके’ ॥ (१) ॥ (२)द्वे उत्पलादिदण्डस्य ।
नालम् नेति । नलत्यनेन । ‘णल गन्धे (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । नालयति । अच् (३.१.१३४) । डलयोरेकत्वम् । गौरादिः (४.१.४१) । ‘नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः । नाले गुणान्तरे स्नायौ’ इति हैमः ॥ ‘नालं काण्डे मृणाले च नाली शाककलम्बके’ इति च (हैमः) ॥
नाला नालेति । नलति । ‘णल बन्धे’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘नालं न ना पद्यदण्डे नाली शाककलम्बके’ ॥ (१) ॥ (२) द्वे उत्पलादिदण्डस्य ।
नालिका नालिका
नालिकेरः “नालीति । नलति, नल्यते, वा । ‘णल गन्धे’ (भ्वा० प० से०) । बाहुलकादिण् । केन वायुना ईर्यते । ‘ईर प्रेरणे’ (अ० अ० से०) । घञ् (३.३.१९) । नालिश्चासौ केरश्च ॥ कपिलिकादिः (वा० ८.२.१८) ॥ (नारिकेलः) ॥”
नाविकः नावा तरति । ‘नौद्व्यचष्ठन्’ (४.४.७) द्वे नाविकस्य ।
नाव्यम् नाव्यमिति । नावा तार्यम् । ‘नौवयोधर्म-’ (४.४.९१) इति यत् । ‘वान्तोयि-’ (६.१.७९) इत्यवादेशः ॥ (१) एकम् ‘नौतरणयोग्यजलस्य ।
नाशः ‘णश अदर्शने’ (दि० प० से०) । घञ् (३.३.१८) । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने’ इति हेमचन्द्रः ॥
नासत्यौ “न सत्यं ययोस्तावसत्यौ, न असत्यौ । ‘नभ्राण्नपाद्-’ (६.३.७५) इति नञः प्रकृतिभावः ।”
नासा नासेति । नास्यते । ‘णासृ शब्दे’ (भ्वा० आ० से०) । गुरोश्च-’ (३.३.१०३) इत्यः । ‘विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च’ इति दन्त्यान्ते रुद्रः । नासा दारूपरि द्वारस्य अधोदारु शिला स्त्रियाम्-’ इति नाममाला । स्तम्भ द्वारस्थकाष्ठस्य ।
नासा नासते । अनया वा । ‘णासृ शब्दे’ (भ्वा० आ० से०) । प्राग्वत् । ‘नासा तु नासिकायां च द्वारोर्ध्वदारुणि स्त्रियाम्’ (इति मेदिनी) ॥
नासिका नासेर्ण्वुल् (३.१.१३३) । ‘घ्राणं गन्धवहा नासा नसा नस्या च नासिका’ इति साहसाङ्कः । ‘कुल्या गन्धवहा घोणा घ्राणं नासा च नासिका’ इति कात्यः ॥
नास्तिकता नास्ति परलोक इति मतिरस्य । ‘अस्तिनास्तिदिष्टंमतिः’ (४.४.६०) इति ठक् । तस्य भावो नास्तिकता ।
निःशलाकः ‘शलाका शारिका मदनशारिका’ इति पर्यायः । ‘शल्यं श्वाविच्छलाका स्याच्छवो मदनशारिका’ इति तालव्यादौ रभसः । निर्गता शलाकाप्यस्मात् । शलाकाया निर्गतो वा ॥
निःश्रेयसम् नितरां श्रेयः निःश्रेयसम् । ‘अचतुर-’ (५.४.७७) इति निपातितम् । ‘निःश्रेयसं तु कल्याणमोक्षयोः शंकरे पुमान्’ ।
निःसरणम् निःसरन्त्यनेन । ‘सृ गतौ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । निःसरणे मृतौ । उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च’ इति हैमः ।
निःषमम्
- निर्गतं सममत्र । ‘तिष्ठद्प्रभृतीनि च’ (२.१.१७) इत्यव्ययीभावत्वम् । ‘सुविनिर्दुर्भ्यः -’ (८.३.८८) इति षत्वम् ॥
निकरः निकीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ॠदोरप्’ (३.३.५७) । ‘निकरो निवहे सारे न्यायदेयधने निधौ’ (इति मेदिनी) ॥
निकर्षणः कर्षणान्निर्गतः । ‘निरादयः (वा० २.२.१८) इति समासः ।
निकषः
- निकषति । ‘कष हिंसायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) ।-निकष्यतेऽत्र । ‘गोचर-’ (३.३.११९) इत्यादिना घः–इति मुकुटश्चिन्त्यः । तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । ‘निकषः शाणफलके (निकषा यातुमातरि)’ इति विश्वमेदिन्यौ ॥
निकषा
- (निकषणम्) । ‘आ समिण्निकषिभ्याम् (उ० ४.१७५) ॥
निकषा
- निकषणम् । पूर्ववत् । ‘निकषान्तिकमध्ययोः’ (इति मेदिनी) ॥
निकषात्मजः निकषाया आत्मजः । मूर्धन्यः षः ।
निकामम् केति । कमनम् । ‘कमु कान्तौ’ (भ्वा० आ० से०) । घञ् । (३.३.१८) । ‘विशेषैर्यद्यबाधितः’ इति क्लीबत्वम् । ‘कामं बाढेऽनुमतिरेतसोः । कामः स्वरेच्छाकाम्येषु’ इति हैमः ॥
निकायः अथेति । निचीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘संघे चानौत्तराधर्ये (३.३.४२) इति घञ् आदेः कश्च । ‘निकायस्तु पुमाँल्लक्ष्ये सधर्मिप्राणिसंहतौ’ । (‘समुच्चये संहतानां निलये परमात्मनि’) (इति मेदिनी) ॥
निकाय्यः निचीयते धान्यादिकमत्र । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘पाय्यसांनाय्य–’ (३.१.१२९) इति साधुः । (निवासचिति-’ (३.३.४१) इति घञि निकायोऽपि । निकायः सद्मसंघयोः परमात्मनि लक्षे च’ इति हैमः ॥
निकारणम् ‘कॄञ् हिंसायाम्’ (ल्या० उ० से०) ॥
निकुञ्चकः निकुञ्चकः ।
निकुञ्जः निकुजेति । कावजानि । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘सप्तम्यां जनेर्डः (३.२.९७) । पृषोदरादिः (६.३.१०९) । कुञ्जन्त्यत्र । कुजि अव्यक्ते शब्दे’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । तन्न । कुजि धातोर्धातुपाठेऽदर्शनात् । यत्तु न्यङ्क्वादेः’ इति कृत्वाभावः इति तदपि न । न्यङ्क्वादेः इत्यस्य कुत्वविधायकत्वात् । निरत्रोपसर्गान्तरव्यावृत्त्यर्थम् । कुञ्जिरावरणार्थो लोकात् इति क्षीरस्वामी । ‘कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम्’ इति विश्वः ।
निकुम्भः कुं भूमिं बिभर्ति । ‘संज्ञायां भृतृ-’ (३.२.४६) इति खच् । ‘खच्च डिद्वा’ (३.२.३८) । नियतः कुम्भः । ‘प्रादयो गता-’ (२.२.१८) इति समासः । ‘निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ’ (इति मेदिनी) ॥
निकुरम्बम् नि कुरति । नि कुर्यते वा । ‘कुर छेदने’ (तु० प० से०) । बाहुलकादम्बच् । अत उत्वं च ॥
निकृतिः “निकृष्टा कृतिः क्रिया परप्रतारणरूपा, यद्वा पराभीष्टस्य निकर्तनम् । ‘कृती छेदने’ (तु० प० से०) । इक् कृष्यादिभ्यः’ (वा० ३.३.१०८) इतीक् । निकृतिर्भत्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् । इति विश्वमेदिन्यौ ।”
निकेतनम् नि केत्यतेऽस्मिन् । कित निवासे (भ्वा० प० से०) । अधिकरणे युच् (उ० २.७८) ॥
निकोचकः निकुच्यते । ‘कुच शब्दे तारे (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) ॥ ‘अङ्कोलः’ अपि ॥
निक्वणः ‘नौ’ (३.३.६४) इति ‘अनुपसर्गे (३.३.६१) इति चानुवर्तमाने ‘क्वणो वीणायां च’ (३.३.६५) इत्यप् ॥
निक्वाणः ‘नौ’ (३.३.६४) इति ‘अनुपसर्गे (३.३.६१) इति चानुवर्तमाने ‘क्वणो वीणायां च’ (३.३.६५) इत्यप् ॥ पक्षे घञ् (३.३.१८)
निगडः निर्गतो गडः सेचनमस्मात् कठिनत्वात् । निगलति वा । ‘गल अदने’ (भ्वा० प० से०) । अच् (३.१.१३४) डलयोरेकत्वम् ॥
निगमः नितरां गच्छन्त्यत्र । गोचर-’ (३.३.११९) इति निपातितः । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः’ इति हैमः ।
निगालः नीति । निगलत्यनेन । ‘गल अदने’ (भ्वा० प० से०) । हलश्च (३.३.१२१) इति घञ् । निगरत्यनेन वा । ‘गॄ निगरणे’ (तु० प० से०) । ‘उन्न्योर्ग्रः’ (३.३.२९) इति घञ् । ‘अचि विभाषा’ (८.२.३१) इति वा लः ॥
निघसः “न्यदनम् । अदेः (अ० प० अ०) । ‘नौ ण च’ (३.३.६०) इत्यप्, णश्च । ‘घञपोश्च’ (२.४.३८) घस्लादेशः ॥”
निचुलः नीति निचोलति । ‘चुल समुच्छ्राये’ (चु० प० से०) | चुरादीनां णिज्वा । ‘इगुपध-’ (३.१.१३५) इति कः । यत्तु निचोल्यते इति विगृह्य ‘घञर्थे कः’ (वा० ३.३.५८) इत्युक्तं मुकुटेन । तन्न । परिगणनविरोधात् । अन्तरङ्गत्वेन (णिजाश्रय) गुणप्रसङ्गाच्च । ‘निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे’ इति मेदिनी ॥
निचोलः नीति । निचोल्यते । ‘चुल समुच्छ्राये’ चुरादिः । घञ् (३.३.१९) । यद्वा चोड्यते । ‘चुड कृतौ’ चुरादिः । घञ् (३.३.१९) । डलयोरेकत्वम् । ‘निचोलं तु नपुंसकम्’ इति रभसः । स्त्रियां ‘निचोली’ इत्यपि–इति राजदेवः । निचुलोऽपि । ‘निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे’ (इति मेदिनी) ॥
नितम्बः “पेति । नितम्बति । नितम्ब्यते, वा । ‘तम्ब गतौ’ । अच् (३.१.१३४) घञ् । (३.३.१९) वा । यद्वा निभृतं तम्यते कामुकैः । ‘तमु काङ्क्षायाम्’ (दि० प० से०) । तम्यति सुरतसंमर्दाद्वा । ‘तमु ग्लानौ’ (दि० प० से०) । ‘उल्वादयश्च’ (उ० ४.९५) इति साधुः ॥”
नितम्बिनी अतिशयितो नितम्बो यस्याः । इनिः (५.२.११५) ॥
नितान्तम् निताम्यति स्म । ‘तमु काङ्क्षायाम्’ (दि० प० से०) । अकर्मकत्वात् कर्तरि क्तः (३.४.७२) । अनुनासिकस्य–’ (६.४.१५) इति दीर्घः।
नित्यम् नियमेन भवम् । ‘त्यब् नेर्ध्रुवे’ (वा० ४.२.१०४) । ‘नित्यं स्यात्संततेऽपि च । शाश्वते त्रिषु’)
निदाघः नितरां दह्यतेऽत्र । ‘दह भस्मीकरणे’ (भ्वा० प० अ०) । ‘हलश्च (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । निदाघो ग्रीष्मकाले स्यादुष्णस्वेदा म्बुनोरपि’ ।
निदाघः निदह्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । न्यङ्क्वादिः (७.३.५३)
निदानम् निदानमिति । नितरां दीयतेऽसाधारणतया जन्यतेऽनेन । ‘डुदाञ्’ (जु० उ० अ०) । ‘करणा-(३.३.११७) इति ल्युट् । निदानं कारणे शुद्धौ तपसः फलयाचने । ‘वत्सदाम्यवसाने च’ ।
निदिग्धिका निदीति । निदिह्यते स्म । ‘दिह उपचये’ (अ० उ० अ०) । क्तः (३.२.१०२) । टाप् (४.१.४) स्वार्थे कन् (५.३.७५) ॥
निदेशः एवं निदेशः । (‘निदेशः शासनोपान्तकथनेषु प्रयुज्यते’ इति विश्वः) ॥
निद्रा “निद्राणम् । ‘द्रा कुत्सायां गतौ (आ० प० अ०) । आतश्चोप-’ (३.३.१०५) इत्यङ् । निन्दनम्, निन्द्यतेऽनया, इति वा । ‘निन्देर्नलोपश्च’ (उ० २.१७) इति रग्, इति वा ॥”
निधनः निधानम् । ‘कॄपॄवृजिमन्दिनिधाञः क्युः’ (उ० २.८१) । ‘निधनं स्यात् कुले नाशे’ (इति मेदिनी) ॥
निधिः निधिरिति । नितरां धीयते । धाञः (जु० उ० अ०) । किः (३.३.९२) । नितरां दधाति पोषयत्यनेन । निधीयते वा । ‘धि धारणे’ (तु० प० अ०) संपदादिः (वा०३३.१०८) आगमशासनस्यानित्यत्वान्न तुक् ।
निधुवनम् नितरां धुवनं हस्तपादादिचालनमत्र॥
निनदः ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । ‘नौ गदनद-’ (३.३.६४) इत्यप् ॥
निनादः ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) । ‘नौ गदनद-’ (३.३.६४) इत्यप् ॥ पक्षे घञ् (३.३.१८) ॥
निन्दा ‘णिदि कुत्सायाम्’ (भ्वा० प० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः । निन्दास्यादपवादेऽपि कुत्सायामपि योषिति’ ॥
निपः नियतं पिबन्त्यनेन । ‘घञर्थे कः’ (वा० ३.३.५८) ॥
निपानम् नियतं पिबन्त्यस्मिन् । करणा-’ इति ल्युट् ॥
निबन्धनम् निबध्यतेऽनेनास्मिन्वा । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘करणाधिकरणयोश्च (३.३.११७) इति ल्युट् ॥
निभः
- स्युरिति । अमी निभादय उत्तरपदस्था एव सदृशवचना वाच्यलिङ्गाः स्युः । यथा ‘पितृनिभः पुत्रः’ ‘मातृनिभा कन्या’ ‘देवनिभमपत्यम्’ इति । नियतं भाति । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । ‘निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु’ (इति मेदिनी) ॥
निमयः निमीयते । ‘मीङ् हिंसायाम्’ (दि० आ० अ०) । ‘एरच्’ (३.३.५६) ॥
निम्नः निम्नमिति । निमनति ‘म्ना अभ्यासे’ (भ्वा० प० अ०) । ‘आतश्च-’ (३.१.१३६) इति कः ॥
निम्नगा निम्नं गच्छति । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । अन्येभ्योऽपि (वा० ३.२.१०१) इति डः ॥
निम्बः निव्वँति स्वास्थ्यम् । ‘णिवि सेचने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । वबयोरेकत्वम् ॥
नियतिः नियम्यतेऽनया । क्तिन् (३.३.९४) । नियच्छति । क्तिच् क्तौ च (३.३.१७४) इति क्तिज् वा । अत एव ‘स्त्री’ इति विधानं सार्थकम् । ‘नियतिर्नियमे दैवे’ इति विश्वः ।
नियन्ताः नीति । नियच्छति । अन्तर्भावितण्यर्थो वा । ‘यमु उपरमे’ (भ्वा० प० अ०) । तृच् (३.१.१३३) ॥
नियमः नियमो यन्त्रणायां चं प्रतिज्ञा निश्चयव्रते ।
नियमः नीति । नियमनम् । ‘यमः समुपनिविषु च’ (३.३.६३) इत्यप् । ‘नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते’ (इति मेदिनी) ॥
नियमः “नीति । यत् कर्म अनित्यं न तु यावज्जीवं कर्तव्यम्, आगन्तुभिः कादाचित्कैः कामनया समयविशेषादिभिः साधनैः साध्यमुपवासस्नानजपादि । तत् । नियमः । प्राग्वत् । ‘नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते’ (इति मेदिनी) ॥”
नियामकः नियेति । नियच्छन्ति पोतम् । ‘यम नियमने’ (भ्वा० प० अ०) । ण्वुल् (३.१.१३३) । नियामकः पोतवाहे कर्म (र्ण) धारे नियन्तरि ।
नियुद्धम् नीति । निगृह्य नितरां वा युद्धम् ॥
नियोज्यः
- नियुज्यते । ‘युजिर योगे’ (रु० उ० अ०) । ण्यत् (३.१.१२४) । ‘प्रयोज्यनियोज्यौ शक्यार्थे (७.३.६८) इति साधुः ॥
निरयः निर्गतोऽयात् ॥
निरस्तः नीति । निरस्यते स्म । ‘असु क्षेपणे’ (दि० प० से०) । क्तः (३.२.१०२) ॥
निरस्तम् निरस्तमिति । निरस्यते स्म । ‘असु क्षेपणे’ (दि० प० से०) । क्तः (३.२.१०२) । निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यूते प्रतिहते च’ इति हैमः ॥
निराकृतिः आकृतेरध्ययनचेष्टाया निर्गतः॥
निरामयः निष्क्रान्त आमयात् । ‘निरादयः-’ (वा० २.२.१८) इति समासः । ‘निरामयस्तु स्यादिडिक्के विगतामये’ इति हैमः । ‘निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजे’ इति विश्वमेदिन्यौ ॥
निरीशम् ईशाया निर्गतम् । ‘निरादयः’ (वा० २.२.१८) इति समासः । स्वामी तु ‘निष्क्रान्ता ईषास्मात्’ इति विगृह्य ‘निरीषम्’ इति मूर्धन्यान्तं पपाठ ॥
निर्ऋतिः “नियता ऋतिर्घृणा यस्याः ‘ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च’ इति रभसः । निर्गता ऋतेः शुभात् इति वा । निर्ऋतिः स्यादलक्ष्म्यां स्त्री, दिशां पालान्तरे पुमान् ।”
निर्गुण्डी “निर्गुडति । ‘गुड रक्षायाम् (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । गुडाद्वेष्टनान्निर्गता, इति स्वामी । गौरादिः (४.१.४१) । मुकुटस्तु - गुडिः’ अपठितोऽपि भूवादेराकृतिगणत्वाद्द्रष्टव्यः – इत्याह । ‘निर्गुण्डी नीलशेफाल्यां सिन्दुवारद्रुमेऽपि च इति मेदिनी ॥”
निर्गुण्डी “निर्गुडति । ‘गुड रक्षायाम् (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । गुडाद्वेष्टनान्निर्गता, इति स्वामी । गौरादिः (४.१.४१) । मुकुटस्तु - गुडिः’ अपठितोऽपि भूवादेराकृतिगणत्वाद्द्रष्टव्यः – इत्याह । ‘निर्गुण्डी नीलशेफाल्यां सिन्दुवारद्रुमेऽपि च इति मेदिनी ॥”
निर्ग्रन्थनम् ‘ग्रथि कौटिल्ये’ (भ्वा० आ० से०) । ‘निर्गन्धनम्’ इत्यन्ये । तत्र ‘गन्ध अर्दने’ (चु० अ० से०) अयं धातुः ॥
निर्घोषः ‘घुष घुटौ (भ्वा० उ० से०) । घञ् (३.३.१८) ॥
निर्जराः जराया निष्क्रान्ताः । ‘निर्जरः स्यात्पुमान्देवे जरात्यक्ते च वाच्यवत् । निर्जरा तु गुडूच्यां च तालपर्ण्यामपि स्त्रियाम् ॥
निर्झरः एवं झरः । षित्वात् (३.३.१०४) अङि झरा ॥ ‘अच इः’ (उ० ४.२३९) ‘झरिः’ ॥ ततो ङीषि (ग० ४.१.४५) ‘झरी’ च ॥ उपसर्गान्तरनिवृत्त्यर्थो निर् ॥
निर्णयः ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । निर्णयनम् । ‘एरच्’ (३.३.५६) । ‘उपसर्गादसमासेऽपि’ (८.४.१४) इति णत्वम् ।
निर्णेजकः
- नीति । निर्णेनेक्ति । ‘णिजिर् शुद्धौ’ (जु० उ० से०) । ण्वुल् (३.१.१३३) । ‘उपसर्गादसमासे-’ (८.४.१४) इति णत्वम् ॥
निर्देशः निर्देशः कार्यादेशः । घञ् (३.३.१८) ॥
निर्भरम् निःशेषेण भरोऽत्र ।
निर्मदः मदान्निर्गतः । निर्गतो मदोऽस्माद्वा ॥
निर्मुक्तः मां तुलयति । कः । मूलविभुजादिः (वा० ३.२.५) । मातुलश्चासावहिश्च ।
निर्मोकः निश्चयेन मुच्यते । कर्मणि घञ् (३.३.१९) । निर्मको मोचने व्योम्नि संनाहे सर्पकञ्चुके
निर्याणम् अपेति । अपाङ्गस्य । अपाङ्गो वा देशः । निर्यात्यनेन । करणे ल्युट् (३.३.११७) । ‘निर्याणं वारणापाङ्गदेशे मोक्षेऽध्वनिर्गमे’ (इति मेदिनी) ॥
निर्वपणम् ‘डुवप्’ (भ्वा० उ० अ०) ॥
निर्वहणम् “निर्वाहो निर्वहणम् । मुखप्रतिमुखगर्वविमर्शनिर्वहणाख्याः पञ्च नाटके संधयः । तत्र पञ्चमस्य संधर्द्वे । प्रस्तुतकथासमापनस्येत्यन्ये । निर्वहणं तु निष्ठा स्त्री संहारश्च समापने’ इति शब्दार्णवः । समे इति । समानार्थे, न तु समानलिङ्गे । शब्दार्णवे लिङ्गभेददर्शनात् । निष्ठा निर्वहणे वर्तते, इति योजना”
निर्वादः निरादिपूर्वाद्वदेः (भ्वा० प० से०) । घञ् (३.३.१८) । ‘निर्वादः स्याल्लोकवादपरिनिष्ठितवादयोः’
निर्वापणम् ‘डुवप् बीजसन्ताने’ (भ्वा० उ० अ०) । स्वार्थण्यन्तः । ‘ओ वै शोषणे’ (भ्वा० प० अ०) वा ॥
निर्वाम् निर्वान्त्यत्र । भावे वा । क्तोऽधिकरणे च (३.४.७६) इति ‘नपुंसके भावे-’ (३.३.११४) इति वा क्तः । ‘निर्वाणोऽवाते’ (८.२.५०) इति निष्ठानत्वम् । यद्वा अधिकरणे भावे वा ल्युट् । बन्धात्रिर्गमनमित्यर्थः । ‘निर्वाणं मोक्षनिर्वृत्योर्विधाने करिमज्जने’ इति हैमः ।
निर्वासनम् निर् ॥
निर्वेशः
- निर्विश्यते । अनेन वा । ‘विश प्रवेशने’ (तु० प० से०) । ‘अकर्तरि च’ (३.३.१९) इति ‘हलश्च’ (३.३.१२१) इति वा घञ् । ‘निर्वेशस्तु पुमान्भोगे वेतने मूच्र्छनेऽपि च’ (इति मेदिनी) ॥
निर्व्यथनम् ‘व्यथ भयचलनयोः’ (भ्वा० आ० से०) । भावे ल्युट् (३.३.११५) । निश्चयेन व्यथनं भयं चलनं वा यत्र । यत्तु-अधिकरणे ल्युट् (३.३.११६) इति मुकुट आह । तन्न । व्यथनमिति भावप्रत्यये बहुव्रीहिणा गतार्थत्वात् ।
निर्ह्रादः ‘ह्राद अव्यक्ते शब्दे (भ्वा० आ० से०) । घञ् (३.३.१८) ॥
निलयः निलीयतेऽत्र । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘पुंसि’ (३.३.११९) इति घः । ‘एरच् (३.३.५६) वा । निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेशेऽपि’ इति हैमः ।
निवर्हणम् ‘वर्ह हिंसायाम्’ (चु० प० से०) ॥
निवहः नितरामुह्यते । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘खनो घ च’ (३.३.१२५) इति वा । वहति वा । अच् (३.३.१३४) ॥
निवापः “न्युप्यते, निवपनं वा ‘डुवप्’ (भ्वा० उ० अ०) । कर्मणि (३.३.१९) भावे (३.३.१८) वा घञ् ॥”
निवीतः द्वे इति । नि वीयते स्म । ‘व्येञ् संवरणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । सम्प्रसारणादि (६.१.१५) । (६.१.१०८) । (६.४.२) । निवृत्तम् इति स्वामी ॥
निवीतम् नीति । नि वीयते स्म । प्राग्वत् । नि अधोभागे वीतं गमनमस्य वा । ‘नि’ इति प्रकृते ‘राश्यधोभावविन्यासे’ (इति मेदिनी) ॥कण्ठाल्लम्बितम् ।
निवेशः नीति । निविशन्तेऽत्त्र । ‘विश प्रवेशने’ (तु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘निवेशः सैन्यविन्यासे न्यासे रङ्गविवाहयोः’ इति हैमः ॥
निशा नितरां श्यति तनूकरोति व्यापारान् । ’शो तनूकरणे’ (दि० प० से०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । निशा दारुहरिद्रायां स्यात्त्रियामाहरिद्रयोः’ इति विश्वः । निशीथिनी निशा निट् च श्यामा तुङ्गी तमा तमी’ इति नामनिधानात् ‘निट्’ पृषोदरादित्वात् (६.३.१०९) शान्तापि ॥
निशान्तम् निशायामम्यते स्म । ‘अम गत्यादौ (भ्वा० प० से०) । क्तः (३.२.१०२) । ‘रुष्यमत्वर- (७.२.२८) इति नेट् । ‘निशान्तं सदनं वस्त्यमगारं मन्दिरं पुरम्’ इति वाचस्पतिः । (निशान्तं त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसोः’ इति मेदिनी) ॥
निशापतिः निशायाः पतिः।।
निशाह्वा नीति । निशा आह्ना यस्याः । निशापदेन तत्पर्याया लक्ष्यन्ते ॥
निशीथः निशेरतेऽस्मिन् । ‘शीङ् स्वप्ने’ (अ० आ० से०) । ‘निशीथगोपीथावगथाः’ (उ० २.९) इति थक् । निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके’ ।
निशीथिनी निशीथोऽस्त्यस्याम् । इनिः (५.२.११५) ।
निश्चयः ‘चिञ् चयने’ (स्वा० उ० अ०) । निश्चयनम् । ‘ग्रहवृदृ-(३.३.५८) इत्यप् ।
निश्रेणिः निश्रेणिरिति । नियता श्रेणिः पंक्तिरत्र ॥ सविसर्गपाठे निश्चिता श्रेणिरत्र । परसाहचर्यात्स्त्रीत्वम् । निश्रेणिरधिरोहण्यां खर्जुरीपादपेऽपि च’ इति हैमः ।
निषङ्गः एवं निषङ्गः । ‘उपसर्गात्-’ (८.३.६५) इति षत्वम् ॥
निषङ्गी निषङ्गोऽस्यास्ति । इनिः (५.२.११५) ॥
निषद्या “निषीदन्त्यस्यां जनाः । ‘षद्लृ विशरणगत्यवसादनेषु (भ्वा०, तु० प० अ०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । ‘सदिरप्रतेः’ (८.३.६६) इति ॥”
निषद्वरः “निषेति । निषीदन्त्यत्र । ‘षद्लृ विशरणगत्यवसादनेषु’ (भ्वा०, तु० प० अ०) । ‘नौ सदेः’ (उ० २.१२२) इति ष्वरच् । सदिरप्रतेः’ (८.३.६६) इति षत्वम् । यद्वा निषदनम् । सम्पदादि क्विप् (वा० ३.३.१०८) । निषद आसनस्य वर आवारकः । ‘वृञ् आवरणे’ (चु० उ० से०) । आधृषीयः पचाद्यच् (३.१.१३४) । ‘निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी’ इति विश्वः ।”
निषधः निषीदति । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘निषधः कठिने देशे तद्राजे पर्वतान्तरे’ इति विश्वमेदिन्यौ ।
निषादः “निषादेति । निषीदति मनोऽस्मिन् । ‘षद्लृ विशरणगत्यवसादनेषु’ (भ्वा०, तु० प० अ०) । ‘हलश्च (३.३.१२१) इति घञ् । ‘सदिरप्रतेः’ (८.३.६६) इति षत्वम् । निषादः स्वरभेदेऽपि चण्डाले धीवरान्तरे ।”
निषादः
- निषीदति पापमस्मिन् । ‘षद्लृ विशरणादौ’ (भ्वा० प० से०) । ‘हलश्च’ (३.३. १२१) इति घञ् । ‘निषादः स्वरभेदेऽपि चण्डाले धीवरान्तरे (इति मेदिनी) ॥
निषादिनः (निषीदन्त्यवश्यम् । ‘षद्लृ विशरणादिषु’ (भ्वा० प० अ०) । आवश्यके णिनिः (३.३.१७०) । यद्वा निषादयन्त्युपवेशयन्ति हस्तिनम् । ग्रह्यादित्वात् (३.१.१३४) आवश्यके (३.३.१७०) वा णिनिः ॥
निषूदनम् ‘षूद क्षरणे’ (भ्वा० आ० से०) ॥
निष्कला नीति । ‘कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ’ (इति मेदिनी) । कलान्निष्क्रान्ता । ‘निरादयः क्रान्ताद्यर्थे’ (वा० २.२.१८) इति समासः । निर्गतं कलं शुक्रमस्या वा । ‘निष्कलं तु कलाशून्ये नष्टवीर्ये तु वाच्यवत्’ (इति मेदिनी) ॥
निष्कुटाः कुटाद्गृहान्निष्क्रन्ताः । निरादयः-’ (वा २.२.१८) इति समासः ।‘निष्कुटस्तु गृहोद्याने स्यात्केदारकवाटयोः । द्वे गृहसमीपोपवनस्य ।
निष्कुटिः निश्चिता कुटिः कौटिल्यमस्याः । निष्क्रान्ता कुटेर्वा ॥ ‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । (निष्कुटी) ॥
निष्कुहः निश्चयेन कुहयते । ‘कुह विस्मापने’ (चु० आ० स०) । पचाद्यच् (३.१.१३४) - निश्चयेन कुहयति । ‘कुह अपस्मापन । ‘इगुपध-’ (३.१.१३५) इति कः - इति मुकुटः । तन्न । कुहेचुरादावदन्तादात्मनेपदित्वात् ॥
निष्ठा निष्ठेति । नियतं स्थानम् । निष्ठा । ‘आतश्चोपसर्गे (३.३.१०६) इत्यङ् । ‘उपसर्गात्सुनोति-’ (८.३.६५) इति षः। निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥
निष्ठानम् निष्ठीयतेऽत्र । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) ॥
निष्ठुरम् निष्ठुरमिति । नितिष्ठति । मद्गुरादयश्च’ (उ० १.४१) इति कुरच् । ‘उपसर्गात्सुनोति-’ (८.३.६५) इति षत्वम् ॥
निष्प्रवाणिः प्रोयतेऽनया । ‘वेञ् तन्तुसंताने’ (भ्वा० उ० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् । निर्गता प्रवाणी तन्तुवायशलाकास्मात् । ‘निष्प्रवाणिश्च’ (५.४.१६०) इति साधुः ॥
निसर्गः विसर्जनम् । ‘सृज विसर्गे’ (तु० प० अ०) । घञ् (३.३.१८) । निसर्गः सृष्टौ स्वभावे च’ इति हैमः ॥
निस्तर्हणम् तृह हिंसायाम्’ (रु० प० से०) । निर्पूर्वः । तृन्हू’ (तु० प० से०) वा ॥
निस्त्रिंशः निर्गतस्त्रिंशतोऽङ्गुलिभ्यः । ‘निरादयः क्रान्ता-’ (वा० २.२.१८) इति समासः । ‘संख्यायास्तत्पुरुषस्य’ (वा० ५.४.७३) इति डच् । -‘बहुव्रीहौ संख्येये-’ (५.४.७३) इति डच्- इति मुकुटश्चिन्त्यः । बहुव्रीहेरभावात् । ‘निस्त्रिंशो निर्घृणे खड्गे’ इति हैमः ॥
निस्रावः निस्राव्यते । ‘स्रु गतौ’ (भ्वा० प० अ०) । ण्यन्तः । ‘एरच्’ (३.३.५६) । घञ् (३.३.१९) वा । ‘विस्रावः’ इति मुकुटः ॥
निस्वनः ‘स्वनहसोर्वा’ (३.३.६२) इत्यप् घञौ ॥
निस्वानः ‘स्वनहसोर्वा’ (३.३.६२) इत्यप् घञौ ॥
निहननम् ‘हन हिंसायाम्’ (अ० प० अ०) ॥
निहरी एवं निह ।
निहाका निहाकेति । नियतं जहाति भुवम् । नौ हश्च’ (उ० ३.४४) इति हाकः कन् । बाहुलकान्न ह्रस्वः ।
निहिंसनम् ‘हिसि हिंसायाम्’ (रु० प० से०) ॥
निहीनः
- निश्चयेन हीनः । ‘कुमति-’ (२.२. १८) इति समासः ॥
निह्नवः निह्नवनम् । हुनुङ् अपनयने (अ० आ अ) । ‘ॠदोरप्’ (३.३.५७) । (निह्नवः स्यादविश्वासेऽपलापे निकृतावपि’ ॥
नीकाशः
- नितरां काशते । ‘इकः काशे’ (६.३.१२३) इति दीर्घः । ‘नीकाशो निश्चये तुल्ये इति विश्वः (मेदिनी) ॥
नीचः
- निकृष्टामीं लक्ष्मीं चिनोति । ‘चिञ्’ (स्वा० उ० अ०) । ‘अन्येभ्योऽपि दृश्यते’ (वा० ३.२.१०१) इति डः ॥
नीचैः
- नि चीयते । ‘चिञ् चयने (स्वा० उ० अ०) । ‘नौ दीर्घश्च (उ० ५.१३) इति डैसिः ॥
नीडः नितराम् ईड्यते । घञ् (३.३.१९) । यद्वा निश्चिता इलन्त्यत्र । ‘इल स्वप्ने’ (तु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न गुणः । डलयोरेकत्वम् । ‘नीडं स्थानकुलाययोः’ (इति मेदिनी) ॥
नीडोद्भवः नीडे उद्भवो येषाम् ॥
नीध्रम् नितरां भ्रियते । ‘भृङ् अवस्थाने’ (तु० आ० अ०) । निश्चयेन धरति जलम्’ इति वा । `धृञ् धारणे’ (भ्वा० उ० अ०) । मूलविभुजादिः (वा० ३.२.५) । अन्येषामपि’ (६.३.१३७) इति दीर्घः । निश्चयेन इन्धे । ‘ञि इन्धी दीप्तौ’ (रु० आ० से०) । ‘स्फायि-’ (उ० २.१३) इति रक् । मुकुटोक्ता करणव्युत्पत्तिस्तु नादर्तव्या ‘कर्तरि कृत्’ (३.४.६७) इति वाक्यशेषात् । नीध्रं (व्रं) नेमौ वलीकेन्द्वो रेवतीभेऽपि कानने ।
नीपः “नीपेति । नयति, नीयते, वा । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । ‘पानीविषिभ्यः पः’ (उ० ३.२३) । बाहुलकाद्गुणाभावः । ‘नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ॥”
नीरम् नीयते । णीञ् प्रापणे’ (भ्वा० उ० से०) । ‘स्फायि-’ (उ० २.१३) इति रक् । निर्गतं रादग्नेर्वा । ‘निरादयः-’ (वा० २.२.१८) इति समासः । अग्नेरापः इति (तैत्तिरीय) श्रुतेः । निष्क्रान्तो रोऽस्मात् । ‘प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति बहुव्रीहिः । अद्भ्योऽग्निः’ इति स्मृतेः । यत्तु-ढ्रलोपे-’ (६.३.१११) इति दीर्घेण ‘नीरम्’ इति स्वामी इति मुकुटः । तन्न । नयति ‘नीरम्’ इति स्वामिग्रन्थादुक्तार्थानवगमात् । निश्चयेन राति सुखम् । ‘रा दाने’ (अ० प० अ०) । आतश्चोपसर्गे (३.१.१३६) इति को वा । नीरवार्वारिनारम्’ इति संसारावर्तसंमते ‘नार’ इति पाठे नरस्येदम् । ’तस्येदम्’ (४.३.१२०) इत्यण् । ‘आपो वै नरसूनवः’ इति स्मृतेः । (नारस्तर्णकनीरयोः’ इति मेदिनी) ।
नीलः नीलति । ‘नील वर्णे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.११३५) इति कः । ‘नीलो वर्णे मणौ शैले निधिवानरभेदयोः । नील्योषध्यां लाञ्छने च’ इति हैमः ।
नीलकण्ठः नीलः कण्ठोऽस्य ॥
नीलङ्गुः नीति । नितरां लङ्गति । ‘लगि गतो’ (भ्वा० प० से०) । नीलति वा । ‘णील वर्णे’ (भ्वा० प० से०) । ‘खरुशङ्क (उ० १.३६) इति साधुः । ‘नीलङ्गुरपि नीलाङ्गुः’ इति द्विरूपकोशः । नीलङ्गुः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति’ इति मेदिनी ॥
नीललोहितः नीलश्चासौ लोहितश्च । कण्ठे जटासु च ।
नीला नीलति । ‘णील वर्णे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘नीला’ इति क्रियाशब्दोऽयं विवक्षितो न तु गुणशब्दः । अतो न ङीष् । गुणविवक्षायां ‘नीली’ इति भवत्येव ॥ ‘नीलवर्णमक्षिकायाः’ एकम् । केचित्तु नामत्रयमिदमाहुः । तदा तु ‘वा संज्ञायाम्’ (वा० ४.१.४२) इति युक्त एव ङीषभावः ॥
नीलाम्बरः नीलमम्बरं यस्य । (‘नीलाम्बरो रौहिणेये कोणपे च शनैश्चरे’)
नीलाम्बुजन्म अथेति । नीलं च तदम्बुजन्म च ॥
नीलिका नीलवर्णा । ‘नीलादोषधौ ‘प्राणिनि च (वा० ४.१.४२) इति ङीष् । स्वार्थे कन् (५.३.७५) । ‘नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च’ (इति मेदिनी) ॥
नीलिनी नीलो वर्णोऽस्त्यस्याः । ‘अतः’ (५.२.११५) इतीनिः ॥
नीली नीलीति । ‘नीलादोषधौ’ (वा० (४.१.४२) इति ङीष् । नीली रुग्मेदनीलिन्योः’ (इति मेदिनी) ॥
नीवारः नि व्रियन्ते । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘नौ वृ धान्ये’ (३.३.४८) इति घञ् । ‘उपसर्गस्य-’ (६.३.१२२) इति दीर्घः । ‘स्यान्नीवारो वणिजके वास्तव्येऽपि च दृश्यते’ इति विश्वः ॥
नीवी नीति । नितरामिन्वति । ‘इवि प्रीणने’ (भ्वा० प० से०) । ‘अनित्यमागमशासनम्’ इति न नुम् । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् ।-‘निपूर्वाद्व्येञो निरी च’ इति डिः । ‘कृदिकारात्’ (ग० ४.१.४५) इति ङीष् । व्यो यलोपः नेर्दीर्घः । नीवी-इत्याह मुकुटः । नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे’ इति हैमः ॥
नीवृत् “नीवृदिति । नियतो वर्तते । अधिकरणस्य कर्तृत्वविवक्षात्र । ‘वृतु वर्तने’ (भ्वा० आ० से०) । क्विप् (३.२.१७८) । नहिवृति-’ (६.३.११६) इति दीर्घः । यत्तु-नियमेनाववश्यतया, नियतं वा वर्तन्ते वसन्ति जना अत्र’ इति पुंसि बाहुलकात् सम्पदादित्वात् (वा० ३.३.१०८), अन्येभ्योऽपि दृश्यते’ (३.२.१७८) इति, वा अधिकरणे क्विप् इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् ॥”
नीशारः नीति । नितरां शीर्येते हिमानिलावत्र । अनेन वा । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘शॄ वायुवर्णनिवृत्तेषु’ (वा० ३.३.२१) इति घञ् । ‘उपसर्गस्य घञ्जि’ (६.३.१२२) इति दीर्घः ॥
नीहारः निह्रियते । हृञ् हरणे’ (भ्वा० उ० अ०) । घञ् (३.३.१९) । ‘उपसर्गस्य घञि–’ (६.३.१२२) इति दीर्घः । यत्तु ‘अध्यायन्याय-’ (३.३.१२२) इत्यत्र चकाराद्धञ् - इति मुकुटेनोक्तम् । तन्न । ‘अकर्तरि च-’ (३.३.१९) इति घञः सिद्धत्वात् ।
नुतिः णु स्तुतौ’ (अ० प० अ०) । नुतिः
नूदः नूद इति । नुदति पापम् । णुद प्रेरणे’ (तु० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । -‘अन्येषामपि’ (६.३.१३७) इति दीर्घः – इति मुकुटः । तन्न । तत्र ‘उत्तरपदे’ इत्यधिकारात् । - ‘घञर्थे कः इत्यपि न । यद्वा नुवदति । ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) । कर्मणः कर्त्त्वम् । यद्वा नूयते। ‘णू स्तुतौ’ (तु० प० से०) कुटादिः । बाहुलकाद्दः ॥ ‘तूदः’ इति स्वामी । तत्र ‘तुद व्यथने’ (तु० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) ॥
नूनम्
- नु ऊनयति । ‘ऊन परिहाणे’ (चु० प० से०) । अम् ॥
नूपुरः “‘नुवनम्’ नूयते, वा । ‘णू स्तुतौ’ (तु० प० से०) । सम्पदादिः (वा० ३.३.१०८) । नुवि पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘मञ्जीरोऽस्त्री स नूपुरः’ इति रभसः ॥”
नृत्यम् नृती (दि० प० से०) । ‘ऋदुपधाच्च (३.१.११०) इति क्यप् ।
नृपः तृन् । पाति । ‘पा रक्षणे’ (अ० प० अ०) । ‘आतोऽनुप–’ (३.२.३) इति कः ॥
नृपासनम् व्रिति । नृपस्यासनम् ॥
नेत्रम् ‘दाम्नी’ (३.२.१८२) इति पक्षे ष्ट्रन् । ‘नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां तु नेत्री नेतरि वाच्यवत्’ (इति मेदिनी) ॥
नेत्राम्बु नेत्रयोरम्बु ॥
नेपथ्यम् “नयति । विच् (३.२.७५) । गुणः (७.३.८४) । निनो नेत्रस्य, नेर्नेतुर्वा पथ्यम् । संज्ञापूर्वक- त्वान्न ह्रस्वः । ‘नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे’ इति हैमः ॥”
नेमिः “नेमिरिति । अस्य कूपस्य । नयन्त्यनया ’नियो मिः’ (उ० ४.४३) । ‘नेमिर्ना तिनिशे, कूपत्रिकाचकान्तयोः स्त्रियाम् ।”
नेमिः तेति । तस्य चक्रस्यान्तो भूस्पर्शिभागः । नयति रथम् । ‘नियो मिः’ (उ० ४.४३) । नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्’ (इति मेदिनी) ॥
नेमी नयति । ‘णीञ् प्रापणे’ (भ्वा० प० से०) । ‘नियो मिः’ (उ० ४.४३) । ‘पुंलिङ्गस्तिनिशे नेमिश्चक्रप्रान्ते स्त्रियामपि’ इति रुद्रः । ‘ढ्रलोपे-’ (६.३.१११) इति दीर्घः ॥
नैगमः निगमे भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘नैगमः स्यादुपनिषद्वणिजोः (नागरेऽपि च)’ इति विश्वः (मेदिनी) । संज्ञापूर्वकत्वाद्वृद्ध्यभावे ‘निगमः’ अपि । ‘निगमो वाणिजे पुर्याम् (कटे वेदे वाणिक्पथे)’ इति विश्वः (मेदिनी) ॥
नैचिकी स्येति । नीचैश्चरति । ‘चरति’ (४.४.८) इति ठक् । ‘अव्ययानाम्-’ (६.४.१४४) इति टिलोपः । यद्वा ‘निचि’ ‘कर्णशिरोदेशे’ इति रभसः । ततः स्वार्थे कन् (ज्ञापि० ५.४.५) । प्रशस्तं निचिकमस्याः । ‘ज्योत्स्नादिभ्यः’ (वा० ५.२.१०३) इत्यण् । ‘नैचिकी गौरुत्तमा तु नीचिकी सा प्रकीर्तिता’ इति नाममाला ॥
नैपाली नेपाले भवा । ‘तत्र भवः’ (४.३. ५३) इत्यण् । ‘नैपाली नवमालीमनःशिलासुवहासु च’ इति विश्वः ॥
नैमेय निमानम् । ‘मेङ् प्रणिदाने’ (भ्वा० आ० अ०) । ‘अचो यत् (३.१.९७) । आत्वम् (६.१.४५) । ‘ईद्यति’ (६.४.६५) । गुणः (७.३.८४) । प्रज्ञाद्यण् (५.४.३८) च ॥
नैयग्रोधम् ‘न्यग्रोधस्य च केवलस्य’ (७.३.५) इत्यैच् ॥
नैर्ऋतः निर्ऋतेरपत्यम् ।
नैर्ऋतः निर्ऋतेरपत्यम् ।
नैष्किकः निष्के हेम्नि नियुक्तः । प्राग्वत् । ‘टङ्कपतिर्नैष्किको रजताध्यक्षः’ इति रभसः ॥
नैस्त्रिंशिकः नायति । निस्त्रिंशः प्रहरणमस्य । ‘प्रहरणम्’ (४.४.५७) इति ठक् ॥
नो
- नह्यति । डो ॥
नौः स्त्रियामिति । नुद्यते । ‘णुद प्रेरणे’ (तु० उ० अ०) । ग्लानुदिभ्यां डौः’ (उ० २.६४) । यद्वा नयति । ’णीञ् प्रापणे’ (भ्वा० उ० अ०) । अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । नम् अवति । क्विप् (३.२.७६) ‘ज्वरत्वर (६.४.२०) इत्यूठौ । वृद्धिः (६.१.८९) तरन्त्यनया । ‘तॄ प्लवनतरणयो’ (भ्वा० प० से०) । ‘अति सृघम्यश्यवितृभ्योऽनिः’ (उ० २१०२) । ‘तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ’ इति हैमः ॥
नौकादण्डः नौकेति । नौकाया दण्डः ॥
न्यग्रोधः न्यगिति । न्यक् रुणद्धि । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘न्यग्रोधस्तु पुमान् व्यामवटयोश्च शमीतरौ । न्यग्रोधी तूपचित्रायाम् ॥
न्यग्रोधी “न्यग् रुणद्धि । बहुमूलत्वात् । अच् (३.१.१३४) । गौरादिः (४.१.४१) - इति प्राञ्चः । न्यञ्चं रुणद्धि, इति वा । ‘कर्मण्यण् (३.२.१) । (न्यग्रोधस्तु पुमान्व्योमवटयोश्च शमीतरौ) । न्यग्रोधी तूपचित्रायाम्’ (इति मेदिनी) ॥”
न्यङ्कुः नितरामञ्चति । ‘नावञ्चेः’ (उ० १.१७) इति कुः । न्यङ्क्वादितवात् (७.३.५३) कुत्वम् । ‘न्यङ्कुर्मृगे मुनौ’ इति हेमचन्द्रः ॥
न्यादः “न्यदनम् । अदेः (अ० प० अ०) । ‘नौ ण च’ (३.३.६०) इत्यप्, णश्च । ‘घञपोश्च’ (२.४.३८) घस्लादेशः ॥”
न्यायः नियमेन ईयते । ‘परिन्योर्नीणोः-’ (३.३.३७) इति घञ् ॥
न्याय्यः न्यायादनपेतम् । ‘धर्मपथ्यर्थ-’ (४.४.९२) इति यत् ॥
न्यासः न्यस्यते । ‘असु क्षेपणे’ (दि० प० से०) । कर्मणि घञ् (३.३.१९) ॥
न्युब्जः न्युबिति । न्युब्जनम् । ‘उब्ज आर्जवे’ (तु० प० से०) । घञ् (३.५.१८) । ‘भुजन्युब्जो पाण्युपतापयोः’ (७.३.३१) इति साधुः । न्युब्जः पृष्ठवक्रत्वकारी यस्यास्ति । अर्शआद्यच् (५.२.१२७) । रुजा रोगेण भुग्ने पुरुषे न्युब्जो वर्तते । ‘न्युब्जः कुब्जे कुशस्रुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले’ इति हैमः ॥
पक्कणः पक्कण इति । पचन्ति । क्विप् (३.२.१७८) । कणन्ति । कण शब्दे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । पचः कणा यत्र । पाककलहाद्येव प्रधानं तत्र नान्यत् ॥
पक्षः “तेऽहोरात्राः । पक्ष्यते । पक्ष परिग्रहे’ (भ्वा०, चु० प० से०) । कर्मणि घञ् (३.३.१९) । पक्षो मासार्धके गेहे पार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः ।”
पक्षः पक्षयति । पक्ष्यते वा । ‘पक्ष परिग्रहे (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘पक्षस्तु मासार्धे गृहसाध्ययोः । चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे’ इति (मूर्धन्यषान्तेषु) हैमः । सान्तोऽपि । ‘पक्षसी च स्मृतौ पक्षौ’ इति शुभाङ्कः ॥
पक्षः पक्ष्यते । ‘पक्ष परिग्रहे’ (भ्वा० प० से०) । घञ् (३.३.१९) । घः (३.३.११८) वा । ‘पक्षो मासार्धके गेहपार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः’ (इति मेदिनी) ॥
पक्षः पेति । पक्षति । पक्ष्यतेऽनेन वा । ‘पक्ष परिग्रहे’ (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा ॥
पक्षकः पक्ष इव । ‘इवे प्रतिकृतौ’ (५.३.९६) कन् । संज्ञायां (५.३.९७) वा । (‘पक्षकस्तु पुमान्पार्श्वद्वारे च पार्श्वमात्रके’) ॥ द्वे पार्श्वद्वारस्य । प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तदुच्यते’ इति कात्यात् पूर्वान्वयी इत्यन्ये ।
पक्षतिः पक्षस्य मूलम् । ‘पक्षात्तिः’ (५.२.२५) । ‘सर्वतोऽक्तिन्नर्थात्’(वा० ४.१.४५) इति ङीषि तु पक्षती । पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथौ ।
पक्षतिः स्त्रीति । पक्षस्य मूलम् । ‘पक्षात्तिः’ (५.२.२५) ॥
पक्षद्वारम् पक्षेति । पक्षे पार्श्वे द्वारम् ।
पक्षभागः “पक्षेति । पक्षयत्यनेन । ‘पक्ष परिग्रहे’ चुरादिः । ‘पुंसि-’ (३.३.११८) इति घः । पक्षस्य, पक्ष एव वा भागः ॥”
पक्षमूलम् स्त्रीति । पक्षस्य मूलम् । ‘पक्षात्तिः’ (५.२.२५) ॥
पक्षान्तौ पक्षेति । द्वे पञ्चदश्यौ पूर्णिमामावास्ये पक्षस्यान्तौ । ।
पक्षिणी आगामिवर्तमाने च ते अहनी च । इति कर्मधारये टच् (५.३.९१) । सरेफपाठे तु समासान्तविधेरनित्यताश्रयणीया । आगामिवर्तमाने अहनी युक्ते यस्यामिति बहुव्रीहिर्वा । पूर्वापरदिने पक्षाविव स्तो यस्याम् । ‘अत इनि-’ (५.२.११५) । निशीत्युपलक्षणम् । तेन पूर्वोतररात्रियुक्तदिनमपि पक्षिणीति हरदतादयः । ‘पक्षिणी पूर्णिमायां स्याद्विहण्यां शाकिनी भिदि । आगामिवर्तमानाहर्युक्तरात्रावपि स्त्रियाम् ।
पक्षी पक्षावस्य स्तः । इनिः (५.२.११५) ॥
पङ्कः पच्यते । ‘पचि विस्तारे’ (चु० प० से०) । कर्मणि घञ् (३.३.१९) । ‘हलश्च (३.३.१२१) इति करणे वा । ‘पङ्कोऽस्त्री कर्दमे पापे’ इति मेदिनी ॥
पङ्कम् “पच्यते दुःखमनेन । ‘पचि व्यक्तीकरणे, विस्तारे वा’ (भ्वा०आ० से०) । करणे घञ् (३.३.१९) । कुत्वम् (७.३.५२) । यद्वा-पञ्चनं पङ्को व्यक्तीकरणम्, विस्तारो वा । तं करोति । ‘तत्करोति-’(वा०३१.२६) इति णिच् । ततः पचाद्यच् (३.१.१३४) । ‘पङ्कोऽघे कर्दमे’ इति हैमः ।”
पङ्किलः सजम्बेति । जम्बालेन पङ्केन सह । ‘पङ्कोऽस्मिन्नस्ति पिच्छादित्वात् । (५.२.१००) इलच् ॥
पङ्केरुहम् पङ्के रोहति । ‘रुह प्रादुर्भावे’ (भ्वा० प० अ०) । ‘इगुपध-’ (३.१.१३६) इति कः । ‘तत्पुरुषे कृति’ (६.३.१४) इत्यलुक् ॥
पङ्क्तिः पञ्चते । ‘पचि विस्तारे’(भ्वा० आ० से०) । क्तिच् (३.३.१७४) । पङ्क्तिश्छन्दःश्रेण्योः’ इति हैमः ।
पङ्गुः पनते । ‘पन स्तुतौ’ (भ्वा० आ० से०) । बाहुलकाद् गुः । स्त्रियाम् ‘पङ्गोश्च’ (४.१.६८) इत्यूङ् ॥
पचम्पचा पचति । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘पीतदारु पचंपचा’ इति निघण्टुः ॥
पञ्चजनः पञ्चभिभूतैर्जन्यते । घञ् (३.३.१९) ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः । यद्वा पञ्च जना उत्पादका यस्य
पञ्चता स्यादिति । पञ्चानां भावः । तल् (५.१.११९) । ‘पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति’ (इति मेदिनी) ॥
पञ्चमः “‘वायुः समुद्रतो नाभेरुरोहृत्कण्ठमूर्धसु । विचरन्पञ्चमस्थानप्राप्त्या पञ्चम उच्यते । तज्जन्यत्वात्स्वरः पञ्चमः । पञ्चानां पूरणः ‘तस्य पूरणे- (५.२.४८) इति डट् । “नान्तात् (५.२.४९) इति मट् । ‘पञ्चमो रागभेदे स्यात्स्वरभेदे च पञ्चमी । पाण्डवानां च, पत्न्यां स्त्री पञ्चानां पूरणे त्रिषु’ । ‘पञ्चमो रुचिरे दक्षे’ । अमी सप्त स्वरास्तन्त्रीतः कण्ठाच्चोच्चरन्ति । ‘दारवी गात्रवीणां च द्वे वीणे स्वरधारिके’ इति वचनात् वंशमुरजादयस्तु अनुकरणमात्रोपयोगिन इति भावः । नारदः-षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् ॥ अजाविकौ च गान्धारं क्रौञ्चो नदति मध्यमम् ॥ पुष्यसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः ॥ इति स्वराणां पृथक्पृथक् एकैकम् ।”
पञ्चलक्षणम् पञ्च लक्षणान्यस्य । ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् । क्वचिदिह ‘वंशानुचरितं चैव’ इति तृतीयपादे पाठान्तरम् ।
पञ्चशरः पञ्च शरा अस्य । उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा । सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ।
पञ्चशाखः पञ्चेति । पञ्च शाखा इवाङ्गुलयोऽस्य ॥
पञ्चाङ्गुलः पञ्चाङ्गुलयोऽस्य । ‘तत्पुरुषस्याङ्गुलेः -’(५.४.८६) इत्यच् । यत्तु–‘द्वित्रिभ्याम्-’(५.४.१०२) इत्ययच् इति मुकुटेनोक्तम् । तच्चिन्त्यम् ॥
पञ्चालिका
- पेति । पञ्चभिर्वर्णैरल्यते । ‘अल भूषणादौ’ (भ्वा० प० से०) । घञ् (३.३.१९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । टाप् (४.१.४) । ‘प्रत्ययस्थात्-’ (७.३.४४) ‘इतीत्वम् । ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल् वा । संज्ञापूर्वकत्वान्न वृद्धिः । ‘पाञ्चालिका’ इति पाठे पञ्चालदेशे भवा । ‘जनपदतदवध्योश्च’ (४.२.१२४) इति वुञ् । आदिवृद्धिः (७.२.११७) । ‘पाञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः’ (इति मेदिनी) ॥
पञ्चास्यः पञ्चते । ‘पचि विस्तारे’ (भ्वा० आ० से०) । पञ्च विस्तृतमास्यमस्य । यद्वा मुखं पादाश्च पञ्च आस्यानीव यस्य । युद्धे मुख्यत्वात् ॥
पटः “पटति । ‘पट गतौ’ (भ्वा० प० से०) । ‘पट विस्तारे’ (चु० उ० से०) वा । अच् (३.१.१३४) । यद्वा पठ्यतेऽनेन । ‘पट भासने’ (चु० उ० से०) ‘खनो घ च’ (३.३.१२५) इति घो षित्वादन्यस्मादपि । ‘हलश्च’ (३.३.१२१) इति घञि संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘क्वचिदपवादविषयेऽप्युत्सर्गाऽभिनिविशते’ () इति घञ् विषये ‘पुंसि-’ (३.३.११८) इति घो वा—‘घञर्थे कः’ (वा० ३.३.५८)–इति मुकुटः । तन्न । परिगणनात् । ‘पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे पुमान्’ (इति मेदिनी) । ‘अस्त्री’ इति चिन्त्यम् । द्वयोरदर्शनात् इति स्वाम्येव चिन्त्यः । उक्तरभसमेदिन्योः ‘अस्वी’ इति दर्शनात् ॥”
पटच्चरम् पेति । पटति । ‘पट गतौ’ (भ्वा० प० से०) । बाहुलकादत् । भूतपूर्वं पटत् । ‘भूतपूर्वे चरट्’ (५.३.५३) यद्वा ‘पटत्’ इत्यव्यक्तं शब्दं चरति करोति । अच् (३.१.१३४) । यद्वा पट इवाचरति । ‘सर्वप्रातिपदिकेभ्यः क्विब्वा’ (वा० ३.१) शत्रन्ताच्चरट् (५.३.५३) ॥
पटलप्रान्तः पटलस्य छदिषः प्रान्ते ॥ त्रीणि पटलप्रान्ते गृहाच्छादनस्य ।
पटलम् अथेति । पटं लाति । ला दाने (अ० प० अ०) । ‘आतो ऽनुप- (३.२.३) इति कः । पटति उदकं वा । ‘पट गतौ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । वृषादिः (उ० १.१०६) । ‘पटलं तिलके नेत्ररोगे छदिषि संचये । पिटके परिवारे च’ इति हैमः ।
पटवासकः पटो वास्यतेऽनेन । ‘वास उपसेवायाम्’ चुरादिः । घः (३.३.११८) । स्वार्थे कन् (ज्ञापि० ५.४.५) । पटं वासयति । ‘कर्मण्यण्’ (३.२.१) वा । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
पटहः आनक इति ॥ पटेन हन्यते । डः (वा० ३.२.१०१) । ‘पट’ इति शब्दं जहाति । ‘आतोऽनुप-’ (३.२.३) इति कः इति वा । ‘पटहो ना समारम्भे आनके पुंनपुंसकम् । अस्त्रीति पूर्वान्वयि । ‘उपवासं गृहं देहं लोहं पटहमित्यपि इति पुंनपुंसकाधिकारे चन्द्रगोम्युक्तेः ।
पटहः पेति । पटं हन्ति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘पटहो ना समारम्भे आनके पुंनपुंसकम् ॥ (इति मेदिनी) ॥
पटुः
- पाटयति । णिजन्तः । ‘फलिपाटि-’ (उ० १.१८) इति साधुः । ‘पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान्क्लीबे छत्रालवणयोरपि’ (इति मेदिनी) ॥
पटुः पाटयति । ‘पट गतौ’ (भ्वा० प० से०) । ‘फलिपाटि-’ (उ० १.१८) इत्युः पटिरादेशश्च । ‘पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि’ (इति मेदिनी) ॥
पटुपर्णी पट्विति । पटूनि पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
पटोलः “पटति । ‘पट गतौ’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । ‘कपिगडिगण्डि-’ (उ० १.६६) इत्योलच् । ‘पटोलं वस्त्रभेदे, नौषधौ ज्योत्स्न्यां तु योषिति’ (इति मेदिनी) ॥”
पटोलिका पटति । ‘पट गतौ’ (भ्वा० प० से०) । ‘कपिगडिगण्डि-’ (उ० १.६६) इत्योलच् । गौरादिः (४.१.४१) । स्वार्थे कन् (१.३.७५) । ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति’ (इति मेदिनी) ॥
पट्टिकाख्यः पट्टिका आख्या यस्य ॥
पट्टी पट्टोऽस्यास्ति । ‘अत इनि -’ (५.२.११५) । ‘पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः’ ॥ यद्वा पट्टिशब्दात् क्तिजन्तान्ङीष् (ग० ४.१.४५) । (‘पट्टिः स्त्रीपट्टभेदे स्याल्ललाटे क्रमुकद्रुमे । ‘पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादने’ इति टवर्गान्ते विश्वः) ॥
पणः
- पण्यते । ‘नित्यं पणः परिमाणे’ (३.३.६६) इत्यप् । ‘पुंसि-’ (३.३.११८) इति घो वा । ‘पणो वराटमाने स्यान्मूल्ये कार्षापणे | ग्लहे । क्रय्यशाकादिके द्यूतव्यवहारे भृतौ धने’ (इति मेदिनो) ॥
पणः
- पणो ग्लहोऽस्त्यस्मिन् । अर्श आद्यच् (५.२.१२७) ॥
पणः
- पेति । पण्यते उत्सृज्यते । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘नित्यं पणः’ (३.३.६६) इति योगविभागादप् ॥
पणः पणः ।
पणवः पणं व्यवहारं वाति गच्छति । कः (३.२.३)
पणितव्यम् पण्यते । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘तव्यत्तव्यानीयरः’ (३.१.९६) ॥
पण्डः “पण्डते । ‘पडि गतौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । यद्वा पणते । ‘पण व्यवहारे स्तुतौ’ (भ्वा० आ० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘पण्डः षण्ढे, धियि स्त्री स्यात्’ (इति मेदिनी) ॥”
पण्डितः पण्ड्यतेऽनया । ‘पडि गतौ’ (भ्वा० आ० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः । ‘पण्डः षण्डे धियि स्त्री स्यात्’ (इति मेदिनी) । पण्डा जातास्य । तारकादित्वात् (५.२.३६) इतच् । यद्वा पण्डते स्म । ‘गत्यर्था–’ (३.४.७४) इति क्तः । इट् (७.३.३५) ॥
पण्यम् ‘अवद्यपण्य (३.२.१०१) इति साधु ॥
पण्यवीथिका पण्यानां वीथी । स्वार्थे कन् (५.३.७५) ॥ द्वे हट्टशून्यविक्रयस्थानस्य । हट्टमार्गस्य इति स्वामी । ‘आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्’ इति शाश्वतः । आपणः पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्’ इति रभसः । द्वयं क्रय्यवस्तुशालापङ्क्तेः ।
पण्या पण्यते । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘अवद्यपण्य-’ (३.१.१०१) इति साधुः ॥
पण्याजीवः पण्यते । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘अवद्यपण्य-’ (३.१.१०१) इति साधुः । पण्यमाजीवो यस्य ॥
पतगः पतेन पक्षेण गच्छति । डः (वा० ३.२.४८) ॥
पतङ्गः समाविति । पतति । ‘पतेरङ्गच् पक्षिणि’ (उ० १.११९) इत्यङ्गच् । ‘पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः । क्लीबं सूते’ इति विश्वमेदिन्यौ ॥
पतङ्गिका पेति । पतति । ‘पतेरङ्गच् पक्षिणि’ (उ० १.११९) इत्यङ्गच् । स्वार्थे कन् (५.३.७५) संज्ञायां वा ॥
पतत् पतति । ‘पत्लृ गतौ’ (भ्वा० प० से०) । शता (३.२.१२४) ॥
पतत्रम् पतन्तं त्रायते । ‘त्रैङ् रक्षणे’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । पतेर्बाहुलकादत्रन् वा ॥
पतत्रिः “पतति । ‘पतेरत्रिन्’ (उ० ४.६९) । -‘उणादयो बहुलम्’ (३.३.१) इति पतेरत्रिः-इति मुकुटः, एतत्सूत्राज्ञानमूलकः ॥”
पतत्री पतत्त्रमस्त्यस्य । इनिः (५.२.११५) ॥
पतद्ग्रहः पततो ग्रहः ॥
पताका पेति । पतति पत्यतेऽनया वा । ‘पत्लृ गतौ’ (भ्वा० प० से०) । ‘बलाकादयश्च’ (उ० ४.१४) इत्याकः) । यत्तु ‘शलिपदिपतिभ्यो नित्) (उ० ४.१४) इत्याकः-इति मुकुटः । तन्न । अपाणिनीयत्वात् । ‘पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङ्गयोः’ इति विश्वमेदिन्यौ ॥
पताकिन् पेति । पताकास्यास्ति । व्रीह्यादीनिः (५.२.११५) ॥
पतिंवरा एवं पतिं वृणोति ॥
पतिः पाति । ‘पा रक्षणे’ (अ० प० अ०) । ‘पातेर्डतिः’ (उ० ४.५७) ॥
पतिवत्नी पतीति । पतिरस्त्यस्याः । मतुप् (५.२.९४) । ‘अन्तर्वत्पतिवतोर्नुक्’ (४.१.३२) इति साधुः ॥
पतिव्रता पत्यौ व्रतं नियमोऽस्याः । पतिर्व्रतमस्याः । पतिशब्दः पतिसेवायां लाक्षणिकः ॥
पत्तनम् पक्षे क्लीबत्वं पत्तनसाहचर्यात् । पतन्ति जना यत्र । ‘वीपतिभ्यां तनन्’ (उ० ३.१५०) । ‘पट्टनं पुटभेदनम्’ इति वाचस्पतिः । बाहुलकात् पटेरतनन् ॥
पत्तिः पद्यते । ‘पद गतौ’ (दि० आ० अ०) । बाहुलकात्तिः । क्तिच् (३.३.१७४) वा । ‘पत्तिः सेनाभिपद्गयोर्गतौ’ इति हैमः ॥
पत्तिः “एकेति । एक इभो यस्याम् । एको रथो यस्याम् । त्रयोऽश्वा यस्याम् । पञ्च पदातयो यस्याम् । पद्यते । ‘पद गतौ’ (दि० आ० अ०) । पत्यते वा । ‘पत्लृ गतौ’ (भ्वा० प० अ०) ‘स्त्रियां क्तिन्’ (३.३.९४) क्तिच् (३.३.१७४) वा । ‘पतिर्ना पदगे, स्त्रियाम् । गतावेकरथैकेभत्र्यश्वपञ्चपदातिके’ (इति मेदिनी) । भरतः -‘एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते’ ॥”
पत्तिसंहतिः पत्तीनां संहतिः॥
पत्नी पत्नीति । पत्युर्यज्ञे संयोगो यया । दम्पत्योः सहाधिकारात् । ‘पत्युर्नो यज्ञसंयोगे’ (४.१.३३) ॥
पत्रपरशुः
- पत्त्रमिव परशुः ॥
पत्रपाश्या पत्त्रेति । पाशसमूहः पाश्या पत्त्रमिव पाश्या ॥
पत्रम् पत्रमिति । पतति । ‘पत्लृ गतौ’ (भ्वा० प० से०) । ष्ट्रन् (उ० ४.१५९) । ‘पत्त्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः’ ॥
पत्रम् पतत्यनेन । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रुन् । ‘पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः’ इति मेदिनी ॥
पत्रम् पतन्त्यनेन ‘पत्लृ गतौ’ (भ्वा० प० अ०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् । ‘पत्त्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः’ (इति मेदिनी) ॥
पत्ररथः पत्त्रं पतत्त्रं रथ इव यस्य ॥
पत्रलेखा पेति । पत्राकारा लेखा । शाकपार्थिवादिः (वा० २.१.६०) ॥
पत्राङ्गम् पत्त्रमेवाङ्गमस्य । पत्त्रेष्वङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पत्त्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने’ (इति मेदिनी) ॥
पत्राङ्गम् पेति । पत्राण्यङ्गेऽस्य । ‘पत्त्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने’ इति विश्वः (मेदिनी) ॥
पत्राङ्गुलिः पत्रार्थोऽङ्गुलिरङ्गुलिव्यापारः ॥ समे स्त्रियाम् ।
पत्रिन् पत्राणि पक्षाः सन्त्यस्य । इनिः (५.२.११५) । ‘पत्त्री | काण्डे खगे द्रुमे । रथेऽद्रौ रथिके श्येने’ इति हेमचन्द्रः ॥
पत्री ‘अतिशयितं प्रशस्तं वा पत्रमस्य । ‘अतः-’ (५.२.११५) इतीनिः । ‘श्येनाख्यो विहगः पत्त्री पत्रिणौ शरपक्षिणौ’ इति शाश्वतः ॥
पत्री एवं पत्त्री । ‘पत्त्री श्येने पत्त्ररथे काण्डद्रुरथिकादिषु’ (इति मेदिनी) ॥
पत्रोर्णः पत्रे ऊर्णाऽस्य । ‘पत्रोर्णं धौतकौशेये क्लीबं स्याच्छोणके पुमान् ॥
पत्रोर्णम् पेति । पत्त्रेषु कृतोर्णा पत्त्रोर्णास्त्यत्र । अर्शआद्यच् (५.२.१२७) ‘पत्त्रोर्णं धौतकौशेये पत्त्रोर्णः शोणकद्रुमे’ इति हैमः ॥
पथिकः पथः ष्कन्’ (५.१.७५) । षित्वात् ङीष् (४.१.४१) पथिकी ॥
पथ्या पथोऽनपेता । ‘धर्मपथ्यर्थन्यायादनपेते’ (४.४.९२) इति यत् । ‘पथ्या स्त्री हरीतक्यां हिते त्रिषु’ इति मेदिनी ॥
पदगः पादाभ्यां गच्छति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति ङः । ‘पादस्य-’ (६.३.५२) इति पदः ॥
पदवी पद्यतेऽनया । ‘पद्यटिभ्यामविः’ । ‘कृदिकारात्- (ग० ४.१.४५) इति ङीष् ।
पदाजिः पेति । पादाभ्यामतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘अज्यतिभ्यां च’ (उ० ४.१३०) ‘पादे च’ (उ० ४.१३१) इतीण् । ‘पादस्य पदाज्यातिगोपहतेषु’ (६.३.५२) इति पदः ॥ (१) एवं पदाजिः ॥
पदातिः पेति । पादाभ्यामतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘अज्यतिभ्यां च’ (उ० ४.१३०) ‘पादे च’ (उ० ४.१३१) इतीण् । ‘पादस्य पदाज्यातिगोपहतेषु’ (६.३.५२) इति पदः ॥
पदिकः पादाभ्यां चरति । ‘पर्पादिभ्यः ष्ठन्’ (४.४.१०) । ‘इके चरतौ’ (वा० ६.३.५३) इति पद्भावः ॥ पादातशब्दोऽप्यत्र । ‘पदातिपत्तिपादातपादाविकपदाजयः’ इत्यमरमाला । यत्तु मुकुटेनोक्तम् —मूलविभुजादिके पादातः -इति । तन्न । ‘पादाभ्यां अतति’ इति विग्रहेण पचाद्यचा गतार्थत्वात् ।
पद् पद्यते । क्विप् (३.२.१७८) । स्वामी तु-‘पदोंऽह्निः’-इति पठन् दान्तं न मन्यते । ‘पद्दन्नस्-’ (६.१.६३) इत्यादेशविधानाज्ज्ञापकात् । अन्ये तु पादादेश एवायं पठितः -इत्याहुः । प्रभृतिग्रहणस्य प्रकारार्थत्वेन शसाद्यनन्तर्भूतेऽपि तत्प्रवृत्तेः सम्भवात् । अत एव औङः श्याम् ‘ककुद्दोषणी’ इति (प्रकृतसूत्रे) भाष्योदाहरणमपि संगच्छते । पद्यतेऽनेन । ‘खनौ घ च’ (३.३.१२५) इति घो घित्करणात् ‘अन्यतोऽपि’ इति पदशब्दोऽन्तः स्वाम्युक्तः ॥
पद्गः पभ्द्यां गच्छति । पादेन समानार्थः पच्छब्दोऽस्ति । डः (वा० ३.२.४८) ॥
पद्धतिः पादाभ्यां हन्यते । ‘हन हिंसागत्योः (अ० प० अ०) । क्तिन् (३.३.९४) । हिमकाषिहतिषु च’ (६.३.५४) इति पद्भावः । ‘पद्धतिः पथि पङ्क्तौ च’ इति हैमः ।
पद्मः पद्मा लक्ष्मीरस्मिन्नस्ति । अर्शआद्यच् (५.२.१२७)
पद्मकम् पेति । पद्ममिव । ‘इवे प्रति-’ (५.३.९६) इति कन् । ‘पद्मकं स्यात्पद्मकाष्ठविन्दुजालकयोरपि’ (इति मेदिनी) ॥
पद्मचारिणी पद्मे चरितं शीलमस्याः । “सुपि-’ (३.२.७८) इति णिनिः ॥
पद्मनाभः पद्मं नाभौ यस्य । (गड्वादित्वात् (वा० २.२.३५) सप्तम्याः परनिपातः) । ‘अच् प्रत्यन्वव’- (५.४.७५) इत्यत्र अच् इति योगविभागादच् ॥
पद्मपत्रम् पद्मस्येव पत्रमस्य ॥ ‘पद्मवर्णम्’ इति क्वचित् पाठः ॥
पद्मम् “वेति । पद्यते । ‘पद गतौ’ (दि० आ० अ०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् । ‘पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीपत्रगीषु च’ ॥”
पद्मरागः पद्ममिव रागोऽस्य । ‘अनेकमन्य-’ (२.२.२४) इति समासः ॥
पद्मा पद्ममस्त्यस्याः । अर्शआद्यच् (५.२.१२७) ‘पद्मोऽस्त्री पद्मके व्यूहे निधिसंख्यान्तरेऽम्बुजे । ना नागे स्त्री फञ्जिकाश्रीचारटीपन्नगीषु च’ ।
पद्मा पद्यते । ‘पद गतौ’ (दि० आ० अ०)। ‘अर्तिस्तु-’ (उ० १.१४०) इति मन् ॥
पद्मा “पद्माभं पुष्पमस्याः । ‘पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीपन्नगीषु च’ (इति मेदिनी) ॥”
पद्माकरः पद्मेति । पद्मानामाकरः ।
पद्माटः पद्ममिव पद्मां वा पद्मसमूहं वाऽटति । ‘अट गतौ’ (भ्वा० प० से०) । अण् (३.२.१) ॥
पद्मालया पद्ममालयोऽस्याः ।।
पद्मिनी एवं पद्मिनी । मुखशब्दादाद्यर्थात् मृगालिनी कमलिनी पुटकिनीत्यादयः । ‘पद्मिनी पद्मसंघाते स्त्रीविशेषे सरोऽम्बुजे इति मेदिनी । ‘पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च’ इति हैमः । (३) त्रीणि पद्मसंघातस्य । कमलिन्यां इत्यन्ये ।
पद्मी पद्मं बिन्दुजालमस्त्यस्य । इनिः (५.२.११५) ॥
पद्या पादाय हिता । ‘शरीरावयवाद्यत् (५.१.६) । ‘पद्यत्यतदर्थे’ (६.३.५३) इति पद्भावः । ‘पदमस्मिन्दृश्यम्’ (४.४.८७) इति वा ॥
पनसः पनेति । पनाय्यते स्तूयते । ‘वेतसवाहस-’ इत्यसजन्तो निपातितः । ‘पनसः कण्टकिफले कण्टके वानरान्तरे । स्त्रियां रोग प्रभेदे स्यात्’ इति मेदिनी ॥ ‘पणसः’ इत्यपि पाठः ॥
पन्थाः “पथन्तेऽनेन । ‘पथे गतौ’ (भ्वा० प० से०) । ‘पथिमथिभ्यामिनिः पतन्त्यनेन इति वा । ‘पतेस्थश्च’ इतीनिः, थोऽन्तादेशश्च ॥ ‘पथः’ इत्यदन्तोऽपि । ‘वाटः पथश्च मार्गश्च’ इति त्रिकाण्डशेषः ।”
पन्नगः पन्नं पतितं यथा तथा गच्छति । ‘सर्वत्रपन्नयोः’ (वा० ३.२.४८) इति डः । ‘पन्नगश्चौषधीभेदे तथैव पवनाशने ।
पन्नगाशनः पन्नगानश्नाति । अश भोजने’ (आ० प० से) ल्युः (३.१.१३४) पन्नगा अशनं यस्येति वा ‘।
पयः “पयते पीयते, वा । ‘पय गतौ’ (भ्वा० आ० से०) । ‘पीङ् पाने (दि० आ० अ०) । वा असुन् (उ० ४.१८९) । पयः क्षीरे च नीरे च’ इति हैमः ।”
पयः पीयते । ‘पीङ् पाने’ (भ्वा० आ० अ०) । पयते वा । ‘पय गतौ’ (भ्वा० आ० से०) । असुन् (उ० ४.१.८९) । ‘पयः क्षीरे च नीरे च’ इति हैमः ॥
पयस्यः पेति । पयसो विकारः । ‘गोपयसोर्यत्’ (४.३.१६०) ॥ आज्यं च दधि चादिर्यस्य । आदिना तक्रं नवनीतं च ।
परः पिपर्ति रोषम् । ‘पॄ पालनपूरणयोः (जु० प० से०) । अच् (३.१.१३४) ॥
परजातः
- परस्माज्जातः । परपोषित्वात् । ‘पराजितः’ इति पाठे परैराजीयते स्म । ‘त्रि अभिभवे’ (भ्वा० प० अ०) । क्तः (३.२.१०२) । यद्वा परेषामाजः क्षेपणं जातोऽस्य । तारकादिः (५.२.३६) ॥
परभृतः परेण काकेन भृतः ॥
परभृत् परं बिभर्ति । ‘डुभृञ्’ (जु० उ० से०) । क्विप् (३.२.७५) ॥
परमम् “- परं मिनीते, मिनोति, मीनाति वा । डम् । ‘ओमेवं परमं भवेत्’ इत्यव्ययकाण्डे व्याडिः ॥”
परमान्नम् पेति । परमं च तदन्नं च । ‘सन्महत्-’ (२.१.६१) इति समासः । यद्वा परमाणामुत्तमानामन्नम् ॥
परमेष्ठी “परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । ‘परमे स्थः कित्’ (उ० ४.१०) इतीनिः । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्यलुक् । ‘स्थास्थिन्स्थॄणाम्’ (वा० ८.३.९७) इति षत्वम् ॥”
परम्पराकम् पेति । अकनम् । आकः । परम्पराया आकम् । अक कुटिलायां गतौ” (भ्वा० प० से०) । भावे घञ् (३.३.१८) । अञ्चतेर्घञ् वा । यद्वा ‘परम्’ अतिशयेऽव्ययम् । परं परः श्रेष्ठ आकोऽस्य । अस्माद्वा ॥
परशुः परं शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) आङ्परयोः | खनिशॄभ्यां डिच्च’ (उ० १.३३) इति कुः ॥
परश्वः
- परं च तच् श्वश्च । श्वः परं वा । राजदन्तादिः (२.२.३१) ॥
परश्वधः परस्य श्वयनम् । ‘टु ओश्वि गतिवृद्धयोः’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०२) इति ङः । परश्वं धयति । ‘आतोऽनुप-’ (३.२.३) इति कः । (‘पर्श्वघः’) अपि - यदाह ‘यष्टिपर्श्वहेतिकौ’ इति–इति स्वामी । ‘परस्वधः’ इति पाठे तु परस्य स्वं दधाति । काष्ठदण्ड- धारकत्वात् । ‘कुठारः स्त्री च स्वधितिः परशुश्च परश्वधः । कुटाटङ्कः पशुः’ । ‘अथ छुरिका कोशशायिका’ इति रभसः ॥
परस्परपराहतम् पराऽघानि । हन्तेः कर्मणि क्तः (३.२.१०२) । परस्परेण पराहतम् ॥ ‘माता मे वन्ध्या’ इतिवत् ॥
पराक्रमः पराक्रम्यतेऽनेन । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘पराक्रमो विक्रमे स्यात्सामर्थ्योद्योगयोरपि’ इति विश्वः ॥
परागः पराग इति । परा गच्छति । ‘गम्लृ गतौ (भ्वा० प० अ०) । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः । ‘परागः सुमनोरेणौ धूलीस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपरागे च चन्दने’ ।
पराचितः
- पेति । परेणाचितः । ‘चिञ् चयने’ (स्वा० उ० अ०) । क्तः (३.२.१०२) ॥
पराजयः पराजनयम् । ‘जि अभिभवे’ (भ्वा० प० अ०) । ‘एरच्’ (३.३.५६ ॥
पराजितः पेति । परा जीयते स्म । परैराजीयते स्म वा । ‘जि अभिभवे’ (भ्वा० प० अ०) । क्तः (३.२.१०२) ॥
पराभूतः पराभूयते स्म । क्तः (३.३.१०२) ॥
परारि परारि
परासनम् ‘असु क्षेपणे’ (दि० प० से०) ॥
परासुः पेति । परागता असवोऽस्मात् ॥
परास्कन्दी
- परान् आस्कन्तुं शीलमस्य । ‘स्कन्दिर् गत्यादौ’ (भ्वा० प० अ०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
परिकर्मन्म् क्वचित् ‘पर्यङ्किका परिकरः पर्यङ्कश्चावसक्थिका । अञ्चलं त्वंशकान्ते स्यान्नीवी सारसनश्च यः’ ॥ पेति । परि मलवर्जनार्था क्रिया परिकर्म स्नानोद्वर्तनादि । ‘प्रतिकर्म’ इति क्वचित्पाठः ॥
परिखा “परितः खन्यते, इति । अन्येभ्योऽपि (वा० ३.२.१०१) इति डः । (२) द्वे दुर्गादिपरितः खातस्य ।”
परिघः पेति । परितो हन्यतेऽनेन । ‘परौ घः’ (३.३.४) इति साधुः ‘परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च’ इति हैमः ॥
परिघातिन् परितो घातयत्यनेन । ल्युट् (३.३.११७) ॥
परिचरः परितश्चरति । अच् (३.१.१३४) ॥
परिचर्या परिचरणम् । ‘-परिचर्यापरिसर्या-’ (वा० ३.३.१०१) इति परिचर्या निपात्यते । ‘परिचर्यानुपसर्येष्टिः’इति भागुरिः ॥
परिचाय्यः य इति । दक्षिणाग्नित्वेन संस्क्रियते । आनीयते आनाय्योऽनित्ये’ (३.१.१२७) इति साधुः । यस्तु भ्राष्ट्रवैश्यकुलयोनिः स ‘आनेयः ।
परिचारकः
- परिचरति । ‘चर गत्यादौ’ (भ्वा० प० से० ) । ण्वुल् (३.१.१३३) ॥
परिणयः परिणयनम् । ‘एरच्’ (३.३.५६) ॥
परिणायः
- पेति । परितो वामदक्षिणतो नयनम् । ‘णीञ्’ (भ्वा० उ० अ०) । ‘परिन्योः-’ (३.३.३७) इति घञ् ॥
परिणाहः पेति । परिणह्यतेऽनेन । घञ् (३.३.१९) ॥
परितः ‘पर्यभिभ्यां च’ (५.३.९) इति परिशब्दात्तसिल् ॥
परिदानम् पेति । परिवृत्य दानम् । क्वचित् ‘प्रतिदानम्’ इति पाठः ॥
परिदेवनम् परिदेवनम् । दिवु परिदेवने’ (चु० अ० से०) चुरादिः । ल्युट् (३.३.११५) ॥ युचि (३.३.१०७) ‘परिदेवना’ अपि ॥
परिधानम् परिधीयते । ‘डुधाञ् धारणे’ (जु० उ० अ०) । ‘कृत्यल्युटः’ (३.३.११३) इति ल्युट् ॥
परिधिः परितो धीयतेऽनेन । ‘उप-’ (३.३.९२) इति किः । (‘परिधिर्यज्ञियतरोः शाखानामुपसूर्यके’) ।।
परिधिस्थः पेति । परिधौ सेनान्ते तिष्ठति । ‘सुपि-’ (३.२.४) इति कः ॥
परिपणः परिपण्यते वृद्ध्यर्थं प्रयुज्यते । ‘पुंसि-’ (३.३.११८) इति घः॥
परिपन्थी परि दोषाख्याने पन्थयितुं शीलः । ‘पथि गतौ’ चुरादिः । णिनिः (३.२.७८) । ‘परि’ शब्दश्च प्रकृते ‘दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे’ (इति मेदिनी) ॥
परिपाटी पारिपाटनम् । ‘पट गतौ’ (भ्वा० प० से०) । स्वार्थण्यन्तः । ‘अच इः’ (उ० ४.१३९) । द्विवचनत्वान्न यण् ॥
परिपूर्णता परितः पूर्यते स्म । ‘पूरी आप्यायने’ (दि० आ० से०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः । ‘रदाभ्याम्-’ (८.२.४२) इति निष्ठानत्वम् । परिपूर्णस्य भावः । तल् (५.१.११९) ॥
परिपेलवम् परितः पेलवं मृदु ॥
परिभवः ‘परौ भुवः’ (३.३.५५) इति घञो वैकल्पिकत्वात् ‘ऋदोरप्’ (३.३.५७) । (परापूर्वकादपि भुवोऽपि पराभवः । ‘पराभवस्तिरस्कारे नाशे’ इति हैमः । ‘व्रजन्ति ते मूढधियः पराभवम्’ इति प्रयोगश्च)
परिभाषणम् य इति । उपालम्भो द्वेधा । गुणाविष्करणपूर्वको निन्दापूर्वकश्च । आद्यो यथा महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु ‘बन्धकीसुतस्य तवोचितमेवेदम्’ इति । तत्र यो द्वितीयः स परिभाषणम् । ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । ल्युट् (३.३.११५) ॥ अप्रत्यये (३.३.१०२) ‘परिभाषा’ अपि । ‘परिभाषाश्च ततो भविष्यन्ति’ इति ‘हेतुमति च’ (३.१.२६) इति सूत्रे भाष्यात् । ’परिभाषणं सनिन्दोपालम्भे नियमेऽपि च’ ।
परिमलः “विमर्दोत्थ इति । सुरतादिविमर्दोत्थे माल्यादिगन्धे, घर्षणसमुद्भवे चन्दनादिगन्धे, च जनानां मनोहरे, परिमलः । ‘मल धारणे (भ्वा० आ० से०) । मल्यते । कर्मणि घञ् (३.३.१९) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘खनो घ च’ (३.३१२५) इति घो वा । घित्करणात् ‘अन्येभ्योऽपि’ इत्यभ्युपगमात् । यद्वा मलते धारयति जनमनांसि पचाद्यच् (३.३.१३४) । ‘स्यात्परिमलो विमर्दातिमनोहरगन्धयोश्चापि । सुरतोपमर्दविक सच्छरीरसङ्गादिसौरभे पुंसि ।”
परिवर्जनम् ‘वृजी वर्जने’ (रु० प० से०) ॥
परिवादः ‘उपसर्गस्य घञि’ (६.३.१२२) इति (वा) दीर्घः ।‘परिवादोऽपवादे स्याद्वीणावादनवस्तुनि ।
परिवादिनी सेति । सैव सप्तभिस्तन्त्रीभिरुपलक्षिता परिवदति स्वरान् । सुपि’ (३.२.७८) इति णिनिः ॥
परिवित्तिः पेति । परि वर्जनं विन्दति लभते । क्तिच् (३.३.१७४) ॥तस्य परिवेत्तुः । ज्यायान् ज्येष्ठः॥
परिवेत्ता पेति । परिविन्दति ज्येष्ठं परित्यज्य भार्यां लभते । ‘विद्लृ लाभे’ (तु० उ० अ०) । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) ॥
परिवेषः परितो विष्यतेऽनेन । विष्लृ व्याप्तौ’ (जु० उ० अ०) । घञ् (३.३.१८) । ‘परिवेषः स्यात्परिधौ परिवेषणे’ इति मूर्धन्यान्ते रुद्रः । ‘विश प्रवेशने’ (तु० प० अ०) । अस्माद्धञि तु तालव्यान्तः । ‘वेष्टने परिवेशः स्याद्भानोः सविधमण्डले’ इति तालव्यान्ते रभसः ।
परिव्याधः द्वाविति । परिविध्यते । ‘व्यध ताडने’ (दि० प० अ०) । घञ् (३.३.१९) । ‘परिव्याधस्तु पुंसि स्याद्वेतसे च द्रुमोत्पले’ ॥
परिव्याधः परिविध्यति । ‘व्यध ताडने’ (दि० प० अ०) । श्याद्व्यधा-’ (३.१.१४१) इति णः । ‘परिव्याधस्तु पुंसि स्याद्वेतसे च द्रुमोत्पले’ इति मेदिनी ॥
परिव्राज् परित्यज्य सर्वं व्रजति । ‘व्रज गतौ’ (भ्वा० प० से०) । ‘परौ व्रजेः षः पदान्ते’ (उ० २.५९) इति क्विप् दीर्घश्च पदान्तविषये षत्वं च ।-विण्-इति तु स्वामिनः प्रमादः । उणादौ विणोऽ– प्रकृतत्वात्॥
परिषद् “परितः सीदन्त्यस्याम् ।‘षद्लृ विशरणादौ” (भ्वा०, तु० प० अ०) । सम्पदादि क्विप् (वा० ३.३.१०८) । ‘सदिरपतेः(८.३.६६) इति षत्वम्॥‘बाहुलकात्परेरन्त्यलोपे पर्षद्’ च ॥”
परिष्कारः अलमिति । अलंक्रियतेऽनेन । घञ् (३.३.१९) । ‘अलङ्कारः कङ्कणादिषु । उपमादौ’ इति हैमः ॥ एवं परिष्कारोऽपि ॥
परिष्कृतः परिष्क्रियते स्म । क्तः (३.२.१०२) । ‘सम्पदिभ्याम्-’ (६.१.१३७) इति सुट् । ‘परिनिविभ्यः –’ (८.३.७०) इति षत्वम् ॥
परिसरः परितः सरन्त्यत्र । ‘पुंसि (३.३.१८) इति घः । (‘परिसरः प्रान्तभूदैवर्योमृतौ’)
परिसृता
- भागुरिमते टापि ‘परिसृता’ । यद्वा परितः सूयते स्म लोकैः । ‘सृ गतौ’ (भ्वा० प० अ०) । क्तः (३. २.१०२) । ‘परिस्रुता स्त्री वारुण्यां स्यन्ने स्यादभिधेयवत्’ (इति मेदिनी) ॥
परिस्कन्दः
- परिस्कन्दति । ‘स्कन्दिर् गत्यादौ’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । ‘परेश्च’ (८.३.७४) इति वा षत्वम् ॥
परिस्तोमः परिस्तूयते । ‘ष्टुञ् स्तुतौ’ (अ० उ० अ०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् । परिगतः स्तोमोऽत्र । वर्णस्तोमवत्त्वात् । यद्वा - परिगतः सोमोऽत्र । ‘यत्क्रियायुक्ताः (तं प्रति)’ (वा० १.४.५९) इति परेः स्तौतिं प्रत्यनुपसर्गत्वान्न षः (८.३.६५) ॥
परिस्पन्दः परिस्पन्दनम् । ‘स्पदि किञ्चिच्चलने’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । अधिकरणे (३.३.१९) च । ‘परिस्यन्दः’ इति वा पाठः । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) ॥
परिस्रुत्
- परितः स्रवति । ‘स्रु स्रवणे’ (भ्वा० प० से०) । क्विप् (३.३.७६) । तुक् (६.१.७१) ॥
परीभावः ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः ।
परीवर्तः परिवर्तनम् । भावे घञ् (३.३.१८) । ‘उपसर्गस्य-’ (६.३.१२२) इति दीर्घः ॥
परीवाहः “परीवाहो जलोच्छ्वासे महीभृद्योग्यवस्तुनि’ ॥ (२) द्वे प्रवृद्धजलस्य निर्गममार्गस्या । समधिकजलस्य सर्वतो वहनस्य वा ।
परीष्टिः पक्षे क्तिन् (३.३.९४) । ‘परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम्’ इति मेदिनी॥
परीहासः परिहसनम् । ‘हसे हसने’ (भ्वा० प० से०) । घञ् (३.३.१८) । ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः ॥
परुत्
- पूर्व वर्षे परुत् । ‘सद्यःपरुत्-’ (५.३.२२) इति साधुः ॥
परुषम् पिपर्ति पूरयति अलंबुद्धिं करोति । ‘पॄ पालनपूरणयोः (जु० प० से०) । ‘पॄनहि-’ (उ० ४.७५) इत्युषच् । ‘परुषं कर्बुरे रूक्षे स्यान्निष्टुरवचस्यपि’ इति हैमः ॥
परुष् “पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘अर्तिपृवपि-’ (उ० २.११७) इत्युस् ॥ बाहुलकादुप्रत्यये उदन्तोऽपि । ‘मज्जा सारो, ग्रन्थिः परुः, परागः कुसुमरेणुः’ इति पुंस्काण्डे रत्नकोषात् ॥”
परेतः परं लोकमितः । परा दूरमितो वा । ‘परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान्’ (इति मेदिनी) ॥
परेतराट् परेतेषु मृतेषु राजते । ‘सत्सूद्विष-’(३.२.६१) इति क्विप् । जान्तः ।
परेद्यवि – परेद्यवि ।
परेष्टुका “परमिच्छति । परैरिष्यते, वा । बाहुलकात्तुः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥”
परैधितः
- परैरेधितः संवर्धितः ॥
परोष्णी पेति । परं शत्रु उष्णं यस्याः । गौरादिः (४.१.४१) । ‘जातेः’ (४.१.६३) ‘इति ङीष्-’ इति मुकुटः । तन्न । ‘स्त्रीत्वाविष्टा जातिरियम्’ इति स्वयमेव व्याख्यातत्वेन ‘अस्त्रीविषयात्-’ (४.१.६३) इति ङीषो निषेधात् ॥
पर्कटी पृच्यते । ‘पृची सम्पर्के’ (रु० प० से०) । बाहुलकात् कटः । गौरादिङीष् (४.१.४१) । ‘पर्कटी नूतनफले पूगादेः प्लक्षपादपे’ । शाश्वतेऽपि ‘विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः’ ॥
पर्जनी पिपर्ति । ‘पॄ पालनपुरणयोः (जु० प० से०) । विच् (३.२.७५) । पर् चासौ जनी च । परं पालकं स्वास्थ्यं जनयति वा । ‘जनी प्रादर्भावे’ (दि० आ० से०) । ण्यन्तः । ‘कर्मण्यण् (३.२.१) ॥
पर्णः पृणति । ‘पृण प्रीणने (तु० प० से०) । अच् (३.१.१३४) । यद्वा प्रशस्तानि पर्णान्यस्य । अर्शआद्यच् (५.२.१२७) । यद्वा पिपर्ति । ‘पृ पालनपूरणयोः’ (जु० प० से०) । ‘कृपृवृषिभ्याञ्भ्यो नः । ‘पर्णं पत्रे किंशुके ना’ ॥
पर्णम् पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘कॄपॄविषिधाभ्यो नः’ । यद्वा पृणति । ‘पृण प्रीणने (तु० प० से०) । पचाद्यच् (३.१.१३४) । यद्वा पर्णयति । हरितभावे (चु० उ० से०) । पचाद्यच् (३.१.१३४) । यत्तु मुकुटः - पिपर्ति प्रीणयति । ‘पॄ प्रीणने’ । पचाद्यचि (३.१.१३४) वा पर्णम् इत्याह । तन्न । असम्भवात् । ‘पर्णस्त्रिपर्णे पर्णं तु पत्त्रे’ इति हैमः ॥
पर्णशाला मुनीनामिति । पर्णनिर्मिता शाला । शाकपार्थिवादिः (वा० २.१.६०) ॥
पर्णासः अथेति । पर्णान्यस्यति । ‘असु क्षेपणे’ (दि० प० से०) । ‘कर्मण्यण्’ (३.२.१) । यद्वा पर्णैरसति । ‘अस दीप्तौ’ (भ्वा० उ० से०) । पचाद्यच् (३.१.१३४) ॥
पर्यङ्कः परितोऽङ्क्यते । ‘अकि लक्षणे’ (भ्वा० आ० से०) । घञ् (३.२.१९) । ‘परेश्च घाङ्कयोः’ (८.२.२२) इति वा लत्वम् । ‘पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च’ (इति मेदिनी) ॥
पर्यटनम् ल्युट् (३.३.११५) ॥‘अटा पर्यटनं भ्रमः’ इति रत्नकोषादटापि ।
पर्यन्तभूः पर्यन्तेति । पर्यन्ते भूः ।
पर्ययः पर्ययणम् । ‘इण् गतौ’ (अ० प० से०) । ‘एरच्’ (३.३.४६) ॥
पर्याप्तम् ‘आप्लृ व्याप्तौ’ (स्वा० प० अ०) । भावे क्तः (३.३.११४) ॥
पर्यायः पर्ययणम् । ‘इण् गतौ’ (अ० प० अ०) । ‘परावनुपात्यय इणः’ (३.३.३८) इति घञ् । ‘पर्यायः प्रकारेऽवसरे क्रमे’ इति विश्वमेदिन्यौ ॥
पर्येषणा पेति । ‘इषेरनिच्छार्थस्य’ (वा० ३.३.१०७) युच् ।‘परेर्वा’ (वा० ३.३.१०७) ॥
पर्व पर्वति । ‘पर्व पूरणे’ (भ्वा० प० से०) । बाहुलकात्कनिन् । ‘पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि’ (इति मेदिनी) ॥
पर्वतः पर्वाणि सन्त्यत्र । ‘तप् पर्वमरुद्भ्याम्’ (वा० ५.२.१२२) । यद्वा पर्वति । ‘पर्व पूरणे’ (भ्वा० प० से०) । ‘भूमृदृशि-’ (उ० ३.११०) इत्यतच् । (‘पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले’ ॥
पर्वतः “अत्ति, अद्यते, वा । ‘अद भक्षणे’ (अ० प० अ०) । ‘अदिशदिभूशुभिभ्यः क्रिन्’ (उ० ४.६५) । अद्रिस्तु पर्वते । सूर्ये शाखिनि च’ इति हैमः ।”
पर्वसंधिः स इति । प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव पर्व अपि । ‘प्रतिपत्पञ्चदश्योस्तु संधिः पर्व प्रदिक् ककुप्’ इति दुर्गः । ‘संधिमभितो यजेत्’ इत्यादौ प्रसिद्धः स एव । ‘पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि’ ।
पर्शुका “पेति । स्पृशति, पृश्यते, वा । ‘स्पृश संस्पर्शने’ (तु० प० अ०) । ‘स्पृशेः श्वण्शुनौ पृ च’ (उ० ५.२७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा परं शृणाति । ‘आङ्परयोः खनिशॄभ्यां डिच्च’ (उ० १.३३) इति कुः । बाहुलकात्परस्याकारलोपः । पर्शुरिव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । ‘अप्राणिजातेश्च-’ (वा० ४.१.६६) इत्यूङि ‘पर्शूः’ अपि ॥”
पलगण्डः
- पेति । पलं मांसम् । तत्तुल्येन मृदादिना गण्डति वदनैकदेशमिव करोति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
पलङ्कषा पलमिति । पलं मांसं कषति । ‘कष हिंसार्थः’ (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । पृषोदरादिः (६.३.१०९) ।-‘तत्पुरुषे-’ (६.३.१४) इति द्वितीयाया अलुक्—इति मुकुटः । तन्न । अलौकिकविग्रहेऽमोऽप्रवेशात् । ‘पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोः’ इति मूर्धन्यान्तेषु रभसः । यत्तु–‘कर्षति’ इति विगृह्य ‘पृषोदरादिः’ (६.३.१०९) इत्युक्तम् । तच्चिन्त्यम् । कषितिनैव सिद्धत्वात् । अच् प्रत्यय विधानमपि चिन्त्यम् । कर्मण्यणः प्रसङ्गात् । ‘पलंकषा गोक्षुरके रास्नागुग्गुलुकिंशुके । तु(मु)ण्डीरीलाक्षयोश्च स्त्री राक्षसे तु पलंकषः’ (इति विश्वमेदिन्यौ) ॥
पलम् पलम् ।
पललम् “पलति, पल्यते वा । अनेन वा । ‘पल गतौ’ (भ्वा० प० से०) । ‘वृषादिभ्यश्चित्’ (उ० १.१०६) इति कलः । ‘पललं तिलमिश्रे स्यात् पललं पिशितेऽपि च’ इति शाश्वतः । ‘पललं पङ्कमांसयोः । तिलचूर्णे पललस्तु राक्षसे’ इति हैमः ॥”
पलाण्डुः पलेति । पलति । ‘पल रक्षणे’ (भ्वा० प० से०) । बाहुलकाद् आण्डुप्रत्ययः ॥
पलालः “पेति । पलति, पल्यते, वा । ‘पल गतौ’ (भ्वा० प० से०) । ‘तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन्’ (उ० १.११८) । -बाहुलकात्-इति मुकुटस्य प्रमादः । पलमलति वा ‘अल भूषणादौ’ (भ्वा० प० से०) । अण् (३.२.१) ॥”
पलाशः पलमश्नाति । ‘अश भोजने’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । पले मांसे आशा यस्य वा । ‘पलाशः किंशुकः शटी । हरिद्वर्णो राक्षसश्च पलाशं छदने मतम्’ इति हैमः ॥
पलाशः पेति । प्रशस्तानि पलाशान्यस्य । अर्शआद्यच् (५.२.१२७) । यद्वा पलं मांसमश्नाति । ‘अश भोजने’ (क्रया० प० से०) । ‘कर्मण्यण्’ (३.२.१.) । ‘पलाशः किंशुकेऽस्रपे । हरिते पलाशं पत्रे’ इति हैमः ॥
पलाशम् “‘पलमुन्मानमांसयोः’ । पलं मांसमश्नाति । ‘अश भोजने’ (क्र्या० प० से०) । कर्मण्यम् (३.२.१) । मुकुटस्तु – ‘पल गतौ’ (भ्वा० प० से०) । ‘घञर्थे कः (३.३.५८) । पलति रक्षति जलादेः । ‘पाल रक्षणे’ पचादिः (३.१.१२४) । पलं चलनमश्नुते व्याप्नोति–इत्याह । तन्न । ‘घञर्थे कः’ इति न । ‘स्थास्नापाव्यधिहनियुध्यर्थम्’ इति परिगणनात् । ‘पाल रक्षणे’ इति धातो रसत्त्वात् । पचाद्यजन्तस्य ‘पलं चलनम्’ इति वाक्यासम्भवात् । ‘पलाशं छदने मतम् । शती किंशुकरक्षःसु पुंसि स्याद्धरिते त्रिषु’ इति मेदिनी । ‘पलाशः किंशुकेऽस्त्रपे । हरिते, पलाशं पत्त्रे’ इति हैमः ॥”
पलाशी पलाशानि सन्त्यस्य । अत इनिः (५.२.११५) । “पलाशी वृक्षरक्षसोः” इति विश्वमेदिन्यौ ।
पलिक्नी पलितमस्त्यस्याः । अच् (५.२.१२७) । ‘असितपलितयोः प्रतिषेधः’ । ‘छन्दसि क्नमेके’ (वा० ४.१.३९) । नान्तत्वात् (४.१.५) ङीप् ॥
पल्यङ्कः परितोऽङ्क्यते । ‘अकि लक्षणे’ (भ्वा० आ० से०) । घञ् (३.२.१९) । ‘परेश्च घाङ्कयोः’ (८.२.२२) इति वा लत्वम् । ‘पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च’ (इति मेदिनी) ॥
पल्लवः पल्लव इति । पल्यते । सम्पदादिः (वा० ३.३.१०८) । लूयते । ‘ॠदोरप्’ (३.३.५७) । पल् चासौ लवश्च । पद्भ्यां लूयते वा । ‘ॠदोरप्’ (३.३.५७) । पादवाचकः पच्छब्दोऽस्ति । ‘तोर्लि’ (८.४६०) । ‘पल्लवः किसले बले । विटपे विस्तरेऽलक्तरागे शृङ्गारषिङ्गयोः’ । व्याडिस्तु–‘पुंसि क्लीबे च पल्लवः’ ॥
पल्वलम् पलति पल्यते वा । ‘पल गतौ” (भ्वा० प० से०) । ‘सानसिपर्णासि-’ (उ० ४.१०७) इति वलच् । ‘वेशन्तः पल्वलोऽस्त्री’ इति वाचस्पतिः ।
पवनः पुनाति । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । (पवनं कुम्भकरंस्य पाकस्थाने नपुंसकम् । निष्पावमरुतोः पुंसि’)
पवनाशनः पवनोऽशनं यस्य ।
पवमानः पवते । `पूङ्यजोः शानन्’ (३.२.१२८) । ‘आने मुक्’ (७.२.८२)
पविः पुनाति । ‘अच इः’ (उ० ४.१३९) ।
पवित्रः पेति । पवते । ‘पूङ् पवने’ (भ्वा० आ० से०) । पुनाति । ‘पूञ् पवने’ (क्र्या० उ० से०) वा । ‘अशित्रादिभ्य इत्रोत्रौ’ (उ० ४.१७३) । ‘पवित्रं वर्षणे कुशे । ताम्रे पयसि च क्लीबं मेध्ये स्यादभिधेयवत्’ (इति मेदिनी) ॥
पवित्रकम् पवित्रमुपवीतम् । तद्वदिव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । पवित्रा द्विपरीतलक्षणया संज्ञायां कः (५.३.७४) ॥ द्वे शणसूत्रजालस्य ।
पवित्रम् प्रयतेऽनेन । ‘पुर्वः संज्ञायाम् (३.२.१८५) इतीत्रः । ‘पवित्रं वर्षणे कुशे । ताम्र पयसि च क्लीबं मेध्ये स्यादभिधेयवत्’ (इति मेदिनी) ॥
पशुः “इत्यादयो येऽत्रोक्ताः, ये च पूर्वोक्ताः सिंहादयः, वक्ष्यमाणाश्च ये गोमेषस्त्यश्वादयः, सर्वे ते पशुजातयः पशुशब्दवाच्याः । पश्यति सर्वमविशेषेण । ‘दृशिर् प्रेक्षणे’ (भ्वा० प० अ०) । ‘अर्जिदृशि-’ (उ० १.२७) इत्युः पशिरादेशश्च । यत्तु मुकुटः - पशेः सौत्रधातोः ‘अपष्ट्वादयः इति कुः’ इति सुभूतिः –इत्याह । तदुक्तसूत्रास्मरणमूलकम् । पाश्यन्ते पाशैः - इति स्वाम्यप्येवम् ।”
पशुपतिः पशूनां जीवानां पतिः । ‘तिर्यग्जातौ पशुः प्रोक्तः सर्वप्राणिषु पुंस्ययम् । प्रमथानामिति वा । ‘पशुमृगादौ छगले प्रमथे च पुमानयम्’ इति तालव्यान्ते रभसात् । (‘पशुपतिः पिनाकिनि हुताशने) |
पशुरज्जुः पेति । पशुबन्धनी रज्जुः । शाकपार्थिवादिः (वा० २.१.७८) ॥
पश्चात्तापः पश्चादिति । पश्चात्तपनम् । अनुतपनम् । ’तप संतापे’ (भ्वा० प० अ०) घञ् (३.३.१८) ।
पांशुः पंशति ‘पशि नाशने’ (चु० प० से०) । ‘अर्जिदृशिकम्यमि-’(उ० १.२७) इति साधुः । ‘तालव्या अपि दन्त्याश्च शंबशूकर पांशवःइति शभेदात् (पांसुः) दन्त्यान्तश्च ॥
पांशुला पांशु पापमस्त्यस्याः । ‘स्वमुख-’ (वा० ५.२.१०७) इति रः । ‘कपिलकादिः’ (वा० ८.२.१८) । सिध्मादित्वात् (५.२.९७) लज् वा । पांशु लाति वा । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
पाकः पायते । पिबति वा । ‘पा रक्षणे’ (अ० प० अ०) । ‘पा पाने’ (भ्वा० प० अ०) । वा । ‘अर्भकपृथुकपाका वयसि’ (उ० ५.५३) इति साधुः । स्त्रियाम् अजादित्वात् (४.१.४) टाप् । मुकुटस्तु– ‘इण्भीका-’ (उ० ३.४३) इति कन् । पच्यते परिणम्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञि वा इत्याह । तन्न । अवयसि चरितार्थयोरनयोर्वयसि ‘अर्भक-’ (उ० ५.५३) इत्यनेन बाधनात् । ‘पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च’ (इति मेदिनी) । इत्येतेष्वर्थेषु शिशुभिन्नेषु मुकुटव्याख्या युक्ता । शिशौ त्वस्मदीया-इति ध्येयम् ॥
पाकलम् पाकं लाति । ‘पाकलं कुष्ठभैषज्ये पुंसि स्याकुञ्जरज्वरे’ (इति मेदिनी) ॥
पाकशासनः पाकस्य दैत्यभेदस्य शासनः । शासयति । शासु अनुशिष्टौ (अ० प० से०) । णिजन्तात् (३.१.२६) नन्द्यादित्वात् (३.१.१३४) ल्युः ।
पाकशासनिः पाकशासनस्यापत्यम् । ‘अत इञ्’ (४.१.९५) ।
पाकस्थानम् पाकस्य स्थानम् ॥
पाक्यः पाके साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् ॥
पाक्यम् “पेति । पच्यते । ‘ऋहलोर्ण्यत्’ (३.१.१२४) । ‘चजोः-’ (७.३.५२) इति कुत्वम् । पाके साधुः, इति वा । ‘तत्र साधुः’ (४.४.९८) इति यत् ॥”
पाञ्चजन्यः शङ्ख इति । पञ्चजने दैत्यभेदे भवः । ‘पञ्चजनात्’ (वा० / ४.३.५८) इति यञ् । यत्तु मुकुटः बहिर्देवपञ्चजनेभ्यः इत्युपसंख्यानाञ्ञ्यः इति । तन्न । एतादृशवार्तिकाभावात् । पञ्चजने पाताले भव इति स्वामी । पाञ्चजन्यः पोटगले विष्णुशङ्खे हुताशने’) |
पाटच्चरः
- पाटयंश्चरति । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘चौरजीर्णपटयोः पटच्चरः’ इति नामानुशासनम् ॥
पाटलः पाटयति । ‘पट गतौ ’ (भ्वा० प० से०) । ण्यन्ताद्वृषादित्वात् (उ० १.१०६) कलच् । पाटलाकुसुमाभः पाटलः । ‘पाटलं तु कुङ्कुमश्वेतरक्तयोः । पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे’ इति हैमः ।
पाटलः “पाटं लाति । कः (३.२.३) । पाटलो वर्णोऽस्यास्ति, इति वा ॥ पाटलः, व्रीहिः, आशु च इति नामत्रयम् । आशुनामा ब्रीहिः पाटल उच्यते इति नामद्वयम् इति सुभूतिः । आशुव्रीहौ पाटलो ना श्वेतरक्तेऽन्यलिङ्गवान्’ इति रुद्रः ॥”
पाटला पाटं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘पाटला पाटल्यै स्त्री स्यादस्याः पुष्पे पुनर्न ना’ ॥
पाटलिः अथेति । पाति । क्विप् (३.२.१७८) । टलति । ‘टल वैक्लव्ये’ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । पाश्चासौ टलिश्च ॥
पाट्
- पाटयति । ‘पट गतौ’ (भ्वा० प० से०) । णिजन्तः । क्विप् (३.२.१७८) ॥
पाठः पेति । पठनम् । पाठनम् वा । भावे घञ् (३.३.१८) । पाठश्च पठने ख्यातो विद्धपर्ण्यां तु योषिति’ (इति मेदिनी) ॥
पाठा पाठेति । पठ्यते । ‘पठ व्यक्तायां वाचि’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘पाठस्तु पठने ख्यातो विद्धकर्ण्यां तु योषिति’ (इति मेदिनी) ॥
पाठी पेति । पाठोऽस्यास्ति । ‘अतः’ (५.२.११५) इतीनिः ॥
पाठीनः “पाठीं पृष्ठं नमयति । णम प्रह्वत्वे (भ्वा० प० अ०) । णिच् (३.१.२६) । अन्येभ्योऽपि- (वा० ३.२.१०१) इति डः । अन्येषामपि (६.३.१३७) इति दीर्घः । अवश्यं पठति । ‘पठ व्यक्तायां वाचि’ (भ्वा० प० से०) । आवश्यके णिनिः (३.३.१७०) पाठी द्विजः। तस्येन इवापेक्षितः, हव्यकव्ययोः प्रशस्तत्वाद्वा । पाठीनो गुग्गुलद्रुमे । पाठके मीनभेदे च’ इति हैमः ॥ द्वे बहुदंष्ट्रस्य मत्स्यस्य ।”
पाणिः पणायन्त्यनेन । ‘पण व्यवहारे’ (भ्वा० आ० से०) । ‘अशिपणाय्यो रुडायलुकौ च’ (उ० ४.१३३) इतीण् आयप्रत्ययस्य लुक् च ।–पण्यतेऽनेन । बाहुलकात् इञ्- इति मुकुटस्तूक्तसूत्रास्मरणमूलकः ॥
पाणिगृहीती पाणिगृहीतोऽस्याः । ‘पाणिगृहीती भार्यायाम्’ (वा. ४.१.५२) इति ङीष् ॥
पाणिघाः
- पाणिं घ्नान्ति । ‘पाणिघताडघौ शिल्पिनि’ (३.२.५५) इति साधुः ॥
पाणिपीडनम् पाणेः पीडनं ग्रहणम् । ‘कृद्योगा च’(वा० २.२.८) इति समासः ॥
पाणिवादाः
- पेति । पाणिं वादयन्ति । ‘वदेः’ (भ्वा० प० से०) । ण्यन्तादण् । (३.२.१) ॥
पाण्डरः पण्डते मनोऽस्मिन् । ‘पडि गतौ’ (भ्वा० आ० से०) । बाहुलकादरो दीर्घश्च ।
पाण्डुः पण्ड्यते ज्ञायते । पडि गतौ’ (भ्वा० आ० से०) । मृगय्वादित्वात् (उ० १.३७) कुः । पृषोदरादित्वात् (६.३१०९) दीर्घः । ‘पाण्डुस्तु पीतभागार्थः केतकीधूलिसंनिभः’ इति शब्दार्णवः । पाण्डुः कुन्तीपतौ सिते’ इति हैमः ।
पाण्डुकम्बली पेति । ‘स्यात्पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः’ (इति मेदिनी) । पाण्डुकम्बलेन परिवृतो रथः । ‘पाण्डुकम्बलादिनिः’ (४.२.११) ॥
पाण्डुरः पाण्डुत्वमस्यास्ति । नगपांसुपाण्डुभ्यो रः । ‘पाण्डुरो वर्णतद्वतोः । पाण्डुरं तु मरुबके’ इति हैमः ।
पातालम् पतन्त्यत्र पापात् । ‘पतिचण्डिभ्यामालञ्’ (उ० १.११७) । पातालं वडवानले । रसातले च’ इति हैमः ।
पात्रः “पेति । पाति, पिबत्यनेन वा । ष्ट्रन् (उ० ४.१५९) – ‘दादिभ्यः ष्ट्रन्”
पात्रम् पात्रमिति । तयोः पारावारयोरन्तरं मध्यम् । पिबन्त्यत्र पान्त्यस्माद्वा । पिबतेः पातेर्वा ष्ट्रन् (उ० ४.१५९) । ‘पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभागनयोर्यज्ञभाण्डे नाट्यानुकर्तरि’ इति हैमः ।
पात्रम् पाति । ‘पा रक्षणे’ (अ० प० अ०) । पिबत्यनेन वा । ‘पा पाने’ (भ्वा० प० अ०) । ष्ट्रन् (उ० ४.१५९) ॥
पाथः “पाति । ‘पा रक्षणे’ (अ० प० से०) ‘उदके थुट्च (उ० ४.२०४) इत्यसुन् थुट् । यत्तु-पीयते-इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । तन्न । ‘पातेर्बले जुट्’ इत्यनुवृत्तिविरोधात् । तत्र पातेर्ग्रहणम्, न पिबतेः ।”
पादः पादा इति । पद्यते एभिः । पद गतौ (दि० आ० अ०) । हलश्च (३.३.१२१) इति घञ् । पादो मूलोऽस्रतुर्याशाङ्घ्रिषु प्रत्यन्तपर्वते’ इति हैमः ॥
पादः पाद इति । पद्यते । ‘पद गतौ’ (दि० आ० अ०) । ‘पदरुज-’ (३.३.१६) इति घञ् । ‘पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च’ (इति मेदिनी) ॥
पादः पादः ।
पादकटकः पादस्य कटको वलयः ॥
पादग्रहणम् सेति । पादयोर्ग्रहणं स्पर्शः ॥
पादपः पादैः पिबति । ‘पा पाने’(भ्वा० प० अ०) । ‘सुपि’(३.२.४) इति कः । ‘पादपः पादपीठेऽद्रौ पादुकायां तु पादपा’इति विश्वः ॥
पादबन्धनम् “गोमेति । गौश्च महिषी च, गोमहिष्यौ आदी यस्य । तत् । पादे बन्धनमस्य । ‘यादवं धनम्’ इति पाठे तु गोमहिष्यादिकं धनम् । यदूनामिदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘गवादि यादवं वित्तम्’ इति वोपालितः ॥”
पादस्फोटः पेति । स्फुटनम् । ‘स्फुट विकसने’ (तु० प० से०) । घञ् (३.३.१८) । पादस्य स्फोटः । पादौ स्फोटयति वा । ‘कर्मण्यण्’ (३.२.१) ॥
पादाग्रम् पेति । पादस्याग्रम् ॥
पादाङ्गदम् “पेति । पादस्याङ्गदमिव । यद्वा पाद एवाङ्गम् । पादाङ्गं द्यति, दायति, दयते वा । ‘दो अवखण्डने’ (दि० प० अ०) । ‘दैप् शोधने’ (भ्वा० प० अ०) । ‘देङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥”
पादातम् अथेति । पदातीनां समूहः । ‘भिक्षादिभ्योऽण्’ (४.२.३८) ॥
पादातिकः पदातिरेव । विनयादित्वात् (५.४.३४) ठक् । पादाभ्यामवति । बाहुलकादिको वा । ‘पादाविकः’ इति क्वचित्पाठः । पादाभ्यामवति । ‘अव रक्षणादौ’ (भ्वा० प० से०) । बाहुलकादिकः । पादेनावो रक्षणम् । तत्र नियुक्तः । यदा ‘तत्र नियुक्तः’ (४.४ः ६९) इति ठक् ॥
पादुका
- अथेति । पद्यतेऽनया । ‘पद गतौ’ (दि० आ० अ०) । ‘णित्कशिपद्यर्तेः’ (उ० १.८५) इत्यूः । स्वार्थे कन् (ज्ञापि० ५.४.५) वा ॥
पादू
- अथेति । पद्यतेऽनया । ‘पद गतौ’ (दि० आ० अ०) । ‘णित्कशिपद्यर्तेः’ (उ० १.८५) इत्यूः । स्वार्थे कन् (ज्ञापि० ५.४.५) वा ॥
पादूकृत्
- पेति । पद्यतेऽनया । ‘पद गतौ’ (दि० आ० अ०) । ‘णित्कशिपद्यर्तेः’ (उ० १.८५) इति ऊः । पादूं करोति । क्विप् (३.२.७६) ॥
पाद्यः पादायेदम्॥
पानगोष्ठिका
- पानस्य गोष्ठी । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
पानपात्रम्
- पानस्य पात्रम् ॥
पानभाजनम् “पीयते, इति पानम् । ल्युट् (३.३.११३) । क्षीरादिपानस्य भाजनम् ॥”
पानम्
- पिबन्त्यत्र । ‘पा पाने (भ्वा० प० अ०) । ‘अधिकरणे ल्युट्’ (३.३.११७) ॥ ‘पानं पीतिभाजनरक्षणे (इति मेदिनी) ॥
पानीयम् पीयते । ‘पा पाने’ (भ्वा० प० से०) । अनीयर् (३.१.९६) । पायते वा । ‘पै शोषणे’ (भ्वा० प० अ०) । ‘पानीयं पेयजलयोः’ इति हैमः ॥
पानीयशालिका पानीयस्य शाला । स्वार्थे कन् (५.३.७५) ॥
पान्थः पन्थानं नित्यं गच्छति । ‘पन्थो ण नित्यम्’ (५.१.७६) । स्त्रियां पान्था ॥
पापचेली पापे चलति । ‘चल विलसने (तु० प० से०) । पचादौ ‘चेलट्’ इति निपातनात् ङीप् (४.१.१५) । गौरादित्वकल्पनं मुकुटकृतं व्यर्थम् । पचेर्यङन्तादचि ‘पापक्ति’ इति पापचो वायुः । तमीरयति वा । अण् (३.२.१) ॥
पापम् पान्त्यस्मादात्मानम् । ‘पा रक्षणे (अ० प० अ०) । ‘पानीविषिभ्यः पः’ (उ० ३.२३) । भीमादित्वात् (३.४.७४) अपादाने । यद्वा पिबति भक्षयति कर्तारम् । ‘पा पाने’ (भ्वा० प० अ०)
पाप्मा आप्नोति व्याप्नोति लोकान् । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । ‘नामसीमन्- (उ० ४.१५१) इति सूत्रेण निपातितः ।
पामनः सेति । पामास्यास्ति । पामादित्वात् (५.२.१००) नः ॥
पामन्म् पायत्यङ्गम् । ‘पै शोषणे’ (भ्वा० प० से०) । मनिन् (उ० ४.१४५) । पायते देहोऽस्माद्वा । ‘पा रक्षणे’ (अ० प० अ०) । पिबति देहं वा ॥
पामरः
- पामानं राति । कः (३.२.३) । यद्वा पा धर्मः म्रियते येन । ‘मृङ्’ (तु० प० अ०) । ‘पुंसि-’ (३.३.११८) इति घः ॥
पामा स्त्रियां तु ‘मनः’ (४.१.११) इति न ङीप् । ‘डाबुभाभ्याम्-’ (४.१.१३) इति डाब् वा ॥
पायसः अथेति । पय एव । प्रज्ञाद्यण् (५.४.३८) पयसो विकारो वा । ‘तस्य विकारः’ (४.३.१३३) इत्यण् । ‘सरलद्रवः श्रीपिष्टो दधिक्षीरघृताह्वयः’ इति रभसः । ‘पायसस्तु क्लीबपुंसोः श्रीवासपरमान्नयोः’ (इति मेदिनी) ॥
पायसः पयसि संस्कृतम् । ‘संस्कृतं भक्षाः’ (४.२.१६) इत्यण् । पयसा इति तु मुकुटस्य प्रमादः । ‘तत्रोद्धृतम्-’ (४.२.१४) इत्यतः ‘तत्र’ इत्यनुवृत्तेः । ‘पायसः श्रीवासे च पायसं परमात्रके इति हैमः । ‘पायसस्तु क्लीबपुंसो श्रीवासपरमान्नयोः’ (इति मेदिनी) ॥
पायुः पाति मलनिःसारणेन । ‘पा रक्षणे’ (अ० प० अ०) । ‘कृवापा-’ (उ० १.१) इत्यण् । यद्वा पिबति वस्त्यौषधम् । ‘पा पाने-’ (भ्वा० प० अ०) । प्राग्वत् ॥
पाय्यम् पाय्यम् ।
पारदः पारं ददाति । ‘डुदाञ् दाने’ (जु० उ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘पारते’ इति पाठे पारं तनोति । ‘तनु विस्तारे (त० उ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति इः । ‘रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते’ इति तारपालः । ‘पारतस्तु मनाक्पाण्डुः सूतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः’ इति शब्दार्णवः ॥
पारम् पारेति । परं तीरं पारम् । ‘पारं प्रान्ते परतटे’ इति हैमः
पारश्वधिकः परश्वधः परशुः प्रहरणमस्य । ‘परश्वधाट्ठञ्च’ (४.४.५८) ॥ यष्टिश्च पर्श्वधश्च हेती ययोः ।
पारसीकाः पारसीके देशे भवाः । ‘कोपधाच्च’ (४.३.१३७) इत्यण् ॥
पारस्त्रैणेयः स्यादिति । परस्त्रिया अपत्यम् । प्राग्वत् । ‘अनुशतिकादीनां च’ (७.३.२०) इत्युभयपदवृद्धिः ॥
पारावतः पारेति । परं जीवमवति । पराच्छत्रोरहंकाराद्वा ज्ञानोपदेशेन । ‘अव रक्षणादौ (भ्वा० प० से०) । शतृप्रत्ययः (३.२.१२४) । ‘द्वितीया’ (२.१.२४) ‘पञ्चमी’ (२.१.३७) इति योगविभागात् समासः । परावतो दत्तात्रेयस्यायं गुरुः । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥ ‘पारापतः’ इति पाठे पारादप्यापतति प्रेम्णा । ‘पत्लृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पारावतश्च छेद्यश्व कपोतो रक्तलोचनः । पारापतः कलरवः’ इति रभसः ॥
पारावताङ्घ्रिः पारेति पारावत इवाङ्घ्रिरस्याः ॥
पारावारः पारमावृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कर्मण्यण्’ (३.२.१) । पारावारावस्य स्त इति वा । अर्शआद्यच् (५.२.१२७) । पारावारः पयोराशौ पारावारं तदद्वये । ४ ॥ पारमपारमस्येति (पारापारः) । पवर्गादिमध्यः—इति कश्चित् ॥
पाराशरी पराशरस्य गोत्रापत्यम् । ‘गर्गादिभ्यो यञ्’(४.१.१०५) । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीते । ‘पाराशर्यशिलालिभ्याम् –’ (४.३.११०) इति णिनिः ॥
पारिकाङ्क्षिन् परिकाङ्क्षितुं शीलमस्य । ‘काक्षि कामे परिवर्जने’ (भ्वा० प० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः । पृषोदरादिः । यद्वा पारमत्रास्ति इनिः (५.२.११५) । पारि ब्रह्मज्ञानं काङ्क्षति॥
पारिजातकः पारिणोऽब्धेर्जातः । ततः स्वार्थे कन् (५.३.८७) । यत्तु पारिजातो जन्यत्वेनास्यास्ति । अर्शआद्यच् (५.२.१२७) पारिजातः समुद्रः । तत्र भवः (४.३.५३) इत्यणि पारिजातः इति मुकुटः । तन्न । वृद्धाच्छस्य (४.२.११४) अपवादस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थात् जन्यस्यैव नामनिर्वचनासिद्धेश्च । (‘पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे’) ।
पारिजातकः पारि पारं गतं जातं जन्मास्य । पारिणः समुद्राज्जातो वा । स्वार्थे कन् (५.३.७५) ॥
पारितथ्या परितस्तथाभूताः । परितथा एव । चतुर्वर्णादित्वात् (वा० ५.१.१२४) । स्वार्थे ष्यञ् ॥
पारिपार्श्विकः “पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः (२.१.६) । परिपार्श्वं वर्तते, इत्यर्थे ‘परिमुखं च’ (४.४.२९) इति चकाराट्ठक् ।”
पारिभद्रः “पारीति । पारमस्यास्ति । ‘अत इनिः’ (५.२.११५) । पारि पारं गतं भद्रमस्य, परितो भद्रमस्य, इति वा । प्रज्ञाद्यण् (५.४.३८) । ‘पारिभद्रस्तु निम्बद्रौ मन्दारे देवदारुणि’ ॥”
पारिभद्रः नियमयति । ‘यम उपरमे’ (भ्वा० प० से०) । पृषोदरादिः (६.३.१०९) । निंवति । ‘णिवि सेचने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । बवयोरैक्यम् । कर्मणि घञ् (३.३.१९) वा । निम्बसंज्ञकस्तरुः । शाकपार्थिवादिः (वा० २.१.६९) ॥
पारिभद्रकः पारि निष्ठां प्राप्तं भद्रमस्य । ‘पारिभद्रस्तु निम्बद्रौ मन्दारे देवदारुणि’ ॥
पारिभाव्यम् परिभावे साधुः । तत्र साधुः’ (४.४.९८) इति यत् । स्वार्थेऽण् (५.४.३८) ॥
पारियात्रकः परितो यात्रया दृश्यते । ‘शेषे’ (४.२.९२) इत्यण् । स्वार्थे कन् (५.३.७५) ॥
पारिषदाः परिषदि साधवः । पर्षदो ण्यः (४.४.१०१) इत्यत्र ‘परिषदः’ इति योगविभागात् ‘णः’ । अण्’ इति तु मुकुटस्य प्रमादः । भक्ताण्णः (४.४.१००) इत्यनुवृत्तेः । ण्ये तु पारिषद्याः । ‘पर्षदो ण्यः’ (४.४.१०१) इति पाठे पार्षद पार्षद्यावपि । ‘भूताः शिवस्य पार्षद्या पार्षदाः’ इति संसारावर्तात् ।।
पारिहार्यः परिह्रियते ‘ऋहलोर्ण्यत्’ (३.१.१२४) परिहार्य एव । प्रज्ञाद्यण् (५.४.३८) । यद्वा घञ- न्ताच्चतुर्वर्णादित्वात् (वा ५.१.१२०) स्वार्थे ष्यञ् ॥
पारुष्यम् पारुष्यमित्यादि । परुषो निष्ठुरभाषी । तस्य भावः पाष्ययम् । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ‘पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीर्पतौ’ ।
पार्थिवः ‘पृथिव्या ईश्वरः’ । सर्वभूमिपृथिवीभ्यामणञौ’ इत्यनुवर्तमाने ‘तस्येश्वरः’ (५.१.४२) इत्यञ् । ‘पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत्’ (इति विश्वः) ‘पार्थिवो नृपे । पार्थिवी स्यात्तु सीतायां पृथिव्या विकृतौ त्रिषु’ (इति मेदिनी) ॥
पार्वती पर्वतस्येयम् । पार्वती । ‘तस्येदम्’ (४.३.१२०) इत्यण् । अपत्यार्थे त्वपवादत्वादिञ् (४.१.९५) स्यात् । ’इतो मनुष्य-’(४.१.६५) इति न ङीष् । मनुष्यजातिवाचित्वाभावात् । ‘क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते’ इति वा समाधेयम् ।।
पार्वतीनन्दनः पार्वत्या नन्दनः ।
पार्श्वः पेति । स्पृश्यते । ‘स्पृश स्पर्शने’ (तु० प० अ०) । ‘स्पृशेः श्वण्शुनौ पृ च’ (उ० ५.२७) । णित्वाद्वृद्धिः (७.२.११५) । यद्वा पर्शूनां समूहः । ‘पर्श्वा णस् वक्तव्यः’ (वा० ४.२.४३) । सित्त्वात् (१.४.१६) पदत्वेन भत्वाभावाद् ‘ओर्गुणः’ (६.४.१४६) इति न । ‘पार्श्वमन्तिके । कक्षाधोऽवयवे चक्रोपान्ते पर्शुगणेऽपि च’ (इति हैमः) ॥
पार्श्वभागः पार्श्वस्य पार्श्वमेव वा भागः ॥
पार्ष्णिः पुमेति । तयोर्गुल्फयोरधः । पृष्यते अनेन वा । ‘पृषु सेचने’ (भ्वा० प० से०) । ‘घृणिपृश्निपार्ष्णि-’ (उ० ४.५२) इति साधुः । –‘पार्ष्ण्यादयश्च’ इति त्वपाणिनीयम् । ‘पार्ष्णिः स्त्रीपुंसयोः’ पादमूले स्याद् ध्वजिनीकटौ’ इति रन्तिदेवः ॥
पार्ष्णिग्राहः पेति । पार्ष्णिं पश्चात्पदं गृह्णाति । ‘कर्मण्यण्’ (३.२.१) । ‘सैन्यपृष्ठे पुमान् पार्ष्णिः पश्चात्पदजिगीषयोः’ इति विश्वः ॥
पालघ्नः पालं क्षेत्रं हन्ति । ‘अमनुष्य-’ (३.२.५२) इति ठक् ॥
पालङ्की अथेति । पालनम् । ‘पाल रक्षणे’ (चु० प० से०) । सम्पदादिः (वा० ३.३.१०८) । पाला अङ्क्यते । ‘अङ्क पदे लक्षणे च’ (चु० उ० से०) अदन्तः। ‘अचो यत्’ (३.१.९७) ॥
पालाशः पालाश इति । पलाशस्य पत्रस्यायम् । तस्येदम् (४.३ १२०) इत्यण् । ‘पत्रं पलाशं ना रक्षः शठीहरितकिंशुके’ इति रुद्राद्ध्रस्वादिरपि । तत्र संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यद्वा पलमश्नाति । ‘अश भोजने’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ततः प्रज्ञाद्यण् (५.४.३८) । पलाशः किंशुके शट्यां । हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम्’ इति हैमः । ‘शेषे’ (४.२.९२) इत्यस्य विधित्वाङ्गीकारादण् इत्याहुः । तन्न । तस्येदम् इति सिद्धे शेषत्वाभावात् ।
पालिः पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘अच इः’ (उ० ४.१३९) । मुकुटस्तु पाति । ‘ऋतन्यञ्जि-’ (उ० ४.२) इत्यादिनालिः इत्याह । तन्न । तत्र पातेः पाठाभावात् । ‘पालिः’ कर्णलताग्रेऽश्नौ पङ्क्तावङ्कप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः’ (इति मेदिनी) ॥
पालिन्दी पालयति । ‘पाल रक्षणे’ (चु० प० से०) । बाहुलकात् किन्दच् । गौरादिः (४.१.४१) ॥
पावकः पुनाति । `पूञ् पवने’ (क्र्या० उ० से०) । ण्वुल् (३.१.१३३) (‘पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके । भल्लातके विडङ्गे च शोधयितृ नरेऽपि च’) ।
पाशः पेति । पाश्यते । ‘पश बन्धे’ चुरादिः । घञ् (३.३.१९) । घः (३.३.११८) वा । ‘पाशस्तु मृगपश्वादिबन्धने । कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्त्राद्यन्ते च निन्दार्थः’ इति हैमः ॥
पाशकः
- पाशयति । ‘पश बन्धे’ चुरादिः । ण्वुल् (३.१.१३३) । क्वुन् (उ० २.३२) वा ॥
पाशी पाशोऽस्यास्ति । इनिः (५.२.११५) ।‘पाशी पाशधरेऽपतौ इति विश्वः।
पाशुपतः पशुपतेरयम् । तत्प्रियत्वात् । ‘पाशुपतो वकपुष्पे स्यात्पशुपत्यधिदैवते च तद्भक्ते’ (इति मेदिनी) ॥
पाशुपाल्यम् पशून् पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । तस्य कर्म भावो वा । ष्यञ् (५.१.१२४) ॥
पाषण्डः पेति । पापं सनोति । ‘षणु दाने’ (त० उ० से०) । सनति । ‘षण सम्भक्तौ’ (भ्वा० प० से०) वा । ‘ञमन्ताड्डः’ (उ० १.११४) । पृषोदरादिः (३.३.१०९) मूर्धन्यमध्यः । कवर्गद्वितीयमध्यपाठे तु पाखण्डयति । ‘खडि भेदने’ (चु० प० से०) । अच् (३.१.१३४) । ‘पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात् पाखण्डास्तेन हेतुना’॥
पाषाणः पाषाणेति । पिनष्टि । ‘पिष्लृ सञ्चूर्णने’ (रु० प० अ०) । बाहुलकादानच् । पृषोदरादिः (६.३.१०९) । मूर्धन्यषः । पषत्यनेन । ‘पष बाधे ग्रन्थे च’ । ‘हलश्च’ (३.३.१२१) इति घञ् । अणति । ‘अण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । पाषश्चासावणश्च । यतु—‘पषेर्णित्’ इत्यानच्-इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ।
पाषाणदारणः
- पाषाणोदार्यतेऽनेन । ‘दॄ विदारणे’ (क्र्या० प० से०) । ण्यन्तः ल्युट् (३.३.११) ॥
पिकः अपि कायति । ‘आतश्वोपसर्गे’ (३.१.१३६) इति कः । ‘वष्टि भागुरिः’ इत्यल्लोपः ॥
पिङ्गः पिञ्जयति । ‘पिजि वर्णे’ (अ० आ० से०) । अच् (३.१.१३४) । न्यङ्क्वादिः (७.३.५३) । पिङ्गा गोरोचनाहिङ्गुनाडिकाचण्डिकासु च । पिङ्गी शम्यां पिशङ्गे ना वालके तु नपुंसकम्’ ।
पिङ्गलः पिङ्गलो वर्णोऽस्यास्ति । अर्श आद्यच् (५.२.१२७) पिङ्गं वर्णं लातीति वा । कः (३.२.३)
पिङ्गलः पिञ्जति । ‘पिजि वर्णे’ (अ०.०.०) । वृषादित्वात् (उ० १.१०६) कलच् । ‘न्यङ्क्वादीनां च’ (७.३.५३) इति कुत्वम् । पिङ्गं लातीति वा । ‘पिङ्गलः कपिले बभ्रौ रुद्रेऽर्क पारिपार्श्विके । कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ।
पिङ्गला कपिलपिङ्गलवर्णत्वात्कपिलापिङ्गले । (‘कपिला रेणुकायां च शिंशपा गोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ।। नानले वासुदेवे च मुनिभेदे च कुकुरे’ (‘पिङ्गलो नागभिदुद्रचण्डांशुपारिपार्श्वके । निधिभेदे कपावग्नौ पुंसि स्यात्कपिलेऽन्यवत् । स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्’)
पिचण्डः “पीति । अपि चमत्यन्नम् । ञमन्ताड्डः (उ० १.११४) । ‘वष्टि भागुरि-’ इत्यल्लोपः । अपि चण्ड्यतेऽनेन हेतुना । ‘चडि कोपे’ (भ्वा० आ० से०) । ‘पुंसि–’ (३.३.११८) इति घो वा । ‘पिचण्ड उदरे पशोरवयवे पुमान्’ (इति मेदिनी) । (पिचिण्डः, इति) इकारद्वयवत्त्वे तु पृषोदरादिः (६.३.१०९) ॥”
पिचिण्डिलः अतिशयितं पिचिण्डमुदरमस्य । पिच्छादित्वात् (५.२.१००) इलच् ॥
पिचुः अथेति । पिचति । ‘पिचु मर्दने’ () । पचति वा । मृगय्वादिः (उ० १.३७) । ‘पिचुर्ना कुष्ठभेदे च कर्षे तूलेऽसुरान्तरे’ इति विश्वमेदिन्यौ ॥
पिचुमर्दः “पिचुं कुष्ठभेदं मर्दयति । ‘मृद क्षोदे’ (क्र्या० प० से०) । णिच् (३.१.२६) । ‘कर्मण्यण्’ (३.२.१) पिचुं मन्दयति, इति ‘पिचुमन्दः’ इति स्वामी ॥”
पिचुलः सेति । ‘पिचुः स्यात्तूलकर्षयोः’ इति धरणिः । पिचं तूलं लाति । ‘पिचुलो झावुकेऽपि स्यान्निचुले जलवायसे ॥
पिच्चटम् “पिच्चयति, पिच्चते वा । ‘पिच्च छेदने’ (भ्वा० ) । अच् (३.१.१३४) । पिच्चं टौकते । ‘टौकृ गतौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । पिच्चयति । ‘शकादिभ्योऽटन्’ (उ० ४.८१) वा । ‘पिच्चटो नेत्ररोगे स्यात्क्लीबं सीसकरङ्गयोः’ इति विश्वः (मेदिनी) ॥”
पिच्छम् “पिच्छयति । पिच्छ्यते वा । ‘पिच्छ कुट्टने’ (चु० प० से०) । अच् (३.३.१३४) । घञ् (३.३.१९) वा । ‘पिच्छा पूगच्छटाकोषमोचाशाल्मलिवेष्टके । भक्तसम्भूतमण्डे च पङ्कावश्वपदामये । स्त्रियां, पुंसि तु लाङ्गूले न द्वयोर्बर्हचूडयोः’ (इति मेदिनी) ॥”
पिच्छा “पीति । पतितुमिच्छति । ‘पत्लृ गतौ’ (भ्वा० प० से०) । सन्नन्तः । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । यद्वा पिच्छ(य)ति, पिच्छ्यते, वा । ‘पिच्छ बाधे’ (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१८) वा ॥”
पिच्छिलम् स्येति । पिच्छोऽस्यास्ति । पिच्छादित्वात् (५.२.१००) इलच् । ‘पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये । (पङ्क्तौ पूगच्छटाकोशमोचानिजयुतेषु च । पिच्छः पुच्छे)’ इति विश्वः ॥
पिच्छिला पीति । पिच्छा शाल्मलिनिर्यासोऽस्या अस्ति । पिच्छिलादित्वात् (५.२.१००) इलच् ॥
पिच्छिला अथेति । पिच्छास्त्यस्याः । पिच्छादित्वात् (५.२.१००) इलच् । ‘पिच्छिलं विजिलेऽन्यवत् । स्त्री पोतिकाशिंशपयोः शाल्मलीसिन्धुभेदयोः ॥
पिञ्जः पिञ्जनम् । ‘पिजि हिंसायाम्’ चुरादिः । अच् (३.३.५६) ॥
पिञ्जरम् पीति । पिञ्जनम् । ‘पिजि वर्णे’ (अ० आ० से०) । घञ् । (३.३.१८) । ‘निष्ठायामनिटः’ (वा० ७.३.५३) इति वचनान्न कुत्वम् । पिञ्जं वर्णविशेषं राति । कः (३.२.३) । ‘पिञ्जरोऽश्वान्तरे पीते क्लीबं स्वर्णं च पीतने’ ॥
पिञ्जलः बाहुलकादलच् । पिञ्जं लाति वा ॥
पिटः पिटति । ‘पिट शब्दसंख्यानयोः’ (भ्वा० प० से०) । कर्मकर्तरि ‘इगुपध-’ (३.१.१३५) इति कः । क्वुनि (उ० २.३२) ‘पिटकः’ अपि । ‘पिण्डः’-इति स्वामी । तत्र पिण्ड्यते । ‘पिडि सङ्घाते’ (भ्वा० आ० से०) कर्मणि धञ् (३.३.१९) । ‘पिण्डो बोले बले सांद्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओण्ड्रपुष्पे च पुंसि स्यात्क्लीबमाजीवनायसोः । पिण्डी च पिण्डतगरेऽलावूखर्जूरभेदयोः’ (इति मेदिनी) ॥
पिटकः
- पीति । पेटति । ‘पिट सङ्घाते’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘पिटकस्त्रिषु विस्फोटे मञ्जूषायां पुनः पुमान्’ (इति मेदिनी) ॥
पिटकः पेटति । ‘पिट शब्दसंघातयोः’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते’ इति हेमचन्द्रः । स्त्रियां पिटका । क्षिपकादिः (वा० ७.३.४५) । ‘विस्फोटा विटिका स्त्रियाम्’ इत्यमरमालायां वकारादिरपि ॥
पिठरः पीति । पेठति । ‘पिठ बन्धे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । पिठं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
पिण्डः पिण्डते । ‘पिडि सङ्घाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसिह्लयोः । कवले पिण्डं तु वेश्मैकदेशे जीवनायसोः । बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च’ इति हेमचन्द्रः ॥
पिण्डकः पिण्डते । ‘पिडि सङ्गाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । -पिण्डति । ‘पिडि गतौ’ – इति मुकुटश्चिन्त्यः । ‘पडि गतौ’ इत्यस्यात्मनेपदिषु पाठात् । पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलावूखर्जूरभेदयोः’ (इति मेदिनी) ॥
पिण्डम् “पिण्डते, पिण्ड्यते वा । ‘पिडि सङ्घाते’ (भ्वा० आ० स०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गालसिल्हकयोरपि । ओण्ड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलावूखर्जूरभेदयोः’ (इति मेदिनी) ॥”
पिण्डिका पीति । पिण्ड्यतेऽरा यस्याम् । ‘पिडि सङ्गाते’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । गौरादिः (४.१.४१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
पिण्डीतकः पिण्डीति । पिण्डीं तनोति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘संज्ञायां कन्’ (५.३.७५) । ‘पिण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे’ ॥
पितरौ ‘पिता मात्रा ।’ (१.२.७०) इत्येकशेषो वा ॥
पितामहः लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । ‘पितृव्यमातुल (४.२.३६) इति साधुः । (‘पितामहः पद्मयोनौ जनके जनकस्य च’) ॥
पितामहः ‘मातृपितृभ्यां पितरि डामहच्’ । ‘मातरि षिच्च’ (वा० ४.२.३६) । ‘पितामहः पद्मयोनौ जनके जनकस्य च’ इति हैमः ॥
पितृः पाति । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । –‘पित्रादयः’ इति तृच् इत्वं च-इति सुभूतिः । तन्न । तादृशसूत्राभावात् ॥
पितृदानम् पीति । पितृभ्यो दानम् ॥
पितृपतिः पितॄणां पतिः ।।
पितृपतिः पितॄणां पतिः ।
पितृपिता पितेति । पितुः पिता ॥
पितृप्रसूः पितॄन् प्रसूते । क्विप् (३.२.७६) ।
पितृवनम् पितॄणां वनम् । पितॄन् वनति वा । ‘वन सम्भक्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी ॥
पितृव्यः पित्रिति । ‘पितृव्यमातुल-’ (४.२.३६) इति निपातितः ॥
पित्तम् अपिदीयते स्म । ‘दो अवखण्डने’ (दि० प० अ०) । ‘देङ् पालने’ (भ्वा० आ० अ०) वा । क्तः (३.२.१०२) । ‘अच उपसर्गात्तः’ (७.४.४७) । ‘वष्टि भागुरिः-’ इत्यल्लोपः । संज्ञापूर्वकत्वात् ‘दस्ति’ (६.३.१२४) इति दीर्घो न ॥
पित्र्यम् वेति । अङ्गुष्ठतर्जन्योः । पितरो देवतास्य । ‘वाय्वृतुपित्रुषसो यत्’ (४.२.३१)–पितॄणामिदम् । पैत्रम् । ‘तस्येदम्’ (४.३.१२०) इत्यण्-इति मुकुटः॥
पित्सत् पतितुमिच्छवः । लटः शता (३.२.१२४) । ‘सनि मीमा-’ (७.४.५४) इतीस् ॥
पिधानम् छद अपवारणे’ (चु० उ० से०) । ण्यन्ताल्ल्युट् (३.३.११५) । अण्यन्ताल्ल्युटि तु छदनम् । यत्तु-छदनमिति ‘छादेर्घे (६.४.८९) योगविभागाद् हस्वत्वम् इति मुकुटेनोक्तम् । तच्चिन्त्यम् । उक्तरीत्या प्रयोगद्वयनिर्वाहे योगविभागस्य निष्प्रयोजनत्वात् ।
पिनद्धः अपि नह्यते स्म । ‘णह बन्धने’ (दि० उ० अ०) । क्तः (३.२.१०२) । ‘वष्टि भागुरिः-’ इत्यल्लोपः ॥
पिनाकः पिनाक इति । पाति । ‘पिनाकादयश्च’ (उ० ४.१५) इति पातेराक इत्वं नुम् च । (पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयोः) ।
पिनाकी पिनाकोऽस्यास्ति । इनिः (५.२.११५) ।
पिपासा पातुमिच्छा । ‘पा पाने’ (भ्वा० प० अ०) । ‘धातोः’ (३.१.७) इति सन् । ‘अ प्रत्ययात्’ (३.३.१०३) ॥
पिप्पलः पिप्पलं जलमस्यास्ति । मूले सिक्तत्वात् । अर्शआद्यच् (५.२.१२७) । ‘पिप्पलं सलिले वस्त्रछेदभेदे च ना तरौ’ ॥
पिप्पली पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । बाहुलकादलच् । पृषोदरादिः । गौरादिः (४.१.४१) । ‘पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ । निरर्गले पक्षिभेदे कणायां पिप्पली स्मृता’ (इति मेदिनी)॥
पिप्पलीमूलम् पिप्पल्या मूलम् ॥
पिप्लुः अपि प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० से०) । मितद्र्वादित्वात् (वा० ३.२१८०) डुः । ‘वष्टि भागुरिः-’ इत्यल्लोपः ॥
पियालः पीयते । ‘पीयुः’ सौत्रो धातुः । ‘पीयुक्वणिभ्यां कालन् ह्रस्वः’ (उ० ३.७६) ॥ बाहुलकात् प्रीणातेः कालति प्रियालश्च । ‘प्रियालश्च पियालकः’ इति माधवः ॥
पिल्लः “स्युरिति । (वा० ५.२.३३) क्लिन्नस्य लप्रत्ययः । चुल्, चिल्, पिल्, आदेशाः ‘अस्य चक्षुषि’ इत्यर्थे । चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्योगाच्चक्षुश्रुल्लादिवाच्यम् । तच्चक्षु- र्योगात्पुरुषोऽपि । ‘चिल्लः खगे सचुल्लश्च पिल्लवत् । क्लिन्नलोचने । क्लिन्नाक्ष्णि’ इति हैमः ॥”
पिशङ्गः पेशति । ‘पिश अवयवे (तु० उ० से०) । विडादिभ्यः कित्’ (उ० १.१२१) इत्यङ्गच् ।
पिशाचः पिशितमश्नाति । ‘अश भोजने’ (क्र्या० प० से ०) । ‘कर्मण्यण्’ (३.२.१) ‘पृषोदरादिः’ (६.३.१०९) । मध्यतालव्यः ॥
पिशितम् पिशीति । पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘पिशेः किच्च’ (उ० ३.९५) इतीतन् । पिश्यते स्म वाक्तः (३.२.१०२) । ‘पिशितं मांसं पिशिता मांसिका’ इति हैमः ॥
पिशुनम् पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्’ (उ० ३.५५) इत्युनन् । ‘पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात्’ (इति मेदिनी) ॥
पिशुना पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्’ (उ० ३.५५) इत्युनन् । ‘पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात् (इति मेदिनी) ॥
पिष्टकः पिष्टस्य विकारः । ‘संज्ञायाम्’ (४.३.१४७) इति कन् । ‘पिष्टको घृतपूपादौ नेत्ररोगान्तरेऽपि च’ इति विश्वः (मेदिनी) ॥
पिष्टपचनम् पच्यतेऽत्र । ‘करणा-’ (३.३.११७) इति ल्युट् । पिष्टस्य पचनम् ॥
पिष्टातः पीति । पिष्टमतति । ‘कर्मण्यण्’ (३.२.१) ॥
पीठम् पीति । पठेन्त्यत्र । ‘पिठ हिंसासंक्लेशनयोः’ (भ्वा० प० से०) । ‘हलश्च’ (२.३.१२१) इति घञ् । बाहुलकाद्दीर्घः । पीयतेऽत्र वा । ‘पीङ् पाने’ (दि० आ० अ०) । बाहुलकाठ्ठक् । ‘विष्टरः पीठमस्त्रियाम्’ इति त्रिकाण्डशेषः ॥
पीडनम् ‘पीड अवगाहने’ (चु० प० से०) । ल्युट् (३.३.११५) ॥
पीडा पीडेति । पीड अवगाहने’ (प० से०) चौरादिकः। भिदाद्यङ् (३.३.१०४) । ‘पीडार्तिमर्दनोतंसकृपासु सरलद्रुमे’ इति हैमः ।
पीतः पीयते पिबति वर्णान्तरम् । औणादिकः क्तः । बाहुलकात् (३.८९) । ‘पीतं पाने हरिद्रायां स्त्रियांगौरेऽभिधेयवत् । यतु-पीयते वर्णान् । पातेर्बाहुलकात् ‘अञ्जिघृषिभ्यः क्तः’ (उ० ३.८९) । ‘घुमास्थागा-’(६.४.६६) इत्यादिना ईत्वम् इति मुकुटेनोक्तम् । तदसंबद्धमिति स्फुटमेव ।
पीतदारु पीतं च तद्दारु च ॥
पीतद्रुः अथेति । पीतं द्रवति । “द्रु गतौ’ (भ्वा० प० अ०) ॥ मितद्रवादित्वात् (वा० ३.२.१८०) डुः । यत्तु मुकुटेनोक्तम् ‘अपष्ट्वादयः’ इति कुः – इति । तन्न । टिलोपस्यालाभात् । एतादृशसूत्राभावच्च ॥
पीतद्रुः पीति । पीतश्चासौ द्रुश्च । -पीयते चक्षुषाऽयम् । ‘पा पाने (भ्वा० प० से०) । ‘पः किञ्च’ इति तः । ‘घुमास्था-’ (६.४.६६) इतीत्वम् - इति मुकुटः । तच्चिन्त्यम् । उक्तसूत्रादर्शनात् । क्तप्रत्ययेन गतार्थत्वाच्च ॥
पीतनः अथेति । पीतं करोति । तत् करोति-’ (वा० ३.१.२६) इति णिच् । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् ॥
पीतनम् “पीतं करोति । ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्ताल्ल्युः (३.१.१३३) । यद्वा पीयते । ‘पीङ् पाने’ (दि० आ० अ०) बाहुलकात्तनन्, गुणाभावश्च । ‘पीतनं पीतदारुणि । कुङ्कुमे हरिताले च पुमानाम्रातके मतः’ (इति मेदिनी) ॥”
पीतनम् पीतं वर्णं नयते । ‘णय गतौ’ (भ्वा० आ० से०) । ‘णीञ्’ (भ्वा० उ० अ०) वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘पीतनं पीतदारुणि । कुङ्कुमे हरिताले च (पुमानाम्रा तके मतः)’ इति विश्वः (मेदिनी) ॥
पीतसालकः अथविति । पीतः सारोऽस्य । रलयोरेकत्वम् ॥
पीता पीयते स्म । ‘पीङ् पाने’ (दि० आ० अ०) । ‘पा पाने’ (भ्वा० प० अ०) । कर्मणि क्तः (३.२.१०२) । ‘घुमास्था-’ (६.४.६६) इतीत्वम् । ‘पीतो वर्णनिपीतयोः । पीता हरिद्रा’ इति हैमः ॥
पीताम्बरः पीतमम्बरं यस्य । (‘पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने’) ॥
पीतिः पिबति । ‘पा पाने’ (भ्वा० प० अ०) । क्तिन् (३.३.१७४) । ‘घुमास्था-’ (६.४.६६) इतीत्वम् । ‘पीतिर्नाश्वे स्त्रियां पाने’ (इति मेदिनी) । ‘वीति’ इति पाठे । वेति । ‘वी गत्यादिषु’ (अ० प० अ०) । क्तिच् (३.३.१७४) । ‘वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ’ इति हैमः ॥
पीनसः “पीनं स्यति, सायति, वा । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘क्षै क्षये’ (भ्वा० प० अ०) वा । ‘आतोऽनुप-’ (३.२.३) इति कः ॥ ‘आपीनसः प्रतिश्या स्यात्’ इति रभसः।”
पीनोध्नी पीति । पीनमूधोऽस्याः । ‘ऊधसोऽनङ् (५.४.१३१) । ‘बहुव्रीहेरूधसो ङीष्’ (४.१.२५) ॥
पीयूष पीति । पीयति । पीय्यते अनेन वा । ‘पीयू प्रीतौ’ (सौत्रः) । ‘पीयेरूषन्’ (उ० ४.७६) ‘पीयूषं सप्तदिवसावधिक्षीरे तथामृते’ इति विश्वमेदिन्यौ । मुकुटस्तु–‘पेयूषम्’ इति पठति । तत्र बाहुलकाद्गुणः । यत्तु–पीयते इदम् । ‘पीङ् पाने’ (दि० आ० अ०) । ‘अन्येभ्योऽपि’ (३.२.७५) इति विच् । पेः पानकर्ता । ‘यूष हिंसायाम्’ (भ्वा० आ० से०) इत्यतः इगुपधत्वात् कः (३.१.१३५) । यूषो नाशयिता । पेर्युषः इति व्याख्याताम् । तन्न । ‘इदम्’ इति कर्मनिर्देशात् । कर्तरि विचो विधानात् । ‘इदम्’ इति कर्तृनिर्देशश्चेत् । तर्हि ‘पानकर्तृनाशयितृ’ इति वक्तुं युक्तम् ॥
पीयूषम् पीयूषमिति । पीयते । पीय’ इति सौत्रो धातुः । ‘पीयेरूषन्’ (उ० ४.७६) । बहुलवचनात्पक्षे गुणः । ‘स्यात्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च’ इति हारावली । ‘पीयूषं सप्तदिवसा वधिक्षीरे तथाऽमृते ।
पीलुः पीति । पीलति । ‘पील प्रतिष्टम्भे’ (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) उः । (‘पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयोः’) ॥
पीलुपर्णी पीलोरिव पर्णमस्याः । पीलु शब्दः स्वावयवे गौणः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
पीलुपर्णी पीलोरिव पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीष् । ‘पीलपर्णी चिंचिकायां मूर्वायामौषधीभिदि’ (इति मेदिनी) ॥
पीवरस्तनी पीवरः स्तनोऽस्याः । ‘स्वाङ्गाच्चोपसर्जनात्’ (४.१.५४) इति ङीष् ॥
पुंमान् स्युरिति । पाति ‘पा रक्षणे’ (अ० प० अ०) । ‘पातेर्डुम्सुन्’ (उ० ४.१७८) । क्वचित् ‘पूञो डुम्सुन्’ इति पाठः । पुनाति ‘पूञ् पवने’ (क्र्या० उ० से०) ॥
पुंश्चली पुंश्चलीति । पुंसो भर्तुः सकाशाच्चलति पुरुषान्तरं गच्छति । ‘चल गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) – पुमांसं वृत्ताच्चालयति च्यावयति । कर्मण्यणन्तान्ङीप् (४.१.१५) इति मुकुटः । तन्न । ‘चल कम्पने’ इत्यनेन कम्पनादन्यत्र मित्त्वाविधानाद्वृद्धिप्रसङ्गात् । संज्ञापूर्वकत्वं वा वृद्धेः ॥
पुक्कसः
- पुत् कुत्सितं पुण्यं वा (३.१.१३४) । मूलविभुजादिकः (वा० ३.२.५) वा । पृषोदरादिः (६.३.१०९) । ‘पुष्कसी कालिकानील्योः’ पुष्कसः श्वपचेऽधमे’ इति (विश्वे) दर्शनात्पुष्कसोऽपि । (हैमे तु ‘वुक्कसी - वुक्कस’ शब्दावुपलभ्येते) ॥
पुच्छः प्विति । पुच्छति । ‘पुच्छ प्रमादे । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘पुच्छभाण्ड-’ (३.१.२०) इति निपातनाद्वा । -इगुपधत्वात्कोवा –इति मुकुटश्चिन्त्यः । अन्तरङ्गत्वात्तुकि सतीगुपधत्वाभावात् । ‘पुच्छः पश्चात्प्रदेशः स्याल्लाङ्गूले पुच्छमिष्यते’ इति मेदिनी ॥
पुञ्जः “पुञ्जेति । पिञ्जयति, पिञ्ज्यते वा । ‘पिजि हिंसाबलादाननिकेतनेषु’ (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । पृषोदरादिः (६.३.१०९) । यद्वा उन्नत्या पुमांसं जयति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । पुञ्ज्यते । पुञ्जः– स्वामी ॥”
पुटभेदनम् पुटानि पात्राणि भिद्यन्तेऽत्र । भिदिर् विदारणे’ (रु० उ० अ०) । अधिकरणे ल्युट् (३.३.११७) इति मुकुटः । तन्न । हलश्च (३.३.१२१) इति घञो ल्युडपवादत्वात् । युच् (उ० २.७८) तूचितः ॥
पुटभेदाः पुटं संश्लिष्टं निन्दन्ति । भिदिर् विदारणे’ (रु० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘पुटभेदस्तु नगरातोद्य-योस्तटिनी मुखे इति हैमः ।प्रक्रिया –
पुण्डरीकः पुण्डरीकवर्णयोगात् । अर्शआद्यच् (५.२.१२७) । (‘पुण्डरीकं सिताम्बुजे । सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे । सहकारे गणधरे राजिलाहौ गजज्वरे । कोषकारान्तरे व्याघ्रे’) ॥
पुण्डरीकम् पुण्डेति । पुण्डयति । ‘मडि भूषायाम्” । पुडि च’ (भ्वा० प० से०) । ‘पर्फरीकादयश्च’ (उ० ४.२०) इत्यरीकन् । पुण्डरीकं सिताम्भोजे सितिच्छत्रे च भेषजे । पुंसि व्याघ्रेऽग्नि दिग्वर्गे कोषकारान्तरेऽपि च ।
पुण्डरीकाक्षः पुण्डरीकमिवाक्षिणी यस्य । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (५.४.७३) । पुण्डरीकेष्वक्षि यस्य वा । एतच्च हरिस्ते साहस्रं कमल बलिमादाय इत्यत्र व्यक्तम् । यद्वा पुण्डरीकं लोकात्मकम् अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० वे०) कर्मण्यण् (३.२.१) तत् क्षायति वा । क्षै क्षये (भ्वा० प० अ०) आतोऽनुप (३.२.३) इति कः । अन्येषामपि (६.३.१३७) इति दीर्घः आङ्प्रश्लेषो वा । तत्र ‘सुपि’ (३.२.४) इति (योगविभागात्) ‘मूलविभुजादि’ (वा०३.२.५) इति कः ।
पुण्डर्यम् पुण्डयति । ‘पुडि खण्डने (भ्वा० प० से०) । अच् (३.१.१३४) । पुण्डस्य अर्यं प्रधानम् । शकन्ध्वादिः (वा० ६.१.९४) ॥
पुण्ड्रः तदिति । कोषकाराद्या आदिना गृह्यन्ते । ‘इक्षुः कर्कटको वंशः कान्तारो वेणुनिसृतः । इक्षुरन्यः पौण्डृकश्च रसालः सुकुमारकः’ । पुण्ड्यन्ते । ‘पुडि खण्डने’ (भ्वा० प० से०) । ‘स्फायी-’ (उ० २.१३) इत्यादिना रक् ॥ प्रज्ञाद्यणि (५.४.३८) । पौण्ड्रः । ‘पुण्ड्रेक्षौ पुण्डुकः सेव्यः पौण्डृकोतिरसो मधुः’ इति वाचस्पतिः । ‘पुण्ड्रो दैत्यविशेषेक्षु भेदयोरतिमुक्तके । (चित्रे कृमौ पुण्डरीके पुंभूम्नि नीवृदन्तरे । (इति मेदिनी) ॥
पुण्ड्रकः पुण्डति पुण्ड्यते वा । ‘मुडि खण्डने ‘पुडि च’ (भ्वा० प० से०) । ‘स्फायि-’ (उ० २.१३) इति रक् । स्वार्थे कन् (५.३.७५) ।
पुण्यकम् “तेति । उपवास आदिर्यस्य कृच्छ्रचान्द्रायणप्राजापत्यनक्तभोजनादेः, तदुपवासादि व्रतम् । पुण्यमेव । ‘संज्ञायां कन्’ (५.३.७५) ॥”
पुण्यजनः विरुद्धलक्षणया पुण्यश्चासौ जनश्च । (अक्ष पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च’) ।
पुण्यजनेश्वरः पुण्यजनानामीश्वरः ।
पुण्यभूमिः “पुण्यस्य भूमिः । पुण्या चासौ भूमिश्च, इति वा ॥”
पुण्यम् पुनाति । ‘पूञो यण् णुक् हस्वश्च’ (उ० ५.१५) इति यत् णुक् ह्रस्वश्च । यद्वा पुणति । पुण कर्माणि शुभे’ (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । पुणमर्हति । तत्र साधुर्वा । यत् (५.१.६६) । (पुण्यं तु सुन्दरे । सुकृते पावने धर्मे) ।
पुत्तिका पुत् कुत्सितं तायते । ‘तायृ संतानपालनयोः’ (भ्वा० आ० से०) । बाहुलकात् कः । यलोपः (६.१.६६) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । ‘प्रत्ययस्थात्-’ (७.३.४४) इतीत्वम् । पुत् कुत्सितं शब्दं तनोति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । स्वार्थे कन् (५.३.७५) ॥
पुत्रः “पुनाति, पूयते, वा । ‘पूञ् पवने’ (क्र्या० उ० से०) । ‘पुवो ह्रस्वश्च’ (उ० ४.१६५) इति कः । यद्वा पुन्नरकात्त्रायते । ‘सुपि’ (३.२.४) इति कः । ‘पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् ‘पुत्त्र’ इति प्रोक्तः स्वयमेव स्वयंभुवा’ (मनुः ९.१३८) ॥”
पुत्रिका
- पुत्रीव । ‘इवे-’ (५.३.९५) इति कन् । यावादित्वात् (५.४.२९) वा । ‘स्यात्पुत्रिका पुत्तलिकादु- हित्रोर्यावतूलिके । ना पुत्रे शरभे धूर्ते शैलवृक्षप्रभेदयोः’ इति विश्वमेदिन्यो ॥
पुत्रौ पुत्राविति । पुत्रश्च दुहिता च । ‘भ्रातृपुत्रौ-’ (१.२.६८) इत्येकशेषः ॥
पुनः – पुनः ।
पुनः पुनः
- ‘नित्यवीप्सयोः’ (८.१.४) इति पुनःशब्दस्य द्वित्वम् ॥
पुनर्नवा पुनेति । पुनरभीक्ष्णं नवा । नूयते वा । ‘ऋदोरप्’ (३.३.५७) । क्षुभ्नादिः (८.४.३९) ॥
पुनर्भवः प्विति । पुनर्भवति । अच् (३.१.१३४) । ‘पुनर्नवः’ इति वा पाठः ॥
पुनर्भूः पुनरिति । पुनर्भवति संस्कृता । क्विप् (३.२.७६) ॥
पुन्नागः पुंनेति । पुमान् नाग इव । ‘उपमितं व्याघ्रा-’ (२.१.५६) इति समासः । ‘पुंनागो नृश्रेष्ठः । प्राधान्यात्स इव । ‘पुंनागस्तु सितोत्पले । जातीफले नरश्रेष्ठे पाण्डुनागे द्रुमान्तरे ॥
पुरःसरः अग्रतः सरति । पुरः सरति । ‘पुरोऽग्रतः-’ (३.२.१८) इति टः ॥
पुरंदरः पुरोऽरीणां दारयति । ‘पूःसर्वयोर्दारिसहोः’ (३.२.४१) इति खच् । ‘वाचंयमपुरंदरौ च’ (६.३.६९) इति निपातितः ।
पुरंध्री ‘पुरं नपुंसकं गेहे’ (इति मेदिनी) । पुरं धारयति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । स्वार्थण्यन्तः । ‘संज्ञायां भृतॄवृ-’ (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । गौरादिः (४.१.४१) । पृषोदरादिः (६.३.१०९) – हलन्तात् ‘इगुपधात् किः’ - इति मुकुटः । तन्न । धरतेर्हलन्तत्वेगुपधत्वयोरभावात् ॥
पुरः परति । ‘पुर अग्रगमने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘पुरं पाटलिपुत्रेऽङ्गे गुग्गुलौ तु पुमानयम्’ इति रभसः । यत्तु-पिपर्ति । पुरः । ‘इगुपध-’ इति कः । ‘उदोष्ठ्यपूर्वस्य’ (७.१.१०२) इत्युत् - इति स्वाम्याह । तन्न । ‘प्रीञ् तर्पणे कान्तौ च’ (क्र्या० उ० से०) इत्यस्य तत्र ग्रहणात् । ‘प्रीणातीति प्रियः’ इति वृत्तिकृता विगृहीतत्वात् । ‘प्रीणातीति प्रियः’ इत्युक्त्वा ‘इगुपधज्ञाप्रीकिरः कः’ इति माधवोक्तेश्च ॥
पुरः
- पूर्वस्मिन् । ‘पूर्वाधरावराणामसिपुरधवश्चैषाम्’ (५.३.३९) ॥
पुरतः
- पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । बाहुलकादतसुक् ॥
पुरद्वारम् पुरेति । पुरस्य द्वारम् ॥
पुराणम् “पुरा भवम् । ‘सायंचिरम्-’ (४.३.२३) । इत ट्युट्युलौ । ‘पूर्वकालैक-’ (२.१.४९) इति सूत्रे निपातनात्तुडभावः । यद्वा पुरापि नवं पुराणम् । पुराणप्रोक्तेषु (४,३.१०५) इति सूत्रे निपातितम् । ‘यद्वा पुरा अतीता गतावर्थावणति । ‘अण शब्दे’ (भ्वा० प० से०) । पचाद्यच् । ‘पुराणं पञ्चलक्षणे’ । पणे पुंसि, त्रिषु प्रत्ने पुरा भवम् । ‘सायंचिरम्-’ (४.३.२३) । इत ट्युट्युलौ । ‘पूर्वकालैक-’ (२.१.४९) इति सूत्रे निपातनात्तुडभावः । यद्वा पुरापि नवं पुराणम् । पुराणप्रोक्तेषु (४,३.१०५) इति सूत्रे निपातितम् । ‘यद्वा पुरा अतीता गतावर्थावणति । ‘अण शब्दे’ (भ्वा० प० से०) । पचाद्यच् । ‘पुराणं पञ्चलक्षणे’ । पणे पुंसि, त्रिषु प्रत्ने ।”
पुरावृत्तम् पुरावृत्तमाचष्टे पुरावृत्तम् । आख्यानण्यन्तात् (वा० ३.१.२६) पचाद्यच् (३.१.१३४ ।
पुरी यदपि- ‘पृ पालने इत्यस्माद् ऋदोरप्’ (३.३५७) । पूर्वविप्रतिषेधेन गुणादुत्वम् - इत्युक्तम् । तदपि न । पूर्वविप्रतिषेधे प्रमाणाभावात् । पिपर्ति इत्यादावतिप्रसङ्गाच्च । पुरति । ‘इगुपध-’ (३.१.१३५) इति कः । कर्मणः कर्तृत्वविवक्षात्र । गौरादित्वात् (४.१.४१) ‘जातेः- (४.१.६३) इति वा ङीष् ॥
पुरीतत् पुरीं शरीरं तनोति । क्विप् (३.२.७६) । ‘गमादीनां क्वौ’ (वा० ६.४.४०) इत्यनुनासिकलोपः । तुक् (६.१.७१) ‘पुरीं तनोति’ इति पक्षे ‘नहिवृति–’ (६.३.११६) इति दीर्घः । ‘अनुदात्तोपदेश-’ (६.४.३७) इति नलोपः इति मुकुटस्य प्रमादः । वस्य इल्त्वाभावात् । ‘पुरीतदस्त्रियाम्’ इति वाचस्पतिः ॥
पुरीषम् पिपर्ति शरीरम् । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘कॄतॄभ्यामीषन्’ (उ० ४.२६) । ‘शॄपॄभ्यां किच्च’ (उ० ४.२७) इतीषन् किच्च । ‘उदोष्ठ्यपूर्वस्य’ (७.१.१०२) ॥
पुरुषः पुरति । ‘पुर अग्रगमने (तु० प० से०) । ‘पुरः कुषन्’ (उ० ४.७४) । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घत्वे पुरुषः’ अपि । पूरयति । ‘पूरी आप्यायने’ (दि० आ० से०) । बाहुलकात्कुषन् । ‘पुरुषस्त्वात्मनि नरे पुंनागे च’ इति हैमः ।
पुरुषः पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । पुरः कुषन् (उ० ४.७४) । यत्तु ‘पिपर्ति’ इति विगृह्य ‘पुरः कुषन्’ इत्युपन्यस्तं मुकुटेन । तद्रभसात् । ‘पुरुषस्त्वात्मनि नरे पुंनागे च’ ॥
पुरुषः पुरति । ‘पुर अग्रगमने’ (तु० प० से०) । ‘पुरः कुषन्’ (उ० ४.७४) ॥
पुरुषोत्तमः “पुरुषेषूत्तमः, पुरुषाणां पुरुषेभ्यो वोत्तमः ॥”
पुरुहूतः पुरु प्रचुरं हूतमाह्वानं यज्ञेष्वस्य । पुरूणि हूतानि नामान्यस्येति वा ।।
पुरोगः प्विति । पुरोगच्छति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ॥
पुरोगमः पुरो गच्छति । अच् (३.१.१३४) । ‘गमञ्च’ (३.२.४७) इति खच् वा ॥
पुरोगामी ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः ॥
पुरोधस् प्विति । पुरोऽग्रे धीयते । ‘पुरसि च’ (उ० ४.२.३१) इति धाञोऽसिः ॥
पुरोहितः पुरो धीयते स्म । क्तः (३.२.१०२) । ‘दधातेर्हिः’ (७.४.४२) ॥
पुलिनम् तोय इति । पुलति । ‘पुल महत्त्वे’ (भ्वा० प० से०) ‘तलि पुलिभ्यां च (उ० २५३) इतीनन् । त्रिकाण्डशेषे तु ‘पुलिनं द्वीपमुच्यते’ इत्यभिहितम् । (१)
पुलिन्दः
- पोलति । ‘पुल महत्त्वे’ (भ्वा० प० से०) । ‘कुणिपुलिभ्यां किन्दच्’ (उ० ४.८५) इति मुकुटः । ‘पुलिन्दः कथ्यते म्लेच्छे पुलिन्द्रेऽपि निगद्यते’ इति तारपालः । ‘पुलिन्दः पञ्चशवरः’ इति रत्नकोषः ॥ म्लेच्छति । ‘म्लेच्छ अव्यक्ते शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) म्लेच्छानां जातयोऽवान्तरभेदाः । ‘गोमांसभक्षको यस्तु लोकबाह्यं च भाषते । सर्वाचारविहीनोऽसौ म्लेच्छ इत्यभिधीयते’ सूत- संहितायामपि । ‘ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः । अस्यामनेन चौर्येण म्लेच्छो विप्रात्प्रजायते’ इति ॥
पुलोमजा पञ्चम्यामजातौ’ (३.२.९८) इति डः । अत एव पौलोमी’ अपि । तस्यापत्यम्’ (४.१.९२) इत्यण् । गोत्रत्वेन जातित्वान्ङीष् (४.१.६३) ।
पुष्करम् पुष्णाति । ‘पुष पुष्टौ’ (क्र्या० प० से०) । ‘पुषः कित्’ (उ० ४.४) इति करन् । पुष्करं पङ्कजे व्योम्नि पयः करिकाग्रयोः । ओषधीद्वीपविहगतीर्थराजोरगान्तरे । पुष्करं तूर्यवक्रे च काण्डे खड्गफलेऽपि च’
पुष्करम् पुष्णाति । ‘पुष पुष्टौ’ (दि० प० अ०) । ‘पुषः कित्’ (उ० ४.४) इति करन् । ‘पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे’ इति हैमः ।
पुष्करम् पुष्यति । ‘पुष पुष्टौ’ (दि० प० अ०) । ‘पुषः कित्’ (उ० ४.४) इति करच् कित्त्वं च । पुष्कं वारि राति इति स्वामी ।‘पुष्करं गगनपद्मवारिषु’ । (‘पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे’)
पुष्करम् “मूल इति । पौष्करे मूले, इत्यन्वयः । पुष्णाति, पुष्यति वा । ‘पुष पुष्टौ’ (दि० प० अ०, क्र्या० प० से०) । ‘पुषः कित्’ (उ० ४.४) इति करन् । ‘पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । ओषधिद्वीपविहगतीर्थरागोरगान्तरे । पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च’ (इति विश्वः च ॥”
पुष्कराह्वः पुष्केति । पुष्करं पद्मं तस्याह्वा आह्वा यस्य ॥
पुष्करिणी पुष्केति । पुष्कराणि सन्त्यस्याम् । ‘पुष्करादिभ्यो देशे’ (५.२.१३५) इतीनिः । पुष्करिणी नद्यां सरोजिन्यां जलाशये ॥
पुष्पकम् पुष्यति । पुष्प विकसने’ (दि० प० से०) । क्वुन् (उ० २.३२) पुष्पमिव वा । ‘इवे प्रतिकृतौ । (५.३.९६) इति कन् । ‘विमानं तु पुष्पकोऽस्त्री नगरी त्वलका प्रभा’ इति शब्दार्णवात् पुंस्त्वमपि । (पुष्पकं रीतिपुष्पे च विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाञ्जने । लोहकांस्ये मृदङ्गारशकट्यां च नपुंसकम्’ ।
पुष्पकेतुः पुष्पस्य केतुरिव । नाशकत्वात् । उदन्तनपुंसकेषु ‘पुष्पकेतु कुसुमाञ्जनम्’ इति रुद्रः ॥
पुष्पदन्ताः पुष्पमिव दन्ता यस्य । (‘पुष्पदन्तस्तु दिङ्नागभेदे विद्याधरान्तरे’)
पुष्पधन्वा पुष्पं धनुरस्य । ‘वा संज्ञायाम्’ (५.४.१३३) इत्यनङ् । तदभावे सान्तः (पुष्पधनुः) अपि ।
पुष्पफलः पुष्पयुक्तं फलमस्य ॥
पुष्पम् पुष्प्यति । ‘पुष्प विकसने’ (दि० प० से०) । पचाद्यच् (३.१.१३४) । ‘पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि इति हैमः ॥
पुष्पम् पुष्प्यते । ‘पुष्प विकसने’ (दि० प० से०) । घञ् (३.३.१९) । ‘पुष्पं विकासिकुसुमस्त्रीरजःसु नपुंसकम्’ (इति मेदिनी) ॥
पुष्परसः पुष्पस्य रसः ॥
पुष्पलिट् मधु लेढि । ‘लिह आस्वादने’ (अ० उ० अ०) । क्विप् (३.२.७६) ॥ (३)
पुष्पवती पुष्पं रजोऽस्त्यस्याः । मतुप् (५.२.९४) ॥
पुष्पवत् “पुष्प विकसने’ (दि० प० से०) । भावे घञ् (३.३.१८) । पुष्पो विकासः प्रकाशश्च । तद्वन्तौ । मतुप् (५.२९४) । एकयोक्त्या साधारणवचनेन । प्रत्येकं ‘पुष्पवान्’ इति न प्रयोक्तव्यमिति भावः । अकारान्तोऽपि पुष्पवन्तशब्दः । अव रक्षणे’ (भ्वा० प० से०) । ‘जॄविशिभ्यां झच्’ (उ० ३.१२६) इति बाहुलकादवतेरपि झच् । ‘झोऽन्तः(७.१.३) । पुष्पस्यावन्तौ इति विग्रहे शकन्ध्वादिः (वा० ६.१.९४) । रविशशिनौ पुष्पवन्ताख्यौ इति नाममाला । ‘पुष्पवन्ताभ्याम्, पुष्पवन्तयोः’ इत्यादि । (पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ । ‘पुष्यन्दतौ च चन्द्रार्कवेकोक्त्या’ इति हैमतः पुष्पदन्तौ अपि बोध्यौ) ।।”
पुष्पसमयः पुष्पाणां समयः ।
पुष्यः पुष्येत्विति । पुष्णाति कार्याणि । ‘पुष्यः कलियुगे स्मृतः । मासनक्षत्रयोर्भेदे’ ।।
पुष्यरथः असाविति । पुष्य इव रथः । पुष्ये यात्रोत्सवादौ रथो वा । अन्तस्थमध्या । पकारमध्यपाठे तु सुकुमारत्वात् ‘पुष्पमिव रथः’ इति विग्रहः ॥
पुस्तम्
- प्विति । पुस्त्यते । ‘पुस्त आदरादौ’ (चु० प० से०) णिच् । ‘एरच्’ (३.३.५६) ॥‘मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते । लेप्यमादिर्यस्य । तच्च तत्कर्म च । आदिना काष्ठपुत्तलिकादि ।
पूः “पूरिति । पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘भ्राजभास-’ (३.३.१७७) इति क्विप् । उदोष्ठ्य- (७.१.१०२) इत्युत्वम् । –‘हलि च (८.२.७७) इति दीर्घः इति मुकुटः । तन्न । ‘र्वोः’ (८.२.७६) इत्यस्य विषयात् । पूर्यते । ‘पुर अग्रगमने’ (तु० प० से०) । सम्पदादि क्विप् । (वा० ३.३.१०८) वा । यत्तु-पिपर्ति, पूरयति, वा इति विगृह्य ‘पॄ पालने’ इति धातुमुपन्यस्य ‘भ्राजभास-’ इति क्विप् इति मुकुटः । तन्न । उक्तधातोः ‘पूरयति’ इति रूपासम्भवात् । ‘पूरी आप्यायने’ (चु० उ० से०) इत्यस्मादुक्तसूत्रेण क्विपोऽविधानात् । सर्वत्र दीर्घोच्चारणश्रवणप्रसङ्गाच्च । (‘पूः शरीरे पत्तने च’) ॥”
पूगः “पवते, पुनाति, वा । ‘पूञ् पवने’ (भ्वा० आ० से०) । ‘छापूखडिभ्यः कित्’ (उ० १.१२४) इति गन् । मुकुटस्तु - पूज्यते मान्यते सेचनादिना फलद्वारेण, अनेन, वा । घञि कुत्वे पूगः – इत्याह । तन्न । पूजेश्चुरादिण्यन्तत्वेन णिलोपस्य स्थानिवत्त्वेन कुत्वाप्रसङ्गात् । ‘निष्ठायामनिटः’ (७.३.५३) इति वार्तिकाच्च । ‘पूगः क्रमुकसंघयोः’ इति हैमः ॥”
पूजा प्विति । पूजनम् । ‘पूज पूजायाम्’ (चु० प० से०) ‘चिन्तिपूजि-’ (३.३.१०५) इत्यङ् ॥
पूतः पवते स्म । ‘पूङ् पवने’ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘पूतं त्रिषु पवित्रे च शटिते बहुलीकृते’ (इति मेदिनी) ॥
पूतना पूतं करोति । ‘तत्करोति-’ (वा० ३.१.२६) इति णिच् । ‘बहुलमन्यत्रापि (उ० २.७८) इति युच् । ‘पूतना तु हरीतक्यां दानवीरोगभेदयोः’ इति मेदिनी ॥
पूतम् प्विति । पूयते स्म । ‘पृञ् पवने’ (क्र्या० उ० से०) । क्तः (३.२.१०२) । ‘पूतं त्रिषु पवित्रे च शठिते बहुलीकृते’ इति विश्वः (मेदिनी) ॥
पूतिकरजः पूतिश्चासौ करजश्च ॥
पूतिकाष्ठम् पूति च तत्काष्ठम् ॥
पूतिकाष्ठम् पूतेः पावनस्य काष्ठम् । ‘पूतिकाष्ठं च सरलदेवदारुमहीरुहोः इति मेदिनी ॥
पूतिगन्धिः ‘पूयी विशरणे दुर्गन्धे च’ (भ्वा० आ० से०) । पूयते । पूतिः । क्तिन् (३.३.९४) । पूतिर्दुष्टो गन्धोऽस्य । गन्धस्येत्’ (५.४.१३५) इतीकारः ।
पूतिफली पूतिः फलेष्वस्याः ‘पाककर्ण-’ (४.३.५३) इति ङीष् ॥
पूतीकः पुनाति । ‘पूञ् पवने” (क्र्या० उ० से०) । ‘तिन्तिडीकादयश्च’ (उ० ४.२०) इतीकन् तुक्च ॥ (‘पूतिकः’ इति पाठे पुतिं कायति । ‘पूतीकः पूतिकः’ इति माधवः) ॥
पूपः “प्विति । पवनम् । ‘पूञ् पवने’ (क्र्या० उ० से०) सम्पदादिक्विप् (वा० ३.३.१०८) पुवं पाति, पिबति, वा । ‘आतोऽनुप-’ (३.२.३) इति कः । मुकुटस्तु–पुनाति । पूपः । ‘नीपादयश्च’ इति पः कित्-इति तन्न । तादृशसूत्रस्यापाणिनीयत्वात् ॥”
पूरणी पूरयति । ‘पूरी आप्यायने (चु० उ० से०) । ल्युट् (३.३.११४) । ‘टिट्ठा-’ (४.१.१५) इति ङीप् । यत्तु मुकुटः- ‘र्वोः-’ (८.२.७६) इत्यादिना दीर्घः - इत्याह । तन्न । हल्यदान्तयोरभावात् । धातोर्दीर्घोपधत्वाच्च । ‘पूरणः पूरके त्रिषु । क्लीबं पिष्टप्रभेदे च पूरणी शाल्मलिद्रुमे । (पटारम्भकसूत्रेषु)’ ॥
पूरुषः पृषोदरादित्वात् (६.३.१०९) दीर्घः । यद्वा ‘पूरी आप्यायने’ (दि० आ० से०) । बाहुलकात् कुषन् ॥
पूर्णकुम्भः पूर्णः कुम्भः ॥
पूर्णिमा ‘पूरी आप्यायने’ (दि० आ० से०) । भावे क्तः (३.३.११४) । पूर्णं चन्द्रस्य पूरणम् । तेन निर्वृत्ता पूर्णिमा । भावप्रत्ययान्तात् तेन निर्वृत्तम्’ इत्यर्थ इमप् (वा० ४.४.२०) । टाप् (४.१. ४) ।
पूर्तम् प्विति । खातं पुष्करिणीखननमादिर्यस्य देवालयारामादिनिर्माणस्य । खातादि च तत्कर्म च क्रिया तस्मिन् । पूरणम् । पूर्यन्ते स्म वा । ‘पॄ पालनपूरणयोः (जु० प० से०) । भावे (३.३.११४) कर्मणि (३.२.१०२) वा क्तः । न ध्याख्या-’(८.२.५७) इति निष्ठानत्वं न । ‘पुष्करिण्यः सभावापी देवतायतनानि च । आरामाश्च विशेषेण पूर्तं कर्म विनिर्दिशेत् । इति स्मृतिः । ‘पूर्त त्रिषु पूरिते स्यात्क्लीबं खातादिकर्मणि’ (इति मेदिनी) ॥
पूर्वजः पूर्वेति । पूर्वस्मिन्काले जातः । ‘सप्तम्यां जनेर्डः’ (३.२.९७) ॥
पूर्वदेवाः पूर्वे च ते देवाश्च । ‘पूर्वापर प्रथम-’ (२.१.५८) इत्यादिना समासः । यद्वा पूर्वं देवाः । अन्यायाद्धि देवत्वाद्भ्रष्टाः । ‘सुप्सुपा’ (२.१.४) इति समासः । पूर्वे देवा येभ्यो वा । ‘अनेकमन्यपदार्थे’ (२.२.२४) इति बहुव्रीहिः ॥
पूर्वपर्वतः पूर्वः पूर्वतः ।
पूर्वेद्युः “- पूर्वोत्तरापरेभ्योऽधरान्यान्यतरेभ्यश्च ‘पूर्वेऽह्नि’ इत्यादावर्थे पूर्वेद्युरादयः शब्दा भवन्तीत्यन्वयः । आदिना ‘उत्तरेऽह्नि, अपरेह्नि, अन्यस्मिन्नह्नि, अन्यतरस्मिन्नह्नि, इतरस्मिन्नह्नि । द्वितीयेनादिशब्देन ‘उत्तरेद्युः’ ‘अपरेद्युः’ ‘अधरेद्युः’ ‘अन्येद्युः’ ‘अन्यतरेयुः ‘इतरेद्युः । ‘सद्यःपरुत्-’ (५.३.२२) इत्यादिना निपातितः । ‘पूर्वद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे’ इति रुद्रः ।”
पूषन् पुष्णाति । पूषति वा । ‘पुष पुष्टौ’ (क्र्या० प० से०) । ‘पूष वृद्धौ’ (भ्वा० प० से०) वा ‘श्वन्नुक्षन्-’ (उ० १.१५९) इति निपातितः ।
पृच्छा प्रच्छन्नम् । ‘गुरोश्च हलः’ (३.३.१०३) इत्यङ् । सम्प्रसारणम् (६.१.१६) ॥
पृतना प्रियते । ‘पृङ् व्यायामे’ (तु० आ० अ०) । बाहुलकात्तनन् । गुणाभावश्च । ‘पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः’ (इति मेदिनी) ॥
पृतना प्रियते । ‘पृङ् व्यायामे’ (तु० आ० अ०) । बाहुलकात्तनन् । गुणाभावश्च । ‘पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः’ (इति मेदिनी) ॥
पृथक्
- पर्थयति । ‘पृथ प्रक्षेपे’ (चु० प० से०) । बाहुलकात् कक् ॥
पृथक्पर्णी पृथगसक्तं पर्णमस्याः । ङीष् (४.१.५४) ॥
पृथगात्मता पृथगात्मा यस्य तस्य भावः । तल् (५.१.११०) ।
पृथगात्मता पृथगात्मा यस्य सः । तस्य भावः । तल् (५.१.११९) ॥
पृथग्जनः
- सज्जनेभ्यः पृथग्भूतो जनः । शाकपार्थिवादिः (वा० २.१.७८) ॥
पृथिवी प्रथते । ‘प्रथ विस्तारे । ‘प्रथेः षिवन् सम्प्रसारणं च’ (उ० ११४९) । षित्वात् (४.१.४१) ङीष् । ‘षवन्’ इत्येके । पृथवी । पृथिवी पृथवी पृथ्वी’ इति शब्दार्णवः
पृथुः ‘पृथुः स्यान्महति त्रिषु । त्वकपर्ण्यां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे’ (इति मेदिनी) ॥
पृथुः ‘पृथुः स्यान्महति त्रिषु । त्वक्पत्र्यां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे’ (इति मेदिनी) ॥
पृथुकः पर्थयति । पर्थ्यते वा । ‘पृथु प्रक्षेपे’ चुरादिः । प्रथते वा । ‘प्रथ प्रख्याने’ (भ्वा० आ० से०) । ‘अर्भकपृथुकपाका वयसि’ (उ० ५.५३) इति साधुः । -पृथु कायति इति स्वामिमुकुटौ चिन्त्यौ । ‘पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्’ (इति मेदिनी) इत्यत्र पूर्ववदवयसि चरितार्थत्वेनास्य वयसि बाधनात् ॥
पृथुकः प्रिति । प्रथते । ‘प्रथ प्रख्याने’ (चु० उ० से०) । ‘पृथुकपाकाः-’ (उ० ५.५३) इति साधुः । ‘पृथुकश्चिपिटेऽर्भके’ इति हेमचन्द्रः ॥
पृथुरोमा पृथ्विति । पृथूनि रोमाण्यस्य । रोम पक्षोऽत्र इति स्वामी । वल्कलम् - इति सर्वधरः ॥
पृथ्वी ‘प्रथिम्रदि-’ (उ० १.२८) इति उप्रत्यये संप्रसारणे ‘वोतो गुण-’ (४. १.४४) इति ङीषि पृथ्वी । ‘पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके’
पृथ्वी प्रथते । ‘प्रथ प्रख्याने’ (चु० प० से०) । ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणम्-’ (उ० १.२८) इति कुः । ‘वोतो गुणवचनात्’ (४.१.४४) इति ङीष् । ‘पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके’ इति विश्वः ॥
पृथ्वी प्रथते । ‘प्रथ प्रख्याने’ (चु० उ० से०) । ‘प्रथिम्रदिभ्रस्जां संप्रसारणम्’ (उ० १.२८) इति कुः । ‘वोतो गुणवचनात्’ (४.१.४४) इति वा ङीष् । ‘पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके’ इति विश्वः (मेदिनी) ॥
पृथ्वीका पृथ्वीति । प्रथते । ‘प्रथ प्रख्याने’ (भ्वा० आ० से०) । ‘पर्फरीकादयश्च’ (उ० ४.२०) इति साधुः ॥
पृदाकुः पर्दते। ‘पर्द कुत्सिते शब्दे’ (भ्वा० आ० से०) । ‘पर्देर्नित्संप्रसारणमल्लोपश्च’ (उ० ३.८०) इति काकुः प्रत्ययः । पिपर्ति स्वम् । पिपर्तेर्दाकुर्ह्रस्वश्च’ (*) इति वा । ‘पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमान् ।
पृश्निः “प्रिति । स्पृशति, स्पृश्यते वा । ‘स्पृश संस्पर्शे’ (तु० प० अ०) । ‘घृणिपृश्निपार्ष्णि-’ (उ० ४.५२) इति साधुः । पृच्छति, पृच्छयते, वा ‘प्रच्छ ज्ञीप्सायाम्’ (तु० प० अ०) । पर्षति, पृष्यते, वा । ‘पृषु सेचने’ (भ्वा० प० सं०) वा ॥”
पृश्निपर्णी पृश्नीति । पृश्निरल्पं पर्णमस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीप् ॥
पृषतः पृषताः सन्त्यस्य । अर्शआद्यच् (५.२.१२७) यद्वा पर्षति । ‘पृषु सेचने’ (भ्वा० प० से०) । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् । ‘मृगो विन्दुः पृषंश्चैव पृषतश्च प्रकीर्तितः’ इति व्याडिः । (पृषतवत् पृषन्मृगे । विन्दौ इति हैमः) । ‘पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतविन्दुयुतेऽपि स्यात्’ इति हेमचन्द्रः ॥
पृषताः पर्षन्ति । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् । ‘पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात्’ इति हैमः ।
पृषत् “पृषन्तीति । पर्षति । ‘पृषु सेचने’ (भ्वा० प० से०) । पृषद्बृहन्महत्-’ (उ० २.८४) इति साधु । बहुवचनमतन्त्रम् । ‘पृषन्मृगे पुमान्’ बिन्दौ न द्वयोः, पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ।”
पृषत्कः प्रिति । पर्षति । ‘पृष्ठ सेचने’ (भ्वा० प० से०) ‘लटः शतृ’ (३.२.१२४) संज्ञापूर्वकत्वान्न गुणः । यद्वा ‘वर्तमाने पृषत्बृहन्महत्-’ (उ० २.८४) इति साधुः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
पृषदश्वः पृषद् मृगभेदोऽश्वो वाहनमस्य । पृषतामम्बुकणानामश्व इवेति वा । यत्तु-पृषन्त्य-म्बुकणा अश्वाऽस्य-इति मुकुटः । तन्न । वाह्यवाहकभावस्य विपरीतत्वात् ।
पृषदाज्यम् “प्रिति । पर्षति, पृष्यते वा । ‘पृषु सेचने’ (भ्वा० प० से०) । वर्तमाने पृषत्-’ (उ० २.८४) इति साधुः । पृषच्च तदाज्यं च । यद्वा पृषद्भिः सहितमाज्यम् ॥ दध्ना सहिते घृते । ‘पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यते ॥”
पृष्ठम् प्रिति । पृष्यते । ‘पृषु सेचने’ (भ्वा० प० से०) । ‘तिथपृष्ठगूथ-’ (उ० २.१२) इति साधु । ‘पृष्ठं चरममात्रे स्याद्देहस्यावयवान्तरे’ (इति मेदिनी) ॥
पृष्ठ्यः प्रिति । प्रशस्तमतिशयितं वा पृष्ठमस्य । ‘अन्येभ्योऽपि (वा० ५.२.१२०) इति यप् ।
पेचकः “पचति – संतपति, पच्यते वा दुःखेन । ‘डुपचष् पाके’ (भ्वा० उ० अ०) ॥ ‘पचिमच्योरिच्चोपधायाः’ (उ० ५.३७) इति वुन् । अत इत्वम् । ‘पुगन्त-’ (७.३.८६) इति गुणः । यत्तु मुकुटः - कृञादित्वात् (उ० ५.३५) वुन् । पृषोदरादित्वात् (६.३. १०९) अत एत्वम् इत्याह । तन्न । ‘पचिमच्योः ’ इति सूत्रस्य सत्त्वात् । पृषोदरादित्वकल्पनाया अन्याय्यत्वात् । ‘अथ शक्राख्यो दिवान्धो वक्रनासिकः । हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ । काकभीरुर्नक्तचारी’ इति त्रिकाण्डशेषः ॥”
पेटकः
- ण्वुल् (३.१.१३३) । ‘पेटकः पुस्तकादीनां मञ्जूषायां कदम्बके’ इति विश्वः (मेदिनी) ॥
पेटा
- अच् (३.१.१३४) । ‘पेडा’ इति मुकुटः । तत्र पिण्डते । ‘पिडि सङ्घाते’ (भ्वा० आ० से०) । अच् (३.१. १३४) । अनित्यत्वान्न नुम् । ‘पीडा’ इति स्वामी । तत्र पीडयति । ‘पीड अवगाहने’ (चु० प० से०) । अच् (३.१.१३४) ॥
पेशलः
- पेशनम् । ‘पिश समाधौ’ (तु० प० से०) । घञ् । (३.३.१८) । पेशं लाति । कः (३.२.३) । पेशोऽस्यास्ति । सिध्मादित्वात् (५.२.९७) लज् वा ॥
पेशी पेशीति । पिंशति । ‘पिश अवयवे’ (तु० प० से०) । ‘हृपिशिरुहि-’ (उ० ४.११९) इतीन् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । ‘पेशी सुपक्वकणिके मांस्यां खड्गपिधानके । मांसपिण्ड्यामण्डभेदे’ (इति तालव्यान्तेषु मेदिनी) ॥
पैठरम् पिठरे संस्कृतं ‘संस्कृतं भक्षाः’ यत् (४.२.१६) । इत्यण् ॥
पैतृष्वसेयः पैत्रिति । पितृष्वसुरपत्यम् । ‘ढकि लोपः’ (४.१.१३३) ॥
पैतृष्वस्त्रीयः ‘पितृष्वसुश्छण्’ (४.१.१३२) ॥
पैत्रः नृणां मासेन । पितृणामयं पैत्रोऽहोरात्रः तत्र कृष्णपक्षो दिनम् । शुक्लपक्षो रात्रिः ।
पोगण्डः “पवते, पुनाति, वा । विच् (३.२.७५) । पौर्गण्ड एकदेशोऽस्य । अपकृष्टं गच्छति वा । ‘ञमन्ताड्डः’ (उ० १.११४) इति गमेर्डः । पृषोदरादिः (६.३.१०९) । ‘पोगण्डो विकलाङ्गकः’ इति रत्नकोषः । ‘पोगण्डो विकलाङ्गः स्यात्’ (इति हलायुधः) । ‘अपोगण्डः’ इति नञ्समासः । ‘अपोगण्डस्तु शिशुके पाठे विकलाङ्गे च भीरुके’ इति विश्वः ॥”
पोटगलः पोटेन संश्लेषेण गलति । ‘गल अदने (भ्वा० प० से०) । स्रवणे (चु० आ० से०) । अच् (३.१.१३४) । ‘अथ पोटगलः पुंसि नले च काशमत्स्ययोः’ (इति मेदिनी) ॥
पोटगलः पोटेन संश्लेषेण गलति । ‘गल अदने (भ्वा० प० से०) । स्रवणे (चु० आ० से०) । अच् (३.१.१३४) । ‘अथ पोटगलः पुंसि नले च काशमत्स्ययोः’ (इति मेदिनी) ॥
पोटा पोटेति । पोटयति । ‘पुट भासने’ चुरादिः । अच् (३.१.१३४) -पुटति । ‘पुट संश्लेषणे’ (तु० प० से०) । अच् (३.१.३२४) इति स्वामिमुकुटौ । तन्न । पुटेः कुटादित्वाद्गुणाभावप्रसङ्गात् ॥
पोतः “पोत इति । पुनाति, पवते वा । ‘पूञ् पवने’ (क्र्या० उ० से०) । ‘पूङ् पवने’ (भ्वा० आ० से०) वा । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । स्त्रियाम् ‘पोती’ । ‘वयसि प्रथमे’ (४.१.२०) इति ङीप् । ‘पोतः शिशौ वहित्रे च गृहस्थाने च वाससि’ इति मदिनी ॥”
पोतवणिक् पोतेनोपलक्षितो वणिक् ॥
पोतवाहाः पोतं वहन्ति । ‘कर्मण्यण्’ (३.२.१) (२) द्वे वहित्रवाहकस्य
पोताधानम् पोते वहित्रे आधीयते । धाञः (जु० उ० अ०) । कर्मणि ल्युट् (३.३.११३) । यद्वा पोतोऽर्भक आधीयतेऽत्र । अधिकरणे ल्युट् (३.३.११७) ॥ द्वे अण्डादचिरंनिर्गतमत्स्यसङ्गस्य ।
पोत्री पोत्रं मुखाग्रमस्त्यस्य । ‘अतः-’ (५.२.११५) इतीनिः ॥
पौत्री पुत्रस्य पुत्र्याश्चापत्यम् । ‘अनृष्यानन्तर्ये बिदादिभ्योऽञ्’ (४.१.१०४) ॥
पौरम् पुरे भवम् । तत्र भवः’ (४.३.५३) इत्यण् । पौरं त्रिषु पुरोद्भूते कत्तृणे पुंनपुंसकम्’ (इति मेदिनी) ॥
पौरुषः “ऊर्ध्वेति । दोषौ च पाणी च । तत् । ऊर्ध्वं विस्तृतं दोःपाणि येन सः । तादृशो ना । तस्य यन्मानं परिमाणम् । तेन पुंसा वा यन्मीयते तत्र । पुरुषः प्रमाणमस्य । ‘पुरुषहस्तिभ्यामण् च’ (५.२.३८) । पौरुषो नदः, पौरुषी नदी, पौरुषं सरः । ‘पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वविस्तृतदोः पाणिनृमाने त्वभिधेयवत्’ (इति मेदिनी) ॥”
पौरोगवः पाविति । पुरः पूजिता गौर्भूमिः । पुरोगवी । ‘गोरतद्धित’ (५.४.९२) इति टच् । तस्या अयम् ‘तस्येदम्’ (४.३.१२१) इत्यण् । यद्वा पुरः प्रथमं याच्यवस्तुषु गौर्नेत्रमस्य । पुरोगः । ‘गोस्त्रियोः -’ (१.२.४८) । ततः प्रज्ञाद्यण् (५.४.३८) ॥
पौर्णमासः पौर्णमास्यां भवः । ‘संधिवेलाद्यृतु-’ (४.३.१६) इत्यण् । ‘पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथौ (इति मेदिनी) ॥पक्षान्तयोरमावास्यापौर्णमास्योः । पृथग् भिन्नौ॥
पौर्णमासी पौर्णेति । पूर्णो मासोऽस्याम् । बहुव्रीहौ कृते स्वार्थेऽण् । प्रज्ञादेः (५.४.३८) आकृतगणत्वात् । ‘सास्मिन्पौर्णमासी’ (४.२.२१) इति निर्देशाद्वा । यद्वा माश्चन्द्रः । पूर्णो माः पूर्णमाः । तस्येयम् । यद्वा ‘महाराजप्रोष्ठपदाट्ठञ्’ (४.२.३५) इति सूत्रे ‘तदस्मिन्वर्तते’ इत्यर्थे पूर्णमासादणः’ उपसंख्यानादण् । (‘पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथौ’) ॥
पौलस्त्यः पुलस्तेगोत्रापत्यम् । ‘गर्गादिभ्यो यञ् (४.१.१०५) । बहुत्वे पुलस्तयः । अपत्यं गोत्रं वा–इति मुकुटः । तन्न । अनन्तरापत्ये यञोऽसम्भवात् ।।
पौलिः पोलति । ‘पुल महत्त्वे’ (भ्वा० प० से०) । ज्वलादित्वात् (३.१.१४०) णः । भावे घञ् (३.३.१८) वा । पोलेन निवृत्तः । सुतङ्गमादित्वात् (४.२.८०)
पौषः पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । नक्षत्रेण- (४.२.३) इत्यण् । तिष्यपुष्ययोर्नक्षत्राणि यलोपः (वा० ६.४.१४९) । डीप् (४.१.१५) । ततः ‘सास्मिन् (४.२.२१) इत्यण् । (‘पौषो मासप्रभेदे स्यात्पोषं तु महयुद्धयोः)
पौष्पकम् पुष्पस्य प्रतिकृतिः ‘इवे-’ (५.३.९६) इति कन् । ततः स्वार्थेऽण् (५.४.३८) ॥
प्याट्
- प्यायते । प्यैङ् वृद्धौ’ (भ्वा० प० अ०) । ट् प्रत्ययः ॥
प्रकाण्डः अस्त्रीति । प्रकाण्ड्यते । ‘कड भेदने’ चुरादिः । ‘एरच्’ (३.३.५६) । पृषोदरादिः (६.३.१०९) । काम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । णिङ् (३.१.३०) । ‘वरण्डादयश्च इति डो वा । ‘प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः इति विश्वः ।
प्रकाण्डम् “प्रकृष्टं काण्डमवसरो, रसो वास्य । प्रगतः काण्डो धर्मोऽस्मादिति वा । ‘प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः’ इति विश्वः ।”
प्रकामम् केति । कमनम् । ‘कमु कान्तौ’ (भ्वा० आ० से०) । घञ् । (३.३.१८) । ‘विशेषैर्यद्यबाधितः’ इति क्लीबत्वम् । ‘कामं बाढेऽनुमतिरेतसोः । कामः स्वरेच्छाकाम्येषु’ इति हैमः ॥
प्रकाशः प्रकाश इति । प्रकाशद्योताविति । भावे (३.३.१८) । करणे (३.३.१९) वा घञन्तौ । (‘प्रकाशः स्फुटहासयोः उद्योतेऽतिप्रसिद्धे च’)
प्रकीर्णकम् प्रकीर्यते स्म । ‘कॄ विक्षेपे’ (तु० प० से०) । क्तः (३.२.१०२) । ‘संज्ञायां कन्’ (५.३.७५) । ‘प्रकीर्णकं चामरे स्याद्विस्तरे ना तुरंगमे’ (इति मेदिनी) ॥
प्रकीर्यः प्रकीति । प्रकीर्यते । ‘कृ विक्षेपे’ (तु० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यक् । – ण्यति पूर्वविप्रतिषेधाद्दीर्घरपरत्वे च – इति मुकुटः । तन्न । पूर्वविप्रतिषेधस्य निर्मूलत्वात् । ‘इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा० ७.१.१००) इति वचनाच्च । ‘प्रकीर्यः पूतिकरजे विप्रकीर्णे तु वाच्यवत् ॥
प्रकृतिः “प्रकृष्टा कृतिः कार्यं यस्याः, प्रकरोतीति वा । क्तिच् (३.३.१७४) ॥ प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे ।”
प्रकृतिः प्रकरणम् । ‘डुकृञ्’ (त० उ० अ०) । क्तिन् (३.३.९४) ।
प्रकृतिः “प्रकृष्टं कुर्वन्ति राज्यम् । क्तिच् (३.३.१७४) ॥ पौराणां नागराणाम् । श्रयन्ति, श्रीयन्ते, वा । ‘वहिश्री-’ (उ० ४.५१) इति निः । एकमुख्याः सजातीयसमूहाः । कामन्दकीये- ‘स्वाम्यमात्यश्च रार्ष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते’ । पौरश्रेणिभिः सहाष्टाङ्गमपि राज्यम्’ इति दर्शितम् ॥”
प्रकोष्ठः प्रेति । प्रकुष्यतेऽनेन कुसूलादन्नम् । ‘कुष निष्कर्षे’ (क्र्या० प० से०) । ‘उषिकुषिगार्तिभ्यस्थन्’ (उ० २.४) । प्रविष्टः कोष्ठं कुसूलम् । ‘अत्यादयः क्रान्ता-’ (वा० २.२.१८) इति समासो वा । ‘प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः इति कात्यः । ‘प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्तरेऽपि च । भूपकक्षान्तरेऽपि स्यात्’ (इति मेदिनी) ॥
प्रक्रिया प्रेति । प्रकर्षाय करणम् । ‘कृञः श च’ (३.३.१००) । रिङ् (७.४.२८) । ‘प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः’ इति हेमचन्द्रः ॥
प्रक्ष्वेडनः प्रेति । प्रकर्षेण क्ष्वेदन्ते । ‘ञिक्ष्विदा अव्यक्ते शब्दे’ (भ्वा० आ० से०) ल्युः (३.१.१३४) । पृषोदरादिः (६.३.१०९) ॥
प्रगण्डः अस्येति । कूर्परस्योर्ध्वे । प्रत्यासन्नो गण्डः । कपोलोऽस्य ॥
प्रगतजानुकः nan
प्रगे “- प्रगीयते, अत्र वा । ‘गै शब्दे’ (भ्वा० प० अ०) । के प्रत्ययः ॥”
प्रग्रहः प्रेति । प्रगृह्यते । ‘ग्रह उपादने’ (क्र्या० उ० से०) । ‘गृहवृदृ-’ (३.३.५८) इत्यप् । ‘प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहरिपादपे । (इति मेदिनी) ॥
प्रघणः ‘प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे’ इति हैमः ॥
प्रघाणः प्रघाणेति । प्रहण्यते । ‘अगारैकदेशे प्रघणः प्रघाणश्च’ (३.३.७९) ॥
प्रचक्रम् प्रेति । प्रस्थितं चक्रं सैन्यम् ॥
प्रचेता प्रचेता इत्यादि । प्रचेतयति । प्रकृष्टं चेतोऽस्येति वा । चिती संज्ञाने’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । ‘प्रचेताः पाशिनि मुनौ ना प्रकृष्टहृदि त्रिषु’ ।
प्रचोदनी प्रचोदयति । ‘चुद संचोदने’ (चु० प० से०) । ल्युट् (३.३.११३) ॥
प्रच्छदपटः प्रच्छदति । प्रच्छद्येत वा । ‘छद संवरणे’ (चु० उ० से०) । अच् (३.१.१३४) । घः (३.१.११८) वा प्रच्छाद्यतेऽनेन वा । चुरादिण्यन्तात् घः (३.३.१८) ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः । प्रच्छदश्चासौ परश्च ॥ स्त्रीपिधानपटस्य ‘बुरका’ इति ख्यातस्य- इत्यन्ये । -येन तुलशय्यादि प्रच्छाद्यते तस्य इति स्वामी ॥
प्रच्छन्नम् प्रच्छन्नेति । प्रकर्षेण छन्नं द्वारम् । ‘कुगति-’ (२.२.१८) इति समासः ।
प्रच्छर्दिका प्रेति । प्रच्छर्दनम् । ‘छर्द वमने’ (चु० प० से०) । ‘शेगाख्या-’ (३.३.१०८) इति ण्वुल् ॥
प्रजवी प्रजवति । ‘जुः’ सौत्रो वेगे गतौ च । ‘प्रजोरिनि’ (३.२.१५६) ॥
प्रजाता प्रजायते स्म । अन्तर्भावितण्यर्थोऽत्र जनिः । ‘गत्यर्था-’ (३.४.७२) इति क्तः ।
प्रजापतिः प्रजानां पतिः। ‘प्रजापतिर्ना दक्षादौ महीपाले विधातरि’ । ‘प्रजापतिर्ब्रह्म राज्ञोर्जामातरि दिवाकरे । वह्वौ त्वष्टरि दक्षादौ’) ॥
प्रजावती प्रेति । प्रजास्त्यस्याः । मतुप् (५.२.९४) । यत्तु-जायायां प्रविश्य पुनः पुनर्जायते । ‘उपसर्गे च संज्ञायाम्’ (३.२.९९) इति डः । प्रजः पतिस्तद्योगात् मतुप् (५.२.९४) । ‘शरादीनां च’ (६.३.१२०) इति दीर्घः — इति मुकुटः । तन्न । ‘‘प्रजः’ इत्यस्य संज्ञात्वेनाप्रसिद्धत्वात् अस्मदुक्तरीत्या निर्वाहेनोक्तकल्पनाया व्यर्थत्वाच्च ॥
प्रज्ञा “प्रज्ञायतेऽनया । प्रज्ञानं वा । ‘ज्ञा - अवबोधने’ (क्र्या० प० अ०) । आतश्चोपसर्गे (३. ३.१०६) इत्यङ् । ‘प्रज्ञस्तु पण्डिते वाच्यलिङ्गो, बुद्धौ तु योषिति’ । श्रद्धापि । ‘प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विद’ इति शब्दार्णवात् ।”
प्रज्ञा प्रज्ञाद्यण् (५.४.३८) वा ॥
प्रज्ञुः प्रेति । प्रगते विरले जानुनी यस्य । ‘प्रसम्भ्यां जानुनो ज्ञुः’ (५.४.१२९) ॥
प्रडीनः “प्रेति । प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । ‘डीङ् विहायसा गतौ’ (दि० आ० अ०) । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘स्वादय ओदितः’ (गणसूत्रम्) इत्योदित्त्वात् (८.२.४५) निष्ठानत्वम् ॥—प्रडीनं तिर्यग्गमनम् इत्यन्ये ॥ ‘एताः’ इत्यनेन हि डीनाद्या बोध्याः ।”
प्रणवः प्रणूयते स्तूयते । ‘णु स्तुतौ’ (अ० प० अ०) । ॠदोरप्’ (३.३.५७) । ‘उपसर्गात्-’ (८.४.१४) इति णत्वम् ।
प्रणादः प्रणदनम् । घञ् (३.३.१८) । ‘प्रणादस्तु पुमांस्तारशब्दे च श्रवणामये’ । अनुरागकृते शब्दे प्रणादः सीत्कृतं नृणाम्’ इति शब्दार्णवः ॥
प्रणाली द्वयोरिति । नल्यते । णल बन्धने’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘उपसर्गात्-’ (८.४.१४) इति णत्वम् । गौरादिङीष् (४.१.४१) (१)
प्रणिधिः प्रकर्षेण निधीयते ज्ञेयमत्र । ‘उपसर्गे घोः किः’ (३.३.९२) । ‘प्रणिधिर्याचने चरे’ (इति हैमः) ॥
प्रणीतः प्रेति । प्रकर्षं नीतः । प्रणीत उपसम्पने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ च’ इति हेमचन्द्रः ॥
प्रणीतम् प्रेति । प्रणीयते स्म । कर्मणि क्तः (३.२.१०२) । ‘प्रणीतमुपसम्पन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ च’ इति हैमः ॥
प्रतलः प्रतलति ‘तल प्रतिष्ठायाम् (चु० प० से०) । अच् (३.१.१३४) । ‘प्रतलं पातालभेदे तताङ्गुलिकरे पुमान्’ (इति मेदिनी) । ‘तलम्’ अप्यत्र । ‘तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोः’ इति विश्वः । (‘तलश्चपेटे तालद्रौ’ इति हैमतः । ‘– पुंसि तालमहीरुहे । चपेटे च’ इति मेदिनीतश्च पुंस्ययम्) ॥
प्रतलः प्रतते प्रश्लिष्टे वा तले अत्र ॥
प्रतापः स इति । प्रतापयत्यनेन । ‘तप संतापे’ (भ्वा० प० अ०) । ण्यन्तः । ‘पुंसि-’ (३.३.११८) इति घः । प्रतपनं वा । भावे घञ् (३.३.१८) ॥
प्रतापसः प्रतापं चक्षुस्तेजः स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । कः (३.२.३) । प्रकृतास्तापसा येन वा ॥
प्रतिकर्म प्रत्यङ्गं प्रतिख्यातं वा कर्म । शाकपार्थिवादिः । (वा० २.१.६०) ॥
प्रतिकृतिः
- प्रकृष्टा कृतिः । प्रतिनिधेः कृतिर्वा ॥
प्रतिग्रहः प्रतिगृह्यतेऽनेन ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । योग्येभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे’ (इति मेदिनी) ॥
प्रतिग्राहः प्रेति । प्रति गृह्णाति । ‘विभाषा ग्रहः’ (३.१.१४३) इति णः ॥ पक्षेऽच् (३.१.१३४) । ‘प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । योग्येभ्यो विधिवद्देये तद्गृहे च ग्रहान्तरे’ इति मेदिनी ॥
प्रतिघः प्रतिहननम् । अन्यत्रापि’ (वा० ३.२.४८) इति डे । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘प्रतिघौ रुट्प्रतीघातौ’ इति हैमः ॥ रुट्क्रुधौ सम्पदादी (वा० ३.३.१०८) ॥ टापि (भागुरिमतेन) ‘क्रोधो भामः क्रुधा रुषा’ इति शब्दार्णवः (६) ॥ (७) ॥ (भामः क्रोधे रवौ दीप्तौ) ॥
प्रतिघातनम् ‘हन हिंसायाम् (अ० प० अ०) ॥
प्रतिच्छाया
- प्रकृष्टा छाया ॥
प्रतिज्ञानम् जानातेर्युट् (३.३.११५) ‘यमः समुपनिविषु च’ (३.३.६३) इत्यप् । नियमो यन्त्रणायां चं प्रतिज्ञा निश्चयव्रते ।
प्रतिदानम् प्रेति । प्रतीपं दानम् ॥
प्रतिध्वानः घञि ध्वानः (३.३.१८) ॥
प्रतिनिधिः
- प्रतिनिधीयते सदृशीक्रियते । ‘डुधाञ्’ (जु० उ० अ०) । ‘उपसर्गे घोः किः’ (३.३.९२) ॥
प्रतिपद् प्रतिपद्यते उपक्रम्यतेऽनया मासादिः । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । दान्ता । ‘प्रतिपत्स्त्री तिथौ मतौ’ ॥
प्रतिपद् प्रातिपदनम् । ‘पद गतौ’ (दि० आ० से०) । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । करणे वा ।
प्रतिपादनम् ‘पद गतौ’ (दि० आ० अ०) । ण्यन्तः । ‘प्रतिपादनं तु दाने च प्रतिपत्तौ प्रबोधने’ इति मेदिनी ॥
प्रतिबिम्बम्
- प्रतिकृतिर्बिम्बं यस्य । ‘कुगति-’ (२.२.१८) इति समासः ॥
प्रतिभयम् प्रतिगतं भयेन । प्रादिसमासः (वा० २.२.१८) । प्रति गतं भयमस्मिन् । ‘प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति वा । ‘प्रतिभयं भये भीष्मे’ इति हैमः ॥ नव भयानकरसस्य । भेदेन कीर्तनं त्वेषां धर्ममात्रपरत्वात् । भैरवादयस्तु धर्मे धर्मिणि च वर्तन्ते इति भेदः ।
प्रतिभूः
- प्रति प्रतिनिधिर्भवति । क्विप् (३.२.७६) ॥
प्रतिमा
- प्रतिमीयतेऽनया । ‘आतश्चोपसर्गे’ (३.३.१०६) । इत्यङ् । (‘प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि’ इति मेदिनी) ॥
प्रतिमानम्
- प्रेति । प्रतिकृत्य मीयतेऽनेन । ‘माङ् माने’ (अ० आ० अ०) । ल्युट् (३.३.११७) ॥
प्रतिमानम् प्रेति । प्रतिमीयतेऽनेन । ‘मीञ् हिंसायाम्’ (क्र्या० उ० अ०) । ‘मीनाति मिनोति-’ (६.१.५०) इत्यात्वम् । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः इति रुद्रः ॥
प्रतिमुक्तः प्रतेरपि ॥
प्रतियातना
- प्रतियात्यतेऽनया । ‘यत निकारोपस्कारयोः’ (चुरादिः) । ‘ण्यासश्रन्थः-’ (३.३.१०७) इति युच् ॥
प्रतिरोधी
- प्रतिरोद्धं शीलमस्य । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
प्रतिवाक्यम् प्रतीति । प्रतिवचनम् । ण्यत् (३.१.१२४) ॥
प्रतिविषा प्रतीपं विषमस्याः ॥
प्रतिश्यायः प्रेति । प्रतिक्षणं श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘श्याद्व्यधा-’ (३.१.१४१) इति णः । प्रतिश्यायतेऽनया । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङि ‘प्रतिश्या’ अपि ॥
प्रतिश्रवः प्रतिश्रवौ ।
प्रतिश्रुत् स्त्रीति । ‘श्रु श्रवणे’ (भ्वा० प० से०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । प्रति प्रथमशब्दं लक्ष्यीकृत्य भूयते प्रतिश्रुत् ॥
प्रतिसीरा प्रतीति । प्रति सिनोति । प्रतिसीयते । वा । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘शुसिचिमीनां दीर्घश्च’ (उ० २.२५) इति क्रन् ॥
प्रतिहासः प्रतीति । प्रतीपो हासो विकासोऽस्य ॥
प्रतीकः प्रत्येति । प्रतीयते वा । ‘इण् गतौ’ (अ० प० अ०) । ‘अलीकादयश्च’ (उ० ४.२५) इति साधुः । ‘प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलविलोमयोः’ (इति मेदिनी) ॥
प्रतीकारः प्रतिकरणम् । घञ् (३.३.१८) । ‘उपसर्गस्य–’ (६.२.१२२) इति दीर्घः ॥
प्रतीकाशः
- प्रति काशते ॥
प्रतीची प्रति पश्चाद् दिनान्तेऽञ्चति सूर्यम् । सूर्योऽस्याम्-इति तु दुष्टम् ।
प्रतीपदर्शिनी प्रतीपं द्रष्टुं शीलमस्याः । अपाङ्गनिरीक्षणात् । ‘सुप्यजातौ’ (३.२.७८) इति णिनिः ॥
प्रतीरम् एवं पारम् । प्रतीरमित्युपसर्गान्तरनिवृत्त्यर्थम् ॥
प्रतीहारः प्रतिहियते आव्रियते । कर्मणि घञ् (३.३.१९) । ‘उपसर्गस्य घञि-’ (६.३.१०९) इति वा दीर्घः । ‘प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति’ ।
प्रतीहारः प्रेति । प्रतिहरणम् । घञ् (३.३.१८) । ‘उपसर्गस्य घञि’ (६.२.१२२) इति वा दीर्घः । प्रतीहारो जनवारणमस्त्यस्य । अर्शआद्यच् (५.२.१२७) । मुकुटस्तु-प्रतिराभिमुख्ये । राज्ञोऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । ‘ज्वलितिकसन्तेभ्यो णः’ (३.१.१४०) - इति व्याख्यत् । तन्न । हृञो ज्वलादावपाठात् । ज्वलादेराकृतिगणत्वाभावाच्च । ‘प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति’ इति विश्वमेदिन्यौ ॥
प्रतोली प्रतोलयति ‘तुल उन्माने’ चुरादिः । पचाद्यच् (३.१.१३४) । गौरादिङीष् (४.१.४१) । यतु— ‘एरच्’ (३.३.५६) इति मुकुटेनोक्तम् । तन्न । ‘प्रतोलयति’ इति विग्रहप्रदर्शनात् । अकर्तरि कारके भावे च एरचो विधानात् ।
प्रत्यक्पर्णी प्रत्यञ्चि पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीष् ॥
प्रत्यक्श्रेणी प्रत्यञ्ची श्रेण्यस्याः । समासान्तानित्यत्वान्न कप् ॥
प्रत्यक्श्रेणी प्रतीची श्रेणी यस्याः ॥
प्रत्यन्तः प्रत्यन्त इति । प्रतिगतोऽन्तम् । अत्यादयः क्रान्ताद्यर्थे (वा० २.२.१८) इति समासः
प्रत्यन्तपर्वताः प्रत्यन्ते महाद्रीणां समीपे ये क्षुद्राः पर्वताः ।
प्रत्ययितः प्रत्ययो विश्वासः सञ्जतोऽस्य । ‘तदस्य सञ्जातम्-’ (५.२.३६) इतीतच् । ‘प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु’ इति विश्वः ॥
प्रत्यर्थी प्रतिकूलमर्थयितुं शीलः । ‘अर्थ याञ्चायाम्’ (चु० उ० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
प्रत्यालीढम् स्येति । प्रत्यालेहनम् । लिह आस्वादने’ (अ० उ० अ०) ‘नपुंसके भावे क्तः’ (३.३.११३) ‘प्रत्यालीढं तु चरणन्यास भेदेशिते त्रिषु’ (इति मेदिनी) ।
प्रत्यासारः प्रेति । प्रतीपमासारयति भग्नान् । ‘सृ गतौ’ (भ्वा० प० अ०) ण्यन्तः । अच् ॥
प्रत्युषः ओषत्यन्धकारम् । ‘उष दाहे’ (भ्वा० प० से० ) । ‘उषः किच्च’ ( उ० ४.२३४ ) इत्यसिः । अन्योपसर्गनिवृत्तये प्रतिः । ‘उषः प्रत्युषसि क्लीबं पितृप्रस्वां च योषिति ॥
प्रत्यूषः प्रत्यूष इति । प्रत्यूषति रुजति कामुकान् । ‘ऊष रुजायाम्’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘प्रत्यूषोऽहर्मुखे वसौ’ ।
प्रदीपः अन्योपसर्गनिवृत्त्यर्थः प्रः ॥ ‘दीपस्तु स्नेहाशः कज्जलध्वजः । दशेन्धनो गृहमणिर्दोषातिलक इत्यपि । शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः’ इति त्रिकाण्डशेषः ।
प्रदीपनः प्रदीपयति णिच् । (३.१.२६) । नन्द्यादिल्युः (३.१.१३४)
प्रदेशनम् प्रदिश्यते । ‘दिश अतिसर्जने’ (तु० उ० अ०) । ‘कृत्यल्युटः-’ (३.३.११३) इति कर्मणि ल्युट् ॥
प्रदेशिनी प्रदिश्यतेऽनया । ‘दिश अतिसर्जने’ (तु० उ० अ०) । ल्युट् (३.३.११७) । ‘प्रदेशिनी’ इति पाठान्तरम् । प्रदिशति । ‘सुपि-’ (३.२.७८) इति णिनिः । प्रदेशोऽस्त्यस्याः । इनिः (५.२.११५) वा ॥
प्रदेशिनी तर्जन्युक्तापि यथासंख्याय पुनरुक्ता ॥
प्रदोषः दुष्यति । ‘दुष वैकृत्ये’ (दि० पं० अ०) पचाद्यच् (३.१.१३४) । टाप् (४.१.४) । (‘दोषा रात्रौ भुजेऽपि च’) । प्रारम्भो दोषायाः । प्रादिसमासः (२.२.१८) प्रारब्धा दोषा यस्मिन्निति वा । ‘गोस्त्रियोः-’ (१.२.४८) इति ह्रस्वः । । ‘दोषा’ इत्यव्ययमप्यस्ति । ‘नक्तं दोषा च रजनौ’ इति वक्ष्यते । (‘प्रदोषः कालदोषयोः)
प्रद्युम्नः प्रकृष्टं द्युम्नं बलमस्य ।
प्रद्रावः प्रेति । प्रद्रवणम् । ‘द्रु गतौ’ (भ्वा० प० अ०) । ‘प्रे द्रुस्तुस्रुवः’ (३.३.२७) इति घञ् ॥
प्रधनम् प्रधानम् । ‘डु धाञ्’ (जु० उ० अ०) । ‘कॄपॄवृजिमन्दिनिधाञः क्युः’ (उ० २.८१) । ‘प्रधनं युधि दारणे’ इति हैमः ॥
प्रधानः प्रकर्षेण धीयन्ते । डुधाञ् धारणपोषणयोः’ (जु० प० अ०) । ‘कृत्यल्युटः’ (३.३.११३) इति कर्मणि ल्युट् । ‘प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा’ (इति मेदिनी) इति क्लीबत्वम् । पुंलिङ्गोऽपि । ‘महामात्रः प्रधानः स्यात्’ इति पुंस्काण्डे वोपालितात् ॥
प्रधानम् “प्रधत्तेऽत्र सर्वम् । ल्युट् (३.३.११७), प्रधत्ते सर्वमात्मनीति वा । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । प्रकृष्टं धानमनेन वा । ‘प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे’ इति हैमः ।”
प्रधिः प्रधीयतेऽनेन । ‘डु धाञ्’ (जु० उ० अ०) । ‘उपसर्गे घोः किः (३.३.९२) ॥
प्रपदम् प्रकृष्टं प्रारब्धं प्रगतं वा पदम् । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः ॥
प्रपा प्रपेति । प्रपिबन्त्यस्याम् । ‘पा पाने’ (भ्वा० प० आ०) । आतोश्चोप-’ (३.३.१०६) इत्यङ् ॥
प्रपातः प्रपात इति । प्रपतन्त्यस्मात् । ’पत्लृ गतौ (भ्वा० प० से०) । ‘अकर्तरि-’ (३.३.१४) इति घञ् । ‘प्रपातो निझरे भृगौ । अवटे पतने कच्छे’ इति हैमः ।
प्रपितामहः तदिति । तस्य पितामहस्य पिता । प्रकर्षेण पितामहः । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः ॥ |
प्रपुन्नाडः प्रपुन्नेति । पुमांसं नाडयति । ‘नड भ्रंशे’ चुरादिः । ‘कर्मण्यण् (३.२.१) । मस्यानुस्वारे (८.२.१२३) परसवर्णः (८.४. ५८) । प्रकृष्टः प्रगतो वा पुन्नाडः ॥
प्रपौण्डरीकम् प्रेति । पुण्डरीकेण सदृशम् । ‘शेषे (४.२.९२) इत्यण् । प्रकृष्टं पौण्डरीकम् । यद्वा स्वार्थेऽण् (५.४.३८) । ‘साधुपुष्पं स्थलपद्मं दृष्टिकृत् पुण्डरीककम्’ इति रभसः ॥
प्रफुल्लः प्रफुल्लविति । फलति । ञिफला विशरणे’ (भ्वा० प० से०) । ‘ञीतः क्तः’ (३.२.१८७) । ‘आदितश्च’ (७.२.१६) इतीडभावः । अनुपसर्गात्फुल्लक्षीब-’ (८.२.५५) इति तस्य लः ।
प्रबन्धकल्पना प्रबन्धस्य कल्पना रचना स्तोकसत्या ।
प्रबालम् प्रबलति । ‘बल प्राणने’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । ‘प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे’ इति विश्वः (मेदिनी) ॥
प्रबोधनम् अथेति । प्रबुद्धिः । ‘बुध अवगमने’ (दि० आ० अ०) । भावे ल्युट् (३.३.११५) ॥
प्रभञ्जनः प्रकृष्टं भनक्ति । ‘भञ्जो आमर्दने’ (स्वा० प० अ०) । युच् (उ० २.७८)
प्रभा प्रभाति । आतश्चोपसर्गे’ (३.१.१३६) इति कः ।
प्रभाकरः दिवाविभा–’ (३.२.३१) इति टः ।
प्रभातम् भातुं प्रवृत्तम् । प्रभातम् । आदिकर्मणि ( ३.४.७१ ) क्तः ॥
प्रभावः भवत्यनेन । ‘श्रीणिभुवः-’ (३.३.२४) इति घञ् । प्रकृष्टो भावः । प्रभवनं वा । भावे घञ् (३.३.१८) ॥ ‘अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्यये प्र (प्य)सहनं तत्तेजः समुदाहृतम्’ इति भरतः । कोशो धनम् । दण्डो दमः सैन्यं च । ताभ्यां जातम् । ‘पञ्चम्याम्-’ (६.२.९८) इति डः ।
प्रभिन्नः प्रेति । प्रकर्षेण भिद्यते स्म । क्तः (३.२.१०२) ॥
प्रभ्रष्टकम् प्रेति । शिखातो लम्बमानम् । प्रभ्रंशितुं प्रवृत्तम् । ‘भ्रंशु अधःपतने’ (दि० प० से०) ‘आदिकर्मणि क्तः कर्तरि च’ (३.४.७१) स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
प्रमथनम् स्वार्थण्यन्तौ । ‘मथे हिंसायाम्’ (भ्वा० प० से०) ॥
प्रमथाः प्रमथा इति । दुष्टान्प्रमथन्ति । ‘मथे विलोडने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । प्रमथ्यन्ते मन्त्रादिना । ‘खनो घ च’ (३.३.१२५) इति घो वा ।
प्रमथाधिपः प्रमथानामधिपः ।
प्रमदः ‘मदी हर्षे (दि० प० से०) । प्रमदसंमदौ हर्षे’ (३.३.६८) इत्यप् । ‘प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति’ ।
प्रमदवनम् स्यादिति । प्रमदानां वनम् । ङ्यापोः-’ (६.३.६३) इति ह्रस्वः । यत्र सस्त्रीको राजा क्रीडति तस्य एकम् ।
प्रमदा प्रमदो हषोऽस्त्यस्याः । ‘प्रमदः सम्मदे मत्ते स्त्रियामुन्मदयोषिति’ (इति मेदिनी) ॥
प्रमातामहः मेति । मातुः पितरि डामहच् (वा० ४.२.३६) । प्रकृष्टो मातामहः (प्रमातामहः) ॥
प्रमादः प्रमाद इति । ‘मदी हर्षे’ (दि० प० से०) । भावे घञ् (३.३.१८) । ‘प्रमादः संमदे मते स्त्रियामुन्मदयोषिति’
प्रमापणम् प्रेति । ‘मीञ् हिंसायाम्’ (क्र्या० प० अ०) । स्वार्थण्यन्तः ॥
प्रमीतः प्रमीयते स्म । ‘मीङ् (दि० आ० अ०) ‘मीञ् (क्र्या० उ० अ०) वा हिंसायाम् । क्तः (३.२.१०२) ॥ ‘प्रमीतं वाच्यलिङ्गं स्यात्प्रोक्षितेऽपि मृतेऽपि च’ इति मेदिनी ॥
प्रमीतः प्रमीयते स्म । ‘मीङ् हिंसायाम्’ (क्र्या० आ० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘प्रमीतं वाच्यलिङ्गं स्यात्प्रोषितेऽपि मृतेऽपि च’ इति मेदिनी ॥
प्रमीला प्रमीलनम् । ‘मील निमेषणे’ (भ्वा० प० से०) । गुरोश्च ’ (३.३.१०३) इत्यः ।
प्रमोदः प्रमोदामोदौ घञन्तौ । ‘आमोदो गन्धहर्षयोः’ ।
प्रयतः प्रयच्छति स्म । यमेरकर्मकत्वात्कर्तरि क्तः (३.४.७२) । यद्वा प्रयतते । ‘यती प्रयत्ने’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
प्रयस्तम् प्रेति । प्रयस्यते स्म । ‘यसु प्रयत्ने’ (दि० प० से०) । क्तः (३.२.१०२) ॥
प्रलम्बघ्नः प्रलम्बं हतवान् । मूलविभुजादित्वात् (वा०३२.५) कः ।।
प्रलयः प्रलीयतेऽत्र । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘एरच्’ (३.३५६) । प्रलयो मृतौ । ‘संहारे नष्टचेष्टत्वे’ इति हैमः ।
प्रलयः प्रलय इति । प्रलयनम् । लीङ् (दि० आ० अ०) । ‘एरच्’ (३.३५६) । प्रलयो मृत्युकल्पान्तमूर्च्छापायेषु पुंस्ययम् ।
प्रलयः प्रलयनम् ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘एरच्’ (३.३.५६) ॥
प्रलापः प्रलाप इति । प्रलपनम् । घञ् (३.३.१८) ॥
प्रवयः प्रेति । प्रगतं वयोऽस्य ॥
प्रवल्हिका प्रवल्हते आच्छादयति । ‘वर्ह वल्ह परिभाषणहिंसाच्छादनेषु’ (भ्वा० आ० से०) । दन्त्योष्ठयादिर्हान्तः ‘क्वुन्’ शिल्पिसंज्ञयोः-’ (उ० २.३२) । ण्वुल् (३.१.१३३) वा ॥
प्रवहणम् “प्रोह्यते । अनेन वा । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ल्युट् (३.३.११३, ११७) ॥”
प्रवालः प्रकर्षेण वल्यते संव्रियते । ’वल संवरणे (भ्वा० प० से०) । घञ् (३.३.१९) । प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे’ इति हैमः ।
प्रवासनम् स्वार्थण्यन्तौ ‘वस छेदे’ (चुरादिः) ।
प्रवाहिका प्रवहति । ण्वुल् (३.१.१३३) प्रवहणम् । ‘रोगास्यायां ण्वुल्-’ (३.३.१०८) ॥ रुक् रोगः । प्रवाहिका रोगो ग्रहणी स्यात् ।
प्रविदारणम् ‘दॄ विदारणे’ (क्र्या० प० से०) । ण्यन्ताद्भावे ल्युट् । ’प्रविदारणमाख्यातं सम्परायेऽवदारणे’ (इति मेदिनी) ॥
प्रवृत्तिः प्रवर्तते व्याप्नोति वृत्तेः (भ्वा० आ० से०) । क्तिच् (३.३.१७४) । ‘प्रवृत्तिर्वृत्तवृत्तान्तप्रवाहेषु प्रवर्तने’ इति हैमः ॥
प्रवेणी प्रग्रह उपसर्गान्तरव्यावृत्त्यर्थः ॥ ‘करणिश्रोणिवेणयः’ इति स्त्रीकाण्डे निगमः । ‘वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे’ इति हैमः ।
प्रवेणी प्रेति । प्रकर्षेण दीयतेऽस्याम् । ‘वी गत्यादिषु’ (अ० प० अ०) । ‘वीज्यात्वरिभ्यो निः’ (उ० ४.४८) । ‘प्रवेणिः स्त्री कुथावेण्योः’ (इति मेदिनी) । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् ॥
प्रवेष्टः प्रवेष्टते । ‘वेषु वेष्टने’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
प्रश्नः प्रच्छनम् । ‘यजयाच-(३.३.९०) इति नङ् । प्रश्ने चा-’ (३.२.११७) इति लिङ्गान्न सम्प्रसारणम् ॥
प्रष्ठः प्रतिष्ठते गच्छति । ‘आतश्चोपसर्गे-’ (३.१.१३६) इति कः । ‘प्रष्ठोऽग्रगामिनि’ (८.३.९२) इति षः । ‘प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ’ (इति मेदिनी) ॥
प्रष्ठवाड् “प्रेति । प्रष्ठमग्रगामिनं वहति । ‘वहश्च’ (३.२.६४) इति ण्विः । स्वामी तु–पञ्चमं षष्ठं वा वर्षं वहन्ति, इति विगृह्य (‘प्रष्ठवाट्’ इति) रेफरहितं पठति । तत्र पृषोदरादित्वं (६.३.१०९) बोध्यम् ॥”
प्रष्ठौही प्रेति । प्रष्ठं वहति । ‘वहश्च’ (३.२.६४) इति ण्विः । ‘वहः’ (४.१.७१) इति ङीष् । ‘पष्ठौही’ इति पाठे पृषोदरादित्वात् (६.३.१०९) रलोपः ॥
प्रसन्नः त्रिष्विति । अगाधमभिव्याप्य त्रिषु ।
प्रसन्नता प्रसीदति स्म । ‘गत्यर्थ (३.४.७२) इति क्तः । प्रसन्नस्य भावः । तल् (५.१.११९) ।
प्रसन्ना
- प्रसीदति स्म । ‘षद्लृ विशरणादौ’ (भ्वा० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘रदाभ्याम्-’ (८.२.४२) इति निष्ठानत्वम् । ‘प्रसन्ना स्त्री सुरायां स्यादच्छसन्तुष्टयोस्त्रिषु’ (इति मेदिनी) ॥
प्रसभम् प्रेति । प्रगता सभा विचारोऽस्मात् । सभायाः प्रगतो वा । ‘क्लीबे तु प्रसभं हठः’ इति वोपालितः ॥
प्रसरणम् प्रसरणे ल्युट् (३.३.११५) । ‘प्रसरणी’ इति पाठे ‘अर्चिसृधृ-’ (उ० २.१०२) इत्यनिः । ‘कृदिकारात्’ (ग० ४.१.४५) इति ङीप् ॥
प्रसवबन्धनम् प्रसूयते । ‘षु प्रसवे’ (भ्वा० प० अ०) । ‘ऋदोरप्’ (३.३.५७) । बध्यतेऽनेन । ‘बन्ध बन्धने (क्र्या प० से०) । करणे ल्युट् (३.३.११७) । प्रसवस्य पुष्पफलपत्रस्य बन्धनम् ॥
प्रसह्य
- प्रकर्षेण सोढ्वा । ‘षह मर्षणे’ (भ्वा० आ० अ०) । क्त्वा (३.४.२२) । ल्यप् (७.१.३७) ॥ हठोऽर्थो यस्य ।
प्रसादः प्रसाद इति । ‘षद्लृ विशरणादौ (भ्वा० तु० प० अ०) । भावे घञ् (३.३.१८) ‘प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु । काव्यगुणे’ इति हैमः ।
प्रसाधनम् प्रसाध्यतेऽनेनाङ्गम् । करणे ल्युट् (३.३.११७) ॥
प्रसाधनी “प्रसेति । प्रसाध्यतेऽनया । ‘साध संसिद्धौ’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । ‘प्रसाधनी तु कङ्कत्यां सिद्धौ, वेशे प्रसाधनम्’ इति विश्वमेदिन्यौ ॥”
प्रसाधितः प्रसाध्यते स्म । ‘साध संद्धिसौ’ (स्वा० प० अ०) । स्वार्थण्यन्तः । क्तः (३.३.१०२) ॥
प्रसारिणी “प्रसार्यतेऽङ्गमनया । ‘करणा-’ (३.३.११३) इति ल्युट् ॥ ‘सारणी’ इत्यपि । (‘सारणो राक्षसान्तरे) । रुग्भेदे ना, प्रसारण्यां स्वल्पनद्यां च सारिणी (इति मेदिनी) ॥”
प्रसूः प्रसूयते । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
प्रसूता प्रासविष्ट । षूङुक्तः । प्राग्वत् ॥
प्रसूतिका स्वार्थे कन् (५.३.७५) । ‘सूतकापुत्रिका-’ (वा० ७.३.४५) इतीत्वं वा । ‘‘प्रसूतं कुसुमे क्लीबं त्रिषु संजातसूनयोः’ । (इति मेदिनी) ॥
प्रसूतिजम् प्रसूतेर्जातम् । पञ्चम्याम्-’ (३.२.९८) इति डः ।
प्रसूनम् प्रसूयते स्म । ‘षूङ् प्राणिप्रसवे’ (दि० आ० से०) । ‘स्वादय ओदितः’ (ग० ३.३.१) । ‘ओदितश्च’ (८.२.४५) इति निष्ठानत्वम् । ‘प्रसूनं तु प्रसूते फलपुष्पयोः’ इति हैमः ॥
प्रसृतः “प्रसरति स्म, प्रस्रियते स्म, वा । ‘गत्यर्था-’ (३.४.७२) इति क्तः । कर्मणि क्तः (३.२.१०२) वा । प्रकृष्टं सृतं गमनमनया वा ॥”
प्रसृतिः पेति । नितरां कुब्जा प्रकृतिरस्य । प्रसरत्यनेन । क्तिन् (३.३.९४) । ‘प्रसृतः’ इति वा पाठः । तत्र प्रकृष्टं सुतमस्य । ‘प्रसृतः सप्रसारे स्याद्विनीते वेगिते त्रिषु । अर्धाञ्जलौ तु पुंलिङ्गो जङ्घायां प्रसृता मता’ (इति मेदिनी) ॥
प्रसेवः – प्रसीव्यते । ‘अकर्तरि च’ (३.३.१९) इति घञ् । ‘प्रसेवस्तु वीणाङ्गस्यूतयोर्दृतौ इति हैमचन्द्रः ॥
प्रसेवकः प्रसेव्यते । ‘षेवृ सेवने’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । अचि (३.१.१३४) प्रसेवः अपि । ‘प्रसेवस्तु वीणाङ्गस्यूतयोर्दूतौ
प्रस्तरः प्रस्तृणाति । ‘स्तृञ् आच्छादने’ (क्र्या० उ० अ०) । पचाद्यच् (३.१.१३४) । ‘प्रस्तरो ग्रावणि मणौ’ इति हैमः ॥
प्रस्थः प्रतिष्ठन्तेऽत्र । घञर्थे कः (वा० ३.३.५८) । ‘प्रस्थोऽस्त्रियां मानभेदे सानावुन्मित वस्तुनि’ ॥
प्रस्थः प्रस्थः ।
प्रस्थपुष्पः प्रस्थे सानौ पुष्प्यति । ‘पुष्प विकसने’ (दि० प० से०) । अच् (३.१.१३४) ॥
प्रस्थानम् प्रस्था ॥
प्रस्फोटनम् प्रेति । प्रस्फोट्यतेऽनेन । ‘स्फुट विकसने’ (भ्वा० आ० से०) । करणे ल्युट् (३.३.११७) ॥
प्रस्रवणम् प्रस्रवन्त्यापोऽस्मात् । ’स्रु गतौ’ (भ्वा० प० अ०) । ‘भीमादयः-’ (३.४.७४) कृत्यल्युटः-’ (३.३.११३) इति वाऽपादाने ल्युट् ॥
प्रस्रावः प्रस्रूयते । ‘स्नु प्रस्रवणे’ (भ्वा० प० अ०) । ‘प्रे द्रुस्तुस्रुवः’ (३.३.२७) इति घञ् । करणे तु परत्वाल्ल्युट्प्रसङ्गः॥
प्रहरः प्रह्रीयते ढक्कादिरस्मिन् । ‘पुंसि संज्ञायाम्-’ (३.३.११८) इति घः॥
प्रहरणम् प्रहिह्रियतेऽनेन । ‘करणा-’(३.३.११७) । इति ल्युट् ॥
प्रहस्तः प्रसृतो हस्तः । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः ॥
प्रहिः प्रह्रियते । ‘प्रे हरतेः कूपे’ (उ० ४.१३५) इति इः डिच्च ॥
प्रहेलिका प्रहेलयति अभिप्रायं सूचयति । हिल भावकरणे’ (तु० प० से०) । ण्वुल् (३.१.११३) । व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसम्बन्धः कथ्यते सा प्रहेलिका’ । यद्वा प्रवल्हतेरिनि (उ० ४. ११८) प्रवल्हिः । ततः ‘कृदिकारात्’ (ग० ४.१.४५) इति ङीष् । उभाभ्यां स्वार्थे कन् । प्रहेलिका प्रवल्ही च प्रश्नदूती विपादिका इत्युत्पलिनी ।
प्राकारः प्राकार इति । प्र क्रियते । ‘डुकृञ् करणे’ (त० उ० अ०) । कर्मणि घञ् (३.३.१९) । ‘उपसर्गस्य घञि’ (६.३.१२३) इति दीर्घः । आङ् वा ।
प्राकृतः
- प्रकृतौ भवः । अण् (४.३.५३) । यद्वा प्रकृष्टमकृतमकार्यमस्य ॥
प्राक्
- प्राचि देशे । प्राचो देशात् । प्राङ देशो वा ।
प्राग्वंशः प्रेति । प्राञ्चति । ‘अञ्चु गतिपूजनयोः’ (भ्वा० प० से०) ‘ऋत्विग्-’ (३.३.५९) इति क्विन् । प्राङ् वंशो गोत्रं स्थूणा वात्र ॥ हविः शालायाः पूर्वभागे यजमानादीनां स्थित्यर्थे गेहे प्राग्वंशशब्दो वर्तते ॥
प्राची प्राच्येति । प्राथम्ये प्रशब्दोऽत्र । प्राञ्चति प्राप्नोति सूर्यम् । अञ्चु गतिपूजनयोः’ (भ्वा० प० से०) । ‘ऋत्विग्-’ (३.२.५९) इत्यादिना क्विन् प्रत्ययः । प्राञ्चति रविरस्याम् । बाहुलकादधिकरणे क्विन् इति मुकुटः । तन्न । बाहुलकस्या गतिकगतित्वात् । एवमग्रेऽपि बोध्यम् ।
प्राचीनम् “प्राचीनमिति । प्रागेव । विभाषाञ्चेरदिक् स्त्रियाम् (५.४.८) इति खः । ‘प्राचीरम्’ इति पाठे तु प्राचीयते । प्राङ्पूर्वः । चिञ् चयने’ (स्वा० उ० अ०) । ‘शुसिचिमीनां दीर्घश्च (उ० २.२५) इति क्रन्दीर्घौ ॥ प्रान्ततः, सप्तम्यास्तसिः । वरणं वृत्तिः । ‘वृञ् वरणे’ (स्वा० उ० अ०) । क्तिन् (३.३.९४) । व्रियतेऽनया, इति ‘वृतिः’ इत्यपि नाम, इति स्वामी ।”
प्राचीना प्राचि भवा । ‘विभाषाञ्चेः’ (५.४.८) इति खः ।
प्राचीनावीतम् प्रेति । प्राचीनं प्रदक्षिणम् आवीयते स्म । प्राग्वत् ॥अन्यस्मिन् वामकरे प्रोद्धृते सति ।
प्राच्यः शरेति । शरावत्या नद्या मर्यादायाः । प्राचा सहितो दक्षिणो देशः । प्राच्यां भवः । ‘द्युप्रागपाग्-’ (४.२.१०१) इति यत् ॥ (१) एकम् प्राच्यदेशस्य ।
प्राजनम् प्रेति । प्रवीयतेऽनेन ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । ‘वा यौ’ (२.४.५७) इति वी न ॥
प्राजिता प्राजति । ‘अज गत्यादौ’ (भ्वा० प० से०) । तृच् अन्तर्भावितण्यर्थे वा । ‘वलादावार्धधातुके वेष्यते’ (भाष्य० २.४५६) इति वी न–प्राजयति-इति स्वामिमुकुटोक्तं चिन्त्यम् । णिचि वीभावस्य नित्यत्वात् । ‘प्राजयिता’ इति रूपप्रसङ्गाच्च । यदपि-वानुवृत्तेर्वाभावो नास्ति–इति स्वामिनोक्तम् । तदपि चिन्त्यम् । वृत्यादौ वानुवृत्तेरदर्शनात् ॥
प्राज्ञा प्राज्ञेति । प्रज्ञास्त्यस्याः । ‘प्रज्ञाश्रद्धा-’ (५.२.१०१) इति णः ॥
प्राज्ञी प्रज्ञेति । प्रजानाति । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । ‘प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति’ ॥
प्राड्विवाकः द्रेति । ऋणादानादीन्यष्टादश विवादस्थानानि व्यवहाराः । तेषां द्रष्टरि निर्णातरि । प्रच्छनम् । ‘क्विब्वचिप्रच्छिश्री-’ (उ० २.२७) इत्युणादिसूत्रेण क्विब्दीर्घौ सम्प्रसारणाभावश्च । विवचनम् । घञ् (३.३.१८) । प्राट् च विवाकश्च । प्राड्विवाकौ प्रश्नविवेकावस्य स्तः । अर्शआद्यच् (५.२.१२७) | प्रश्नविचारयोः कुशल इत्यर्थः । ‘विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः () ॥
प्राणः “प्राण इति । प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् डः (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र ‘हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु’ । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । ‘उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते’) । प्रत्येकं देहस्थपञ्चवायूनाम् ।”
प्राणः “प्राणित्यनेन । ‘अन प्राणने’ (अ० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्गः, पुम्भूम्नि चासुषु’ (इति मेदिनी) ॥”
प्राणः प्राणन्त्येभिः । ‘अन प्राणने’ (अ० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुम्भूम्नि चासुषु’ (इति मेदिनी । एवं पुंसि भूम्नि च ॥
प्राणः “प्राणिति, अनेन वा । ‘अन प्राणने’ (अ० प० से०) । अच् (३.१.१३४) । ‘हलश्च’ (३.३.१२१) इति घञ् वा । ‘प्राणो हृन्मारुते वोले काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूम्नि चासुषु’ (इति मेदिनी) ॥”
प्राणिद्यूतम्
- प्रेति । प्राणिभिः कृतं द्यूतम् ॥
प्राणी प्राणीति । प्राणासन्त्यस्य । अत इनि- (५.२.११५) इतीनिः ।
प्रातः
- प्रातति । अत सातत्यगमने’ (भ्वा० प० से०) । अरन्प्रत्ययः (उ० ५.५९) ॥ ‘सायंचिरम्-’ (४.३.२३) इति सूत्रेऽनव्ययस्य प्रगशब्दस्यैत्वं निपात्यते । अव्ययेभ्यः पृथक्करणात् ।
प्रातिहारिकः
- प्रतिहरणम् । ‘हृञ्’ (भ्वा० उ० अ०) । भावे घञ् (३.३.१८) । प्रतिहारो व्याजः प्रयोजनमस्य । ‘प्रयोजनम्’ (५.१.१०९) इति ठक् ॥
प्राथमकल्पिकाः प्रथमकल्पः आद्यारम्भः प्रयोजनं येषां ते । प्रयोजनम्’ (५.१.१०९) इति ठक् । यद्वा प्रथमकल्पमधीयते । विद्यालक्षणकल्पान्ताच्च’ (वा० ४.२.६०) इति ठक् । ‘कल्पः शास्त्रे विधौ न्याये’ (इति मेदिनी) ॥
प्रादुः
- प्रात्ति । ‘अद भक्षणे’ (अ० प० अ०) । उस् ॥
प्रादेशः प्रेति । प्रदिश्यते । ‘दिश अतिसर्जने’ (तु० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपसर्गस्य–’ (६.३.१२२) इति वा दीर्घः । ‘प्रदेशो देशमात्रे स्यात्तर्जन्यङ्गुष्ठसंमिते’ (इति मेदिनी) ॥
प्रादेशनम् ‘दिश अतिसर्जने’ (तु० उ० अ०) ॥
प्राध्वम्
- प्राध्वनति । ‘ध्वन शब्दे’ (भ्वा० प० से०) । डम्प्रत्ययः । ‘प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्थने’ ॥
प्रान्तरम् प्रान्तरमिति । प्रकृष्टमन्तरमत्र । ‘प्रादिभ्यः-’ (वा० २.२.२४) इति बहुव्रीहिः । (‘प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च’) ॥ दूरश्चासौ शून्यश्च । एकम् दूरशून्यछायाजलादिवर्जितमार्गस्य ।
प्राप्तपञ्चत्वः प्राप्तं पञ्चत्वं येन ।
प्राभृतम् प्रेति । प्राभ्रियते स्म । ‘भृञ् भरणे’ (भ्वा० उ० अ०) ‘डुभृञ् धारणपोषणयोः’ (जु० उ० अ०) वा । क्तः (३.२. १०२) ॥
प्रायः समिति । सम्यक् न्यासः आत्यन्तिकस्त्यागः । तद्युक्तेऽनशनेऽभोजने । प्रकृष्टमयनम् । ‘इण् गतौ’ (अ० प० अ०) । ‘एरच्’ (३.३.५६) । ‘अय गतौ’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः’ (इति मेदिनी) ॥
प्रायः
- प्रायणम् । ‘अय गतौ’ (भ्वा० आ० से०) । असुन् (उ० ४.१८९) ॥
प्रालम्बम् प्रेति । माल्यमेव कण्ठादूर्ध्वं लम्बमानम् । प्रालम्बते । ‘लबि अवस्रंसने’ (भ्वा आ० से०) । अच् (३.१.१३४) ॥ ऋजु लम्बितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः ।
प्रालम्बिकः स्वेति । सैव ललन्तिका सुवर्णैः कृता प्रालम्बते । ण्वुल् (३.१.१३३) ॥
प्रालेयम् प्रलीयन्ते पदार्था अत्रेति हिमाद्रिः प्रलयः । तत आगतम् । अण् (४.३.७४) ‘केकय-’ (७.३.२) इत्यादिना यादेरियः ।
प्रावारः द्वाविति । प्र म्रियतेऽनेन । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘वृणोतेराच्छादने’ (३.३.५४) इति घञ् । ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः ॥
प्रावृट् वर्षणं वृट् । ‘वृषु सेचने’ (भ्वा० प० से०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । प्रकृष्टा वृडत्र । ‘नहिवृति-’ (६.३.११६) इति दीर्घः ॥
प्रावृतः प्राव्रियते स्म ‘वृञ् वरणे’ (स्वा० उ० से०) । क्तः (३.२.१०२) ॥
प्रावृषायणी “‘प्रावृषा तु जलार्णवे’ इति त्रिकाण्डशेषः । प्रावृषामेति अयते, वा । कर्तरि ल्युट् (३.३.११३) । ‘कृत्यचः’ (८.४.२९) इति णत्वम् ॥”
प्रासः प्रेति । प्रास्यते । ‘असु क्षेपणे’ (दि० प० से०) कर्मणि घञ् (३.३.१९) ॥
प्रासङ्गः “प्रेति । प्रसज्यते । ‘षञ्ज सङ्गे (भ्वा० प० अ०) । घञ् । (३.३.१९) । ‘उपसर्गस्य घञि–’ (६.३.१२२) इति दीर्घः ॥ रथाद्यङ्गयुगादन्यद्युगं वृषभाणां दमनकाले यदासज्यते, तस्यैकम् । स्वामी तु (‘युगाद्युगः’ इति पाठमाश्रित्य) युगेनातति । युगाद्रथादिः । तस्य युगो ना – इत्याह । अन्ये तु-युगान्तरं यद्वध्यते । तस्य-इत्याहुः । ‘युगं द्वितीयं प्रासङ्गः इति कात्यः ।”
प्रासङ्ग्यः सुधाव्याख्या – प्रासङ्गम् ॥ वहति । ‘तद्वहति रथयुगप्रासङ्गम्’ (४.४.७६) इति यत् ।
प्रासादः प्रासेति । देवानां भूभुजां च गृहम् । प्रसीदति मनोऽत्र । ‘हलश्च (३.३.१२१) इति घञ् । ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः । आङ् वा ॥ एकम् देवाना राज्ञां च गृहस्य ।
प्रासिकः सेति । प्रासः कुन्तश्च प्रहरणमस्य । प्राग्वत् (४.४.५७) ॥
प्राह्णः प्राह्णेति । अहःशब्दस्तदवयवे । प्रथमं च तदहश्च प्राह्णः । ‘राजा-’(५.४.९१) इति टच् । ‘अह्नोऽह्नः-’ (५.४.८८) इत्यह्नादेशः। ‘अह्नोऽदन्तात्’ (८.४.७ ) इति णत्वम् ॥
प्रियः प्रीणाति । ‘प्रीञ् तर्पणे’ (क्र्या० उ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘प्रियो वृद्ध्यौषधौ हृद्ये धवे’ इति हैमः ॥
प्रियकः प्रीणाति । ‘प्रीञ् तर्पणे (क्र्या० उ० अ०) । ‘क्युन् शिल्पिसंज्ञयोः (उ० २.३२) । ‘प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥
प्रियकः प्रीणाति । ‘प्रीञ् तर्पणे’ (क्र्या उ० अ०) । क्वुन् (उ० २.३२) । ‘प्रियकाः पीतसारके नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥
प्रियकः प्रीणाति । ‘प्रीञ् तर्पणे’ (क्रया० उ० से०) । क्वुन् (उ० २.३२) । ‘प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥
प्रियकः प्रीणाति । प्रीयते वा । ‘प्रीञ् तर्पणे’ (क्र्या० उ० अ०) । ‘प्रीङ् प्रीणने’ (दि० आ० अ०) वा । ‘इगुपध-’(३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) ॥
प्रियङ्गु एवं प्रियं गच्छति ॥
प्रियङ्गुः प्रियं गच्छति । मृगय्वादौ (उ० १.३७) निपातः । ‘प्रियगुः स्त्री राजिकाकणयोरपि । फलिन्यां कङ्गुसस्ये च’ ॥
प्रियता तल् (५.१.११९) । प्रियता ॥
प्रीतिः ‘प्रीञ् तर्पणे’ (क्र्या० उ० से०) । भावे क्तिन् (३.३.९४) । (‘प्रीतियोगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम्’)
प्रेक्षा प्रकृष्टमीक्षणम् । अनया गुरोश्च-’ (३.३.१०३) इत्यः । टाप् (४.१.४) । ‘प्रेक्षा धीरीक्षणं नृत्तम्’ इति हैमः ।
प्रेङ्खा “प्रेङ्ख्यते । ‘इखि गतौ’ (भ्वा० प० से०) । घञ् (३.३.१९) । दोला प्रेङ्खः पुमान् प्रेङ्खा, निश्रेणिरधिरोहणी’ इति रत्नकोषः ॥ आदिना शयनखट्वावाह्यादिदोला ।”
प्रेतः प्रकर्षेण इतः । ‘प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः’ (इति मेदिनी) ॥
प्रेताः प्रागुः इण् गतौ’ (अ० प० अ०) । गत्यर्था-’ (३.४.७२) इति क्तः । ‘प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ।
प्रेत्य
- प्रकर्षेण इत्वा । इण् (अ० प० अ०) । क्त्वा प्रत्ययः (३.४.२२) । ‘समासे-’ (७.१.३७) इति ल्यबादेशः । तुक् (६.१.७५) ॥
प्रेम प्रयणम् । ‘प्रीञ् तर्पणे’ (क्र्या० उ० से०) । मनिन् (३.२.७५) । प्रेमं नान्तं क्लीबम् ॥
प्रेमा प्रेमेति । प्रीणाति प्रियः । ‘प्रीञ् तर्पणे’ (क्र्या० उ० से०) । इगुपध-’ (३.१.१३५) इति कः । तस्य भावः । ‘पृथ्वादिभ्य इमनिच्’ (५.१.१२२) ‘प्रियस्थिर-’ (६.४.१५७) इति प्रादेशः । ‘प्रेमास्त्री स्नेहनर्मणोः ।
प्रैष्यः
- प्रेष्यते । ‘इष गतौ’ (दि० प० से०) । आभीक्ष्ण्ये (क्र्या० प० से०) वा । ण्यत् (३.१.१२४) । ‘प्रादूहो-’ (वा० ६.१.८९) इति वृद्धिः ॥
प्रोक्षणम् प्रकृष्टमुक्षणम् । ‘उक्ष सेचने’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । ‘प्रोक्षणं सेकवधयोः’ इति हैमः ॥
प्रोक्षितः प्रोक्ष्यते स्म । उक्ष सेचने’ (भ्वा० प० से०) । क्तः (३.२.१०२) । ‘प्रोक्षितं निहते सिक्ते’ इति रभसः ॥
प्रोथः प्रोथति । ‘प्रोथृ पर्याप्तौ’ (भ्वा० उ० से०) । अच् (३.१.१३४) । ‘प्रोथोऽस्त्री हयघोणायां ना कठ्यामध्वगे त्रिषु’ (इति मेदिनी) ॥
प्रोष्ठपदा “प्रोष्ठो गौः, तस्येव पादा यासाम् । सुप्रातसुश्व- (५.४.१२०) इत्यादिना बहुव्रीहावच् पद्भावश्च निपातितः । प्रोष्ठपदयोर्द्वित्वेऽपि ‘फल्गुनीप्रोष्ठपदानाम्-’ (१.२.६०) इति नक्षत्रात्पाक्षिकं बहुत्वम् ।”
प्रोष्ठी “प्रोष्ठीति ॥ प्रकृष्ट ओष्ठोऽस्याः । ‘ओत्वोष्ठयोः’ (वा० ६.१.९४) इति पररूपम् । नासिकोदरौष्ठ-’ (४.१.५५) इति ‘जातेः (४.१.६३) इति वा, ङीष् । द्वयोः’ इत्यनेन सम्बन्धात् ‘प्रोष्ठः’ अपि ॥”
प्रौष्ठपदः प्रोष्ठपदाभिर्युक्ता प्रौष्ठपदी । भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । ततः समास्मिन्’ (४.२.२१) इत्यण् ।
प्लक्षः प्लेति । प्रक्षरति । ‘क्षर सञ्चलने’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । कपिलिकादिः (वा० ८.२.१८) । यद्वा प्लक्ष्यते । ‘प्लक्ष भक्षणे’ (भ्वा० उ० से०) । कर्मणि घञ् (३.३.१९) । प्लक्षति अधो गच्छति वा । अच् (३.१.१३४) । ‘प्लक्षो जटीगर्दभाण्ड द्वीपभित्कुञ्जराशने ॥
प्लक्षः प्रक्षरति । ‘क्षर संचलने’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘कपिलिकादित्वात्’ (वा० ८.२.१८) लत्वम् । ‘प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके’ इति हैमः ॥
प्लवः प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । पचाद्यच् (३.१.१३४) । प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि’ इति हैमः ।
प्लवः प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । ‘कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ।
प्लवः
- प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेककभेलयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । (जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि’ इति हैमः । ‘प्लवः स्यात्प्लुवने भेले भेकेऽवौ श्वपचे कपौ । जलकाके च कुलके प्रवणे पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्रतिगतौ पुमान्) । कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम्’ (इति मेदिनी) ॥
प्लवः प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि’ इति हेमचन्द्रः ॥
प्लवगः अन्येष्वपि-’ (वा० ३.२.१०१) इति डः । ‘प्लवगः कपिभेकयोः । अर्कसूते’ इति हैमः ॥
प्लवङ्गः प्लवनम् । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । ‘ऋदोरप्’ (३.३.५७) । प्लवेन गच्छति । ‘गमश्च’ (३.२.४७) इति खच् । ‘खच्च डिद्वा’ (वा० ३.२.३८) ॥ डिवाभावे ‘प्लवंगमः’ च । ‘प्लवंगमश्च मण्डूके तथा शाखामृगेऽपि च (इति मेदिनी) ॥
प्लवम् प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः कारण्डवे भेके कुलके भेलके कपौ । शब्दे प्लुतिगतौ प्लक्षे चण्डालजलकाकयोः । प्लवं गन्धतृणे प्रोक्तं कैवर्तीमुस्तकेऽपि च (इति विश्वः) । ‘प्लवगो वानरे भेके सारथौ चोष्णदीधितेः’ (इति मेदिनी)॥
प्लाक्षम् ‘प्लक्षादिभ्योऽण्’ (४.३.१६४) ॥
प्लीहशत्रुः ‘प्लीहशत्रुर्वनतिक्तश्च रोहितः’ इति माधवः । प्लीहः शत्रुः ॥
प्लीहा प्लेहते । ‘प्लिह गतौ’ (भ्वा० आ० से०) । ‘श्वन्नुक्षन्पूषन्प्लीहन्’ (उ० १.१५९) इति साधुः ॥
प्लुतम् प्लवनम् । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । क्तः (३.३.११४) । ‘प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम्’ इति हैमः) । ‘प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके’ इति हैमः ॥
फणा फणति । ‘फण गतौ” (भ्वा० प० से०) । अच् (३.१.१३४) (२) । ‘द्वयोः’ इत्यनेन ‘स्फटा’ अपि सम्बध्यते – इति स्वामी ।
फणिज्जकः “फणी जातोऽस्मात् । फणाभपत्रपुष्पत्वात् । फणी उज्झको वर्जकोऽस्य, इति केचित् । उभौ पृषोदरादी (६.३.१०९) ॥”
फणी फणास्यास्ति । व्रीह्यादिः (५.२.११६) फणोऽस्यास्ति वा । अत इनिः (५.२.१०५)
फलकः फेति । फलति । ‘ञिफला विशरणे’ ‘फल निष्पत्तौ’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्-’ (उ० ५.३५) ॥
फलकपाणिः फलकं पाणावस्य ॥
फलत्रिकम् फलानां त्रिकम् ॥
फलपूरः फलेति । फलेन पूर्यते । ‘पूरी आप्यायने’ (दि० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । कर्मणि घञ् (३.३.१९) वा । मुकुटस्तु-फलं बीजं च पूरयति । कः इत्याह । तत्राणुचितः । इगुपधत्वाभावाण्णिजन्तस्य ॥
फलम् फलति । ‘फल निष्पत्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । फलं निष्पन्नं सस्यशब्दवाच्यम् । ‘फलं हेतुकृते जातीफले फलकसस्ययोः । (त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः)
फलम् अच् (३.१.१३४) । ‘फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः’ (इति मेदिनी) ॥
फलम् अथविति । फलति । ‘ञिफला विशरणे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘फलं हेतुफले जातीफले फलकसस्ययोः । त्रिफलायां च कङ्कोले शस्त्राग्रे व्युष्टिलाभयोः । फली फलिन्याम् इति हैमः । स्वामी तु ‘हलम्’ इति पठित्वा ‘हलप्रकरणमारब्धम्’ इति व्याख्यत् ॥
फलम् “फलति । ‘फल निष्पत्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘फलं जातीफले सस्ये हेतूत्थे व्युष्टिलाभयोः’ । (त्रिफलायां च कक्कोले, प्रियङ्गौ तु फली स्मृता)’ इति विश्वः (मेदिनी) । ‘फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः । फली फलिन्याम्’ इति हैमः ॥”
फलवान् फलेति । फलान्यस्य सन्ति । मतुप् (५.२.९५) ॥
फलाध्यक्षः फलानामध्यक्षः ॥
फलितम् पेति । फलति । फलनम्वा । ‘फल निष्पत्तौ’ ‘ञिफला विशरणे’ वा (भ्वा० प० से०) । ‘लोष्टपलितौ’ (उ० ३.९२) इति साधुः । यद्वा पलति स्म । ‘पल गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । पलनं वा । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘पलितं शैलजे तापे केशपाके च कर्दमे’ (इति मेदिनी) ॥ आदिना लोमश्मश्रुणोः ।
फलिनः ‘फलबर्हाभ्यामिनच्’ (वा० ५.२.१२२) ॥
फलिनी फलानि सन्त्यस्याः । इनिः (५.२.११५) । ‘फलिन्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु’ (इति मेदिनी) ॥
फलिनी फलमस्त्यस्याः । ‘अतः-’ (५.२.११५) इतीनिः । ‘फलिन्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु’ ॥
फली गौरादित्वात् (४.१.४१) ङीष् । ‘फली फलिन्याम्’ ॥
फली ‘अत इनिः’ (५.२.११५) ॥ त्रीणि फलसहितवृक्षस्य ।
फलेग्रहिः स्यादिति । फलानि गृह्णाति । ‘ग्रह उपादाने’(क्र्या० उ० से०) । ‘फलेग्रहिरात्मम्भरिश्च’ (३.२.२६) इति साधुः ।
फलेरुहा फले रोहति । ‘इगुपध (३.१.१३५) इति कः । तत्पुरुषे कृति-’ (६.३.१४) इत्यलुक् ॥
फल्गुः फलति । ‘फल निष्पत्तौ’ (भ्वा० प० से०) । ‘फलिपाटि-’ (उ० १.१८) इति साधुः । ‘फल्वसारेऽभिधेयवत् । नदीभेदे मलप्वां स्त्री’ इति मेदिनी ॥
फाणितम् फाण्यते (स्म) । ‘फण गतौ’ (भ्वा० प० से०) । ण्यन्तः । क्तः (३.२.१०२) ॥
फालः फेति । फलस्य विकारः । ‘तस्य विकारः’ (४.३.१३४) इत्यण् । ‘फालं तु वसने फाल उत्प्लुतौ’ (इति हैमः) । ‘क्लीबं सीरोपकरणे’ (इति मेदिनी) ‘पुंसि शंकरसीरिणोः’ ॥
फालः फालयति । ‘ञिफला विशरणे’ (भ्वा० प० से०) । ण्यन्तादच् (३.१.१३४) । ‘फाल उत्प्लुतौ । क्लीबं सीरोपकरणे पुंसिशंकरसीरिणोः ॥
फाल्गुनः फलति निष्पादयति । ‘फल निष्पत्तौ (भ्वा० प० से०) । ‘फलेर्गुक्च’ (उ० ३.५६) इत्युनन् गुगागमश्च । फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता’ इति गोवर्धनानन्दः । प्रज्ञाद्यणि (५.४.३८) । वृद्धिः (७.२.११७) । ‘फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा’ इति धरणिः । फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी सास्मिन्नस्ति । फाल्गुनः । फाल्गुनिकश्च । फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । तपस्यसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी’ । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (४.२.२३) इति ठक् । पक्षेऽण् ।
फाल्गुनिकः फाल्गुनिकश्च । फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । तपस्यसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी’ । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (४.२.२३) इति ठक् । पक्षेऽण् ।
फुल्लः प्रफुल्लविति । फलति । ञिफला विशरणे’ (भ्वा० प० से०) । ‘ञीतः क्तः’ (३.२.१८७) । ‘आदितश्च’ (७.२.१६) इतीडभावः । अनुपसर्गात्फुल्लक्षीब-’ (८.२.५५) इति तस्य लः ।
फेनः स्फायते । ‘स्फायी वृद्धौ’ (भ्वा० आ० से०) । ‘फेनमीनौ’ (उ० ३.३) इति साधुः ॥
फेनिलः फेनोऽस्यास्ति । ‘फेनादिलच्च’ (५.२.९९) । (‘फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि’) ॥
फेनिलम् फेनोऽस्यास्ति । ‘फेनादिलच्च (५.२.९९) ॥
फेरवः फे’ इत्यव्यक्तो रवोऽस्य । ‘गुहारूपं वृषभेरुः फेरवस्तारवः शिवा । सूकरोऽतिरुजः फेरुः श्वभीरुर्मण्डलाहितः’ इति साहसाङ्कः ॥
फेरुः फे’ इत्यव्यक्तं रौति । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः ॥
फेला फेयिति । फेल्यते । ‘फेलृ गतौ’ (भ्वा० प० से०) । ‘गुरोश्च’ (३.३.१०४) इत्यः ॥
बकः “अथेति । वङ्कते । ‘वकि कौटिल्ये गतौ च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् । वबयोरैक्यम् । यद्वा वाति, वायति, वा । ‘वा गत्यादौ’ (अ० प० से०) । ‘ओ वै शोषणे’ (भ्वा० प० से०) वा । क्वुन् (उ० २.३२) । ‘आतो लोपः –’ (६.४.६४) । ‘व’ इति कायति वा । मूलविभुजादिः (वा० ३.२.५) । वक्ति वा । अच् (३.१.१४) । न्यङ्क्वादिः (७.३.५३) । ‘बकस्तु बकपुष्पे स्यात् कह्वे श्रीदे च रक्षसि’ (इति मेदिनी) ॥”
बडवानलः बडवाया अनलः । आधाराधेयभाव एव सम्बन्धत्वेन षष्ठ्यर्थः ।
बदरम् सुवीरदेशे भवम् । (‘तत्र भवः’ (४.३.५३) इत्यण् । ‘स्रोतोञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च’ इति दन्त्यादौ रभसः ॥
बदरा बदति । ‘बद स्थैर्ये’ (भ्वा० प० से०) । बाहुलकादरः ॥
बदरा “बदति । ‘बद स्थैर्ये’ (भ्वा० प० से०) । बाहुलकादरन् ‘ब(व)दरा गृष्टिकार्पास्योरेलापर्ण्यां स्त्रियां, पुमान् । कर्पासस्यास्थ्नि, बदरी कोले क्लीबं तु तत्फले’ (इति मेदिनी) ॥”
बदरी “बदति । ‘बद स्थैर्ये (भ्वा० प० से०) । ‘दिवि भ्रमि-’ (उ० ३.११७) इत्यमरः । गौरादिङीष् (४.१.४१) । यत्तु-द्वयोः’ इत्युक्तेः कर्कन्धूर्बदरश्च इति मुकुटः । तन्न । ‘बदरी कोले, क्लीबं तु तत्फले’ इति मेदिनीविरोधात् ॥”
बधिरः “बध्नाति कर्णम्, बध्यते वा । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘इषिमदि-’ (उ० १.५१) इति किरच् ॥”
बध्नः तिमिरं बध्नाति । ‘बन्धेर्ब्रधिबुधी च’ (उ० ३.५) इति नक् ।
बन्दा बन्देति । बन्द्यते । ‘वदि अभिवादनस्तुत्योः’ (भ्वा० आ० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः । (‘बन्दा लतान्तरे स्मृता । भिक्षुक्यामपि बन्द्यां च’) (इति स्पर्शादौ मेदिनी)॥
बन्धकी बध्नाति मनोऽत्र । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ण्वुल् (३.१.१३३) । गौरादिः (४.१.४१) (‘बन्धकः स्याद्विनिमये पुंश्चल्यां स्याच्च बन्धकी’ इति मेदिनी ॥
बन्धनम् ‘बन्ध बन्धने’ (क्र्या० प० अ०) । भावे ल्युट् (३.३.११५) ॥
बन्धनालयः बन्धनस्यालयः॥
बन्धनी
- मृगो बध्यतेऽनया । ‘बन्ध बन्धने (क्र्या० प० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् ॥ वातेर्भद्रादित्वाद्रण् गुरुक् चागमः-इति मुकुटस्त्वपाणिनीयः ।
बन्धस्तम्भः बन्धस्य बन्धनस्य स्तम्भः ॥
बन्धुः ‘बन्धुर्मातृबान्धवयोः’ इति हैमः ॥
बन्धुजीवकः बन्धुरिव जीवं जलमस्या ॥
बन्धुता बन्धूनां समूहः । ‘ग्रामजनबन्धुभ्यस्तल्’ (४.२.४३) ॥
बन्धुलः बन्धून् लाति ॥
बन्धूकः बध्नाति चित्तम् । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘उलूकादयश्च’ (उ० ४.४१) इत्यूकः । ‘बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके’ (इति मेदिनी) ॥
बन्धूकपुष्पः बन्धूकस्येव पुष्पाण्यस्य ॥
बन्ध्यः बन्ध्य इति । ‘बन्धस्त्वाधौ च बन्धने । बन्धे साधुः । ‘तत्र साधुः (४.४.९८) इति यत् । यतु मुकुटः - दिगादित्वात् (४.३.५४) यत् इत्याह । तन्न । अस्य सूत्रस्य ‘तत्र भवः (४.३.५३) इत्यत्र पाठात् । तत्र साधुः इत्यस्य ‘प्राग्घिताद्यत् (४.४.७५) इत्यधिकारे पाठात् ॥
बन्ध्या बध्नाति । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ण्यत् (३.१.१२४) ।-अघ्न्यादिः (उ० ४.११२)-इति मुकुटः ॥
बर्हम् बर्हति । ‘बृह वृद्धौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘बर्हं पिच्छे दलेऽस्त्रियाम्’ (इति मेदिनी) ॥
बर्हिः बृहति । ‘बृहि वृद्धौ’ (भ्वा० प० से०) । ‘बृंहेर्नलोपश्च’ (उ० २.१०९) इति इस् । पुंलिङ्गोऽयम् । ‘बर्हिरुक्तो बृहद्भानुः’ इत्यमरमाला-पुंस्काण्डे पाठात् ।
बर्हिणः बर्हमस्त्यस्य । ‘फलबर्हाभ्यामिनन्’ (वा० ५.२.१२२) ॥
बर्हिपुष्पम् “बर्हं पत्त्रं प्रशस्तमस्य । इनिः (५.२.११५) ॥ पुष्प्यति । ‘पुष्प विकसने (दि० प० से०) । अच् (३.१.१३४) । ‘बर्हिपुष्पम् इत्येकं नाम–इत्येके ॥ ‘बर्हपुष्पम्’ इत्यन्ये ॥ ‘बर्हम्’ इति पृथग् नाम, इति कश्चित् ॥”
बर्हिर्मुखाः बर्हिरग्निर्मुखं येषां ते ॥
बर्हिष्ठः बर्हिषि कुशे तिष्ठति । ‘सुपि स्थः’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् ॥
बर्ही इनिः (५.२.११५) ॥
बलः बलमस्यास्ति । अर्शआद्यच् (५.२.१२७)(‘बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । पुमान्हलायुधे दैत्यप्रभेदे वायसेऽपि च’)
बलदेवः बलेन दीव्यति । (बलदेवो बले वाते त्रायमाणौषधौ स्त्रियाम्)
बलभद्रः “बलभद्र इत्यादि । बलं भद्रं श्रेष्ठमस्य, बलेन भद्र इति वा । ‘बलभद्रा त्रायमाणाकुमार्योः पुंसि सीरिणि,’ (‘बलभद्र स्त्वनन्ते बलशालिनि’) ||”
बलभद्रिका बलेन भद्रा । स्वार्थे कन् (५.३.७५) ॥
बलम् वलते(त्य)ऽनेन । ‘बल प्राणने’ (भ्वा० प० से०) ‘खनो घ च’ (३.३.१२५) इति घः । ‘बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति’ (इति मेदिनी) ॥
बलम् “बलति । ‘बल प्राणने’ (भ्वा० प० से०) अच् (३.१.१३४) यद्वा वलते । ‘वल संवरणे, सञ्चलने च’ (भ्वा० आ० से०) ॥”
बलवत् बलेति । बलमस्यास्ति । मतुप् (५.२.९४) ॥
बलवत्
- बलमस्यास्ति । मतुप् (५.२.१३६) ॥
बलविन्यासः बलस्य सेनाया विन्यासो विभज्य स्थापनम् ॥ भयिति । भेदा विशेषाः यदाह कामन्दकिः-‘तिर्यग्वृत्तिस्तु दण्डः स्यद्रोगोऽन्वावृत्तिरेव च । मण्दलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः’ इति । दण्डवदवस्थानं दण्डः । अन्योन्यानुगता वृतिर्भोगः । सर्पशरीरवदवस्था मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । शकट-मकर-पताका-सर्वतोभद्र दुर्जयादयोऽपि ॥
बला बेति । बलति । ‘वल संवरणे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । बलमस्त्यस्याः इति वा । अर्शआद्यच् (५.२.११५) । ‘बलयुक्तेऽन्यलिङ्गः स्याद्वला वाट्यालके स्त्रियाम्’ (इति मेदिनी) ॥
बलाका बलेति । वलते । ‘वल संवरणे’ (भ्वा० आ० से०) । ‘वलाकादयश्च’ (उ० ४.१४) इति साधुः । बलेनाकति वा । अच् (३.१.१३४) ॥
बलात्कारः ‘बलात्’ इति निपातो ‘हठार्थः’-इति स्वामी । बलात्करणम् । भावे घञ् (३.३.१८) ॥
बलारातिः बलस्यासुरस्यारातिः ।
बलाहकः वारिवाहकः । पृषोदरादिः (६.३.१०९) । बलाकाभिर्हायते गम्यते । ‘ओहाङ् गतौ’ (जु० आ० अ०) । कर्मणि क्वुन् (उ० २.३७) । पृषोदरादिः (६.३.१०९) । बलेन हीयते । आहायते वा । क्वुन् (उ० २.३७) (‘बलाहको गिरौ मेघे दैत्यनागप्रभेदयोः’)।
बलिः वलनम् । ‘वल दाने’ (संवरणे) (भ्वा० आ० से०) । इन् (उ० ४.११८) । ‘बलिर्दैत्योपहारयोः । करे चामरदण्डे च गृहदारुशरांशयोः । त्वक्सङ्कोचे गन्धके च’ इति हैमः ॥ महान्तश्च ते यज्ञाश्च । ब्रह्मयज्ञ आदिर्येषां तानि ब्रह्मयज्ञादीनि नामानि येषां ते । मनुः-अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् (३.७०) इति ॥
बलिः “बल्यते । ‘बलं वधे, दाने’ । इन् (उ० ४.११८) । ‘बलिदैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमानस्त्री जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि च’ (इति मेदिनी) ॥ (‘अर्थागमो भवेदायो भागधेयो बलिः करः’ इति हलायुधः) ।”
बलिध्वंसी बलिमसुरं ध्वंसितुं शीलमस्य । ताच्छील्ये (३.२.७८) णिनिः । बलिना पूजादिना विद्यां ध्वंसितुं शीलमस्येति वा ॥
बलिनः बलीति । बलिस्त्वक्संकोचोऽस्यास्ति । पामादित्वान्नः (५.२.१००) ॥
बलिपुष्टः बलिना पुष्टः ॥
बलिभः ‘तुन्दिबलि-’ (५.२.१३९) इति भः ॥
बलिभुक् बलिं भुङ्क्ते । ‘भुज पालनादौ’ (रु० प० अ०) । क्विप् (३.२.७५) ॥
बलिरः “वेति । वलते । ‘वल संवरणे, संचलने वा’ (भ्वा० आ० से०) । बाहुलकात् किरच् ॥”
बलिशम् बलिशमिति । बलिनो मत्स्याञ् श्यति । ’शो तनूकरणे’ (दि० प० अ०) । ‘आतोऽनुप–’ (३.२.३) इति कः ॥ डलयोरैक्याद् ‘बडिशम् अपि । स्त्रियां बडिशापचये तु बडिशी ।
बलिसद्म बलेः सद्म ।
बलीवर्दः वरणम् । ‘वर ईप्सायाम् (चु० उ० से०) । संपदादिः (वा० ३.३.१०८) । ईश्च वर् च ईवरौ । तौ ददाति । कः (३.२.३) । अतिशयितं बलमस्य । ‘अतः-’ (५.२.११५) इतीनिः । बली चासौ ईवर्दश्च ॥
बहिः -‘वह प्रापणे’ (भ्वा० उ० अ०) । इस् । बवयोरभेदः ॥
बहिर्द्वारम् बहिर्द्वारात् । (‘अपपरि-’ (२.१.१२) इति समासः) । ‘बहिश्च तद्द्वारं च’ इति वा ॥
बहुपाद् बहवः पादा अस्य । ‘संख्यासुपूर्वस्य’ (५.४.१४०) ॥
बहुमूल्यम् बेति । बहु मूल्यमस्य ॥
बहुरूपः बहूनि रूपाण्यस्य । ‘बहुरूपः स्मरे विष्णौ सरटे धूपके शिवे’ इति हैमः ॥
बहुला बहूनि बीजानि लाति । ‘आतोऽ नुप-’ (३.२.३) इति कः । ‘बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः’ (इति मेदिनी) ॥
बहुलीकृतम् बहु मानं लाति । कः (३.२.३) । अबहुलं बहुलमकारि ॥
बहुवारकः बहून् वारयति । ‘वृञ् वरणे’ (स्वा० उ० से०) । णिजन्तः (३.१.२६) । क्वुन् शिल्पिसंज्ञयोः (उ० २.३२) ॥
बहुसुता बहवः सुता यस्याः ॥
बहुसूतिः वेति । वह्वी सूतिर्यस्याः ॥
बाडवः बडवायां भवः । तत्र भवः (४.३.५३) इत्यण् । (‘बाडवं करणे स्त्रीणां घोटकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले’) ।
बाढम् बाहृ प्रयत्ने’ (भ्वा० आ० से०) । क्षुब्धस्वान्त-’ (७.२ १८) इति निपातितम् । (‘बाढं भृशप्रतिज्ञयोः’)
बाणः वणनम् । ‘वण शब्दे’ (भ्वा० प० से०) घञ् (३.३.१८) । बाणः शब्दोऽस्त्यस्य । अर्शआद्यच् (५.२.१२७) ‘बाणः स्याद्वोस्तने दैत्यभेदे केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्दयोः’ (इति मेदिनी) ॥
बादरः कर्पास्या बदरायाश्च विकारः फलम् । ‘अवयवे च-’ (४.३.१३५) इत्यण् । तस्य ‘फले लुक्’ (४.३.१६३) । कार्पासस्य बदरस्य च विकारः । प्राग्वदण् (४.३.१३४) ॥
बाधा बाधृ विलोडने’ (भ्वा० आ० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । बाधा दुःखे निषेधे च इति मेदिनी ॥ ‘आबाधा’ इति वा छेदः । ‘आबाधा वेदना दुःखम्’ इति हलायुधः ।
बान्धकिनेयः अथेति । बन्धक्या अपत्यम् । ‘कल्याण्यादीनामिनङ्’ (४.१.१२६) इति ढक् ॥
बान्धवः बध्नाति । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘शृस्वृस्निहि-’ (उ० १.१०) इत्युः । प्रज्ञाद्यण् । (५.४.३८) वा । ‘बान्धवो बन्धुमित्रयोः’ इति हैमः ॥
बार्हतम् बृहत्याः फलम् ॥
बालः “बाल इति । बल्यते, बलते, वा । ‘बल संचलने’ (भ्वा० आ० से०) । घञ् (३.३.१९) । ज्वलादि (३.१.१४०) णो वा । बालोऽज्ञेऽश्वेभपुच्छयोः । शिशौ ह्रीवेरकचयोबार्ला तु त्रुटियोषितोः । बाली भूषान्तरे मेघौ’ इति हैमः ॥”
बालः बलति । ‘बल प्राणने’ (भ्वा० प० से०) । जलादित्वात् (३.१.१४०) णः । बल्यतेऽवरुध्यते वा । घञ् (३.३.१९) । बालो ना कुन्तलेऽश्वस्य गजस्यापि बालधौ । नालिकेरे हरिद्रायां मल्लिकाभिद्यपि स्त्रियाम् । वाच्यलिङ्गोऽर्भके मूर्खे ह्रीवेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटिस्त्रियोः’ इति (पवर्गीयादौ) मेदिनी ॥
बालगर्भिणी बाला चासौ गर्भिणी च ॥
बालतनयः बालास्तनयाः पत्राण्यस्य बालपत्रश्च’ इति मूलपाठः – इत्यन्ये । ‘बालपत्रो यवासः खदिरश्च’ इति प्राञ्चः । आह च - ‘खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च जिह्मशल्यः क्षितिक्षमः’ ॥
बालतृणम् बालं तृणम् ॥
बालधिः बाला धीयन्तेऽत्र । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः ॥
बालपाश्या बेति । बालपाशे केशसमूहे साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । बालेषु पाश्या पाशसमूहो वा ॥
बालमूषिका क्षुद्रत्वात् बाला चासौ मूषिका च । ‘खर्वा खुर्बालमूषिका’ इति दुर्गः ॥
बालहस्तः बेति । ‘बालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ’ (इति पवर्णीयादौ मेदिनी । बालो हस्त इव । दंशादिनिवारकत्वात् । बालानां हस्तः समूहो वा ॥
बालुकम् बालुका सिकतासु स्याद्वालुकं त्वेलबालुके’ (इति मेदिनी)॥
बालेयशाकः बालेयस्य शाकः । गर्दभभक्ष्यशाकत्वात् ॥
बाल्यम् बालस्य भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् ॥
बाल्हीकम् वह्लते । ‘वह्ल प्राधान्ये’ (भ्वा० आ० से०) । बाहुलकादीकन् । वल्हीकदेशे भवम् । ‘कच्छादिभ्यश्च’ (४.२.१३३) इत्यण् । ‘वाल्हीकं वाल्हिकं धीरहिङ्गुनोर्नाश्मदेशयोः’ (इति त्रिकाण्डशेषः) । ‘काश्मीरं चारु वाल्हीकं संकोचं पिशुनं वरम्’ इति हलायुधाच्चार्वपि ॥
बाल्हीकाः “वल्हिकदेशे भवाः । ‘कोपधाच्च’ (४.३.१३७) इत्यण् । ‘वाल्हीकं वाल्हिकं धीरहिङ्गुनोर्नाश्वदेशयोः’ इति त्रिकाण्डशेषतो दीर्घमध्योऽपि ॥ एते हयविशेषाः प्रत्येकं भिन्नाः । – ‘वनायुजः पारसीक उक्तः’ इति रत्नकोषात् ‘श्वेताश्वं कर्काख्यं, वनायुजमपि पारसीकं तु’ इति नाममालायाश्च द्वयोः पर्यायता–इत्यपरे ॥”
बाष्पिका बाष्पमिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । टाप् (४.१.४) । ‘बाष्पीका इति पाठे पृषोदरादिः (६.३.१०९) ॥
बाहुः “बाधते । ‘बाधृ विलोडने’ (भ्वा० आ० से०) । ‘अर्जिदृशिकम्यमि-’ (उ० १.२७) इत्युः, हश्चान्त्यस्य । मुकुटस्तु-वहन्त्यनेन । ’वहिरहितलिपशिध्यश्च’ इत्युण्-इत्याह । तदपाणिनीयत्वादुपेक्ष्यम् । वहेः ‘हलश्च’ (३.३.१२१) इति घञ् । वाहते । ‘वाहृ प्रयत्ने’ । (भ्वा० आ० से०) । अच् (३.१.१३४) वा ‘वाहोऽश्वभुजयोः पुमान्’ इति दामोदरः । ‘वाहो वाहुरिति स्मृतः’ इति देशी कोषः । (वाहोश्वमानयोः । वृषे, वाहा तु बाहौ स्यात् इति हैमः) ॥”
बाहुजः बाहुभ्यां जातः । ‘पञ्चम्यामजातौ’ (३.२.९८) इति ङः । बाहोर्जातो वा । ‘सप्तम्यां जनेर्डः (३.२.९७) । बाहुजः क्षत्त्रियै कीरे स्वयज्ञाततिलेऽपि च’ इति विश्वमेदिन्यौ ॥
बाहुदा बाहुदेति । बाहुं छिन्नं दत्तवती लिखतस्य ऋषेः । ‘डुदाञ्’ (जु० उ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यद्वा बहुदस्य कार्तवीर्यस्येयम् । तेनावतारितत्वात् । ’तस्येदम्’ (४.३.१२०) इत्यण् । अजादित्वात् (४.१.४) टाप् ॥
बाहुमूलम् बाहोर्मूलम् ॥
बाहुयुद्धम् बाहुभिर्युद्धम् ॥
बाहुलः “बहुलाः कृत्तिकाः । अण्द्वयम् । (४.२.३,२१)”
बाहुलेयः बहुलानां कृत्तिकानामपत्यम् । स्त्रीभ्यो ढक्’ (४.१.१२०) ।
बिन्दुः बिन्दति । बिदि अवयवे’ (भ्वा० प० से०) । बाहुलकादुः । बिन्दुर्दन्तक्षतान्तरे । भ्रुवोर्मध्ये रूपकाव्यकृतौ च पृषते पुमान् । वेदितर्यन्यलिङ्गः स्यात् ॥
बिम्बिका बिम्बीं कायति । ‘कै शब्दे (भ्वा० प० से०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘ङ्यापोः’ (६.३.६३) इति ह्रस्वः ॥
बिलः देवेति । अकृत्रिमे पर्वतस्य बिले । बिलति । बिल भेदने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ।
बिलम् विलति भिनत्ति । विल भेदने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । विल्यते वा । ‘कृत्यल्युटो बहुलम्’ (३.३.११३) सूत्रे ‘कृल्युटः’ इति (वार्तिकेन) इति ‘इगुपध (३.३.१३५) इति कः । घञर्थे कः (वा० ३.३.५८) वा ।‘खनो घ च’ (३.३.१२५) इति घे संज्ञापूर्वकत्वाद्गुणाभावो वा । बिलं छिद्रे गुहायां च पुमानुच्चैः श्रवोहये ।
बिल्वः बीति । बिलति । ‘बिल भेदने (तु० प० से०) । उल्वादिः (उ० ४.९५) । (‘बिल्वं फले श्रीफले ना’) ॥
बीजपूरः एवं बीजपुरः ॥
बीजम् “विशेषेण जायतेऽनेन । ‘उपसर्गे च संज्ञायाम्’ (३.२.९९) इति डः । ‘अन्येषामपि-(६.३.१३७) इति दीर्घः । यद्वा वीयते । ‘व्येञ् संवरणे’ (भ्वा० उ० अ०) । संपदादि क्विप् (वा० ३.३.१०८) वियं संवृतं जायते जनयति । अन्तर्भावितण्यर्थः । अन्येष्वाप-’ (३.१.१०१) इति डः । विशेषेण एः कामात्, इना वा जायते । विशिष्टा ई लक्ष्मीर्जायतेऽस्मादिति वा । वजति कार्य गच्छति । ‘वज गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) ईत्वम् । वबयोरभेदाद्वीजम् । ‘बीजं तु रेतसि स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे’ इति हैमः ।”
बीजम् विशेषेण ईजते । ‘ईज गतिकुत्सनयोः’ (भ्वा० आ० से०) । अच् (३.१.१३४) । बवयोरभेदः । वीज्यते वा । घञ् (३.३.१९) । कुत्वं तु न भवति । ‘चजोः-’ (७.३.५२) इत्यत्र । ‘निष्ठायामुनिटः’ इति वार्तिककृता पूरितत्वात् । अस्य च निष्ठायां सेट्त्वात् । यद्वा वीजयति वीज्यते वा । अनेन वा । ‘वीज व्यजने’ । अच् (३.१.१३४) । घञ् (३.३.१८.१९) वा । ‘बीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे’ इति हैमः ॥
बीज्यः वीति । वीज्यते । ‘अचो यत्’ (३.१.९७) । यद्वा वीजमस्यास्ति । ‘अन्यत्रापि दृश्यते’ (वा० ५.२.१२०) इति यप् । ‘वीजे भवः’ साधुः वा ॥
बीभत्सम् “बीभत्समिति । बधेर्निन्दायां सन् (३.१.६) । भावे घञ् (३.३.१८) । यद्वा ‘अ प्रत्ययात्’ (३.३.१०२) बीभत्सास्त्यत्र । अर्श आद्यच् (५.२.१२७) । ‘बीभत्सो नार्जुने, क्रूरघृणात्मविकृते त्रिषु’ ।”
बुक्का ब्विति । वुङ्क्यते स्वादुत्वान्मृग्यते । ‘वुङ्क भषणे’ (भ्वा प० से०) । घञ् (३.३.१९) । शोणितेषु स्त्रियां वृक्का वृक्कं सुरसमद्वयोः इति रभसः । ‘उरस्यपि वुक्कायां हृदयं मानसेऽपि च’ इति त्रिकाण्डशेषः ॥
बुद्धः प्रशस्ता बुद्धिरस्य । अर्शआद्यच् (५.२.१२७) । यद्वा बुध्यते । ‘मति बुद्धि-’(३.२.१८८) इति क्तः । ‘इगुपध-’ (३.१.१३५) इति के ‘बुधः’ अपि । ‘सर्वज्ञः सुगतो बुधः’ इति व्याडिः ॥
बुद्धिः बुद्धिरिति । बुध्यतेऽनया । बोधनं वा । क्तिन् (३.३.९४) ।
बुधः बुध्यते । बुध अवगमने (दि० आ० आ०) । कः (३.१.१३५) (बुधः सौम्ये कवौ’) ।।
बुधः बुध्यते । ‘बुध ज्ञाने’ (दि० आ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘बुधः सौम्ये च पण्डिते’ (इति मेदिनी) ॥
बुध्नः बध्नाति बध्यते वा । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । ‘बन्धेर्बधिबुधी च’ (उ० ३.५) इति नक् । ‘बुध्नो ना मूलरुद्रयोः’ ॥
बुभुक्षा भोक्तुमिच्छा । ‘भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । ‘धातोः कर्मणः’ (३.१.७) इति सन् ॥
बृंहितम् व्रिति । बृंहणम् । ‘वृहि वृद्धौ’ (भ्वा० प० से०) ‘नपुंसके’ (३.३.११४) इति क्तः ॥
बृहतिका ‘बृहती वसनान्तरे’ (इति मेदिनी) । बृहत्येव । ‘बृहत्या आच्छादने’ (५.४.६) इति कन् ॥
बृहती वृहति । ‘वृह वृद्धौ’ (भ्वा० प० आ०) । ‘वर्तमाने पृषद्बृहत्-’ (उ० २.८४) इति निपातः । शतृवत्त्वान् ङीप् (४.१.६) । ‘क्षुद्रायां क्षुद्रवार्ताक्यां बृहती छन्दसि क्वचित्’ इति शाश्वतः ॥
बृहत्कुक्षि बृहन् कुक्षिरस्य ॥
बृहद्भानुः बृहन्तो भानवोऽस्येति ।
बृहस्पतिः बृहतां पतिः । ‘तद्बृहतोः- (वा० ६.१.१५७) इति सुट्तलोपौ । अलुकि ‘बृहतां पतिः इत्यपि ।
बोधकरः बोधं करोति । ‘कृञो हेतु-’ (३.२.२०) इति टः ॥
बोधिद्रुमः बोधीति । बुध्यते । ‘बुध अवगमने’ (दि० आ० अ०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘नोक्तमनित्यम्’ इति न गुणनिषेधः । ‘बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे । रत्नकोषेऽपि ‘पिप्पलो बोधिरश्वत्थः’ इति । बोधिशासौ द्रुमश्च ॥
ब्रह्मचारी ब्रति । ब्रह्म वेदः । तदध्ययनार्थं व्रतमप्युपचाराद्ब्रह्म । ब्रह्म चरितुं शीलमस्य । ‘व्रते’ (३.२.८०) इति ‘सुपि-’ (३.२.७८) इति वा णिनिः । यद्वा ब्रह्म तपो ज्ञानं वा चरत्यर्जयत्यवश्यम् । आवश्यका-’(३.३.१७०) इति णिनिः ॥
ब्रह्मचारी ब्रह्म वेदाध्ययनव्रतं चरति । तच्छीलो वा ‘व्रते’ (३.२.८०) इति ‘सुपि-’ (३.२.७८) इति वा णिनिः ॥
ब्रह्मण्यः ‘ब्रह्मणि वैदिके साधुः । ‘तत्र साधुः (४.४.९८) इति यत् । ‘ये चाभावकर्मणोः’ (६.४.१६८) इत्यन् प्रकृत्या । (‘ब्रह्मण्यो ब्रह्मसाधौ स्याद्ब्रह्मदा (से) शनैश्चरे’) ॥
ब्रह्मत्वम् ‘तस्य भावस्त्वतलौ’ (५.१.११९) ॥
ब्रह्मदर्भा ब्रह्मणा दृभ्यते । ‘दृभि ग्रन्थे’ (तु० प० से०) । घञ् (३.३.१९) । ‘कर्तृकरणे कृता-’ (२.१.३२) इति समासः ॥
ब्रह्मदारुः ब्रह्मणो ब्रह्मणि वा दारु ॥
ब्रह्मपुत्रः ब्रह्मणः पुत्रः । (‘ब्रह्मपुत्रः । क्ष्वेडभेदे नदभेदे च पुंस्ययम्)
ब्रह्मबिन्दुः पेति । वेदपाठे मुखान्निर्गतबिन्दवः । ब्रह्मणो बिन्दवः॥
ब्रह्मभूयम् स्यादिति । ब्रह्मणो भावः । ‘भुवो भावे’ (३.१.१०७) इति क्यप् ॥
ब्रह्मयज्ञः ब्रह्मयज्ञः
ब्रह्मवर्चसम् स्यादिति । ब्रह्मणो वेदस्य तपसो वा वर्चः । ‘ब्रह्महस्तिभ्यां वर्चसः’ (५.४.७८) इत्यच् ॥
ब्रह्मसायुज्यम् युनक्ति । ‘युजिर् योगे’ (स० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । युजेन सह । ‘तेन सह-’ (२.२.२८) इति बहुव्रीहिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य सः । यद्वा योजनम् । युक् । सम्पदादि क्विप् (वा० ३.३.१०८) सह युजा । सयुज्यस्य सयुजो वा भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ब्रह्मणः सायुज्यम्॥ | |
ब्रह्मसूः “ब्रह्म तपः, ब्रह्माणं वा सुवति चालयति । ‘षू प्रेरणे’ (तु० प० से०) । ‘अन्येभ्योऽपि-’ (३.२.७६) इति क्विप् ।”
ब्रह्मा ब्रह्मेत्यदि । बृंहति वर्धयति प्रजा इति ब्रह्मा । ‘बृहि वृद्धौ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । ‘बृंहेर्नोऽच्च’ (उ० ४.१४६) इति मनिन् । धातोर्नस्यादादेशः। बृंहति वर्धत इति वा । यत्तु-व्योमादित्व (उ० ४.१५१) कल्पनमस्य मुकुटेन कृतम् । तत्तूक्तसूत्रास्मरणमूलकम् । ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे चाध्यात्मज्ञान- योस्तथा’) ॥
ब्रह्माञ्जलिः अथेति । ब्रह्मणोऽञ्जलिः॥
ब्रह्मासनम् “ध्येति । ध्यानं प्रत्ययैकतानता च, योगश्चित्तवृत्तिनिरोधश्च, तयोरासनम् । यद्वा ध्यानस्य योग उपायः । ध्यानमेव योगो वा । तस्यासनं स्वस्तिकसिद्धपद्मादि । ब्रह्मणः सम्बन्धि आसनम्॥”
ब्राह्मः देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् । ‘ब्राह्मोऽजातौ’ (६.४.१७१) ब्राह्मोऽहोरात्रः । दैवैः षष्ठ्यधिकैस्त्रिभिरहोरात्र शतैर्दिव्यं वर्षम् । तैर्द्वादशभिः सहस्त्रैर्मानुषं चतुर्युगम् । तच्च देवानामेकं युगम् । तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः तावत्येव रात्रिः प्रलयकालः ।
ब्राह्मणः ब्रह्मणोऽपत्यम् । तस्यापत्यम्’ (४.१.९२) इत्यण् । ‘अन्’ (६.४.१६७) इति टिलोपो न । ब्रह्माधीते । ‘तदधीते तद्वेद’ (४.२.५९) इत्यण् वा । ब्रह्म जानाति । ‘शेषे’ (४.२.९२) इत्यण् वा ॥ ‘वत्रजस्त्वनमो विप्रो वर्णज्येष्ठः कचो (ठो) द्विजः । पुनरुक्तजन्मा स्यात् इति त्रिकाण्डशेषः । सूत्रकण्ठः पुमान् विप्रे खञ्जरीटकपोतयोः’ (इति मेदिनी) ।
ब्राह्मणयष्टिका ब्राह्मणयष्टिरिव । तादृशप्रकाण्डत्वात् । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥
ब्राह्मणी ब्रह्मण इयम् । ‘ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम् । भूमिदेवे तु पुंलिङ्गः फञ्जिकापृक्कयोः स्त्रियाम्’ (इति मेदिनी) ॥
ब्राह्मम् म्विति । ‘हिः’ अवधारणे । ‘ब्रह्मा देवतास्य’ ‘सास्य देवता’ (४.२.२४) इत्यण् । ‘ब्राह्मोऽजातौ’ (६.४.७१) इति साधु ॥
ब्राह्मी ब्रह्मणः इयम् । ब्राह्मोऽजातौ (६.४.१७१) इति टिलोपे ‘टिड्ढा-’ (४.१.१५) इति डीप् । ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्ल्यपि । ब्रह्मशक्तिः इति हैमः।
ब्राह्मी ब्राह्मीति । ब्रह्मण इयम् । ‘ब्राह्मोऽजातौ’ (६.४.१७१) इत्यणि टिलोपः ॥
भक्तम् भज्यते स्म । ‘भज सेवायाम् (भ्वा० उ० अ०) । कर्मणि क्तः । ‘भक्तमन्ने तत्परे च’ इति हेमचन्द्रः ॥
भक्षकारः भक्षं करोति । ‘कर्मण्यण्’ (३.२.१) ॥
भगन्दरः भगं दारयति । ‘भगे च दारेः’ (काशिका० ) इति खच् ॥
भगम् भेति । भज्यते । ‘भज सेवायाम्’ (भ्वा० उ० अ०) । ‘खनो घ च’ (३.३.१२५) इति घित्त्वात् ‘भजेः’ अपि घः । ‘भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे च ना रवौ’ इति विश्वमेदिन्यौ ॥
भगवान् भगं माहात्म्यमस्यास्ति । मतुप् (५.२.९४) ॥
भगिनी भेति । भगं कल्याणं यत्नो वा इच्छा वास्त्यस्याः । इनिः (५.२.११५) ॥
भङ्गः भङ्ग इति । भज्यते ‘भञ्जो आमर्दने’ (रु० प० अ०) । कर्मणि घञ् (३.३.१९) । ‘भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्त्योः । (भङ्गा शाणे) इति हैमः ।
भङ्गा भज्यते । अनया वा । ‘भञ्जो आमर्दने’ (रु० प० से०) । ‘अकर्तरि च’ (३.३.१९) इति ‘हलश्च’ (३.३.१२१) इति वा घञ् । ‘तरङ्गभेदयोर्भङ्गो भङ्गा शस्यशणाह्वये’ इति रुद्रः ॥
भङ्गीनम् भङ्गायाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
भङ्ग्यम् भङ्गायाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
भजमानः भजते फलमनुबध्नाति । ‘भज सेवायाम्’ (भ्वा० उ० अ०) । ‘ताच्छील्य-’ (३.२.१२९) इति चानश् । शानच् (३.२.१२४) वा ॥
भटाः “भेति । भटति । ‘भट भृतौ’, परिभाषणे वा’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च’ (’ इति मेदिनी) ॥”
भटित्रम् भटति । ‘भट भृतौ (भ्वा० प० से०) । ‘अशित्त्रादिभ्य इत्रोत्रौ’ (उ० ४.१७३) इतीत्रः ।-ग्रहादि- त्वादित्रच्–इति मुकुंटस्तु चिन्त्यः । भट्यते स्म वा ॥
भट्टारकः “राजेति । भटति । ‘भट परिभाषणे’ (भ्वा० प० से०) । क्विप् (३.२.१७८) । भट् चासौ तारकश्च । पृषोदरादित्वात् (६.३.१०९) टुत्वनिषेधो न । यद्वा टलति । ‘टल विप्लवे (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । रलयोरेकत्वस्मरणम् । भट् चासौ टारकश्च । भट्टं स्वामित्वमृच्छति वा । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ततः स्वार्थे कन् (५.३.७७) । ‘भट्टारको नृपे नाट्यवाचा, देवे तपो धने-’ इति मेदिनी ॥”
भट्टिनी इतरास्विति । भटेः (भ्वा० प० से०) । तनि (बाहुलकात्) भट्टः । सोऽस्त्यस्याः पतित्वेन । भट्टिनी । इनिः (५.२.११५) ‘भट्टिनी द्विजभार्यायां नाट्योक्त्या राजयोषिति’ । एकम् ‘इतरराज्ञ्याः’ । अत्र विशेषः शब्दार्णवे-‘गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः ॥ भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नाम्नैव राजन्नित्यृषिभिः स च ॥ वयस्य राजन्निति वा विदूषक इमं वदेत् । अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी । भट्टिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सा इति ॥
भणितम् इति क्वचित्पठ्यते । मणितमिति । ‘भण कूजने’ (भ्वा० प० से०) । भावे क्तः (३.३.११४) ॥
भण्टाकी भट्यते । भण्यते वा । ‘भट भृतौ (भ्वा० प० से०) । ‘भण शब्दे’ (भ्वा० प० से०) वा । ‘पिनाकादयश्च (उ० ४.१५) इति साधुः ॥
भण्डिलः भण्डति । ‘भडि कल्याणे’ (चु० प० से०) । ‘सलिकल्यनि-’ (उ० १.५४) इतीलच् । —बाहुल कात् इति मुकुटस्तु चिन्त्यः ॥ रलयोरेकत्वात् भण्डिरोऽपि । ‘भण्डिरो भण्डिलो ना’ इति वाचस्पतिः ॥
भण्डी पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘भण्डी योजनवल्ल्यपि । रक्ता भण्डीरिका च’ इतीन्दुः ॥
भण्डीरी भण्डति । ‘भण्ड आभण्डने । ‘भडि गतौ’– इति स्वामी । बाहुलकादीरन् । गौरादिः (४.१.४१) भण्डीरी ॥ प्रज्ञाद्यण् (५.४.३८) । ‘हेमपुष्पी च भाण्डीरी’ इति रभसः ॥
भद्रः भन्दति (ते) । ‘भदि कल्याणे’ (भ्वा० आ० से ०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति साधुः ।-‘स्फायितञ्चि-’ (उ० ३.१३) इति रक् -इति तु मुकुटस्य प्रमादः । ‘भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे’ (इति मेदिनी) ॥
भद्रकुम्भः “भेति । भद्रस्य, भद्रो वा कुम्भः ॥”
भद्रदारुः भद्रं दारु । ‘भद्रदारुणि च क्लीबम्’ इत्यमरमाला । ‘पुंनपुंसकयोर्दारुः’ इति त्रिकाण्डशेषात् पुंस्यपि ॥
भद्रपदा भद्रं पदं यासां ताः । अत्रारोपाद्बहुत्वम् । यत्तु-‘सुप्रात-’ (५.४.१२०) इति प्रोष्ठपदा भद्रपदाश्च निपातिताः इति मुकुटः । तन्न । भद्रपदा- शब्दस्य तत्राग्रहणात् । एतेन-अर्थग्रहणाद्भद्रपदा इति स्वाम्युक्तिरपि परास्ता ।
भद्रपर्णी भद्राणि पर्णान्यस्याः ॥
भद्रबला भद्रं बलमस्याः ॥
भद्रमुस्तकः स्यादिति । भन्दते । ‘भदि कल्याणे’ (भ्वा० आ० से०) । ‘ऋजेन्द्र-’ (उ० २.१८) इति साधुः । भद्रं करोति वा । ‘तत्करोति’ (वा० ३.१.२६) इति ण्यन्तादच् (३.१.१३४) । भद्रश्चासौ मुस्तकश्च ॥ ‘भद्रम् अपि नाम । ‘भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे’ इति रुद्रः ॥
भद्रम् भन्दते । ‘भदि कल्याणे’ (भ्वा० आ० से०) । ‘ऋज्रेन्द्र (उ० २.२८) इति रन् निपात्यते । ‘भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि । ‘त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे’ ॥ पचाद्यचि (३.१.१३४) भन्दम् । ‘भन्दं भद्रं शिवं तथा’ इति त्रिकाण्डशेषः । (भन्दं कल्याणे सौख्ये च)
भद्रयवम् भद्रं च तद्यवं च ॥‘कलिङ्गेन्द्रयवः पुमान्’ इत्यमरमालादर्शनादिन्द्रयवः पुमानपि । तत्रैव स्त्रीकाण्डपाठात् कलिङ्गा च ॥
भद्रश्री भद्रा श्रीरस्य । ‘हस्तिजात्यन्तरे भद्रो वाच्यवच्छ्रेष्ठसाधुनोः’ इति विश्वः ॥
भद्रासनम् भद्रं च तदासनम् ॥
भम् भाति । अन्येष्वपि- (३.१.१०१) इति डः । ‘भं नक्षत्रे गभस्तौ स्त्री पुंसि स्याद्भृगुनन्दने । (भवने च तथा भः स्यात्) भ्रमरो भः प्रकीर्तितः’ इत्येकाक्षरः ।
भयङ्करम् भयं करोति । ‘मेघर्तिभयेषु कृञः’ (३.२.४३) इति खच् ॥
भयम् “‘अज्विधौ भयादीनामुपसंख्यानम्’ (वा० ३.३.५६) । ‘भयं भीतौ भयंकरे । कुब्जकपुष्पे’ इति हैमः॥ बाहुलकादङि भिया । ‘स्यादर्तनमृतीया च गर्ह, चाथ भयं भिया । (त्रासो त्रासौ दरौ भीतमातङ्गो भीश्च साध्वसम्)’ इति शब्दार्णवात् । (‘आशङ्का साध्वसं दरः । भिया च’ इति हैमाच्च ॥”
भयानकम् बिभेत्यस्मात् । ञिभी भये’ (जु० प० अ०) । ‘आनकः शीङ्भियः-’ (उ० ३.८२) ‘भयानकः स्मृतो व्याघ्रे रसे राहौ भयंकरे ॥
भरः “‘भॄ भर्त्सने’ (क्र्या० प० से०) । करणे ‘ॠदोरप्’ (३.३५७) इति स्वामिमुकुटौ । तन्न । ल्युटा बाधप्रसङ्गात् । भरति । ‘भृ भरणे’ (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३४) यद्वा-भरणम् । पुंसि’= (३.३.११८) इति घः, अप् (३.३.५७) वा ॥ उपसर्गान्तरनिवृत्त्यर्थं निर्भरः’ इत्युक्तम् ॥”
भरणम्
- भ्रियतेऽनेन । ल्युट् (३.३. ११७) । (भरणी घोषके ऋक्षे ) भरणं वेतने भृतौ इति विश्वः (मेदिनी) ॥
भरण्यम्
- भरणे साधु । ‘तत्र साधुः’ (४.४.९८) इति यत् ॥
भरताः
- भरतस्य मुनेः शिष्याः । अण् (४.३.१२०) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा बिभर्ति स्वाङ्गम् । ‘डु भृञ्’ (जु० उ० अ०) । ‘भृमृदृशि-’ (उ० ३.१११) इत्यतच् ।—विदाद्यञो (४.१.१०४) वा । ‘यञञोश्च’ (२.४.६४) इति लुकि भरतः —इति मुकुटः । तन्न । अबहुवचने वृद्धिप्रसङ्गात् । पूर्वव्या- ख्याविरोधाच्च ॥
भरद्वाजः भरन् धारको वाजोऽस्य । यद्वा भरद्वाजस्यापत्यम् । ऋष्यण् (४.१.११४) । संज्ञापूर्वकत्वाद्ध्यभावः । ‘भरद्वाजो गुरोः पुत्रे व्याघ्रटाख्यविहंगमे’ (इति मेदिनी) ॥
भर्गः भर्जते । ‘भृजी भर्जने’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । भृज्यन्ते कामादयोऽनेनेति वा । ‘हलश्च’ (३.३.१२१) इति घञ् ।। ‘भर्ग्यः’ इति पाठे ण्यत् (३.१.१२४)
भर्तृः बिभर्ति । ‘डुभृञ् धारणपोषणयोः’ (जु० उ० से०) । तृच् (३.१.१३३) ॥
भर्तृदारकः द्रियते । ‘दृङ् आदरे तुदादिः । ण्वुल् (३.१.१३३) । भर्तृ राज्ञो दारकः ।
भर्तृदारिका तत्सुतेति । भर्तू राज्ञो दारिका ॥ (१) । एकम् राज्ञः सुतायाः ।
भर्त्सनम् भर्त्सनमित्यादि । ‘भर्त्स तर्ज संतर्जने (चु० अ० से०) । ल्युट् (३.३.११५) ॥
भर्म
- भ्रियतेऽनेन । ‘डुभृञ् (जु० उ० अ० ) ‘भृञ् (भ्वा० उ० अ०) वा । मनिन् (उ० ४.१४५) ॥
भर्म “बिभर्ति, भरति वा । मनिन् (उ० ४.१४५) । (‘भर्म स्यात्काञ्चने भृतौ’ इति मेदिनी) ॥”
भल्लातकी भल्ल इवातति । ‘अत सातत्यगमने (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘जातेः’ (४.१.५३) इति ङीष् ॥
भल्लुकः अथेति । भल्लते । ‘भल्ल हिंसायाम् (भ्वा० आ० से०) । बाहुलकादुः । ‘संज्ञायां कन्’ (५.३.७५) । यत्तु मुकुटेन ‘यूकादयश्च’ इति सूत्रमुक्तम् । तदुज्ज्वलदत्तादौ न दृश्यते । भल्लति – इत्युक्तिः स्वामिमुकुटयोश्चिन्त्या ॥ उलूकादित्वात् । (उ० ४.४१) दीर्घमध्योऽपि । ‘भलूको भल्लुको भल्ल इत्युलूकादयश्च सः’ इति पुरुषोत्तमः ॥ प्रज्ञाद्यणि (५.४.३८) ‘भालूकः’ ‘भालुकः’ च ॥
भवः “भवति भवते वा सर्वम् । भू प्राप्तौ’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) यतु भवत्यस्माद्विश्वम् । बाहुलकाद् (३.३.११३) अप् । विश्वमस्त्यस्मिन् इति वा । अस्त्यादेशाद्भुवः (२.४.५२) अप् (३.३.५७) श्रिणीभुवः-’(३.३.२४) इत्यत्र श्रिणीसाहचर्याद्भुवो भौवादिकादेव घञ् — इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् । तत्र चोक्तरीत्या गतिसम्भवात् । अधिकरणे ल्युटो बाधकसत्वादपोऽसम्भवात् अजब्भ्यां स्त्रीखलनाः (३.३.१२६) इति वार्तिकोक्तेः साहचर्याभ्युपगमोऽप्यनुचितः । गातिस्था-(२,४. ७७) इत्यत्रापि पासाहचर्यादस्त्यादेश स्याग्रहणप्रसङ्गात् । ’भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः) ॥”
भवनम् भवन्त्यत्र । ‘भू’ (भ्वा० प० से०) । युच् (उ० २.६८) । भवनमस्त्यत्र वा । अर्शआद्यच् (५.२.१२७) ‘भवनं सदने भावे’ इति हैमः ॥
भवानी भवस्य स्त्री । ‘इन्द्रवरुण- (४.१.४९) इति ङीषानुकौ ।
भविकम् ‘भवो भद्राप्तिसत्तयोः’ इत्यजयः । भवो भद्राप्तिरत्रास्ति । ‘अत इनिठनौ’ (५.२.११५) ॥
भव्यम् भवति । ‘भव्यगेय-’ (३.४.६८) इति साधुः । (‘भव्यं शुभे च सत्ये च योग्ये भाविनि तु त्रिषु । कर्मरङ्गतरौ पुंसि स्त्रियां करिकणोमयोः । क्लीबमस्थनि’)
भषकः
- भषति । ‘भष पैशुन्ये’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
भस्त्रा
- भेति । भस्यतेऽनया । ‘भस दीप्तौ’ (जु० प० से०) । ‘हुयामाश्रुभसिभ्यस्रन्’ (उ० ४.१६८) । ‘तितुत्र-’ (७.२.९ ) इति नेट् । अजादिः (४.१.४) ॥
भस्मगन्धिनी भस्मनो गन्धः । भस्मगन्धोऽस्त्यस्याः । ‘अतः-’ (५.२.११५) इतीनिः ॥
भस्मगर्भा केति । सा कपिलवर्णपुष्पा सती भस्मगर्भाच्यते । भस्म गर्भे यस्याः शुक्लसारत्वात् ॥
भा भा दीप्तौ (अ० प० से०) । दृशिग्रहणात् (वा० ३.२.१०१) डः । टाप् (४.१.४) । ‘भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ’ इति नानार्थरत्नमाला । यद्वा क्विप् (३.२.१७८) । आबन्तत्वाभावान्न सुलोपादि. । भाः । विश्वपावत् ।
भागः भागः।
भागधेयः भेति । भाग एव । ‘भागरूप-’ (वा० ५.४.२५) इति धेयः ॥
भागधेयम् ‘भाग्यैकदेशयोर्भागः’ इति रुद्रः । भाग एव । ‘भागरूपनामभ्यो धेयः’ (वा० ५.४.३५) । (भागधेयं मतं भाग्ये भागप्रत्यययोः पुमान्)
भागिनेयः भगिन्या अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
भागीरथी भगीरथस्येयम् । ’तस्येदम् (४.३. १२०) इत्यण् ॥
भाग्यम् भज्यते । ‘भज सेवायाम्’ (भ्वा० उ० अ०) । ‘ऋहलोण्यत्’ (३.१.१२४) । ‘चजोः-’ (७.३.५२) इति कुत्वम् । ‘भागाद्यच्च (५.१.४९) इति स्वामी । ‘भाग्यं कर्म शुभाशुभम्’ ।
भाजनम् भाजयति । ‘भाज पृथक्कर्मणि’ (चु० उ० से०) । ल्युट् (३.३.११३) ॥ स्यूतादि पिठरादि च सर्वमावपनादिशब्दवाच्यम् ।
भाण्डम् ‘भदि कल्याणे सुखे च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । भणति । ‘भण शब्दे’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । प्रज्ञाद्यण् (४.४.३८) । ‘भाण्डं मूलवणिग्वित्ते तुरंगाणां च मण्डने । नदी कूलद्वयोर्मध्ये भूषणे भाजनेऽपि च’ इति (हैमः) ॥
भाद्रः भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । ततः सास्मिन्’ (४.२.२१) इत्यण् ।
भाद्रपदः भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । ततः समास्मिन्’ (४.२.२१) इत्यण् ।
भानुः भाति । ‘दाभाभ्यां नुः’ (उ० ३.३२) । (भानुरंशौ रवौ दिने’)
भानुः भाति । भानुः ।
भामिनी अवश्यं भामते । ‘भाम क्रोधे’ (भ्वा० आ० से०) । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । ग्रह्यादिणिनिः (३.१.१३४) वा ॥
भारः भारः ।
भारतम् लोक इति । अयं जम्बूद्वीपनवमांशः । भरतस्य राज्ञ इदम् । तस्येदम्’ (४.३.१२०) इत्यण् । ‘महर्षिव्यासरचिते जम्बूद्वीपे च भारतम्’ इति रभसः । वृष्यते ’वृषु सेचने’ (भ्वा० प० से०) । ‘भयादीनामुपसंख्यानम्’ (वा० ३.३.५६) इत्यच् । ‘पुंनपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु’ इति रुद्रः । ‘वर्षं स्थानं विदुः प्राज्ञा इमं लोकं च भारतम्’ इति भारविः । ‘उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र संततिः ‘वर्षोंऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु । एकम् भारतवर्षस्य ।
भारती बिभर्ति । ‘भॄमृदृशि-’ (उ० ३.११०) इत्यतच् । ततः प्रज्ञाद्यणि (५.४.३८) । डीप् (४.१.१५ ॥ भरतस्येयमिति वा । अथ भारती । वचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः ।।
भारद्वाजी भारेति । भरद्वाजस्य मुनेरियम् । तेन निर्मितत्वात् । तस्येदम्’ (४.३.१२०) इत्यण् ॥
भारयष्टिः
- भारस्य यष्टिः ॥
भारवाहः
- भेति । भारं वहति । अन् (३.२.१) ॥
भारिकः
- भारोऽस्ति वाह्यत्वेनास्य । ‘अतः-’ (५.२.११५) इति ठन् ॥
भार्गवः भृगोरपत्यम् । ऋष्यण् (४.१.११४) । बहुत्वे तु लुक् (२.४.६५) । भृगवः । (‘भार्गवः परशुरामे सुधन्वनि मतङ्गजे । दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः स्त्रियाम्’) ॥
भार्गवी भृगोरियम् । ‘भार्गवी पार्वतीश्रियोः । दूर्वायाम्’ (इति मेदिनी) ॥
भार्गी भर्जनम् । ‘भ्रस्ज पाके’ (तु० उ० से०) । घञ् (३.३.१८) । ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ (६.४.४७) इति रमागमः । ‘चजोः-’ (७.३.५२) इति कुत्वम् । ‘भृजी भर्जने’ (भ्वा० आ० से०) वा । घञ् (३.३.१८) । भर्गोऽस्त्यस्याः । ज्योत्स्नाद्यण् (वा० ५.२.१०३) ॥
भार्या भ्रियते । भूर्यते वा । ‘डुभृञ् धारणपोषणयोः’ (जु० प० अ०) । ‘भॄ भरणादौ’ (क्र्या० प० से०) वा । ण्यत् (३.१.१२४) । यत्तु-संज्ञायां भृञः (भ्वा० उ० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) -इति स्वामी व्याख्यत् । तन्न । ‘संज्ञायां समजनिषद-’ (३.३.९९) इति क्यपा भाव्यं परत्वात् । संज्ञा- पर्युदासः (३.१.११२) तु पुंलिङ्गे सावकाशः । ‘तदनुबन्धकग्रहणे नातदनुबन्धकस्य’ (प० ४.२.९) इति न्यायाद्भृञ एव क्यप् । न डुभृञः ॥
भार्यापतिः भार्या च पतिश्च ॥ ‘तौ इत्यनेन पुंस्त्वमुक्तम् । ‘शाल्मली मैथली मैत्त्री दंपती जंपती च सा’ इति वाचस्पतौ स्त्रीत्वमप्युक्तम् ।
भालूकः भालयते । ‘भल आभण्डने’ चुरादिराकुस्मीयः । भालयति-इति मुकुटश्चिन्त्यः ॥
भावः भाव इति । भावयति परिभावयति । पचाद्यच् (३.१.१३४) ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु । रत्यादौ च’ । एकम् विदुषः । (१)
भावः विकार इति । मनोविकारो रत्यादिर्भावः । भावयति करोति रसान् इति । ‘भावोऽभिप्रायवस्तुनोः’ इति हैमः ॥
भावितम् भेति । भाव्यते स्म । ‘भुवोऽवकल्कने’ (चु० ग० सू०) इति ण्यन्तात् क्तः । (३.२.१०२) ‘भावितं वासिते प्राप्ते’ इति हेमः ॥
भावितम् त्विति । भाव्यते स्म ‘भुवोऽवकल्कने’ इति चुरादिण्यन्तात् क्तः । (३.२.१०२) । ‘भावितं वासिते प्राप्ते’ इति विश्वः (मेदिनी) ॥
भावुकम् भवनशीलम् । ‘भू प्राप्तौ (चु० अ० से०) । ‘लषपत-पद-’ (३.२.१५४) इत्युकञ् ।
भाषा भाष्यते। ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यप्रत्ययः।
भाषितम् ‘भाष व्यक्तायां वाचि’ (भ्वा० आ० से०) । भाषणं भाषितम् । भावे क्तः (३.३.११४) ।
भास् “‘भासृ दीप्तौ (भ्वा० आ० से०) । क्विप् (३.२.१७७) । भाः, भासौ । (‘भाः प्रभावे मयूखे च’)”
भास्करः एवं भास्करादिषु । (कस्कादित्वात् (८.३.४८) भास्कराहस्करौ–इति स्वामी) । (‘भास्करो वह्निसूर्ययोः’)
भास्वान् भासः सन्त्यस्य । मतुप् (५.२.९४) । ‘भास्वान् दीप्ते रवौ’)
भिक्षुः भिक्षणशीलः । ‘भिक्ष याच्ज्ञायाम्’ (भ्वा० आ० से०) । ‘सनाशंसभिक्ष उः (३.२.१६८) ॥
भिक्षुः भीति । भिक्षणशीलः । ‘भिक्ष याञ्चायाम्’ (भ्वा० आ० से०) । ‘सनाशंसभिक्ष उः’ (३.२.१६८) ॥
भित्तम् भित्तमिति । भिद्यते स्म । भित्तं शकलम्’ (८.२.५९) इति निपातितम् ।
भित्तिः भित्तिरिति । भिद्यते । ‘भिदिर् विदारणे’ (रु० उ० अ०) । क्तिन् (३.३.९४) । भित्तिः कुड्ये प्रभेदे च’ इति हैमः ।
भिदुरः “भिनत्ति । ‘विदिभिदिच्छिदेः कुरच् (३.२.१६२) । यत्तु –‘कर्मकर्तरि चायमिष्यते, इत्यत्र चकारः कर्तरीत्यनुकर्षणार्थः तेनाकर्मकर्तर्यपि भवति, इति वामनः इति मुकुटेनोक्तम् । तन्न । भाष्येऽस्यार्थस्यादर्शनात् । निष्फलत्वाच्च । भिदिरम्’ इति पाठे तु ‘इषिमदि (उ० १.५१) इत्यादिना किरच् ।।”
भिन्दिपालः भीति । भिन्दति । ‘भिदि अवयवे’ (भ्वा० प० से०) । इन् (उ० ४.१.१८) । भिन्दिर्द्वादशतालं तु दशकुन्तोऽभिधीयते’ इति भरतः । तदवच्छिन्नः कालोऽपि भिन्दिः । भिन्दिं पालयति । अण् (३.२.१) ॥
भिषक् भिषज्यति । ‘भिषज रुग्जये’ । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । क्विप् (३.२.१७८) ॥
भिस्सटा भीति । भिस्सां टीकते । ‘टीकृ गतौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘ङ्यापोः-’ (६.३.६३) इति ह्रस्वः ॥
भिस्सा भीति । बभस्ति । ‘भस दीप्तौ’ (जु० प० से०) । बाहुलकात्सः । ‘बहुलं छन्दसि’ (७.४.७८) इतीत्वम् । ‘ब्राह्मणभिस्सा’ इति (६.३.१ सूत्रे) भाष्यप्रयोगाल्लोकेऽपि । यद्वा भेदनम् । सम्पदादिः (वा० ३.३.१०८) । भिदं स्यति । ‘षो अन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘पृषोदरादिः’ (६.३.१०९) । मुकुटस्तु–भ्यस्यते भक्ष्यते । ‘भ्यस भये’ (भ्वा० प० से०) भक्षणार्थः । ‘भ्यसेः सम्प्रसारणं सश्च’–इत्याह । तदपाणिनीयम् ॥
भीः सम्पदादित्वात् क्विपि (वा० ३.३.१०८) भीः ॥
भीतिः ‘ञिभी भये (जु० प० से०) । क्तिन् (३.३.९४) । ‘भीतिर्भये स्त्रियाम् । भीतं भये भीतियुते त्रिषु’ ।
भीमः बिभेत्यस्मात् । ‘भीमादयोऽपादाने’ (३.४.७४) । भियः षुक् वा’ (उ० १.१४८) इति मक् । ‘भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे’॥
भीमम् ‘भीमादयोऽपादाने (३.४.७४) मकि षुगभावे । ‘भीमो वृकोदरे घोरे शंकरेऽप्यम्लवेतसे’ इति हैमः ॥
भीरुः भयशीला । ‘ञिभी भये’ (जु० प० अ०) । ‘भियः क्रुक्लुकनौ’ (३.२.१७४) इति क्रुः । ‘भीरुः स्यात्कातरे नार्याम्’ इत्यजयः । ‘भीरुरार्ते जने स्त्रियाम्’ इति रभसः । ‘भीरुरार्ते त्रिलिङ्गः स्याद्वरयोषिति योषिति’ (इति मेदिनी) ॥
भीषणम् भीषयते । ल्युः (३.१.१३४) । युच् (३.३.१०७) वा । ‘भीषणं रसे शल्लक्यां ना गाढे दारुणे त्रिषु (३) ।
भीष्मम् बिभेत्यस्मात् भियः षुग्वा (उ० १.१४८) इति मक् षुगागमश्च । ‘भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे’ इति हैमः॥
भीष्मसूः भीष्मं सूते । ‘षूङ् प्राणिप्रसवे ’ (अ० आ० अ०) । क्विप् (३.२.१७८) ॥ अष्टौ भागीरथ्याः
भुक्तसमुज्झितम् पूर्वं भुक्तं पश्चात्समुज्झितम् । ‘पूर्वकालैक-’ (२.१.४९) इति समासः ॥
भुजः द्वाविति । परौ भुजबाहू । भुज्यतेऽनेन । ‘भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । ‘भुजन्युब्जौ-’ (७.३.६१) इति साधुः । यद्वा भुजति । ‘भुजो कौटिल्ये’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३४) इति कः । ‘अथो भुजा । द्वयोर्बाहौ करे’ (इति मेदिनी) ॥
भुजगः ‘भुजो कौटिल्ये’ (तु० प० अ०) । इगुपधत्वात् (३.१.१३५) कः । भुजः सन् गच्छति । ‘अन्यत्रापि (वा० ३.२.४८) इति ङः ।
भुजङ्गः ‘भुजेन कौटिल्येन गच्छति’ वा । गमेः सुपि ‘खच्च डिद्वा’ (वा ३.२.३८) इति खचि डित्वे टिलोपे भुजंगः । ‘भुजंगः सर्पखिङ्गयोः इति हैमः ।
भुजङ्गभुक् भुजंगं भुङ्क्ते । ‘भुज पालनादौ’ (रु० प० अ०) । क्विप् (३.२.७६) ॥
भुजङ्गमः खच्यडित्वे भुजंगमः ।
भुजङ्गाक्षी भुजंगानक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (3.२.१) यद्वा भुजंगोऽक्षि यस्याः । ‘अक्ष्णोऽदर्शनात् (५.४.७६) इत्यच् । ‘जातेः-’ (४.१.६३) इति- ‘गौरादिः (४.१.४१) इति वा ङीष् । भुजंगशब्दस्य भुजंगाक्षिसदृशे लक्षणा ॥
भुजशिरः भुजस्य शिरः ॥
भुजान्तरम् भुजयोरन्तरम् ॥
भुजिष्यः
- भुङ्क्ते स्वाम्युच्छिष्टम् । भुज्यते वा । ‘रुचिभुजिभ्यां किष्यन्’ (उ० ४.१७९ ) ॥
भुवनम् भूयते । ‘भू प्राप्तौ’ (चु० आ० से०) । ‘भूसूधूभ्रस्जिभ्यश्छन्दसि ’ (उ० २.८०) इति क्युन् । यद्वा भवन्त्युत्पद्यन्तेऽनेन । करणे ल्युट् (३.३.११६) । संज्ञापूर्वकत्वाद्गुणाभावः । ‘भुवनं विष्टपेऽपि स्यात्सलिले गगने जले’
भुवनम् भवन्त्यस्मिन् । ‘रञ्जे क्युन् (२.७९) । ‘भूसूधूभ्रस्जिभ्यः’ (उ० २.८०) इति क्युन् । (‘भुवनं पिष्टपेऽपि स्यात्सलिले गगने जले’)
भूः भूरिति । भवति । कर्तरि क्विप् (३.२.१७८) । ‘भूः स्थान- मात्रे कथिता धरण्यामपि योषिति’ । यत्तु—‘भवत्यस्यां सर्वम् इति भूः । बहुलवचनात् (३.३.११३)–अधिकरणे क्विप् (३.३.१७८) इत्याह मुकुटः । तन्न । उक्तरीत्या निर्वाहात् । ‘अद्भ्यः पृथिवी’ इति श्रुतिविरोधाच्च ।
भूतः भूतिरस्यास्ति । अर्शआद्यच् (५.२.१२७) । भूतः । (‘भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ।) प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरेषु ना’) । भवति इष्टं प्राप्नोति । ‘भू प्राप्तौ’ (चु० आ० से ०) । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः - इति मुकुटः । तन्न । प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् वर्तमानविग्रहायोगाच्च ॥ अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । देवांशका इत्यर्थः । यत्तु–‘देवानामिव योनिरुत्पत्तिकारणमविभाव्यमेषाम्’ इति मुकुटो व्याख्यत् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थविरोधाच्च । दश देवयोनयः ॥
भूतकेशः भूतानां केश इव । भूतः केशोऽस्य वा ॥
भूतवेशी भूतानि विशति । ‘विश प्रवेशने’ (तु० प० अ०) । ‘कर्मण्यण्’ ।
भूतावासः भूतानामावासः ॥
भूतिः भवनं भूतिः । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘भूतिर्भस्मनि सम्पत्तौ हस्तिशृङ्गारयोः स्त्रियाम् । मांसपाकविशेषोत्पातयोरपि । विभूतिरिति कथनमन्यप्रादिनिवृत्त्यर्थम् ।
भूतेशः भूतानामीशः ।
भूदारः भुवं दारयति । ‘कर्मण्यण्’ (३.२.१) ॥
भूदेवः भुवो भुवि वा देव इव ॥
भूनिम्बः भुवो निम्ब इव ॥
भूपः भुवं पाति ॥
भूपदी भुवि पदमस्याः । गौरादिः (४.१.४१) ॥
भूमिः भवति । ‘भुवः कित्’ (उ० ४.४५) इति मिः । –‘भुव क्सिन्’-इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति डीष् वा । ‘भूमिः क्षितौ स्थानमात्रे’ इति हैमः ।
भूमिजम्बुका भूमिलग्ना जम्बुका । शाकपार्थिवादिः (२.१.६९) । भूमिलग्नपत्त्रत्वात् ॥
भूमिजम्बुका भूमेर्जम्बूः ह्रस्वत्वात्स्वार्थे कन् (५.३.८६) ॥
भूमिस्पृशः भूमिं स्पृशन्ति । ‘स्पृश स्पर्शने’ (तु० प० अ०) । ‘स्पृशोऽनुदके क्विन्’ (३.२.५८) । ‘भूमिस्पृक् पुंसि मानववैश्ययोः’ (इति मेदिनी) ॥
भूरिफेना भूरयः फेना यस्याः ॥
भूरिमायः भूरयो माया यस्य ॥
भूरुण्डी “भुवं रुण्डयति आच्छादयति । ‘रुटि लुटि स्तेयकरणे’ (भ्वा० प० से०) इत्यत्र माधवीयायां वृत्तौ ‘रुडि, लुडि, इत्यपरे’ इति पाठान्तरमुपन्यस्तम् । ‘कर्मण्यण्’ (३.२.१) ॥ हस्तिकर्णपत्रा शाकविशेष इति स्वामी । द्वे (माषादिक्षेत्रभवाया वकुलपुष्पाभलोहितपुष्पायाः हस्ति कर्णाभपत्रस्य ‘शिरीहथिनी’ इति ख्यातायाः ॥”
भूर्जः भ्विति । ऊर्जनमूर्जः । ‘ऊर्ज बलप्राणनयोः’ (चु० प० से०) । घञ् (३.३.११८) । भूरूर्जोऽस्य ॥
भूषा भ्विति । भूषणम् । ‘गुरोश्च-’ (३.३.१०३) इत्यः ॥
भूषितः भूष्यते स्म । ‘भूष अलङ्कारे’ (भ्वा० प० से०) ॥
भूस्तृणम् भुवस्तृणम् । पारस्करादित्वात् (६.१.१५७) सुट् । ‘भूर्’ अव्ययं वा ॥
भृगुः भृज्जति भृज्ज्यते वा । ‘भ्रस्ज पाके’ (तु० उ० अ०) । ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च’ (उ० १.२८) । न्यङ्क्वादित्वात् कुत्वं (७.३.५३) । भृगुः सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रे च’ इति हैमः । ‘प्रपातस्तु तटो भृगुः’ इति पाठे प्रपत्यते यतस्तटात्स भृगुः ।
भृङ्गः भृङ्ग इव । कृष्णत्वात् । यद्वा बिभर्ति कुलम् । ‘भृञः किन्नुट् च’ (उ० १.१२५) इति गन् । ‘भृङ्गो धूम्या टषिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि’ (इति मेदिनी) ॥
भृङ्गः बिभर्ति । ‘भृञः किन्नुट् च’ (उ० १.१२५) इति कन् । –‘शृङ्गाङ्गभृङ्गाः’ इति–इति मुकुटश्चिन्त्यः । उणादिषु तादृशसूत्राभावात् ॥
भृङ्गम् बिभर्ति । ‘भृञः किन्नुट च’ (उ० १.१२५) इति गन् ॥
भृङ्गराजः ‘भृङ्ग इव राजते। ‘राज दीप्तौ (भ्वा० उ० से०)। अच् (३.१.१३४)। (‘अथ भङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे’ इति मेदिनी) । ‘भृङ्गरजः’ इति पाठे भृङ्ग इव रजोऽस्य । सान्तोऽदन्तोऽपि । रजशब्दस्य द्वैविध्यात् । ‘स्यान्यार्कवो भृङ्गरजः भृङ्गराजः सुजा गरः’ इति रभसात् ॥
भृङ्गारः भ्रिति । बिभर्ति जलम् । ‘डु भृञ्’ (जु० उ० अ०) । ‘शृङ्गारभृङ्गारौ च’ (उ० ३.१३६) इति साधुः ॥
भृङ्गारी भृङ्गेति । भृङ्गं भृङ्गरूपम् आ राति । ‘रा दाने’ (अ० प० अ०) । मूलविभुजादिः (वा० ३.२.५) । गौरादिः (४.१.४१) । यद्वा बिभर्ति । ‘शृङ्गारभृङ्गारौ’ (उ० ३.१३६) इति साधुः । यद्वा रूपेण भृङ्गमृच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अण् (३.१.२) । ‘भृङ्गारी झिल्लिकायां च कनकालौ पुनः पुमान् (इति मेदिनी) ॥
भृतकः
- भ्रिति । भ्रियते स्म । ‘भृञ् भरणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा भृतिं करोति । ‘तत्करोति-’ (३.१.२६) इति णिजन्तात्क्वुन् (उ० २.३२) ॥
भृतिः
- ‘कर्मणि भृतौ’ (३.२.२२) इति निर्देशात् क्तिन्नपि ॥
भृतिभुज्
- भृतिं वेतनं भुङ्क्ते । क्विप् (३.२.७६) ॥
भृत्यः
- भ्रिति । भ्रियते । ‘भृञ् भरणे’ (भ्वा० उ० अ०) । ‘भृञोऽसंज्ञायाम्’ (३.१.११२) इति क्यप् । ‘भृत्यः दासे भृतौ भृत्या’ इति विश्वः ॥
भृत्या
- भ्रियन्ते कर्मकरा अनया । ‘भृञ् भरणे’ (भ्वा० उ० अ०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् ॥
भृशम् भृशते । ‘भृशु भ्रंशु अधः पतने’ (?) । अन्तर्भावितण्यर्थात् ‘इगुपध-’ (३.१.१३५) इति कः । भृशम् ।
भेकः भेके इति । बिभेति । ञिभी भये’ (जु० प० अ०) । इण्भीका- (उ०३.४३) इति कन् । ‘भेको मण्डूकमेघयोः ॥
भेकी भेकीति । ‘वर्षाभ्वी’ इत्यसाधु । ङीब्विधायकाभावात् स्त्रियामपि ‘वर्षाभूः’ इत्येव । ‘भेक्यां पुनर्नवायां स्त्री वर्षाभूदर्दुरे पुमान् इति यादवः । अन्ये तु -गौरादित्वात् (४.१.४१) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः ‘वर्षाभ्वी’ इति दृश्यते । द्वे मण्डूक्याः । क्षुद्रमण्डूकस्येत्यन्ये ।
भेदः भयिति । भेदनम् । ‘भिदिर् विदारणे’ (रु० उ० अ०) । घञ् (३.३.२८) । शत्रोरमात्यादीनामुपायेन परतो विश्लिष्यात्मसात्करणं भेदः ॥
भेदः अथाविति । ‘भेदो द्वैधे विशेषे स्यादुपजापे विदारणे’ (इति विश्वमेदिन्यौ) ॥
भेरी वे भेर्याः भेर्यामानकदुन्दुभी । भेर्यामिति । बिभेत्यस्य रवात् ‘ञिभी भये’ (जु० प० से०) । ‘ऋजेन्द्र-’ (उ० २.२८) इति रन् । गौरादित्वात् (४.१.४१) ङीष् ॥ ‘वङ्क्यादयश्च’ (उ० ४.६६) इति रिप्रत्यये ‘रिः’ अपि ॥
भेषजम् (भेषेति । भेषयति । ‘भेषु भये’ (भ्वा० उ० से०) । ण्यन्तः । अच् (३.३.१३४) । भेषं रोगं जयति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । भेषं जयति वा । ‘जै क्षये’ (भ्वा० प० से०) । ‘आतोऽनुप-’ (३.२.३) इति कः । -भिषज इदम् । ‘तस्येदम्’ (४.३.१३०) इत्यण् । ‘अनन्तावसथेतिहभेषजात्’ (५.४.२३) इति निर्देशादेत्वम्-इत्यन्ये ॥
भैक्षम् भायिति । भिक्ष्यते । ‘भिक्ष याञ्चायाम्’ (भ्वा०आ० से०) । ‘गुरोश्च’ (३.३.१०२) इत्यः । भिक्षाणां समूहः । ‘भिक्षादिभ्योऽण्’ (४.२.३८) ॥
भैरवम् “अथेति । भीरोरिदम् ‘तस्येदम्’ (४.३.१२०) इत्यण् । भैरवः पुंसि शंकरे, भीषणे त्रिषु । (रागभेदे च)”
भैषज्यम् भेषजमेव । ‘अनन्ता-’ (५.४.२३) इति ञ्यः ॥
भोः
- भाति । ‘भा दीप्तौ’ (अ० प० अ०) । बाहुलकाड्डोस् ॥
भोगिनी भोगीति । अतिशयितो भोगोऽस्याः । इनिः (५.२.११५) । ‘विहाय महिषीमन्यराजयोषिति भोगिनी’ (इति मेदिनी) ॥
भोगी भोगः फणो वक्रगतिर्वास्यास्ति । इनिः (५.२.११५) ‘भोगी भुजंगमेऽपि स्याद्ग्रामपात्रे नृपे पुमान् । विहाय महिषीमन्यराजयोषिति भोगिनी
भोजनम् भुजेः (रु० आ० अ०) । ल्युट् (३.३.११५) ॥
भौमः भूमेरपत्यम् । शिवादित्वात् (४.१.११२) अण् । ‘भौमो मङ्गलदैत्ययोः’ इति हैमः । (३)
भौरिकः भाविति । भूरिणि सुवर्णे नियुक्तः। ‘तत्र नियुक्तः’ (४.४.६९) इति ठक् ॥
भ्रकुंसः “भ्रकुंस इति । यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । पटपुट-’ इति दण्डकोक्त ‘कुसि’ धातोश्चुरादिण्यन्तात् ‘एरच्’ (३.३.५६) भ्रुवोर्भ्रुवा वा कुसो भाषणमस्य । भ्रुवा कंसयति वा । अच् (३.१.१३४) । इको हस्वोऽड्यो गालवस्य’ (६.३.६१) इति सूत्रे इयङुवङ्भाविनां न’ (वा०) इति निषेधोत्तरं पठितस्य अभ्रुकुंसादीनाम्’ इति वार्तिकस्य हस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् (६.३.१०९) ऋवर्णवानपि । भ्रकुंस भ्रुकुंश्च भ्रूकुंसश्च भृकुंसवत्’ इति शब्दार्णवः ।”
भ्रकुटिः “भ्रकुटिरिति । ‘कुट कौटिल्ये (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘भ्रुवोः कुटिः, भ्रकुंसवत्त्रैरूप्यम् । पृषोदरादित्वाट्टकारे भृकुटी, इत्यपि ॥”
भ्रमः भावे घञि (३.३.१८) भ्रमः । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दब्रमणयोरपि ।
भ्रमरः भ्रमति । ‘भ्रमु अनवस्थाने’ (दि० प० से०) । ‘अर्तिकमिभ्रमिचमि-’ (उ० ३.१३२) इति करन् । ‘भ्रमरः कामुके भृङ्गे’ (इति मेदिनी) ॥
भ्रमरकः त इति । भ्रमर इव ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । ‘अथ भ्रमरको भृङ्गे गैरिके चूर्णकुन्तले’ (इति मेदिनी) ॥
भ्रमाः भ्रमा इति । भ्रमन्ति जलान्यत्र । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि’ (१) निर्गमनानि । ‘गम्लृ गतौ’ (भ्वा० प० अ०) । ‘ग्रहवृदृनिश्चिगमश्च’ (३.३.५८) इत्यप् । करणे वा । ‘खनो घ च’ (३.३.१२५) । इति घः । जलानां निर्गमाः ।
भ्रष्टयवा भ्रष्टश्चासौ यवश्च ॥
भ्राजिष्णुः ‘भुवश्च’ (३.२.१३८) इति चाद् भ्राजेरपि इष्णुच्’ ॥
भ्रातरौ भ्राजते । ‘भ्राजृ दीप्तौ’ (भ्वा० आ० से०) । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । यत्तु-बिभर्ति । ‘पित्रादयः’ इति तृच् । भ्रादेशश्च-इति—भ्राजते । ‘स्वस्रादयः’ इति ऋन् । जस्य तत्वे–इति च मुकुटेनोक्तम् । तदुपेक्ष्यम् । अपाणिनीयत्वात् । स्वसा च भ्राता च ‘भ्रातृपुत्रौ स्वसृदुहितृभ्याम्’ (१.२.६८) इत्येकशेषः ॥
भ्रातृजः भ्रातुर्जातः । डः (३.२.९८) ॥
भ्रातृजाया भ्रातुर्जाया ॥
भ्रातृभगिनी भ्रात्रिति । भ्राता च भगिनी च ॥
भ्रात्रीयः भ्रात्रीति । भ्रातुरपत्यम् । ‘भ्रातुर्यच्च’ (४.१.१४४) इति चकाराच्छः ॥
भ्रान्तिः ‘भ्रमु चलने’ (भ्वा० प० से०) । भावे क्तिन् (३.३.९४) । अनुनासिकस्य-(६.४.१५) इति दीर्घः । ‘भ्रान्तिरनवस्थितौ । मिथ्यामतौ च भ्रमणे’ ।
भ्राष्ट्रः भृज्ज्यतेऽत्र । ‘भ्रस्ज पाके’ (तु० उ० अ०) । ‘भ्रस्जिगमिनमि-’ (उ० ४.१६०) इति ष्ट्रन्वृद्धी ॥
भ्रुकुंसः “भ्रकुंस इति । यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । पटपुट-’ इति दण्डकोक्त ‘कुसि’ धातोश्चुरादिण्यन्तात् ‘एरच्’ (३.३.५६) भ्रुवोर्भ्रुवा वा कुसो भाषणमस्य । भ्रुवा कंसयति वा । अच् (३.१.१३४) । इको हस्वोऽड्यो गालवस्य’ (६.३.६१) इति सूत्रे इयङुवङ्भाविनां न’ (वा०) इति निषेधोत्तरं पठितस्य अभ्रुकुंसादीनाम्’ इति वार्तिकस्य हस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् (६.३.१०९) ऋवर्णवानपि । भ्रकुंस भ्रुकुंश्च भ्रूकुंसश्च भृकुंसवत्’ इति शब्दार्णवः ।”
भ्रुकुटिः “भ्रकुटिरिति । ‘कुट कौटिल्ये (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘भ्रुवोः कुटिः, भ्रकुंसवत्त्रैरूप्यम् । पृषोदरादित्वाट्टकारे भृकुटी, इत्यपि ॥।”
भ्रू ऊर्ध्वे इति । भ्रमति । ‘भ्रमु चलने’ (भ्वा० प० से०) । ‘भ्रमेर्डूः’ (उ० २.६८) । यद्वा भ्राम्यति । ‘भ्रमु अनवस्थाने’ (दि० प० से०) । क्विप् (३.२.१७८) । ‘ऊङ् च गमादीनाम्’ इति ‘गमः क्वौ’ (६.४.४०) इत्यत्र वार्तिकेन मलोप ऊङ्क चादेशः ॥
भ्रूकुंसः “भ्रकुंस इति । यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । पटपुट-’ इति दण्डकोक्त ‘कुसि’ धातोश्चुरादिण्यन्तात् ‘एरच्’ (३.३.५६) भ्रुवोर्भ्रुवा वा कुसो भाषणमस्य । भ्रुवा कंसयति वा । अच् (३.१.१३४) । इको हस्वोऽड्यो गालवस्य’ (६.३.६१) इति सूत्रे इयङुवङ्भाविनां न’ (वा०) इति निषेधोत्तरं पठितस्य अभ्रुकुंसादीनाम्’ इति वार्तिकस्य हस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् (६.३.१०९) ऋवर्णवानपि । भ्रकुंस भ्रुकुंश्च भ्रूकुंसश्च भृकुंसवत्’ इति शब्दार्णवः ।”
भ्रूकुटिः “भ्रकुटिरिति । ‘कुट कौटिल्ये (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘भ्रुवोः कुटिः, भ्रकुंसवत्त्रैरूप्यम् । पृषोदरादित्वाट्टकारे भृकुटी, इत्यपि ॥”
भ्रूणः भ्रूण्यते । ‘भ्रूण आशाविशङ्कयोः’ (चु० अ० से०) । घञ् (३.३.१९) । ‘भ्रूणः स्त्रीगर्भडिम्भयोः’ (इति मेदिनी) ॥
भ्रेषः भ्रयिति । यथोचिताद् यथाप्राप्तात् भ्रंशोऽधःपतनम् । ‘भ्रेषृ चलने’ (भ्वा० उ० से०) । भ्रेषणम् । घञ् (३.३.१८) ॥
मंक्षु
- मज्जति । ‘टु मस्जो शुद्धौ’ (तु० प० अ०) । बाहुलकात्सुः । ‘मस्जिनशोः-’ (७.१.६०) इति नुम् । ‘स्कोः-’ (८.२.२९) इति सलोपः ॥
मकरः कृणाति । ‘कॄ हिंसायाम्’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मनुष्याणां करः । पृषोदरादिः (६.३.१०९) । यद्वा मङ्कते । ‘मकि भूषायाम्’ (भ्वा० आ० से०) । अच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकं राति । ‘रा दाने’ (अ० प० अ०) । कः (३.२.३) ‘मकरो निधौ नक्रे राशिविशेषे च’ इति हैमः ॥
मकरध्वजः मकरो ध्वजोऽस्य ।।
मकरन्दः मकरन्द इति । मकरमपि द्यति । कामजनकत्वात् । ‘दो अवखण्डने (दि० प० अ०) । ‘आतोऽनु-’ (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा मकरमप्यन्दति । ‘अदि बन्धने’ (भ्वा० प० से०) । ‘कर्मण्यम्’ (३.२.१) । शकन्थ्वादिः (वा० ६.१.९४) । यत्तु ‘गतिकारकोपपदानाम् (प० २.२.१९) इत्युक्तेः सुबुत्पत्तेः प्राक् समासे प्रध्ययनवत् पररूपत्वम् - इति मुकुटः । तन्न । उत्तरदले विभक्त्यनुत्पत्तावपि पूर्वदले विभक्तिसत्त्वात् । अन्यथा ‘राजदर्शी’ ‘चर्मकारः’ इत्यादौ नलोपो न स्यात् । दृष्टान्तोऽप्यसङ्गतः । ‘प्राध्ययनम्’ इत्यस्यैवेष्टत्वात् ॥
मकुष्ठकः “अथेति । मङ्कति, मङ्क्यते वा । ‘मकि मण्डने’ (भ्वा० आ० से०) । बाहुलकादुः, नुमभावश्च । तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० अ०) । क्वुन् (उ० २.३२) । मुकुटश्चासौ स्थकश्च । ‘पूर्वपदात्’ (८.३.१०६) इति षत्वम् । मुकुटस्तु आद्यचमुकारमाह । विश्वमेदिन्योस्तु ‘मुकुष्ठो व्रीहिभेदे स्यात् (मकुष्ठो मन्थरेऽन्यवत्’) इति टवर्गद्वितीयान्तः ॥”
मकूलकः अथेति । मङ्कते । ‘मकि मण्डने’ (भ्वा० आ० से०) । पिञ्जाद्युलच् (उ० ४.९०) । स्वार्थे कन् । आगमशासनस्यानित्यत्वान्न नुम् ॥ पृषोदरादित्वात् (६.३.१०९) उत्वे ‘मुकूलकः’ अपि–इत्यन्ये ॥
मक्षिका मशति ‘मश शब्दे’ (भ्वा० प० से० ) । ‘हनिमशिभ्यां सिकन्’ ( उ० ४.१५४) । मक्षति वा। ‘मक्ष रोषे संघाते च’ (भ्वा० प० से० ) । क्वुन् (उ० २.३२ ) ण्वुल् (३.१.१३३) वा।।
मखः मखन्ति देवा अत्र । अनेन वा । ‘मख गतौ ’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा ‘क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते’ इति घञ् विषयेऽपि । ‘पुंसि-’ (३.३.११८) इति घः ॥
मगधः स्युरिति । मगन्ध्यन्ति याचन्ते । ‘मगध’ इति याञ्चार्थः कण्ड्वादियगन्तः अच् (३.१.१३४) । यस्य हलः (६.४.४९) इति यलोपःप्रज्ञाद्यण् (५.४.३८) वा ॥ मुकुटस्तु ‘मधु मधुरं कायन्ति’ इति विगृहन् ‘मधुकाः’ इति पाठं मन्यते ॥
मघवा “मह्यते पूज्यते । ‘मह पूजायाम्’ (भ्वा० प० से०, चु० उ० से०) । ‘श्वन्नुक्षन्-’ (उ० १.१५९) इत्यादिना ‘मघवन्’ इति निपातितम् ॥ ‘मघवा बहुलम्’ (६.४.१२८) इति त्रादेशपक्षे तु ‘मघवान्’ इत्यपि बोध्यम् । यत्तु ‘त्रादेशे दीर्घभावात् मघवन्’ इति स्वामिनोक्तम् । तन्न । ‘सर्वनामस्थाने चासम्बुद्धौ’ (६.४.८) इति दीर्घसम्भवात् । न च संयोगान्तलोपस्य (८.२.२३) असिद्धत्वम् । ‘मघवा बहुलम्’ (६.४.१२८) इति बहुलग्रहणेन तद्बाधनात् । अत एव मतुपा (५.२.९३) त्रन्तादेशप्रत्याख्यानपरं वार्तिकं तद्भाष्यं च (६.४.१२८) सङ्गच्छते । ‘हविर्जक्षिति निःशङ्को मखेषु मघवानसौ’ इति भट्टिः । एतेन मघवा मघवन् मघवान् इति त्रैरूप्यं वदन्मुकुटोऽपि प्रत्युक्तः । भाष्यवार्तिकैकमत्यानुरोधन सूत्रकारमतेऽपि ‘मघवान्’ इत्यस्यैवाभ्युपगमात् । मतभेदे हि प्रत्याख्यानासम्भवात् । भवतु वा मतभेदः, तथापि ‘होतृ लृकारः इत्यत्र सूत्ररीत्या यणादेशः प्राप्तो वार्तिकरीत्या दीर्घेण बाध्यते यथा, एवं सूत्ररीत्या ‘मघवन्’ इति प्रयोगः प्राप्तो भाष्यवार्तिककृतप्रत्याख्यानरीत्या ‘मघवान्’ इति प्रयोगेण बाध्यते ।”
मङ्गलम् “‘मगि सर्पणे’ (भ्वा० प० से०) । मङ्गति, मङ्गयते वा । ‘मङ्गेरलच्’ (उ० ५.७०) । मङ्गलं पुनः । कल्याणे, ‘मङ्गलो भौमे मङ्गला श्वेतदूर्विका’”
मङ्गल्यकः मेति । मङ्गले साधुः । ‘तत्र साधु’ (४.४.९८) इति यत् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
मङ्गल्या स्यादिति । मल्लिकापुष्पस्येव गन्धो यस्य । ‘उपमानाच्च’ (५.४.१३७) इतीत् । यदगुरु मल्लिगन्धि तत् मङ्गल्या स्यात् मङ्गले साधुः । ‘तत्र साधुः’ (४.३.९८) इति यत् । ‘मङ्गल्यः स्यात्त्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्प मिसिशुक्लवचासु च । रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु’ इति मेदिनी ॥
मचर्चिका मं शम्भुं चर्चति । ‘चर्च अध्ययने’ (चु० उ० से०) । ण्वुल् (३.१.१३३) क्वुन् (२.२८) वा । ‘मः पुनः शम्भौ’ इति हैमः ।
मज्जा मज्जति । ‘टुमस्जो शुद्धौ’ (तु० प० अ०) । ‘श्वन्नुक्षन्-’ (उ० १.१५९) इति साधुः ॥ समौ समानलिङ्गौ । ‘नरि’ इति वा पाठः । पुंसीत्यर्थः ॥ ‘लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः इति भागुरेराबन्तोऽपि । ‘मज्जोक्ता मज्जया सह’ इति द्विरूपकोषाच्च ॥
मञ्चः मेति । मञ्चते । ‘मचि धारणोच्छ्रायपूजनेषु’ (भ्वा० आ० से०) । अच् (३.१.१३४) ॥
मञ्जरिः मृजुत्वमृच्छति । अच इः’ (उ० ४.१३९) । शकन्ध्वादिः (वा० ६.१.९४) ॥ द्वे तुलस्यादेरभिनवोद्धिदि ।
मञ्जिष्ठा मञ्जिति । मञ्जौ शोभने वर्णे तिष्ठति । ‘सुपि स्थः’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षत्वम् । पृषोदरादिः (६.३.१०९) । यद्वा अतिशयेन मञ्जुः । ‘अतिशायने तमबिष्ठनौ’ (५.३.५५) ॥
मञ्जीरः मङ्गति । ‘मजि ध्वनौ’ सौत्रः । बाहुलकादीरन् । ‘गम्भीरादयश्च’ इतीरन्-इति मुकुटो- ऽपाणिनीयो गम्भीरादिगणाभावात् ॥
मञ्जूषा “- मञ्जति, अत्र वा । ‘टु मस्जो शुद्धौ’ (तु० प० अ०) । ‘मस्जेर्नुम् च’ (उ० ४.७७) इत्यूषन् । यत्तु–द्विजकारः इति मुकुटः । तन्न । ‘मस्जेरन्त्यात्पूर्वो नुम्’ (१.१.४७ सूत्रे) इति वार्तिकविरोधात् ॥”
मठः मठ इति । मठन्त्यत्र । ‘मठ मदनिवासयोः’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा मठति निवासयति । पचाद्यच् (३.१.१३४) ॥ छात्रोऽन्तेवासी आदिर्येषां परिव्राजकक्षपणकादीनां तेषां निलयः । बौद्धानां तु विहारोऽस्त्री ॥
मड्डुः स एव महान् मड्डुः । ’टुमस्जो शुद्धौ’ (तु० प० अ०) । ‘भृमृशी- (उ० १.७) इत्यादिना उः । पृषोदरादित्वात् (६.३.१०९) जस्य डः ।
मणिः मण्यते ‘मण शब्दे’ (भ्वा० प० से०) । इन् (उ० ४.११८) । ‘मणिः स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च) । (कण्ठदेशस्तनेऽजाया लिङ्गाग्रेऽलिंजरेऽपि च)’ इति विश्वः (मेदिनी) ॥
मणिकः मणति । ‘मण शब्दे’ (भ्वा० प० से०) । ‘सर्वधातुभ्यः-’ (उ० ४.११८) इतीन् । स्वार्थे कन् (ज्ञापि० ५.४.५) ।‘संज्ञायां कन्’ (५.३.७५) वा ॥
मण्डः मण्डयति । ‘मडि भूषायाम्’ (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । ‘आमलक्यां स्त्रियां मण्ड एरण्डे मोचपिच्छयोः’ इति रभसः । ‘मण्डः पञ्चाङ्गुले शाके पुंसि क्लीबं तु मस्तुनि । आमलक्या स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः’ ॥ अकारप्रश्लेषोऽपि । ‘अमण्डपञ्चाङ्गुलवर्धमानगन्धर्वहस्ताः’ इति हारावली ॥ आकारादिरपि । ‘गन्धर्वहस्तकोऽमण्ड आमण्डो व्याघ्रपुच्छकः’ इति तारपालः ॥ ‘आदण्डः’ इत्येके । (दीर्घदण्डत्वात्) - इति स्वामी ॥
मण्डनम् मण्ड्यतेऽनेन । ‘मडि भूषायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११७) । ‘मण्डनं तु प्रसाधने । मण्डनोऽलङ्करिष्णौ’ इति हैमः ॥
मण्डपः अथेति । मण्डनं मण्डः । ‘मडि भूषायाम् (भ्वा० प० से०) । घञ् (३.३.१८) । मण्डं पाति । ‘पा रक्षणे (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । मण्डं पिबति वा ॥
मण्डम् “मण्डते, मण्ड्य ते, वा । ‘मडि भूषायाम् (भ्वा० आ० से०) । अच् (३.१.१३४) । घञ् (३.३.१८) वा । मन्यते वा । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘ञमन्ताड्डुः’ (उ० १.११४) । ‘मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि । आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः’ इति विश्वः (मेदिनी) ॥”
मण्डलः ‘मडि भूषायाम्’ (भ्वा० प० से०) मण्डति । वृषादित्वात् (उ० १.१०६) कलच् । मण्डलं परिवेशश्च परिधिश्चोपसूर्यकम्’ इति) । भागुरिः ।
मण्डलकम् मण्डलमिव । ‘इवे प्रतिकृतौ’ (५.३.९३) इति कन् ॥
मण्डलम् “मण्डयति, मण्ड्यते, वा । ‘मडि भूषायाम्’ (चु० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वात् (४.१.४१) डीष् । मण्डली । ‘स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्यु पसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः स्यात् इति विश्वः ।”
मण्डलम् मण्डयति । ‘मडि भूषायाम्’ (चु० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । मण्डं भूषां लाति इति वा । (‘मण्डलं देशबिम्बयोः । भुजंगभेदे परिधौ शुनि द्वादशराजके । संघाते कुष्ठभेदे च’)
मण्डलाग्रः मण्डलमग्रमस्य॥
मण्डलेश्वरः व्रिति । मण्डलस्य भूम्येकदेशस्य ईश्वरः । ‘स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च’ इति विश्वः ॥
मण्डहारकः
- मण्डं सुराग्ररसं हरति । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
मण्डितः मेति । मण्ड्यते स्म । ‘मडि भूषायाम्’ (भ्वा० प० से०) । क्तः (३.२.१०२) ॥
मण्डूकः मण्डयति जलाशयम् । मण्डते वा । ‘मडि भूषायाम्’ (भ्वा० प० से०) । ‘शलमण्डिभ्यामूकण्’ (उ० ४.४२) । ‘मण्डूकी मण्डूकपर्ण्यां मण्डूको भेकशोणयोः इति हैमः ॥
मण्डूकपर्णः मण्डुकेति । मण्डूक इव पर्णमस्य ॥
मण्डूकपर्णी मण्डूकवत् पर्णमस्याः । ‘पाककर्ण-’ (४.१.५३) इति ङीष् । ‘मण्डूकपर्णी । मञ्जिष्ठाब्राह्मण्योर्ना तु शोणके’ (इति मेदिनी) ॥
मण्डूरम् अथेति । मण्डते(ति) । ‘मडि भूषायाम्’ (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरच् ॥
मतङ्गजः मतङ्गादृषेर्जातः पञ्चम्यामजातौ’ (३.२.९८) इति डः ॥
मतल्लिका मतल्लिकादयो नियतलिङ्गाः अव्युत्पन्नाश्चेति प्राञ्चः । व्युत्पत्तिरपि सम्भवति । मतं मतिमलति । ‘अलं भूषणादौ’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । क्वुन् (उ० २. ३२) वा । पृषोदरादित्वात् (६.३.१०९) अस्य लः ।
मतिः मन्यतेऽनया । मननं वा । ‘मन ज्ञाने’ (दि० आ० अ०) । क्तिन् (३.३.९४) । (‘मतिबुद्धीच्छयोः’)
मत्तः माद्यति । ‘मदी हर्षे’ (दि० प० से०) । प्राग्वत् क्तः (३.४.७२) । ‘न ध्याख्या-’ (८.२.५७) इति निष्ठानत्वाभावः ॥
मत्तकाशिनी मत्ता क्षीबेव काशते भाति । ‘कर्तर्युपमाने’ (३.२.७९) इति णिनिः । दन्त्यसपक्षे ‘कस गतिशासनयोः’ (अ० आ० से०) ॥
मत्स्यः माद्यति । “मदी हर्षे (दि० प० से०) । ‘ऋतन्यञ्जि-’ (उ० ४.२) इति स्यन् । ‘मत्स्यो मीनेऽथ पुभूम्नि देशे’ ॥
मत्स्यण्डी मेति । मदं मुदं वा स्यन्दते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । पृषोदरादिः (६.३.१०९) ॥
मत्स्यपित्ता मत्स्यानां पित्तमिव तत्त्स्वादुत्वात् ॥
मत्स्यवेधनम् विध्यतेऽनेन ॥ विध विधाने’ (तु० प० से०) । करणा-’ (३.३.११७) इति ल्युट् । मत्स्यानां वेधनम् ॥ (२)
मत्स्याक्षी मत्स्याक्षीव पुष्पमस्याः । मत्स्यशब्दः स्वावयवे गौणः । ‘बहुव्रीहौ-’ (५.४.११३) इति षच् । ङीष् (४.१.४१) ॥
मत्स्याधानी मत्स्येति । मत्स्या आधीयन्तेऽत्र । ‘डुधाञ् धारणपोषणयोः (जु० उ० अ०) । ‘करणाधिकरणयोः- (३.३.११७) इति ल्युट् ।
मथितम् मथ्यते स्म । ‘मथे विलोडने’ (भ्वा० प० से०) । क्तः (३.२.१०२) ॥
मदः मेति । माद्यत्यनेन । ‘मदी हर्षे’ (दि० प० से०) । ‘मदोऽनुपसर्गे’ (३.३.६७) इत्यप् । मदयति वा । अच् (३.१.१३४) । मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः’ (इति मेदिनी) ॥
मदकलः “मदेन कलते । ‘कल शब्दसंख्यानयोः’ (भ्वा० आ० से०) । अच् (३.१.१३४) । मदे सति कलो ध्वनिर्यस्य, इति वा ॥”
मदनः मदन इत्यादि । मदयति । ‘मदी हर्षग्लेपनयोः (भ्वा० प० से०) । घटादिः । ल्युः (३.१.१३४) (‘मदनः सिक्थके स्मरे । राढे वसन्ते धत्तूरे’)
मदनः मदयति । ‘मदी हर्षग्लेपनयोः’ (भ्वा० प० से०) । ल्युः (३.१.१३४) । ‘मदनः स्मरवसन्तद्रुभिद्धत्तूरसिह्रके ॥
मदनः मदयति । ‘मदी हर्षग्लेपनयोः’ (भ्वा० प० से०) । ल्युः (३.१.१३४) । ‘मदनः स्मरवसन्तद्रुभिद्धत्तूरसिह्लके’ (इति मेदिनी) ॥
मदस्थानम्
- मदस्य स्थानम् ॥
मदिरा
- माद्यत्यनया । ‘मदी हर्षे (दि० प० से०) । ‘इषिमदिमुदि-’ (उ० १.५१) इत्यादिना किरच् ॥
मदिरागृहम् मदिराया गृहम् ॥
मदोत्कटः मेति । मदेन दानाम्बुनोत्कटो मत्तः ॥
मद्गुः मज्जति । ‘टुमस्जो शुद्धौ’ (तु० प० अ०) ‘भृमृशी-’ (उ० १.७) इत्युः । न्यङ्क्वादिः (७.३.५३) । सस्य जश्त्वेन (८.४.५३) दः । ‘मद्गुः पानीयकाकिका’ इति रभसः ॥
मद्गुरः मज्जति । ’टुमस्जो शुद्धौ’ (तु० प० अ०) । ‘मद्गुरादयश्च (उ० १.४१) इति निपातितः ।
मद्यः
- माद्यन्त्यनेन । ‘गदमदचर-’ (३.१.१००) इति यत् ॥
मधु
- मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘फलिपाटि-’ (उ० १.१८) इति साधु । ‘मधुपुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवत्यां तु योषिति’ इति विश्वमेदिन्यौ ॥
मधु मेति । मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘फलिपाटि-’ (उ० १.१८) इति साधु । ‘मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति’ इति विश्वमेदिन्यौ ॥
मधुः मन्यते एतं मधुः । ‘मन ज्ञाने (दि० आ० अ०) । ‘फलिपाटि-’ (उ० १.१८) इत्युधश्चान्तादेशः । ‘मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति ।
मधुः मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘फलि पाटि-’ (उ० १.१८) इत्युः धश्च । ‘मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति’ (इति मेदिनी) ॥
मधुकम् मेति । मध्विव । ‘इवे-’ (५.३.९६) इति कन् । ‘मधुकं क्लीतके खगे । वन्द्यन्तरे ना’ (इति मेदिनी) ॥
मधुकरः मधु करोति तच्छीलः । ‘कृञो हेतु-’ (३.२.२०) इति टः ॥
मधुक्रमः
- मधुनः क्रमः ॥
मधुद्रुमः मधुनाम द्रुमः ॥
मधुपः मधु पिबति ‘पा पाने’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘पिबतेः सुरासीध्वोः’ (वा० ३.२.८) इति नियमान्न टक् (३.२.८) ॥
मधुपर्णिका मध्विव पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥
मधुपर्णिका “मधुराणि पर्णान्यम्याः । “पाकक-’ (४.१,५४) इति ङीष् । ‘मधुपर्णी तु गम्भार्यां नीलीसंज्ञौषधावपि’ (इति मेदिनी) ॥”
मधुपर्णी मधुमयानि पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीष् ॥
मधुमक्षिका मधुकर्त्री मक्षिका ॥
मधुयष्टिका मधुयष्टीव । ‘इवे-’ (५.३.९६) इति कन् । ‘मधु यष्टी च यष्टी च यष्टीमधुकमेव च’ इति वाचस्पतिः ॥
मधुरः मधु माधुर्यमस्यास्ति । ‘ऊषसुषि-’ (५.२.१०७) इति रः । (‘मधुरं विषे’) । मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि । मधुरा मथुरापुर्यां यष्टीमेदामधूलिषु । मधुकुक्कुटिकायां च मिश्रेयाशतपुष्पयो’ इति हैमः ॥
मधुरकः मधुर एव । स्वार्थे कन् (५.३.७५) ‘स्वादध्रस्याङ्गो मधुरको मुकुरश्चिरजीवकः’ इति रभसः ॥
मधुरसा मधू रसोऽस्याः । ‘भवेन्मधुरसा द्राक्षामूर्वीकादुग्धिकासु च’ (इति मेदिनी) ॥
मधुरसा मधु रसोऽस्याः । ‘भवेन्मधुरसा द्राक्षामूर्विकादुग्धिकासु च’ (इति मेदिनी) ॥
मधुरा मधुरस्त्यस्याः । ऊषशुषि (५.२.१०७) इति रः । ‘मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः । (इति मेदिनी) ॥
मधुरिका मधुरो रसोऽस्त्यस्याः । अच् (५.२.११५) । ‘मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः । मधुकुक्कुटिकामेदामधूलीयष्टिकासु च । क्लीबं विसे पुंसि रसे तद्वत्स्वादुप्रियेऽन्यवत्’ (इति मेदिनी) ॥
मधुरिपुः मधोरसुरस्य रिपुः ॥
मधुलिट् मधु लेढि । ‘लिह आस्वादने’ (अ० उ० अ०) । क्विप् (३.२.७६) ॥
मधुवारः
- मेति । मधुनो वारः ॥
मधुव्रतः मध्विति । मधु व्रतं भक्ष्यं यस्य ॥
मधुशिग्रुः रक्त इति । असौ शोभाञ्जनः । रक्तपुष्पः । मधुप्रधानः शिग्रुः - इति मुकुटः । रक्तो मधुकरः । ‘रक्तकण्ठानाम्’ इति दर्शनात् । मधुर्मधुरः । शिग्रुः – इत्येके ॥
मधुश्रेणी मधुनः श्रेणिरत्र ॥
मधुष्ठीलः “मधु ष्ठीवति । ‘ष्ठितु निरसने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । मधु ष्ठीले गर्भेऽस्य, इति वा ॥”
मधूकः मध्विति । मह्यते मन्यते वा । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘मन ज्ञाने’ (दि० आ० अ०) वा । ‘उलूकादयश्च (उ० ४.४१) इति साधुः ॥
मधूच्छिष्टम् मेति । मधुन उच्छिष्टम् ॥
मधूलकः जलेति । अत्र मधूके । मधु लाति । ‘ला आदाने (अ० प० अ०) ।‘आतोऽनुप-’ (३.२.३) इति कः । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः । स्वार्थे कन् (५.३.७५) ॥ ‘गिरिजेऽत्र’ इति मूलपाठः - इति सुभूत्यादयः । ‘गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रकः’ इति माधवः । ‘मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः’ इति स्वामी ॥ एकम् जलजमधूकस्य ।
मधूलिका मधु लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अन्येषामपि’ (६.३.१३७) इति दीर्घः ॥
मध्यः मध्ये शरीरस्य भवम् । ‘अ साम्प्रतिके’ (४.३.९) इत्यः । यद्वा मां शोभां धत्ते । ‘अघ्न्यादयश्च’ (उ० ४.११२) इति साधुः । ‘मध्यं विलग्ने न स्त्री स्यान्याय्येऽन्तरेऽधमे त्रिषु’ (इति मेदिनी) ॥ (‘मध्योऽवलग्नं विलग्नं मध्यमः’ इति नाममाला) ।
मध्यदेशः मध्येति । मध्यश्चासौ देशश्च ॥
मध्यमः मध्ये भवः । मध्यान्मः’ (४.३.८) । ‘तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः । नाभिं प्राप्तो महानादो मध्यस्थस्तेन मध्यमः । मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे (मध्यमा कर्णिकाङ्गलिः । राकारजस्वला चापि ) इति हैमः । ‘मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् ॥ स्त्रियां दृष्टरजो नार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा ।
मध्यमः मध्ये भवः । ‘मध्यान्मः’ (४.३.८) हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः” (२.२१) इति मनुः । विनशनं कुरुक्षेत्रम् । द्वे मध्यदेशस्य ।
मध्यमः मेति । मध्ये भवम् । ‘मध्यान्मः’ (४.३.८) । ‘मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा’ (इति मेदिनी) ॥
मध्यमा “स्यादिति । बाल्ययौवनयोर्मध्ये भवा । ‘मध्यान्मः’ (४.३.८) । तयोर्मध्ये मा शोभा यस्याम्, वा । ‘मध्यमो मध्यजेऽन्यवत् । पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा’ (इति मेदिनी) ॥”
मध्यमा मध्यभवा । ‘मध्यान्मः’ (४.३.८) । ‘मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः राका रजस्वला चापि’ इति हैमः ॥
मध्यम् तयोर्मध्ये भवत्वान्मध्यम् । ‘अ साम्प्रतिके’ (४.३.९) इत्यः । मध्यं वलग्ने न स्त्री स्यान्न्याय्येऽन्तरेऽधमे त्रिषु ।
मध्याह्नः “अह्नो मध्यम् ’संख्याविसाय-’(६.३.११०) इति ज्ञापकात्समासः । रात्राह्नाहाः पुंसि’ (२.४.२९) । मध्यं च तदहश्चेति वा । तिसृणां संध्यानां समाहारः । आबन्तो वा (वा० २.४.३०) इति पाक्षिकी क्लीबता, पक्षे त्रिसंध्यी ॥”
मध्वासवः
- मेति । मधुकपुष्पं मधु । तस्यासवः ॥
मनः तदभावे मनः । (‘मनश्चित्ते मनीषायाम्’) । अर्धर्चादिः (२.४.३१) । अयम् इत्येके । तदा ‘मनाः’ इत्यपि ।
मनःशिला मेति । मनःशब्दवाच्या शिला । शाकपार्थिवादिः (वा० २.१.७८) ॥
मनसिजः शृङ्गाररूपेण मनसि जायते स्म । सप्तम्यां जनेर्डः’ (३.२.९७) । ‘तत्पुरुषे कृति (६.३.१४) इत्यलुक् । लुकि तु ‘मनोजः ॥
मनस्कारः मनसः कारो व्यापारविशेषः । ‘डुकृञ्’ (त० उ० अ०) । भावे घञ् (३.३.१८) । ‘अतः कृकमि-’ (८.३.४६) इति सत्वम् ।
मनाक्
- मननम् । ‘मन ज्ञाने’ (दि० आ० अ०) । आक् प्रत्ययः ॥
मनीषा ईष गतिहिंसादर्शनेषु’ (भ्वा० आ० से०) । ‘गुरोश्च हलः (३.३.१०३) इत्यप्रत्ययः । मनस ईषा । शकन्ध्वादित्वात् (वा० ६१.९४) टेः पररूपम् ।
मनीषी मनीषास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः ॥
मनुजाः मनोर्जातः । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘पञ्चम्याम्-’ (३.२.९८) इति डः ॥
मनुष्यधर्मा मनुष्यस्येव धर्म आचारः श्मश्रुलत्वादिर्वास्य । ‘धर्मादनिच् केवलात्’ (५.४.१२४)
मनुष्याः मनुष्या इति । मनोरपत्यम् । ‘मनोर्जातावञ्यतौ षुक् च’ (४.१.१६१) । स्त्रियाम् ‘-हयगवय-’ (वा० ४.१.६३) इति प्रतिप्रसवेन ङीष् (४.१.६३) । ‘हलस्तद्धितस्य’ (६.४.१५०) इति यलोपः । मनुषी । ‘टिड्ढा-’ (४.१.१५) इति ङीषि मानुषी । जातिविवक्षायां ङीषः (४.१.६३) परत्वाद- ञन्तत्वात् (४.१.७३) ङीन् ॥
मनोगुप्ता मनसा गुप्ता । ‘कर्तृकरणे’ (२.१.३२) इति समासः ॥
मनोरथः मन एव रथोऽत्र । मनो रथ इव वा ॥
मनोह्वा मनःशब्देन हूयते कथ्यते । हेञ् (भ्वा० उ० से०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ॥
मन्तुः मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘कमिमनिजनि-’ (उ० १.७१) इति तुः । ‘मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ’ (इति मेदिनी) ॥
मन्त्रव्याख्याकृत् मेति । मन्त्रस्य वेदस्य व्याख्यानं करोति । क्विप् (३.२.७६) । तुक् (६.१.७१) ॥
मन्त्रिन् मेति । मन्त्रो गुप्तभाषणमस्यास्ति । ‘अतः-’ (५.२.११५) इतीनिः । यद्वावश्यं मन्त्रयते । ‘मत्रि गुप्तभाषणे’ (चु० आ ० से०) । ‘आवश्यक-’ (३.३.१७०) इति णिनिः ॥
मन्थः मथ्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘मन्थो रवौ मथि । साक्तवे नेत्ररोगे च’ इति हैमः ॥
मन्थदण्डकः मन्थस्य दण्डः ॥
मन्थनी मेति । मथ्यतेऽस्याम् । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
मन्थरः मन्थति पादौ । ‘मथि हिंसासंक्लेशनयोः’ (भ्वा० प० से०) । बाहुलकादरन् । मन्थं राति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘मन्थरः कोशफलयोर्बाधमन्थानयोः पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत्’ (इति मेदिनी) ॥
मन्थाः मथ्यतेऽनेन । ‘मन्थः’ (उ० ४.११) इतीनिः कित् । यत्तु-पथिमथिभ्यामिन्’-इति मुकुटेनोक्तम् । तदपाणिनीयम् ॥
मन्थानः “मन्थति । बाहुलकादानच् । ताच्छील्ये चानश् (३.२.१२९) वा । मुकुटेन तु ‘परमे कित्’ इत्यनुवृत्तौ ‘मन्तः’ (उ० ४.११) इत्यनेनानः-इत्युक्तम् । तन्न । अनेनेनेर्विधानात् । आनस्याविधानात् । यदपि–मन्थेः शानचि मन्थानः, इति स्वामी–इत्युक्तम् । तदपि न । मन्थेः परस्मैपदित्वात् । आत्मनेपदिभ्यः शानचो विधानात् । मुक्प्रसङ्गाच्चानशपि न । आगमशास्त्रस्यानित्यत्वं वा बोध्यम् ॥”
मन्दः
- मेति । मन्दते स्वपिति । ‘मदि स्तुत्यादौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘मन्दोऽतीक्ष्णे च मूखें च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ’ इति विश्वः (मेदिनी) ॥
मन्दगामी मेति । मन्दं गच्छति तच्छीलः । प्राग्वत् (३.२.७८) ॥
मन्दाकिनी मन्दाकिनीत्यादि । मन्दमकितुं शीलमस्याः । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) ‘सुपि-’ (३.२.७८) इति णिनिः ।
मन्दाक्षम् मन्दाक्षमिति । मन्दमक्षं वागाद्यत्र ॥
मन्दारः “मन्दयते मोदयति । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ (भ्वा० प० से०) । ‘अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) । मन्दा आरा धारा अस्य, सरलत्वादिति वा । (‘मन्दारः स्यात्सुरद्रुमे) । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः’) ।”
मन्दारः मन्दा अरा यस्य । मन्दमृच्छति वा । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । यद्वा मन्दते । ‘मदि स्तुत्यादौ’ (भ्वा० आ० से०) । ‘अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) ॥
मन्दारः मन्दान् इयर्ति । अण् (३.२.१) । मन्दैरर्यते वा । घञ् (३.३.१९) । ‘मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः’ (इति मेदिनी) ॥
मन्दिरम् मन्द्यते सुप्यतेऽत्र । ‘मदि स्तुत्यादौ (भ्वा आ० से०) । ‘इषिमदि-’ (उ० १.५१) इति किरच् । मन्दिरो मकरावासे मन्दिरं नगरे गृहे’ इति हैमः ।
मन्दुरा मन्दन्तेऽत्र । ‘मदि स्तुत्यादौ (भ्वा आ० से०) । ‘मन्दिवाशि-’ (उ० १.३८) इत्युरच् । मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि’ ॥
मन्दोष्णम् मन्दं च तदुष्णं च । एते गुणे क्लीबाः । गुणिनि विशेष्यनिघ्नः ।
मन्द्रः मन्द्र इति । गम्भीरे मेघादिध्वनौ । मन्दते । ‘मदि स्तुत्यादौ (भ्वा० अ० से०) । ‘स्फायि-’ (उ० २.१३) इति रक् । (१)
मन्मथः मननं मत् । चेतना । सम्पदादि क्विप् (वा० ३.३.१०८) । ‘गमादीनां क्वौ’ (वा० ६.४.४०) इति नलोपः । ‘हस्वस्य’ (६.१.७१) इति तुक् । मथतीति मथः । ‘मथे विलोडने (भ्वा० प० से०) । अच् (३.१.१३४) । मतो मथः = मन्मथः । ‘मन्मथकामचिन्तायां कपित्थे कुसुमाययधे । यतु अनुदात्तोपदेश - (६.४.३७) इत्यनुनासिकलोपः इति स्वामिमुकुटावूचतुः । तन्न । क्विपो झलादित्वाभावात् ।
मन्मथः मननम् । ‘मन ज्ञाने (दि० आ० अ०) । सम्पदादिः (वा० ३.३.१०८) । ‘गमः क्वौ’ ‘गमादीनाम्’ (६.४.४०) इति नलोपः । तुक् (६.१.७१) । मथति । ‘मथे विलोडने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मतो मथः । ‘मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ॥
मन्या पेति । पश्चाद्भागे ग्रीवायाः सिरा । मन्यतेऽनया । ‘संज्ञायां समज-’ (३.३.९९) इति क्यण् ॥
मन्युः मन्विति । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘मनिजनिदसिभ्यो युः’ (उ० ३.२०) । ‘मन्युदैन्ये क्रतौ क्रुधि’ इति हैमः ।
मन्वन्तरम् ‘मनोरन्तरमवकाशः’ इति विग्रहः । । एकाधिका सप्ततिः । सा च किंचिदधिकेति बोध्यम् ।
मयः मीनाति । ‘मीञ् हिंसायाम् (क्र्या० उ० अ०) । मयते ‘मय गतौ’ (भ्वा० आ० से०) वा । अच् (३.१.१३४) । (‘मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च’ इति मेदिनी) ॥
मयुः मिनोति । ’डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) । भृमृशीङ्-’ (उ० १.७) इत्युः । ‘मीनाति (६.१.५०) इत्यात्वं तु बाहुलकान्न । (मयुर्मृमाश्वमुखयोः’) ॥
मयुष्ठकः मिनोति । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘भृमृशीङ्-’ (उ० १.७) इत्युः । मयश्चासौ स्थकश्च । मुकुटस्तु मयति । ‘मय गतौ’ (भ्वा० आ० से०) । ‘पुंसि-’ (३.३.११८) इति घः । मयो गन्ता । तस्य स्तकः प्रतिबन्धकः । ‘ष्टक प्रतिघाते’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । मयस्य स्तको मयष्ठकः । नैरुक्तो वर्णविकारः–इत्याह । तन्न । ‘मयते’ इत्युदितत्वात् । घः (३.३.११८) अप्ययुक्तः । तस्य कर्तर्यविधानात् ॥
मयूखः मिमीते । माङ ऊखो मय च’ (उ० ५.२५) इत्यूखप्रत्ययो मयादेशश्च । एतेन मापयन् प्रमापयन् गगनमोखति गच्छति । “मा माने (अ० प० अ०) । उखउखि-’ (भ्वा० प० से०) इति दण्डकोक्तो गत्यर्थः । अच् (३.१.१३४) । पृषोदरादिः (६.३. १०९) इति मुकुटः परास्तः । धातुसमुदायात्प्रत्ययानामविधानात् । पृषोदरादित्वाश्रयणस्य निर्मूलत्वाच्च । (‘मयूखः किरणेऽपि च । ज्वालायामपि शोभायाम्) ।
मयूरः मीनाति रोगम् । ‘मीञ् हिंसायाम्’ (क्र्या० उ० अ०) । ‘मीनातेरूरन्’ (उ० १.६७) । मुकुटस्तु — मिनोति प्रक्षिपत्यग्निमान्द्यमिति खर्जूरादित्वात् ऊरच् – इत्याह । तन्मदम् । ‘मीनातेरूरन्’ इति सूत्रस्य सत्त्वात् । ‘मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ’ इति रभसः ॥
मयूरः मेति । मयते । ‘मय गतौ’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । मह्यां रौति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । पृषोदरादिः (६.३.१०९) ॥
मयूरकः मयूरप्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । ‘मयूरकोऽप्यपामार्गे क्लीबं तुत्थाञ्जने पुनः’ (इति मेदिनी) ॥
मयूरकम् मयूरस्य प्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । मयूरं कायति वा । सादृश्यात् । ‘कै शब्दे’ (भ्वा० प० अ०) । कः (३.२.३) ॥
मरकतम् मरकं तरन्त्यनेन । ‘तॄ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
मरणम् ‘ल्युट् च’ (३.३.११५) ॥
मरीचम् म्रियते विषमनेन । ‘मृङ् प्राणत्यागे’ (तु० आ० अ०) । बाहुलकादीचः । (मरिचम्) ह्रस्वमध्यमपि ॥
मरीचिः म्रियते तमोऽस्मिन् । ‘मृकणिभ्यामीचिः’ (उ० ४.७०) । स्त्रीपुंसाधिकारे-‘त्रुटिमसिमरीचयः’ इति लिङ्गानुशासनम् । ‘द्वयोर्मरीचिः किरणो भानुरुस्रः करः पदम्’ इति शब्दार्णवः । ‘मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम्’ ।
मरीचिका “मरीचिरिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । काल इति । कल्यते । ‘कल संख्याने शब्दे च (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । कालयति सर्वम्, इति वा । ण्यन्तात्पचाद्यच् (३. १.१३४) । कालो मृत्यौ महाकाले समये यमकृष्णयोः ।”
मरुः समानाविति । म्रियन्तेऽस्मिन्भूतानि । ‘भूमृशी-’ (उ० १.७) इत्युः । ‘मरुर्ना गिरिधन्वनोः’
मरुत् म्रियन्तेऽनेन वृद्धेन विना वा । मरुत् । ‘मृग्रोरुतिः’ (उ० १.९४) । (‘मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्’) । मरुतशब्दोऽपि बोध्यः । ‘मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्’ इति विक्रमादित्यकोशात् । ‘मारुतः श्वसनः प्राणः समीरो मारुतो मरुत्’ इति संसारावर्ताच्च ।। (१२)
मरुत् म्रियन्तेऽनेन वृद्धेन विना वा । मरुत् । ‘मृग्रोरुतिः’ (उ० १.९४) । (‘मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्’) । मरुतशब्दोऽपि बोध्यः । ‘मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्’ इति विक्रमादित्यकोशात् । ‘मारुतः श्वसनः प्राणः समीरो मारुतो मरुत्’ इति संसारावर्ताच्च ।। (१२)
मरुत्वान् मरुतः सन्त्यस्य । मतुप् (५.२.९४) । ‘झयः’ (८.२.१०) इति वत्वम् । ’तसौ मत्वर्थे’ (१.४.१९) इति भत्वाज्जश्त्वाभावः ।
मरुन्माला ‘मरुत्’ इत्यत्राप्यन्वेति । ‘मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्’ (इति मेदिनी) ॥ मरुदिति । मरुद्भिर्मल्यते । ‘मल धारणे’ (भ्वा० आ० से०) । घञ् (३.३.१९) । व्यस्तं समस्तं च नामेदम् । ‘स्पृक्का तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटीवर्षा लङ्कोपिका मरुत् । मुनिर्माल्यवती माला मोहना कुटिला लता’ इति वाचस्पतिः । म्रियते । ‘मृङ् प्राणत्यागे (तु० आ० से०) । ‘मृग्रोरुतिः’ (उ० १.९४) ॥ मल्यते । ‘मल धारणे’ (भ्वा० आ० से०) । घञ् (३.३.१९) ॥
मरुवकः मरुं वाति । क्वुन् (उ० २.३२) ॥
मरुवकः मरौ वाति । क्वुन् । (उ० २.३२) । ‘भवेन्मरुवकः पुष्पभिच्छल्यद्रुफणिज्जके’ ॥
मर्कटः मर्कति । ‘मर्क धातुर्ग्रहणे । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । मुकुटस्तु मर्केः सौत्राद्गत्यर्थाच्चुरादित्वाद्विकल्पितणिचः ‘शकादिभ्योऽटन्’ – इत्याह । तच्चिन्त्यम् । मर्केश्चौरादित्वाभावात् । यदपि म्रियते । ‘जटमर्कटो’ इति मृङोऽटन्ककारश्चान्तादेशः – इत्युक्तम् । तदपि निर्मूलत्वापेक्ष्यम् ॥
मर्कटकः मर्कति । ‘मर्क’ सौत्रो धातुर्ग्रहणार्थः । शकादित्वात् (उ० ४.८१) अटन् । ‘संज्ञायां कन्’ (५.३.७५) । ‘अथ मर्कटकः सस्यभेदे वानरलूतयोः’ इति मेदिनी ॥
मर्कटी मर्कति । ‘मर्क’ सौत्रो धातुः । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । गौरादिः (४.१.४१) । ‘अथ मर्कटी । करञ्जभिच्छूकशिम्ब्योः पुंसि वानरलूतयोः’ ॥
मर्कटी मर्कटीव । विविधचेष्टाहेतुत्वात् । ‘अथ मर्कटी । करञ्जभिच्छूकशिम्ब्योः पुसि वानरलूतयोः’ (इति मेदिनी) ॥
मर्त्याः म्रियते । ‘मृङ् प्राणत्यागे’ (तु आ० अ०) । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । स्वार्थे यत् (वा० ५.४.३६) ॥
मर्दलः मर्दमुपमर्दं लाति । ‘आतः’ (३.२.३) इति कः ।
मर्मरः अथेति । वस्त्राणां पर्णानां च स्वनिते मर्मरः । शब्दानुकरणमिति स्वामी । ‘मृङ् प्राणत्यागे’ (तु० आ० अ०) । कृदादयश्च (उ० ५.४१) इत्यरन् मुगागमो गुणश्च – इत्यन्ये । मर्म राति वा । कः (३.२.३) । ‘मर्मरो वस्त्रभेदे च शुष्कपर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि’ ॥
मर्यादा ‘मर्या इति सीमार्थेऽव्ययम्’ तत्र दीयते । प्राग्वदङ् ॥
मलः मलते । ‘मल धारणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत्’ (इति मेदिनी) । ‘वसा शुक्रमसृग्मज्जा कर्णविड्मूत्रविड्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः’ ॥
मलपूः ‘मलं पापे च किट्टे च वर्चस्के कृपणे मलः’ इति धरणिः । मलात् पापात् पुनाति । ‘पूञ् पवने’ (क्र्या० प० से०) । क्विप् (३.२.१७८) । मलं यवते । ‘यु जुगुप्सायाम्’ (चु० आ० से०) । क्विप् (३.२.१७८) । बाहुलकाद्दीर्घः । यद्वा मलते । ‘मल धारणे’ (भ्वा० आ० से०) । बाहुलकादयूः । ‘मलयूः’ इति वा पाठः ॥
मलयजः मलये जातः । ‘सप्तम्यां जनेर्डः’ (३.२.९७) ॥
मलिनी मलमस्त्यस्याः । इनिः (५.२.११५) । ‘मलिनं कृष्णदोषयोः । मलिनी रजस्वलायाम्’ इति हैमः ॥
मलिम्लुचः
- मत्यते । ‘मल धारणे’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । मलिं धृतं म्लोचति ‘म्लुच स्तेये’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । ‘मलिम्लुचो मांसभेदे चौरज्वलनयोः पुमान्’ इति विश्वः (मेदिनी) ॥
मल्लिका मल्लते गन्धम् । मल्यते वा । ‘मल्ल धारणे’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) । स्वार्थे कन् (५.३.७५) । ‘मल्लिको हंसभिद्यपि । मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः’ इति मेदिनी ॥
मल्लिकाख्यः मलीति । किंचिद्धूम्रवर्णैश्चञ्चुचरणैरुपलक्षिताः । ‘मल्लिक’ | इति आख्या येषां ते । मल्लते । ‘मल्ल धारणे’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । स्वार्थे कन् (५.३.७५) । -‘अच इः’ (उ० ४.१३९)—इति मुकुटः । तन्न । मल्लेर्लान्तत्वात् । ‘मल्लिको हंसभेदे स्यात् तृणशून्येऽपि मल्लिंका’ इति रुद्रः । ‘मल्लिको हंसभिद्यपि । मल्लिका तृणशूल्येऽपि मीनमृत्पात्रभेदयोः’ (इति मेदिनी) । मल्लिकाकारमक्षि यस्य । शुक्लापाङ्गत्वात् (इति ‘मल्लिकाक्षः’) इति स्वामी । ‘बहुव्रीहौ सक्यक्ष्णोः’ (५.४.११३) इति षच् ॥
मसूरः “मस्यति, मस्यते वा । ‘मसी परिणामे’ (दि० प० से०) । ‘मसेरुरन्’ (उ० ५.३.) इत्यूरनि दीर्घमध्यः । -‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (ऊ ४.९०) इत्यूरः - इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । ‘मसेश्च’ (उ० १.४३) इत्युरनि ह्रस्वमध्यश्च । ‘वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः’ इति रभसः ॥”
मसूरविदला मसूरवद् विदलमस्याः ॥
मसृणम् मस्यति । ‘मसी परिणामे’ (दि० प० से०) । बाहुलकादृणः । यद्वा समृणोति । ‘ऋणु गतौ’ (त० उ० से०) । ‘इगपध-’ (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । ‘मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति’ इति विश्वः (मेदिनी) ॥
मस्करः “मस्कते, अनेन वा । ‘मस्क गतौ’ (भ्वा० आ० से०) । बाहुलकादरः । यद्वा मङ्कते । ‘मकि मण्डने’ (भ्वा० आ० से०) । अरः । आगमशास्त्रानित्यत्वान्न नुम् । ‘मस्करमस्करिणौ वेणुपरिव्राजकयोः’ (६.९. १५४) इति सुट् ॥”
मस्करी मस्कनम् । ‘मस्क गतौ’ (भ्वा० आ० से०) । बाहुलकादरः । मस्करो ज्ञानं गतिर्वास्यास्ति । ‘मस्करमस्करिणौ’ (६.१.१५४) इति इनिः । यद्वा मस्करो वेणुरस्यास्ति । इनिः (५.२.११५) । यद्वा मा कर्तुं कर्म निषेद्धे शीलमस्य । ‘मस्करमस्करिणौ–’ (६.१.१५४) इति साधुः । यद्वा मकुर इव शुद्धमन्तःकरणमस्यास्ति । प्राग्वन्निपातः । यद्वा मङ्कते । ‘मकि मण्डने’ (भ्वा० आ० से०) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकरो निधिभेदोऽस्यास्ति । प्राग्वन्निपातः ॥
मस्तकः मस्यते स्म । ‘मसी परिणामे परिमाणे वा’ (दि० प० से०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
मस्तिष्कम् मेति । मस्यते मसनं वा । ‘मसी परिणामे’ (दि० प० से०) । क्तिन् (३.३.९४) । मस्तिं मस्कते ‘मस्कगतौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३१०९) ॥
मस्तु मेति । दध्नो भवति । मस्यते । ‘मसी परिणामे’ (दि० प० से०) । ‘सितनि-’ (उ० १.६९) इति तुन् ॥
महः महनम् । ‘मह पूजायाम्’ (भ्वा० प० से०) । घञ् (३.३.१८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । घः (३.३.११८) वा । यद्वा महति । अच् (३.१.१३४) । ‘मही नद्यन्तरे भूमौ मह उद्ध(त्स)वतेजसोः’ (यत्तु) मह्यतेऽनेन । पुंसि-’ (३.३.११८) इति घः इति मुकुटः । तन्न । ‘हलश्च’ (३.३.१२९) इति घञ्प्रसङ्गात्
महाकन्दः महत् कन्दमस्य ॥
महाकुलः “मेति । महच्च तत् कुलं च । महाकुलस्यापत्यम् । ‘महाकुला दञ्खञौ (४.१.१४१) ॥ महत् कुलमस्य, इति विग्रहे तु (महाकुलः) ह्रस्वादिरपि ॥”
महाङ्गः महान्त्यङ्गान्यस्य । ‘अनेकम्-’ (२.२.२४) इति बहुव्रीहिः ॥
महाजाली महेति । जालयति । ‘जल आच्छादने’ चुरादिः । पचाद्यच् । (३.१.१३४) । गौरादिः (४.१.४१) । महती चासौ जाली च ॥
महादेवः महांश्चासौ देवश्च । महान् देवो नृत्यादिरूपा क्रीडा यस्येति वा ।।
महाधनम् महद् धनं मूल्यमस्य ॥
महानसः महच्च तदनश्च (अनसोपकरणं लक्ष्यते) । ‘अनोश्मायः-’ (५.४.९४) इत्यादिना टच् । महदनोऽस्य-इति स्वामी । तन्न । ‘अनोश्मायः-’ इति तत्पुरुषसमासान्तोपन्यासविरोधात् ॥
महामात्रः मेति । ‘मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । (अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे)’ (इति मेदिनी) । महती मात्रा येषां ते । ‘महामात्रः समृद्ध चामात्ये हस्तिपकाधिपे’ (इति मेदिनी) ॥
महायज्ञः महायज्ञः
महारजतम् महच्च तद्रजतं च । ‘सन्महत्-’ (२.१.६१) इति समासः । ‘आन्महतः’ (६.३.४६) इत्यात्वम् ॥
महारजनम् रज्यतेऽनेन । ल्युट् (३.३.११५) । ‘रजकरजनरजः सूपसंख्यानम्’ (वा० ६.४.२४) इति नलोपः । ‘रज्जेः क्वुन्’ (उ० २.७९) वा । महच्च तद्रजनं च । ‘सन्महत्-’ (२.१.६१) इति समासः । ‘महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः’ (इति मेदिनी) ॥
महारण्यम् महेति । महच्च तदरण्यं च । ‘सन्महत्-’ (२.१.६१) इति समासः ।
महाराजिकः “महती राजिः पङ्क्तिर्येषाम् । ‘शेषाद्विभाषा’ (५.४.१५४) इति कप् । ‘माहाराजिक’ इति पाठे महाराजो देवता येषाम् । ‘महाराजप्रोष्ठपदाट्ठञ्’ (४.२.३५) इति ठञ् । यद्यपि—सूक्तहविर्भागिन एव देवतात्वम्, तथापि ‘आग्नेयो वै ब्राह्मणः’ इतिवदुपचारो बोध्यः ॥”
महारौरवः रुरुर्नाम प्राणी (मृग) विशेषः । तस्यायम् । तस्येदम्’ (४.३.१२०) इत्यण् । महतो रुरोरयम् ।
महाशूद्री एवं महाशूद्री । या तु महता शूद्रा । तत्र ‘महाशूद्रा’ इत्येव ॥
महाश्वेता महती चासो श्वेता च ॥
महासहा महती सहा । ‘आन्महतः (६.३.४६) इत्यात्वम् । ‘महासहा माषपर्ण्यमम्लानेऽपि च योषिति’ (इति मेदिनी) ॥
महासहा महती चासौ सहा च । ‘सन्महत्-’ (२.१.६१) इति तत्पुरुषः । ‘आन्महतः-’ (६.३.४३) इत्यात्वम् । — महतो विमर्दस्य सहा वा - इति मुकुटः । तन्न । असामानाधिकरण्येनात्वाप्रसङ्गात् । ‘महासहा माषपर्ण्यामम्लानेऽपि च योषिति’ (इति मेदिनी) ।
महासेनः महती सेना यस्य । ‘महासेनो महासैन्ये स्कन्देऽपि’) ।
महिका मह्यते । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोः-’ (उ० २.३२) । ‘मिहिका’ इति पाठे ‘मिह सेचने’ (भ्वा० प० अ०) । क्वुन् (उ० २.३२) (७) धूमिका धूममहिषी च बोध्या ।
महिला “महति, मह्यते वा । ‘मह पूजायाम्’ (भ्वा० प० सं०) । ‘सलिकल्यनिमहि-’ (उ० १.५४) इतीलच् । (‘महिलां फलिनीस्त्रियोः’ इति मेदिनी) । महस्योत्सवस्य इला भूमिः, इति विग्रहे ‘महेला’ अपि ॥”
महिलाह्वया महिलाया आह्वय आह्वयो यस्याः । ‘-सप्तप्युपमान-’ (६.२.२) इति साधुः ॥
महिषः “महति, मह्यते, वा । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । यद्वा मंहते । ‘महिङ् वृद्धौ’ (भ्वा० आ० से०) । आगमशासनस्यानित्यत्वान्न नुम् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् ॥”
महिषी कृतेति । कृतोऽभिषेकोऽस्याः । मह्यते । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । ‘महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे’ इति हेमचन्द्रः ॥
मही “मह्यते । ‘मह पूजायाम्’ चुरादावदन्तः । ण्यन्तात् ‘अच इः (उ० ४.१३९) । महिः । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । यत्तु-मह्यन्ते भूतान्यस्याम्, मह्यते, वा । पुंसि (३.३.११८) इति घः । गौरादिङीष् (४.१.४१) – इति मुकुटः । तन्न । ‘हलश्च’ (३.३.१२१) इति घञ् प्रसङ्गात् । कर्मणि घस्याप्रसङ्गाच्च । ‘करणाधिकरणयोः अनुवर्तनात् । ’वीचिः पक्तिर्महिः केलिरित्याद्या ह्रस्वदीर्घयोः’ इति वाचस्पतिः । यद्वा-महीयते । ‘महीङ् पूजायाम्’ कण्ड्वादियगन्तः । ‘क्विप् च’ (३.२.७५) इति क्विप्यल्लोपयलोपौ । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । तदभावे विसर्गः इति कश्चित् । तन्न ‘कारग्रहणान्न’ इत्युक्तत्वात् । ’मही नद्यन्तरे भूमौ मह उद्भवते जसोः’ इति हैमः ॥”
महीक्षित् महीं क्षियति । ‘क्षि निवासगत्योः’ (तु० प० अ०) मह्यां क्षियति वा । ‘क्षि क्षयैश्वर्ययोः’ (भ्वा० प० अ०) । क्विप् (३.२.७६) । तुक् (६.१.७१) ॥
महीध्रः महीध्र इत्यादि । महीं धरति । धृञ् धारणे’ (भ्वा० उ० अ०) । मूलविभुजादित्वात् (वा० ३.२.५) कः ॥
महीरुहः मह्यां रोहति । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । मूलविभुजादित्वात् (वा ३.२.५) कः — इति मुकुटः । तन्न । ‘इगुपध-’ (३.१.१३५) इत्यस्य सत्त्वात् ॥
महीलता अथेति । मह्या लतेव । कृशत्वदीर्घत्वाभ्याम् ।
महीसुतः मह्याः सुतः ।
महेरणा महदीरणमस्याः । महमुत्सवमीरयति वा । ल्युः (३.१.१३४) ॥
महेश्वरः महांश्चासावीश्वरश्च । ‘सन्महत्-’ (२.१.६१) इति समासः । (‘महेश्वरो महादेवे कथितोऽधीश्वरेऽपि च’) ॥
महोक्षः विति । महांश्वासावुक्षा च । ‘अचतुर-’ (५.४.७७) इति साधुः ॥
महोत्पलम् महच्च तदुत्पलं च । ‘उत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्ये’ इति हैमः ॥
महौषधम् महच्च तदौषधं च । ‘महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च’ (इति मेदिनी) ॥a
महौषधम् अथेति । महच्च तदौषधं च । ‘महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च’ (इति मेदिनी) ॥
महौषधम् महच्च तदौषधं च । ‘महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च । इति विश्वः (मेदिनी) ॥
मा
- मानम् । संपदादिः (वा० ३.३.१०८) ॥
मांसम् मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘मनेर्दीर्घश्च’ (उ० ३.६४) इति सः ॥
मांसलः मांसमस्त्यस्य । सिध्मादिलच् (५.२.९७) ॥
मांसिकः
- मांसं पण्यमस्य । ‘तदस्य पण्यम्’ (४.४.५१) इति ठक् ॥
मांसी मन्यते । ‘मनेर्दीर्घश्च’ (उ० ३.६४) इति सः । गौरादिः (४.१.४१) । ‘मांसं स्यादामिषे क्लीबं कङ्कोलीजटयोः स्त्रियाम्’ (इति मेदिनी) ॥
माक्षिकम् मक्षिकाभिः कृतम् । ‘संज्ञायाम् (४.३.११७) इत्यण् ॥
मागधः
- मेति । क्षत्रिया च विट् च । तयोः सुतः । मगध्यति । ‘मगध वेष्टने’ । कण्ड्वादिः अच् (३.१.१३४) । ‘यस्य हलः’ (६.४.४९) इति यलोपः । प्रज्ञाद्यण् (५.४.३८) । ‘मागधो मगधोद्भूते शुक्लजीरकवन्दिनोः । वैश्यतः क्षत्त्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च’ इति हेमचन्द्रः ॥
मागधः स्युरिति । मगन्ध्यन्ति याचन्ते । ‘मगध’ इति याञ्चार्थः कण्ड्वादियगन्तः । अच् (३.१.१३४) । यस्य हलः (६.४.४९) इति यलोपः । प्रज्ञाद्यण् (५.४.३८) वा ॥
मागधी अथेति । मगधे देशे भवा । तत्र भवः’ (४.३.५३) इत्यण् । ‘मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः । वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली ॥ यूथी भाषाविशेषश्च इति हैमः ॥
मागधी मगधेषु भवा । ‘मागधी स्त्री कणायूथ्योर्वाच्यवन्मगधोद्भवे । पुंसि वैश्यात्क्षत्रियाजे शुक्लजीरकबन्दिनोः ॥
माघः मघया युक्ता पौर्णमास्यस्मिन् ।
माघ्यम् मेति । माघे साधुः’ (४.४.९८) इति यत् । –माघे भवम् । दिगादित्वात् (४.३.५४) यत् - इति प्राञ्चः ॥
माठरः मनुते मठरः । स एव माठरः । ‘जनेररष्ठश्च ’ (उ० ५.३८) इत्यनुवर्तमाने ‘वचिमनिभ्यां चिच्च’ (उ० ५.३९) इत्यरप्रत्ययः ठश्चान्तादेशः । ततः प्रज्ञाद्यण् (५.४.३८) मठति । ‘मठ मदनिवासयोः’ (भ्वा० प० से०) । बाहुलकादरच् । मठरस्यापत्यमिति वा । ऋष्यण् (४.१.११४) मठन्त्यनेन मठः । ‘पुंसि-’ (३.३.११८) इति घः । मठं राति । ‘रा दाने’ (अ० प० से०) । कः (३.२.३) (‘माठरो व्यासवियोः । सूर्यानुगे’)
माणवकः माणवो बालः । स इव । यावादित्वात् (५.४.२९) कन् । ‘माणवको हारभेदे बाले कुपुरुषे बटौ’ (इति मेदिनी) ॥
माणवकः मनोरयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् ‘ब्राह्मणमाणव-’ (४.२.४२) इति निपातनाण्णत्वम् । ‘अल्पे’ (५.३.८५) इति कन् । ‘हारभेदे माणवको बाले कुपुरुषेऽपि च’ इति रभसः ॥
माणिमन्थम् मणिबन्धाख्यपर्वते भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । मणिमन्थपर्वते भवम् । (माणिबन्धम्)-इति तु स्वामी ॥
मातङ्गः “- मतङ्गस्यापत्यम् । शिवादित्वात् (४.१.११३) अण् । मतङ्गस्यायम्, वा । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥”
मातरः “ब्राह्मीति । ‘मान पूजायाम् (भ्वा० प० से०, चु० उ० से०) । मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः । ‘नप्तृ- नेष्ट-’ (उ० २.९५) इति सूत्रेण निपातितः । मान्ति शिव- परिवारत्वेन समाविशन्तीति वा ।। ब्रह्मण इयं ब्राही । तस्येदम्’ (४.३.१२०) इत्यणि ‘ब्राह्मो ज ।।”
मातरपितरौ ‘मातरपितरावुदीचाम्’ (६.३.३२) इति मातुररङ्ङन्तादेशो वा ॥
मातरिश्वा ‘मातरि’ इति सप्तम्यन्तप्रतिरूपकम् । मातरि अन्तरिक्षे श्वयति संचरति । ‘टुओश्वि गतिवृद्धयोः (भ्वा० प० से०) । यद्वा मातरि जनन्यां श्वयति वर्धते सप्तसप्तकरूपत्वात् । ‘श्वन्नुक्षन्-’(उ० १.१५९) इति निपातनात्सप्तम्या अलुक् ॥
मातलिः मतं लाति । आतोऽनुप-’ (३.२.३) इति कः । मतलस्यापत्यम् । ‘अत इञ्’ (४.१.९५) ।
माता मान्यते । ‘मान पूजायाम्’ (भ्वा० आ० से०) । माति वा । माति गर्भाऽस्यां वा । ‘मा माने’ (अ० प० अ०) । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । ‘माता गौर्दुर्गा जननी मही । मातरश्च ब्रह्मण्याद्याः इति हैमः ॥
माता मान्यते । ‘मान पूजायाम्’ (भ्वा० आ० से०) ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । ‘मातरौ गोजनन्यौ द्वे’ इति रुद्रः । ‘माता गौर्यादिजननी गो ब्रह्माण्यादिभूमिषु’ इति विश्वः (मेदिनी) ॥
मातापितरौ मेति । माता च पिता च । ‘आनङृतो द्वन्द्वे’ (६.३.२५) । ‘अभ्यर्हितं च’ (वा० २.२.३४) इति मातुः पूर्वनिपातः ॥
मातामहः मेति । मातुः पितरि डामहच् (वा० ४.२.३६) । प्रकृष्टो मातामहः (प्रमातामहः) ॥
मातुलः “मास्ति नास्ति तुला यस्य । मा श्रीस्तुलास्य, इति वा । कनकनामत्वात् । ‘मातुलो व्रीहिभिन्मातृभ्रात्रोश्च मदनद्रुमे । धत्तूरे’ (इति मेदिनी) ॥”
मातुलः मेति । (‘पितृव्यमातुल-’ (४.२.३६) इति निपातितः) । मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽपि इति हैमः ॥
मातुलपुत्रकः अस्येति । मातुलस्य पुत्र इव । कन् (५.३.९६) । ‘मातुल पुत्रक’ इत्यपि मामकतनये फले च धूर्तस्य’ (इति मेदिनी) ॥
मातुलानी मेति । मातुलस्य स्त्री । ‘पुंयोगात्-’ (४.१.४८) इति ङीष् । ‘मातुलोपाध्याय-’ इत्यानुग् वा ॥
मातुलानी मेति । मायास्तुला । मातुलामानयति । ‘अन प्राणने’ (अ० प० से०) गतौ वा । ‘कर्मण्यण्’ (३.२.१) । ङीष् (४.१.१४) । मातुलस्य धत्तूरस्य स्त्रीव वा । ‘मातुलोपाध्याययोषानुकौ’ (वा० ४.१.४९) ॥
मातुलाहिः मां तुलयति । कः । मूलविभुजादिः (वा० ३.२.५) । मातुलश्चासावहिश्च ।
मातुली मेति । मातुलस्य स्त्री । ‘पुंयोगात्-’ (४.१.४८) इति ङीष् । ‘मातुलोपाध्याय-’ इत्यानुग् वा ॥
मातुलुङ्गकः मीनात्यरुचिम् । ‘मीञ् हिंसायाम् (क्र्या० उ० अ०) । बाहुलकात्तुन् । लुञ्ज्यते । ‘लुजि भासार्थः (चु० प० से०) । घञ् (३.३.१९) न्यङ्क्वादिः (७.३.५३) । मातुश्चासौ लुङ्गश्च । स्वार्थे कन् (५.३.७५) ॥ स्वामी तु चतुर्णा पर्यायतामाह । तदुक्तम् - ‘फलपूरो बीजपूरः केसरी बीजपूरकः। बीजकः केसराम्लश्च मातुलुश्च पूरकः’ । अनेकार्थे - ‘सौवर्चलं मातुलङ्गं शिलाचन्दनपेषणी । ग्रीवाभरणकं चैषु चतुर्षु रुचकं स्मृतम्’ इति ।
मातृष्वसेयः मात्रिति । मातृष्वसुरपत्यम् । ‘मातृष्वसुश्च’ (४.१.१३४) इति प्राग्वत् । (मातृष्वसेयः । मातृष्वस्त्रीयः) ॥
मातृष्वस्रीयः मात्रिति । मातृष्वसुरपत्यम् । ‘मातृष्वसुश्च’ (४.१.१३४) इति प्राग्वत् । (मातृष्वसेयः । मातृष्वस्त्रीयः) ॥
माधवः माया लक्ष्म्या धवः । यद्वा मधोरपत्यम् । तद्वंश्यत्वात् (मधोर्हन्तेति वा । ‘शेषे’ (४.२.९२) इत्यण् । मा नास्ति धवोऽस्य वा । (‘माधवोऽजे मधौ राधे माधवे ना स्त्रियां मिसौ । मधु शर्करावासन्तीकुट्टनीमदिरासु च ॥
माधवः मधु मकरन्दः । सोऽस्मिन्नस्ति । ‘मधोर्ञ च’ (४.४.१२९) इति ञः ।
माधवकः
- मधुना कृतः सन्धितः । ‘कुलालादिभ्यो वुञ्’ (४.३.११८) ॥
माधवी मधौ पुष्प्यति । ‘माधवोऽजे मधौ राधे वसन्ते न स्त्रियां मिसौ । वासन्ती कुट्टनीमद्यमधुशर्करासु स्त्रियाम्’ इति मेदिनी । रन्तिदेवोऽपि वैशाखे माधवः कृष्णे माधवी चातिमुक्तके’ ।
मानः “मान इति । (मत्समो नास्ति,इति) मननम् । ‘मनु अवबोधने (त० आ० से०) । घञ् (३.३.१८) । ‘मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे’ इति हैमः ॥”
मानवाः मनोरयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । यद्वा मनोरपत्यम् । ‘ब्राह्मणमाणव-’ (४.२.४२) इति ज्ञापकादण् । अञि षुगभावो वा । औपसंख्यानिकोऽण्-इति मुकुटश्चिन्त्यः । उपसंख्यानाभावात् ॥
मानसम् मन्यतेऽनेन । असुन् (उ० ४.१८९) । प्रज्ञाद्यणि (५.४.३८) । मानसम् । (‘मानसं स्वान्तसरसोः)
मानसौकाः मानसं सर ओकोऽस्य ॥
मानिनी ‘मानश्चित्तोन्नतौ गृहे । क्लीबं प्रमाणे प्रस्थादौ’ (इति मेदिनी) मानोऽस्त्यस्याः । इनिः (५.२.११५) । (मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु’ (इति मेदिनी) ॥
मानुषाः मनुष्या इति । मनोरपत्यम् । ‘मनोर्जातावञ्यतौ षुक् च’ (४.१.१६१) । स्त्रियाम् ‘-हयगवय-’ (वा० ४.१.६३) इति प्रतिप्रसवेन ङीष् (४.१.६३) । ‘हलस्तद्धितस्य’ (६.४.१५०) इति यलोपः । मनुषी । ‘टिड्ढा-’ (४.१.१५) इति ङीषि मानुषी । जातिविवक्षायां ङीषः (४.१.६३) परत्वाद- ञन्तत्वात् (४.१.७३) ङीन् ॥
माया “- स्येति । विश्वं माति यस्याम्, मिमीते, वा । ‘मा माने (अ० प० अ०) । ‘माङ् माने (जु० अ० अ०) वा । ‘माछाससिभ्यो यः’ (उ० ४.१०९) । मां याति वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे’ (इति मेदिनी) ॥”
मायाकारः
- मेति । मायां करोति । अण् (३.२.१) ॥
मायादेवीसुतः माया चासौ देवी च । तस्याः सुतः ॥ (७) यद्यपि वेदविरुद्धार्था नुष्ठतृत्वाज्जिनशाक्यौ नरकवर्गे वक्तुमुचितौ । तथापि देवविरोधित्वेन बुद्ध्युपारोहादत्रैवोक्तौ ।
मायुः मेति । मिनोति देह ऊष्माणम् । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘कृवापाजि-’ (उ० १.१) इत्यण् ॥
मायूरम् “कपोतादीनां गणस्य पृथक्पृथगेकैकम् । | कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति । तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोतानाम्, शुकानाम्, मयूराणाम्, तित्तिरीणाम्, च गणः । ‘अनुदात्तादेरञ्’ (४.२.४४) । शुकात्तु ‘तस्य समूहः’ (४.२.३७) इत्यण् । आदिना काकवर्तकोलृकादीनां ग्रहः । ‘कापोतो रुचके, क्लीबं कपोतौघेऽञ्जनान्तरे’ (इति मेदिनी) ॥ ‘शौकं शुकगणे स्त्रीणां करणे’ (इति मेदिनी) ॥”
मारः म्रियन्तेऽनेन । करणे घञ् (३.३.१९) । मारयति वा । अच् (३.१.१३४) । ‘मारोऽनद्धे मृतौ विघ्ने मारी चण्ड्यां जनक्षये)
मारजित् मारं कामं जयति । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
मारणम् ‘मॄ हिंसायाम्’ (क्र्या० प० से०) ॥
मारुतः म्रियन्तेऽनेन वृद्धेन विना वा । मरुत् । ‘मृग्रोरुतिः’ (उ० १.९४) । (‘मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्’) । ततः प्रज्ञाद्यण् (५.४.३८) ।
मार्कवः मार्केति । मारयति । क्विप् (३.२.१७८) । मारि केश शौक्ल्यनाशने कूयते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘ॠदोरप्’(३.३.५७) ॥
मार्गः एकदेशप्रयोगात् मृगोऽपि । ‘मृगशिरा मृगः’ इति रुद्रकोषः । तद्युक्ता पौर्णमासी मार्गी । सास्मिन्नस्ति । (मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि’)
मार्गः मृज्यते वितृणीक्रियते पादैः । ‘मृजू शुद्धौ (अ० प० से०) मार्यते । ‘मार्ग अन्वेषणे’ (चु० उ० से०) वा । यत्तु-मृग्यतेऽनेन-इति मुकुटेनोक्तम् । तन्न । अल्लोपस्य स्थानिवत्त्वाल्लक्षणाभावान्नोपधावृद्धिः स्यात् । ‘मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि’ इति हैमः ।
मार्गणः मार्गयति । ‘मार्ग अन्वेषणे’ (चु० उ० से०) ल्युः (३.१.१३४) मार्ग्यते वा । ‘कृत्यल्युटः’ (३.३.११३) इति ल्युट् । ‘मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि’ इति हैमः ॥
मार्गशीर्षः मृगशिरसा युक्ता पौर्णमासी । नक्षत्रेण युक्तः कालः (४.२.३) इत्यण् । अचि शीर्षः’ (६.१.६२) । मार्गशीर्षी पौर्णमास्यस्मिन्मासे । ‘सास्मिन्पौर्णमासी’ (४.२.२१) इत्यण् । एतेन ‘पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे’ इति क्वचित्पठ्यमानं व्याख्यातम् ।
मार्जनः “मार्ष्ट्यऽनेन । ‘मृजू शुद्धौ’ (अ० प० से०) । ल्युट् (३.३.११७) । नन्द्यादिल्युः (३.१.१३४) — इति मुकुटः । तन्न । तस्य कर्तरि विधानात् । ‘मार्जनं न द्वयोर्मार्ष्टौ पुंसि स्याल्लोध्रशाखिनि’ ॥ षट् श्वेतलोध्रस्य । आद्यौ श्वेतलोध्र, शेषा रक्तलोध्र इति स्वामी ॥”
मार्जना ‘ण्यासश्रन्थो युच्’ (३.३.१०७) ‘मार्जनो लोध्रशाखिनि । मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ’ इति हैमः ॥
मार्जारः मार्ष्टि मुखम् । ‘मृजू शुद्धौ’ (अ० प० से०) । ‘कञ्जिमृजिभ्यां चित्’ (उ. ३.१३७) इत्यारन् । ‘मृजेवृद्धिः (७.२.११४) । ‘मार्जार ओतौ खट्वांशे’ (इति मेदिनी) ॥
मार्जिता मार्ज्यते स्म । ‘मृजू शौचालङ्कारयोः’ (चु० उ० से०) । चुरादिः । क्तः (३.२.१०२) ॥ ‘अर्धाढकः सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विकर्षं शुण्ठ्याः पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूर- धूलिसुरभीकृतपात्रसंस्था । एषा वृकोदरकृता सरसा रसाला यास्वादिता भगवता मधुसूदनेन’ इति सूदशास्त्रम् । (‘रसालायां तु मार्जितः । शिखरिणी’ इति हैमनाममाला) ।
मार्तण्डः मृतेऽण्डे भवः । शकन्ध्वादिः (वा० ६.१.९४) । ‘परा मार्ताण्डमास्यत् । पुनर्मार्ताण्डमाभरत्’ इत्यादिमन्त्राद्दीर्घोऽपि । ‘अथ मार्तण्डमार्ताण्डौ’ इति नामनिधानाच्छब्दार्णवाच्च । ‘मार्तण्डः क्रोडसूर्ययोः’ ।।
मार्दङ्गिकाः
- मेति । मृदङ्गो लक्षणया तद्वादनं शिल्पमेषाम् । ‘शिल्पम्’ (४.४.५५) इति ठक् ॥
मार्द्वीकम्
- मृद्वीका द्राक्षा । तस्या विकारः । ‘तस्य विकारः’ (४.३.१३४) इत्यण् ‘अनुदात्तादेः’ (४.३.१४०) इत्यञ् वा । केचित्तु–‘माध्वीकम्’ इति पठन्ति । तत्र पृषोदरादित्वम् ॥
मार्ष्टिः स्यादिति । मार्जनम् । ‘मृजू शौचालङ्करणयोः’ चुरादिः । आबादित्वात् (वा० ३.३.९४) क्तिन् । ‘तितुत्र-’ (७.२९) इति नेट् । णिलोपः (६.४.५१)–बाहुलकात्तिः-इत्यन्ये ॥
मालकः मलते । ‘मल धारणे’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । परस्मैपदं वुन्प्रत्ययविधानं च चिन्त्यम् ॥
मालती मां लक्ष्मी लतति । ‘लत’ सौत्रो वेष्टनार्थः। मूलविभुजादित्वात् (वा० ३.२.५) कः । गौरादिः (४. १.४१) । मालं तनोति वा । ‘अन्येभ्योऽपि (वा० ३.२.१) इति डः । ‘मालती युवतौ काचमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यां च’ (इति हैमः) ॥
माला घञ् (३.३.१९) । मां लाति वा । कः (३.२.३) । ‘माला तु पङ्क्तौ पुष्पादिदामनि’ (इति हैमः) ॥
मालाकारः
- मेति । मालां करोति । अण् (३.२.१) ॥
मालातृणकम् मालेति । मालाकाराणि तृणान्यस्य ॥
मालिकः
- मालास्यास्ति । ‘व्रीह्यादिभ्यश्च’ (५.२.११६) इति ठन् । यद्वा माला शिल्पमस्य । ‘शिल्पम्’ (४.४.५५) इति ठन् । ‘मालिका सप्तलापुत्री ग्रीवालंकरणेऽपि च । पुष्पमाल्ये नदीभेदे पक्षिभेदे च मालिकः’ (इति मेदिनी ) ॥
मालुधानः माल्विति । मालुरोषधी । तत्र धानमस्य । ‘मालुधानश्चित्र सर्पे महापद्मे च दृश्यते’ इत्युत्पलिनी । मालुधानो मातुलाहौ मालुधानी लतान्तरे’ इति विश्वः ।
मालूरः मां लक्ष्मीं परेषां लुनाति । ‘लूञ् छेदने (क्र्या० उ० से०) । बाहुलकाद्रक् ॥
माल्यम् मेति । मूर्ध्नि शिरसि । इदमतन्त्रम् । अन्यत्रापि माला भवत्येव । मल्यते । ‘मल धारणे’ (भ्वा० आ० से०) । ण्यत् (३.१.१२४) । मालैव वा । चतुर्वर्णादिष्यञ् (वा० ५.१.१२४) । ‘माल्यं कुसुमतत्स्रजोः’ (इति मेदिनी) ॥
माल्यवान् माल्याकारतास्यास्ति । मतुप् (५.२.९५) ॥
माषपर्णी माषस्येव पर्णान्यस्याः। ‘पाककर्ण (४.१.६४) इति ङीष् ॥
माषीणम् च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
माष्यम् माषाणाम् ॥ च भवनं क्षेत्रम् । ‘विभाषा तिल-’ (५.२.४) इति यत्खञौ ॥
मासः “तौ पक्षौ । मस्यते परिमीयतेऽयम्, अनने वा । ‘मसी परिमाणे’ (दि० प० से०) । कर्मणि घञ् (३.३.१९) । हलश्च (३.३.१२१) इति वा ।”
मासरः “मेति । मास्यते । ‘मसी परिणामे’ (दि० प० से०) । ण्यन्तः बाहुलकादरन् । मा श्रीः सरत्यत्र, इति वा । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘पुंसि-’ (३.३.११८) इति घः ॥”
मासिकम् मासे भवम् । ‘कालाट्ठञ्’ (४.३.११) ॥ ‘पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्’ (३.१२२) इति मनुः ॥
मास्म “- मा च स्म च, अनयोः समाहारः ॥”
माहिष्यः “- मेति । अर्या च क्षत्त्रियश्च । तयोः सुतः । महिष्यां साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । स्वार्थेऽण् (२.४.३८) । यद्वा मह्यते, महति वा । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । चतुर्वर्णादित्वात् (वा० ५.१. १२४) स्वार्थे ष्यञ् ॥”
माहेयी मेति । ‘गौरुस्रा प्रिया इला मही’ इति निरुक्तम् । मह्या अपत्यं स्त्री । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ।-मह्यते । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘खनो घ च’ (३.३.१२५) इति वा । महाया अपत्यम् इति तु स्वामी ॥
मित्रः मेद्यति । ञिमिदा स्नेहने’ (दि० प० से०) । ‘अमिचिमिदि शसिभ्यः क्त्रः’ (उ० ४.१६४) इति कः । (‘मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि’) ।।
मित्रः मीति । मेद्यति । ‘ञिमिदा स्नेहने’ (दि० प० से०) । ‘अमिचिमिदिशसिभ्यः क्रः’ (उ० ४.१६४) । ष्ट्रन् (उ० ४. १५९) इति मुकुटः । तन्न । गुणप्रसङ्गात् । सूत्रस्य सत्वाच्च । मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि स्त्रियां गन्धद्रव्ये दैत्यान्तरे पुमान्’ (इति मेदिनी) ॥
मित्रम् अथेति । मेद्यति । ‘ञिमिदा स्नेहने’ (दि० प० अ०) । ‘अमिचिमिदिशसिभ्यः क्रः’ (उ० ४.१६४) । ष्ट्रन् (उ० ४.१५९)—इति मुकुटश्चिन्त्यः ॥
मिथुनम् मेथति । ‘मिथृ मेथृ संगमे’ (भ्वा० उ० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्’ (उ० ३.५५) इत्युनन् । बाहुलकाद्गुणाभावः-इति मुकुटस्तु एतत्सूत्राज्ञानमूलकः । ‘मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके’ (इति मेदिनी) ॥
मिथ्या
- मथते । ‘मथे विलोडने’ (भ्वा० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) साधुः ॥ विगतं तथा = सत्यमस्मात्तत्र ॥
मिथ्यादृष्टिः मिथ्येति । मिथ्या इत्यपह्नवे । तद्विषयिणी दृष्टिः ।
मिथ्याभियोगः मिथ्या चासावभियोगश्च ॥
मिथ्याभिशंसनम् अभिशंखेः (भ्वा० प० से०) । भावे ल्युट् (३. ३.११५) ॥
मिथ्यामतिः ‘मिथ्या’ इत्यव्ययम् । तेन कर्मधारयः ।
मिश्रेयः मिश्रयति । अच् (३.१.१३४) । ईयते । ‘इण् गतौ’ (अ० प० अ०) । ‘अचो यत्’ (३.१.९७) । मिश्रा चासावेया च । शकन्ध्वादिः (वा० ६.१.९४) ॥
मिसिः मस्यते । ‘मसी परिमाणे’ (दि० प० से०) । इन् (उ० ४.११८) । बाहुलकादत इः । ‘स्यान्मांस्यां शतपुष्पायां मधुरायां मिसिः स्त्रियाम्’ इति दन्त्यान्ते रभसः । ‘मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः’ (इति मेदिनी) ॥ सोमनन्दी तु ‘मिशी’ ‘मिशिः’ इति तालव्यान्ते आह । मि(मे)शति । ‘मिश शब्दे’ (भ्वा० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इति इन् ङीष् (ग० ४.१.४५) वा ॥
मिसिः मस्यति । ‘मसी परिणामे (दि० प० से०) । इन् (उ० ४.११८) । पृषोदरादिः । (६.३.१०९) । ‘मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः (इति मेदिनी) ॥
मिसी मांसीत्वादामिषी इति स्वाम्युक्तो विग्रहोऽयुक्तः । तथा पाठस्य क्वचिददर्शनात् । मस्यति । ‘मसी परिणामे’ (दि० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् । पृषोदरादिः (६.३.१०९) ॥
मिहिरः मेहति । मिह सेचने ’ (भ्वा० प० अ०) । ‘इषिमदि-’ (उ० १.५१) इति किरच् । मिहिरः सूर्यबुद्धयोः’ । महेः किरचि महिरोऽपि । ‘महिर मिहिरगीथाः कालकृत्पद्मपाणिः’ इति त्रिकाण्डशेषात् ।
मीनः “मीनाति, मीयते वा । ‘मीञ् हिंसायाम्’ (क्र्या० उ० से०) । ‘फेनमीनौ’ (उ० ३.३) इति निपातितः । (‘मीनो राश्यन्तरे झषे)”
मीनकेतनः मीनशब्दो जलचरोपलक्षणार्थः । मीनो मकरः केतनं ध्वजो यस्य ||
मुकुटम् “अथेति । मङ्गतेऽनेन वा । ‘मकि मण्डने’ (भ्वा० आ० क्षे०) । बाहुलकादुटः । आगमशास्त्रस्यानित्यत्वान्न नुम् । एकोकारम् । (मुकुटम्, इति) द्व्युकारपाटे बाहुलकाद् धातोरत उः ॥”
मुकुन्दः मुक्तिं ददाति । ‘दाञ्’ (जु० उ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । ‘मुकुन्दः पारदे विष्णौ रत्नभेदे च कुन्दुरौ ॥
मुकुरः मङ्कते । । ‘मकि मण्डने’ (भ्वा० आ० से०) । ‘मकुरदर्दुरौ’ (उ० १.४०) इति साधुः । मुञ्चति ज्योतिः । ‘मुच्लृ मोचने’ । अत्र पक्षे मुकुरो द्व्युकारः । ‘मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे । कुलालदण्डे’ (इति मेदिनी) । ‘मङ्कुरः’-इत्यन्ये ॥
मुकुलः मुञ्चति कलिकात्वम् । ‘मुच्लृ मोक्षणे (तु० उ० अ०)। बाहुलकाद्गुलक् ॥ -‘मुञ्चेरलक् कत्वमुत्वं चातः’ इति स्वामि मुकुटौ । तन्न । तादृशसूत्राभावात् ॥
मुक्तकञ्चुकः मुक्तः कञ्चुको येन ।
मुक्ता मुच्यते स्म । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । क्तः (३.२.१०२) । ‘मुक्ता मौक्तिकपुंश्चल्योः’ इति हैमः ॥
मुक्तावली मुक्तानामावली दीर्घा पङ्किः ॥ भिदादिपाठात् (३.३.१०६) अङि हारा । ‘हारा मुक्तावली हारः’ इति रभसः ।
मुक्तास्फोटः मुक्तेति । मुक्ताः स्फुटन्त्यत्र । ‘स्फुट विकसने (तु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ॥
मुक्तिः मोचनम् । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । क्तिन् (३.३.९४) । ‘मुक्तिर्मोचनमोक्षयोः’ इति हैमः ।
मुखम् मुखमिति । खन्यते । ‘खनु अवदारणे’ (भ्वा० उ० से०) । डित्खनेर्मुट् चोदात्तः’ (उ० ५.२०) इत्यच् आदेर्मुडागमः । मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः’ इति हैमः ।
मुखम् खन्यते । अनेन वा । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘डित् खनेर्मुट् चोदात्तः’ (उ० ५.२०) इत्यच् स च डित् धातोर्मुडागमः । ‘प्राक् खनो मुडुदात्तश्च ततोऽच्च प्रत्ययो भवेत् । प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः’ इति निरुक्तम् । ‘मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः’ इति हैमः ॥
मुखवासनः मुखं वासयति । नन्द्यादिल्युः (३.१. १३४)
मुख्यः म्विति । मुखमिव । ‘शाखादिभ्यो यः’ (५.३.१०३) ।‘व्रीहिभिर्यजेत’ इति यथा॥
मुण्डः मुण्डेति । मुण्ड्यते । ‘मुडि खण्डने’ (भ्वा० प० से०) । घञ् (३.३.१९) । ‘मुण्डो मुण्डितशीर्षयोः । ‘राहा दैत्यान्तरे’ इति हैमः ॥
मुण्डितः मुण्ड्यते स्म । क्तः (३.२.१०१) ॥
मुण्डी
- मुण्डं करोति । ‘मुण्डमिश्र-’ (३.१.२१) इति णिच् । ग्रह्यादित्वात् (३.१.१३४) णिनिः ॥
मुदिरः मोदन्तेऽनेन । मुद-हर्षे’ (भ्वा० आ० से०) । इषिमदिमुदि-’ (उ० १.५१) इति किरच् । ‘मुदिरः कामुके मेघे’ ।
मुद् मोदनम् । मुद् । ‘मुद हर्षे’ (भ्वा० आ० से०) । संपदादिः (वा० ३.३.१०८)
मुद्गपर्णी मुद्गेति । मुद्गः पर्णमस्याः । मुद्गशब्देन मुद्गपर्णसदृशं पर्णं लक्ष्यते । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
मुद्गरः गिरति । ‘गॄ निगरणे’ (तु० प० से०) । अच् (३.१.१३४) । मुदो गरः ॥
मुधा
- मुह्यति । का प्रत्ययः । ‘पृषोदरादित्वात्’ (६.३.१०९) हस्य धः ॥
मुनिः मन्यते मुनिः । ‘मनेरुच्च’ (उ० ४.१२३) । इतीन् । (‘मुनिर्वाचंयमेऽर्हति । प्रियालागस्तिपालाशे’) ॥
मुनिः मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘मनेरुच्च’ (उ० ४.१२३) इतीन् । ‘मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने (इति मेदिनी) ॥
मुनीन्द्रः मुनिषु इन्द्रः ॥
मुरजः मुराद्वेष्टनाज्जातः । ‘मुर संवेष्टने’ (तु० प० से०) तुदादिः । पञ्चम्याम् (३.२.९८) इति डः । मुरं वेष्टनं जातमस्येति वा ॥
मुरा मुरति । ‘मुर वेष्टने’ (तु० प० से०) । इगुपधत्वात् (३.१.१३५) कः । मुरा गन्धद्रव्ये दैत्यान्तरे पुमान्’ इति मेदिनी) ॥
मुष्कः म्विति । मुष्णाति रेतः । ‘मुष स्तेये’ (क्र्या० प० से०) । ‘सृवृभूशुषिमुषिभ्यः कक्’ (उ० ३.४१) –‘भूशुषिमुषिभ्यः कः कित्’ इति कः इति मुकुटोऽपाणिनीयः । ‘मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च’ (इति मेदिनी) ॥
मुष्ककः “तिलेति । तिलति । ‘तिल स्नेहने’ (तु० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोः’ (उ० २.३२) । तिल इव, इति वा । कन् (५.३.९६) । ‘तिलको दुमभेदेऽश्वभेदे च तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके’ ॥”
मुसलः मुस्यति अनेन वा । ‘मुस खण्डने’ (दि० प० से०) । ‘वृषादिभ्यश्च’ (उ० १.१०६) इति कलच् । ‘मुसलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि’ इति विश्वमेदिन्यौ ॥
मुसली ‘मुस खण्डने’ (दि० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । मुसलमस्त्यस्य मूर्धन्यमध्योऽपीत्येके । तत्र ‘मुष स्तेये’ (क्र्या० प० के०)
मुसली मुसेति । मुस्यति । ‘मुस खण्डने’ (दि० प० से०) । वृषादिः (उ० १.१०६) । ‘मुसलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि’ (इति मेदिनी) ॥
मुसली मुसेति । मुस्यति संशयम् । ‘मुस खण्डने’ (दि० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वान्ङीष् । जातौ ङीष् (४.१.६३) — इति मुकुटः । तन्न । स्त्रीविषयत्वात् । ‘मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि’ (इति मेदिनी) ॥ तालव्यमध्या (मुशली) इति स्वामी ॥
मुस्तकः/मुस्तकम् मुस्तयति । ‘मुस्त संघाते’चुरादिः । ण्वुल् (३.१.१३३) ॥
मुस्ता मुस्तयति । ‘मुस्त संघाते’चुरादिः । अच् (३.१.१३४) ॥
मुहुः
- मोहनम् । ‘मुह वैचित्ये’ (दि० प० अ०) । बाहुलकादुस् ॥
मुहुर्भाषा मुहुः पुनःपुनर्भाषणम् । घञ् (३.३.१८) ॥
मुहूर्तः ते तु क्षणाः (द्वादश) । ‘हुर्छा कौटिल्ये (भ्वा० प० से०) । बाहुलकात् ’अञ्जिघृसि-’ (उ० ३.८९) इति क्तो मुडागमश्च । ‘राल्लोपः(६.४.२१) इति छलोपः । ‘हलि च’ (८.२.७७) इति दीर्घः । ’लिङ् चौर्ध्वमौहूर्तिके (३.३.१६४) इति निर्देशाद्वा मुहूर्तः ।
मूत्रकृच्छ्रम् मूत्रे कृच्छ्रमत्र ॥
मूत्रम् म्विति । मूत्र्यते । ‘मूत्र प्रस्रवणे’ (चु० उ० से०) । घञ् (३.३.१९) ॥
मूर्च्छा स्विति । मूर्छनम् । ‘मृर्छा मोहादौ’ (वा० प० से०) । गुरोश्च हलः’ (३.३.१०२) इत्यः । ‘उपधायां च’ (८.२.७८) इति दीर्घः ॥
मूर्च्छालः म्विति । मूर्छास्यास्ति । सिध्मादिषु (ग० ५.२.९७) । ‘क्षुद्रजन्तूपतापाच्च’ इति पठितत्वाल्लच् । ‘प्राणिस्थादातः-’ (५.२.९५) इति न भवति । ‘प्राण्यङ्गादेव’ इति (वार्तिकरूप) व्याख्यानात् ॥
मूर्च्छितः मूर्छा जातास्य । तारकादित्वात् (५.२.३६) इतच् । ‘मूर्छितं सोच्छ्रये मूढे’ इति हैमः।
मूर्तः “मूर्छति स्म । ‘मूर्छा मोहसमुच्छ्राययोः’ (भ्वा० प० से०) । क्तः (३.४.७२) । ‘राल्लोपः’ (३.४.२१) । ‘न ध्याख्या–’ (८.२.५७) इति, न नत्वम् । ‘मूर्तं स्यात्त्रिषु मूर्छाले कठिने मूर्तिमत्यपि’ इति विश्वमेदिन्यौ ॥”
मूर्तिः मूर्छति । ‘मूर्छा मोहसमुच्छ्राययोः’ (भ्वा० प० से०) । क्तिच् (३.३.१७४) । ‘राल्लोपः’ (६.४.२१) । ‘मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि’ इति हैमः ॥
मूर्धन् मुह्यत्यस्मिन्नाहते । ‘मुह वैचित्त्ये’ (दि० प० से०) । ‘श्वन्नुक्षन्-’ (उ० १.१५९) इति साधुः ॥
मूर्धाभिषिक्तः म्विति । मूर्धन्यभिषिक्तः । राज्यदानसमये मूर्धन्यभिषिच्यते तत्प्रभवत्वात्सर्वोऽपि मूर्धाभिषिक्तः ॥
मूर्वा मूर्वेति । मूर्वति । ‘मुर्वी बन्धने’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
मूलकम् मूलेति । ‘मूल प्रतिष्ठायाम्’ (भ्वा० प० से०) । क्वुन् । (उ० २.३२) । यद्वा मूलयति । ‘मूल रोहणे’ चुरादिः । अच् (३.१.१३४) । ‘संज्ञायां कन्’ (५.३.७५) ॥
मूलधनम् मूलं च तद्धनं च ॥
मूलम् मूलमिति । मूलति । ‘मूल प्रतिष्ठायाम् (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘मूलं शिफाद्ययोः । भे निकुञ्जेऽन्तिके वा ना’ ॥
मूला मूलादिति । मूलादूर्ध्वं गता शिफा लता यत् । मुकुटस्तु ‘प्रसङ्गादवरोहस्यार्थान्तरमाह । तरुमूलात्प्रभृति वृक्षाग्रपर्यन्तं गता गुडूच्यादिलताप्यवरोहः’ इत्याह ॥
मूल्यम्
- मूलेनानाम्यम् । ‘नौवयोर्धर्म (४.४.९१) इति यत् । ‘मूल्यं स्याद्वैतने वस्त्रे’ इति विश्वः (मेदिनी) ॥
मूल्यम् म्विति । मूलेनानाम्यम् । ‘नौवयो-’ (४.४.९१) इति यत् ॥
मूषा
- मूषति । ‘मूष स्तेये’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘मुष स्तेये’ (क्र्या० प० से०) । इत्यस्मात् भिदाद्यङि (३.३.१०४) ह्रस्वादिरपि ह्रस्वा मूषा मूषी गौरादिः (४.१.४१) । मूषा । ‘मूषा त्वावर्तनी मूषी’ इति शब्दार्णवः । यत्तु–‘मुष स्तेये’ (क्र्या० प० मे०) । ‘गुरोश्च हलः’ (३.३.१०९) इत्यकारप्रत्ययः । टापि ‘अन्येषामपि-’ (६.१.३७) इति दीर्घत्वे मूषा मुषा च–इति मुकुटः । तन्न । गुरुत्वाभावात् । दीर्घस्य धातोः सत्वेन ‘अन्येषामपि-’ इत्यस्यानुपयोगाच्च ॥
मूषिकः मुष्णाति । ‘मुष स्तेये’ (क्र्या० प० से०) । ‘मुष्णातेर्दीर्घश्च (उ० २.४२) इति किकन् ॥ ‘मूष स्तेये’ (भ्वा० प० से०) दीर्घोपधोऽस्ति । मूषति । ण्वुल् (३.१.१३३) । ‘भद्रमूषिक आसन्दी कुन्दुन्दुरुरुन्दर । मूषको वज्रदशनः क्रमः काण्डो बिले शयः’ इति वाचस्पतिः ॥
मूषिकपर्णी मूषिकः पर्णमस्याः । मूषिककर्णाकारपत्त्रत्वात् । ‘पाककर्ण-’ (४.१.५४) इति ङीष् ॥
मृगः मृग इति । मृग्यते व्याधैः । ‘मृग अन्वेषणे’ (चु० आ० से०) । घञ् (३.३.१९) ।-‘घञर्थे कः’ (वा० ३.३. ५८) — इति मुकुटः। तन्न । परिगणनात् । घञापि रूप-सिद्धेः । अदन्तत्वाद्गुणाप्रसङ्गात् । ‘मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणायां याञ्चायां मृगी तु वनितान्तरे’ इति विश्वमेदिन्यौ ॥
मृगतृष्णा मृगेति । मृगाणां तृष्णास्त्यस्याम् । अर्शआद्यच् (५.२.१२७)
मृगदंशकः
- मृगान् दशति । ‘दंश दशने (भ्वा० प० अ०) । अण् (३.२.१) । कन् (ज्ञापि० ५.४.५) ॥
मृगधूर्तकः मृगेषु धूर्त इव ‘संज्ञायां कन्’ (५.३.७५) ॥
मृगनाभिः मृगेति । मृगस्य नाभिः ॥
मृगमदः मृगस्य मदः ॥
मृगया
- मृग्यन्तेऽत्र ‘मृग अन्वेषणे’ (चु० आ० से०) । -परिचर्यापरिसर्यामृगया-’ (वा० ३.३.१०१) इति साधुः ॥
मृगयुः
- मृगान् वधार्थे याति । ‘या प्रापणे’ (अ० प० अ०) । ‘मृगय्वादयश्च’ (उ० १.३७) इति कुः । ‘मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि’ (इति मेदिनी) ॥
मृगवधाजीवः
- मृगवधेनाजीवति । ‘इगुपध-’ (३.१.१३५) इति कः ॥
मृगव्यम्
- मृगा व्यय्यन्तेऽत्र । ‘व्यय गतो’ (भ्वा० उ० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
मृगशिरः मृगः शिरोऽस्य । रूपभेदात्क्लीबम् । ‘सौम्या मृगशिरः स्युर्मृगशिराः इति बोपालितः स्त्रीत्वमप्याह । मृगोऽपि मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः इति व्याडिः ।
मृगशीर्षम् आकृत्या मृगस्य शीर्षमिव शीर्षं शिरो यस्य ।
मृगाङ्कः मृगोऽङ्कोऽस्य ।
मृगादनः मृगमत्ति । ‘अद भक्षणे’ (अ० प० अ०) । ल्युः (३.१.१३३) ॥
मृगेन्द्रः मृगाणामिन्द्रः ॥
मृजा भिदाद्यङ् (३.३.१०४) ॥
मृडः मृडति । ‘मृड सुखने’ (तु० प० से०) । इगुपधत्वात्कः (३.१.१३५) । मृड्णाति वा । ‘मृड च’ चात्क्षोदे (क्र्या० प० से०) ।
मृडानी मृडस्य स्त्री । ‘इन्द्रवरुण- (४.१.४९) इति ङीषानुकौ ।
मृणालम् अथेति । मृण्यते । ‘मृण हिंसायाम्’ (तु० प० से०) । ‘तमिविशिबिडिमृणि-’ (उ० १.११८) इति कालन् । अपचयविवक्षायां गौरादित्वात् (४.१.४१) ङीषि ‘मृणाली इत्यपि । ‘मृणालं नलदे क्लीबं पुंनपुंसकयोर्विसे ।’ इति मेदिनी ॥
मृतः म्रियते स्म । मृङ् प्राणत्यागे’ (तु० आ० अ०) । ‘गत्यर्था–’ (३.४.७२) । ‘मृतं मृत्यौ याचिते च’ इति हैमः ॥
मृतम् मृतम्
मृतालकम् मृतमालयति । ‘अल भूषणादौ’ (भ्वा० प० से०) । ण्यन्तः । अण् (३.२.१) । ‘संज्ञायां कन्’ (५.३.७५) ॥ अजिता तुवरा स्तुत्या मृत्स्ना मृत्तालकम्’ इति कोशाद् द्वितकारं च । मृदि तालः प्रतिष्ठास्य ॥
मृत्तिका स्वार्थे ‘मृदस्तिकन्’ (५.४.३९) ।
मृत्युंजयः मृत्युं जयति । ‘संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । मुम् (६.३.६७) ।
मृत्युः मरणम् । ‘मृङ् प्राणत्यागे’ (तु० आ० अ०) । ‘भुजिमृङ्भ्यां युक्त्युकौ’ (उ० ३.२१) इति त्युक् । ‘मृत्युर्ना मरणे यमे’ इति मेदिनी ॥
मृत्सा प्रशस्तेति । मृच्छब्दात् ‘सस्ना प्रशंसायाम्’ (५.४.४०)
मृत्स्ना प्रशस्तेति । मृच्छब्दात् ‘सस्ना प्रशंसायाम्’ (५.४.४०) ।
मृत्स्ना मृत्स्नाऽस्त्यस्याः क्षेत्रत्वेन । अर्शआद्यच् (५.२.१२७)। ‘मृत्स्ना मृत्सातुवर्योः स्त्री’ (इति मेदिनी)॥
मृदङ्गः मृदङ्गा इति । मृद्यन्ते । ‘मृद क्षोदे (क्र्या० प० से०) । विडादिभ्यः कित्’ (उ० १.१२१) इत्यङ्गच् । मृत् अङ्गमस्येति वा । ‘मृदङ्गो घोषवाद्ययोः’ इति हैम
मृदुत्वक् मृदुस्त्वगस्य ॥
मृद्/मृत् मृदिति । मृद्यते । ‘मृद क्षोदे’ (क्र्या० प० से०) । सम्पदादिः (वा० ३.३.१९८) ॥
मृद्वीका मृद्वीति । मृद्नाति । मृद्यते वा । ‘मृद क्षोदे’ (क्या० प० से०) । ‘किङ्कीणीकादयश्च’ इति निपातः ॥
मृधम् मर्धनम् । ‘मृधु हिंसायाम्’ (भ्वा० उ० से०) । बाहुलकाद्भावे घञर्थे वा कः ॥
मृषा
- मृष्यते । ‘मृषु सहने’ (भ्वा० प० से०) । का प्रत्ययः ॥
मेकलकन्यका मेकलस्य ऋषेरद्रेर्वा कन्यका ॥ चत्वारि नर्मदायाः ॥
मेखला स्त्रीति । मखं गतिं लाति । कः (३.२.३) । पृषोदरादिः (६.३.१०९)–मीयते । ‘डुमिव् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘कलम्बादयश्च’ इति साधुः इति मुकुटश्चिन्त्यः । तत्सूत्रस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘मेखलाद्रिनितम्बे स्याद्रशनाखङ्गबन्धयोः’ इति हैमः ॥
मेखला मयिति । मां लक्ष्मीमीखति । मा ईखति वा । माशब्दो निषेधे । ‘ईख गतौ’ (भ्वा० प० से०) । बाहुलकात्कलच् । यद्वा मा ईं लक्ष्मीं खलति । ‘खल सञ्चलने सञ्चये च’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) अणि वृद्धिः स्यात् ।– मिखेः ‘कम्बलादयश्च’ इति कलप्रत्ययो गुणश्च निपात्यते - इति मुकुटश्चिन्त्यः । उज्ज्वलदतादिषूक्तसूत्रादर्शनात् । ‘मेखला खड्गबन्धे स्यात्काञ्ची शैलनितम्बयोः’ (इति मेदिनी) ॥
मेघः मेहति । मिह सेचने’ (भ्वा० प० से०) । अच् (३.१.१३४) । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘मेघो मुस्ताजलदयोः पुमान् ।।
मेघज्योतिः मेघेति । अन्योन्यस्य संघट्टेन मेघान्निःसृत्य वृक्षादौ ज्योतिः पतति स इरंमदः । इरया जलेन माद्यति दीप्यते । अबिन्धनत्वात् । उग्रंपश्येरंमद-’ (३.२.३७) इति साधुः । मेघेत्युपलक्षणम् । तेन बाडवोऽपि । अत एव ‘मेघाग्न्यादिरिरंमदः’ इति शब्दार्णवः ।
मेघनादानुलासी मेघनादेनानुलसति तच्छीलः। ‘लस श्लेषणक्रीडनयोः’ (भ्वा० प० से० )। ‘सुप्यजातौ -’ ( ३.२.७८) इति णिनि ।।
मेघनाम मेघनामानि नामान्यस्य ॥
मेघनिर्घोषः मेघस्य निर्घोषः।
मेघपुष्पम् मेघस्य पुष्पमिव । ‘मेघपुष्पं पिण्डाभ्राम्बुनादेये ना हरेर्हये’ ॥
मेघमाला मेघानां माला ।
मेघवाहनः मेघा वाहनमस्य । मेघान् वाहयतीति वा । ल्युः (३.१.१३४) ।
मेचकः मचति मिश्रीभवति वर्णान्तरेण । ‘मच मुचि कल्कने’ (भ्वा० आ० से०) । ‘कृञादिभ्यः संज्ञायां वुन्’ (उ० ५.३५) । ‘पचिमच्योरिच्चोपधायाः’ (उ० ५.३७) इतीत्वे लघूपधगुणः (७.३.८६) । ‘मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके’ इति हैमः ।
मेचकः मेचको वर्णोऽस्त्यस्य । अच् (५.२.१२७) । ‘बर्हिकण्ठसमं वर्णं मेचकं ब्रुवते बुधाः इति कात्यः । ‘मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके’ इति हैमः ॥
मेढ्रः मयिति । मेहति । ‘मिह सेचने’ (भ्वा० प० अ०) । ष्ट्रन् (उ० ४.१४९) ॥
मेढ्रम् मेहन्त्यनेन । ‘मिह सेचने’ (भ्वा० प० अ०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् ॥
मेदकः
- मेदेति । मेद्यति । ‘ञिमिदा स्नेहने’ (दि० प० से०) । ‘वुन् कृञादिभ्यः-’ (उ० ५.३५) ॥
मेदस्म् मयिति । मेद्यति । ‘ञिमिदा स्नेहने’ (दि० प० से०) । असुन् (उ० ४.१८९) । -घञ् (३.३.१९) इत्यन्ये ॥
मेदिनी अवति अव्यते वा । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘अर्तिसृधृ- (उ० २.१०२) इत्यनिः ।
मेधा “धारणाशक्तियुक्ता धीः । मेधृ संगमे (भ्वा० उ० से०) । मेधते संगच्छते सर्वमस्याम् । गुरोश्च-’ (३.३. १०३) इत्यकारः । (‘मेधा बुद्धौ, क्रतौ पुमान् ) ।”
मेधिः प्विति । मेध्यन्ते पशवोऽत्र ‘मेधृ संगमे’ (भ्वा० उ० से०) । इन् (उ० ४.११८) । स्वामी तु-‘मेथिः’ इति पठति । तत्र ‘मेथृ संगमे’ इति धातुर्बोध्यः ॥
मेरुः मेरुरित्यादि । मिनोत्युच्चत्वाज्ज्योतींषि । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) । ‘मिपीभ्यां रुः’ (उ० ४.१०१ ॥ ‘मापो रुरिच्च’ इति मुकुटः । तन्न । उज्ज्वलदत्तादावस्य सूत्रस्यानुपलब्धेः ॥
मेषः मिषति । ‘मिष स्पर्धायाम्’ (तु० प० से०) । अच् (३.१.१३४) ॥
मेषकम्बलः मेषेति । मेषलोमकृतः कम्बलः । शाकपार्थिवादिः (वा० २.१.७८) ॥
मेहः मेहति । ‘मिह सेचने’ (भ्वा० प० अ०) । अच् (३.१.१३४) । मेहनं वा । घञ् (३.३.१८) ॥
मेहनम् करणे ल्युट् (३.३.११७) । ‘मेहनं मूत्रशिश्नयोः’ (इति मेदिनी) ॥
मैत्रावरुणिः मित्रावरुणौ देवर्षी । ‘देवताद्वन्द्वे च’ (६.३.२५) इत्यानङ् । ऋषिसमुदायस्यानृषित्वादपत्ये ‘अत इञ् ( ४.१.९५) इति मुकुटः । तन्न । एतयोः ऋषित्वे मानाभावात् ॥ वारुणिरपि । मित्रावरुणयोः सूनुरौर्वशेयश्च वारुणिः’ इति व्याडिः । अणपि दृश्यते । और्वशेयागस्त्यमैत्रावरुणास्त्वाग्निमारुताः’ इति नामश्निधानात् ।
मैथुनम् मिथुनस्य कर्म । ‘प्राणभृज्जाति-’ (५.१.१२९) इत्यण् । युवादित्वात् (५.१.१३०) वाण्॥
मैरेयः
- मायिति । मिरायां देशविशेषे ओषधीविशेषे वा भवम् । ‘नद्यादिभ्यो ढक्’ (४.२.९७) ॥
मोक्षः ‘मोक्ष अवसाने (चु० उ० से०) । अवसानं क्षेपः । चुरादिः । ‘एरच्’ (३.३. ५६) । घञ् (३.३.१८) वा । ‘मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ’ इति हैमः ।
मोक्षः मोक्षयति रोगम् । मुचेः (तु० प० अ०) । सन्नन्तादकर्मकाण्णिजन्तादच् (३.१.१३४) । ‘मोक्षस्तु मुक्तिपाटलिमोचने’ । यत्तु -‘मोक्ष अवसाने चुरादिः - इति मुकुटः । तन्निर्मूलम् ॥
मोचकः मोचयति । ‘मुच्लृ मोक्षणे’ (तु० प० अ०) । णिच् (३.१.२६) । अच् (३.१.१३४) । ‘मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः’ । ततः स्वार्थे कन् (५.३.७५) ॥
मोचा मुञ्चति । ‘मुच्लृ मोक्षणे’ (तु० प० अ०) । पचाद्यच् (३.१.१३४) । (‘मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः’ इति मेदिनी) ॥
मोचा मुञ्चति रसम् । ‘मुच्लृ मोक्षणे’ (तु० उ० अ०) । पचाद्यच् (३.१.१३४) । ‘मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ॥
मोरटम् मोरेति । मुरति । ‘मुर वेष्टने’ (तु० प० से०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) ॥
मोरटा “मुरति । ‘मुर संवेष्टने’ । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । (‘मोरटं तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः ।) सप्तरात्रात्परक्षीरे, मूर्विकायां तु मोरटा’ (इति मेदिनी) ॥”
मोषक
- मुष्णाति । ‘मुष स्तेये’ (क्र्या० प० से०) । ण्वुल् (३.१.१३३) ॥
मोहः मोहनम् । ‘मुह वैचित्त्ये’ (दि० प० से०) । घञ् (३.३.१८) ‘अथ मोहो नृलिङ्गः स्यादविद्यायां च मूर्च्छने’ (इति मेदिनी) ॥
मौक्तिकम् अथेति । मुक्तैव । ‘विनयादिभ्यष्ठक्’ (५.४.३४) ॥
मौद्गीनम् मौद्गीति । मुद्गानाम् च भवनं क्षेत्रम् । ‘धान्यानां भवने’ (५.२.१) इति खञ् । आदिना गौधूमीनम् ॥
मौनम् “अथेति । मुनेः कर्म, भावो वा । ‘इगन्ताच्च-’ (५.१.१३१) इत्यण्॥”
मौरजिकाः
- मुरजः शिल्पमेषाम् । ठक् (४.४.५५) ॥
मौर्वी माविति । मूर्वाया विकारः । ‘अवयवे च प्राण्योषधि-’ (४.३.१३५) इत्यण् ॥
मौहूर्तः मौहूर्तः
मौहूर्तिकः मुहूर्तम् (अधिकृत्य कृतं ग्रन्थम्) अधीते । प्राग्वदण् ठकौ ॥
म्लिष्टम् अथेति । म्लेच्छयते स्म । ‘म्लेच्छ अव्यक्ते शब्दे’ (भ्वा० प० से०) । क्षुब्धस्वान्त-’ (७.२.१८) इति निपातितम् । ‘म्लिष्टं त्रिष्वव्यक्तवाचि म्लाने ॥
म्लेच्छदेशः म्लेच्छान देशः ।‘चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम् । दो शिष्टाचाररहितखशादिदेशस्य ।
म्लेच्छमुखम् “म्लेच्छदेशे मुखमुत्पत्तिरस्य । म्लेच्छस्य मुखमिव, इति वा ॥”
यकृत्म् “यमनम् । सम्पदादिः (वा० ३.३.१०८) । ‘गमादीनाम्-’ (वा० ६.४.४०) इति मलोपः । आगमानित्यत्वान्न तुक् । यं संयमं करोति क्विप् (३.२.७६) । तुक् (६.१.७१) ॥ ‘करण्डा तु महास्नायुः, कालेयं कालखण्डके’ । इति रभसः ।”
यक्षः “यक्ष्यते पूज्यते । ‘यक्ष पूजायाम्’ (चु० आ० से०) । ‘अकर्तरि च कारके संज्ञायाम्’ (३.३.१९) इति कर्मणि घञ् । ‘यक्षो गुह्यकमात्रे च गुह्यकाधीश्वरेऽपि च’ । इः कामः, तस्येवाक्षिणी अस्येति वा, इरक्षिषु यस्येति वा । ‘बहुव्रीहौ सक्थ्यक्ष्णोः-’ (५.४.४३) इति षच् ॥”
यक्षः ईं लक्ष्मीमक्ष्णोति व्याप्नोति । ‘अक्षू व्याप्तौ (भ्वा प० से०) । ‘कर्मण्यण्’ (३.२.१) । यक्ष्यते ‘यक्ष पूजायाम्’ (चु० अ० से०) । ‘अकर्तरि (३.३.१९) इति घञ् । ‘पंसि-’(३.३.११८) इति घो वा । यजति शिवम् । इज्यते लोकेन वा । बाहुलकात्सो वा ।।
यक्षकर्दमः केति । कर्पूरादिभिः समभागैः । यक्षप्रियः कर्दमः ॥ ‘कर्पूरागुरुकस्तूरीकक्कोलघुसृणानि च । एकीकृतमिदं सर्वं यक्षकर्दम इष्यते’ इति व्याडिः । ‘कुङ्कुमागरुकस्तूरीकर्पूरं चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः’ इति ‘धन्वन्तरिः’ ।
यक्षधूपः यक्षेति । यक्षान् धूपयति । ‘धूप सन्तापे’ (भ्वा० प० से०) । ‘आयादय आर्धधातुके वा’ (३.१.३१) । ‘कर्मण्यण्’ (३.२.१) ॥
यक्षराजः यक्षेषु राजते । ‘सत्सू-’ (३.२.६१) इति क्विप् ॥
यक्ष्मन् “यक्षयते, यक्ष्यते वा । ‘यक्ष पूजायाम्’ चुरादिः । मनिन् (उ० ४.१४५) ॥”
यजमानः ‘पूङ्यजोः शानन्’ (३.२. १२८) । शानच् (३.२.१२४) वा ॥
यजुः इज्यतेऽनेन । ‘अर्तिपॄवपि (उ० २.११७) इत्युस् ।
यज्ञः येति । इज्यते । अनेन वा । अत्र वा । ‘यज देवपूजादौ (भ्वा० उ० अ०) । ‘यजयाच-’ (३.३.९०) इति नञ् । ‘यज्ञः स्यादात्मनि मखे नारायणहुताशयोः’ इति हैमः ॥
यज्ञसूत्रम् “उपेति । प्रोद्धृते बहिष्कृते सति वामस्कन्धार्पितम् । यज्ञस्य सूत्रम्, यज्ञार्थं धृतं सूत्रं वा । शाकपार्थिवादिः (वा० २.१.७८) ॥”
यज्ञाङ्गः यज्ञमङ्गति । अगिर्गत्यर्थः (भ्वा० प० से०) । कर्मण्यण् (३.२.१) ।
यज्ञियम् तदिति । तस्य यज्ञस्य क्रियामर्हति । अर्हः’ (३.२.१२) इत्यच् । यज्ञमर्हति । ‘यज्ञत्विग्भ्याम्-’ (५.१.७१) इत्यत्र तत्कर्मार्हति’ इत्युपसंख्यानाद् घः ॥ एकं क्रतु क्रियासम्पादनयोग्यद्विजद्रव्यादेः ‘त्रिषु’ इति यज्ञियान्वितम् ॥
यज्वा येति । यजते स्म । ‘सुयजोर्वनिप्’ (३.२.१०३) ॥
यतः
- यस्मात् तस्मात् यत्तद्भ्याम् ‘पञ्चम्यास्तसिल्’ (५.३.७) । त्यदाद्यत्वम् (७.२.१०२) ॥
यतयः यतन्ते । ‘यती प्रयत्ने’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । -‘यमेस्तिक्’ इति त्वपाणिनीयम् । ‘यति स्त्री पाठविच्छेदे निकारयतिनोः पुमान्’ (इति मेदिनी) । अत्र पक्षे यमः क्तिच् (३.३.१७४) अपि सुवचः ॥
यतिनः यमनम् । ‘यम उपरमे’ (भ्वा० प० अ०) । भावे क्तः (३.३.११४) । मलोपः (६.४.३७) यतमुपर- मणमस्ति नित्यं वा येषाम् । ‘अतः’ (५.२.११५) इतीनिः ॥
यत्
- यच्छति । ‘यम उपरमे’ (भ्वा० प० अ०) । क्विप् (३.२.१७८) । गमादीनां क्वौ’ (वा० ६.४.४०) इत्यनुनासिकलोपः । तुक् (६.१.७५) ॥
यथा
- येन तेन प्रकारेण । ‘प्रकारवचने थाल्’ (५.३.२३) विभाक्तित्वात् (५.३.१) त्यदाद्यत्वम् (७.२.१०२) ॥
यथातथम् यथातथम्
यथायथम् “- यथास्वम्’ इति वीप्सायामव्ययीभावः (२.१.६) । यो य आत्मा, यद्यच्चात्मीयम्, तद्यथास्वम् । तस्मिन् यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते ‘यथास्वे यथायथम्’ (८.१.१४) इति सूत्रेण ॥”
यथार्थम्
- अर्थमनतिक्रम्य । पदार्थानतिवृत्तावव्ययीभावः (२.१.६) ॥ (सत्यमनतिक्रम्य) । ‘तथा’ शब्दः ‘तथ शब्दो वा सत्यार्थः ॥
यथार्हवर्णः येति । अर्हति । ‘अर्ह पूजायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) । यो योऽर्हः । यथार्हं वर्णो रूपमस्य । ‘वर्णः स्याद्भेदरूपयोः इति धरणिः ॥
यथास्वम् “- यथास्वम्’ इति वीप्सायामव्ययीभावः (२.१.६) । यो य आत्मा, यद्यच्चात्मीयम्, तद्यथास्वम् । तस्मिन् यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते ‘यथास्वे यथायथम्’ (८.१.१४) इति सूत्रेण ॥”
यथेप्सितम् आप्तुमिष्टम् । ‘आप्लृ व्याप्तौ’ (स्वा० प० अ०) । सन् (३.१.७) । क्तः (३.३.११४) । ‘आप्ज्ञप्यृधामीत्’ (७.४.५५) । ‘अव्ययं विभक्ति-’ (२.१.६) इत्यव्ययीभावः ॥
यदि
- यतनम् । ‘यती प्रयत्ने’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । पृषोदरादित्वात् (६.३.१०९) तस्य दः । यद्वा ‘यद्’ शब्दाण्णिजन्तात् ‘अच इः’ (उ० ४.१३९) । ‘प्रत्येकाच्’ (६.४. १६३) इति टिलोपो न ॥
यन्ता यच्छति । तृच् (३.१.१३३) ॥
यमः यमयति । अच् (३.१.१३४) ‘यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च’ इति विश्वः ।
यमः शेति । यच्छति । अनेन वा । यमनं वा । पचाद्यच् (३.१.१३४) । ‘यमः समुपनिविषु च’ (३.३.६३) इत्यप् वा । ‘यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ । शरीरसाधना-पेक्षनित्यकर्माणि संयमे’ (इति मेदिनी) ॥शरीरमात्रेण साध्यं यावज्जीवं कार्यं सत्यास्तेयाहिंसादि यत् तस्यैकम् ‘नैत्यिककर्मणः’॥
यमराट् यमेन संयमेन राजते । क्विप् (३.२.६१) जान्तः ।।
यमुना यच्छति । ‘यम उपरमे’ (भ्वा० प० अ०) । ‘अर्जियमिशीङ्भ्यश्च (उ० ३.६१) इत्युनन् ॥
यमुनाभ्राता यमुनाया भ्राता ॥
ययुः येति । याति । ‘या प्रापणे’ (अ० प० अ०) । ‘यो द्वे च’ (उ० १.२१) इति कुः । ‘ययुः पुमानश्वमेधतुरगे च तुरङ्गमे’ (इति मेदिनी) ॥
यवः “यौति । यूयते वा । अच् (३.१.१३४), अप् (३.३.५७) वा । ‘यवो धान्येऽपृथक्कृतौ इति हैमः ॥”
यवक्यः यवकानाम् ॥ च भवनं क्षेत्रम् । ‘यवयवकषष्टिकाद्यत्’ (५.२.३) यवकः शूकशून्यो यवः ।
यवक्षारः येति । यवानां क्षारः ॥
यवफलः यव इव फलान्यस्य । ‘यवफलो मांसिकायां कुटजत्वचिसारयोः’ इति हैमः ॥
यवसम् “यौति, यूयते, वा । ‘यु मिश्रणेऽमिश्रणे च’ (अ० प० से०) । ‘वहियुभ्यां णित्’ (उ० ३.११९) इत्यसच् । संज्ञापूर्वकत्वान्न वृद्धिः ॥”
यवागूः “येति । यौति, यूयते वा । ‘यु मिश्रणे’ (अ० प० से०) । ‘सृयुवचिभ्योऽन्यूजागूजक्नुचः’ (उ० ३.८१) इत्यागूच् ॥”
यवाग्रजः यवाग्राज्जायते स्म । ‘पञ्चम्याम्-’ (३.२.९८) इति डः ॥
यवानिका दुष्टो यवः । ‘इन्द्रवरुण-’ (४.१.४९) इति ङीषानुकौ । इवार्थे (५.३.९६) स्वार्थे (५.३.७५) वा कन् ॥ (‘यमानिका’ इति) समकारपाठे यमेनानिति । ‘अन प्राणने’ (अ० प० से०) । ण्वुल् (३.१.१३३) ॥
यवासः यौति यु मिश्रणामिश्रणयोः’ (अ० प० से०) । ‘ऋतन्यजि-’ (उ० ४.२) इत्यासः ॥
यवीयः पक्षे ‘स्थूलदूर-’ (६.४.१५६) इति यणादिलोपगुणौ ॥
यव्यः येति । यवानाम् ॥ च भवनं क्षेत्रम् । ‘यवयवकषष्टिकाद्यत्’ (५.२.३) यवकः शूकशून्यो यवः ।
यशःपटहः स्यादिति । यशोऽर्थः पटहः । शाकपार्थिवादिः (२.१.६०) ।
यशः अश्नुते व्याप्नोति । ‘अशू व्याप्तौ (स्वा० आ० से०) । ‘अशेर्देवने युट् च’ (उ० ४.१९१) इत्यसुन् ॥
यष्टीमधुकम् यष्टी मध्विवास्याः । कप् (५.४.१५४)॥
यष्ट्रुः यजते । तृच् (३.१.१३३) ॥
यागः इज्यते । अनेन वा । अत्र वा । यजेर्घञ् (३.३.१९) ॥
याचना याचेः चुरादि (स्वार्थिक) ण्यन्तात् ‘ण्यास-’ (३.३.१०७) इति युच् ॥
याचितकम् येति । याचितेन याञ्चया निर्वृत्तम् । ‘अपमित्ययाचिताभ्यां कक्कनौ’ (४.४.२१) ॥
याजकः यजन्ति । ण्वुल् (३.१.१३३) । ‘याजकस्तु गजे राज्ञो याज्ञिकेऽपि’ इति मेदिनी ॥
याञ्चा येति । याचनम् । ‘टु याचृ याञ्चायाम्’ (भ्वा० उ० से०) । ‘यजयाच-’ (३.३.९०) इति नङ् ॥
यातना “स्त्रियौ । द्वे, निर्मूल्यकर्मकरणे इति मुकुटः, नरके हठात्प्रक्षेपस्येति स्वामी, ‘भद्राख्यकरणस्य’ इत्यन्ये । कारणेति । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) । ‘यत निकारोपस्कारयोः’ (चु० उ० से०) । आभ्यां णिच् (३.१.२६) । ण्यासश्रन्थ- (३.३.१०७) इति युच् । कारणं करणे हेतुवधयोश्च नपुंसकम् । स्त्री यातनायां च’ ॥”
याता भेति । यतते । ‘यती प्रयत्ने’ (भ्वा० आ० से०) । ‘यतेर्वृद्धिश्च’ (उ० ३.९७) इत्यृन् ॥
यातुः “याति । ‘कमिमनिजनिगाभायाहिभ्यश्च’ (उ० १.७३) इति तुः। अर्धर्चादिः (ग० २, ४. ३१) ।”
यातुधानः यातूनि रक्षांसि दधाति पुष्णाति स्वजातिपोषकत्वात् । धाञो ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् वा । यातूनि यातनाः धीयन्तेऽस्मिन्निति वा । ल्युट् (३.३.११७) । अन्तस्थादिः ।। जातु कदाचित् धानं संनिधानमस्येति (जातुधानः) चवर्गादिरपि ॥
यात्रा येति । यानम् । ‘या प्रापणे’ (अ० प० अ०) । ‘हुयामाश्रभसिभ्यस्रन्’ (उ० ४.१६८) । ‘यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम्’ इति मेदिनी ॥
यादःपतिः यादसां जलजन्तूनां पतिः ॥
यादसांपतिः यादसां पतिः । ‘तत्पुरुषे कृति-’ (६.३१४) इत्यलुक् । (‘यादसांपतिरम्भोधौ पश्चिमाशापतावपि’) लुकि तु ‘यादः पतिः’ अपि ।
यादांसि अथेति । यान्ति वेगेन । ‘या प्रापणे’ (अ० प० अ०) । असुन् (उ० ४.१८९) । बाहुलकाद्दुक् । यद्वा याति । क्विप् (३.२.१७८) । ‘अद भक्षणे’ (अ० प० अ०) । असुन् (उ० ४.१८९) । यां दस्यति वा । ‘दसु उपक्षये’ (दि० प० से०) । क्विप् (३.२.१७८) । साहचर्यस्य सर्वत्रानियामकत्वात् ‘सान्त-’ (६.४.१०) इति दीर्घः । (१)
यानमुखम् यानस्य मुखं पुरोभागः ॥
यानम् यात्यत्र । ल्युट् (३.३.११७) ॥
यानम् यान्त्यनेन । करणे ल्युट् (३.३.११७) । ‘यानं स्याद्वाहने गतौ’ (इति मेदिनी) ॥
याप्ययानम् याप्यैरधमैर्वाह्यं यानम् ॥
यामः याति । ‘अर्तिस्तुसु-’(उ० १.१४०) इति मन् । यत्तु-यातेर्मग्’ इति मग्-इति मुकुटेनोक्तम् । तन्न । उक्तसूत्रस्योत्प्रेक्षितत्वेन निर्मूलत्वात् । ‘यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः’ ।
यामिनी भीतिहेतुत्वान्निन्दिता यामा यस्याः । निन्दायामिनिः (५.२.११५) ।
यामुनम् यमुनायां भवम् । अण् (४.३.५३) । यद्वा यमुनाया इदम् । तद्वच्छ्यामत्वात् ॥
यायजूकः पुनः पुनः भृशं वा जयते । -क्रियासमभिहारे-’ (३.१.२२) इति यङ् । ‘यजजपदशां यङः’ (३.२.१६६) इत्यूकः ।
यावः यौति । यूयते वा । अच् (३.१.१३४) ‘ऋदोरप्’ (३.३.५७) वा । यव एव । प्रज्ञाद्यण् (५.४.३८) । ‘यावोऽलक्ते पाकभेदे’ इति हैमः ॥
यावकः स्येति । यौति । ‘यु मिश्रणे’ (अ० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ततः प्रज्ञाद्यण् (५.४.३८) ॥
यावनः यवनदेशे भवः । ‘तत्र भवः’ (४.३.५२) इत्यण् । याव्यते वा । यौतेर्ण्यन्ताल्ल्युट् (३.३.११३) ॥
याष्टीकः येति । यष्टिः प्रहरणमस्य । (ईकक् ‘४.४.५९’) ॥
यासः येति । यसनम् । ‘यसु प्रयत्ने’ (दि० प० से०) । भावे घञ् (३.३.१८) । यासोऽस्त्यस्य । अर्शआद्यच् (५.२.१२७) । याति । बाहुलकादसच् वा ॥
युक्तः य्विति । युज्यते स्म । ‘युजिर् योगे’ (रु० उ० अ०) । क्तः (३.२.१०२) । ‘युक्तो युक्ते पृथग्भूते क्लीबं हस्तचतुष्टये’ (इति मेदिनी) ॥
युक्तरसा युक्तो रसो यस्याः ॥
युगकीलकः युगस्य कीलः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
युगन्धरः युगं वोढृबन्धनकाष्ठं धारयति । ‘संज्ञायां भृतॄवृजि -’ (३.२.४६) इति खच् । अरुर्द्विष-’ (६.३.६७) इति मुम् ॥
युगपत्
- युवन्त्यस्मिन्काले । ‘यु मिश्रणादौ’ (अ० प० से०) । गपतक् प्रत्ययः । युगं पयतेऽस्मिन् । ‘पय गतौ’ (भ्वा० अ० से०) । डत् प्रत्ययः ॥
युगपत्रकः युगं युग्मं पत्रमस्य ॥
युगपार्श्वगः युगस्य स्कन्धकाष्ठस्य पार्श्वं गच्छति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ॥
युगम् युज्यते । घञ् (३.३.१९) । कुत्वम् (७.३.६२) । संज्ञापूर्वकत्वात्- ‘रथयुगप्रासङ्गम्’ (४.४.७६) इति लिङ्गाद्वा गुणाभावः । ‘युगो रथहलाद्यङ्गे न द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च’ (इति मेदिनी) ॥
युगलम् वृषादित्वात् (उ० १.१०६) कलच् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । युगं लाति वा । युगमस्त्यस्य वा । सिध्मादित्वात् (५.२.९७) लच् ॥
युग्मम् युग्ममिति । युज्यते । ‘युजिर् योगे’ (रु० उ० अ०) । ‘युजिरुचितिजां कुश्च’ (उ० १.१४६) इति मक् । ‘युग्मं यमलयामले’ इति रभसः ॥
युग्यः य्विति । युगम् ॥ वहति । ‘तद्वहति रथयुगप्रासङ्गम्’ (४.४.७६) इति यत् ।
युग्यम् युज्यते अनेन वा । ‘युजिर् योगे’ (रु० उ० अ०) । ‘युग्यं च पत्त्र’ (३.१.१२१) इति क्यबन्तो निपातः ॥
युथपः यूथं पाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
युद्धम् युद्धेति । योधनम् । ‘युध सम्प्रहारे’ (दि० आ० अ०) । (क्तः ३.३.११४) । भावे क्त ल्युटौ (३.३.११५) ॥
युध् योधनम् । ‘युध सम्प्रहारे’ (दि० आ० अ०) । सम्पदादिः (वा० ३.३.१०८) ॥ एषु अनेकार्थत्वात् सर्वे धातवो युद्धार्थाः । सर्वत्राधिकरणे प्रत्ययः -इति मुकुटः ।
युवतिः “यौति । ‘यु मिश्रणे’ (अ० प० अ०) । ‘कनिन्युवृषि-’ (उ० १.१५६) इति कनिन् । ‘यूनस्तिः’ (४.१.७७) । यत्तु-‘यौतेः कतिः’ इति कतिप्रत्ययान्तात् पाक्षिके ङीषि (ग० ४.१.४५) । ‘युवती’- इति मुकुटो व्याचख्यौ । तन्न । यौतेः शत्रन्तात् ङीपि (४.१.१५), युवतिशब्दाद्वा ‘सर्वतोऽक्ति- न्नर्थात्’ (ग० ४.१.४५) इति ङीषा गतार्थत्वात् । उज्ज्वलदत्तादिषूक्तसूत्राभावाच्च । स्त्रीसामान्येऽप्ययम् । ‘प्रमदा चेति विज्ञेया प्रमदा युवतिस्तु तथा स्मृता’ इति भागुरिः ॥”
युवन् यौति । ‘यु मिश्रणे’ (अ० प० से०) । ‘कनिन्युवृषि-’ (उ० १.१५६) इति कनिन् ॥
युवराजः युवराज इति । युवा चासौ राजा च । ‘राजा- (५.४.९१) इति टच् ॥ कुमारयति । कुमार क्रीडायाम्’ (चु० उ० से०) । अच् (३.१.१३४) ‘कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे । कुमारं जात्यकनके कुमारीत्यपराजिता । नदीभिद्रामतरुणी कन्यका नवमाल्युमा ॥ जम्बुद्वीपविभागश्च’ इति हैमः ॥
यूथनाथः य्विति । यूथस्य हस्तिवृन्दस्य नाथः ॥
यूथम् “यूथमिति । यौति । यूयते, वा । ‘यु मिश्रणे’ (अ० प० से०) । ‘तिथपृष्ठगूथप्रोथाः’ (उ० २.१२) इति साधुः । ‘यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदे च योषिति’ (इति मेदिनी) ॥”
यूथिका यूथमस्त्यस्याः । ‘अत इनिठनौ’ (५.२.११५) । ‘यूथिकाम्रातके पुष्पविशेषेऽपि च योषिति’ इति मेदिनी ॥
यूपः युवन्त्यनेन । ‘यु मिश्रणामिश्रणयोः’ (अ० प० से०) । ‘कुयुभ्यां च’ (उ० ३.२७) इति पो दीर्घश्च । मुकुटस्तु - ‘पूष वृद्धौ’ (भ्वा० प० से०) । इगुपधत्वात् (३.१.१३५) कः । पवते वा । ‘यूप्वोर्लोपश्च’ इति पवतेरूषन् धात्वन्तलोपः - इति वदन् ‘पूषः’ इति पाठे मन्यते । किन्तु ‘यूप्वोर्लोपश्च’ इति सूत्रमुज्ज्वलदत्तादौ न दृश्यते ॥
यूपकटकः यूपस्याग्रे कृतकटकाकारः ॥
यूपाग्रम् य्विति । यूपस्याग्रम् ॥
योक्त्रम् युज्यतेऽनेन । ‘युजिर् योगे’ (रु० उ० अ०) । ष्ट्रन् (३.२.१८२) ॥
योगेष्टः योगे धातुसम्बन्धे इष्टम् । ‘सप्तमी-’ (२.१.४०) इति समासः ॥
योग्यम् “योग्यमिति । युज्यते । ‘युजिर् योगे’ (रु० उ० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) । यद्वा योगाय प्रभवति । ‘योगाद्याच्च’ (५.१.१०२) । ‘योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् । क्लीबमृद्ध्योषधौ, पुष्पे नास्त्र्यभ्यासार्कयोषितोः (इति मेदिनी) ॥”
योजनवल्ली योजनगामिनी वल्ली ॥
योत्रम् यूयतेऽनेन । ‘यु मिश्रणे’ (अ० प० से०) । ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रन् ॥
योद्धारः तुच् (३.१.१३३) ॥
योधसंरावः योधानां संवरणम् । ‘रु शब्दे’ (अ० प० अ०) । ‘उपसर्गे रुवः’ (३.३.२२) इति घञ् ॥
योधाः युध्यते । ‘युध सम्प्रहारे’ (दि० आ० अ०) । अच् (३.१.१३४) ॥
योनिः यौति । ‘यु मिश्रणे’ (अ० प० से०) | ‘वहिश्रि-’ (उ० ४.५१) इति निः । ‘द्वयोः’ इति ‘योनिः स्त्रीपुंसयोश्च स्यादाकारे स्मरमन्दिरे इति मेदिनी । ‘योनिः कारणे भगतोययोः’ इति हैमः ॥
योषा “योषति, योषयति वा । अच् (३.१.१३४) । युष्यते । योष्यते वा । घञ् (३.३.१९) । (‘जोषा’ इति) चवर्गादिपाठे जुषते, जुष्यते वा । ‘जुषी प्रतिसेवनयोः’ (तु० अ० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । –जुषति— इति मुकुटस्य प्रमादः ॥”
योषितः योषति । युष्यते वा । ‘युष’ सौत्रः सेवायाम् । ‘हृसृरुहियुषिभ्य इतिः’ (उ० १.९७) । योष्यते स्म । णिजन्तात्कर्मणि क्तः (३.२.१०२) । ‘स्त्री वधूयोंषिता रामा’ इति त्रिकाण्डशेषः ॥
यौतवम् यौतवम्
यौवतम् युवतीनां समूहः । भिक्षादिभ्योऽण् (४.२.३८) । ‘भस्याढे तद्धिते’ (वा० ६.३.३५) इति पुंवद्भावः । यौतेः शत्रन्तात् ‘उगितश्च’ (४.१.६) इति ङ्यन्तो युवतीशब्दोऽयम् । ‘यूनस्तिः’ (४.१.७७) इति त्यन्तस्य तु अणि (४.२.३७) विवक्षिते पुंवद्भावे (वा० ६.३.३५) । ‘अन्’ (६.४.१६७) इति प्रकृतिभावे च ‘यौवनम्’ इत्येव रूपम् । न च-भिक्षादिषु (४.२.३८) ‘युवति’ शब्दपाठसामर्थ्यान्न पुंवत्त्वम् । अन्यथा पुंवद्भावेन तेर्निवृत्तावनुदात्तादित्वाभावात् ‘अञः’ (४.२.४४) । अप्राप्तौ ‘तस्य समूहः’ (४.२.३७) इत्यणि सिद्धे भिक्षादिपाठवैयर्थ्यात् इति वाच्यम् । भिक्षादिषु ‘युवति’ शब्द पाठस्य (‘भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वा- त्प्रत्ययविधौ’ इत्यादिग्रन्थेन) भाष्ये (४.२.३८) प्रत्याख्यानात् । एतेन–युवत्या ‘अपुंवत्’ इति गणपाठात् इति स्वामी-युवतीशब्दस्य भिक्षादिषु पाठाङ्गीकारकृतो मतभेदः इति मुकुटश्च प्रयुक्तः ॥
यौवनम् यूनो भावः । ‘हायनान्तयुवादिभ्योऽण्’ (५.१.१३०) । ‘अन्’ (६.४.१६७) इति प्रकृतिभावः ॥
रंहः रंह इत्यादि । रमतेऽनेन । ‘रमेर्हुक्च’ (उ० ४.२१४) इत्यसुन् हुगागमश्च । रंहत्यनेन वा । ‘रहि गतो’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) ।
रक्तः रजति स्म । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । यद्वा रच्यते स्म । ‘रच प्रतियत्ने’ (चु० उ० से०) । अनित्यण्यताश्चुरादयः’ इति णिजभावे क्तः (३.२.१०२) । अतो लोपः (६.४.४८) । ‘चोः कुः (८.२.३०) । ‘रक्तं नील्यादिरञ्जिते । कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे’ इति हैमः ।
रक्तकः रक्तेति । रक्तपुष्पत्वाद्रक्तः । स्वार्थे कन् (५.३.७५) । (‘रक्तकोऽम्लानबन्धूक-रक्तवस्त्रानुरागिषु’ इति मेदिनी) ॥
रक्तचन्दनम् रक्तं च तच्चन्दनं च ॥
रक्तचन्दनम् रक्तं चन्दनमिव । रक्तसारत्वात् ॥
रक्तपा “रक्तपेति । रक्तं पिबति । ‘आतोऽनुप- (३.२.३) इति कः । रक्तपा स्याज्जलौकायां डाकिन्यां, ना तु राक्षसे ।”
रक्तफला रक्तं फलमस्याः । अजादिटाप् (४.१.४) ॥
रक्तम् रज्यते स्म । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘रक्तं नील्यादिरञ्जिते । कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे’ (इति हैमः) ॥
रक्तम् रज्यते स्म । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । ‘रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु । क्लीबं तु कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि’ (इति मेदिनी) ॥
रक्तसन्ध्यकम् रक्तं सन्ध्येव । इवार्थे कन् (५.३.९६) । ‘केऽणः’ (७.४.१३) । रक्तान् संधीन् अकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) इति वा । (२) द्वे रक्तकह्लारस्य द्वे रक्तवर्णात्रिकालविकासिपुष्पस्य वा ।
रक्तसरोरुहम् सितं शुक्लं च तदम्भोजं च ॥
रक्ताङ्गः रक्तमङ्गमस्य । ‘रक्ताङ्गस्तु महीसुते । कम्पिल्ले स्त्री तु जीवन्त्यां क्लीबं विद्रुमधीरयोः’ (इति मेदिनी) ॥
रक्तोत्पलम् अथेति । रक्तं च तत्सरोरुहं च ॥
रक्षः रक्ष्यन्त्येभ्यो रक्षांसि । ‘रक्ष पालने’ (भ्वा० प० से०) । ‘सर्वधातुभ्योऽसुन्’ (उ० ४.१८९) ॥
रक्षः रक्षन्त्यस्मात् । असुन् (उ० ४.१८९) ‘भी मादयोऽपादाने’ (३.४.७४) ।
रक्षिवर्गः रेति । अवश्यं रक्षन्ति । ‘रक्ष पालने’ (भ्वा० प० से०) । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । रक्षिणां वर्गः ॥
रङ्कुः रमते रज्यते वा । मृगय्वादित्वात् (उ० १.३७) साधुः । मुकुटस्तु–रङ्कति गच्छति–इति व्याख्यत् । तन्न । रङ्किधातोर्धातुपाठेऽदर्शनात् ॥
रङ्गम् रङ्गति । ‘रगि गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । (‘रङ्गो ना रागे नृत्यरणक्षितौ । अस्त्री त्रपुणि’ इति मेदिनी) ॥
रङ्गाजीवः “- रेति । रङ्गेणाजीवति । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । रङ्ग आजीवोऽस्य, इति वा ॥”
रचना रेति । ‘रच प्रतियत्ने’ अदन्तश्चुरादिः । ‘ण्यासश्रन्थो युच्’ (३.३.१०७) ॥
रजः रञ्जयति । ‘भूरञ्जिभ्यां कित्’ (उ० ४.२१७) इत्यसुन् । (‘रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च’) ।
रजः स्यादिति । रज्यतेऽनेन । ‘भूरञ्जिभ्यां कित्’ (उ० ४.२१६) इत्यसुन् । ‘रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे च दृश्यते’ (इति मेदिनी) ॥
रजः रजति । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘भूरञ्जिभ्यां कित्’ (उ० ४.२१७) इत्यसुन् ॥
रजकः
- रजति । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । क्वुन् (उ० २.३२) ॥
रजतम् “रजति, रज्यते वा । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् । ‘रजतं त्रिषु शुक्ले स्यात् । क्लीबं हारे च दुर्वर्णे’ इति विश्वः (मेदिनी) ॥”
रजनी रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् । क्षिपेः किच्च’ (उ० २.१०७) इति चकारादनिः । कित्वान्नलोपः (६.४.२४) । ङीष् (ग० ४.१.४५) । ‘रजनी नीलिनीरात्रिहरिद्राजतुकासु च’ । ङीषभावे रजनिरपि ।
रजनी रज्यतेऽनया । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘-त्यजरज-’ (३.२.१४२) इति निपातनात् क्वचिदकित्यपि नलोपः । ‘रजनी नीलिनीरात्रिहरिद्राजतुकासु च’ (इति मेदिनी) ॥
रजनीमुखम् रजन्या मुखमिव ।
रजस्वला अथेति । रजोऽस्त्यस्याः । ‘रजःकृष्या-’ (५.२.११२) इति वलच् । ’तसौ मत्वर्थे’ (१.४.१९) इति भत्वान्न रुत्वम् ॥
रज्जुः
- सृज्यते । ‘सृज विसर्गे’ (तु० उ० अ०) । ‘सृजेरसुम् च’ (उ० १.१५) चात्सलोपः । सृजेः कुरसुगा- गमश्च–इत्यादिमुकुटस्त्वपाणिनीयः । ‘रज्जुर्वेण्यां गुणे योषित् इति विश्वमेदिन्यौ ॥
रञ्जनम् रञ्जयति । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ण्यन्तः । युच् (उ० २.७८) । ल्युट् (३.३.११३) वा । ‘रञ्जनो रागजनने रञ्जनं रक्तचन्दने’ (इति मेदिनी) ॥
रञ्जनी “रञ्जयति । ल्युट् (३.३.११३) । णिलोपस्य स्थानिवद्भावात् ‘असनयोश्च’ इति नलोपो न । रज्यतेऽनया, इति विग्रहे तु ‘करणा-’ (३.३.११७) इति ल्युटि भवत्येव । ‘रञ्जेः क्युन्’ (उ० २.७९) इति वा । ‘गुडारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी । रजनी नीलिनीरात्रिहरिद्राजतुकासु च (इति मेदिनी) ॥”
रणः रणनम् । ‘रण शब्दे’ (भ्वा० प० से०) । ‘वशिरण्योश्च’ (वा० ३.३.५८) इत्यप् । ‘रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम्’ (इति मेदिनी) ॥
रणसङ्कुलम् रणस्य ‘सङ्कुलम्’ ॥
रण्डा रमन्तेऽत्र । ‘रमु क्रीडायाम्’ (भ्वा० आ० अ०) । ञमन्ताड्डः’ (उ० १.११४) । ‘रण्डा मूषिकपर्ण्यां च विधवायां च योषिति’ (इति मेदिनी) ॥ स्वामी तु–चण्ड्यते । चण्डा । प्रत्यक्श्रेणी वृषा चण्डा पुत्रश्रेण्याखुपर्णिका इति निघण्टुः – इत्याह ॥
रतम् रमणम् । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘अनुदात्तोपदेश-’ (६.४.३७) इति मलोपः ॥
रतिकूजितम् रतौ कूजितम् ॥
रतिपतिः रतेः पतिः।
रत्नम् रेति । रमन्तेऽस्मिन् । ‘रमु क्रीडायाम् (भ्वा० आ० अ०) । बाहुलकात् क्नप् । तुक् (६.१.७१) । ‘रत्नं स्वजातिश्रेष्ठे स्यान्मणौ’ इति हैमः ॥
रत्नसानुः रत्नानि सानावस्य ॥
रत्नाकरः रत्नानामाकरः ॥
रत्नाकरः जलानि निधीयन्तेऽत्र । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः । जलानां निधिरिति वा ॥
रथः रम्यतेऽत्र । ‘रमु क्रीडायाम् (भ्वा० आ० अ०) । ‘हनिकुषिणीञ्-रमिकाशिभ्यः क्थन् (उ० २.२) । ‘रथौ स्यन्दनवानीरौ’ इत्यजयः । ‘रथः पुमानवयवे स्यन्दने वेतसेऽपि च ॥
रथः “रमन्तेऽत्र । अनेन वा । ‘हनिकुषिनीरमिकाशिभ्यः क्थन्”” (उ० २.२) । मलोपः (६.४.३७) । ‘रथः पुमानवयवे स्यन्दने वेतसेऽपि च’ । (इति मेदिनी) ॥”
रथकट्या स्थानां व्रजः ॥
रथकारः
- रेति । माहिष्याद्वैश्याक्षत्त्रियसुतात् करण्यां शूद्रायां वैश्यादुत्पन्नायाम् । रथं करोति । ‘कृञ्’ (त० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘रथकारस्तु माहिष्यात्करणी च तक्षणि’ (इति मेदिनी) ॥
रथकारः
- रथं करोति । अण् (३.२.१) ॥
रथगुप्तिः रेति । रथस्य गुप्तिरावरणम् ॥
रथद्रुः रथस्य द्रुः । तत्रोपयुक्तत्वात् ॥
रथाङ्गम् स्येति । रथस्याङ्गम् ॥
रथाङ्गम् रथस्याङ्गम् । ‘रथानं न द्वयोश्चक्रे ना चक्राङ्गविहङ्गमे’ (इति मेदिनी) ॥
रथाङ्गाह्वयः रथाङ्गस्य चक्रस्याहृयो नाम यस्य ॥
रथिकः ‘अत इनिठनौ’ (५.२.११५) ॥
रथिनः रेति । रथोऽस्यास्ति । इनिः (५.२.११५) ॥
रथिनः रेति । रथोऽस्यास्ति । ‘मेधारथाभ्यामिरन्निनचौ’ । स्वामी तु ‘मेधारथाभ्यामिरन्निरचौ’ (वा० ५.२.१०९) इति पठित्वा ‘रथिरः’ इति व्याख्याय ‘रथिनः’ इत्यपपाठः इत्याह । रथस्येनः प्रभुः । शकन्ध्वादिः (वा० ६.१.९४) इत्यन्ये ॥
रथी ‘अत इनिठनौ’ (५.२.११५) ॥
रथ्यः रेति । रथं वहति । ‘तद्वहति रथयुगप्रासङ्गम्’ (४.४.७६) इति यत् । ‘रथ्या रथौघविशिखावर्तनीषु च योषिति । रथवोढरि पुंलिङ्गः’ (इति मेदिनी) ॥
रथ्या रथ्येति । रथं वहति । ‘तद्वहति रथयुग-’ (४.४.७६) इति यत् । ‘रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे’ इति हैमः ।
रथ्या ‘इनित्रकट्यचश्च’ (४.२.५१) ॥
रदः रदति । अच् (३.१.१३४) ॥
रदनः रेति । रद्यतेऽनेन । ‘रद विलेखने’ (भ्वा० प० से०) ‘करणा-’ (३.३.११७) इति ल्युट् ॥
रदनच्छदः ‘द्वन्द्वश्च प्राणि-’ इत्येकत्वं तु न भवति । अनित्यत्वात् । ‘ओष्ठाभ्यां युतावधरौ’ इति शाकपार्थिवादिः (वा० २.१.७८) वा । रदनाः छाद्यन्तेऽनेन ‘छद संवरणे’ चुरादिः । ‘पुंसि-’ (३.३.११८) इति घः । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः ॥
रन्ध्रम् रमणम् । सम्पदादि (३.३.१०८) । संज्ञापूर्वकत्वान्न दीर्घः । रमं क्रीडां धरति । मूलविभुजादिः (वा० ३.२.५) । रन्धयति । ‘रधहिंसासंराद्ध्योः’ (दि० प० से०) । बाहुलकाद्रक् वा । ‘रन्थं तु दूषणे च्छिद्रे” इति विश्वमेदिन्यौ ।
रमणी “रमयति । रम्यते वा । अस्यां वा रम्यते । ल्युट् (३.३.११३, ११७) ॥”
रम्भा रभति । ‘रभ राभस्ये’ (भ्वा० आ० अ०)। पचाद्यच् (३.१.१३४) । ‘रभेरशब्लिटोः’ (७.१.६३) इति नुम् । रभ्यते वा । घञ् (३.३.१९) । मुकुटस्तु–रभन्तेऽनया । घञर्थे कः’ (वा० ३.३.५८) इत्याह । तन्न । परिगणनात् कस्याप्राप्तेः । सति तु के ‘अनिदिताम्-’ (६.४.२४) इति नलोपप्रसङ्गाच्च । ‘रम्भा कदल्यप्सरसोर्ना वेणौ वारणान्तरे’ (इति मेदिनी) ॥
रयः रिणात्यनेन । ‘री गतिरेषणयोः’ (क्र्या० प० अ०) । ‘एरच्’ (३.३.५६) । रयः—इति स्वामिमुकुटौ । तन्न । करणे ल्युटो बाधकस्य सत्त्वात् । तस्मात् ‘पुंसि-’(३.३.११८) इति घः। रयतेऽनेन वा । ‘रय गतौ’ (भ्वा० आ० से०) पुंसि-’ (३.३.११८) इति घः। ‘हलश्च’ (३.३.१२१) इति घञि तु संज्ञापूर्वकत्वावृद्ध्यभावः।।
रल्लकः सेति । रमते । क्विप् (३.२.१७८) । गमादीनां क्वौ’ (वा० ६.४.४०) इति मलोपः। तुक् (६.१.७१) । लाति । क्विप् (३.२.१७८) । रत् चासौ लश्च । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । यद्वा रमणम् । सम्पदादिः (वा० ३.३.१०८) रत् क्रीडा लक्यतेऽनेन । ‘लक आस्वादने’ । घः (३.३.११८) । रतं लाति । क्वुन् (उ० २.३२) वा । ‘रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे’ इति हैमः ॥
रवः रवणम् । ‘रु शब्दे (अ० प० से०) । ‘ऋदोरप्’ (३.३.५७) ॥
रविः “रूयते, स्तूयते, रवते, वा । रविः । ‘रु शब्दे’ (अ० प० से०) । ‘रुङ् गतौ” (भ्वा० आ० अ०) वा । ‘अच इः’ (उ० ४.१३९) ।”
रशना “अश्नुते । ‘अशूङ् व्याप्तौ संघाते च’ (स्वा० आ० से०) । अश्नाति । ‘अश भोजने’ (‘क्र्या० प० से०) । ‘अशे रश् च’ (उ० २.७५) इति यच् रशादेशः । यद्वा, रशति । ‘रश शब्दे’ सौत्रः । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । तालव्यमध्या । दन्त्यमध्यापि । ‘रस शब्दे’ (भ्वा० प० से०) । ‘रस आस्वादने’ (चु० उ० से०) । ‘बहुलम्’ (उ० २.७८) इति युच् । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति वा युच् । ‘तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः । रशनापि च जिह्वायाम्’ । ‘रसनं निस्वने स्वादे रसना काञ्चिजिह्वयोः’ इत्यजयधरणी । ‘रसनं स्वदने ध्वाने रसना काश्चिजिह्वयोः । ‘रसनं चापि रास्नायाम्’ इति विश्वप्रकाशः । एवमुभयमुभयत्र साधु ॥”
रसः रस्यते । ‘रस आस्वादने’ (चु० प० से०) । चुरादिः । ‘एरच्’ (३.३५६) । घञ् (३.३.१८) वा । ‘रसो गन्धरसे जले । ‘शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्’ इति हैमः ।
रसः रस्यते । ‘रस आस्वादने’ चुराद्यदन्तः । ‘एरच्’ (३.३.५६) । रसयति धातून् वा । अच् (३.१.१३४) । ‘रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठासल्लकीक्षितिकङ्गुषु’ (इति हैमः) ॥
रसगर्भः रसो गर्भेऽस्य ॥
रसज्ञा रेति । रसं जानाति । ‘ज्ञा अवबोधने’ (क्र्या० प० अ०) ‘आतोऽनुप्-’ (३.२.३) इति कः ॥
रसना रसयति । ‘रस आस्वादने’ (चु० उ० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । यद्वा रसयन्त्यनया । ‘ण्यासश्रन्थो युच्’ (३.३.१०७) । रसति । ‘रस शब्दे’ (भ्वा० प० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् वा । ‘रसनं स्वजने ध्वनौ । जिह्वयां तु न पुंसि स्यात्’ (इति मेदिनी) । ‘तालव्या अपि दन्त्याश्च’ इत्यादौ ‘जिह्वायां रशना तथा’ इत्युक्तेर्दन्त्यतालव्यमध्योऽयम् । ‘रसनं तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम्’ इति रभसः ।-रसेः सौत्रात् ‘रसिरुचिरुवृञो युच्’ -इति मुकुटोऽपाणिनीयः ॥
रसवती रेति । रसाः सन्त्यस्याम् । मतुप् (५.२.९५) ॥
रसा रसोऽस्यामस्ति । अर्शआद्यच् (५.२.१२७) रस्यते वा । ‘रस आस्वादने’ चुरादावदन्तः । घञ् (३.३.११३) । अच् (३.३.५६) वा । यत्तु-घञर्थे को (३.३.५८) वा - इति मुकुटः । तन्न । परिगणनात् । अचः सत्त्वाच्च (रसा तु रसनापाठासल्लकीक्षितिकङ्गुषु-’) ॥
रसा रस्यते । ‘रस आस्वादने’ (चु० उ० से०) अदन्तः । घञ् (३.३.१९) । ‘रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च’ इति हैमः ॥
रसा रस्यते । ‘रस आस्वादने (चु० उ० से०) । कर्मणि घञ् (३.३.१९) । अल्लोपस्य स्थानिवत्वान्न वृद्धिः । ‘रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान् । स्त्रियां तु रसनापाठा सल्लकीकङ्गुभूमिषु’ (इति मेदिनी) ॥
रसाञ्जनम् रेति । रसजमञ्जनम् । शाकपार्थिवादिः (वा० २.१.७८) ॥
रसातलम् रसायास्तलमधः ।
रसालः “रसेति । रसेनालति, अल्यते, वा = पूरयति, पूर्यते, वा । ‘अल भूषणादौ’(भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । ‘रसालं सिह्नके वोले रसालश्चेक्षुचूतयोः’ (इति मेदिनी) ॥”
रसालः रसमलति । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘कर्मण्यम् (३.२.१) ॥
रसाला रेति । रसानालाति । मूलविभुजादिः (वा० ३.२.५) ॥
रसितम् ‘रस शब्दे’ (भ्वा० प० से०) । ‘एभ्यो भावे क्तः’ (३.३.११४) |
रसोनकः रसे आस्वादने ऊन्यते पातकहेतत्वात् । ऊन परिहाणे (चु० उ० से०) । ‘एरच्’ (३.३.५६) । घञ् (३.३.१९) वा । स्वार्थ कन् (५.३.७५) । क्वुन् (उ० २.३२) वा ॥
रहः ‘तथा’ शब्दः समुच्चये । रह्यते । ‘रह त्यागे’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । यद्वा रमन्तेऽत्र । ‘देशे ह च’ (उ० ४.२१५) इत्यसुन् । होऽन्तादेशश्च । ‘रहस्तत्त्वे रते गुह्ये’ (इति मेदिनी) । रभसोऽपि- ‘रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् इति ॥
रहस्म् ‘तथा’ शब्दः समुच्चये । रह्यते । ‘रह त्यागे’ (भ्वा० प० से०) । असुन् म यद्वा रमन्तेऽत्र । ‘देशे ह च’ (उ० ४.२१५) इत्यसुन् । होऽन्तादेशश्च । ‘रहस्तत्त्वे रते गुह्ये’ (इति मेदिनी) । रभसोऽपि- ‘रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् इति ॥
रहस्यः रेति । रहो भवम् । दिगादित्वात् (४.३.५४) यत् । रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत्’ (इति मेदिनी) ॥
राका “पूर्ण इति । चन्द्रे पूर्णे तु । राति शुभम् । ‘रा दाने’ (अ० प० अ०) । कृदाधारा- (उ० ३.४०) इति कः, बाहुलकाद्ध्रस्वः । ‘राका नद्यन्तरे कच्छ्वां नवजातरजःस्त्रियाम् । सम्पूर्णेन्दुतिथौ ।”
राक्षसः राक्षस इत्यादि । रक्षत्यस्मात् । ‘रक्ष पालने’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । प्रज्ञाद्यणि (५.४.३८) राक्षसः । ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि’ (प० ५.३.६८) इति पुंस्त्वम् । (राक्षसो यातुधाने स्याच्चण्डायां राक्षसी स्मृता) ।
राक्षसी अथेति । रक्षस इयम् । ‘तस्येदम् (४.३.१२०) इत्यण् ॥
राक्षा रेति । रक्ष्यते । अनया वा । ‘रक्ष पालने’ (भ्वा० प० से०) । ‘गुरोश्च-’ (३.३.१०३) इत्यः । प्रज्ञाद्यण् (५.४.३८) । अजादित्वात् (४.१.४) टाप् । अत एव ‘लाक्षायां रक्षणे रक्षा इति रुद्रः ॥
राङ्कवः रेति । रङ्कौ भवम् । ‘रङ्कोरमनुष्येऽण च’ (४.२.१००) इत्यण् । ‘मृगरोमजम्’ मृगशब्देन पशुमात्रं ग्राह्यम् । तेन कम्बलाद्यपि राङ्कवम् ॥
राजकम् अथेति । राज्ञां समूहः । ‘गोत्रोक्षोष्ट्रोरभ्र-’ (४.२.३९) इति वुञ् ॥
राजन् रेति । राजति । ‘कनिन् युवृषि-’ (उ० १.१५६) इति कनिन् । ‘राजा प्रभौ च नृपतौ क्षत्त्रिये रजनीपतौ । यक्षै शक्रे च पुंसि स्यात्’ (इति मेदिनी) ॥
राजन्यः राज्ञोऽपत्यम् । ‘राजश्वशुराद्यत्’ (४.१.१३७) । ‘ये चाभावकर्मणोः’ (६.४ १६८) इति प्रकृत्या । यद्वा राजति । ‘राजृ दीप्तौ’ (भ्वा० उ० से०) । ‘राजेरन्यः’ (उ० ३.१००) ॥
राजन्यकम् राजन्यानां समूहः । प्राग्वत् ॥
राजन्वान् सुराज्ञीति । शोभनो राजा यत्र । –‘न पूजनात्’ (५.४.६९) इति टचोऽभावः—इति मुकुटः । तन्न । बहुव्रीहौ टचोऽप्रसङ्गात् । मतुप् (५.२.९४) । प्रशंसायाम् (वा० ५.२.९४) राजन्वान्सौराज्ये’ (८.२१४) इति साधु । (१) तत इति । अन्यत्र राजमात्रयुक्तदेशे । एकम् सामान्यराजयुक्तदेशस्य ।
राजबला बलानां बलप्रदानां राजेव । राजदन्तादिः (२.२.३१) ॥
राजबीजिन् रेति । राज्ञो वीजयितुं शीलमस्य । ‘वीज व्यजने’ अदन्तः । सुपि-(३.२.७८) इति णिनिः । यद्वा राज्ञो वीजम् । राजवीजमस्यास्ति । इनिः (५.२.११५) ॥
राजराजः राज्ञां यक्षाणां राजा । राजा- (५.४.९१) इति टच् । ‘यक्षे चन्द्रे च राजा स्यात्’ इति त्रिकाण्डशेषः ।।
राजवंश्यः वंशे भवः । दिगादियत् (४.३.५३) । राज्ञो वंश्यः । राजवंशे साधुः । ‘तत्र साधुः (४.४.९८) इति यत् ॥
राजवान् सुराज्ञीति । शोभनो राजा यत्र । –‘न पूजनात्’ (५.४.६९) इति टचोऽभावः—इति मुकुटः । तन्न । बहुव्रीहौ टचोऽप्रसङ्गात् । मतुप् (५.२.९४) । प्रशंसायाम् (वा० ५.२.९४) राजन्वान्सौराज्ये’ (८.२१४) इति साधु । (१) तत इति । अन्यत्र राजमात्रयुक्तदेशे । एकम् सामान्यराजयुक्तदेशस्य ।
राजवृक्षः “राजा चासौ वृक्षश्च । वृक्षाणां राजा । राजदन्तादिः (२.२.३१) इति वा । रोगाणां राजानं वृश्चति, इति वा । ‘ओव्रश्चू छेदने’ (तु० प० से०) । बाहुलकात् सक् ।”
राजसदनम् राज्ञः सदनं योग्यत्वात् । यद्वा सदनानां राजा । राजदन्तादिः (२.२.३१) ॥
राजहंसः राजेति । चञ्चुसहितैश्चरणैः । शाकपार्थिवादिः (वा० २.१.७८) । यद्वा चञ्चुभिश्चरणैश्चेति द्वन्द्वः । ‘द्वन्द्वश्व प्राणितूर्य-’ (२.४.२) इत्येकत्वं तु न भवति । ‘मुखनासिका-’ (१.१.८) इति ‘ह्रस्वदीर्घप्लुतः’ (१.२.२७) इति च निर्देशेन तस्यानित्यत्वज्ञापनात् । तैर्लोहितैरुपलक्षिताः । हंसानां राजा । राजदन्तादिः (२.२.३१) । ‘राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे’ (इति होममेदिन्यौ) ॥
राजादनः राजेति । राजभिरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । कर्मणि ल्युट् (३.३.११४) । ‘राजादनं क्षीरिकायां पियाले किंशुकेऽपि च । ‘राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके इति हैमात् पुंलिङ्गोऽपि ॥
राजादनम् “राजेति । राजभिरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । कर्मणि ल्युट् (३.३.११३) । ‘राजादनं क्षीरिकायां पियाले किंशुकेऽपि च’ ॥ ‘राजातनम् इति पाठे राजानमतति, इति वा ल्युः (३.१.१३४) । ‘राजादनं प्रसरको राजातनः’ इति वाचस्पतिः ॥”
राजार्हम् राजानमर्हति । ‘अर्हः प्रशंसायाम्’ (३.२.१३३) इत्यच् । ‘राजार्हं जोङ्गके क्लीबं राजयोग्येऽभिधेयवत्’ इति मेदिनी ॥
राजिका “राजति, राजयति वा । क्वुन् (उ० २.३२) ॥”
राजिलः समाविति । राजी रेखास्यास्ति । सिध्मादित्वाल्लच् (५.२.९७) । यद्वा-राजिं लाति । ‘ला दाने’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः ।
राजी राजति । ‘राजृ दीप्तौ’(भ्वा० उ० से०) । इन् (उ ४.११८) । ‘वपिवसि (उ ४.१२५) इतीञ् वा । ‘राजी रेखायां पङ्गौ च’ इति हैमः ॥ द्वे निरन्तरपङ्क्त्यपङ्क्तिसाधारणायाः ।
राजीवः राजी रेखास्यास्ति । ‘अन्यत्रापि दृश्यते’ (५.२.१०९) इति वः । अथ राजीवो मीनसारङ्गभेदयोः । राजीवमब्जे’ इति हैमः ॥
राजीवम् “केसरस्य राज्यस्यास्ति । अन्येभ्योऽपि दृश्यते’ (वा० ५.२.१०९) इति वः । ‘राजीवं नलिने, ना तु भेदे हरिणमीनयोः ।”
राज् ‘सत्सूद्विष (३.१.६१) इति क्विप् ॥
राज्याङ्गम् स्वेति । स्वामी राजा । पुरोहितः—इति श्रीधरः । अमात्यो मन्त्री । सुहृद् मित्त्रम् । कोशो भण्डारः । राष्ट्रं देशः । पर्वतादि दुर्गाणि । बलं सैन्यम् । राज्यस्य राजकर्मणोऽङ्गानि ॥
रात्रिः राति सुखम् । ‘रा दाने (अ० प० से०) । राशदिभ्यां त्रिप्’ (उ० ४.६७) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीषि रात्रीत्यपि । ‘रात्री रात्रिस्तमस्विनी’ इति शब्दार्णवः ।
रात्रिचरः रात्रौ चरति । ’चरेष्टः’ (३.२.१६) । ‘रात्रे कृति विभाषा-’ (६.३.७२) इति पक्षे मुम् ।।
रात्रिञ्चरः रात्रौ चरति । ’चरेष्टः’ (३.२.१६) । ‘रात्रे कृति विभाषा-’ (६.३.७२) इति पक्षे मुम् ।।
राद्धान्तः राद्धः सिद्धोऽन्तो निश्चयोऽस्मिन् ।
राधः राधा विशाखा । तद्वती पौर्णमासी राधी । सास्मिन्नस्ति ।
राधा राध्नोति कार्यमनया । ‘राध संसिद्धौ ( स्वा० प० अ०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यकारः । राधयति । अच् (३.१.१३४) इति वा । राधा विद्युद्विशाखयोः । विष्णुक्रान्तामलक्योश्च गोपीवेध्यविशेषयोः’ इति हैमः ।
रामः रमते ।। ज्वलितिकसन्तेभ्यः (३.१.१४०) ’ इति णः । रमन्तेऽस्मिन्योगिनः इति वा । हलश्च’ (३.३.१२१) इति घञ् । यत्तु रमयति मोदयति प्रजा रूपमस्य इति मुकुटेनोक्तम् । तन्न । णिजन्तस्य ज्वलादित्वाभावात् । प्रत्ययान्तानां धात्वन्तरत्वात् । ‘रामा योषा हिङ्गुनद्योः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे । हये च पशुभेदे च त्रिषु चारौ सितेऽसिते’) ॥
रामः रमते अन्तर्भावितण्यर्थो वा । ‘ज्वलिति’ (३.१.१४०) इति णः । रमन्तेऽस्मिन्ननेन वा । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘रामा योषाहिङ्गलिन्योः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे । हये च पशुभेदे च त्रिषु चारौ सितेऽसिते’ (इति मेदिनी) ॥
रामठः रामठदेशोद्भवत्वादुपचारः । रमन्तेऽनेन वा । ‘रमु क्रीडायाम्’ (भ्वा० आ० अ०) । ‘रमेर्वृद्धिश्च’ (उ० १.१०१) इत्यठः । -रमयति । बाहुलकादठः-इति मुकुटश्चिन्त्यः । ‘रमेर्वृद्धिश्च’ इति सूत्रस्य सत्वात् ॥
रामा रमते । ज्वलादित्वात् (३.१.१४०) णः । रमयति–इति तु मुकुटस्य प्रमादः । ण्यन्तस्य ज्वला- दित्वाभावात् । मित्वाण्णिनिमित्तवृद्ध्यभावाच्च । ‘रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते । रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनी स्त्रियोः’ इति हैमः ॥
राम्भः रोति । ‘रम्भा कदल्यप्सरसोर्ना वेणौ वानरान्तरे’इति मेदिनी । रम्भस्य वेणोर्विकारः । प्राग्वदञ् (४.३.१४१) ॥व्रत इत्येव । अन्यत्र वैणव एव ।
रालः न राति दुःखम् । बाहुलकाल्लक् । रालः इति स्वामी । ‘अरालः सर्जवक्रयोः’ इति ‘रालः सर्वरसोऽरालो धूपको वह्निवल्लभः’ इति च रभसः ॥
राशिः अश्नुवते व्याप्नुवन्ति । ‘अशू व्याप्तौ’ (स्वा० आ० से) । ‘अशिपणाय्यो रुडायलुकौ च’ (उ० ४.१३३) इति रुडागम इण्प्रत्ययश्च ।
राशिः अश्नुते । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । ‘अशिपणाय्यो रुडायलुकौ च’ (उ० ४.१३३) इतीण् धातोरुडागमः । यद्वा रश्यते । रश सौत्रः शब्दार्थः - दीप्त्यर्थः- इति स्वामी । बाहुलकादिण् । ण्यन्तात् ‘अच इः’ (उ० ४.१३९) वा । ‘राशिर्मेषादिपुञ्जयोः’ (इति मेदिनी) ॥
राष्ट्रिका ‘राष्ट्रं स्यात्तूपवर्तने । उपद्रवे क्लीबपुंसोः’ (इति मेदिनी) । राष्ट्रमस्त्यस्याः । ‘अतः-’ (५.२.११५) इति ठन् ॥
राष्ट्रियः राजेति । राष्ट्रेऽधिकृतः । ‘राष्ट्रावारपाराद्धखौ’ (४.२.९३) इति घः ॥
रासभः रासते । ‘रासृ शब्दे’ (भ्वा० आ० से०) । ‘रासिवल्लिभ्यां च’ (उ० ३.१२५) इत्यभच् ॥
रास्ना राति । रायते वा । रस्यते वा । ‘रा दाने’ (अ० प० अ०) । ‘रस आस्वादने (चु० उ० से०) । ‘रास्नासास्ना-’ (उ० ३.१५) इति साधुः । -‘रास्नादयः’ इत्यानुपूर्वी मुकुटोक्तोज्ज्वलदत्तादिषु नास्ति । ‘रास्ना तु स्याद्भुजंगाक्ष्यामेलापर्ण्यामपि स्त्रियाम् (इति मेदिनी) ॥
रास्ना रासते । ‘रासृ शब्दे’ (भ्वा० आ० से०) । रास्यते वा । ‘रास्नासास्ना-’ (उ० ३.१५) इति साधुः ॥
राहुः रहति गृहीत्वा त्यजति चन्द्रार्कौ । ‘रह त्यागे’ (भ्वा० प० से०) भ्वादिः । बाहुलकादुण् । ‘रहश्च’ इत्युण्-इति मुकुटस्य प्रमादः । एतादृशसूत्रादर्शनात् ।
रिक्थम् रिक्थम् ।
रिङ्गणम् रिङ्गणामिति । ‘रिगि गतौ’ (भ्वा० प० से०) ‘स्खल संचलने’ (भ्वा० प० से०) । भावे ल्युट्
रिपुः रीति । रपति दोषम् । ‘रप व्यक्तायां वाचि’ (भ्वा० प० से०) । ‘रपेरिच्चोपधायाः’ (उ० १.२६) इति कुः ॥
रिष्टिः रेषति । ‘रिषु हिंसायाम्’ (भ्वा० प० से०) रिशति वा । ‘रिश हिंसायाम्’ (तु० प० अ०) । क्तिच् (३.३.१७४) । ‘रिष्टिः खड्गे ना शुभे स्त्री’ (इति मेदिनी) । अजादिरिति स्वाम्यादिः । ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । क्तिच् (३.३.१७४) ‘करवालमण्डलाग्रकालेयकासिरिष्टयः’ । ऋष्टिः खड्गस्तरवारिकौक्षेयकौ च नन्दकः’ इति रभसः ॥
रीढा रेहणम् । ‘रिह वधे’ (तु० प० से०) । औणादिकः क्तः । स्त्रीत्वं लोकात् ।
रीतिः रीति । रीयते । ‘रीङ् क्षरणे’ (दि० आ० अ०) । रिणाति वा । ‘री गतिरेषणयोः’ (क्र्या० प० अ०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘रीतिः स्त्रियां स्यन्दप्रचारयोः । पित्तले लोहकिट्टे च’ (इति मेदिनी) ॥
रीतिपुष्पम् रीति । रीतेः पित्तलस्य पुष्पमिव । तन्मलत्वात् ॥
रुक्/रुग् रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । क्विप् (३.२.१७८) । (‘रुक् शोभाकिरणेच्छासु’) ।।
रुक्प्रतिक्रिया रुजः प्रतिक्रिया निरसनम् ॥
रुक्मकारकः
- रुक्मं करोति । अण् (३.२.१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
रुक्मम् रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘युजिरुजितिजां कुश्च’ (उ० १.१४६) इति मक् । ‘रुक्मं लोहे सुवर्णे च’ इति हेमचन्द्रः ॥
रुचकः रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘क्वुन् शिल्पिसंज्ञयोः’ (उ० २.३२) इति क्वुन् ॥
रुचकः रुचेति । रोचते । ‘रुच दीप्तावभिप्रीतौ च’ (भ्वा० आ० से०) । अन्तर्भावितण्यर्थः । क्वुन् (उ० ३.३२) । ‘रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वा भरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्ये चाप्युत्कटेऽपि च (इति मेदिनी) ॥
रुचकम् रोचतेऽनेन । ‘रुच दीप्तावभिप्रीतौ च’ (भ्वा० आ० से०) । क्वुनु (उ० २.३२) । ‘रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च’ | (इति मेदिनी) ॥
रुचकम् रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । ‘रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च’ इति विश्वमेदिन्यौ ॥
रुचिः ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘रुचिर्दीप्तौ च शोभायामभिष्वङ्गामिलाषयोः’ ।
रुजा ‘इगुपध-’ (३.१.१३४) इति कः । टाप् (४.१.४) । भिदाद्यङ् वा (३.३.१०५) । ‘रुजा त्वामयभङ्गयोः’ इति हैमः ॥
रुज् स्त्रीति । रुजति देहम् । ‘रुजो भङ्गे’ (तु० प० अ०) । क्विप् (३.२.१७८) । रोजनं वा । सम्पदादि क्विप् (वा० ३.३.१०८) ॥
रुदितम् ‘रुदिर् अश्नविमोचने’ (अ० प० से०) । भावे क्तः (३.३.११४)
रुद्रः रोदयति । ‘रोदेर्णिलुक् च (उ० २.२२) इति रक् ।।
रुद्राः रोदयन्त्यसुरान् । ‘रुदिर् अश्रुविमोचने’ (अ० प० से०) । ‘रोदेर्णिलुक् च’ (उ० २.२२) इति रक् णेश्च लुक् ॥
रुद्राणी रुद्रस्य स्त्री । ‘इन्द्रवरुण- (४.१.४९) इति ङीषानुकौ ।
रुधिरम् रुधीति । रुणद्धि । रुध्यते वा । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘इषिमदिमुदि-’ (उ० १.५१) इति किरच् । ‘रुधिरोऽङ्गारके पुंसि क्लीबं तु कुङ्कमासृजोः’ (इति मेदिनी) ॥
रुरुः रौति । ‘रु शब्दे’ (अ० प० से०) । ‘जत्र्वादयश्च’ (उ० ४.१०२) इति साधुः । ‘रुरुर्दैत्ये मृगेऽपि च’ इति हैमः ॥
रुशती वाग्भेदा इति । उत्तरे वक्ष्यमाणा वाग्भेदा रुशत्यादयः सम्यगन्ताः । रुशतीति । ‘रुश हिंसायाम्’ (तु० प० अ०) । तालव्यान्त स्तौदादिकः । शत्रन्तान्ङीप् । ‘आच्छीनद्योः’ (७.१.८०) इति नुमो विकल्पः । रुशती हिंस्रा । रुशञ् शब्दः । रुशद्वचनम् । मुकुटस्तु (उषती इति पाठे) ‘उष दाहे’ (भ्वा० प० से०) इत्यस्य शत्रन्तस्य उषती’ इति रूपमाह । तन्न । तस्माच्छपि (३.१.६८) पुगन्त-’ (७.३.८६) इति गुणस्य ‘शप्श्यनोर्नित्यम्’ इति नुमश्च प्रसङ्गात् ॥
रुष् प्रतिहननम् । अन्यत्रापि’ (वा० ३.२.४८) इति डे । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘प्रतिघौ रुट्प्रतीघातौ’ इति हैमः ॥ रुट्क्रुधौ सम्पदादी (वा० ३.३.१०८) ॥ टापि (भागुरिमतेन) ‘क्रोधो भामः क्रुधा रुषा’ इति शब्दार्णवः (६) ॥ (७) ॥ (भामः क्रोधे रवौ दीप्तौ) ॥
रुहा छिन्नापि रोहति । ‘इगुपध-’ (३.१.१३५) इति कः ॥
रूपम् “रूपमिति । रोपयति विमोहयति । ‘रुपु विमोहने’ (दि० प० से०) । अच् (३.३.१३४) । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः । यद्वा ‘रूप रूपकरणे’ (चु० उ० से०) इति चौरादिकस्यायमप्यर्थः । यद्वा रूयते स्तूयते । ‘रु शब्दे (अ० प० अ०) ‘खष्पशिल्प-(उ० ३.२८) इति पप्रत्ययो दीर्घश्च निपातितः । ‘रूपं तु श्लोकशब्दयोः पशावाकाशे सौन्दर्ये, नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च’ इति हैमः ।”
रूपाजीवा रूपमाजीवोऽस्याः ॥
रूप्यम् रूप्यम् ।
रूप्यम् ‘रूप रूपक्रियायाम्’ (चु० उ० से०) । ण्यन्तः । ‘अचो यत् (३.१.९७) । ‘रूप्यः स्यात्सुन्दरे त्रिषु । आहतस्वर्णरजते रजते च नपुंसकम्’ इति विश्व (मेदिनी) हेमचन्द्रौ ॥
रूप्याध्यक्षः रूप्येति । ‘रूप्यः स्यात्सुन्दरे त्रिषु । आहतस्वर्णरजते रजते च नपुंसकम्’ (इति मेदिनी) । रूपस्याध्यक्षः ॥
रेचितम् रेचनम् । ‘रिचिर् विरेचने’ (रु० उ० अ०) । ण्यन्तः । क्तः (३.३.११४) । (‘उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः’ इति हैमनाममाला ॥
रेणुः रयिति । रिणाति । रीयते वा । ‘री गति श्लेषणयोः’ (क्र्या प० अ०) । ‘अजिवृरीभ्यो निच्च’ (उ० ३.३८) इति णुः । रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः’ इति विश्वमेदिन्यौ ॥
रेणुका रेणुरस्या अस्ति । व्रीह्यादित्वात् (५.२.११६) ठन् । ‘इसुसुक्तान्तात्कः’ (७.३.५१) । रेणुरेव । ‘संज्ञायाम्’ (५.३.७५) इति कन् वा । मुकुटस्तु-रेणुं करोति । डः (वा० ३.२.१०१) । टाप् (४.१.४) रेणुका । पृषोदरादिः (६.३.१०९) – इत्याह । तत्र ‘पृषोदरादिः’ इत्युक्तिश्चिन्त्या । रेणुकापि हरेणौ च जामदग्न्यस्य मातरि’ (इति मेदिनी) ॥
रेतः रिणाति । ‘री गतिरेषणयोः’ (क्र्या० प० अ०) । ‘स्रुरीभ्यां तुट् च’ (उ० ४.२०२) इत्यसुन् ॥
रेवतीरमणः रेवत्या रमणः । नन्द्यादित्वात् (३.१.१३४) ल्युः ।
रेवा रेवेति । रेवते । ‘रेवृ प्लवगतौ’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) ॥
रैः रैः ।
रोकम् रोचतेऽत्र । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । निष्ठायां सेट्त्वान्न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । यत्तु मुकुटः रोचते प्रकाशते । घः (३.३.११८)-इत्याह तन्न । कर्तरि घस्याविधानात् । ‘रोकं क्रयणभेदे ना वि (वरे) विले चले । रोकोंऽशौ’ हेमचन्द्रः ।
रोगः ‘रुजति । ‘पदरुज-’ (३.३.१६) इति घञ् । रोजनं वा । भावे घञ् (३.३.१८) ॥
रोगहारिन् रोगेति । रोगं हरति तच्छीलः ‘सुपि-’ (३.२.७८) इति णिनिः ॥
रोचनः रोचिति । रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘अनुदात्तेतश्च-’ (३.२.१४९) इति युच् । ‘रोचना रक्तकह्लरे गोपित्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु’ ॥
रोचनी रोचते । ‘रुच दीप्तावभिप्रीतौ च’ (भ्वा० आ० से०) । ल्युट् (३.३.११३) । रेचनी’ इति पाठे ‘रिचिर् विरेचने’ (रु० उ० अ०) । ‘रेचनी त्रिवृतादन्त्योः । ‘रोचनी कर्कशे स्मृता’ (इति मेदिनी)॥
रोचनी रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘कृत्यल्युट-’ (३.३.११३) इति ल्युट् । ‘रोचनी कर्कशे स्त्रियाम् । (इति मेदिनी) ॥ ‘रेचनी’ इति क्वचित् पाठः ॥
रोचिः ‘रुच दीप्तौ’ (भ्वा० आ० से०) । रोचतेऽनेन । ‘अर्चिशुचि-’ (उ० २.१०८) इति इसिः ।
रोचिष्णुः रोचते तच्छीलः ‘अलङ्कृञ्-’ (३.२.१३६) इतीष्णुच् ॥
रोदनम् रुद्यते । ‘रुदिर् अश्रुविमोचने’ (अ० प० से०) । कर्मणि ल्युट् (३.३.११३) बाहुलकात् । ‘रोदनं क्रन्दनेऽस्रेऽपि दुरालम्भौषधौ स्त्रियाम्’ इति मेदिनी ॥॥
रोदनी रोदयति । ‘रुदिर् अश्रुविमोचने’ (अ० प० से०) । ल्यूट् (३.३.११३) । ‘रोदनं क्रन्दनेऽस्त्रेऽपि दुरालम्भौषधौ स्त्रियाम्’ (इति मेदिनी) ॥ ‘चोदनी’ (इति स्वामी) ॥
रोधः रुणद्धि । ‘रुधिर् आवरणे (रु० उ० से०) । असुन् (उ० ४.१८९) । अदन्तोऽपि । रोधः प्रोक्तश्च रोधसि’ इति संसारावर्तात् । तत्राच् (३.१.१३४)
रोपः रोप्यते अनेन वा । ‘रुपु विमोहने’ (दि० प० से०) ण्यन्तः । घञ् (३.३.१९) । यद्वा रुप्यतेऽनेन । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘रोपो रोपणबाणयोः’ इति विश्वः॥
रोम रोहति । ‘नामन् सीमन् व्योमन् रोमन् लोमन्’ (उ० ४.१५१) । इति साधु । यद्वा रूयते । ‘रु शब्दे’ (अ० प० अ०) । मनिन् (३.२.७५) । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् । लूयते वा । मनिन् (३.२.७५) ॥
रोमहर्षणम् रोम्णां हर्षणम् ॥
रोमाञ्चः “रोमाञ्च इति । रोम्णामञ्चनं पूजनम् । घञ् (३.३.१८) । चजोः-(७,४.५२) इति सूत्रे निष्ठायामनिटः’ इति पूरितत्वादस्मात्तु ‘अञ्चेः पूजायाम्’ (७.२.५३) इति क्त्वानिष्ठयोरिविधानान्न कुत्वम् । यत्तु न क्वादेः (७.३.५९) इति योगविभागान्न कुत्वम् इति भाषावृत्त्युपन्यसनं मुकुटस्य । तन्न । तस्य वार्तिककृता (‘निष्ठायामनिटः’ इति वार्तिकेन) प्रत्याख्यानात् । यथोत्तरं मुनीनां प्रामाण्यात् ॥”
रोषः रुष हिंसायाम्’ (भ्वा० प० से०) । घञ् (३.३.१८) ।
रोहिणी रोहितवर्णयोगात् । ‘वर्णादनुदात्तात्-’ (४.१.३९) इति ङीम्नौ । ‘रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । (लोहिताकटुरोहिण्योः) इति हेमचन्द्रः ॥
रोहितः अथविति । अथो झषविशेषा उच्यन्ते । रोहति । ‘रुह बीज जन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । ‘रुहे रश्च लो वा’ (उ० ३.९४) इतीतच् । रोहणम् । घञ् (३.३.१८) । रोहो जातोऽस्य । तारकादित्वात् (५.२.३६) इतज्वा । ‘रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयोर्भेदे लोहित कद्रुमे ॥
रोहितः रोहति । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । ‘रुहे रश्च लो वा’ (उ० ३९४) इतीतन् ।
रोहितः रोहति । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । ‘रुहे रश्च लो वा’ (उ० ३.९४) इतीतच् ॥
रोहितकः “रोहितो वर्णोऽस्यास्ति । ‘अर्शआद्यच्’ (५.२.१२७) । ““स्वार्थे कन् (५.३.७५) । ‘रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुसिं स्यान्मीनमृगयोर्भैदे ना रोहितद्रुमे ॥”
रोही रोहीति । अवश्यं रोहति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । ‘रोही रोहितकेऽश्वत्थवटपादपयोः पुमान् ॥
रौद्रम् रौद्रमिति । रुद्रस्येदम् । अण् (४.३.१२०) । यत्तु रुद्रो देवतास्य इति मुकुटेनोक्तम् । तन्न । मन्त्रहविः स्वामिन्या एव देवतात्वात् । ‘रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्याम्’ इति हैमः ॥
रौमकम् रौमेति । रुमायां भवम् । अण् (४.३.५३) । ‘संज्ञायां कन्’ (५.३.७५) ॥
रौरवः रौरवो नरके घोरे’ इति मेदिनी ॥
रौहिणेयः रोहिण्या अपत्यम् । शुभ्रादित्वात् (४.१.१२३) ढक् । (‘रौहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे’) ||
रौहिणेयः रौहिणेय इति । रोहिण्या अपत्यम् । स्त्रीभ्यो ढक् (४.१.१२०) । ‘रौहिणेयो भवेद्वत्से रेवतीरमणे बुधे’ इति विश्वः।।
रौहिषः रौहिषं तृणभेदमत्ति । ‘शेषे (४.२.९२) इत्यण् । ‘रौहिषं कत्तृणे क्लीबं पुंसि स्याद्धरिणान्तरे’ (इति मेदिनी) ॥
रौहिषम् रोहति । ‘रुहेवृद्धिश्च’ (उ० १.४७) इति टिषच् । कत्तृणे रौहिषं क्लीबं पुंलिङ्गो हरिणान्तरे’ इति मूर्धन्यान्ते रभसः ॥
लकुचः लेति । लक्यते । ‘लक आस्वादने’ । बाहुलकादुचः ॥
लक्षणम् “ल्युटि लक्षणम् । ‘लक्षेरट् च’ (उ० ३.७) इति नः । (‘लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्’ । मुड्वा’ (उ० ३.७) इति लक्ष्मणमपि । ‘ज्योतिष्मत्यां च सारस्यां स्त्री, क्लीबे नामचिह्नयोः । स्याद्यक्षे लक्ष्मणः पुंसि सौमित्रौ, श्रीमति त्रिषु’ इति रभसात् । लक्ष्मीवति तु पामादित्वात् (५.२.१००) नः । ‘लक्ष्म्या अच्च’ इति गणसूत्रेणात्वं बोध्यम् ।”
लक्षम् लेति । लक्ष्यते । ‘लक्ष आलोचने’ (चु० अ० से०) । घञ् । (३.३.१९) ‘लक्षं व्याजशरव्ययोः । (संख्यायामपि)’ (इति हैमः) ॥
लक्ष्म लक्षयति । लक्ष दर्शनाङ्कनयोः’ (चु० प० से०) । मनिन् (३.३.७५) । (‘लक्ष्म प्रधानचिह्नयोः’) ।
लक्ष्मणा सारेति । लक्ष्मीरस्त्यस्याः । ‘लक्ष्म्या अच्च’ (ग० ५.२.१००) इति नः । ‘सारस्यां लक्ष्मणा ना तु सौमित्रौ श्रीमति त्रिषु’ इति रुद्रः । ‘लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयवत्’ इति मेदिनी । निर्मकारोऽपि । ‘लक्षणश्चैव सारसे’ इत्यमरमाला । ‘लक्षणं नाम्नि चिह्नेऽथ सारस्यां लक्षणा क्वचित्’ (इति मेदिनी) ॥
लक्ष्मी लक्ष्यते । ‘लक्ष दर्शने’ (चु० प० से०) । ‘लक्षेर्मुट् च’ (उ० ३.१६०) इतीप्रत्ययः । ‘लक्ष्मीः श्रीशोभासम्पत्प्रियंगुषु’ धनोत्कर्षस्य इति हेमचन्द्रः ॥
लक्ष्मीः “लक्षयति पश्यति नीतिज्ञम् । लक्ष दर्शनाञ्जनयोः (चु० प० से०) । ‘लक्षेर्मुट् च’ (उणा० ३.१६०) इति ईप्रत्ययः, तस्य च मुट् । ‘लक्ष्मीः सम्पत्तिशोभयोः । ऋद्धयौषधौ च पद्मायां वृद्धिनामौषधेऽपि च’ |”
लक्ष्मीः लक्षयति । लक्ष्यते वा । ‘लक्ष दर्शने’ (चु० प० से०) । ‘लक्षेर्मुट् च’ (उ० ३.१६०) इतीः । ‘लक्ष्मीः संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्मायां वृद्धिनामौषधेऽपि च (इति मेदिनी) ॥
लक्ष्यम् लक्षणम् । ‘लक्ष आलोचने (चु० अ० से०) । ण्यत् (३.३.१२४) । ‘लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकम्’ इति मेदिनी ॥ घञन्तोऽपि । संख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः इति मूर्धन्यान्ते रभसात् ॥
लक्ष्यम् ‘अचो यत्’ (३.१.९७) ॥
लग्नः “लगति फले । ‘लगे सङ्गे’ (भ्वा० प० से०) । क्षुब्धस्वान्त-’ (७.२.१८) इति क्तस्येडभावः तस्य नश्च निपात्यते । यत्तु लगति साध्ये निजे, इति विग्रहं प्रदर्श्य ओलजी ओलस्जी व्रीडे”” (तु० आ० से०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तन्न । उक्तधातोर्लगतिरूपाभावात् । प्रकृतेऽर्थासंगतेश्च । अतः ‘श्वीदितो निष्ठायाम् (७.२.१४) । ‘ओदितश्च’ (८.२.४५) इति सूत्रयोरुपन्यासो व्यर्थः । ‘लग्नं राश्युदये क्लीबं सक्तलज्जि तयोस्त्रिषु ।”
लग्नकः
- स्युरिति । लज्यते स्म । ‘ओ लस्जी व्रीडे’ (तु० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
लघुः लङ्घते । ‘लघि गतौ’ (भ्वा० आ० से०) । ‘लङ्घि बंह्योर्नलोपश्च’ (उ० १.२९) इत्युः । ‘लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् । शीघ्रे कृष्णागरुणि पृक्कानामौषधौ तु स्त्री’ (इति मेदिनी)॥
लघुम् “‘लघि गतौ” (भ्वा० आ० से०) । लङ्घते । ‘लङ्घिबंह्योर्नलोपश्च’ (उ० १.२९) इति कुः, नलोपश्च । लघि शोषणे’ (भ्वा० प० से०) इति तु मुकुटस्य प्रमादः (‘लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीबम् । शीघ्रे च कृष्णागुरुणि स्पृक्कानामौषधौ तु स्त्री’) (वालमूललघ्वलमङ्गुलीनां वा लो रमापद्यते (वा० ८.२.१८) इति रत्वपक्षे ‘रघु’ इत्यपि । ‘वरुणस्य रघुस्यदः इति प्रयोगात्)”
लघुलयम् लङ्घते रोगान् । लङ्घयते वा भूस्थत्वात् । ‘लघि गतौ’ (भ्वा० आ० से०) । ‘लङ्घिबह्योर्नलोपश्च’ (उ० १.२९) । लघु लीयते । ‘लीङ् श्लेषणे’ (दि० अ० अ०) । अच् (३.१.१३४) । समस्तं नाम ॥ व्यस्तमपि ‘लामज्जकं सुवासं स्यादमृणालं लयं लघु’ इति सुश्रुतः । ‘लामज्जकं सुनालः स्यादमृणालं लयं लघु’ ॥
लङ्कोपिका लङ्कायामुप्यते । ‘डुवप्’ (भ्वा० उ० अ०) । क्वुन् (उ० २.३२) । ‘वचिस्वपि-’ (६.१.१५) इति वस्य उः ॥
लज्जा लज्जनम् ।‘ओलस्जी व्रीडे (तु० प० से०) । अप्रत्ययः (३.३.१०३) । ‘झलां जश् इशि (८.४.५३)
लता लतति । ‘लतिः’ सौत्रो धातुर्वेष्टनार्थः । पचायच् (३.१.१३४) ।
लता लतति । ‘लत आघाते’ सौत्रः । अच् (३.१.१३४) । ‘लता प्रियंगुशाखयोः । पृक्काज्योतिष्मती वल्लीलताकस्तूरिकासु च । माधवीदूर्वयोः- (इति मेदिनी) ॥
लता लतति । ‘लतिः सौत्रः । अच् (३.१.१३४) ॥
लता लतति । ‘लतिः सौत्रो धातुः । पचाद्यच् (३.१.१३४) | ‘प्रियंगुनखयोर्लता । स्पृक्काज्योतिष्मतीवल्लीलताकस्तूरिकासुच’ ॥
लता लतति । ‘लतिः’ सौत्रो धातुर्वेष्टनार्थः । पचायच् (३.१.१३४) । लता ज्योतिष्मती दूर्वा शाङ्गावल्लीप्रियङ्गुषु । स्पृक्कामाधव्योः कस्तूर्याम्’ इति हैमः ॥
लता लतति । ‘लतिः’ सौत्रो धातुर्वेष्टनार्थः । पचायच् (३.१.१३४) । लता ज्योतिष्मती दूर्वा शाङ्गावल्लीप्रियङ्गुषु । स्पृक्कामाधव्योः कस्तूर्याम्’ इति हैमः ॥
लतार्कः “लतेति । लतासु अर्च्यते, अर्च्यते विरुद्धलक्षणया निन्द्यते वा । ‘अर्क स्तवने’ (भ्वा० प० से०) । ‘अर्च पूजायाम्’ (भ्वा० प० से०) वा । घञ् (३.३.१९) ॥”
लपनम् लप्यतेऽनेन । ‘लप व्यक्तायां वाचि’ (भ्वा० प० से०) । ल्युट् (३.३.११७) ॥
लपितम् ‘लप व्यक्तायां वाचि’ (भ्वा० प० से०) । भावे क्तः (३.३.११४) ॥
लब्धवर्णः लब्धो वर्णः स्तुतियैन ॥
लभ्यः लभ्यते ‘पोरदुपधात्’ (३.१.९८) इति यत् । ‘लक्ष्यं युक्ते च लब्धव्ये’ (इति मेदिनी) ॥
लम्बनम् लेति । लम्बते । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । ल्युः (३.१.१३४) ॥
लम्बोदरः लम्बमुदरमस्य । (‘लम्बोदरः स्यादुद्ध्मापाने प्रमथानां च नायके) ।
लयः लय इति । गीतिवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लयः । लयनम् । ‘लीड् श्लेषणे’ (दि० आ० अ०) । ‘एरच्’ (३.३.५६) । यत्तु— लय गतौ’ ‘एरच्-’ इति मुकुटेनोक्तम् । तन्न । लयधातोरिकारान्तत्वाभावात् । ’लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः’ इति हैमः ।
ललना ललते । ‘लल ईप्सायाम् । ‘चुरादीनां वा णिच्’ इति पक्षे ल्युः (३.१.१३४) । युच् (उ० २.७८) वा । यद्वा लडति । ‘लड विलासे’ (भ्वा० प० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । डलयोरेकत्वम् । ‘ललना कामिनीनारीभेदजिह्मासु योषिति’ इति विश्वमेदिन्यौ ॥
ललन्तिका लडति । ‘लड विलासे’ (भ्वा० प० से०) । ‘लटः शतृ-’ (३.२.१२४) ‘उगितश्च’ (४.१.६) इति ङीप् । ‘शप्श्यनोर्नित्यम्’ (७.१.८१) इति नुम् । डलयोरेकत्वम् । ललन्त्येव । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
ललाटम् लेति । ललनम् । ‘लल ईप्सायाम्’ (चु० अ० से०) । ‘लड विलासे’ (भ्वा० प० से०) वा । डलयोरेकत्वम् । ललं विलासमीप्सां वा । अटति । ‘अट गतौ’ (भ्वा० प० से०) । ललति । उक्तधातुभ्यां बाहुलकादाटच् ॥
ललाटिका ललाटस्यालङ्कारः ‘कर्णललाटात्कनलङ्कारे’ (४.३.६५) ॥
ललामकम् प्विति । तदेव माल्यं पुरोभागे न्यस्तं ललाटपर्यन्तम् । ललाममिव । इवार्थे कन् (५.३.९६) ॥
ललितम् ‘लल ईप्सायाम् ॥ (*) । ‘लड विलासे’ (भ्वा० प० से०) वा । डलयोरभेदः । भावे क्तः (३.३.११४) । ‘अनाचार्यौपदिष्टं स्याल्ललितं रतिचेष्टितम् । (‘ललितमीप्सिते । लडिते हावभेदे स्यात् ।
लवङ्गम् “लेति । लुनाति, लूयते, वा । ‘तरत्यादिभ्यश्च’ (उ० १.१२०) इत्यङ्गच् ॥”
लवणः लुनाति जाड्यम् । ‘लूञ् छेदने’ (न्या० उ० से०) । नन्द्यादिल्युः (३.१.१३४) लवणाल्लुक् (४.४.२४) इति लिङ्गाण्णत्वम् । ‘लवणो राक्षसे रसे । अस्थिभेदे लवणा त्विट्’ इति हैमः ।
लवणम् लवणम्
लवणोदः “एवं लवणोदः, इक्षुरसोदः, सुरोदः, दधिमण्डोदः, स्वादूदः, धृतोदः, समुद्रविशेषाणां पृथक्पृथगेकैकम् ।”
लवित्रम् लूयतेऽनेन । ‘लूञ्’ (क्र्या० उ० से०) । ‘अर्ति-’ (३.२.१८४) इतीत्रः ॥
लशुनम् अश्नाति । अश्नुते वा । ‘अश भोजने’ (क्र्या० प० से०) । ‘अशूङ् व्याप्तौ’ (स्वा० आ० से०) । ‘अशेर्लश् च (उ० ३.५७) इत्युनन् ॥
लस्तकः लेति । लस्यते स्म । ‘लस श्लेषणक्रीडनयोयोः’ (भ्वा० प० से०) । कर्मणि क्तः (३.२.१०२) । आगमशास्त्रस्यानित्यत्वान्नेट् । स्वार्थे कन् (५.४.५) ॥
लाक्षा लक्ष्यते । अनया वा । ‘लक्ष दर्शने’ (चु० प० से०) । प्राग्वत् ॥
लाक्षाप्रसादनः लाक्षा प्रसीदत्यनेन । युच् (उ० २.७८) करणे । लाक्षां प्रसादयति वा । ‘कृत्यल्युटः’ (३.३.११३) इति ल्युट् ॥
लाङ्गलदण्डः लाङ्गलस्य दण्डः ॥
लाङ्गलपद्धतिः लाङ्गलस्य पद्धतिः ॥
लाङ्गलम् लेति । लङ्गति । ‘लगि गतौ’ (भ्वा० प० से०) । बाहुलकात्कलच् । दीर्घश्च ।-‘कलम्बा(म्बला)दयश्च’-इति मुकुटस्त्वपाणिनीयः । ‘लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुमान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः’ (इति मेदिनी) ॥
लाङ्गलिकी स्यादिति । लाङ्गलं पुष्पविशेषोऽस्त्यस्याः । ठन् (५.२.११५) । ‘जातेः’ (४.१.६३) इति ‘-गौरा-’ (४.१.४१) इति वा ङीष् । लाङ्गलवत् खनति भूमिम् । ‘तेन दीव्यति (४.४.२) इति ठक् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् ॥
लाङ्गली लेति । लाङ्गलाकारोऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । गौरादिः (३.१.४१) । ‘लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुमान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः’ (इति मेदिनी) ॥
लाङ्गली लङ्गति । ‘लगि गतौ’ (भ्वा० प० से०) । बाहुलकाद् अलच् दीर्घश्च । गौरादिः (४.१.४१) ॥
लाङ्गूलम् लङ्गति । ‘लगि गतौ’ (भ्वा० प० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.९०) । प्रज्ञाद्यण् (५.४.३८) । ‘लाङ्गूलं पुच्छशेफयोः’ (इति मेदिनी) ॥
लाजाः लेति । लज्यन्ते । ‘लज भर्जने’ (भ्वा० प० से०) । घञ् (३.३.१९) । पुंसि बहुत्वे । ‘लाजः स्यादार्द्रतण्डुले नपुंसकमुशीरेऽथ स्त्रियां पुंभूम्नि चाक्षते’ (इति मेदिनी) ॥
लाञ्च्छनम् “‘लच्छ, लाच्छि, लक्षणे’ (भ्वा० प० से०) । लाञ्छ्यतेऽनेन । ल्युट् (३.३.११५) । ‘लाच्छनं लक्ष्मसंज्ञयोः’ इति हैमः । लच्छयंतेऽनेन इति विग्रहे ल्युटि ‘लच्छनम्’ अपि ज्ञेयम् ।”
लाभः लेति । लभ्यते । ‘डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) । ‘अकर्तरि-’ (३.३.१९) इति घञ् ॥
लामज्जकम् लाति दोषान् । अच् (३.१.१३४) । क्विप् (३.२.१७८) वा । ला मज्जा सारोऽस्य । कप् (५.४.१५४) इति मुकुटस्तु चिन्त्यः ॥
लालसा “स इति । स तर्षो महांश्चेत् ‘लल ईप्सायाम्’ () औणादिकोऽसण् । यद्वा ‘लस कान्तौ’ () भृशं लसनम्, इत्यर्थे यङन्तादः (३.३.१०२) । टाप् (४.१.१०२) । घञि तु लालसः । स्त्रीनिर्देश आबन्ततासूचनार्थः । ‘लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः इति विश्वमेदिन्यौ ।”
लाला लालयते । ‘लल ईप्सायाम्’ चुरादिः । अच् (३.१.१३४) ॥
लावः लावयति । ‘लूञ् छेदने’ (क्र्या० उ० से०) स्वार्थण्यन्तः । अच् (३.१.१३४) ॥
लासिका लसति । ‘लस श्लेषण क्रीडनयोः’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । अनयोः क्रियोपाधिकतया वाच्यलिङ्गत्वात्पुंस्त्वनिर्देशस्यौत्सर्गिकत्वात् ‘नर्तको लासकः समौ’ इति वक्तव्ये स्त्रीनिर्देशो ङीष्टापोविवेकार्थः । ‘लासकौ केकिनर्तकौ’ इति हैमः ।
लास्यम् लस श्लेषणक्रीडनयोः’ (भ्वा० प० से०) । ण्यत् (३.१.१२४) । ‘लास्यं तौर्यत्रिके मतम् । नृत्ये च’ इति विश्वः
लिकुचः पृषोदरादित्वात् (६.३.१०९) इत्वे लिकुचोऽपि ॥
लिङ्गवृत्तिः लिङ्गमाश्रमादिचिह्नधारणं वृत्तिर्जीविकाहेतुर्यस्य ॥
लिपिः लिप्यते । ‘लिप उपदेहे’ (जु० उ० अ०) । ‘इक् कृष्यादिभ्यः’ (वा० ३.३.१०८) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् वा ॥
लिपिकरः लीति । लिपिं करोति । ‘दिवाविभा–’ (३.२.२१) इति टः । एवं ‘लिविंकरः’ अपि ॥
लिप्तकः लिप्यते स्म । ‘लिप उपदेहे’ (तु० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
लिप्सा लभेः सन्नन्तादः (३.३.१०२) ।
लिबिः ‘लिबिः’ सौत्रो धातुः -इति मुकुटः ॥
लीला लयनम् । लीः । ‘लीड् श्लेषणे’ (दि० आ० अ०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । लियं लाति । ‘ला आदाने (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । (प्रियस्यानुकृतिर्लीला श्लिष्टा वाग्वेषचेष्टितैः । ‘लीला केलिर्विलासश्च शृङ्गारभावजा क्रिया’ ।
लुठितः लुठति स्म । ‘लुठ प्रतिघाते’ (तु० प० से०) । क्तः (३.४.७२) ॥
लुप्तवर्णपदम् लुप्तेति । लुप्तो वर्णः पदं वा यत्र पदे वाक्ये वा ॥
लुब्धकः
- लुभ्यते स्म । ‘लुभ गार्घ्ये’ (दि० प० से०) । क्तः (३.२.१०२) । स्वार्थे (ज्ञापि० ५.४.५) । संज्ञायाम् (५.३.७५) | वा कन् ॥
लुलापः लुलेति । लुडति पङ्के । ‘लुड संश्लेषे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । डलयोरेकत्वम् । आप्नोति । ‘आप्लृ व्याप्तौ’ (स्वा० प० अ०) । अच् (३.१.१३४) । लुलश्चासावापश्च । यद्वा लुड्यन्ते । ‘लुड विलोडने’ भिदाद्यङ् (३.३.१०४) । लुला विलोडिता आपोयेन । ‘लुल विमर्दने इति सौत्रो धातुर्वा ॥ (‘लुलायः’ इति) अन्तःस्थयकारान्तपाठे बाहुलकादायङ्प्रत्ययः । -‘लुलिकुलिकषिभ्य आयः’ इति मुकुटलिखितसूत्रमुज्ज्वलदत्तादिषु न पश्यामः । यद्वा अयते । अय गतौ (भ्वा० आ० से०) । अच् (३.१.१३४) । लुलश्वासावयश्च ॥
लूता लूतेति । लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । ‘हसिमृगृ-’ (उ० ३.८६) इति तन् । संज्ञापूर्वकत्वाद्गुणाभावः । बाहुलका-तन्–इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । ‘लूता लूतका’ इत्य-मरदत्तः । ‘लूता तु रोगे पिपीलिकोर्णनाभयोः इति हेमचन्द्रः ॥
लूमम् लूयते । बाहुलकान्मक् ॥
लेखकः लिखति । लिख अक्षरविन्यासे (तु० प० से०) । ‘शिल्पिनि ष्वुन्’ (३.१.१४५) । ण्वुल् (३.१.१३३) वा ॥
लेखर्षभः लेखेषु ऋषभः । ‘सप्तमी’ (२.१.४०) इति योगविभागात्समासः । लेख ऋषभ इवेति वा । ‘उपमितं व्याघ्रा-’ (२.५६ समासः) ।
लेखा लेखा इति । लिख्यते । लिख अक्षरविन्यासे’(तु० प० से०) । भिदादौ (३.३.१०४) पाठादङ्गुणौ । ‘लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि’ इति हैमः ॥ रलयोरेकत्वस्मरणात् रेखा’अपि ॥
लेखाः चित्रादौ लिख्यन्ते । ‘लिख अक्षरविन्यासे (तु० प० से ०) । ‘अकर्तरि-’ (३.३.१९) इति कर्मणि घञ् । ग्रीवाहस्तपादेषु तिस्रो लेखाः सन्त्येषामिति वा । ‘अर्श आद्यच् (५.२.१२७) । ‘लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता’ ॥
लेपकः
- लिम्पति । ‘लिप उपदेहे’ (तु० उ० स०) । ण्वुल् (३.१.१३३) ॥
लेष्टुः “लिश्यते, लिशति, वा । ‘लिश गतौ’ (तु० प० से०) । बाहुलकात्तुन् । ‘क्रत्वादयश्च’-इति मुकुटस्त्वपाणिनीयः ॥”
लेहः -‘लिह आस्वादने’ (अ० उ० अ०) । घञ् (३.३.१८) । ‘लेपः’ इति पाठे ‘लिप उपदेहे’ (तु० प० अ०) । घञ् (३.३.१८) । ‘लेपस्तु लेपने । अशने च सुरायां च’ इति हेमचन्द्रः ॥
लोकः लोक्यते । ‘लोकृ दर्शने’ (भ्वा० आ० से०) । घञ् (३.३.१९) । ‘लोको विश्वे जने’ इति हैमः ।
लोकजित् लोकं जयति ॥
लोकालोकः लोकेति । ‘लोकृ दर्शने’ (भ्वा० आ० से०) । भावे घञ् (३.३.१३) । न लोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । अन्तर्बहिः सूर्यकिरणानां स्पर्शास्पर्शाभ्याम् ॥
लोकेशः लोकानामीशः ॥
लोचनम् लविति । लोच्यतेऽनेन । ‘लोच्लृ दर्शने’ (भ्वा० आ० से०) । ल्युट् (३.३.११७) ॥
लोचमस्तकः लोच्यते । ‘लोचृ दर्शने’ (भ्वा० आ० से०) । घञ् (३.३.१९) । यद्वा लोचयति । ‘लोचृ भासने’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । लोचो दर्शनीयो भासमानो वा मस्तकोऽस्य । मुकुटस्तु – लुच्यते इति विगृहीतवान् । तन्न । ‘लुञ्च अपनयने (भ्वा० प० से०) । अस्मात् घञि नलोपविधायकाभावात् । ‘लोचमर्कटः’ इत्यपि – इति स्वामी ॥
लोध्रः रुणद्धि । ‘रुधिर् आवरणे’ (रु० उ० अ०) । बाहुलकाद्रन् । ‘शूद्रादयः’ इति रन् - इति मुकुटः । तन्न । तादृशसूत्राभावात् । कपिलिकादिः (वा० ८. २.१८) । (रोध्रोऽपि लत्वाभावे । ‘रोध्रो ना गालवे क्लीबमपराधे च किल्विषे’ इति मेदिनी) ॥
लोपामुद्रा अस्यैव पत्नी लोपामुद्रा । न मुदं राति । आतोऽनुप-’ (३.२.३) इति कः । लोपे धर्मलोपे अमुद्रा = हर्षं न लभते इत्यर्थः । स्वाम्युक्तेऽस्य पृषोदरादित्वे (६.३.१०९) फलं चिन्त्यम् । यत्तु-लोपयति योषितां रूपाभिमानम् । पचाद्यच् (३.१.१३४) । टाप् (४.१.४) लोपा । मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । ततः कर्मधारयः (२.१.५७) इति मुकुटेनोक्तम् । तच्चिन्त्यम् । लोपाशब्दस्यैव भाषितपुंस्कत्वात्पुंवद्भावप्रसङ्गात् । आङ्-प्रश्लेषेण वा तत्समाधेयम् ।
लोप्त्रम्
- लविति । लुप्यते । ‘लुप्लृ छेदने’ (तु० उ० से०) । ष्टन् (उ० ४.१.१५९) । लूञः ष्ट्रनि ‘लोत्रम्’ अपि । ‘लोत्रमश्रुणि चोरिते’ इति विश्वः ॥
लोम रोहति ‘नामन् सीमन् व्योमन् रोमन् लोमन्’ (उ० ४.१५१) । इति साधु । यद्वा रूयते । ‘रु शब्दे’ (अ० प० अ०) । मनिन् (३.२.७५) । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् । लूयते वा । मनिन् (३.२.७५) ॥
लोमशा लोमानि सन्त्यस्याः । लोमादिशः (५.२.१००) । लोमशो मुनिमेषयोः । (लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च । शूकशिम्बिमहामेदाकाशीसे डाकिनी भिदि)’ (इति मेदिनी) ॥
लोष्टभेदनः लोष्टानां भेदनः ॥
लोष्टम् लविति । लोष्टति । ‘लोष्ट सङ्घाते’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) पुंलिङ्गोऽप्ययम् । ‘लेष्टुः शण्डे(ठे)ऽपि लोष्टः स्यात्’ इति वोपालितः ॥
लोहः “लोह इति । लोहति, लुह्यते, वा । ‘लुह गार्ध्ये () । अच् (३.१.१३४) । घञ् (३.३.१९) वा । लूयतेऽनेन वा । ‘लूञ् छेदने’ (क्र्या० उ० से०) । बाहुलकाद् हः । रुह्यते, रोहति वा । ‘रुह प्रादुर्भावे’ (भ्वा० प० अ०) । घञ् (३.३.१९) । अच् (३.१.१३४) वा । कपिलिकादित्वात् (वा० ८.२.१८) लत्वम् । ‘लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्वतैजसे’ (इति मेदिनी) । प्रज्ञाद्यणि ‘लौहम्’ ॥”
लोहकारकः
- लोहं करोति । अण् (३.२.१) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘व्योकारोऽयस्करोऽयस्कारो लोहकारः स्यात्’ इति रत्नकोषः ॥
लोहपृष्ठः लोहेति । लोहमिव पृष्ठमस्य ॥
लोहम् लुह्यते । ‘लुह गार्ध्ये’ () । घञ् (४.३.१९) । रोहति । अच् (३.१.१३४) | रलयोरैक्यम् । वा ।–‘लूञो हः’-इति मुकुटस्त्वपाणिनीयः । ‘लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्वतैजसे’ (इति मेदिनी) ॥
लोहाभिसारः लोहेति । ‘लोहोऽस्त्री शस्त्रके लौहे’ (इति मेदिनी) । लोहस्य शस्त्रस्याभितो हरणम् । हृञ् हरणे’ (भ्वा० उ० अ०) । भावे घञ् (३.३.१८) ‘लोहाभिहार इत्युक्तो विधिर्नीराजनोत्तरः’ इत्यमरमाला । ‘लोहाभिसार’ इति पाठे तु ‘सृ गतौ’ (भ्वा० प० से०) धातुर्बोध्यः ॥ निःशेषेण नितरां वा राजनम् । ‘राजृ दीप्तौ’ (भ्वा० उ० से०) ण्यन्तः । ‘ण्यासश्रन्थ-’ (३.३.१०७) इति भावे युच् । तस्याः सैव वा विधिः । ‘नीराजनो विधिः’ इति पाठे तु ‘निःशेषेण राजनमत्र’ इति बहुव्रीहिर्बोध्यः । एकम् ‘महानवम्यां प्रस्थानात्प्राक् शस्त्रवाहनादिपूजनविधेः’ ॥
लोहितः लोहितो मङ्गले नदे । वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने । गोशीर्षे रुधिरे युद्धे’ इति हैमः ।
लोहितकः लोहितमेव । ‘लोहितान्मणौ’ (५.४.३०) इति कन् ॥
लोहितचन्दनम् लोहितं च तच्चन्दनं च । लोहितमपि । ‘लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने’ (इति मेदिनी) ॥
लोहितम् रोहति । रुह्यते वा । ‘रुहे रश्च लो वा’ (उ० ३.९४) इतीतच् । ‘लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने । पुमान्नदान्तरे भौमे वर्षे च त्रिषु तद्वति’ (इति मेदिनी) ॥
लोहिताङ्गः लोहितान्यङ्गान्यस्य ।
लोहिताश्वः लोहिता अश्वा यस्य । वरुणस्त्वसितानश्वान्कुबेरः कुमुदोपमान् । हुताशनः किंशुकाभा न्वायुर्बधैस्तथावृणोत्’ इति शालिहोत्रात् । रोहितो मृगोऽश्वो वाहनमस्येति वा । (‘रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे’) ।
व
- वाति । वानं वा । डः (वा० ३.२.१०१) । क्वचित् ‘वत् इति पाठः । स तु न युक्तः । वति (५.१.११५) प्रत्ययेन गतार्थत्वात् । न च वतिरेवात्र पठितः । सादृश्यपर्याये प्रत्ययपाठस्यायुक्तत्वात् । अपत्यसमहादिपर्यायेष्वणवुञादीनामपाठात्’ । ‘वं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्’ इति मेदिन्यादिसमयतेश्च’’ ।
वंशः “वंशे इति – वमति । ‘टुवम् उद्गिरणे’ (भ्वा० प० से०) । ‘वृभृवमिकुभ्यः शक्’- इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्तादिवृत्तिष्वदर्शनात् । अनुनासिकलोपस्य (६.४.३७) उपधादीर्घस्य (६.४.१५) च प्रसङ्गाच्च । कुशभृशयोर्धात्वन्तरेण सिद्धत्वाच्च । वनति, वन्यते, वा । ‘वन शब्दे’ (भ्वा० प० से०) । बाहुलकात् शः । उश्यते, वष्टि, वा । ‘वश कान्तौ’ (अ० प० से०) घञ् (३.३.१९) । संज्ञापूर्वकत्वान्न वृद्धिः । अच् (३.१.१३४) । ‘संख्या वंश्येन’ (२.१.१९) इति निर्देशान्नुम् । ‘वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च’।’ २ ॥ (विश्वः) ॥”
वंशः ‘वश कान्तौ’ (अ० प० से०) । घञ् (३.३.१९) । ‘आच्छनद्योः (७.१.८०) इत्यत्र नुम्’ इति योगविभागान्नुम् । यद्वा वन्यते । ‘वन सम्भक्तो’ (भ्वा०प० से०) । बाहुलकाच्छः-वमति । ‘भुवमिकुभ्यः’ इति शक्-इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्तादिष्वदर्शनात् । ‘वंशो वेणौ कुले वगै पृष्ठाद्यवयवेऽपि च’ इति विश्वमेदिन्यौ ॥
वंशकम् अथेति । वंश इव । ‘इवे प्रति-’ (५.३.९६) इति कन् । क्वचित् ‘वंशिक’ इति पाठः । वंशोऽस्त्यत्र । ठन् (५.२.११५) । ‘राजार्हं वंशिकं नतम् । वनद्रुमः परमदो वंशकं लोहनामकम्’ इति वाचस्पतिः ॥
वंशरोचना रोचते । नन्द्यादिः (३.१.१३४) । वंशस्य रोचना । ‘स्याद्वंशरोचना वांशी तुकाक्षीरी तुकाशुभा । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी तु वैणवी’ इति शाश्वतः ॥
वकुलः वङ्कते । ‘वकिर्गत्यर्थः’ (भ्वा० आ० से०) । बाहुलकादुलच् । ‘आगमशासनमनित्यम्’ इति न नुम् ॥
वक्त्रम् वेति । उच्यतेऽनेन । ‘वच परिभाषणे’ (अ० प० अ०) । ब्रूञो वचिः (२.४.५३) वा । ‘गुधृवीपचिवचि-’ (उ० ४.१६७) इति त्रः । ‘वक्त्रमास्ये छन्दसि च’ इति हेमचन्द्रः ॥
वक्रम् “वक्राणीति । वञ्चन्ति । ‘वञ्चु गतौ’ (भ्वा० प० से) । ‘स्फायितश्चि- ‘(उ० २.१३) इति रक् । ‘न्यङ्क्वादीनां च (७.३.५३) इति कुत्वम् । ‘वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः’ इति हैमः । ‘वक्रः शनैश्चरे पुंसि, पुटभेदे नपुंसकम् । त्रिषु क्रूरे च कुटिले’ । स्वामी तु-चक्राकारेण यान्त्यधः इति विगृह्णन् चवर्गादित्वं मन्यते । ‘चक्रः कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्तेऽपि’ इति चादौ मेदिनी ॥”
वक्षः वक्षति । ‘वक्ष संघाते’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) ॥
वङ्क्षणः “तदिति । तस्य ऊरोः । वाङ्क्षति, वाङ्क्ष्यते, वा । ‘वाक्षि काङ्क्षायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११३) । बाहुलकाद्धातोर्ह्रस्वः । वङ्क्षते । वङ्क्षणः इति स्वामी । यद्वा वक्षति । ‘वक्ष रोषसंहत्योः’ (भ्वा० प० से०) । ल्युट् (३.३.११३) । ‘आच्छीनद्योर्नुम्’ (७.१.८०) इत्यत्र ‘नुम्’ इति योगविभागान्नुम् ॥”
वङ्गम् वङ्गति ‘वगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘वङ्गं सीसकरङ्गयोः । वार्ताकेऽपि च कार्पासे पुम्भूम्नि नीवृदन्तरे’ इति मेदिनी) । ‘वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे । वङ्गं त्रपुणि सीसे च’ इति हैमः ॥
वचः वचेर्भावे ल्युट् (३.३.११५) (५) । असुनि (उ० ४.१९९) वचः ।
वचनम् वचेर्भावे ल्युट् (३.३.११५) (५) । असुनि (उ० ४.१९९) वचः ।
वचा वेति । वक्ति वचेरन्तर्भावितण्यर्थात् पचाद्यच् (३.१.१३४) । (‘वचः कीरे वचौषधौ । शारिकायां च’ (इति मेदिनी) ॥
वज्रः व्रजति । व्रज गतौ” (भ्वा० प० से०) । ‘ऋज्रेन्द्र-’ (उ०२.२८) इति रन् । अस्त्री इति पूर्वोत्तराभ्यामन्वेति । संनिधानाविशेषात् । ’अस्त्रियौ वज्रकुलिशौ’ इति संसारावर्ताच्च । वज्रोऽस्त्री’ इति वक्ष्यमाणं तस्यैवानुवादः (‘वज्रं स्याद्बालके धात्र्यां क्लीबं योगान्तरे पुमान् । वज्रा स्नुह्यां गुडूच्यां च वज्री स्नुह्यन्तरे स्मृता । दम्भोलौ हीरकेऽप्यस्त्री’) ।
वज्रद्रुः ‘वज्रद्रुः स्नुक् स्नुही’ इति पाठः । - वज्रनामा द्रुः – इति मुकुटः । स्वामी तु ‘वज्रः स्नुक् स्त्री स्नुही गुडा’ इति पठति । ‘वज्रा स्नुह्यां गुडूच्यां च वज्री स्नुह्यन्तरे स्मृता’ (इति मेदिनी) ॥
वज्रनिर्घोषः “वज्रनिर्घोषोऽशनिशब्दः । ’वज्रनिष्पेषे’ इति पाठे ‘पिष्लृ संचूर्णने’ (रु० प० अ०), घञ् (३.३.१८), ‘इदुदुपधस्य (८.३.४१) इति षः । निष्पेषशब्दस्तदुत्थशब्दपरः । संघट्टमात्रपरः – इत्यन्ये ।”
वज्रपुष्पम् पुष्पमिति । वज्रमिव पुष्पम् ॥ तिलस्य (यत्) पुष्पम् ॥
वज्री वज्रोऽस्यास्ति । अत इनि-’ (५.२.११५) । वज्री तु बुद्धे देवाधिपे पुमान् ।
वञ्चकः वश्यते । ‘वञ्चु प्रलम्भने’ (चु० आ० से०) । ण्वुल् (३.१.१३३) । वञ्चयति – मुकुटोक्तिश्चिन्त्या । आकुस्मीयस्य वञ्चरात्मनेपदित्वात् । ‘वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके’ (इतिमेदिनी) ॥
वञ्चुलः वच्यते । ‘वञ्चु गतौ’ (भ्वा० प० से०) । बाहुलकादुलो जत्वं च । ‘वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि ॥
वञ्जुलः “वजति। ‘वज गतौ’ (भ्वा० प० से०) । बाहुकादुलच्, नुम् च । ‘वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि ॥”
वञ्जुलः वञ्जिवति । वजति । ‘वज गतौ’ (भ्वा० प० से०) ॥ ‘बाहुलकादुलच्’ नुम् ॥
वटः वटति । ‘वट वेष्टने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘वटी – त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः’ ॥
वटी
- वटति । ‘वट वेष्टने’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । वट्यते वा । ‘खनो घ च’ (३.३.१२५) इति घः । ‘वटी त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः’ (इति मेदिनी) ॥
वडवा बलं सामर्थ्यमतिशयितमस्याः । ‘अन्येभ्योऽपि-’ (वा० ५.२.१०९) इति वः । बलं वाति वा । ‘आतोऽनुप-’ (३.२.३) इति कः । बलेन वजति वा । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । डलयोरेकत्वम् । ‘वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारीजात्यन्तरेऽपि च’ (इति मेदिनी) ॥
वणिक् “‘वणिक् स्त्रियाम् । वणिज्यायां, पुमान् वाणिजके च करणान्तरे’ इति विश्वः (मेदिनी) ॥”
वणिग्भावः वणिजो भावः ॥
वणिज्या ‘दूतवणिग्भ्यां च’ इति यः ॥
वण्टकम् वण्टकम् ।
वत्सः वदति । ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । ‘वृतॄवदिहनिकमिकषिभ्यः सः’ (उ० ३.६२) । ‘वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्’ इति विश्वः (मेदिनी) ॥
वत्सकः वदति । ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । ‘वृतॄवदिवचिहनिकमिकषिभ्यः सः’ (उ० ३.६२) । ततः ‘संज्ञायां कन्’ (५.३.७५) ॥
वत्सतरः तनुर्वत्सः । ‘वत्सोक्षाश्व-’ (५.३.९१) इत्यादिना ष्टरच् ॥
वत्सनाभः वत्सान् नभ्नाति । णभ हिंसायाम् (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) । वत्सस्य नाभिरिव नाभिरस्येति वा । अच् प्रत्यन्ववपूर्वात्
वत्सम् वदति सामर्थ्यम् । ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । ‘वद स्थैर्ये’ (भ्वा० प० से०) वा । ‘वृतॄवदिहनि-’ (उ० ३.६२) इति सः । ‘वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्’ इति मेदिनी । ‘पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि’ इति रुद्रः ॥
वत्सरः वत्सर इति । वसन्त्यस्मिन् । ‘वसेश्च’ (उ० ३.७१) इति सरप्रत्ययः । ‘सः स्यार्धधातुके ’ (७.४.४९) इति सस्य तः ।
वत्सरः एवं वत्सरोऽपि ।
वत्सादनी वत्सेति । वत्सैरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । ल्युट् (३.३.११३) ॥
वदनम् वदन्त्यनेन ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । करणे ल्युट् (३.३.११७) ॥
वधः हननम् । ‘हनो वध च’ (३.३.७६) इत्यप् ॥
वधू “वहति, उह्यते वा । ‘वहो धश्च’ (उ० १.८३) इत्यूः । मुकुटस्तु बध्नात्यविद्यया । ‘चमितनिबन्धिभ्यः’ इत्यूः इत्याह । तन्न । ‘कृपिचमितमिधनिसर्जिखर्जिभ्य ऊः’ (उ० १.८०) इति सूत्रे बन्धेरग्रहणात् नलोपविधेरदर्शनाच्च ॥”
वधूः वहति । उह्यते वा । ‘वहो धश्च’ (उ० १.८३) इत्यूः । ‘वधूः स्त्री शारिवौषधौ । स्नुषाशटीनवोढासु भार्यापृक्काङ्गनासु च’ (इति मेदिनी) । ‘पृक्का च महिला वधूः’ इति त्रिकाण्डशेषः ॥
वधूः वहति । ‘वहो धश्च’ (उ० १.८३) इत्यूः । ‘वधूः पत्न्यां स्नुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां च’ इति हैमः ॥
वध्री
- वर्धते । ‘वृधु वर्धने’ (भ्वा० आ० से०) । ‘वृधिवपिभ्यां रन्’ (उ० २.२७) । गौरादित्वात् (४.१.४१) ङीष् ॥
वनतिक्तिका वने तिक्ता । स्वार्थे कन् (५.३.७५) ॥
वनप्रियः वनेति । वनं प्रियमस्य ॥
वनमक्षिका वनस्य मक्षिका ॥
वनमाली ‘आपादपद्म या माला वनमालेति सा मता’ इति कलिङ्गः । सास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः । वनं मलितुं शीलमस्य इति वा । ‘मल धारणे’ (भ्वा० आ० से०) ‘सुपि’ (३.२.७८) इति णिनिः । (‘वनमाली तु गोविन्दे वाराह्यां वनमालिनी) ॥
वनमुद्गः वनस्य मुद्गः ॥
वनम् “वन्यते सम्भज्यते सेव्यते वा । ‘वन सम्भक्तौ (भ्वा० प० से०) । ‘वनु याचने’ (तु० आ० से०) वा । कर्मणि घञ् (३).३.१९) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यतु भुवनवद्बाहुलकात् क्युनि अनुदात्तोपदेश-’ (६.४.३७) इत्यादिना नलोपे वनम्,–इत्युज्ज्वलदत्तः इति मुकुटः । तन्न । अनुदात्तोपदेश- (६.४.३७) इत्यनुनासिकलोपस्य क्ङिति झलि विधानात्क्युनि तदप्रसङ्गात् । अन्यथा वन्यत इत्यादावपि प्रसङ्गात् । ‘वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने इति हैमः ॥”
वनम् वनति । ‘वन सम्भक्तौ’(भ्वा० प० से०) । पचाद्यच् (३.१.१३४) यत्तु - वन्यते । अच् - इति मुकुटः । तन्न । कर्मणि पचाद्यचोऽसम्भवात् । ’वनं नपुंसकं नीरे निवासालयकानने’।
वनशृङ्गाटः वनस्य शृङ्गाट इव । ‘श्वदंष्ट्रो गोक्षरस्त्रिकण्टकपुटः श्वदंष्ट्रा स्वादुकण्टकः’ इति रभसः ॥
वनस्पतिः तैरिति । ‘वनस्पतिर्ना द्रुमात्रे विना पुष्पं फलिद्रुमे ।
वनायुजः “वेति । वनायुषु देशेषु जाताः । ‘सप्तम्यां जनेर्डः’ (३.२.९७) । आजानेयः कुलजो, वनायुजः पारसीक उक्तः’ इति रत्नकोषः । प्रज्ञाद्यण् (५.४.३८) वा ॥”
वनिता वनति । ‘वन सम्भक्तौ (भ्वा० प० से०) । बाहुलकादितन् । यद्वा वन्यते स्म । क्तः (३.२.१०२) ‘वनिता जातरागस्त्रीस्त्रियोस्त्रीत्रिषु) याचिते । सेविते’ (इति मेदिनी) ॥
वनौकाः वनमोकोऽस्य ॥
वन्दी “वन्द्यते, वन्दते वा । ‘वदि अभिवादनस्तुत्योः’ (भ्वा० आ० से०) । इन् (उ० ४.११८) । ङीष् (ग० ४.१.४५) ॥”
वन्दी वेति । वदन्ते । ‘वदि अभिवादनस्तुत्योः’ (भ्वा० आ० से०) । ग्रह्यादित्वात् (३.१.१३४) ‘आवश्यका-’ (३.३.१७०) इति वा णिनिः ॥
वन्या वन्येति । वनानां समूहः । पाशादिभ्यो यः (४.२.४९) । (‘वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः) ॥
वपा उप्यतेऽत्र । ‘डुवप्’ (भ्वा० उ० अ०) । भिदादिः (३.३.१०४) । (‘वपा विवरमेदसोः’) ॥
वपा वपति । उप्यते वा । ‘डुवप् बीजतन्तुसंताने’ (भ्वा० उ० अ०) । अच् (३.१.१३४) । भिदाद्यङ् (३.३.१०२) वा । ‘वपा विवरमेदसोः’ इति हैमः ॥
वपुस्म् “वपति, उप्यते, वा । ‘डुवप् । ‘अर्तिपॄवपि-’ (उ० २.११७) इत्युसिः । ‘वपुः क्लीबं तनौ शस्ताकृतावपि’ (इति मेदिनी) ॥”
वप्रः पुमिति । उप्यतेऽत्र । ‘डुवप् बीजसंताने’ (भ्वा० उ० अ०) । ‘वृधिवपिभ्या रन्’ (उ० २.२७) । ‘वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे’ इति विश्वः (मेदिनी) । ‘वप्रः प्राकाररोधसोः । क्षेत्रे ताते चये रेणौ’ इति हैमः ॥
वप्रम् “उप्यतेऽत्र । ‘डुवप् बीजतन्तुसंताने’ (भ्वा० उ० अ०) । ‘वपिवृधिभ्यां रन्’ (उ० २.२७) । ‘वप्रश्चावरणे वृन्दे प्राकारे मूलबन्धने’ इति धरणिः । वप्रस्ताते पुमान्, अस्त्री रेणौ क्षेत्रे चये तटे’ इति मेदिनी ॥”
वप्रम् उप्यते । ‘डुवप् बीजसन्ताने’ (भ्वा० उ० अ०) । ‘वृधिवपिभ्यां रन्’ (उ० २.२७) । ‘वर्ध्र’ इति मुकुटः वर्धते । ‘वृधु वर्धने’ (भ्वा० आ० से०) । रन् (उ० २.२७) । (‘वर्ध्रः सीसवरत्रयोः’ इति हैमः) ॥
वमथुः ‘ट्वितोऽथुच्’ (३.३.८९) । ‘वमथुः पुंसि वमने गजस्य करशीकरे’ इति (मेदिनी) ॥
वमथुः वेति । वम्यते । ‘टु वम उद्गिरणे’ (भ्वा० प० से०) । ‘ट्वितोऽथुच्’ (३.३.८९) । ‘वमथुर्वमने घासे मातङ्गकरशीकरे (इति हैमः) ॥
वमिः वमनम् । ‘टु वम उद्गिरणे’ (भ्वा० प० से०) । ‘इक कृष्यादिष्यः’ (वा० ३.३.१०८) ॥
वयस्थः वयेति । ‘वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके’ इति विश्वः । वयसि तिष्ठति । ‘सुपि-’ (३.२.४) इति योगविभागात् कः ॥
वयस्था वयसि तिष्ठत्यनया । ‘घञर्थे कः’ (वा० ३.३.५८) । ‘वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु’ (इति मेदिनी) ॥
वयस्था वयसि स्थीयतेऽनया । ‘घञर्थे कः’ (वा० ३.३.५८) । ‘वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु’ (इति मेदिनी) ॥
वयस्था वयो यौवनं तिष्ठत्यनया । घञर्थे कः (३.३.५८) । ‘वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु’ ॥ कायस्थाऽपि । ‘कायस्था तु हरीतक्यामलक्योश्च प्रकीर्तिता’ इति रभसः ॥
वयस्यः वेति । वयसा तुल्यः । ‘नौवयोर्धर्म-’ (४.४.९१) इति यत् ॥
वयस्या वयसा । वयसा तुल्या । ‘नौवयोर्धर्म-’ (४.४.९१) इति यत् ॥
वरटा वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘शकादिभ्योऽटन् (उ० ४.८१) । ङीषि (४.१.४१) ‘वरटी’ अपि । ‘वरटा वरटीहंस्योस्तत्पतौ वरटः स्मृतः’ इति तारपालः ॥
वरटाः “हंसेति । वृणीते सेवते सरः । ‘वृङ् सम्भक्तौ’ (क्र्या० आ० से०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । ‘वरटा, द्वयोर्बरट्यां, स्त्री हंस्यां तु, तत्पतौ पुमान्’ (इति मेदिनी) ॥”
वरणः “वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । कर्तरि ल्युट् (३.३.११३) । करणे (३.३.११७) वा । ‘वरणो वरणद्रुमे । प्राकारे, वरणं वृत्याम्’ इति हैमः ॥”
वरणः वरेति । वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । कर्तरि ल्युट् (३.३.११३) । करणे (३.३.११७) वा ॥
वरत्रा
- व्रियतेऽनया । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘वृञश्चित् (उ० ३.१०७) इत्यत्रन् ॥
वरत्रा व्रियतेऽनया । ‘वृञ् वरणे’ (स्वा० उ० से०) । बाहुलकादत्रः । यद्वा वरं त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
वरम् व्रियते । ‘वृञ् वरणे’ (स्वा० उ० से०) ‘ग्रहवृदृ’ (३.३.५८) इत्यप् । ‘वरो वृतौ । विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसृणे किञ्चिदिष्टे’ इति हैमः । ‘काश्मीरजं वह्निशिखं बाह्लीकं पीतनं वरम्’ (इति वाचस्पतिः) ॥
वरवर्णिनी वरवणोंऽस्त्यस्याः । इनिः (५.२.११५) । ‘शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला । भर्तृभक्ता च या नारी सा भवेद्वरवर्णिनी’ इति रुद्रः ॥
वरवर्णिनी वरश्वासौ वर्णश्च । सोऽस्त्यस्याः । ‘अतः-’ (५.२.११५) इतीनिः ॥
वराङ्गकम् वरमङ्गमस्य । ‘शेषाद्विभाषा’ (५.४.१५४) इति कप् ॥
वराटकः “व्रियते दलैः । ‘वृञ् आवरणे’ । ‘अन्येभ्योऽपि, इत्याटच् । ततः स्वार्थे कन् (५.३.७५) । यद्वा-वरं दलवरणम् अटति । ‘अट गतौ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ततः स्वार्थे कन् (५.३.७५) । वराटकः पद्मबीजकोशे रज्जौ कपर्दके’ । (२)द्वे पद्यबीजस्य ।”
वराटकः
- वटं वेष्टनमाकरोति । पचाद्यच् (३.१.१३४) ॥
वरारोहा वरेति । वर आरोहो नितम्बोऽस्याः ॥
वराशिः नेति । वरं श्रेष्ठं वरणं वा अश्नुते । इन् (उ० ४.११८) ‘वराशिर्ना’ इति तालव्यान्ते शाब्दिकः । ‘वरासिः स्यात्खङ्गवरे वरासिः स्थूलशाटके’ इति दन्त्यान्तेषु रभसः ॥
वराहः वरेति । वरं श्रेष्ठमाहन्ति । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘वराहो नाणके किरौ मेघे मुस्ते गिरौ विष्णौ’ इति हैमः ॥
वरिवस्या वेति । वरिवसः करणम् । ‘वरिवस्’शब्दः पूजार्थः । ‘नमोवरिवस्-’ (३.१.१९) इति क्यच् । ‘अ प्रत्ययात्’ (३.३.१०२) ॥
वरिष्ठम् “अतिशयेन वरम्, उरु, वा अतिशायने इष्ठन् (५.३.५५) । ‘प्रियस्थिर-’ (६.४.१५७) इत्युरोर्वर् । ‘वरिष्ठं ताम्रके क्लीबम्’ वर्गद्वितीयान्ते रुद्रः । ‘वरिष्ठं मरिचेऽपि च । ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु’ इति विश्वः (मेदिनी) ॥”
वरी वृणोति (गन्धेनेन्द्रियम्) । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) ॥
वरुणः व्रियते वृणोति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कृवृदारिभ्य उनन्’ (उ० ३.५३) । ’वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः । युचि (उ०२.७४) । ‘वरणः’ अपि । ‘वरं वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणे प्रोक्तस्तस्मात्स वरणः स्मृतः इति साम्बपुराणम् ।
वरुणः व्रियते वृणोति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कृवृदारिभ्य उनन्’ (उ० ३.५३) । ’वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः । युचि (उ०२.७४) ‘वरणः’ अपि । ‘वरं वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणे प्रोक्तस्तस्मात्स वरणः स्मृतः इति साम्बपुराणम् ।
वरुणः वरेति । वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । कर्तरि ल्युट् (३.३.११३) । करणे (३.३.११७) वा ॥ ‘कृवृदारिभ्य उनन्’ (उ० ३.५३) । ‘वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः’ ॥
वरुणात्मजा
- वरुणालयोऽपि वरुणः । तस्यात्मजा ॥
वरूथः व्रियते रथोऽनेन । ‘जॄवृञ्भ्यामूथन्’ (उ० २.६) । (‘वरूथो रथगुप्तौ स्यात्) वरूथं चर्मवेश्मनोः’ (इति मेदिनी) ॥
वरूथिनी वरूथाः सन्त्यस्याम् । इनिः (५.२.११५) ॥
वर्करः
- वेति । वर्कते । ‘वृक आदाने (भ्वा० आ० से०) । बाहुलकादरन् । ‘वर्करः परिहासे स्याच्छागे युवपशावपि’ इति विश्वः (मेदिनी) । ‘वर्करो मेषशावकः’ इति रक्षितः ॥
वर्गः वृन्देति । समूहविशेषा उच्यन्ते । सेति । समैरुपलक्षितम् । वृज्यते । ‘वृजी वर्जने’ (अ० आ० से०) । घञ् (३.३.१९) । कुत्वम् (७.३.५२) ॥
वर्चस्कः “वर्चते, वर्च्यते वा । ‘वर्च दीप्तौ’ (भ्वा० आ० से०) । असुन् (उ० ४.१८९) । कुत्सायां कन् (५.३.७४) ॥”
वर्णः वेति । वर्ण्यते । ‘वर्ण प्रेरणे’ (चु० प० से०) । घञ् (३.३.१९) । वर्णयति । अच् (३.१.१३४) वा । ‘वर्णो द्विजादि शुक्लादियज्ञे गुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने’ (इति मेदिनी) ॥
वर्णः व्रियतेऽनेन । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (उ० ३.१०) । यद्वा बहवो वर्णाः सन्त्यस्य । अर्शआद्यच् (५.२.१२७) । ‘वर्णाः स्वर्गे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्णं तु कुङ्कुमे’ इति हैमः ॥
वर्णकम् वर्णं करोति । ण्वुल् (३.१.१३३) ॥
वर्णी वेति । वर्णः स्तुतिरस्यास्ति । ‘वर्णाद्ब्रह्मचारिणि’ (५.२.१३४) इतीनिः । ‘वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि इति विश्वमेदिन्यौ॥
वर्तकः वर्तते ‘वृतु वर्तने’ । ण्वुल् (३.१.१३३) ॥
वर्तनम् वर्तन्ते जीवन्त्यनेन । ल्युट् (३.३.११७) । ‘वर्तनो वामने क्लीबं वृत्तौ स्त्री पेषणाध्वनोः । न पुंसि तूलनालायां तर्कुपिण्डे च जीवने । वर्तिष्णौ त्रिषु’ (इति मेदिनी) ॥
वर्तनी वर्तन्तेऽनया । ‘वृतेश्च (उ० २.१०६) इत्यनिः । वर्तनी पथि । वर्तने तर्कुपिण्डे च’ इति हैमः । ‘चात् (२.१०६ उणादिसूत्रेण) मुट्’ इत्येके । तत्र वर्मनि ॥
वर्तिः वर्त्यते । ‘वृतु वर्तने’ (भ्वा० आ० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । ‘वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु योषिति’ (इति मेदिनी) ॥
वर्तिका “उदीचां तु स्त्रियामित्त्वम् । प्राचां न (वा० ७.३.४५) । इति स्त्रियां रूपद्वयप्रदर्शनाय ‘वर्तिका’ ग्रहणम्, इति प्राञ्चः । वस्तुतस्तु ‘वृतेस्तिकन्’ (उ० ३.१४६) इति तिकन्नन्तस्य मूषिकवत् पुंस्यपि ‘वर्तिकः’ । इति रूपकथनमिदम् । ‘वर्तकस्तु खुरेऽश्वस्य विहगे वर्तिका द्वयोः’ (इति मेदिनी) ॥ आदिना शारिकादयो ज्ञेयाः ।”
वर्त्म वृत्तं तत् । वर्ततेऽत्र वर्तन्तेऽनेन वा । मनिन् (उ० ४.१४५)
वर्धकः वर्धते । ‘वृधु वृद्धौ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) ॥
वर्धकिः
- वर्धते । ‘वर्ध छेदने’ (चु० प० से०) । अच् (३.१.१३४) । वर्धं कषति । ‘कष हिंसायाम” (भ्वा० प० से०) । बाहुलकाड्डिः ॥
वर्धमानः वर्धते । ‘वर्ध छेदनपूरणयोः (चु० प० से०) । चानश् (३.२.१२९) । ‘वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु’ ॥
वर्धमानकः वर्धते । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । शानच् । (३.२.१२४) । शप् (३.१.६८) । मुक् (७.२.८२) । ‘संज्ञायां कन्’ (५.३.७५) ॥
वर्मन्म् वृणोति देहम् । ‘वृञ् वरणे’ (स्वा० उ० से०) । मनिन् (३.२.७५) ॥
वर्मितः वर्मणा नह्यते स्म । ‘सत्याप–’ (३.१.२५) इति णिच् । ‘णाविष्ठवत्’ (वा० ६.४.११५) इति टिलोपः । वर्म सञ्जातमस्य वा । तारकादित्वात् (५.२.३६) इतच् ॥
वर्या “व्रियतेऽनया । ‘अवद्यपण्य-’ (३.१.१०१) इत्यनिरोधे यत् । (‘वर्या पतिंवरायां स्त्री, वरेण्ये त्रिषु, ना स्मरे’ इति मेदिनी) ॥”
वर्वणा वर्वेति । ‘वर’ इति वणति । ‘वण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । यद्वा वर्वति । ‘वर्व गतौ (भ्वा० प० से०) । युच् (उ० २.७८) ॥
वर्वरः वर्वर्ति । ‘वृञ् वरणे’ (स्वा० उ० से०) ॥ यलुगन्तः । पचाद्यच् (३.१.१३४) ॥
वर्वरा वर्वेति । वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘कॄगॄ-’ (उ० २.१२१) इति ष्वरच् । अनित्यः षितां ङीष् । ‘वर्वरः पामरे केशे चक्रले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्’ (इति मेदिनी) ॥
वर्षम् ‘अज्विधौ भयादीनामुपसंख्यानम्’ (वा० ३.३.५६) इत्यचि वर्षम् । ल्युटि (३.३.११५) वर्षणमपि । न चाचा (‘नपुंसके क्तादिनिवृत्त्यर्थम् इति (३.३५६) भाष्योक्त्या क्तस्येव) ल्युटो बाधः । ‘वृषभो वर्षणात्’ (पस्पशायाम्) इति भाष्यप्रयोगात् । अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्’ इति शब्दार्णवः । वर्षस्तु समाद्वीपांशवृष्टिषु । वर्षवरेऽपि वर्षास्तु प्रावृषि इति हैमः ।
वर्षवरः वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) वरति । ‘वर आवरणे’ () वा । अच् (३.१.१३४) । वर्षस्य रेतःपातस्य वरः । ‘ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः’ ॥
वर्षा “वर्षं वर्षणमत्रास्ति । अर्शआद्यच् (५.२.१२७) । टाप् (४.१.४) । भूम्नि, बहुत्वे । तेन नित्यबहुवचनान्तः ।”
वर्षाभूः भेकीति । ‘वर्षाभ्वी’ इत्यसाधु । ङीब्विधायकाभावात् स्त्रियामपि ‘वर्षाभूः’ इत्येव । ‘भेक्यां पुनर्नवायां स्त्री वर्षाभूदर्दुरे पुमान् इति यादवः । अन्ये तु -गौरादित्वात् (४.१.४१) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः ‘वर्षाभ्वी’ इति दृश्यते ।
वर्षाभूः वर्षासु भवति । ‘भुव संज्ञान्तरयोः (३.२.१७९) इति क्विप् । ‘वर्षाभूः स्त्री च शोथघ्न्यां भूलताप्लवयोः पुमान्’ इति विश्वमेदिन्यौ ।
वर्षीयस् वेति । अतिशयेन वृद्धः । ‘द्विवचन-’ (५.३.५७) इतीयसुन् । ‘प्रियस्थिर-’ (६.४.१५७) इति वर्षादेशः ॥
वर्ष्मन्म् “वर्षति, वृष्यते, वा । ‘वृषु सेचने’ (भ्वा० प० से०) । मनिन् (उ० ४.१४५) ॥”
वलक्षः अवलक्ष्यते । घञ् (३.३.१९) । वष्टि भागुरिः-’ इत्यल्लोपः । यद्वा वलति । ‘वल चलने (भ्वा० प० से०) । क्विप् (३.२.१७८) । वल् । अक्षन्त्यस्मात् । अक्षू व्याप्तौ संघाते च (भ्वा० प० से०) । घञ् (३.३.१९) । वल् चासौ अक्षश्च । यद्वा वलं क्षायति । क्षै क्षये (भ्वा० प० अ०) । ‘आतोऽनुप -(३.१.३) इति कः ।
वलभी वलति । ‘वल संवरणे’ (भ्वा० प० से०) । बाहुलकादभच् । गौरादिः । ‘शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि’ इति रभसः ॥ वक्राणि दारूणि यस्मिन् ।
वलयः वलते । ‘बल संवरणे’ (भ्वा० आ० से०) । ‘वलिमलितनिध्यः कयन्’ (उ० ४.९९) । ‘वलयः कण्ठरोगे ना काङ्कणे पुंनपुंसकम्’ (इति मेदिनी) ॥
वलीकः वलीकेति । वलत्यावृणोति भित्यादि । अलीकादयश्च’ (उ० ४.२५) इति निपातः । ’वलीकः पटलप्रान्ते’ इति पुंस्काण्डे बोपालितात् पुंस्त्वमपि ॥
वलीमुखः वलीयुक्तं मुखमस्य । वली मुखेऽस्य-इति वा ॥
वल्कम् वलति । ‘वल संवरणे’ (भ्वा० आ० से०) । ‘शुकवल्कोल्काः’ (उ० ३.४२) इति कन् । यद्वा ‘वल्क परिभाषणे’ (चु० प० से०) । वल्कयति । पचाद्यच् (३.१.१३४) । (‘वल्कं वल्कलशल्कयोः’)॥
वल्कलम् “वलते । बाहुलकात्कलः । वल्कं लाति, इति तु स्वामी । यत्तु वलतेः कलच् – इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ॥”
वल्गितम् वल्गनम् । ’वल्ग गतौ’ । क्तः (३.३.११४) । (‘वल्गितं पुनः । अग्रकायसमुल्लासा- कुञ्चितास्यं नतत्रिकम्’ इति नाममाला) ॥
वल्मीकम् वलन्ते प्राणिनोऽत्र । अलीकादयश्च (उ० ४.२५) इति निपातितः । (‘व(ब)ल्मीको नाकुवाल्मीयो रोगभेदे’)
वल्लकी वल्लते । ‘वल वल्ल संवरणे’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । गौरादित्वात् (४.१.४२) डीष् ॥
वल्लरिः वल्लेति । वल्लते । ‘वल्ल संवरणे’ (भ्वा० आ० से०) । क्विप् (३.२.१८०) । ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अच इः (उ० ४.१३९) । वल् चासावरिश्च । यद्वा वल्लेः सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । वल्लमृच्छति । ‘अच इः’ (उ० ४.१३९) ॥
वल्लवः वल्लनम् । ‘वल्ल संवरणे’ (भ्वा० आ० से०) । ‘वल्लिः सौत्रो वा प्रीतौ । भावे घञ् (३.३.१८) । वल्लोऽस्यास्ति । ‘अन्येभ्योऽपि-’ (वा० ५.२.१०९) इति वः । वल्लं वाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘बल्लवः सूपकारे स्याद्भीमसेने च गोदुहि’ इति विश्वः ॥
वल्लवः “वल्लनम् । ‘वल्ल संवरणे’ (भ्वा० आ० से०) । घञ् (३.३.१८) । वल्लं वाति, वायति, वा । ‘वा गत्यादौ’ (अ० प० अ०) । ‘ओ वै शोषणे’ (भ्वा० प० अ०) वा । ‘आतः (३.२.३) इति कः ॥”
वल्ली वल्लीति । वल्लते । ‘वल वल्ल संवरणे’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । (‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष्) । -पचाद्यच् (३.१.१३४) । गौरादित्वात् (४.१.४१) ङीष् इति मुकुटोक्तिश्चिन्त्या । ‘वल्ली स्यादजमोदायां लतायां कुसुमान्तरे’ इति हैमः ॥ (वेल्ल (भ्वा० प० से०) धातोरिनि ‘वेल्लिः’ इत्यपि । अत एव) । ‘वल्ली तु वेल्लिः सरणौ’ इति वाचस्पतिः ।
वल्लूरः “वल्लते, वल्ल्यते वा ‘वल्ल संवरणे’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । ‘वल्लूरं स्याद्वनक्षेत्रे, वाहनोषरयोरपि । वल्लरा त्रिषु संशुष्कमांसशूकरमांसयोः’ इति मेदिनी ॥”
वल्वजः पुमिति । वलते । ‘वल संवरणे’ (भ्वा० आ० से०) । क्विप् (३.२.१७८) । वजति । ‘वज गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । वल् चासौ वजश्च । ‘एको वल्वजः’ इति (१.२.४५) सूत्रे भाष्यकारवचनादेकत्वेऽपि ॥
वशा उश्यते । ‘वश कान्तौ’ (अ० प० से०) । ‘वशिरण्योश्च’ (वा० ३.३.५८) इत्यप् । वष्टि वा । अच् (३.१.१३४) । ‘वशा नार्यां बन्धगव्यां हस्तिन्यां दुहितर्यपि’ (इति हैमः) । तालव्यशा । ‘वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च’ इति तालव्यान्तेषु विश्वात् ॥
वशा वेति । वष्टि । ‘वश कान्तौ’ (अ० प० से०) । अच् (३.१.१३४) । ‘वशो जनस्पृहायत्तेष्वायघ्नत्वप्रभुत्वयोः । वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि’ इति हैमः ॥
वषट्
- डषट् च ॥
वषट्कृतः ‘वषट्’ इति मन्त्रोपलक्षणम् । वषट्मन्त्रेण कृतं प्रक्षिप्तम् ॥
वष्कयिणी वष्कते । ‘वष्क गतौ’ (चु० उ० से०) । बाहुलकादयन् । वष्कयस्तरुणवत्सः । सोऽस्त्यस्याः ‘अतः-’ (५.२.११५) इतीनिः । ‘अट्कुप्वाङ्-’ (८.४.२) इति णत्वम् । -‘पूर्वपदात्-’ (८.४.३)—इति मुकुटस्य प्रमादः । समासाभावात् । यद्वा ‘वष्कयस्त्वेकहायनो वत्सः’ इति शाकटायनः । तेन नीयते । सम्पदादिः (वा० ३.३.१०८) । ‘सर्वतोऽक्तिन्नर्थात्’ (ग० ४.१.४५) इति ङीष् । गौरादित्वात् (४.१.४५) वा । ‘पूर्वपदात्’ (८.४.३) इति णत्वम् । अत्र पक्षे (वष्क यणी) इकाररहित उपान्त्यः ॥
वसनम् वस्यतेऽनेन । ल्युट् (३.३.११७) । ‘वसनं छादने वस्त्रे’ (इति मेदिनी) ॥
वसन्तः वसन्त्यत्र मदनोत्सवाः । ‘तॄभूवहिवसि- (उ० ३.१२८) इति झच् ।
वसवः वसन्तीति वसवः । ‘वस निवासे’ ‘शृ-स्वृ-स्निहि-त्रप्यसि-वसि-हनि-क्लिदि-बन्धि मनिभ्यश्च’ (उ० १.१०) इति उः । ‘विश्वस्य वसुराटोः (६.३.१२८) इति दीर्घा न । असंज्ञात्वात् । (‘वसुस्त्वग्रौ देवभेदे नृपे रुचौ । योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने’) ॥
वसा “वसति, वस्ते, वा । ‘वस निवासे’ (भ्वा० प० अ०) । ‘वस आच्छादने’ (अ० आ० से०) वा । अच् (३.१.१३४) ॥”
वसिरः “वस्ते । ‘वस आच्छादने’ (अ० आ० से०) । बाहुलकात्किरच् ॥ तालव्यपाठे तु वष्टि । ‘वश कान्तौ’ (अ० प० से०) । संज्ञापूर्वकत्वान्न सम्प्रसारणम् । ‘वशिरः पुमान् । किणिहीहस्ति पिप्पल्योः, ‘क्लीबेऽब्धिलवणे स्मृतम्’ (इति मेदिनी) ॥”
वसिरम् वसनम् । ‘वसु स्तम्भे’ (दि० प० से०) । इन् (उ० ४.११८) । वसिं राति ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘वश कान्तौ (अ० प० से०) । इन् (उ० ४.११८) । वशिं राति । ‘वशिरः पुमान् । किणिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः’ (इति मेदिनी) ॥
वसुः “वस्ते, वसति वा । ‘शृस्वृस्निहित्रप्यसिवसि-’ (उ० १.१०) इत्युः । ‘ब(व)सुर्ना देवभेदाग्निभायोक्रबकराजसु । (क्लीबं वृद्ध्यौषधेऽश्वे च रैरत्नमधुरे त्रिषु’) इति मेदिनी) ॥”
वसुः वसुः ।
वसुकः वसति । ‘वस निवासे’ (भ्वा० प० अ०) । ‘शॄस्वृस्निहि-’ (उ० १.१०) इत्युः । स्वार्थे कन् (५.३.७५) । ‘वसुकं रोमके पुंसि शिवमल्ल्यर्कपर्णयोः’ (इति मेदिनी) । -बाहुलकात् ‘भृमृ-’ इत्युः - इति मुकुटः । तन्न । उक्तसूत्रे वसतेर्ग्रहणात् ॥
वसुकम् “वसु कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इतिः कः । वस्वेव । यावादित्वात् (५.४.२९) कन् वा । वस्वस्त्यस्मिन् । व्रीह्यादित्वात् (५.२.११६) ठन् वा । ‘इसुसु-’ (७.३.५१) इति कः । ‘वसुकं रौमके, पुंसि शिवमल्ल्यर्कपर्णयोः’ इति विश्वः (मेदिनी) । ‘वस्तकम्’ इति पाठे वस्त इव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । अजगन्धित्वात् । ‘रौमके वस्तकं वसु’ इति नाममाला ॥”
वसुदेवः वसुषु दीव्यति । ‘दिवु क्रीडादौ” (दि० प० से०)। पचाद्यच् (३.१.१३४) यतु—‘वसुभिर्दीव्यति इति विगृह्य पचाद्यच् (३.१.१३४)-इत्याह मुकुटः । तन्न । ‘कर्मण्यण्’ (३.२.१) इत्यपवादस्य सत्त्वात् । ‘दिवः कर्म च’ (१.४.४३) इति कर्मकरणसंज्ञयोः समावेशस्य सत्वात् । वसूनि दीव्यतीति विग्रहस्य वैयथ्याच्च ।
वसुधा वसु दधाति । ‘आतोऽनुप’ (३.२.३) इति कः ॥
वसुन्धरा वसु धारयति । ‘संज्ञायां भृतॄवृजि-’ (३२.४६) इति खच् ‘खचि ह्रस्वः’ (६.४.९४)
वसुमती वसु धनमस्त्यस्याम् । मतुप् (५.२.९४)
वस्तः वस्तयति । ‘वस्त अर्दने’ (चु० आ० से०) चुरादिः । अच् (३.१.१३४) ॥
वस्तिः वस्यते । ‘वस आच्छादने’ (अ० आ० से०) । ‘वस स्नेहनादौ’ चुरादिः । चुरादीनां णिज्वा । ‘वसेस्तिः’ (उ० ४.१८०) । ‘वस्तिर्द्वयोर्निरूहे नाभ्यधो भूम्नि दशासु च’ (इति मेदिनी) ॥
वस्तिः “वेति । वसति मूत्रमत्र । यद्वा वस्ते, वस्यते, वा । ‘वस निवासे’ (भ्वा० प० अ०) । ‘वस आच्छादने’ वा । (अ० आ० से०) । ‘वसेस्तिः’ (उ० ४.१८०) - ‘दृवसिभ्यां क्तिन्-’ इति मुकुटस्त्वपाणिनीयः । ‘मूत्राशयपुटे वस्तिः’ इति रत्नमाला ॥”
वस्त्यम् वसनम् । ‘वस निवासे (भ्वा० प० अ०) । ‘वसेस्तिः’ (उ० ४.१८०) । तत्र साधुः। यत् (४.४.९८) । अप स्त्यायति संहतं भवति । स्त्यै ष्ट्यै शब्दसंघातयो’ (भ्वा० प० अ०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । पृषोदरादिः (६.३.१०९) । वष्टि भागुरिः’ इत्यल्लोपः — इति स्वामिमुकुटौ । तन्न । तत्रापस्याग्रहणात् । ‘कुलोदवसितं पस्त्यम्’ इति वाचस्पतिः ।
वस्त्रम् वेति । वस्यतेऽनेन । ‘वस आच्छादने’ (अ० आ० से०) । ष्ट्रन् (उ० ४.१५९) ॥ (१)
वस्त्रयोनिः त्वेति । त्वगादि । वस्त्रस्य योनिः कारणम् ॥
वस्नः वसत्यत्र । ‘धापॄवस्यज्यतिभ्यो नः’ (उ० ३.६) । ‘वस्त्रं वस्त्रे धने मूल्ये भूतौ’ इति हेमचन्द्रः ॥
वस्नसा अथेति । वस्ते शरीरम् । ‘वस आच्छादने’ (अ० आ० से०) । ‘धापॄवस्यज्यतिभ्यो नः’ (उ० ३.६) । वस्त्रं चर्म स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
वहः स्केति । वहति युगमनेन । ‘गोचरसञ्चर-’ (३.३.११९) इति साधुः । ‘वहः स्याद्वृषभस्कन्धे वाहे गन्धवहेऽपि च’ इति विश्वः (मेदिनी) ॥
वह्निः वहति हव्यम् । ‘बहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्’ (उ० ४.५१) इति निः । निच्च । (‘वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधे पुमान्’) ।
वह्निः वहति हव्यम् । ‘बहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्’ (उ० ४.५१) इति निः । निच्च । (‘वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधे पुमान्’) ।
वह्निशिखम् वह्निवत् शिखास्य ॥
वह्निसंज्ञकः वह्निः संज्ञा यस्य । वह्निपर्यायनामक इत्यर्थः ॥
वा – वा ।
वा
- क्विपि (३.२.१७८) तु वा ॥
वाः वारयति । वृञो ण्यन्तात् (३.१.२६) क्विप् (३.२.१७८) । वार् क्लीबमुक्तसंसारावर्तात् ।
वाकुची वातं कोचयति । ‘कुच शब्दे तारे’ (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५) कः । पृषोदरादिः (६.३.१०९) ॥ मुकुटस्तु–वाचं गुञ्जति । वागुजी’ इत्याह । ‘गुजि अव्यक्ते शब्दे’ (भ्वा० प० से०) । पूर्ववत् । गौरादिः (४.१.४१) ॥
वाक्यम् तिडन्तानां चयः ‘पचति पश्य’ ‘पचति भवति’ पाको भवतीत्यर्थः । सुबन्तानां चयः । प्रकृतिसिद्धमिदं हि महात्मनाम्’ इत्यादि । ‘भवति’ इत्यध्याहारस्य भाष्यकारमते आवश्यकत्वाभावात्स वाक्यम् । क्रियेत्यादि । वाशब्दः समुच्चये । कारकान्वितक्रियाबोधकम् ‘घटमानय’ इत्यादि तिङ्सुपचयात्मकमपि वाक्यम्’ इत्यर्थः । केचित्तु-भाष्यकारमतेन प्रथमः पक्षः ‘एकतिङ् वाक्यम्’ (वा० २.१.१) इति वार्तिकाभिप्रायेणापरा–इत्याहुः । यत्तु-पूर्वं शब्दात्मकस्य वाक्यस्य लक्षणम् । क्रिया-’ इत्यादि त्वर्थात्मकस्य-इत्याहुः । तत्तु वचोऽशब्दसंज्ञायाम्’ (७.३.६७) इति कुत्वनिषेधक- सूत्रस्याननुगुणम् । ‘उच्यते’ इति वाक्यम् । वचेः (अ० प० अ०) ण्यत् (३.१.१२४) । ‘चजोः-’(७.३.५२) इति कुत्वं । शब्दसंज्ञायाम् । अन्यत्र तु वाच्यम् । (‘वाक्यं तु कुत्सिते हीने वचनार्हे च वाच्यवत्’।
वागुरा
- वेति । अवा गुरते । ‘गुरी हिंसायाम्’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘वष्टि भागुरि-’ इत्यकारलोपः ॥
वागुरिकः
- द्वाविति । वागुरया (१) जालेन (२) च चरति । ‘चरति’ (४.४.८) इति ठक् ॥
वाचयमः वेति । वाचं यच्छति । ‘यम उपरमे’ (भ्वा० प० से०) । ‘वाचि यमो व्रते’ (३.२.४०) इति खच् । ‘वाचंयमपुरंदरौ च’ (६.३.६९) ॥
वाचस्पतिः वाचस्पतिरित्यत्र ‘षष्ठ्याः पतिपुत्र-’(८.३.५३) इति सत्वविधानात्षष्ठ्या अलुक् । लुक्पक्षे ‘वाक्पतिः’ अपि ।
वाचिकम् संदिष्टोऽर्थो ययोच्यते सा वाचिकम् । वाचो व्याहृतार्थायाम्’ (५.४.३५) इति ठक् ॥
वाच्/वाक् “उच्यते । वाक् । ‘वच परिभाषणे’ (अ० प० अ०) । क्विब्वचि-’ (वा० ३.३.१७८) इत्यादिना क्विप्, दीर्घोऽसंप्रसारणं च । (‘वाग्वाचे भारत्यां वचने स्त्रियौ)।”
वाजः वजत्यनेन । ‘वज गतौ’ (भ्वा० प० से०) ‘हलश्च’ (३.३.१२१) निष्ठायां सेट्त्वान्न कुत्वम् । वाजयति वा ण्यन्तः । पचाद्यच् (३.१.१३४) न्यङ्क्वादित्वात् (७.३.५३) अकुत्वम् इति मुकुटश्चिन्त्यः । (‘वाजो निस्वनपक्षयोः । वेगे पुमानथ क्लीबे घृतयज्ञात्रन्नवारिषु’ इति मेदिनी) ॥
वाजिदन्तकः वाजी दन्तोऽस्य । वाजिदन्ता भके सरत्वात् । तादृशपुष्पत्वाद्वा ॥
वाजिन् अवश्यं वजति । ‘वज गतौ’ (भ्वा० प० से०) । ‘आवश्यका- (३.३.१७०) इति णिनिः । यद्वा वाजाः पक्षा अभूवन् यस्य । इनिः (५.२.११५) । ‘वाजी बाणाश्वपक्षिषु’ (इति मेदिनी) ॥
वाजिशाला वाजीति । वाजिनां शाला ॥
वाजी वाजाः पक्षाः सन्त्यस्य । इनिः (५.२.११५) । (‘वाजी वाणाश्वपक्षिषु’ इति मेदिनी) ॥
वाञ्छा काक्षि वाच्छि इच्छायाम् (भ्वा० प० से०) । ‘गुरोश्च’ (३.३.१०३) इत्यः॥
वाट्यालकः वाटीमलति । ‘अल भूषणादौ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) । वाट्या आलकः ॥
वाडवः ‘वडवा कुम्भदास्यश्वा स्त्रीविशेषो द्विजन्मनाम्’ इति रभसः । वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम्’ इति विश्वः) । वडवायां जातः । तत्र जातः (४.३.२५) इत्यण् । वाडव इव वा । वाडनम् । ‘वाडृ आप्लाव्ये (भ्वा० आ० से०) । घञ् (३.३.१८) । वालनम् । वल निरूपणे’ चुरादिर्वा । घञ् (३.३.१८) । डलयोरेकत्वम् । वाडोऽस्यास्ति । ‘अन्यत्रापि (न्येभ्योऽपि) दृश्यते’ (वा० ५.२.१०९) इति वः । वाडं वाति । कः (३.२.३) वा । ‘वाडवं करणे । स्त्रीणां घोटिकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले’ इति मेदिनी ॥
वाडवम् वेति । वडवानां समूहः । ‘खण्डिकादिभ्यश्च’ (४.२.४५) इत्यञ् । ‘वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले’ (इति मेदिनी) ॥
वाणा नीलेति । वण्यते । ‘वण शब्दे’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘वाणा तु बाणमूले स्त्री नीलझिंट्यां पुनर्द्वयोः’ (इति मेदिनी) ॥
वाणिः
- वेति । वाणनम् । ‘वण शब्दे’ चुरादिः । ‘अच इः’ (उ० ४.१३९ ) ॥
वाणिजः पणते । ‘पण व्यवहारे स्तुतौ च’ (भ्वा० आ० से०) । ‘पणतेरिज्यादेश्च वः’ (उ० २.७०) । प्रज्ञाद्यण् (५.४.३८) ॥
वाणिज्यम् कर्म भावो वा । ष्यञ् (५.१.१२४) । ‘दूतवणिग्भ्यां च’ इति यप्रत्यये ‘वणिज्या’ च । (‘सत्यानृतं तु वाणिज्यं वणिज्या’ इति हैमनाममाला ॥
वाणिज्यम् वेति । वणिजां कर्म । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् ॥
वाणी वण्यते । ‘वण शब्दे’ (भ्वा० प० से०)। इञ् (वा० ३.३.१०८) । ‘वाणिरम्बुदे । व्यूतौ मूल्ये सरस्वत्याम्’ इति हैमः । ‘वाणिः स्याद्दूति भारत्योर्वाणि मूल्ये बलाहके’ इति विश्वः) कृदिकारात्- (ग० ४.१.४५) इति ङीष् । घञि (३.३.१९) । गौरादित्वात् (४.१.४१) वा ।।
वातः वाति । ‘हसिमृग्रिण् - (उ० ३.८६) इति तन् । क्तिच्क्तौ च सज्ञायाम्’ (३.३.१७४) इति क्तिचि ‘वातिः अपि । वायुर्मरुत्वाञ्श्वसनः पवनो मरुतोऽनिलः नभस्वान् क्षिपणुर्वातिः शुषिणो नघटो वहः’ इति साहसाङ्कः ।
वातकः स्यादिति । वातं करोति ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
वातकी वातेति । वातोऽतिशयितोऽस्य । ‘वातातीसाराभ्यां कुक् च’ (५.२.१२९) इतीनिः ॥
वातपोथः वातं पोथयति । ‘पुथ हिंसायाम्’ (दि० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
वातप्रमी वातेति । वातं प्रमिमीते – वाताभिमुखधावनात् । ‘वातप्रमीः’ इत्युणादिसूत्रेण माङ ईप्रत्ययः कित् । ‘वातप्रमीर्वातमृगः’ इति पुंस्काण्डेऽमरमाला । ‘योषिति वातप्रमीः समीरमृगः’ इति बोपालितात् स्त्रीत्वमप्यस्य - कृदिकारात्’ (ग० ४.१.४५) इति वा ङीष् इत्येके । अन्ये तु कारग्रहणस्य तपरार्थत्वाद्दीर्घान् ङीष् न — इत्याहुः ॥
वातमृगः वात इव वातस्य वा मृगः ॥
वातरोगी वातरोगोऽस्यास्ति । ‘द्वन्द्वोपताप-’ (५.२.१२८) इतीनिः ॥
वातायनम् वातेति । ईयतेऽनेन । ‘इण् गतौ’ (अ० प० अ०) । करणे ल्युट् (३.३.११८) । युच् (उ० २.७८) वा । वातस्यायनम् ॥
वातायुः वातमयते । ‘अय गतौ’ (भ्वा० आ० से०) । बाहुलकादुण् ॥ ‘वानायुः’ इत्येके । वनभवमयते ॥
वात्सकम् वेति । वत्सानां समूहः । ‘गोत्रोक्षोष्ट्र-’ (४.२.४९) इति वुञ् ॥
वादित्रम् ‘भूवादिदृग्भ्यो णित्रन्’ (उ० ४.१७१) ।
वाद्यम् चतुरिति । इदं ततादि चतुर्विधं वाद्यादित्रिकनामकम् । वाद्यते ध्वन्यते । वदेः (भ्वा० प० से०) ण्यन्तात् (३.१.२६) अचो यत्’ (३.१.९७) ।
वानप्रस्थः वनप्रस्थे वनैकदेशे भवः । तत्र भवः’ (४.३.५३) इत्यण् । ‘वानप्रस्थो मधूकेऽपि स्यात्तृतीयाश्रमे पुमान्’ ॥
वानप्रस्थः “वनमेव प्रस्थो, वनस्य वा प्रस्थः प्रदेशः वनप्रस्थे भवः । तत्र भवः’ (४.३.५२) इत्यण् ॥”
वानम् शुष्क इति । ‘फले’ इत्येव ॥ वायति स्म । ‘पै ओवै शोषणे’ (भ्वा० प० अ०) । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति कर्तरि क्तः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । वन्यते । ‘वनु याचने’ (त० आ० से०) । घञ् (३.३.१८) वा । ‘वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंप्लुतवातोर्मिसुरङ्गासौरभेषु च’ इति हैमः ॥
वानरः वने भवं फलादि । अण् (४.३.५३) । वानं राति । ‘रा आदाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । वानम् । ‘वा गत्यादौ (अ० प० से०) । सम्पदादि क्विप् (वा० ३.३.१०८) । विगमनेऽपि नृणाति बालकम् । ‘नृ नये’ (क्र्या० प० से०) । अच् (३.१.१३४) । वा किंचित् नरो वा ॥
वानस्पत्यः वानेति । वनस्य पतिः । ‘पारस्करप्रभृतीनि’ (६.१.१५७) इति सुट् । वनस्पतौ भवः । दित्यदित्या-’ (४.१.८५) इति । ण्यः पुष्पाज्जातैः फलैर्हेतुभिः ॥
वानीरः वायति । ‘ओवै शोषणे’ (भ्वा० प० अ०) । क्विप् (३.२.१७८) । वां शुष्कम् आ समन्तात्रीरमस्य ॥
वानेयम् वने पानीये जायते । ‘नन्द्यादित्वात्’ (४.३.९७) ढक् ॥ वन्यं च । ‘परिपेलवं प्लवं वन्यं तत् कुटन्नटसंज्ञकम् । जायते मण्डूकाकारं शैवालदलसंचये । कैवर्तीमुस्तके क्लीबं शोणके वा कुटन्नटः’ इत्यजयः ॥
वापदण्डः
- वपनम् । ‘डुवप्’ (भ्वा० उ० अ०) । घञ् (३.३.१८) । वापस्य दण्डः । ‘वायदण्डः’ इति क्वचित् पाठः । तत्र वेजो भावे घञ् । ‘आतो युक्’ (७.३.३३) । वायस्य दण्डः ॥
वापी वापीति । उप्यते पद्माद्यस्याम् । ‘डुवपँ बीजतन्तुसंताने (भ्वा० उ० अ०) । ‘वसिवपियजिराजि - (उ० ४.१२५) इतीञ् । ‘कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । वाप्यां वापिरपि स्मृता’ इति द्विरूपकोषः ।
वामदेवः “वामयति दुष्टानां मदमिति वामः । टुवम् उद्गिरणे (भ्वा० प० से०) । णिच् (३.१.२६) पचाद्यच् (३.१ १३४) । वामश्चासौ देवश्च । लोकविपरीतत्वाद्वा वामः (‘वामं धने, हरे पुंसि कामदेवे पयोधरे’) यत्तु घञि (३..१८, १९) नोदात्तोपदेश-’ (७.३.३४) इत्यादिना वृद्धिनिषेधे प्राप्ते ‘अनाचमेः’ (७.३.३४) इति कम्यमिवमि-’ इत्यादिना निषेधः, इति मुकुटेनोक्तम् । तन्न । कर्तरि घञोऽसम्भवात् । भवादौ सम्भवेऽपि देवेन सामानाधिकरण्यासम्भवात् । लोका- चारविपरीतत्वाद्वामो देवः क्रीडा यस्येति वा समाधेयम् । वामेषु श्रेष्ठेषु देवो द्योतो यस्येति वा ।”
वामनः खर्वत्वाद्वामनः (वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे । हरावङ्कोटवृक्षे) ।
वामनः वामयति । ‘टुवम उद्गिरणे’ (भ्वा० प० से०) । नन्द्यादिल्युः (३.१.१३४) । ल्युट् (३.३.११४) वा । ‘मितां ह्रस्वः’ (६.४.९२) इत्यत्र ‘वा चित्तविरागे’ (६.४.९१) इत्यतो ‘वा’ इत्यनुवर्तते इति वृत्तिकृत् । ‘वामनो नीचि खर्बे च त्रिषु पुंसि तु दिग्गजे । हरावङ्कोटवृक्षे’ (इति मेदिनी) । –वामोऽस्यास्ति । पामादित्वात् (५.२.१००) नः - इति स्वामी । -स्त्रियां वामनी-इति मुकुटः ॥
वामलूरः वामेति । वामैर्वामं वा लूयते । ‘लूञ् छेदने (क्र्या० उ० से०) । बाहुलकाद्रक् ॥
वामलोचना वामः कामो लोचने आलोचने नेत्रे वास्याः । यद्वा वामे सुन्दरे लोचने तक्षुषी यस्याः ॥
वामा वमति स्नेहम् । ‘टुमव उद्गिरणे’ (भ्वा० प० से०) । ज्वलादित्वात् (३.१.१४०) णः । यद्वा वामः कामोऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । ‘वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु नार्यां स्त्रियाम्’ (इति मेदिनी) ॥
वामी वेति । वामयति । ‘टु वम उद्गिरणे’ (भ्वा० प० से०) । स्वार्थण्यन्तः । अच् (३.१.१३४) । ‘मितां ह्रस्वः’ (६.४.९२) इत्यत्र ‘वा’ इत्यनुवृत्तेर्न ह्रस्वः । गौरादिः (४.१.४१) । यद्वा वं वरुणममति । तेनाम्यते वा । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.३.१) । घञ् (३.३.१९) वा । मुकुटस्तु वमत्युद्गिरति गर्भम् । ‘ज्वलिति-’ (३.१.१४०) इति णः –इत्याह । तन्न । ‘नोदात्तोपदेशस्य-’ (६.३.३४) इति वृद्धिनिषेधात् । ‘वामी शृगालीवडवारासभीकरभीषु च’ । (इति मेदिनी) ॥
वायसः वयते । ‘वय गतौ’ (भ्वा० आ० से०) । ‘वयश्च’ (उ० ३.१२०) इत्यसच् । —वयति इति मुकुटश्चिन्त्यः । वयतेरात्मनेपदित्वात् । ‘वायसोऽगुरुवृक्षेऽपि श्रीवासध्वाङ्क्षयोः पुमान्’ (इति मेदिनी) ॥
वायसारातिः वायसस्य काकस्यारातिः ॥
वायसी वायसानामियम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘काकोदुम्बरिकायां च काकमाच्यां च वायसी’ (इति मेदिनी) ॥
वायसोली वायेति । वायसान् ओलण्डति । ‘ओलडि उत्क्षेपणे’ (चु० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । शकन्ध्वादिः (वा० ६.१.९४) ॥
वायुः वाति । वा गतिगन्धनयोः’ (अ० प० अ०) । कृवापाजि-’ (उ० १.१) इत्युण् । आतो युक् (७.३.३३) इति युक् ।
वायुसखः वायोः सखा । ‘राजाहः सखिभ्यष्टच्’ (५.४.९१) । वायुः सखास्येति (वायुसखा) वा । अस्मिन्पक्षे टजभावात् अनङ् सौ’ (७.१.९३) इत्यनङ् ।
वारः वार्यते आच्छाद्यतेऽनेन । ‘वृ वरणे’ चुरादिः । ‘पुंसि-’ (३.३.११८) इति घः । ‘वारः सूर्यादिवासरे । द्वारे हरे कुब्जवृक्षे वृन्दावसरयोः क्षणे’ (इति मेदिनी) ॥
वारणः वारयति शत्रुबलम् । ल्युः (३.१.१३४) ‘वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे’ इति विश्वः ॥
वारणवुसा वारणानां वुसा । वुस्यति वुस्यते वा। ‘वुस उत्सर्गे’ (दि० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । भिदाद्यङ् (३.३.१०४) वा । ‘घञर्थे कः’ इति परिगणनान्नेह प्रवर्तते ॥ ‘वुषा’ इति मूर्धन्यान्तः इति केचित् ॥
वारबाणः “बाणं वारयति, वृणोति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । ण्यन्तो वा । ‘कर्मण्यण्’ । (३.२.१) । (मयूरव्यंसकादित्वात् ‘२.१.७२’) । राजदन्तादित्वात् (२.२.३१) वा परनिपातः । यद्वा वारमाच्छादकं वानमस्य । ‘पूर्वपदात्’ (८.४.३) इति णत्वम् ॥”
वारमुख्या अथेति । वारे वेश्यावृन्दे मुख्या ॥
वारस्त्री वारेति । वारस्य वृन्दस्य स्त्री साधारणत्वात् ॥
वाराही वराहस्येयम् । प्रियत्वात् । ‘तस्येदम् (४.३.१२०) इत्यण् । ‘वाराही मातृभेदे स्याद्विष्वक्सेनप्रियौषधौ’ (इति मेदिनी) ॥
वारि ‘वसिवपि-’(उ० ४.१२५) इतीञि वारि च । (‘वारि ह्रीबेरनीरयोः । वारिर्घट्यां सरस्वत्यां । गजबन्धनभुव्यपि’)
वारिदः वारि ददाति । आतोऽनुप-’ (३.२.३) इति कः । (जलदतोयदादीनामप्युपलक्षणम् । ‘जलदो मुस्तके मेघे । तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम्’ ।
वारिपर्णी वारीति । वारिणि पर्णान्यस्याः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् । यद्वा वारि पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘थापॄवस्यज्यतिभ्यो नः’ (उ० ३.६) । ‘जाते-’ (४.१.६३) इति ङीप् । अत एव ‘कुम्भीको वारिपर्णः स्यात्-’ इत्येके पठन्ति ।
वारिप्रवाहः वारीति । वारिणः प्रवाहः । निर्झरणम् । झॄष् वयोहानौ (दि० प० से०) । ‘ॠदोरप्’ (३.३.५७) । यत्तु निर्झरन्त्यनेन-इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तन्न । करणेऽपोदुर्लभत्वात् । ल्युटा बाधात् । शबपि दुर्लभः । झॄपो दैवादिकत्वात् ॥
वारिवाहः वारि वहति । ‘कर्मण्यण्’ (३.२.१)
वारी वेति । वार्यतेऽनया । ‘वृञ्’ (स्वा० उ० से०) । ण्यन्तः । ‘वसिवपियजि-’ (उ० ४.१२५) इतीञ् । ‘वारी स्याद्गजबन्धन्यां कलश्यामपि योषिति । वारिर्वाग्गजबन्धन्योः स्त्री क्लीबेऽम्बुनि बालुके’ (इति मेदिनी) ॥
वार्तः वेति । वृत्तिरस्यास्ति । ‘वृत्तेश्च’ (वा० ५.२.१०१) णः । ‘वार्ता तु वने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारारोग्ययोः क्लीबं वृत्तिमन्नीरुजोस्त्रिषु’ (इति मेदिनी) ॥
वार्ता वृत्तिर्लोकवृत्तम् । तदस्त्यस्याम् । ‘वृत्तेश्च’ (वा० ५.२.१०१) इति वार्तिकेन णः । यत्तु—‘प्रज्ञाश्रद्धा (५.२.१०१) इत्यादिना णः इति मुकुटेनोक्तम् । तन्न । ‘तत्र वृत्तिशब्दस्य पाठोऽप्रामाणिकः इत्युक्तवार्तिकेनैव ज्ञापितत्वात् । ‘वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारारोग्ययोः क्लीबम्’ ।
वार्ता वृत्तिरस्त्यस्याम् । ‘वृत्तेश्च’ (वा० ५.२.१०१) इति णः । ‘वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारारोग्ययोः क्लीबे (वृत्तिमन्नीरुजोस्त्रिषु)’ इति मेदिनी ॥
वार्ताकी वार्तेति । वार्तमारोग्यमाकयति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) ण्यन्तः । ‘कर्मण्यण्’ (३.२.१) । फल्गु अकं यस्याः । ‘जातेः’ (४.१.६३) इति ङीष् । ‘वातिङ्गणस्तु वार्ताङ्गो वार्ताकः शाकबिल्वकः’ इति रभसात् पुंस्यपि ॥ ‘वार्ता वातिङ्गणे वृत्तौ इति विश्वाद् ‘वार्ता अपि ॥ ‘वार्ताकरेषा गुणसप्तयुक्ता’ इति वैद्यकात् (‘वातिङ्गणश्च वार्ताकुः’ इति त्रिकाण्डशेषाच्च) । वार्ताकुः’ अपि ॥
वार्तावहः
- वेति । वार्ताया वहः ॥
वार्धकम् वृद्धानां समूहः । ‘वृद्धाच्च’ (वा० ४.२.३९) इति वुञ् । भावकर्मणोस्तु मनोज्ञादित्वात् (५.१.१३३) वुञ् । अपिशब्दाद्वृद्धत्वेऽपि । वार्धकशब्दात् चतुर्वर्णादित्वात् । (वा० ५.१.१२४) स्वार्थे ष्यञि ‘वार्धक्यम्’ अपि । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः ॥
वार्धुषिः पृषोदरादित्वात् (६.३.१०९) कलोपे वार्धुषिः ॥
वार्धुषिकः वृद्धिं गर्ह्यां प्रयच्छति । ‘प्रयच्छति गर्ह्यम्’ (४.४.३०) इति ठक् । ‘वृद्धेर्वृधुषिभावः’ (वा० ४.४.३०) ॥
वार्षिकम् वेति । वर्षासु ‘भवं जातं वा । ‘वर्षाभ्यष्ठक्’ (४.३.१८) । ‘वार्षिकं त्रयमाणायां क्लीबं वर्षाभवे त्रिषु’ (इति मेदिनी ॥
वालम् वेति । वालयति । ‘वल संवरणे’ (भ्वा० आ० से०) । ण्यन्तः । पचाद्यच् (३.१.१३४) । ‘बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । वाच्यलिङ्गोऽर्भके मूर्खे ह्रीबेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम्’ (इति स्पर्शादौ मेदिनी) ॥
वालेयः वलय उपसंहाराय संहितः ‘छदिरुपधि-’ (५.१.१३) | इति ढञ् । वलेरपत्यम् । ‘इतश्चानिञः’ (४.१.१२२) इति ढग् वा । ‘बालेयो गर्दभे पुंसि मृदौ वलिहिते त्रिषु’ इति (मेदिनी) ॥
वाल्कः देति । वक्ष्यमाणानि तन्त्रकान्तानि दश ॥ वेति । वल्कस्य विकारः । ‘तस्य विकारः’ (४.३.१३४) इत्यण् ॥ क्षुमाया विकारः प्राग्वत् । क्षौमादि वाल्कम् । ‘क्षौमं वल्कलजांशुके । शणजेऽतसीजे’ (इति मेदिनी) ।
वाल्हीकम् वल्हीकेषु भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ह्रस्वमध्यमपि । (अथ) वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् । (वाल्हीकवत्) (इति हैमः) ॥
वाशिका वाश्यते । ‘वाशृ शब्दे’ (दि० आ० से०) । ‘गुरोश’ (३.३.१०३) इत्यः । स्वार्थे कन् । यद्वा उश्यते । ‘वश कान्तौ’ (अ० प० से०) । ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल् ॥ दन्त्यान्तोऽपि । वासयति । पचाद्यच् (३.१.१३४) । ‘वासो गृहेऽप्यवस्थाने वासा स्यादटरूषके इति रुद्रः ॥
वाशितम् तिरश्चामिति । तिरोऽञ्चन्ति ते तिर्यञ्चः । तेषां यदृतम् तद्वाशितम् । ‘वाशु शब्दे’ (दि० आ० से०) तालव्यान्तः । भावे क्तः (३.३.११४) । ‘वासिता करिणीनार्योर्वाशितं भाविते रुते’ । (‘वासिता करिणीनार्योवासितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते’) इति विश्वकोषादिदर्शनेन तु दन्त्यवानपि ॥
वासः वसन्त्यत्र । ‘हलश्च’ (३.३.१२१) घञ् । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके’ इति हैमः ।
वासकः वासयति ण्वुल् (३.१.१३३) । वस्ते आच्छादयति वा ॥
वासगृहम् वासस्य गृहम् ॥
वासन्ती वसन्ते पुष्प्यति । ‘कालात्साधुपुष्प्यत्-’ (४.३.४३) इत्यण् । ‘वासन्ती माधवीयूथ्योरुष्ट्रे नावहिते त्रिषु’ (इति मेदिनी) ॥
वासयोगः वासे सुगन्धीकरणे योगा उपायाः ॥
वासरः वासयति । वसतेर्ण्यन्तात् ‘अर्तिकमिभ्रमि - (उ० ३.१३२) इत्यरप्रत्ययः । वासरस्तु पुमान्नागप्रभेददिनयोरपि’ ।
वासवः वसवो देवा वसूनि रत्नान्यस्य वा सन्ति । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् । वसोरपत्यमिति वा । दैत्यानां वासं वाति वा । ‘वा गतिगन्धनयोः’ (अ० प० अ०) कः (३.२.३) ।
वासस्म् वस्यतेऽनेन । ‘वसेर्णित्’ (उ० ४.२१७) इत्यसुन् ॥
वासितम् वास्यते स्म । ‘वस स्नेहनादौ’ (चु० उ० से०) । क्तः (३.२.१०२) ‘वासितं भाविते रुते’ इति मेदिनी ॥
वासितम् वास्यते स्म । ‘वास उपसेवायाम्’ (चु० उ० से०) । क्तः (३.२.१०२) । ‘वासिता करिणीनार्योर्वासितं भाविते रुते’ (इति मेदिनी) ‘अथ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता । स्त्रीकरिण्योः’ इति हैमः ॥
वासुकिः वासुकिरिति । वसु रत्नं के मूर्ध्नि यस्य । वसु कायति वा । कै शब्दे’ (भ्वा० प० अ०) । कः (३.२.३) । वसुकः। तस्यापत्यम् । ‘अत इञ् (४.१.९५) ॥
वासुदेवः वसुदेवस्यापत्यम् । ऋष्यन्धक-’ (४.१.११४) इत्यण् । यद्वा वसतीति वासुः बाहुलकादुण् । वासुश्चासौ देवश्च सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति । विद्वद्भिः परिगीयते’ इति विष्णुपुराणात् । वसुदेवे शुद्धान्तःकरणे प्रकाशते इति वा । ‘शेषे’ (४.२.९२) इत्यण् । वासुरपि । ‘वासुर्नरायणपुनर्वसुविश्वरूपाः इति त्रिकाण्डशेषात् ॥
वासूः अथेति । बाला कुमारी वासूः वास्यते स्वगृहे । वसेः (भ्वा० प० अ०) ण्यन्ताद्वाहुलकादूः
वास्तु वसन्त्यत्र । ‘वसेस्तुन्नगारे णिच्च’ (उ० १.७०) इति तुन् । (‘वास्तु स्याद्गृहभूपुंयोर्गृहे सीमसुरङ्गयोः ॥
वास्तूकम् वेति । वसति देहे । चिरं गुणा वाऽस्मिन् वसन्ति । ‘वस निवासे (भ्वा० प० अ०) । ‘उलूकादयश्च’ (उ० ४.४१) इति साधु ॥ वास्तौ भवम् । अध्यात्मादिठञ् (वा० ४.३.६०) । इसुसुक्-’ (७.३.५१) इति कः । एवं (वास्तुकम्) ह्रस्वमध्यमपि ॥
वास्तोष्पतिः वास्तोर्गृहक्षेत्रस्य पतिरधिष्ठाता । ‘वास्तोष्पतिर्गृहमेधाच्छ च’ (४.२.३२) इति निपातनादलुक् षत्वं चेत्येके । इणः परत्वात् ‘कस्कादिषु च ८.३.४८) इति षत्वम् । यत्तु मुकुटः ‘षष्ठ्याः पतिपुत्र-’ (८.३.५३) इति सत्वे इणः परत्वान्मूर्धन्य इति । तन्न । तत्र छन्दोऽधिकारात् । ‘अपदान्तस्य’ (८.३.५५) इत्यधिकारात् ॥
वास्त्रः रेति । रथानां समूहः । ‘खलगोरथात्’ (४.२.५०) इति यत् । ‘रथ्यो रथांशे रथवोढरि । रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे’ इति हैमः ॥
वाहः उह्यते । अनेन वा । ‘वह प्रापणे’ (भ्वा० उ० अ०) । कर्मणि करणे वा घञ् (३.३.१९) । वाह्यते वा । ण्यन्तः । अच् (३.३.५६) वाहते । ‘वाहृ प्रयत्ने’ (भ्वा० आ० से०) । अच् (३.१.१३४) । वाहो भुजे पुमान्मानभेदाश्ववृषवायुषु’ (इति मेदिनी) ॥
वाहः वाहः ।
वाहद्विषत् वाहानां द्विषन् । वाहेषु द्विषन् वा । ‘सप्तमी (२.१.४०) इति योगविभागात् समासः ॥
वाहनम् सेति । सर्वं हस्त्यश्वरथादिदोलान्तम् । वाहयति । वहेः स्वार्थण्यन्तात्कर्तरि ल्युट् (३.३.११३) । अन्ये तु-वहत्यनेन । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘वाहनमाहितात्’ (८.४.८) इति निपातनाद्दीर्घः-इत्याहुः ॥
वाहसः वहति । वहियुभ्यां णित् (उ० ३.११९) इत्यसच् । णित्वाद्वृद्धिः । वाहं गतिं स्यति इति वा । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘वाहसोऽजगरे वारिनिर्याणसुनिषण्णयोः’ इति हैमः
वाहित्थम् अध इति । कुम्भोऽत्र वातकुम्भः । ‘वाहित्यं वातकुम्भाधः इति भागुरिः । स च ललाटाधोभागः । (कुम्भयोरन्तरं विदुः । वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः’ इति हैमनाममाला) । अवश्यं वहति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । स तिष्ठत्यत्र । ‘घञर्थे कः’ (वा० ३.३.५८) । पृषोदरादित्वात् सस्य तः ॥
वाहिनी वाहाः सन्त्यस्याम् ॥
वाहिनी वाहाः सन्त्यस्याम् ॥
वाहिनीपतिः वाहिन्याः पतिः ॥
विः वाति । ‘वा गतौ’ (अ० प० अ०) । ‘वातेर्डिच्च’ (उ० ४.१३४) इतीण् । -‘वेञो डित्’ (उ० ४.७२)-इति स्वामिमुकुटौ चिन्त्यौ । ईचिप्रत्ययप्रकरणेऽस्य पाठाद् ‘वीचिः’ इति रूपापत्तेः ॥
विकङ्कतः विकङ्कते । ‘ककिर्गत्यर्थः (भ्वा० आ० से०) । अतच् प्रत्ययः ॥
विकचः कचति । कच बन्धने’(भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । विगतः कचोऽस्मात् । विकचः क्षेपणे केतौ ना केशे स्फुटितेऽन्यवत् ॥
विकर्तनः विशेषेण कर्तनं यस्य । विश्वकर्मणा यन्त्रोल्लीढत्वात् । विकर्तयति भक्तरोगान् इति वा । ‘कृती छेदने’ (रु० प० से०) । णिजन्ताल्ल्युट् (३.३.११३) ।
विकलाङ्गः वीति । विकलमङ्गमस्य ॥
विकसा विकसति । ‘कस गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४)॥–विकषति । ‘कष हिंसायाम् (भ्वा० प० से०) । (विकषा) - इति मुकुटः ॥
विकसितः व्यकासीत् । ‘कस गतौ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः ।
विकिरः विकिरति । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
विकीरणः “विकिरति । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कॄपॄ -’ (उ० २.८१) इति क्युन् । इत्वम् (७.१.१००) रपरत्वम् (१.१.५१) । बाहुलकादीर्घः ॥ विविधः किरणोऽस्य, इत्यन्ये ॥”
विकृतः विक्रियते स्म । क्तः (३.२.१०२) । ‘विकृतो रोग्यसंस्कृतः’ । ‘बीभत्सश्च’ इति हैमः ॥
विकृतम् विकरणम्–विकृतम् । जुगुप्साप्रभवत्वात् । विष्ठाकामज उद्वेगी क्षोभणो रुधिरादिजः । बीभत्सो द्विविधः । बीभत्सादिद्वयं तद्वति त्रिलिङ्गम् । प्रज्ञाद्यणि (५.४.३८) वैकृतोऽपि । विकृतो वैकृतो ऽथाग्रहायण्यामग्रहायणम्’ इति शब्दार्णवात् । विकृतं त्रिषु बीभत्से रोगितेऽसंस्कृतेऽपि च’ इति विश्वः ।
विक्रमः वीति । विक्रमणम् । घञ् (३.३.१८) । ‘विक्रमस्तु पुमान्क्रान्तिमात्रे स्याच्छक्तिसम्पदि’ (इति मेदिनी) ॥
विक्रयः विक्रयणम् । ‘एरच्’ (३.३.५६) ॥
विक्रयिकः विक्रयेण जीवति । ‘वस्नक्रयविक्रयाट्ठन्’ (४.४.१३) ॥
विक्रान्तः विक्रामति स्म । ‘क्रमु पादविक्षेपे’ (भ्वा० प० से०) ‘गत्यर्था-’(३.४.१२) इति क्तः ॥
विक्रेता वीति । विक्रीणाति । ‘डुक्रीञ् द्रव्यविनिमये’ (क्र्या० उ० अ०) । तृच् (३.१.१३३) ॥
विक्रेयम् वीति । विक्रीयते । ‘अचो यत्’ (३.१.९७) ॥
विगतार्तवा विगतमार्तवं रजोऽस्याः ॥
विग्रः विग्रेति । विगता नासिका यस्य । ‘प्रादिभ्यो धातुजस्य’ (२.२.२४) इति समासः । ‘वेर्ग्रो वक्तव्यः’ (वा० ५.१.११९) । ‘खुख्रौ च’ इति शाकटायनः । ‘ख्यश्च’ (वा० ५.४.११८) । ‘विखुः’ ‘विखः’ ‘विख्यः’ । ‘विग्रो विखुर्विनासिकः’ इति रभसः । विनसा हतबान्धवा इति तु टे ‘पद्दन्नस्–’ (६.१.६३) इति नस् । ‘विगतया नासिकयोपलक्षिता’ इत्यर्थः ॥
विग्रहः विविधं सुखादि गृहाति । अच् (३.१.१३४) विविधैर्व्याधिभिर्गृह्यते वा । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘विग्रहः कायविस्तारविभागे ना रणेऽस्त्रियाम्’ (इति मेदिनी) ॥
विग्रहः विग्रहणम् । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । विग्रहो युधि विस्तारे प्रविभागशरीरयोः’ इति हैमः ॥
विग्रहः विरुद्धं विविधं वा ग्रहणम् । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् ॥
विघसः विशिष्टैरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । ‘उपसर्गेऽदः’ (३.३.५९) इत्यप् । ‘घञपोश्च’ (२.४.३८) इति घस्लृ ॥ यज्ञस्य शेषो होमावशिष्टाज्यपुरोडाशादिः । देवपित्रतिथिगुर्वादिभुक्तस्य शेषः । तयोः ॥
विघ्नराजः विघ्नानां राजा । राजाहः सखिभ्यष्टच्’ (५.४.९१) ।
विचक्षणः विचष्टे । ‘चक्षिङ् व्यक्तायां वाचि (अ० आ० से०) । ‘अनुदात्तेतश्च हलादेः (३.२.१४९) इति युच् । असनयोः(वा० २.४.५४) ।‘बहुलं तणि (वा० २.४.५४) इति वा ख्याञ् न ॥
विचर्चिका विचर्च्यते । ‘चर्च अध्ययने’ (चु० उ० से०) । ‘रोगाख्यायां ण्वुल्-’ (३.३.१०८) ॥
विचारणा ‘चर असंशये (चु० उ० से०) चुरादिः । ण्यास-’ (३ ३.१०७) इति युच् ।
विचिकित्सा विचिकित्सेति । कित संशये (भ्वा० प० से०) । ‘गुप्तिज्किद्भ्यः सन्’ (३.१.५) । ‘अ प्रत्ययात्’ (३.३.१०२) विचिकित्सा ।
विच्छन्दकः विशिष्टञ्छन्दोऽत्र । यद्वा विशिष्टच्छन्दयति साभिलाषान्करोति । ण्वुल् (३.१.१३३) । क्वुन् (उ० २.३२) वा । ‘विच्छर्दकः इति पाठः ।
विजनः विगतो जनोऽस्मात् ॥
विजयः वीति । विजयनम् । ‘जि जये’ (भ्वा० प० अ०) ‘एरच्’ (३.३.५६) ‘विजयः स्याज्जये पार्थे स्त्रियां तिथ्यन्तरे स्मृता । उमासख्याम्’ (इति मेदिनी) ॥
विजिलम् विजनम् । ‘ओविजी भयचलनयोः’ (तु० आ० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । विजिं लाति । ‘ला दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
विज्ञानम् अन्यफलिका शिल्पे शास्त्रे च या धीः सा विज्ञानम् । विज्ञानं कार्मणे ज्ञाने’ इति हैमः । मुकुटस्तु ‘मोक्ष इति निमित्तसप्तमी’ । मोक्षनिमित्तं शिल्पशास्त्रयोर्धीर्ज्ञानमुच्यते । ‘अन्यनिमित्तं या तयोर्धीः सा विज्ञानम्’ इति व्याख्यत् । तन्न । शिल्पज्ञानस्य मोक्षेऽनुपयोगात् ।
विटङ्कम् विशेषेण टङ्क्यन्तेऽत्र । ‘टकि बन्धने’ (चु० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् ।
विटपः “विटान् पाति । ‘पा रक्षणे’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यद्वा विटानां पानम् । ‘पा पाने’ (भ्वा० प० अ०) । ‘घञर्थे कः’ (वा० ३.३.५८) । यद्वा विटति, विट्यते वा । ‘विट आक्रोशे’ (भ्वा० प० से०) । ‘विटपविष्टप-’ (उ० ३.१४५) इति कपन् । यत्तु–वट्यते वेष्ट्यतेऽनेन । ‘वट वेष्टने (भ्वा० प० से०) । ‘विटपादयश्च’ इति सूत्रमुपन्यस्तं मुकुटेन । तन्न । एतादृशसूत्रादर्शनात् । ‘विटपो न स्त्रियां स्तम्बशाखाविस्तार पल्लवे । विटाधिपे ना’ ॥ द्वे शाखादिविस्तारस्य । केचित्तु—उक्तमेदिनीकोषादेव पल्लवादिचतुष्टयमेकार्थमाहुः ।”
विटपी विटपः शाखाविस्तारोऽस्यास्ति । ‘अत इनिः-’ (५.२.११५) ॥
विट्खदिरः विड्गन्धिः खदिरः ॥
विट्चरः
- वीति । विषं विष्ठां चरति । ‘चर गत्यादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । मूलविभुजादिकः (वा० ३.२.५) वा । विषश्वरो वा ॥
विडङ्गः विडति । ‘विड भेदने’ (तु० प० से०) । ‘विडादिभ्यः कित्’ (उ० १.१२१) इत्यङ्गच् । ‘विडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम्’ (इति मेदिनी) ॥
विडम् विडति । ‘विड भेदने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
विडालः “वेडति । विड्यते, वा । ‘विड आक्रोशे’ (भ्वा०) । ‘तमिविशिविड’ (उ० १.११८) इति कालन् । ‘विडालो नेत्रपिण्डे स्यादृषदंशकके पुमान्’ (इति मेदिनी) ॥”
विडौजाः विडति । विड भेदने’ (तु० प० से०) । ‘इगुपध (३.१.१३५) इति कः । विडं भेदकमोजोऽस्य । सान्तः । विट्सु प्रजासु मनुष्येषु वा ओजोऽस्येति विडोजाः’ इति केचित् ।।
वितथम् वितथमिति । विगतं तथा सत्यं यस्माद्वितथम् । ‘अच्’ (५.४.७५) इति योगविभागात्समासान्तोऽच् । यद्वा वितन्यते । बाहुलकात्क्थन् । ‘अनुदात्तो–’ (६.४३७) इति नलोपः ॥
वितरणम् वितरतेश्च ॥
वितर्दिः स्यादिति । विगता तर्दिर्हिंसाऽस्याः । ‘तर्द हिंसायाम्’ (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) इतीन् ।
वितस्तिः एति । कनिष्ठया सह विततेऽङ्गुष्ठे । वितस्यति । वितस्यते वा । ‘तसु उपक्षये’ (दि० प० से०) । ‘वौ तसेः’ (उ० ४.१८२) इति तिः ।–बाहुलकात्तिः-इति मुकुट एतत्सूत्रास्मरणमूलकः ॥
वितानः अस्त्रीति । वितन्यते । घञ् (६.३.१९) । ‘वितानो यज्ञ उल्लोचे विस्तारे पुंनपुंसकम् । क्लीबं वृत्तविशेषे स्यात्त्रिलिङ्गो मन्दतुच्छयोः’ (इति मेदिनी) ॥
वितुन्नकः अथेति । वितुद्यते स्म । ‘तुद व्यथने (तु० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (५.३.७५) ॥
वितुन्नकम् वितुद्यते स्म । ‘तुद व्यथने’ (तु० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
वितुन्नम् वीति । विगतं तुन्नं व्यथनमस्मात् । ‘वितुन्नं सुनिषण्णे च शैवाले च नपुंसकम्’ (इति मेदिनी) ॥
वितुभकम् विगतं तुन्नं दुःखमस्मात् । कप् (५.४.१५४) । यत्तु वितुदति मन्दग्निम् इति स्वामी । तन्न । सकर्मकात् कर्तरि वर्तमाने क्तस्याभावात् । ‘वितुद्यते भक्ष्यार्थम्’ इति वा । तुदेः कर्मणि क्तः (३.२.१०२) । कन् (ज्ञापि० ५.४.५) । ‘वितुन्नकं तु धान्याके झटामलमयूरके’ इति विश्वः (मेदिनी) ॥
वित्तम् वित्तम् ।
विदारकः विदार्यन्ते । ‘दॄ विदारणे’ (क्र्या० प० से०) । णिच् (३.१.२६) । बाहुलकात्कर्मणि ण्वुल् । यद्वा विदार्यन्ते । कर्मणि घञ् । (३.३.१९) । कुत्सिता विदाराः । कुत्सायां कः (५.३.७४) द्वे शुष्कनद्यादौ कृतगर्तस्य ।
विदारिगन्धा विदेति । विदार्या गन्धः विदारिगन्धः । ‘ड्यापोः-’ (६.३.६३) इति ह्रस्वः । सोऽस्त्यस्याः । मुकुटस्तु - विदारीगन्ध इव गन्धोऽस्याः - इति विववार । तच्चिन्त्यम् । ‘उपमानाच्च (५.४.१३७) इतीकारप्रसङ्गात् ॥
विदारी वीति । विदारयति । ‘दॄ विदारणे’ (क्र्या० प० से०) । ण्यन्तः । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘विदारी शालपर्ण्यां च रोगभेदेक्षुगन्धयोः’ (इति मेदिनी) ॥
विदिश् दिग्भ्यां विनिर्गता । विदिक् शान्ता । सैव प्रदिक् । ‘यान्यासामन्तरालानि प्रदिशो विदिशश्च ताः’ इत्यमरमाला ।
विदुः तेति । तयोः कुम्भयोः । वेत्ति संज्ञामत्र घातेन । ‘विद ज्ञाने’ (अ० प० से०) । बाहुलकाकुः ॥
विदुलः “वेत्ति, विद्यते, वा । बाहुलकादुलच् गुणाभावश्च । ‘विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च’ ॥”
विदुलः “वेत्ति, विद्यते, वा । बाहुलकादुलच् गुणाभावश्च । ‘विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च’ ॥”
विद्धकर्णी विद्धौ कर्णी यया ॥ अविद्धोऽच्छिद्रः पर्णरूपः कर्णोऽस्याः - इति मुकुटः ॥
विद्याधरः विद्येति-‘विद्याधरोऽप्सरो-’ इति पाठः । भिन्नलिङ्गत्वादग्रेऽनभिधानादसमासः । विद्याया गुटिकाञ्जनादिविषयिण्या धरो धारकः । यत्तु–‘विद्यां धरति’ इति मुकुट आह । तन्न । पचाद्यचः (३.१.१३४) अपवादत्वादणः (३.२.१) प्रसङ्गात् ॥
विद्युत् विशेषेण द्योतते । ‘द्युत दीप्तौ’ (भ्वा० आ० से०) । ‘भ्राजभास-’ (३.२.१७७) इति क्विप् । (विद्युत्तडिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे’) ।
विद्रधिः व्येति । वेदनम् । विद्रम् । ‘बहुलमन्यत्रापि संज्ञाछन्दसोः’ (उ० २.२३) इति रक् । यद्वा विद्राति । ‘द्रा स्वप्ने पलायने’ (अ० प० अ०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । विद्रं धीयतेऽस्याम् । ‘डुधाञ्’ । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः । यद्वा विद्रस्य धानम् । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) ॥
विद्रवः विद्रवणम् । ‘ऋदोरप्’ (३.३.५७) ॥
विद्रुमः अथेति । विशिष्टो द्रुमः । यद्वा विशिष्टे द्रौ भवः । ‘घुद्रुभ्यां मः’ (५.२.१०८) । (‘विद्रुमो रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्’ इति मेदिनी) ॥
विद्रुमलता विद्रुमस्येव लता ॥
विद्वस् वीति । वेत्ति । ‘विद ज्ञाने’ (अ० प० से०) । ‘लटः शतृ’ (३.२१२४) । विदेः शतुर्वसुः (७.१३६) वा । विद्वाञ् ज्ञानिनि धीरे च विद्वानध्यात्मवेदके’ इति धरणिः । ‘विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् इति विश्वः ॥
विद्वेषः विरोधनम् । विद्वेषणम् । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘द्विष अप्रीतौ’ (अ० उ० से०) । घञ् (३.३.१८) ।
विधवा विगतो धवोऽस्याः ॥ ‘विश्वस्ताविधवे तुल्ये विश्वस्तापतिनी च सा’ इति वाचस्पतिः ।
विधा
- कर्माणि विधीयन्तेऽनया । ‘डुधाञ्’ (जु० उ० अ०) । ‘आतश्चोपसर्गे (३.३.१०६ ) इत्यङ् ॥
विधाता विशेषेण दधाति । विरन्योपसर्गनिवृत्त्यर्थः। (विधाता द्रुहिणे काये’) ॥
विधिः विधत्ते इति विधिः । ‘उपसर्गे घोः किः’ (३.३.९२) बाहुलकात् (३.३.११३) कर्तरि । यद्वा विध विधाने’(तु० प० से०)। इन् ‘इगुपधात्कित्’ (उ० ४.१२०) इति कित्वान्न गुणः। (‘विधिर्बह्मविधानयोः। विधिर्वाक्ये च दैवे च प्रकारे कालकल्पयोः’) ॥
विधिः विधीयतेऽनेन डुधाञः ‘उपसर्गे घोः किः’ (३.३.९२) । विधिब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः’
विधिः वेधनम् । ‘विध विधाने’ (तु० प० से०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । यद्वा विधानम् । अनेन वा । धाञः (जु० प० अ०) । ‘उपसर्गे घोः किः’ (३.३.९२) । ‘विधिर्ना नियतौ काले विधाने परमेष्ठिनि’ (इति मदिनी) ॥
विधिदर्शी विधिं द्रष्टुं शीलं येषां ते । सुपि (३.२.७८) इति दृशेर्णिनिः । न्यूनाधिकविचारका ऋत्विग्विशेषाः ॥
विधुंतुदः विधुं तुदति । विध्वरुषोस्तुदः (३.२.३५) इति खश् । ‘अरु–’ (६. ३.६७) इति मुम् ।
विधुः विध्यत्यसुरान् । ‘पॄभिदिव्यधिगृधिधृषिभ्यः (उणा० १.२३) इति कुः । (विधुश्चन्द्रेऽच्युते) ॥
विधुः विशेषेण धयन्त्येनं सुराः । धेट् पाने । बाहुलकात्कुः | (उ० १.२२) ‘विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे इति विश्वः ।
विना
- ‘विनञ्भ्यां नानाञौ न सह’ (५.२.२७) इति निषेधार्थाद्विशब्दान्ना ॥
विनायकः विनयत्यनुशास्ति । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । ण्वुल् (३.१.१३३) (‘विनायकस्तु हेरम्बे ताक्ष्यें विघ्ने जिने गुरौ ॥
विनायकः विनायकेत्यादि । विनयति । ण्वुल् (३.१.१३३) । विशिष्टो नायक इति वा । विगतो नायको नियन्तास्य इति वा । विनायकस्तु हेरम्बे ताक्ष्यै विघ्ने जिने गुरौ ।
विनीताः वीति । विनीयन्ते स्म । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । सुशिक्षिताः । ‘विनीतः सुवहाश्वे स्याद्वणिज्यपि पुमांस्त्रिषु । जितेन्द्रियेऽपनीते च निभृते विनयान्विते’ (इति मेदिनी) ॥
विन्ध्यः विरुद्धं ध्यायति । ‘ध्यै चिन्तायाम्’ (भ्वा० प० अ०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा वि इध्यते । ‘ञि इन्धी दीप्तौ (रु० अ० से०) । ण्यत् (३.१.१२४) । अन्तर्भावितण्यर्थः । शकन्ध्वादिः (६.१.९४) । वीन्धे वा । अघ्न्यादिः (उ० ४.१२२) । विन्ध्या स्त्रियां लवल्यां स्यात्पुंसि व्याधाद्रिभेदयोः’ ।
विपक्षः विरुद्धः पक्षोऽस्य । ‘पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः’ (इति विश्वमेदिन्यौ) । विविधः पक्षोऽस्य वा ॥
विपञ्ची विपञ्चयति विस्तारयति शब्दम् । ‘पचि विस्तारे (चु० प० से०) । ण्यन्तादच् (३.११३४) । गौरादिः (४. १.४१) । विपञ्ची केलिवीणयो ।
विपणः वीति । विपणनम् । घञ् (३.३.१८) । संज्ञापूर्वकत्वान्न वृद्धिः । ‘खनो घ च’ (३.३.१२५) इति घो वा ॥
विपणिः विपणिरिति । विपणन्तेऽत्र । ‘पण व्यवहारे (भ्वा० आ० से०) । इक् कृष्यादिभ्यः’ (वा० ३.३.१०८) । ‘कृदिकारात्-’ (ग० ४.१) इति ङीष् ॥
विपत्तिः वीति । विपदनम् । अनया वा । सम्पदाति क्विप् (वा० ३.३.१०८) ॥
विपथः विरुद्धः पन्थाः । ‘ऋक्पूर्’ (५.४.७४) इत्यः इति मुकुटः । तन्न । (पथः संख्या व्ययादेः) (वा० २.४.३०) इति क्लीबता-प्रसङ्गात् । अतः ‘विरुद्धः पथः’ इति विग्रहीतव्यम् ॥
विपद् क्तिन् (३.३.९४) ॥
विपश्चित् “प्रकृष्टं निश्चिनोति, चेतति, चिन्तयति, वा । पृषोदरादिः (६.३.१०९) ॥”
विपाट्/विपाड् तस्मादेव ‘क्विप् च’ (३.२.७६) इति क्विपि विपाट् । द्वे पापमोचिन्याः ।
विपादिका विपद्यतेऽनया । ‘पद गतौ’ (दि० आ० अ०) । ‘रोगाख्यायां ण्वुल् बहुलम्’ (३.३.१०८) ॥
विपाशा विपाशेति । पाशं विमोचयति । ‘सत्यापपाश-’ (३.१.२५) इत्यादिना ‘पाशान्मोचने’ इति णिच् । पचाद्यच् (३.१.१३४) ॥
विपिनम् वेपन्तेऽत्र । ‘टुवेपृ कम्पने (भ्वा० आ० से०) । ‘वेपितुह्योर्ह्रस्वश्च’ (उ २.५२) इतीनन् । विशेषेण पियन्त्यत्र वा । ‘पि गतौ’(तु० प० से०) । बाहुलकान्नक् ॥
विप्रः विप्राति । ‘प्रा पूरणे (अ० प० अ०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । उप्यतेऽत्र वा । ‘ऋजेन्द्र-’(४०२.१८) इति साधुः । विपाति । विपति । ‘विप क्षेपे वा ॥
विप्रतीसारः वितिप्रसरणम् । ‘सृ गतौ (भ्वा०प० अ०) । घञ् (३.३.१८) । ‘उपसर्गस्य घञि’ (६.३.१२२) इति वा दीर्घः । ‘विप्रतीसार उद्दिष्टः कौकृत्येऽनुशये रुषि’ इति मेदिनी । (पक्षे ह्रस्वतृतीयोऽपि । ‘विप्रतिसारस्त्वनुशये रुषि । कौकृत्ये । इति हैमः) ।
विप्रलम्भः विप्रेति । विशेषेण प्रलम्भनम् । ’डुलभष् प्राप्तौ’ (भ्वा० आ० अ०) ।
विप्रलापः विप्रलाप इत्यादि । विरुद्धः प्रलापः । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि’ इति हैमः ॥
विप्रश्निका विप्रेति । विविधः प्रश्नोऽस्त्यस्याः । ठन् (५.२.११५) ॥
विप्रुषः प्रुषु प्लुषु दाहे (भ्वा० प० से०) । सम्पदादित्वात् (वा० ३.३.१०८) भावे क्विप् । विगता रुद्धा वा प्रुट् दाहोऽस्मात् ।
विबन्धः विबन्धनम् । ‘बन्ध बन्धने’ (क्र्या० प० अ०) । घञ् (३.३.१८) ॥ आभ्यां करणे वा घञ् (३.३.१९) ।
विबुधाः “विशिष्टे बुधो येषाम् । त्रिकालज्ञजीवशिष्यत्वात् । विशेषेण बुध्यन्ते वा । ‘बुध अवगमने’ (भ्वा० प० से०, दि० आ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘विबुधो ज्ञे सुरे’ ॥”
विभवः विभवः ।
विभाकरः दिवाविभा–’ (३.२.३१) इति टः ।
विभावरी विभाति नक्षत्रादिभिः । क्वनिप् (३.२.७४) । ‘वनो र च’ (४.१.७) इति डीब्रौ । विभावरी निशारात्र्योः कुट्टन्यां चक्रयोषिति । विवादे वस्त्रकुट्यां च ॥
विभावसुः विभा प्रभा वसु धनं यस्य । (विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे’) ।
विभावसुः विभैव वसु यस्य । विभावसुः पुमान्सूर्ये हारभेदे च पावके ॥
विभीतकः “त्रीति । विगतं भीतं रोगभयमस्मात् । ‘जातेः’ (४.१.५३) इति ङीष् । गौरादित्वकल्पनं त्वयुक्तम् । विशिष्टं भीतमस्माद्वा, भूतकल्योराश्रयत्वात् ॥”
विभूतिः विभूतिरित्यादि । भवनं भूतिः । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘भूतिर्भस्मनि सम्पत्तौ हस्तिशृङ्गारयोः स्त्रियाम् । मांसपाकविशेषोत्पातयोरपि ।
विभूषणम् विभूष्यतेऽनेन ॥
विभ्रमः विभ्रमणम् । ‘भ्रमु अनवस्थाने’ (दि० प० से०) । घञ् (३.३.१८) । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः । अथ विभ्रमः । शोभायां संशये हावे’ इति हैमः । विभ्रमो भ्रान्ति हावयोः॥
विभ्राज् वीति । भ्राजते तच्छीलः । ‘भ्राजभास-’ (३.२.१७७) क्विप् ॥
विमला विगता मला यया । ‘स्याद्विमला स्त्रियाम् । सातलायां भुवो भेदे निर्मले त्वभिधेयवत्’ (इति मेदिनी) ॥
विमातृजः विमातुर्जातः । ‘पञ्चम्यामजातौ’ (३.२.९८) इति डः ॥
विमानम् विशिष्टं मानयन्त्यनेन । ‘पुंसि संज्ञायाम्’ (३.३.११८) इति करणे घः । ’घञ्’ इति मुकुटः । तन्न । परत्वाल्ल्युट्प्रसङ्गात् । घस्तु करणाधिकरणयोर्विहितः । विशेषेण मान्त्यस्मिन्निति वा । अधिकरणे ल्युट् (६.३.११७) ॥ विगतं मानमुपमास्येति वा । ‘विमानो व्योमयाने च सप्तभूमि गृहेऽपि च । घोटके यानमात्रे च पुंनपुंसकयोर्मतः ॥
विम्बः बिम्ब इति । वेति शोभते । ‘वी गतौ’ (अ० प० से०) । उल्वादयश्च’ (उ० ४.९५) इति बन्नुमागमह्रस्वत्वानि । ‘बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले’ इति (पवर्ग मध्ये) हैमः ।
वियत् वि विश्वत एति व्याप्नोति । इणः (अ० प० अ०) । शतृ (३.२.१२४) । वियच्छति न विरमति वा । विपूर्वाद्यमेः (भ्वा० प० अ०) अन्येभ्योऽपि (३.२.७५) इति क्विप् । ‘क्वौ च गमादीनाम्’ (वा० ६.४.४०) इति मलोपे तुक् (६.१.७१) ।
वियद्गङ्गा वियति वियतो वा गङ्गा ।
विरजस्तमसः अथेति । रजस्तमोभ्यां विगताः । ‘निरादयः-’ (वा० २.२.१८) इति समासः । विगते रजस्तमसी येभ्यः इति वा॥
विराज् विशेषेण राजति । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
विरावः ‘उपसर्गे रुव’ (३.३.२२) इति घञ् ॥
विरिञ्चिः “विरचयतीति विरिञ्चिः। ‘रच प्रतियत्ने’ (चु० उ० से०) । स्वार्थण्यन्तात् । ‘अच इः’ (उ० ४. १३९) । पृषोदरादित्वात् (६.३.१०९) अकारस्येत्वं नुमागमश्च । (क्वचिदित्वाभावे ‘विरञ्चिः’ अपि । चिरं विरञ्चिनं चिरं विरञ्चिः इत्यादौ प्रयोगदर्शनात् । पचाद्यचि (३.१.१३४) ‘विरिञ्चः’ अपि । (‘विरिञ्चो द्रुहिणः शिञ्जो विरिञ्चिर्द्रुघणो मतः’ इति शब्दार्णवात् । यत्तु—‘रिच वियोजन- संयमनयोः चुरादिः। ‘अच इः’ (उ० ४.१३९)। पृषोदरादित्वात् (६.३.१०९) नुम्, कुञ्जरवदुपधाह्रस्वत्वं च इति मुकुटः। तन्न । ‘रिच वियोजनसंपर्चनयोः’ इति चुरादौ पाठदर्शनाद्ध्रस्वविधानस्यानुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र ह्रस्वविधानाभावात् ॥”
विरूपाक्षः विविधानि रविचन्द्राग्निरूपाण्यक्षीण्यस्य । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ (५.४.११३) विरूपेष्वपि अक्षि कृपादृष्टिर्यस्येति वा । विविधरूपाणि विविधरूपेषु वा अक्षाणीन्द्रियाण्यस्येति वा ।।
विरोचनः विरोचते । रुच दीप्तौ’ (भ्वा० आ० से०) । ‘अनुदात्तेतश्च-’ (३.२.१४९) इति युच् । ‘विरोचनः प्रह्लादस्य तनयेऽर्केऽग्नि चन्द्रयोः ।
विरोधः विरोधनम् । विद्वेषणम् । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘द्विष अप्रीतौ’ (अ० उ० से०) । घञ् (३.३.१८) ।
विरोधोक्तिः विरोधस्य उक्तिः ॥
विलम्बितम् विलम्बितमिति । विलम्बन्ते करचरणादयोऽत्र । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) ।
विलापः विलाप इत्यादि । विलपनम् । घञ् (३.३.१८) ॥
विलासः विलसनम् । ‘लस श्लेषणे’ (भ्वा० प० से०) । घञ् (३.३.१८) । विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु । विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम् ।
विलेपनम् विलिप्यतेऽनेन । ‘लिप उपदेहे’ (तु० उ० अ०) । ल्युट् (३.३.११७) ॥
विलेपी विलिम्पति । ‘लिप उपदेहे’ (तु० उ० अ०) । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) ॥
विलेशयः बिले शेते । ‘अधिकरणे शेतेः’ (३.२.१५) इत्यच् । ‘शयवास-’(६.३.१८) इत्यलुक् । बिलेशयो मूषिकेऽहौ’ इति हैमः ।
विवरम् विवृणोति । ‘वृञ् वरणे’ (स्वा उ० से०) । पचाद्यच् (३.१.१३४) । यद्वा विव्रियते । ‘ग्रहवृद्निश्चिगमश्च’ (३.३.५८) इत्यप् । विगतो वरोऽस्माद्वा । वीनां पक्षिणां वरं वा । ‘विवरं दूषणे गर्ते ।
विवर्णः
- वीति । विगतो व यस्य यस्माद्वा । ‘वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे’ इति विश्वः ॥
विवस्वान् विविधं वस्ते आच्छादयति । ‘वस आच्छादने (अ० आ० अ०) । क्विप् (३.२.७६) । विवो रश्मिः । विवोऽस्यास्ति । मतुप् (५.२.९४) । ‘तसौ मत्वर्थे (१.४.१९) इति भत्वाद्रुत्वाभावः । (‘विवस्वान्विबुधे सूर्ये तन्नगर्यां विवस्वती’) ॥
विवादः विवाद इति । विरुद्धो वादः ।
विवाहः वीति । विशिष्टं वहनम् । घञ् (३.३.१८) ॥
विविक्तः वीति । विविञ्चन्ति जना अत्र । ‘विचर् पृथग्भावे’ (रु० उ० अ०) । ध्रौव्यार्थत्वाद्गत्यर्थत्वाद्वा ‘क्तोऽधिकरणे च-’ (३.४.७६) इति क्तः । ‘विविक्तं त्रिष्वसम्पृक्ते रहःपूतविवेकिषु (वसुनन्दे ना)’ इति मेदिनी ॥
विवेकः वीति । विवेचनम् । ‘विचिर् पृथग्भावे’ (रु० उ० अ०) । घञ् (३.३.१८) । ‘विवेकः स्याज्जलद्रोण्यां पृथग्भावविचारयोः’ (इति मेदिनी) ॥
विव्वोकः विवानम् । ‘वा गतौ’ (अ० प० अ०) । विवुर्गतिविशेषः । (यत्तु) ‘अपष्ट्वादयः’ इति कुः इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । ‘मृगय्वादयश्च’ (उ० १.३७) । इति तूचितम् । उच्यते समवैत्यत्र । ‘उच समवाये (दि० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञर्थे । यद्वा ‘कः’ (वा० ३.३.५८) । ‘ओक उचः के (७.३.६४) इति निपातितः । विवोरोकः स्थानम् । विव्वोकोऽभिमतप्राप्तावपिगर्वदनादरः ।
विशदः “विशीयते । शद्लृ शातने’ (भ्वा० , तु० प० अ०) । अच् (३.१.१३४) । ‘विशदः पाण्डरे व्यक्ते’ इति हैमः ।”
विशरः विशरणम् । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ऋदोरप्’ (३.३.५७) ॥
विशल्या विशेति । विगतं शल्यमनया । ‘विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्मणस्य च इति हेमचन्द्रः ॥
विशल्या विगतं शल्यमस्याः । ‘विशल्याऽग्निशिखादन्तीगुडूचीत्रिपुटासु च’ (इति मेदिनी) ॥
विशसनम् ‘शसु हिंसायाम्’ (भ्वा० प० से०) ॥
विशाखः विशाखति । शाखृ श्लाखृ व्याप्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । विशाखायां जात इति वा । ‘संधिवेलादि- (४.३.१६) इत्यणः श्रविष्ठाफल्गुनी-’ (४.३.३४) इत्यादिना लुकि ‘लुक्तद्धितलुकि (१.२.४९) (‘विशाखो याचके स्कन्दे विशाखा भे कठिल्लके’) ।
विशाखा विशाखति । ‘शाखृ व्याप्तौ ( भ्वा० प० से०) । अच् (३.१.१३४) । विशाखो याचके स्कन्दे विशाखाभे कठिल्लके’ इति हैमः ।
विशारणम् ‘शॄ हिंसायाम्’ (क्र्या० प० से०) ॥
विशालता विशालस्य भावः तल् (५.१.११९) ॥
विशालत्वक् विशाला त्वगस्य ॥
विशाला विशेति । वि शलति । ‘शल चलने’ (भ्वा० प० से०) । ‘ज्वलिति-’ (३.१.१४०) इति णः । टाप् (४.१.४) विशति वा । अत्र वा । ‘विश प्रवेशने’ (तु० प० से०) । ‘तमिविशिविडि-’ (उ० १.११८) इति कालन् । ‘विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्’ (इति मेदिनी) ॥
विशिखः विशिष्टा शिखाग्रमस्य । ‘विशिखा खनित्रिकायां रथ्यायां विशिखः शरे’ (इति हैमः) ॥
विशिखा विशेते । ‘शीङः किद्ध्रस्वश्च’ (उ० ५.२४) इति खः । ‘विशिखाः खनत्रिकायां रथ्यायां विशिखः शरे’ इति हैमः ॥
विशेषकः “विशिनष्टि । ‘शिष्लृ विशेषणे’ (रु० उ० अ०) । ण्वुल् (३.१.१३३) । ‘विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु’ (इति मेदिनी) ॥ द्वितीयं तिलकम्, तुरीयं विशेषकं, च स्त्रियां न भवतः । किं तु पुंनपुंसकयोः ।”
विश् विशन्ति । ‘विश प्रवेशने’ (तु० प० अ०) । क्विप् (३.२.१७८) ॥
विश्राणनम् विपूर्वात् ‘श्रणु दाने’ इति चुरादेश्च ॥
विश्वंभरः “विश्वं बिभर्ति । ‘संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । अरुर्द्विषद्-’ (६.३.६७) इति मुम् । विश्वम्भरोऽच्युते शक्रे पुंसि, विश्वम्भरा भुवि ॥”
विश्वः विशन्ति कर्मस्विति विश्वे । ‘विश प्रवेशने’ (तु० प० अ०) । ‘अशू प्रुषि-लटि-कणि-कटि विशिभ्यः क्वन्’ (उ० १.१५१) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञास्वेव सर्वनामत्वपर्युदासात् । मुकुटस्तु–सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्वनामसंज्ञः-इत्याह । तन्न । एकशब्दस्य बहुषु सङ्केतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनबर्हिषः पुत्रेषु सङ्केतितस्य प्रचेतःशब्दस्य । ‘यथा पूर्वजवृत्तिः पूर्वशब्दः’ इति तदीयदृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्तेः पूर्वशब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसम्भवाभावात् (‘विश्वा त्वति विषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु’) ॥
विश्वकद्रुः
- श्वेति । विश्वकं सर्वं द्रवति । ‘द्रु गतौ’ (भ्वा० प० अ०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । यद्वा विश्वं कन्दति । ‘कदि आह्वाने’ (भ्वा० प० से०) । जवादिः (उ० ४.१०२) । ‘विश्वकट्ठस्त्रिषु खले ध्वानाखेटशुनोः पुमान्’ (इति मेदिनी) ॥
विश्वकेतुः विश्वस्मिन् केतुरस्य । ‘पताकायां द्युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु’ इति रभसः ।। ‘खड्गायुः धोऽनिरुद्धः स्यात्तथा चैवर्श्यकेतनः’ इति साम्बपुराणात् ऋश्यकेतुः अपि । ऋश्यो मृगविशेषः ‘एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः’ इति पुरुषोत्तमात् ।
विश्वक्सेनप्रिया वीति । विष्वक्सेनस्य प्रिया ॥
विश्वभेषजम् विश्वस्य दोषस्य भेषजम् ॥
विश्वम् “विशति । ‘विश प्रवेशने’ (तु० प० अ०) । ‘अशुप्रुषि-’ (उ० १.१५१) इत्यादिना क्वुन् । ‘विश्वं कृत्स्ने च भुवने, विश्वे देवेषु, नागरे । विश्वाप्यतिविषायां स्यात्’ इति विश्वः । (विश्वा) त्वतिविषायां स्त्री, जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदे त्वखिले त्रिषु’ (इति मेदिनी) ॥”
विश्वम्भरा “विश्वं बिभर्ति । ‘डुभृञ् संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । ‘विश्वम्भरोऽच्युते शक्रे पुंसि, विश्वम्भरा भुवि ।”
विश्वसृट् “विश्वं सृजति । ‘क्विप् (३.२.७६) । क्विन्प्रत्ययस्य (८.२.६२) इति कुत्वं तु न । रज्जुसृड्भ्याम् इति (७.२.११४) भाष्यप्रयोगात् । यद्वा सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम् क्विन्प्रत्यय इति तद्गुणसंविज्ञानपक्षे क्विन्नन्तस्य कुत्वम्, न क्विबन्तस्य इति । तन्न । प्रत्ययग्रहणवैयर्यात्, दृक् स्पृगित्याद्यसिद्धिप्रसङ्गाच्च, तत्पक्षस्यात्राग्रहणात् । यद्यपि अतद्गुणसंविज्ञानपक्षे तु क्विन् उपलक्षणत्वात्तदभावे क्विबन्तस्यापि कुत्वम् इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन प्रत्युक्तम् ॥”
विश्वस्ता विश्वेति । विफलं श्वसिति स्म । ‘गत्यर्था–’ (३.४.७२) इति क्तः । आगमशासनस्यानित्यत्वान्नेट् । ‘विश्वस्तो जातविश्वासे विश्वस्ता विधवास्त्रियाम्’ इति मेदिनी ॥
विश्वा “वीति । विशति । ‘विश प्रवेशने’ (तु० प० अ०) । ‘अशूप्रुषि-’ (उ० १.१५१) इति क्वुन् । ‘विश्वं समस्ते जगति, विश्वे देवेषु, नागरे । विश्वा चातिविषायां स्यात्’ इति विश्वः ॥”
विश्वासः विश्वसनम् । ‘श्वस प्राणने’ (अ० प० से०) । घञ् (३.३.१८) ॥
विषधरः विषस्य धरः ।
विषमच्छदः विषमाश्छदा यस्य ॥
विषम् “वेवेष्टि कायम् । विष्लृ व्याप्तौ (जु० उ० अ०) । ‘विष विप्रयोगे’ (क्र्या० प० से०) वा । इगुपध-(३.१.१३५) इति कः । गरले विषमम्भसि च, स्त्रियामतिविषायाम्’ इत्यूष्माविवेकान्मूर्धन्यान्तम् । पुंसि क्लीबे च’ इति विषेणापि संबध्यते इति केचित् ।”
विषयः “विसिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । पचाद्यच् (३.१.१३४) । ‘परिनिविभ्यः- (८.३.७०) इति षत्वम् । –विसीयन्तेऽत्रेति, ‘एरच्’ (३.३.५६) इति विग्रहे तु मूर्धन्योऽनुपपन्नः । ‘सितसय-’ (८.३.७०) इति क्ताजन्तयोः सूत्रेऽनुवादात् । ’विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । शब्दादौ जनपदे च’ इति हैमः ॥”
विषयी विसिन्वन्ति निबध्नन्तीन्द्रियाणि । षिञ् बन्धने (स्वा० उ० अ०) । पचाद्यच् (३.३.१३४) । ‘परिनिवि-’(८.३.१७०) इति षत्वम् । ‘विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । शब्दादौ जनपदे च’ इति हैमः।
विषवैद्यः विषेति । विद्यामधीते वेत्ति वा । ‘तदधीते तद्वेद (४.२.५९) इत्यण् । विषस्य वैद्यः ।
विषा “वेवेष्टि । ‘विष्लृ’ व्याप्तौ’ (जु० उ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘विषं जलेऽतिविषायां स्त्रियां, क्ष्वेडे तु न स्त्रियाम् ॥”
विषाणी फलस्याजशृङ्गसदृशत्वात् विषाणमस्त्यस्याः । अर्शआद्यच् (५.२.११५) । गौरादिङीष् (४.१.४१) । ‘विषाणी क्षीरकाकोल्यामजशृङ्गयां च योषिति । कुष्ठनामौषधे क्लीबं त्रिषु शृङ्गेभदन्तयोः’ (इति मेदिनी) ।
विषुवत् रात्रिश्च दिवा च रात्रिन्दिवम् । ‘अचतुर-’(५.४.७७) इत्यादिना साधु । तत् समं यस्मिन् तादृशे काले तुलामेषावच्छिन्ने । विषु साम्येऽव्ययम् । ततो मतुप् (५.२.९४) । ‘संज्ञायाम्’ (८.२.११) इति वत्वम् ।
विषुवम् ‘वप्रकरणेऽन्यत्रापि (५.२.१०९) इत्युक्तेर्वः । तेन विषुवम् । ‘विषुवान् समरात्रि वासरः’ इति पुंस्काण्डे बोपालितः । विषुणोऽपि । विषु नानारूपं गमनं विष्वक् । तदस्यास्तीति विग्रहे ‘विष्वगित्युत्तरपदलोपश्चाकृतसंधेः’ (५.२.१००) इति पामाद्यन्तर्गणसूत्रेण नप्रत्ययः । णत्वम् (८.४.२) ।
विष् वेवेष्टि । ‘विष्लृ व्याप्तौ’ (जु० प० अ०) । क्विप् (३.२.१७८) । (‘विश्’ इति) तालव्यान्तपाठे विशति । ‘विश प्रवेशने’ (तु० प० अ०) । क्विप् (३.२.१७८) ॥
विष्किरः ‘विष्किरः शकुनिर्वा’ (६.१.१५०) इति पक्षे सुट् । ‘परिनिविभ्यः-’ (८.३.७०) इति षत्वम् ॥
विष्टपम् “विशन्त्यत्र । ‘विश प्रवेशने’ (तु० प० अ०) । विटपविष्टपविशिपोलपाः’ (उ० ३.१४५) । पादिपाठे तु-पिष्यते पिश्यते, वात्र । ‘पिश गतौ । पिष्लृ सञ्चूर्णने (रु० उ० अ०) वा । (भुवनं) पिष्टपः पुमान्’ इति बोपालितः ।”
विष्टरश्रवाः विष्टरे श्रूयते । असुन् (उ० ४.१८९) । विष्टरो वृक्षः । ‘पलाशी विष्टरः स्थिरः’ इति त्रिकाण्डशेषः । तरुश्चात्राश्वत्थोऽभिमतः । ‘अश्वत्थः सर्ववृक्षाणाम् इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥
विष्टिः “विष्टिरिति । विशति क्लेशम् । विश प्रवेशने’ (तु० प० अ०) । क्तिच् (३.३.१७४) । यद्वा विष्णाति । विष विप्रयोगे”” (क्र्या० प० से०) । क्तिच्क्तौ च-’ (३.३.१७४) इति क्तिच् । यद्वा विष्यते । कर्माणि क्तिन् (३.३.९४) । यत्तु वेतनेन विमुच्यतेऽनेन । विष्लृ विप्रयोगे’ करणे क्तिन्”
विष्ठा वितिष्ठते उदरे । अनया वा पुरुषः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । अङ् (३.३.१०६) वा । ‘उपसर्गात्-’ (८.३.६५) इति षत्वम् ॥
विष्णुः विष्णुरित्यादि । वेवेष्टि । विष्ल् व्याप्तौ (जु० उ० अ०) । विषेः किच्च’ (उ० ३.३९) इति नुः ॥
विष्णुक्रान्ता विष्णुना क्रान्ता ॥
विष्णुपदम् विष्णोः पदम् आस्पदम् स्वरूपं वा । विष्णोः पदं क्रमोऽत्र इति स्वामी । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । (‘विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि’) ।
विष्णुपदी विष्णुः पदं स्थानं यस्याः । गौरादिः (४.१.४१) । ‘विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । (संक्रान्तिर्द्वारिका चापि) इति हैमः ॥
विष्णुरथः विष्णोः रथ इव । यद्वा ‘रथः पौरुषदेहयोः इति त्रिकाण्डशेषः । विष्णो रथः पौरुषं देहो वा । ‘वैनतेयश्च पक्षिणाम्’ इति गीता ।
विष्वक्
- विषु अञ्चति । क्विन् (३.२.५९) ॥ ‘अभितः’ ‘विश्वतः’ ‘समन्तात्’ इत्याद्यपि ॥
विष्वक्सेनः विषु शब्दो नानार्थो निपातः । विषु नाना अञ्चति । ऋत्विग्-’ (३.२.५९) इति क्विन् । ‘उगितश्च’ (४.१.६) इति डीप् । विषूची सेना यस्य । गकारपरत्वात् ‘एति संज्ञायामगात्’ (८.३.९९) इति न षत्वम् । विष्वक्सेनः। विष्वग् विश्वक् स्मृतो विज्ञैर्विषुवं विशुवं तथा इति द्विरूपकोशात् तालव्यमध्योऽपि । ‘तालव्या मूर्धन्याश्चैते शब्दाः शटी च परिवेषः । विश्वक्सेनो भ्रेषः प्रतिष्कशः कोशविशदौ च इत्यूष्मविवेकाच्च । विष्वक्सेना फलिन्यां स्यात् विष्वक्सेनो जनार्दने । मुकुटस्तु—पूर्वपदात्संज्ञायामगः’ (८.४.३) इति न णत्वम् । विष्वक्शब्दस्य गकारान्तत्वात् गकारान्तत्वं च णत्वे कर्तव्ये परस्य ‘खरि च (८.४.५५) इति चर्वस्या सिद्धत्वात् इत्याह । तन्न । अट्कुप्वाङ्’ (८.४.२) इत्यधिकारात्सकारव्यवाये प्राप्तेरेवाभावात् ॥
विष्वक्सेना विष्वक् सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘कृवृजृसि-’ (उ० ३.१०) इति नः । —अच् (३.१.१३४) इति मुकुटोक्तिश्चिन्त्या । ‘विष्वक्सेना फलिन्यां स्याद् विष्वक्सेनो जनार्दने’ ॥
विसंवादः विरुद्धं सम्यक् वदनम् । घञ् (३.३.१८) ॥
विसकण्ठिका विसवत् कण्ठोऽस्याः ॥
विसप्रसूनम् बिसस्य प्रसूनम् ॥
विसम् विस्यति । विस प्रेरणे’ (दि० प० से०) । इगुपध-’ (३.१.१३६) इति कः । मृणाले तु विसं विशम् इति द्विरूपकोशः । द्वे अब्जादीनां मूलस्य ।
विसरः विसरति । ‘सृ गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) । (‘विसरः प्रसरे व्रजे’ इति मेदिनी) ॥
विसर्जनम् ‘विसर्जनं परित्यागे दाने संप्रेषणेऽपि च’ (इति मेदिनी) ॥
विसारः विशेषेण सरति । ‘सृ गतौ” (भ्वा० प० अ०) । व्याधिमत्स्यबलेषु (वा० ३.३.७) इति घञ् ॥
विसिनी विसमस्त्यस्याः । पूर्ववदिनिः (वा० ४.२.५१) ॥
विस्तः विस्तः ।
विस्तारः विस्तेति । विस्तरणम् । ‘स्तृञ् आच्छादने (स्वा० उ० अ०) । ‘प्रथने वावशब्दे’ (३.३.३३) इति भावे घञ् । ‘विस्तारस्ततौ विटपे’ ॥
विस्फारः वीति । विस्फरणम् । ‘स्फर स्फुरणे’ (तु० प० से०) । घञ् (३.३.१८) विस्फुरणम् । ‘स्फुर स्फुरणे’ (तु० प० से०) वा ‘स्फुरतिस्फुलत्योर्धञि (६.१.४७) इत्यात्वम् ॥
विस्फोटः वीति । विस्फोटति । ‘स्फुटिर् विशरणे’ (भ्वा० प० से०) । अच् (३.१.१३४) । करणे घञ् (३.३.१९) वा ॥
विस्मयः विस्मय इति । विस्मयनम् । ‘स्मिङ् ईषद्धसने’ (भ्वा० आ० अ०) । ‘एरच् (३.३.५६) विस्मयोऽद्भुतदर्पयोः इति हैमः ।
विस्रम् वियति । ‘विस प्रेरणे’ (दि० प० से०) । ‘स्फायि-(उ० २.१३) इति बाहुलकाद्रक् । विस उत्सर्गे इति तु भट्टः । ‘विस्त्रंसते’ इति वा । अन्येभ्योऽपि-’(वा० ३.२.१०१) इति डः । बवयोरभेदः ।
विस्रम्भः सेति । विस्रम्भणम् । ‘स्त्रम्भु विश्वासे’ (भ्वा० आ० से०) दन्त्यादिः । तालव्यादिश्च । घञ् (३.३.१८) । ‘विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च’ (इति विश्वमेदिन्यौ) ॥
विस्रसा वीति । विश्वस्यतेऽनया । ‘स्रंसु अधःपतने’ (भ्वा० आ० से०) । भिदाद्यङ् (३.३.१०४) ॥
विहंगमः विहायसि गच्छन्ति । ‘गमश्च’ (३.२.४७) इति खच् । ‘विहायसो विह च’ (वा० ३.२.३८) । ‘खच्च डिद्वा’ (वा० ३.२.३८) ॥
विहगः डे (वा० ३.२.४८) तु । ‘विहगस्तु त्रिलिङ्गः स्यादाशुगे ना विहंगमे’ (इति मेदिनी) ॥
विहङ्गः विहायसि गच्छन्ति । ‘गमश्च’ (३.२.४७) इति खच् । ‘विहायसो विह च’ (वा० ३.२.३८) । ‘खच्च डिद्वा’ (वा० ३.२.३८) ॥
विहङ्गिका
- अथेति । विहङ्गस्य प्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । विहायसा गच्छति वा । ‘गमश्च’ (३.२.४७) इति खच् । ‘विहायसो विह च’ ‘खच्च डिद्वाच्यः’ (वा० ३.२.३८) । यावादित्वात् (५.४.२९) कन् । मुकुटस्तु । ‘विहङ्गमा’-इति पठति ॥
विहसितम् मध्यम इति । स हासो मध्यमो महत्त्वाल्पत्वहीनः । ‘हसे हसने’ (भ्वा० प० से०) । भावे क्तः (३.३.११४) । ‘आकुञ्चितकपोलाक्षं सस्वनं निःस्वनं तथा । प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः
विहायः विशेषेण हाययति गमयति विमानादीन् । ‘हय गतौ (भ्वा० प० से०) ण्यन्ताद् असुन् (उ० ४.१८९) विजहाति भुवं वा ‘वहिहाधाञ्भ्यश्छन्दसि’ (उ० ४.२२१) इत्यसुन् । णिदित्यस्यानुवृत्तेर्युक् (७.३.३३) । विपूर्वाज्जहातेर्बाहुलकादसुन्-इति मुकुटः । तन्न । असुनो धातुमात्रात् (उ० ४.१८९) विहितत्वेन बाहुलकस्यानुपयोगात् । यकारस्याश्रवणप्रसङ्गाच्च । (१६)
विहायाः विजहाति भुवम् । ‘ओहाक् त्यागे’ (जु० प० अ०) । ‘वहिहाधाञ्भ्यश्छन्दसि’ (उ० ४.२२१) इत्यसुन् णिच्च । क्वचिच्छान्दसा अपि भाषायां प्रयुज्यन्ते । तेन लोकेऽपि । यद्वा वि हाययति । ‘हय गतौ’ (भ्वा० प० से०) । ‘हि गतौ’ (स्वा० प० अ०) वा स्वार्थण्यन्तः । ‘सर्वधातुभ्योऽसन्’ (उ० ४.१८९) ‘विहायाः शकुनौ पुंसि गगने पुनपुंसकम्’ (इति मेदिनी) ॥
विहायितम् विहायनम् । हाको (जु० प० अ०) । ण्यन्ताद्भावे क्तः (३.३.११४) ॥
वीचिः “वयति, ऊयते वा । ‘वेञ् तन्तुसंताने (भ्वा० उ० अ०) । ‘वेञो डिच्च’ (उ० ४.७२) इतीचिः । यत्तु-वाति । वा गतिगन्धनयोः’ (अ० प० अ०) । ‘वातेः कित्–इति मुकुटः । तन्न । तथासति ‘विः’ इति रूपप्रसङ्गात् । ’वातेर्डिच्च’ (उ० ४.१३४) इति सूत्रे ‘जनिघसिभ्यामिण्’ (उ० ४.१३०) इति सूत्रात् ‘इण्’ इत्यनुवृत्तेः ‘वीचिर्नित्यं स्त्री’ इति स्वामी । ‘वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखे द्वयोः ।”
वीजकोषः वीजेति । वीजस्य कोषः पात्रमाधारः । तालव्यान्तोऽपि ॥
वीजाकृतम् वीति । वीजेन सह कृतं कृष्टम् । ‘कृञो द्वितीयतृतीयशम्बवीजात्कृषौ’ (५.४.५८) इति डाच् । अवीजं सवीजं सम्पन्नम् । वीजाकृतम् इति स्वामी । तन्न । ‘अभूततद्भावे इत्यस्याननुवृत्तेः ॥
वीणा वीणेति । वेति जायते स्वरोऽस्याम् । वी गत्यादिषु (अ० प० अ०) । ‘रास्नासास्ना-’ (उ० ३.१५) इत्यादिना नप्रत्ययो णत्वं गुणाभावश्च निपातितः । ’वीणा विद्युति वल्लक्याम् ।
वीणादण्डः वीणेति । वीणाया दण्डः ।
वीणावादाः
- वीति । वीणां वादयन्ति ॥
वीतंसः
- वीति । वितंस्यते । ‘तसि अलंकारे’ (चु० प० से०) । घञ् (३.३.१९) । ‘उपसर्गस्य-’ (६.३.१२२) इति दीर्घः । ‘वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च विश्वासहेतोः प्रावरणेऽपि च’ इति विश्वः (मेदिनी) ॥
वीतम् “वीति । वेति, स्म युद्धादिकर्मणः । ‘वी गत्यादौ’ (अ० प० से०) । अजति स्म वा । ‘अज गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘वीतमसारगजे स्यादङ्गशकर्मण्यसारतुरगे च’ (इति मेदिनी) ॥ न सारो बलमस्य । हस्ती चाश्वश्च । सेनाङ्गत्वादेकत्वम् (२.४.२) ॥”
वीतिहोत्रः ‘वी गतिप्रजनकान्त्यसनखादनेषु (अ० प० अ०) । कर्मणि क्तिन् (३.३.९४) । वीतिर्भक्ष्यम् । पुरोडाशाहूयतेऽस्मिन् । ‘हु दानादनयोः’ (जु० प० से०) । ‘हुयामा-’ (उ० ४.१६८) इति त्रन् । वीतिरश्वो होत्रं हवनमस्येति वा । (‘वीतिहोत्रोऽनलेऽर्के च’) ।
वीथी वीति । विथ्यते । विथृ याचने’(भ्वा० आ० से०) । ‘इगुपधात्कित्-’ (उ ४.१२) इतीन् । बाहुलकाद्दीर्घः । ‘कृदिकारात्-’ (ग ४.१.४५) इति वा ङीष् । ‘वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरूपके’ इति हैमः ।
वीनाहः वीनाह इति । विनह्यतेऽनेन । ‘णह बन्धने’ (दि० उ० अ०) । हलश्च’ (३.३.१२१) इति घञ् । उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः । (१) कूपमुखे इष्टकादिभिर्वद्धस्य एकम् ॥
वीरः वीरयति । ‘शूर वीर विक्रान्तौ चुरादिः । पचाद्यच् (३.१.१३४) । यद्वा विशेषेण ईते ईरयति वा । ‘ईर गतौ’ (अ० आ० से०) । कः (३.१.१३५) । अजति वा रक् (उ० २.१३) । ‘वीरो जिने भटे श्रेष्ठे वीरं श्रृङ्ग्यां नतेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु ॥ मदिराक्षीरकाकोली काष्ठोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि’ इति हेमचन्द्रः ।
वीरः वीरयति । ‘वीरो रसविशेषे स्यादुत्तरे सुभटे त्रिषु । स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके । पतिपुत्रवतीर म्भाविदारीदुग्धिकासु च । मलयूक्षीरविदार्योः क्लीबं शृङ्ग्यां नतेऽपि च’ इति (पवर्गतृतीयादौ मेदिनी) ॥
वीरणम् स्यादिति । विं पक्षिणमीरयति । ल्युः (३.१.१३४) । युच् (उ० २.७८) वा । —विशिष्टजनमीरयति । ‘शूर वीर विक्रान्तौ’ | (चु० आ० से०) - इति मुकुटः । तन्न । विग्रहप्रदर्शनधातूपन्यसनयोर्विरुद्धत्वात् ॥
वीरतरम् अच् (३.१.१३४) । अतिशयितं वीरम् । ‘द्विवचन-’ (५.३.५७) इति तरप् । ‘स्याद्वीरणे वीरतरं वीरश्रेष्ठे शवे च ना’ (इति मेदिनी) ॥
वीरतरुः वीरश्वासौ तरुश्च । दृढकाष्ठत्वात् ॥
वीरपत्नी वीति । वीरः पतिरस्याः ‘नित्यं सपत्न्यादिषु’ (४.१.३५) इति साधुः ॥
वीरपानम् वीति । वीराणां पानम् । ‘वा भावकारणयोः’ (८.४.१०) इति णत्वम् ॥
वीरभार्या वीरस्य भार्या ॥
वीरमातृः वीरमेति । वीरस्य माता ॥
वीरवृक्षः वीरेति । वीर इव वृक्षो दुःस्पर्शत्वात् । वीरवृक्षस्तु भल्लातकार्जुनद्रुमयोः पुमान्’ ॥
वीरसू वीरं सूते । ‘षूङ् प्राणिगर्भविमोचने’ (अ० आ० से०) । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
वीरहा अथेति । वीरोऽग्निः । तं हन्ति । ‘क्विप् च’ (३.२.७६) ॥
वीराशंसनम् सेति । वीरा आशंस्यन्तेऽत्र । ‘आडः शसि इच्छायाम्’ (भ्वा० आ० से०) । ल्युट् (३.३.११५) ॥
वीरुध् लतेति । शाखापत्रसञ्चयः प्रतानः । सोऽस्त्यस्याः । सा प्रतानिनी । ईदृशी लता वीरुदादिशब्दत्रयवाच्या ॥ विरुणद्धि । ‘रुधिर् आवरणे (रु० उ० अ०) । क्विप् (३.२.१७८) । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः । -‘नहिवृति-’ (६.३.११६) इति दीर्घः । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् इति स्वाम्युक्तिश्चिन्त्या । रुधेस्तत्रादर्शनात् कुत्वादर्शनाच्च । ‘वीरुल्लताविटपयोः स्त्रियाम् ॥
वीर्यम् स इति । स उत्साहः अतिशक्तिभाक् । वीरे साधु । ‘तत्र साधुः (४.४.९८) इति यत् । (‘वीर्यं तेजःप्रभावयोः । (शुक्रे शक्तौ च’) ‘अतिशयशक्तिवीर्या’ इति त्वमरमालायां स्त्रीत्वम् ॥
वीर्यम् वीरेऽक्लीबे साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् । यद्वा वीरयति । वीर्यते । अनेन वा । वा । ‘वीर विक्रान्तौ’ (चु० उ० से०) । अघ्न्यादिः (उ० ५.११२) । ‘अचो यत्’ (३.१.९७) वा । ‘वीर्यं तेजः प्रभावयोः । शुक्रे शक्तौ च’ इति हैमः ॥
वुकः वाति । बाहुलकात् कुकः । क्वुनोऽकारस्योत्वं वा ॥ ‘बकः’ इति पाठे क्वुन् (उ० २.३२) । ‘बकस्तु बकपुष्पे स्यात्कङ्के श्रीदे च रक्षसि’ (इति मेदिनी) ॥
वुसम् वुसति । ‘वुस उत्सर्गे’ (तु० प० से०) । ‘इगुपध’ (३.१.१३५) इति कः । (वुसं दन्त्यमिति धातुप्रदीपः) । ‘वुषवेषतुषारतोषाः’ इति षभेदान्मूर्धन्यान्तमपि ॥
वृकः वर्कते । ‘वृक आदाने’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘सृवृशुषिमुषिभ्यः कक्’ (उ० ३.४१) ॥
वृकधूपः अथेति । वृक इव धूपः । ‘वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः’ (इति मेदिनी) ॥
वृकधूपः ‘वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे’ इति रभसः । धूप्यतेऽनेन । ‘धूप संतापे’ (भ्वा० प० से०) । घञ् (३.३.१८) । वृकनामा धूपः । शाकपार्थिवादिः (वा० २.१.७८) ॥
वृक्षः वृक्ष इति । वृक्षति । ‘वृक्ष वरणे’। पचाद्यच् (३.१.१३४) । वृश्च्यते वा । ओव्रश्चू छेदने’(तु० प ० से०) । सक् (उ ३.६६) ॥
वृक्षभेदी
- वृक्षं भेत्तुं शीलमस्य । ‘भिदिर् विदारणे’ (रु० उ० अ०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
वृक्षरुहा वृक्षं रोहति । मूलविभुजादित्वात् (३.२.५) कः । वृक्षे रोहति इति वा । ‘इगुपध (३.१.१३५) इति कः ॥
वृक्षवाटिका कृत्रिमवृक्षसमूहस्य । अमेति । वट्यते । ‘वट वेष्टने’(भ्वा० प० से०) । संज्ञायाम् (३.३.१०९) इति ण्वुल् । ‘वुञ्’ इति मुकुटस्य प्रमादः । टाप् (४.१.४) । प्रत्ययस्थात्-’ (७.३.४४) इतीत्वम् । वृक्षाणां सा ॥
वृक्षादनी
- व्रिति । वृक्षमत्ति । ‘अद भक्षणे’ (अ० प० अ०) । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् ॥
वृक्षादनी वृक्षमत्ति । ‘अद भक्षणे’ (अ० प० अ०) । ल्युट् (३.३.११३) । ‘वृक्षादनी तु बन्दायां विदारीकन्दकेऽपि च’ इति विश्वमेदिन्यौ ॥
वृक्षाम्लम् वृक्षस्याम्लम् ॥
वृजिनम् वृज्यते । ‘वृजी वर्जने’ (अ० आ० से०) । ‘वृजेः किच्च’ (उ० २.४७) इतीनच् । ‘वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु ।
वृत्ताध्ययनर्द्धिः “वृत्तं चाचारः,‘अध्ययनं च गुरुमुखाद्वेदाक्षरग्रहणम् । तयोर्ऋद्धिः॥”
वृत्तान्तः वृत्तोऽनुवर्तनीयो गवेषणीयोऽन्तः समाप्तिर्यस्य । वृत्तान्तस्तु प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः’ इति हैमः ॥
वृत्तिः वर्ततेऽनया । क्तिन् (३.३.९४) । ‘(वृत्तिर्विवरणाजीवकैशिक्यादिप्रवर्तने’ इति मेदिनी) ॥
वृत्रहा वृत्रं हतवान् । ब्रह्मभ्रूणवृत्रेषु-’ (३.२.८७) इति क्विप् ।।
वृथा
- व्रियते । ‘वृङ्’ (क्र्या० आ० से०) । ‘वृञ् (स्वा० उ० से०) वा । थाक् ‘वृथा वन्ध्ये निष्कारणे’ (इति मेदिनी) ॥
वृद्धः वर्धते स्म । ‘वृधु’ ‘वृद्धौ’ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘वृद्धः प्राज्ञे च स्थविरे वृद्धं शैलेयरूढयोः’ इति हैमः ॥
वृद्धत्वम् वृद्धस्य भाव । त्वः (५.१.१२०) ॥
वृद्धदारकः वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा । ण्वुल् (३.१.१३३) ॥
वृद्धनाभिः वृद्धेति । वृद्धा उन्नता नाभिरस्य ॥
वृद्धम् वर्धते स्म । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे’ (इति मेदिनी) ॥
वृद्धश्रवाः वृद्धेभ्यः शृणोति । ‘श्रु श्रवणे’ (भ्वा० प० अ०) । असुन् (उ० ४.१६९) । वृद्धे श्रवसी यस्येति वा । वृद्धेषु पण्डितेषु श्रवो यशो यस्येति वा ।
वृद्धसङ्घम् वृद्धेऽति । वृद्धानां संघः॥
वृद्धा वृद्धेति । वर्धते स्म । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । ‘गत्यर्था–’ (३.४.७२) इति क्तः । ‘वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे’ (इति मेदिनी) ॥
वृद्धिः वर्धतेऽनया । ‘वृधु वृद्धौ’ (भ्वा० आ० से०) । क्तिच् (३.३.१७४) । ‘वृद्धिस्तु वर्धने योगेऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति’ (इति मेदिनी) ॥
वृद्धिः उपचयो वृद्धिः ॥
वृद्धिजीविका वृद्ध्याजीविका ॥
वृद्धोक्षः व्रिति । वृद्धश्चासावुक्षा च । पूर्ववत् ॥
वृद्ध्याजीवः वृद्धिराजीवो जीविकास्व ॥
वृन्तम् “वृन्तमिति । वृणोति । ‘वृञ् वरणे (स्वा० उ० से०) । बाहुलकात् ‘अञ्जिघृसि-’ (उ० ३.८९) इति क्तः, नुम् च । मुकुटस्तु ‘वृणोतेनुक्च’ इति सूत्रं कल्पितवान् । –बाहुल्यान्न णत्वम् इति चिन्त्यम् । अनुस्वारं प्रति णत्वस्य (णत्वं प्रति परसवर्णस्य) असिद्धत्वात् । ‘वृन्तं प्रसवबन्धे च घटीधाराकुचाग्रयोः ॥”
वृन्दम् वृण्यते । ‘वृणु भक्षे’ (तु० प० से०) । वृणोति वा । ‘अब्दादयश्च’ (उ० ४.९८) इति साधुः ॥
वृन्दारकाः प्रशस्तं वृन्दं येषाम् । ‘शृङ्गवृन्दाभ्यामारकन्’ (५.२.१२० वा०) । (‘वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु’) ॥
वृश्चनः
- व्रिति । वृश्चतेऽनेन । ‘ओ व्रश्चू छेदने’ (तु० प० से०) ‘करणा-’ (३.३.११७) इति ल्युट् ॥
वृश्चिकः वृश्चीति । वृश्चति । ‘ओव्रश्चू छेदने’ (तु० प० से०) । ‘वृश्चिकृष्योः किकन्’ (उ० २.४०) । ‘ग्रहिज्या-’ (६.१.१६) इति सम्प्रसारणम् । ‘वृश्चिकस्तु दुणे राशौ शूककीटौष धीभिदोः’ (इति मेदिनी) ।
वृश्चिकः वृश्चीति । वृश्चति । ‘ओव्रश्चू छेदने’ (तु० प० से०) । ‘वृश्चिकृष्योः किकन्’ (उ० २.४०) । ‘ग्रहिज्या-’ (६.१.१६) इति सम्प्रसारणम् । ‘वृश्चिकस्तु दुणे राशौ शूककीटौष धीभिदोः’ (इति मेदिनी) ।
वृषः वर्षति फलम् । ‘वृषु सेचने’ (भ्वा० प० से०) । इगुपधलक्षणः (३.१.१३५) कः । ‘वृषो गव्याखुधर्मयोः । पुंराशिभेदयोः शृङ्गयां वासके शुक्रलेऽपि च । श्रेठे स्यादुत्तरस्थश्च’ इति हैमः ।
वृषः वर्षति मधु । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘वृषः स्याद्वासके धर्मे सौरभेये च शुक्रले’ इति मूर्धन्यान्ते विश्वः । यत्तु - वृष्यते पीयते । वृष पाने’ । ‘घर्ञथे कः’ (वा० ३.३.५८) - इति मुकुटनोक्तम् । तन्न । धातुपाठेऽदर्शनात् । परिगणनाच्च ॥
वृषः वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥
वृषः ‘इगुपध-’ (३.१.१३५) इति कः । ‘वृषो धर्मे बलीवर्दे शृङ्ग्यां पुंराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषकशुक्रले । वृषा मूषिकपर्ण्यां च’ (इति मेदिनी) ॥
वृषणः वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । बाहुलकात् क्युः । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युचि वा संज्ञापूर्वकत्वाद्गुणाभावः ॥
वृषदंशकः वृषान् मूषकान् दशति । ‘दंश दशने’ (भ्वा० प० अ०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् (५.३.७५) ॥
वृषध्वजः वृषो ध्वजश्चिह्नमस्य ।।
वृषभः वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । अभच् (उ० ३.१२३) । वृषभः श्रेष्ठवृषयोः’ इति विश्वः ॥
वृषलाः “- वृष्यते, वर्षति वा । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘वृषादिभ्यश्च’ (उ० १.१०६ ) इति कलच् । वृषं धर्मं लुनाति वा । ‘लूञ् छेदने’ (क्र्या० उ० से० ) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०) इति डः । वृषं लाति वा । कः (३.२.३) ॥”
वृषस्यन्ती वृषेति । ‘वृषो नरो वृषः कालः’ इत्यनेकार्थमञ्जरी । वृषं नरं शुक्रलं वेच्छत्यात्मनः । ‘सुप आत्मनः क्यच्’ (३.१.८) । ‘अश्वक्षीर-’ (७.१.५१) इत्यत्र ‘अश्ववृषयोर्मैथुनेच्छायाम्’ इति वचनादसुक् । लटः शता (३.२.१२४) । ‘उगितश्च’ (१.४.६) इति ङीप् । ‘आच्छीनद्योर्नुम्’ (७.१.८०) ॥
वृषा वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘कनिन् युवृषि-’ (उ० १.१५६) इति कनिन् । वृषा तु वासवे । वृषभे तुरगे पुंसि ।
वृषा “वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । (‘वृषो धर्मे बलीवर्दे शृङ्ग्यां पुंराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च व्यासमूषिकशुक्रले । तथा वास्तुस्थानभेदे पुमानेष प्रकीर्तितः । वृषा मूषिकपर्ण्यां च, यतीनामासने वृषी’) ॥”
वृषी व्रेति । ब्रुवन्तः सीदन्त्यस्याम् । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । पृषोदरादिः (६.३.१०९) । वर्षति सुखं वा । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘इगुपध-’ (२.१.१३५) इति दन्त्यान्ते कः । गौरादिः (४.१.४१) मूर्धन्यान्तः । ‘अतसी वृसी मांसी’ इत्यन्ते चन्द्रगोमिदर्शनाद्दन्यान्तापि ॥
वृष्टिः वर्षणम् । वृषु सेचने’ (भ्वा० प० से०) स्त्रियां क्तिन्’ (३.३.९४) |
वृष्णिः वर्षति । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘सृवृषिभ्यां कित्’ (उ० ४.४९) इति निः । ‘सृणिवेणिवृष्णिपार्ष्णिचूर्णयः’ इति निः–इति मुकुटस्त्वपाणिनीयः ॥
वेगिनी अतिशयितो वेगोऽस्य । इनिः (५.२.११५) ॥
वेणिः वेणीति । वेणति । ’वेणृ निशामनवादित्रादानगमनज्ञानचिन्तासु’ (भ्वा० उ० से०) । इन् (उ० ४.११८) ॥
वेणी वेणीति । वेणीव । ‘देवताडेऽपि वेणी स्यात्प्रवेण्यामपि योषिति’ इति रभसः ॥
वेणुः “वेणति । ‘वेणृ निशामनवादित्रादानगमनज्ञानचिन्तासु’ (भ्वा० उ० से०) । बाहुलकादुः । यद्वा अजति ‘अजिवृरीभ्यो निच्च’ (उ० ३.३८) इति णुः । ‘अजे-’ (२.४.५६) । -वयन्ति शोभन्ते स्वनेन । ‘वी’ धातोः “धेन्वादयश्च’ इति नुः, णत्वं च - इति सुभूतिः । तन्न उक्तसूत्राभावात् । ‘वी’ धातोरदादिकत्वेन ‘वयन्ति’ इति रूपाभावाच्च । ‘वेणुर्नुपान्तरे । त्वक्सारेऽपि च पुंसि स्यात् (इति मेदिनी) ॥”
वेणुध्माः
- वयिति । वेणुं धमन्ति । ‘ध्मा शब्दादौ’ (भ्वा० प० से०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
वेतनम्
- वीयतेऽनेन । ‘वी गत्यादौ’ (अ० प० अ०) । ‘वीपतिभ्यां तनन्’ (उ० ३.१५०) ॥
वेतसः अथेति । अयनम् । ‘इण् गतौ’ (अ० प० अ०) । ‘नपुंसके (3.३.११४) इति क्तः । वा विकल्पस्येतं ज्ञानं स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यद्वा ऊयते । ‘वेञ् तन्तुसन्ताने’ (भ्वा० उ० अ०) । ‘वेञस्तुट् च’ (उ० ३.११८) इत्यसच् । बाहुलकादात्वं न । यत्तु-‘वेतसवाहसपनसाः’ इत्यसनि निपातनादेव तुट् - इत्याह मुकुटः । तन्न । उणादिषु तत्सूत्रादर्शनात् ॥
वेतस्वान् वेतेति । वेतसाः सन्त्यत्र ॥ (१) बहवो वेतसा यत्र ॥
वेत्रवती वेत्रमस्त्यस्याम् । मतुप् (५.२.९४)
वेदः विदन्त्यनेन धर्मम् । ‘विद ज्ञाने’ (अ० प० से०) । ‘हलश्च’ (३.३.२२१) इति घञ् । ’वेदः श्रुतौ च वित्तौ च’।
वेदिः “त्रीणि ।–‘वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाश्च ते’ इति कात्य-इति मते द्वे ऋत्विजाम् । वेदिरिति । विद्यते शोधनेन ज्ञायते, विचार्यते, प्राप्यते, वा । तॄ पिषिरुहिवृति-’ (उ० ४.११९) इतीन् । यद्वा वेदयति, वेद्यते वा । ‘विद निवासादौ’ चुरादिः । ‘अच इः’ (उ० ४.१३९) । ‘वेदिः स्यात्पण्डिते पुमान् । स्त्रियामङ्गुलिमुद्रायां स्यात् परिष्कृतभूतले’ (इति मेदिनी) ॥ परितः कृता संस्कृता । ‘सम्परिभ्याम्-’ (६.१.१३७) इति सुट् । ‘परिनिवि-’ (८.३.७०) इति षत्वम् ॥”
वेदिका विदन्त्यस्याम् । इन्नन्तात् कृदिकारात्-’ (ग० ४.१.४५) इति वा ङीष् । स्वार्थे कन् (५.३.७५) ॥
वेधनिका
- विध्यतेऽनया । ‘विध विधाने’ (तु० प० से०) । ल्युट् (३.३.११७) । स्वार्थे कन् (ज्ञापि० ५.४.५) ‘वेधनी तु लास्फोटन्यां स्फोटनी वृषदंशिका’ इति वाचस्पतिः ॥
वेधमुख्यकः वेधे मुख्यः। स्वार्थे कन् (५.२.७५) ॥
वेधाः विदधाति । ‘विधाञो वेध च’ (उ० ४.२२५) इति वेधादेशोऽसिप्रत्ययश्च । मुकुटस्तु असुन् इत्याह तन्न । (६.१.१९७) आद्युदात्तत्वापत्तेः। ‘मिथुनेऽसिः’ (उ० ४.२२३) इत्युपक्रमाच्च ‘वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि’) ॥
वेपथुः वेपनम् । ‘टुवेपृ कम्पने’ (भ्वा० आ० से०) । ‘वितोऽथुच्’ (३.३.८९) ॥
वेमा
- पुंसीति । वयत्यनेन । ‘वेञ् तन्तुसंताने’ (भ्वा० उ० अ०) । ‘वेजः सर्वत्र’ (उ० ४.१५०) इति मनिन् ।
वेल्लजः अथेति । वेल्लनम् । ‘वेल्ल चलने’ (भ्वा० प० से०) । घञ् (३.३.१८) । वेल्लं जायते । ‘जनी’ (दि० आ० से०) । अन्तर्भावितण्यर्थः । ‘अन्येष्वपि-’ (३.२.१०१) इति डः ॥
वेल्लम् अथविति । वेल्लति । ‘वेल्ल चलने’ (भ्वा० प० से०) । अच् (३.१.१३५) । ‘अथ वेल्लं कृमिघ्नतण्डुलौ’ इति रभसः ॥
वेशः वेश इति । विशन्त्यत्र । विश प्रवेशने’ (तु० प० अ०) । ‘हलश्च’ (३.३.१२१) घञ् । ‘नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च’ इति तालव्यान्ते रभसः । ‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्धन्योऽलंकरणे कथित आचार्यैः’ इत्यूष्मविवेकः ।
वेशन्तः वेशन्त इति । विशन्त्यत्र भेकादयः । विश प्रवेशने’ (तु० प० अ०) । ‘जॄविशिभ्यां झच् (उ० ३.१२६) ॥
वेश्म विशन्त्यत्र । ‘विश प्रवेशने’ (तु० प० अ०) । मनिन् (उ० ४.१४५) ॥
वेश्मभूः वेश्मेति । वेश्मनो भूः ।
वेश्या वेशो वेश्यागृहे गृहे । नेपथ्ये च’ (इति मेदिनी) । वेशेन नेपथ्येन शोभते । ‘कर्मवेशाद्यत्’ (५.१.१००) । वेशे वेश्यावाटे भवा वा । ‘दिगादिभ्यो यत्’ (४.३.५४) । वेशः प्रवेशोऽस्त्यस्याः । ‘अन्येभ्योऽपि-’ (वा० ५.४.१२०) इति यब् वा । ‘वेश्यं वेश्यागृहे क्लीबं गणिकायां तु योषिति’ (इति मेदिनी) । ‘वेष्या’ इति मूर्धन्यमध्यपाठोऽपि । वेवेष्टि । ‘विष्लृ व्याप्तौ’ (जु० उ० अ०) । अघ्न्यादिः । (उ० ४.११२) ॥
वेश्याजनसमाश्रयः वेश्याजनस्य समाश्रयो वासस्थानम् ॥
वेषः “वेषणम्, विष्यते, वा । ‘विष्लृ व्याप्तौ’ (जु० प० से०) । घञ् (३.३.१८,१९) । वेवेष्टि वा । अच् (३.१.१३४) । तालव्यशान्तोऽपि । वेशनम् । विश्यते वा । विशति वा । ‘विश प्रवेशने’ (तु० प० अ०) । प्राग्वत् । त्रिष्वप्यधिकरणे घञ् (३.३.१९) वा । ‘वेशो वेश्यागृहे गृहे नेपथ्ये च’ (इति मेदिनी) ॥”
वेसवारः वेसेति । वेसनम् ‘विस प्रेरणे’ (दि० प० से०) । घञ् (३.३.१८) । वेसं प्रेरणं वारयति वृणोति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) ‘कर्मण्यण्’ (३.२.१) ॥
वेहत् अथेति । विहन्ति गर्भम् । ‘संश्चत्तृपद्वेहत्’ (उ० २.८४) इति साधुः ॥
वै – वै ।
वै
- वाति । डैः ॥
वैकक्षकम् वैकेति । विशिष्टः कक्षोऽस्माद्विकक्षमुरः । तत्र भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥ यदुरसि उपवीतवत्तिर्यक् क्षिप्तम् । तत् ।
वैकुण्ठः “विकुण्ठाया अपत्यम् । शिवादित्वात् (४.१.११२) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् । यद्वा विकुण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । ‘तस्येदम्’ (४.३.१२०) इति, ‘शेषे’ (४.२.९२) इति वाण् । विगता कुण्ठा यस्मात् । प्रज्ञाद्यण् (५.४.३८) वा । (‘वैकुण्ठो वासवे विष्णौ’) ॥”
वैजननः विजायतेऽस्मिन् । ‘करणा-’ (३.३.११७) इति ल्युट् । विजनन एव । प्रज्ञाद्यण् (५.४.३८) । यद्वा विजननस्य गर्भमोचनस्यायम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव जन्तुश्छिद्रेण सत्वरः’ ॥
वैजयन्तः वैजयन्त्यः पताकाः सन्त्यस्य । अर्शः (५.२.१२७) । ‘वैजयन्तो महेन्द्रस्य ध्वजप्रासादयोः पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम् ।।
वैजयन्तिकः वैजयन्त्यस्यास्ति । व्रीह्यादित्वात् (५.२.११६) ठन् । यद्वा वैजयन्त्या चरति । ‘चरति’ (४.४.८) इति ठक् ॥
वैजयन्तिका विजयन्तस्येयम् । तस्येदम्’ (४.३.१२०) इत्यण् । स्वार्थे कन् (५.३.७५) । यद्वा वैजयन्ती पताकेव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् ॥
वैजयन्ती विजयते । ‘जि अभिभवे’ (भ्वा० प० अ०) ‘तॄभूवहि-’ (उ० ३.१२८) इति झच् । विजयन्तस्येयम्’ ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘वैजयन्तो गुहे शक्रप्रासादध्वजयोः पुमान् । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्’ (इति मेदिनी) ॥
वैणवम् वेणोः । ‘बिल्वादिभ्योऽण्’ (४.२.१३६) । (मयटि (४.३.१४३) प्रकृते अणः) विधेर्नाणो लुक् ॥
वैणविकाः
- वेणोर्विकारः । ‘ओरञ् (४.३.१३९) । वैणवं शिल्पमस्य । ठक् (४.४.५५) ॥
वैणिकाः
- वीणा शिल्पमेषाम् ॥
वैणुकम् वेणुना निर्वृतम् । ‘निवृत्तेऽक्षद्यूतादिभ्यः’ (४.४.१९) इति ठक् । ‘इसुसुक्तान्तात्कः’ (७.३.५१) । ‘वेणुकम्’ इति पाठान्तरम् । संज्ञापूर्वकत्वान्न वृद्धिः ॥
वैतंसिकः
- वायिति । वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति ॥
वैतनिकः
- वेतनेन जीवति । ‘वेतनादिभ्यो जीवति’ (४.४.१२) इति ठक् ॥
वैतरणी “वैतेति । नारकी नदी । विगतस्तरणिर्यत्र तत्र भवा । अण् (४.३.५३) । विगता तरणिनौर्यत्र वा । प्रज्ञाद्यण् (५.४.३८) । वितरणेन दानेन लङ्घ्यते इति वा । ‘शेषे’ (४.२.९२) इत्यण् । ‘नारका जन्तवः प्रेता नदी वैतरणी स्मृता’ इति त्रिकाण्डशेषः । वैतरणी नद्यां प्रेतानां, यातुमातरि ।”
वैतालिकः “वायिति । विविधेन तालेन शब्देन चरन्ति । ‘चरति’ (४.४.८) इति ठक् । स प्रयोजनमस्य । ‘प्रयोजनम्’ (५.१.१०९) इति ठक्, वा ॥”
वैदेहकः
- तेति । विदेहेषु भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । विदेहस्यापत्यम् । ‘जनपद-’ (४.१.१६८) इत्यञ् । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘वैदेहको वाणिजके शूद्रोद्वैश्यासुतेपि च’ इति विश्वः (मेदिनी) ॥
वैदेहकः “वायिति । विदेहेषु भवः धूमादित्वात् (४.२.१२७) वुञ् । विदेग्धि वा । ‘दिह उपचये’ (अ० उ० अ०) । ण्वुल् (३.१.१३३) । प्रज्ञाद्यण् (५.४.३८) । ‘वै निश्चितो देह उपचयो यस्य’, इति वा । ‘वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च’ । इति विश्वः (मेदिनी) हेमचन्द्रौ ॥”
वैदेही विदेहेषु भवा । ‘वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च (इति मेदिनी)॥
वैद्यः विद्यामधीते । ‘तदधीते तद्वेद’ (४.२.५९) इत्यण् ॥
वैद्यमाता वैद्यति । वैद्यस्य मातेव ॥
वैधात्रः विधातुरपत्यम् । अण् (४.१.९२) ।वैद्यसंहिताप्रणेतृत्वात्स्वर्वैद्यपर्यायसंनिधौ कथनम् ।
वैनतेयः विनताया अपत्यम् । ‘स्त्रीभ्यो ढक् (४.१.१२०) ॥ वैनतेयस्तु गरुडे स्यात्प्रभाकरसारथौ |
वैनीतकः पेति । विनीतकानामिदम् । यद्वा विनीयते स्म । क्तः (३.२.१०२) । ‘संज्ञायां कन्’ (५.३.७५) । प्रज्ञाद्यण् (५.४.३८) ॥ परम्परया यद्वाह्यं वहति । शकटं यथारूढम् ।
वैमात्रेयः वैमेति । विरुद्धा माता । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः । विमातुरपत्यम् । शुभ्रादित्वात् (४.१.१२३) समासः । ढक् ॥
वैयाघ्रः उभाविति । द्वीपिनो व्याघ्रस्य च विकारः । ‘प्राणिरजतादिभ्योऽञ्’ (४.३.१५४) द्वैपेन वैयाघ्रेण च चर्मणा परिवृतो रथः । ‘द्वैपवैयाघ्रादञ्’ (४.२.१२) ॥
वैरनिर्यातनम् वैरस्य निर्यातनम् । ‘यत निराकारादौ’ चुरादिः । ल्युट् (३.३.११५) ॥
वैरम् वैरमिति । वीरस्य कर्म । ‘वैरमैथुनिकयोः’ (४.३.१२५) इति निर्देशात् । युवादित्वात् (५.१.१३०) वाण् ॥
वैरशुद्धिः वायिति । वैरस्य शुद्धिः ॥
वैरिन् वीरस्य कर्म भावो वा । युवादित्वात् (५.१.१३०) । ‘-वैरमैथुनिकयोः’ (४.३.१२५) इति निर्देषाद्वाऽण् । वैरमस्यास्ति । इनिः (५.२.११५) ॥
वैवधिक
- विवधं वीवधं वा वहति । ‘विभाषा विवधात्’ (वा० ४.४.१७) इति ठन् । पक्षे ठक् ॥
वैवस्वतः विवस्वतोऽपत्यम् । ’तस्यापत्यम्’ (४.१.९२) इत्यण् ।
वैशाखः वैशाख इति । विशाखया युक्ता पौर्णमास्यस्मिन्नस्ति । (वैशाखः स्थानके मासे मन्थानेऽपि’)
वैशाखः वायिति । विशाखा प्रयोजनमस्य । ‘विशाखाषाढात्-’ (५.१.११०) । ‘वैशाखो मासभेदेऽपि मन्थाने च प्रकीर्तितः (इति मेदिनी) ॥
वैश्या विशन्ति । ‘विश प्रवेशने’ (तु० प० अ०) । क्विप् (३.२.१७८) ॥ स्वार्थे ष्यञ् (वा० ५.१.१२४) ॥
वैश्रवणः विश्रवसोऽपत्यम् । शिवादिषु (४.१.११२) विश्रवसो विश्रवणरवणावादेशौ निपातितौ अण् च ।
वैश्वानरः विश्वे नरा अस्य । ‘नरे संज्ञायाम्’ (६.३.१२९) इति विश्वशब्दस्य दीर्घः । विश्वानरस्यापत्यम् । ऋष्यण् (४.१.११४) । यत्तु विदादित्वात् (४.१.१०४) अञ् । बहुत्वे च ‘यञञोश्च (२.४.६४) इति लुक् । विश्वानराः—इति मुकुटः । तन्न । ‘विश्वे वैश्वानरा उत’ इत्यत्र लुकोऽदर्शनात् । ‘वैश्वानराय मीढुषे इत्यादावन्तोदात्तदर्शनाच्च । ऋषिभ्यो गोत्रापत्येऽञो विहितत्वेनान न्तरापत्ये प्रसक्त्यभावाच्च । एतेन विदादित्वात् ४.१.१०४) अञ्-इति वदन् स्वाम्यपि प्रत्युक्तः ।।
वैसारिणः विविधं सरति । ‘सृ गतौ (भ्वा० प० अ०) । ग्रह्यादित्वाण्णिनिः । विसारी । ‘विसारिणो मत्स्ये’ (५.४.१६) इति स्वार्थेऽण् ।
वोलः “बोलेति । बोलयति । ‘बुल मज्जने’ (चु० प० से०) । अच् (३.१.१३४) । वाति, वा । ‘वा गतिगन्धनयोः’ (अ० प० अ०) । पिञ्जादित्वात् (उ० ४.९०) ऊलच् ॥”
वौषट्
- उह्यतेऽनेन । ‘वह प्रापणे’ (भ्वा० उ० अ०) । डौषट् ॥
व्यक्तिः व्यज्यतेऽनया । अञ्जु व्यक्त्यादौ (रु० प० से०) । स्त्रियां क्तिन्’ (३.३.९४) । व्यनक्ति वा । क्तिच् (३.३.१७४)
व्यजनम् व्येति । व्यजन्त्यनेन । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । करणे ल्युट् (३.३.११७) । ‘वा- यौ’ (२.४.५७) इति पक्षे वी न । ‘बहुलं तणि’ (वा० २.४.५४) इति वा वीभावो न ॥
व्यञ्जकः व्यञ्जकेति । व्यनक्ति । ‘अञ्जू व्यक्त्यादौ” (रु० प० से०) । ण्वुल् (३.१.१३३) य़
व्यडम्बकः व्यडं मलमम्बयति । ‘अबि स्रंसने’ (भ्वा० आ० से०) । णिच् (३.१.२६) । ण्वुल् (३.१.१३३) ॥ व्यडम्बनः’ इति स्वामी । तत्र ल्युट् (३.३.११४) । युच् (उ० २.७८) वा ॥
व्यथा ‘व्यथ भयसंचलनयोः (भ्वा० आ० से०) । ‘घटादयः षितः’ इति शित्त्वतिदेशादडङ् (३.३.१०४) ।
व्यध्वः व्यध्व इति । विरुद्धोऽध्वा । ‘प्रादयो गताद्यर्थे’ (वा० २.२.१८) इति समासः । ‘उपसर्गादध्वनः’ (५.४.८५) इत्यच् ॥
व्यवधा व्यवधानम् । डुधाञः (जु० उ० अ०) अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वात् (भ्वा० १.४.६५) ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् ।।
व्यवहारः ‘वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाद्ववहार इति स्मृतः इति कात्यायनः ।
व्यवायः व्येति । व्यवायनम् । ‘इण् गतौ’ (अ० प० अ०) । ‘एरच्’ (३.३.५६) । ‘अय गतौ’। घञ् (३.३.१८) वा । (भ्वा० आ० से०) वा॥
व्याकोशः व्यावृत्तः कोशः संकोचोऽस्मात् । ’प्रादिभ्यो धातुजस्य-’ (वा० २.२.२४) इति समासः ॥ मूर्धन्यान्तो वा ॥
व्याघ्रः व्याजिघ्रति । ‘घ्रा गन्धोपादाने’ (भ्वा० प० अ०) । ‘व्याङि घ्रातेश्च जातौ’ (उ० ५.६३) इति कः । यद्वा ‘आतश्वोपसर्गे (३.१.१३६) इति कः । ‘पाघ्रा-’ (३.१.१३७) इति शो न । ‘जिघ्रः संज्ञायाम्-’ (वा० ३.१.१३७) इति निषेधात् । ‘व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकार्या तु योषिति’ (इति मेदिनी) ॥
व्याघ्रनखम् व्याघ्रस्य नखमिव । क्षुभ्नादिः (८.४.३९) । ‘भवेद्व्याघ्रनखं कन्दगन्धद्रव्यविशेषयोः । नखक्षतान्तरे क्लीबम्’ (इति मेदिनी) ॥
व्याघ्रपात् व्याघ्रस्य पादा इव पादा मूलान्यस्य । ‘पादस्य लोपः-’ (५.४.१३८) इत्यकारलोपः ॥
व्याघ्रपुच्छः अथेति । व्याघ्रस्य पुच्छमिव पुच्छमस्य ॥
व्याघ्राटः व्याघ्रति । व्याघ्रमटति । ‘अट गतौ’ (भ्वा० प० से०) ॥ ‘कर्मण्यण्’ (३.२.१) । व्याघ्र इवाटति वा । अच् (३.१.१३४) ॥
व्याघ्री व्याजिघ्रति । ‘व्याघ्रादिभिः-’ (२.१.५६) इति लिङ्गात् ‘आतेश्वोपसर्गे’ (३.१.१३६) इति कः । न तु ‘पाघ्रा-’ (३.१.१३७) इति शः । गौरादिः (४.१.४१) ॥
व्याजः व्यजन्ति क्षिपन्त्यनेन । अज गतिक्षेपणयोः (भ्वा० प० से०) । हलश्च (३.३.१२१) इति घञ् । निष्ठायां सेट्त्वान्न कुत्वम् । व्याजः शाठ्येऽपदेशे च’ इति विश्वः ।
व्याजः व्याज इति ॥
व्याडायुधम् व्याडेति । व्याडस्य व्याघ्रस्यायुधमिव ॥
व्याधः
- व्येति । विध्यति । ‘व्यध ताडने’ (दि० प० अ०) । ‘श्याद्व्यधा-’ (३.१.१४१) इति णः ॥
व्याधिः व्येति । विगत आधिरनेन । ‘कौबेरं भास्वरं कुष्ठं पारिभाव्यं गदाह्वयम्’ इति रभसः । ‘व्याधिः कुष्ठे च रोगे ना’ (इति मेदिनी) ॥
व्याधिः विविधा आधयोऽस्मात् । व्याधानं वा । ‘उपसर्गे घोः किः’ (३.३.९२) ॥
व्याधिघातः व्याधीन् हन्ति । ‘कर्मण्यण्’ (३.२.१) । ‘हनस्तोऽचिण्णलोः’ (७.३.३२) ।
व्याधितः व्याधिः संजातोऽस्य । ‘तदस्य संजातं तारकादिभ्य इतच् (५.२.३६) ॥
व्यानः “प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् डः (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र ‘हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु’ । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । ‘उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते’) । प्रत्येकं देहस्थपञ्चवायूनाम् ।”
व्यापादः ‘पद गतौ’ (दि० आ० अ०) । व्याङ्पूर्वः । व्यापादनम् । ण्यन्तात् (३.१.२६) घञ् (३.३.१८)
व्याप्यम् व्याप्यते । ‘आप्लृ व्याप्तौ’ (स्वा० प० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) ॥ वाप्यां भवम् । ‘वाप्यम्’ इति क्वचित्पाठः । उप्यते । ‘डुवप् बीजसंताने’ (भ्वा० प० अ०) । ण्यत् (३.१.१२४) वा ॥ ‘आप्यम्’ इति च ॥
व्यामः व्येति । विशेषेण अम्यतेऽनेन । ‘अम गतौ’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । मुकुटस्तु व्यामीयतेऽनेन । माङो मूलविभुजादित्वात् (वा० ३.२.५) कः इति व्याख्यत् । तन्न । ‘कृत्कर्तरि’ (३.४.६७) इत्यस्य प्रवृत्त्या करणे कस्यासम्भवात्–व्यामीयते रज्ज्वाद्यनेन इति स्वाम्यप्येवम् ॥ स्वे स्वे पार्श्वे प्रसारितयोर्बाह्वोर्मध्यम् ।
व्यालः व्याडति । ‘अड उद्यमे’ (भ्वा० प० से०) । व्याङ्पूर्वः । अच् (३.१.१३४) । (‘व्याडो हिंस्रपशौ सर्पे’) । डलयोरेकत्वस्मरणात् व्यालोऽपि । ‘व्यालो दुष्टगजे सर्पे खले श्वापदसिंहयोः’ इति विश्वमेदिन्यौ ।
व्यालग्राही व्यालेति । व्यालं गृह्णाति। ‘नन्दिग्रहि- (३.१.१३४) इति णिनिः ।
व्याहारः व्याहार इति । व्याहरणम् । व्याङ्पूर्वाद्धृञो भावे घञ् (३.३.१८)।
व्यूढकङ्कटः व्यूढो धृतः कङ्कटो येन ॥
व्यूतिः
- विशिष्टा ऊतिः । वेञः ‘ऊतियूति-’ (३.३.९७) इत्यादिना क्तिनि निपातितः ॥
व्यूहः व्यूह्यते । घञ् (३.३.१९) । ‘व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः’ (इति मेदिनी) ॥
व्यूहः व्य्विति । व्यूह्यते । ‘ऊह वितर्क’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः’ (इति मेदिनी) ॥
व्यूहपार्ष्णिः व्यूहस्य पार्ष्णिः पृष्ठभागः । ‘पार्ष्णिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च’ इति विश्वमेदिन्यौ ॥
व्योकारः
- व्योकेति । ‘व्यो’ इत्यव्ययं लोहवीजवाची–इति श्रीभोजः । व्यो करोति । अण् (३.२.१) ॥
व्योम व्ययति । ‘व्येञ् संवरणे’ । ‘नामन्सीमन्-’ (उ० ४.१५१) इत्यादिना मन्नन्तं निपातितम् । यद्वा व्यवति । विपूर्वादवतेर्मनिन् (३.२.७५) । ‘ज्वरत्वर-(६.४.२०) इत्यूठौ । सवर्णदीर्घः (६.१.१०१) । ‘सार्वधातुका- ७.३.८४) इति गुणः । (‘व्योम वारिणि चाकाशे ‘भास्करस्यार्चनाश्रये’) ॥
व्योमकेशः व्योम्निकेशा यस्य ।
व्योमयानम् व्योम्नि यान्त्यनेन । करणे ल्युट् (३.३.११७) व्योम याति । कृत्यल्युटः-’ (३.३.११४) इति कर्तरि ल्युट् इति वा ॥
व्योषम् विशेषेण ओषति । ‘उष दाहे’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
व्रजः व्रजति । ‘व्रज गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘व्रजो गोष्ठाध्व वृन्देषु’ (इति मेदिनी) । करणाधिकरणव्युत्पत्तौ तु ‘गोचरसंचर-’ (३.३.११९) इति निपातितः ॥
व्रज्या व्रेति । ‘व्रज गतौ’ (भ्वा० प० से०)।‘व्रजयजोः-’ (३.३.९८) इति भावे क्यप् ॥
व्रज्या व्रजनम् । ‘व्रज गतौ’ (भ्वा० प० से०) ‘व्रजयजोः-’ (३.३.९८) इति क्यप् ॥
व्रणः व्रेति । व्रणाति । ‘व्रण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । यद्वा व्रणयति । ‘व्रण गात्रविचूर्णने’ (चु० उ० से०) । अदन्तः । अच् (३.१.१३४) ॥
व्रतः व्रियते । ‘वृञ्’ (स्वा० उ० से०) ।‘वृड्’ (क्र्या० आ० से०) वा । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् बाहुलकाद्गृञ्वृङ्भ्यामपि । कित्वान्न गुणः । यद्वा व्रजन्त्यनेन । स्वर्गम् । ‘गोचरसंचर-’ (३.३.११९) इति घः । पृषोदरादिः । (६.३.१०९) ॥
व्रततिः प्रतनोति । ‘तनु विस्तारे’ (त० उ० से०) । ‘क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) । पृषोदरादित्वात् (६.३.१०९) पस्य वो वा । ‘प्रततिव्रततिस्तथा’ इति हलायुधः ॥ यद्वा व्रतमिव करोति । व्रतशब्दात् ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्तादाहुलकादतिः । व्रततिस्तु प्रतानिन्यां विस्तारेऽपि’ इति हैमः ॥
व्रतिन् येति । आदिशत्यृत्विजो यागे स्वेष्टसम्पादनाय प्रेरयति । दिश अतिसर्जने’ (तु० प० अ०) । तृच् (३.१.१३३) । आदिष्टी’ इति पाठे आदिष्टमनेन । ‘इष्टादिभ्यश्च (५.२.८८) इतीनिः । क्तस्येन्विषयस्य कर्मणि’ (वा० २.३.३६) इति सप्तमी॥ व्रतं भोजनादिनियमोऽस्यास्ति । ‘अतः-’ (५.२.११५) इतीनिः । यद्वा व्रतयति । ‘व्रताद्रोजनतन्निवृत्त्योः’ इति णिच् । व्रते’ (३.२.२८०) इति णिनिः ॥
व्रातः व्रत्यते नियम्यते । ‘मुण्डमिश्र-’ (३.१.२१) इति ण्यन्ताद्व्रतशब्दाद् घञ् (३.३.१९) । अच् (३.३.५६) वा । ‘व्रातच्फञोः’ (५.३.११३) इति लिङ्गाद्वृध्दिः ॥
व्रात्यः व्रेति । शरीरायासजीवी व्याधादिर्व्रातः । स इव । ‘शाखादिभ्यो यः’ (५.३.१०३) यद्वा व्रातमर्हति । ‘दण्डादिभ्यो यः’ (५.१.६६) ॥
व्रीडा व्रीड लज्जायाम्’ (दि० प० से०) । गुरोश्च’ (३.३.१०३) इत्यप्रत्यये व्रीडा । घञि (३.३.१८) व्रीडः अपि । ‘गण्डूषगर्जभुजजागरहारकीलज्वालाजटारभसवर्तकगर्धशृङ्गाः ॥ व्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठवाणकरकाश्च समामयाश्च इति स्त्रीपुंलिङ्गकथने रभसः । (‘व्रीडोऽक्लीबे त्रपा लज्जा’ इति च तेनोक्तम्) ।
व्रीहिः “वर्हत्युपचयं गच्छति । ‘वृह वृद्धौ’ (भ्वा० प० से०) । ‘इगुपधात् कित्’ (उ० ४. १२०) इति इन् । पृषोदरादिः (६.३.१०९) । व्रीयते । ‘व्रीङ् गत्याम्’ (दि० आ० अ०) । बाहुलकाद् हिक्, वा ॥”
व्रीहिः व्रीणाति । ‘व्री वरणे’ (क्र्या० प० अ०) । व्रीहिशाल्योर्ढक्’ (५.२.२) इति ज्ञापकाद् हिक् । ‘व्रीहिः सामान्यधान्ये स्यादाशुधान्ये च पुंस्ययम्’ इति विश्वः (मेदिनी) ॥
व्रीहिभेदः व्रीहिभेदः
व्रैहेयः क्षयिति । व्रीहीणाम् ॥ ‘व्रीहिशाल्योर्ढक्’ (५.२.२) ॥
शंकरः शं करोति । ‘शमि धातोः संज्ञायाम्’ (३.२.१४) इत्यच् । यत्तु ‘कञो हेतु-’ (३.२.२०) इति टः - इति स्वामी । तन्न । अस्यैव टापवादत्वात् । ।
शंपा शंपेति । भयंकरत्वाच्छं सुखं पिबति । आतोऽनुप-’ (३.२.३) इति कः । टाप् (४.१.४) ।
शकटः शक्नोति भारं वोढुम् । जीवयितुं वा । तदुक्तम् –‘शकटः शाकिनी गावो यानमास्कन्दनं स्वनम् । अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः’ इति । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) ॥
शकलम् “शक्नोति, शक्यते वा । ‘शक्लृ शक्तौ (स्वा० प० अ०) । ‘शकिशम्योर्नित्’ (उ० १.११२) इति कलच् । ‘शकलं त्वचि खण्डे च रागवस्तुनि वल्कले इति विश्वः ।”
शकली शकलमस्यास्ति । अत इनिः’ (५.२.११५) । ‘शकलं वल्कलेऽर्थे च’ इति तालव्यादावजयः ॥ अष्टौ मत्स्यसामान्यस्य ।
शकुनः ‘शकुन्तस्तु पुमान् पक्षिमात्रपक्षिविशेषयोः । शुभशंसिनिमित्ते च शकुनं स्यान्नपुंसकम्’ (इति मदिनी) ॥
शकुनिः ‘शकुनिः पुंसि विहगे सौबले करणान्तरे’ (इति मेदिनी) ॥
शकुन्तः ‘शकुन्तः कीटभेदे स्याद्भासपक्षिविहंगयोः इति मेदिनी ॥
शकुन्तिः शक्नोति । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘शके रुनोन्तोन्त्युनयः’ (उ० ३.४९) इति प्रत्ययचतुष्टयम् ॥
शकुलः शक्नोति गन्तुं वेगेन । शक्लृ शक्तौ’ (स्वा० प० अ०) । बाहुलकादुलच् ।
शकुलाक्षकः शकुलस्य मत्स्यस्येवाक्षि यस्य । ‘अक्ष्णोऽदर्शनात्’ (५.४.७६) इत्यच् । स्वार्थे कन् (५.३.७५) ॥
शकुलादनी शकुलैरद्यते । ‘अद भक्षणे’ (अ० प० अ०) । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् । ‘टिड्ढा’ (४.१.१५) इति ङीप् । युचि (उ० २.७८) तु गौरादित्वम् (४.१.४१) । ‘शकुलादनी स्त्रियां कृष्णभेदीकचटशाकयोः’ (इति मेदिनी) ॥
शकुलादनी शकुलैर्मत्स्यभेदैरद्यते । अत्तेः कर्मणि ल्युट् (३.३.११३) । ‘शकुलादनी स्त्रियां कृष्णभेदे कटुकशाकयोः (इति मेदिनी) ॥
शकुलार्भकः शकुलोऽत्र मत्स्यात्रे–इति स्वामी । तस्यार्भकः । द्वे मत्स्यविशेषस्य । द्वे मत्स्यविशेषस्य ।
शकृत्करिः शेति । शकृत् करोति । ‘स्तम्बशकृतोरिन्’ (३.२.२४) ॥
शकृत्म् “शक्नोति, शक्यते वा निःसर्तुं निःसारयितुं वा । ‘शकेर्ऋतिन्’ । (उ० ४.५८) ॥”
शक्तिः शक्यतेऽनया । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘शाक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम्’ इति हैमः ॥
शक्तिः “शेति । शक्यते जेतुमनया । ‘स्त्रियां क्तिन्’ (३.३.९४) शक्तिशब्दवाच्याः । भवत्यनेन । ‘श्रीणिभुवः-’ (३.३.२४) इति घञ् । प्रकृष्टो भावः । उक्तं हि- ‘कोशदण्डबलं प्रभुशक्तिः’ । इति ॥ उत्सहतेऽनेन ‘षह मर्षणे’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । उक्तं हि विक्रमबलमुत्साहशक्तिः’ इति । संध्यादीनां सामादीनां च यथावस्थापनम्, न तु ज्ञानबलं मन्त्रशक्तिः’ ।–‘पञ्चाङ्गमन्त्रो मन्त्रशक्तिः’ इत्यन्ये ।”
शक्तिधरः शक्तेर्धरः ।
शक्तिहेतिकः शक्तिर्हेतिर्यस्य ॥
शक्रः शक्नोति । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘स्फायितञ्चि-’ (उ० २.१३) इत्यादिना रक् । शक्रः पुमान्देवराजे कुटजार्जुनभूरुहोः ॥
शक्रः शक्नोति । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘स्फायितञ्चि (उ० २.१३) इति रक् । ‘शक्रः पुमान् देवराजे कुटजार्जुनभूरुहोः’ ॥
शक्रधनुः शक्रस्य धनुः ।।
शक्रपादपः शक्रेति । शक्रस्य पादपः ॥
शक्रपुष्पी शक्रोऽर्जुनतरुः पुष्पमस्याः । शक्रशब्दः पुष्पे लाक्षणिकः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् ॥
शङ्कनकाः शङ्कन्ते । ‘शकि शङ्कायाम्’ (भ्वा० आ० से०) । कर्तरि ‘अनुदात्तेतश्च हलादेः (३.२.१४९) इति युच् । ‘संज्ञायां कन्’ (५.३.७५) । शङ्खस्य नखा इव (शङ्खनखाः) इति तु मुकुटः । शं खनन्ति । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् ॥ ल्युट् । वा स्वार्थे कन् (५.३.७५) । शङ्खनकाः) इत्यन्ये । द्वे सूक्ष्मशख़ानाम् ।
शङ्कुः शङ्कतेऽस्मात् । ‘शकि शङ्कायाम्’ (भ्वा० आ० से०) । ‘खरुशङ्कपीयु-’ (उ० १.३६) इति निपातितः । शङ्कुः पत्रशिराजाले संख्याकीलक शम्भुषु । यादोऽस्त्रभेदयोर्मेढ्रे)’ इति हैमः ।
शङ्कुः शङ्कतेऽस्मात् । ‘शकि शङ्कायाम्’ (भ्वा० आ० से०) । खरुशङ्कु -’ (उ १.३६) इति साधुः । शङ्कुः पत्त्रशिराजाले संख्याकीलकशम्भुषु । यादोऽस्त्रभेदयोर्मेढ्रे”इति हैमः ॥
शङ्कुः शङ्कतेऽस्मात् । ‘शकि शङ्कायाम्’ (भ्वा० आ० से०) । ‘खरुशङ्कुपीयु-’ (उ० १.३६) इति साधुः । ‘शङ्कुः पत्रशिरा जाले संख्याकीलकशम्भुषु । यादोऽस्त्रभेदयोमेंढ्रे’ इति हैमः । ‘संख्याकीलकयोः शङ्कुः शङ्कुः प्रहरणान्तरे’ इति शाश्वतः ॥
शङ्खः शाम्यत्यम्बु दुःखं वा ध्मातेनानेन । शमेः खः (उ० १.१०२) । (‘शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिकास्थनि । वलने दिनभागे च नागभेदे’) ॥ ‘पद्मोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छपौ । मुकुन्द-कुन्द-नीलाश्च खर्वश्च निधयो नव’ इति शब्दार्णवः ।
शङ्खः “शङ्ख इति । शं खनति जनयति । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति ङः । शं खम् अस्य – इति वा । शाम्यत्यलक्ष्मीं वा । ‘शमु उपशमे (दि० प० से०) । अन्तर्भावितण्यर्थः । ‘शमेः खः’ (उ० १.१.१०२) । ‘शङ्खः कम्बौ न योषित्, ना भाला स्थिनि धिभिन्नखे ।”
शङ्खः शाम्यति । ‘शमेः खः’ (उ० १.१०२) । ‘शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिकास्थनि’ इति हैमः ॥
शङ्खिनी शङ्खीति । शङ्खाः सन्त्यस्याः । शङ्खाकारपुष्पत्वात् । ‘अतः (५.२.११५) इतीनिः । ‘शङ्खिनी श्वेतचुक्रायां चोरपुष्प्यां वधूभिदि’ (इति मेदिनी) ॥
शची शचते । ‘शच व्यक्तायां वाचि (भ्वा० आ० से०) । इन् (उ० ४.११८) ॥ कृदिकाराद्-’ (ग० सू० ४.१.४५) इति डीष् । (शचीन्द्राण्यां शतावर्यां तथा स्त्रीकरणान्तरे’) ‘अथ शची स्यादिन्द्राणी शतावरी । चारुधारा महेन्द्राणी शक्राणी जयवादिनी इति रभसः । शक्रमणति आनयति जीवयतीति वा शक्राणी । सर्वेन्द्रियेषु सचते । ‘षच समवाये (भ्वा० आ० से०) । इन (उ० ४.११८) सची दन्त्यादिरपि ।।
शचीपतिः शच्याः पतिः ॥
शटी अथेति । शटति । ‘शट रुजादौ’(भ्वा० प० से०) । अच् (३.१.१३३) । गौरादिः (४.१.४१) ॥
शणपर्णी शणः पर्णान्यस्याः। शणशब्दः शणपर्णसदृशे लाक्षणिकः ‘पाककर्ण-’(४.१.६४) इति ङीष् । -अशन इव पर्णमस्याः । (अशनपर्णी) - इति कश्चित् ॥
शणपुष्पिका शणः पुष्पं यस्याः । शणशब्दस्तत्पुष्पसदृशे लाक्षणिकः । ‘पाककर्ण-’ (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥
शणसूत्रम् शणति । ‘शण गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । शणस्य सूत्रम् ॥
शण्डः शेति । शाम्यति शिश्नाभावात् । ’शमु उपशमे’ (दि० प० से०) । ‘शमेर्ढः’ (उ० १.९९) । ‘शण्ढः क्लीबस्तु कञ्चुकी’ इति (तालव्यादौ) रभसः । ‘शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ (इति मेदिनी) । (‘शण्ढघण्टौ तु सौविदौ । वन्ध्यपुंसीद्वरे क्लीबे’ इति हैमः)
शण्ढः शाम्यति । ‘शमु उपशमे’ (दि० प० से०) । ‘शमेर्ढः’ (उ० १.९९) । ‘क्लीबं शण्ढश्च कञ्चुकी’ इति तालव्यादौ रभसः । ‘शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ (इति मेदिनी) (‘शण्डषण्ढौ तु सौविदौ । वन्ध्यपुंसीड्वरे क्लीबे’ इति हैमः) ॥
शतकोटिः शतं कोटयो धारा अस्य ।
शतद्रुः शतेति । शतधा द्रवति । ‘द्रु गतौ (भ्वा० प० अ०) । ‘हरिमितयोर्द्रुवः (उ० १.३४) । ‘शते च’ (उ० १.३५) इत्युर्डित् ।
शतपत्त्रकः अथेति । शतं पत्राण्यस्य ॥
शतपत्त्रम् शतं पत्राण्यस्य । ‘शतपत्त्रः शिखण्डिनि । दार्वाघाटे सारसे च कमले तु नपुंसकम्’ इति विश्वमेदिन्यौ ।
शतपदी शतं पादा यस्याः । ‘कुम्भपदीषु च (५.४.१३९) इति साधुः ॥
शतपर्वा शतं पर्वाण्यस्य ॥
शतपर्विका शतं पर्वाण्यस्याः सन्ति । व्रीह्यादित्वात् (५.२.११६) ठन् । डाबन्तात्स्वार्थे कन् (५.३.७५) वा । ‘शतपर्विका तु दूर्वायां वचायामपि योषिति’ (इति मेदिनी) ॥
शतपर्विका शतं पर्वाण्यस्याः । ‘शेषात्’ (५.४.१५४) इति कप् । शतं पर्वति । ‘पर्व पूरणे’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘शतपर्विका तु दूर्वायां वचायामपि योषिति’ (इति मेदिनी) ॥
शतपुष्पा शतेति । शतं पुष्पाण्यस्याः । ‘सदच्काण्ड-’ (ग० ४.१.४) इति टाप् ॥
शतप्रासः शतं प्रासाः कुन्ता इव पत्राण्यस्य । शतं पुष्पाणि प्रास्यति वा । ‘असु क्षेपणे’ (दि० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
शतमन्युः शतं मन्यवो यागा अस्य । शते दैत्येषु मन्युः क्रोधोऽस्येति वा । शतं मन्यवो दैन्यान्यस्येति वा दैत्यैः पराजितत्वात् ॥
शतमूली शतेति ॥ शतं मूलान्यस्याः ॥
शतवीर्या शतं वीर्याण्यस्याः ॥
शतवेधी सहेति । सहस्रं शतं वा वेधितुं शीलमस्य । ‘विध विधाने (तु० प० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
शतह्रदा “शतं ह्रादा अव्यक्ताः शब्दा यस्याः । पृषोदरादित्वात् (६.३.१०९) ह्रस्वः । शतं ह्रदा अर्चीषि, अगाधजलाशया वा सन्त्यस्या इति वा । अच् (५.२.१२७) । (शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता’) ।”
शताङ्गः येति । यान्त्यनेन । ‘या प्रापणे’ (अ० प० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् । चक्रमस्यास्ति इनिः (५.२.११५) । युद्धायेदम् । तस्मिन् । शतमङ्गान्यवयवा यस्य ॥
शतावरी शतेनावृणोति । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘शतावरी तु शच्यां स्यादिन्दीवर्यामपि स्त्रियाम्’ (इति मेदिनी) ॥
शत्रुः शातयति । ‘रुशातिभ्यां क्रुन्’ (उ० ४.१०४) ॥
शत्रुः वीति । शातयति । ‘शद्लृ शातने’ (भ्वा० प० अ०) । ण्यन्तः । ‘रुशातिभ्यां क्रुन्’ (उ० ४.१०४) । ‘बहुलमन्यत्रापि () इति णिलुक् । शदेः ‘जवादयश्च’ (उ० ४.१०२) इति रुः हस्वश्च-इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥
शनैः “- शणति । ‘शण दाने’ (भ्वा० प० से०) । शानयति वा । ‘शान तेजने’ (भ्वा० उ० से०) । ऐस् प्रत्ययः । पृषोदरादित्वात् (६.३.१०९) णस्य नः, हस्वो वा ॥ अद्रुतेऽशीघ्रार्थे ।”
शनैश्चरः शनैश्चरति पङ्गुत्वात् । अच् (३.१.१३४) । ‘शनिसौरिशनैश्चराः’ इति रभसाच्छनिरपि । शनैश्चरे ‘मन्दः’ इति वाचस्पतिः ।
शपथः शीङ्शप-’(३.११३) इत्यर्थः । ‘शपथः कार आक्रोशे शपने च सुतादिभिः’ इति हैमः ॥
शपनम् ‘शप आक्रोशे’ (दि० उ० अ०) । ल्युट् (३.३.११५) ॥
शफम् शेति । शं फणति । ‘फण गता’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति ङः । पृषोदरादिः (६.२.१०९) । ‘शफं मूले तरूणां स्याद्वादीनां खुरेऽपि च’ (इति मेदिनी) ॥
शफरी शफं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । जाते’ (४.१.६३) इति ङीष् । पुंसि शफरः ॥ द्वे मत्स्यविशेषस्य ।
शबरालयः शवं रान्ति शवराः । तेषामालयः ॥
शबलः “शपत्याक्रोशति वर्णान् । ‘शप आक्रोशे’ (भ्वा० उ० अ०) । ‘शपेर्बश्च’ (उ० १.१०५) इति कलः, वत्वं च ।”
शब्दः “शप्यते आकृश्यते । ‘शप आक्रोशे ’ (भ्वा०, दि० उ० अ०)‘शाशपिभ्यां ददनौ’ (उ० ४९७) इति दन् । ‘शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ इति हैमः ।”
शब्दः शास्त्र इति । शास्त्रे व्याकरणादौ यो वाचकः साधुः स शब्दः स एव निरुपपदेन शब्दशब्देन व्यवह्रियते ।
शब्दः शब्द इति । शब्दनम् । ‘शब्द शब्दकरणे’ (चु० उ० से०) । ‘एरच्’ (३.३.५६) । घञ् (३.३.१८) वा ॥
शब्दग्रहः शब्दो गृह्यतेऽनेन । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । संज्ञायां ‘हलश्च’ (३.३.१२१) इति घञ् विधीयते घापवादत्वात् । योगार्थमात्रे तु स ना ॥
शमनः शमयति । ल्युः (३.१.१२४) । (शमनं शान्तिवधयोः शमनः श्राद्धदैवते’) ।
शमनम् ‘शमु उपशमे’ (दि० प० से०) । भावे ल्युट् (३.३.११५) । ‘शमनं शान्तिवधयोः शमनः श्राद्धदैवते’ इति विश्वमेदिन्यौ । ‘शमनस्तु यमे प्रोक्तः । शमनं शान्तिहिंसयोः’ इति हैमः ॥ ‘शसनम्’ इति स्वामी । ‘शसु हिंसायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११५) ॥ ‘ससनम्’ इत्यन्ये । ‘षसस्वप्ने’ (अ० प० से०) ॥
शमनस्वसा शमनस्य स्वसा ॥ चत्वारि यमुनायाः ॥
शमलम् “शाम्यति, शम्यते वा । ‘शकिशम्योर्नित्’ (उ० १.११२) इति कलः ।-‘शकि- शमिवहिभ्योऽलः’-इति मुकुटोपन्यस्तमपाणिनीयम् ॥”
शमी शमीति । शमयति रोगान् । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘शमी सक्तुफलायां च शिम्बिकायां च वल्गुलौ’ ॥
शमी शेति । शाम्यति । ‘शम उपशमे’ (दि० प० से०) । अच् (३.३.१३४) । गौरादिः (४.१.४१) । ‘शमी सक्तुफलायां च शिम्बिकायां च वल्गुलौ’ (इति मेदिनी) ॥
शमीधान्यम् मेति । ‘माषो मुद्गो राजमाषः कुलत्थश्चणकस्तिलः । काकाण्डश्चीवर इति शमीधान्यगणः स्मृतः’ इति रत्नकोषः । शमीप्रभवं धान्यम् ॥
शमीरः अल्पेति । अल्पा शमी । ‘कुटीशमीशुण्डाभ्यो रः’ (५.३.८८) ॥
शम्बरः शं वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘शमि धातोः संज्ञायाम् (३.२.१४) इत्यच् । ‘शंवरो दानवान्तरे । मत्स्यैण गिरिभेदेषु शंवरी पुनरौषधौ’ इति हैमः ॥
शम्बरम् “शं वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । पचाद्यच् (३.१.१३४) । शंवं संवरणं राति–इति वा । संवयति । ‘षंव संबन्धने’ । ‘शंव च’ (चु० प० से०) । बाहुलकादरन्, इति वा । दन्त्यादिस्तालव्यादिश्च । ‘शंवरं सलिले, पुंसि मृगदैत्यविशेषयोः । शंवरी चाखुपर्ण्यां स्यात्’ इति विश्वः ।”
शम्बरी शं वृणोति । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘शमि धातोः’ (३.२.१४) इत्यच् । गौरादिः (४.१.४१) । मुकुटस्तु खच् (३.२.४६) – इत्याह । (शंबरं सलिले पुंसि मृगदैत्यविशेषयोः । ) शंबरी चाखुपर्ण्यां स्यात् (इति तालव्यादौ मेदिनी) ॥
शम्बाकृतम् शमस्यास्ति ‘कंशंभ्याम्’ (५.२.१३८) इति वा । शम्बशब्दो द्वितीयकर्षणे वर्तते । शम्बं कृतम् । ‘कृञो द्वितीय-’ (५.४.५८) इति डाच् । ‘सरित्सैरिभसम्बाकृतम्’ इति दन्त्यादौ वर्णदेशना । तत्र ‘षम्ब सम्बन्धे (चु० प० से०) । ण्यन्तः । सम्ब्यते । घञ् (३.३.१९) । अच् (३.३.५६) वा ॥
शम्बूकः शङ्कन्ते । ‘शकि शङ्कायाम्’ (भ्वा० आ० से०) । कर्तरि ‘अनुदात्तेतश्च हलादेः (३.२.१४९) इति युच् । ‘संज्ञायां कन्’ (५.३.७५) । शङ्खस्य नखा इव (शङ्खनखाः) इति तु मुकुटः । शं खनन्ति । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् ॥ ल्युट् । वा स्वार्थे कन् (५.३.७५) । शङ्खनकाः) इत्यन्ये । द्वे सूक्ष्मशख़ानाम् ।
शम्भली शं सुखं भलते । ‘भल परिभाषणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘शालूकं शम्भलीशललशुष्क-’ इति शभेदात्तालव्यादिः । सं भलते । इति (सम्भली) दन्त्यादिरपि ॥
शम्भुः शम्भुरित्यादि । शं सुखं भवति । अन्तर्भावितण्यर्थात् मितद्द्रादित्वात् (वा० ३.२.१८०) डुः । यत्तु ‘शं भवत्यस्माद् इति स्वामिमुकुटौ । तन्न । कर्तरि कृतो विधानादपादाने डुप्रत्यभावात् । शम्भुर्ब्रंहार्हतोः शिवे) |
शम्या अथेति । शम्यतेऽनया । ‘शम उपशमे’ (दि० प० से०) । अघ्न्यादिः (उ० ४.११२) ॥
शम्वः शाम्यत्यरीन् । अन्तर्भावितण्यर्थाच्छमेर्वन् (उ० ४.९४) । शं शुभमस्यास्त्यभेद्यत्वात् इति वा । ‘कंशम्भ्याम्-’ (५.२.१३८) इति वः । पक्षद्वयेऽपि दन्त्योष्ठ्यः । ‘शम्ब सम्बन्धने चुरादिः (प० से०) । ‘शम्बयति सम्बन्ध्नाति शत्रून्’ इति विग्रहे तु (शम्बः) पवर्गतृतीयान्तः । शम्बः स्यान्मुसलाग्रस्थ लोहपिण्डलके पवौ । शुभान्विते त्रिषु ’ । सम्बयतेः (चु० प० से०) विग्रहे तु (सम्बः) दन्त्यादिरपि । ‘तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः’ इत्यूष्मविवेकः ।
शयः शेतेऽस्मिन् सर्वम् । ‘पुंसि–’ (३.३.१२१) इति घः । ‘शयः शय्याहिपाणिषु’ (इति मेदिनी) । ‘शमः’ इति पाठान्तरम् । शाम्यति कण्डूर्मलो वानेन । ‘शमु उपशमे’ (दि० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘नोदात्तोपदेश-’ (७.३.३४) इति न वृद्धिः । ‘पाणिः शमः शयो हस्तः’ इत्यमरमाला ॥
शयनम् ‘शीङ् स्वप्ने’ (अ० आ० से०) । भावे ल्युट् (३.३.११५) । ‘शयनं सुरते निद्राशय्ययोश्च नपुंसकम्’
शयनम् ल्युट् (३.३.११७) अपि । ‘शयनं सुरते निद्राशय्ययोश्च नपुंसकम्’ (इति मेदिनी) ॥
शयनीयम् ‘कृत्यल्युटः’ (३.३.११३) इत्यधिकरणेऽनीयर् ॥
शयुः शेते । ‘शीड् स्वप्ने’ (अ० आ० से०) । ‘भूमृशी-’ (उ० १.७) इत्युः ।
शय्या शेति । शय्यतेऽत्र । ‘शीङ् स्वप्ने’ (अ० आ० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । ‘अयङ् यि’ (७.४.२२) इत्ययङ् । ‘शय्या स्वाच्छयनीयेऽपि गुम्फनेऽपि च योषिति’ (इति मेदिनी) ॥
शरः शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । अच् (३.१.१३४) । ‘शरस्तेजनके बाणे दध्यग्रे ना शरं जले’ (इति मेदिनी) ॥ ‘सुरस्तु मुञ्जो बाणाख्यो गुन्द्रस्तेजनकः शरः’ इति वाचस्पतेर्दन्त्यादिश्च । सरति । ‘सृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
शरः शृणाति । अनेन वा । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ऋदोरप्’ (३.३.५७) वा । ‘शरस्तु तेजने बाणे दध्यग्रे ना शरं जले’ इति विश्वमेदिन्यौ । दन्त्यादिपाठे तु । सरति । ‘सृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । (बाणः स्यादस्त्रकण्टकः । स्थूलक्ष्वेडो विपाटश्च) चित्रपुङ्खः शरः सरः । (पत्त्रवाहो विकर्षः)’ इति त्रिकाण्डशेषात् ॥
शरजन्मा शरेषु जन्मास्य ।
शरत् शीर्यन्तेऽस्यां पाकेनौषधयः । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘शॄदॄभसोऽदिः’ (उ० १.१३०) । (‘शरत् स्त्री वत्सरेऽप्यृतौ’) भागुरिमते टापि शरदा च । ‘शरद्भवेच्छरदया प्रावृट् प्रावृषया सह’ इति विश्वः ।
शरत् “शृणाति । ‘शॄ हिंसायाम् (क्र्या० प० से०) । ‘शॄदृभसोऽदिः (उ० १.१३०) इत्यादिः । प्रज्ञाद्यणि (५ । ४ । ३८) शारदोऽपि । ‘समायोषिति, शारदः’ इति रत्नकोषः ।”
शरभः शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । ‘अष्टापदे च करभे शरभः स्यान्मृगान्तरे’ इति तालव्यादौ रभसः । ‘शरभस्तु पशोर्भिदि । करभे वानरभिदि’ (इति मेदिनी) ॥
शरव्यम् शरवे हिंस्राय हितम् । ‘उगवादिभ्यो यत्’ (५.१.२) यद्वा शरान् व्ययति । ‘व्येञ् संवरणे’ (भ्वा० उ० अ०) । ‘सम्प्रसारणिभ्यो डः’ (वा० ३.२.३) –‘आतः-’ (३.२.३) इति कः । सम्प्रसारणम् (६.१.१५) । यणि (६.४.८२) च -इति मुकुटः ॥
शराभ्यासः शेति । शरमोक्षस्याभ्यासः ॥
शरारिः शरेति । शरं नीरमृच्छति । शरं हिंसां वा । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘अच इः’ (उ० ४.१३९) । ‘गुन्द्रेष्वोर्ना शरं नीरे’ इति तालव्यादौ रभसः । कपिलिकादित्वात् (वा० ८.२.१८) लत्वे ‘शरालिः’ अपि । ‘शरातिः’ इति पाठान्तरम् । शरमतति । ‘अत सातत्यगमने’ (भ्वा० प० से०) । ‘अज्यतिभ्यां च’ (उ० ४.१३१) इतीण् ॥
शरावः अस्त्रीति । शरणम् । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘ॠदोरप्’ (३.३.५७) । शृणाति वा । अच् (३.१.१३४) । शरं शराद्वावति । अण् (३.२.१) । अच् (३.१.१३४) वा । (सरावः) दन्त्यादिरपि-इति मुकुटः ॥
शरावती शरावतीति । शराः सन्त्यस्याम् । मतुप् (५.२.९५) । ‘शरादीनां च’ (६.३.१२०) इति दीर्घः ।
शरासनम् शरा अस्यन्तेनेन । ‘असु क्षेपणे’ (दि० प० अ०) । ‘करणा-’ (३.३.११७) ॥
शरीरम् शृणाति । शीर्यते वा । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘कॄशॄपॄकटि-’ (उ० ४.३०) इतीरन् ॥
शरीरी जन्यु शरीरमस्स्ति । इनिः (५.२.११५)
शर्करा स्त्रीति । (‘शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायाम् इति हैमः) । शर्करा (अश्मप्राया मृत्) अस्त्यत्र । ‘देशे लुबिलचौ च’ (५.२.१०५)
शर्करा शेति । शृणाति पित्तम् । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘श्रः करन्’ (उ० ४.३) ‘शर्करा । खण्डविकृतौ कर्पूरांशे रुगन्तरे । उपलायां शर्करायुक्तदेशे शकलेऽपि च’ इति हैमः ॥
शर्करावत् अन्यतरस्याम् (५.२.९६) । ग्रहणान्मतुप् (५.२.९४) च ॥ देशे इति । (तत्र) आदौ भवौ । मध्यान्मः (४.३.८) इत्यत्र ‘आदेश्च’ इति वचनान्मः ॥ आदिमौ शर्कराशर्करिलौ देशे एव नान्यत्र । ‘शार्करः शर्करावान्’ इतीमौ तु देशादेशयोः ।
शर्करिलः सिकताशर्कराभ्यां च’ (५.२.१०४) इत्यण् । (‘शार्करः स्यादुग्धफेने शर्करान्वितदेशयोः इति मेदिनी ।
शर्म शृणात्यशुभम् । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘सर्वधातुभ्यो मनिन्’ (उ० ४.१४५) भावे वा ॥
शर्वः शृणाति । ‘शृ हिंसायाम् (क्र्या० प० से०) । ‘कृगृशृद्दृभ्यो वः (उणा० १.१५५) ॥ ‘षर्व गतौ (वा० प० से०) इत्यतः ‘षर्व हिंसायाम्’ (भ्वा० प० से०) इत्यतो वा वबयोरभेदात् पचाद्यचि (३.१.१३४) ‘सर्वः’ अपि । ‘सर्वस्तु शर्वो भगवान् शम्भुः कालंजरः शिवः इति नामनिधानात् । (‘कालंजरो योगिचक्रे मेलके भैरवे गिरौ’) |
शर्वरा शेति । शर्वति । ‘शर्व गतौ’ (भ्वा० प० से०) । तालव्यादिः (पवर्गीयान्तः) । वृषादित्वात् (उ० १.१०६) कलच् । ‘शार्दूलशर्वलाशलाटुः’ इति शभेदः । स्वामी तु–‘सर्वं लाति’ इति विगृहन् (सर्वलायाः) दन्त्यादितामभिप्रैति ॥
शर्वरी शृणाति चेष्टाः । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘कॄशॄगॄवृञ्चतिभ्यः ष्वरच्’ (उ० २.१२१) । षिद्गौरा- (४.१.४१) इति डीष् । ‘शर्वरी यामिनीस्त्रियोः’ प्रज्ञाद्याणि शार्वर्यपि । ‘शर्वरी शार्वरी शर्या’ इति शब्दार्णवः ॥
शर्वाणी शर्वस्य स्त्री । ‘इन्द्रवरुण- (४.१.४९) इति ङीषानुकौ ।
शलभः शलति । ‘शल चलने’ (भ्वा० प० से०) । कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) ॥
शलम् पचाद्यचि । ‘शलं तु शल्लकीलोम्नि शलो भृङ्गे गणे विधौ’ (इति विश्वः) ॥
शललम् स्त्रीत्वाविवक्षायां शललम् । (‘तच्छलाकायां शललं शलमित्यपि’ इति हैमनाममाला) । ‘शललस्तु नृशण्ढयोः’ इत्यमरमाला ॥
शलली तदिति । तस्य श्वाविधो लोमनि । शलति । वृषादित्वात् (उ० १.१०६) कलच् । गौरादित्वात् (४.१.४१) जातित्वात् (४.१.६४) वा ङीष् स्त्रियाम् ॥
शलाटुः आम इति । शलति । ‘शल चलनसंवरणयोः’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । अटति । ‘अट गतौ’ (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) कुः । शलक्षासावटुश्च । तालव्यादिः । ‘शटीशटितं शलाटुः’ इत्यूष्मभेदात् ॥
शल्यः शलति । ‘शल गतौ’ (भ्वा० प० से०) । अग्न्यादित्वात् (उ० ४.११२) यक् । ‘क्ष्वेडाशङ्कुशरे शल्यं ना श्वाविन्मदनद्रुमे’ इति तालव्यादौ रभसः ॥
शल्यः शलति । ‘शल चलने’ (भ्वा० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यः । ‘शल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे । मदनद्रुश्वाविधोर्ना’ (इति मेदिनी) ॥
शल्यः वेति । शलति । ‘शल गतौ’ (भ्वा० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यः । ‘शल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषु तोमरे । मदनद्रुश्वाविधोर्ना’ इति मेदिनी ॥
शवः शवति । ‘शव गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । (‘शवः स्यात्कुणपे पुमान् । नपुंसकं तु पानीये’ इति मेदिनी) ॥
शवरः
- शवति । ‘शव गतौ’ (भ्वा० प० से०) । बाहुलकादरः । शवं राति वा । कः (३.२.३) । ‘शवरो म्लेच्छभेदे च पानीये शंकरेऽपि च’ इति विश्वः (मेदिनी) ॥
शवली वेति । आदिना प्रमाणावयवादिग्रहः । शवलयोगात् । ‘अन्यतो ङीष्’ (४.१.४०) ॥
शशः शशति । ‘शश प्लुतगतौं’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
शशधरः शशस्य धरः ।।
शशर्णम् शेति । शशस्य ऊर्णा । ‘शशोर्णं कारणं करम्’ इति चन्द्रगोमिलिङ्गानुशासनात् क्लीबत्वम् ॥
शशलोम शशस्य लोम ॥
शशादनः अथेति । शशमत्ति । ‘अद भक्षणे’ (अ० प० अ०) । ल्युः (३.१.१३४) । ल्युट् (३.३.११३) वा । युच् (उ० २.७८) । ‘श्येने पत्रिशशादनौ’ (इत्यमरमाला) ॥
शश्वत्
- शशति । ‘शश प्लुतगतौ’ (भ्वा० प० से०) । बाहुलकाद्वतिः ॥
शश्वत्
- शशनम् । शश प्लुतगतौ’ (भ्वा० प० से०) । वत् प्रत्ययः ॥
शष्पम् “शष्पमिति । शस्यते । शुष्यति, वा ‘शसु हिंसायाम्’ (भ्वा० प० से) । ‘शुष शोषणे’ (दि० प० अ०) वा । ‘खष्पशिल्पशष्प-’ (उ० ३.२८) इति साधुः । -नीपादयः’ इति पः इति मुकुटस्तु चिन्त्यः । उज्ज्वलदतादिवृत्तिषु ‘नीपादयः’ इति सूत्राभावात् । ‘शष्पं बालतृणे स्मृतम् । पुंसि स्यात् प्रतिमाहानौ’ (इति मेदिनी) ॥”
शस्तम् ‘शंसु स्तुतौ’ (भ्वा० प० से०) । शस्यते स्म । क्तः (३.२.१०२) । शस्यते । भावे क्तः (३.३.११४) इति मुकुटः । शस्तं क्षेमे प्रशस्ते च ।
शस्त्रकम् शस्यतेऽनेन । ‘शसु हिंसायाम्’ (भ्वा० प० से०) । ‘दाम्नीशस्-’ (३.२.१८२) इति ष्ट्रन् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
शस्त्रमार्जः
- शेति । शस्त्रं मार्ष्टि । ‘मृजू शुद्धौ’ (अ० प० से०) । अण् (३.२.१) ॥
शस्त्रम् शस्यतेऽनेन । ‘शसु हिंसायाम्’ (भ्वा० प० से०) । ‘दाम्नीशस-’ (३.२.१८२) इति ष्ट्रन् ॥
शस्त्राजीवः शेति । शस्त्रमाजीवति उपजीवति । ‘जीव प्राणधारणे’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
शस्त्री स्येति । शस्यतेऽनया । ‘शसु हिंसायाम्’ (भ्वा० प० से०) ‘दाम्नीशस-’ (३.२.१८२) इति ष्ट्रन् । ङीष् (४.१.४१) शस्त्रमायुधे । लोहे शस्त्री छुरिकायाम्’ इति हैमः ॥
शस्यमञ्जरी शस्यस्य मञ्जरी ॥
शस्यशूकम् शस्यस्य शूकम् । –शस्यस्य शूकः-इति मुकुटः ॥
शाकटः सुधाव्याख्या– शकटम् । ‘शकटादण्’ (४.४.८०) ।
शाकटः शाकटः ।
शाकम् शाकेति । शक्यते भोक्तुम् । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । घञ् (३.३.१९) । यद्वा श्यति । ‘शो तनूकरणे (दि० प० से०) । बाहुलकात् कः ॥ आदिना फलनाड्यग्रमूलादिपरिग्रहः । ‘मूलपत्त्रकरीराग्रफलकाण्डाधि रूढकम् । त्वक् पुष्पं कवकं चैव शाकं दशविधं स्मृतम् । अधिरूढकं तालबीजाङ्कुरास्थिमज्जादि ।
शाकम् “अस्त्रीति । श्यति । धातुक्षयकारित्वात् । ‘शो तनूकरणे’ (दि० प० अ०) । बाहुलकात्कन् । शक्नोत्यनेन भोक्तुम् । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘शाको द्वीपान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमान्, हरितकेऽस्त्रियाम्’ इति विश्वः (मेदिनी) ॥”
शाकुनिकः
- शकुनान् हन्ति । ‘पक्षिमत्स्य-’ (४.४.३५) इति ठक् ॥
शाक्तीकः शेति । शक्तिः प्रहरणमस्य । ‘शक्तियष्ट्योरीकक्’ (४.४.५९) ॥
शाक्यमुनिः शाक्येत्यादि । (यः) शकोऽभिजनोऽस्य । ‘शण्डिकादिभ्यो ञ्यः’ (४.३.९२) । यद्वा शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्मृताः इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् (४.३.५४) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ मुनिश्चेति ॥
शाक्यसिंहः (सः) शाक्यः सिंह इव । ‘उपमितं व्याघ्रा-’ । (२.१.५६) इति समासः । भीमवत् ‘शाक्यः’ अपि ॥
शाखा समे इति । शाखति । ‘शाखृ व्याप्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यत्तु-शाख्यते वृक्षोऽनया । ‘गुरोश्च’ (३.३.१०३) इत्यः इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । ‘शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके’ इति हैमः ॥
शाखानगरम् अन्यदिति । मूलनगरं राजधानी । ततोऽन्यत् यत्तु पुरम् । शाखेव नगरम् ॥
शाखामृगः शाखाचारी मृगः पशुः । शाकपार्थवादिः (वा० २.१.६०) ॥
शाखी शाखास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः । यद्वा अवश्यं शाखति । ‘शाखृ व्याप्तौ (भ्वा० प० से०) । आवश्यके णिनिः (३.३.१७) । ‘शाखी स्यात्पादपे वेदे तुरुष्काख्यजने पुमान्’ ॥
शाङ्खिकः
- स्येति । शङ्खः शिल्पमस्य । ‘शिल्पम्’ (४.४.५५) इति ठक् ॥
शाठ्यम् शठति । ‘शठ कैतवे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । शठस्य कर्म ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । यद्वा शठनम् । ‘ऋहलोण्यत्’ (३.१.१२४) ।
शाणः “- शेति । शण्यते । ‘शण दाने’ (भ्वा० प० से०) । ‘अकर्तरि-’ (३.३.१९) इति घञ् । श्यति वा । ‘शो तनूकरणे’ (दि० प० अ०) । बाहुलकाण्णः । ‘पुंसि स्यात्, शाणो मासचतुष्टये । लोहादीनां च निकषे शाणी प्रावरणान्तरे’ (इति मेदिनी) ॥”
शाण्डिल्यः “शण्डते । ‘शडि रुजायाम्’ (भ्वा० आ० से०) । ‘सलि (उ० १.५४) इत्यादिनेलच् । शण्डिलस्य गोत्रापत्यम् । ‘गर्गादिभ्यो यञ्’ (४.१.१०५) । शाण्डिल्य इव, इति । शण्डयति रुजं करोति वा । इलचि (उ० १.५४) स्वार्थे ष्यञ् । (वा० ५.१.१२४) । ‘शाण्डिल्यः पावकान्तरे । बिल्वे मुनौ च’ इति हैमः ॥”
शातः श्यति दुःखम् । ’शो तनूकरणे’ (दि० प० अ०) । बाहुलकात्तन् (उ० ३.८५) भावे वा । यत्तु श्यतेः सौत्रात् - इत्युक्तं मुकुटेन तन्न । तस्य गणपठितत्वात् । सौत्रस्य तस्यादर्शनात् । ‘अनुपसर्गाल्लिम्प’ (३१.१३८) इति सूत्रपठितात् ‘सातेः’ पचाद्यचि (३.१.१३४) ‘सातम्’ दन्त्यादि । यत्तु — सिनोत्यशुभम् । सातम् । षै क्षये (भ्वा० प० अ०) – इत्युक्तं मुकुटेन । तन्न । सिनोतीति विगृह्योक्तधातूपन्यासस्य विरुद्धत्वात् । यदपि - स्यति दुःखम् । सातम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) - इति स्वामिनोक्तम् । तदपि न । स्यतेः क्ते ‘द्यतिस्यति-(७.४.४०) इतीत्वप्रसङ्गात् । तनस्त्वविधानात् । बाहुलकस्य त्वगतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् ॥
शातकुम्भम् शतकुम्भे पर्वते भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । अनुशतिकादिः (७.३.२०) । (‘शातकौम्भम्’) इति तु स्वामी ॥
शात्रवः शत्रुरेव । प्रज्ञाद्यण् (५.४.३८) ॥
शादः “शीयन्तेऽस्मिन्ननेन वा । ‘षद्लृ शातने’ (भ्वा०, तु० प० अ०) । घञ् (३.३.१२१) । यद्वा शीयते नश्यति । ज्वलितिकसन्तेभ्यो णः’ (३.१.१४०) । यद्वा श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । ‘शाशपिभ्यां ददनौ’ (उ० ४.९७) इति दः । ’शादः कर्दमशष्पयोः’ इति हैमः ।”
शाद्वलः शाद्वल इति । शीयते । शद्लृ शातने’ (भ्वा० तु० प० अ०) । ज्वलादित्वात् (३.१.१४०) णः । शीयतेऽस्मिन्निति वा । ‘हलश्च’ (३.३.१२१) इति घञ् । शादो बालतृणमस्मिन् । ड्वलच् (४.२.८८) (१) शादैर्बालतृणैर्हरितः ।
शाम्बरी
- शम्बराख्यदैत्यस्येदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥
शारङ्गः “अथेति । शारयति, शार्यते, वातपादिना । ‘शॄ हिंसायाम् (क्र्या० प० से०) । ण्यन्तः । ‘तरत्यादिभ्यश्च’ (उ० १.१२०) इत्यङ्गच् ।-शारेरङ्गच् – इति मुकुटः । तन्न । उज्ज्वलदत्तादिवृत्तिष्वेतत्सूत्रादर्शनात् । ‘शारङ्गश्चातके ख्यातः शबले हरिणेऽपि च’ इति तालव्यादावजयः ॥ सरति । ‘सृवृञोर्वृद्धिश्च’ (उ० १.११२) इत्यङ्गच् । –‘सृ गतौ’ (भ्वा० प० अ०) । णिच् (३.१.२६) पूर्ववत् । अण् (३.२.१) वृद्धिश्च इति मुकुटश्चिन्त्यः । अणोऽप्रसङ्गात् । ‘सुवृञोः’ इति सिद्धत्वाच्च । णिचः प्रयोजनाभावाच्च । ‘चातके हरिणे पुंसि सारङ्गः शबले त्रिषु’ इति दन्त्यादौ रभसात् । यद्वा सारमङ्गमस्य । शकन्ध्वादिः (वा० ६.१.९४) । ‘सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शबले त्रिषु’ (इति मेदिनी) ॥”
शारदः “शरदि पुष्प्यति । ‘कालात्साधुपुष्प्यत् -’ (४.३.४३) इत्यण् ॥ शारदी ङ्यन्ताऽपि । शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी’ इति दन्त्यान्तेषु रुद्रः । ‘शारदोऽब्दे, स्त्रियां तोयपिप्पलीसप्तपर्णयोः । सस्ये क्लीबं, शरज्जातनूतनाप्रतिभे त्रिषु’ इति मेदिनी’ ॥”
शारदी शरदि भवा । ‘संघिवेला-’ (४.३.१६) इत्यण् । ‘शारदो वत्सरे नवे । शरद्भवे पीतमुद्गे शालीनेऽप्यथ शारदी । सप्तपर्णाम्बुपिप्पल्योः’ इति हैमः ॥
शारिफलम्
- शारीणां फलं पट्टः । ‘फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः’ इति विश्वः ॥
शारिवा शरणम्। ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘कॄगॄशॄपॄकुटि-’ इतीण् । शारिरस्त्यस्याः । ‘अन्येभ्योऽपि’ (वा० ५.२.१०९) इति वः ॥
शार्करः सिकताशर्कराभ्यां च’ (५.२.१०४) इत्यण् । (‘शार्करः स्यादुग्धफेने शर्करान्वितदेशयोः इति मेदिनी ।
शार्ङ्गी शृङ्गस्य विकारः शार्ङ्गं धनुः । अनुदात्तादेश्च (४.३.१४०) इत्यञ् । तदस्यास्ति । अत इनिठनौ (५.२.११५) इति इनिः ॥
शार्दूलः शार्द्विति । शारयति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । स्वार्थणिचः क्विप् । दूयते । ‘दूङ् परितापे’ (दि० आ० से०) । अन्तर्भावितण्यर्थः । बाहुलकाल्लक् । यद्वा शृणाति । पिञ्जाद्यूलच् (उ० ४.९०) बाहुलकाद्दुक्वृद्धी । ‘शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः’ (इति मेदिनी) ॥
शालः “शाड्यते । ‘शाडु श्लाघायाम्’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । डलयोरैक्यम् । `शालो इषे, धीवर एव दाशः’ इत्यूष्मभेदात्तालव्यादिः । (‘कैवर्त इव बद्धराजीवोत्पलसालो वसन्तकालः इति वासवदत्ताश्लेषाद्दन्त्यादिश्च । कैवर्तपक्षे सालो मत्स्यभेदः । वसन्तपक्षे सालं पुष्पम्) । सालं पुष्पे क्लीबं वृक्षे तु पुमान् । ‘पुंसि भूरुहमात्रेऽपि सालो वरण-सर्जयोः’ इति रभसे तु दन्त्यादिः । शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः’ इति हैमः ।”
शालयः शेति । शाड्यते । ‘शाडृ आप्लाव्ये’ (भ्वा० आ० से०) । डलयोरैक्यम् । इन् (उ० ४.११८) । शाल्यते वा । ‘शल चलने’ (भ्वा० प० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । ‘शालिस्तु गन्धोलौ कलमादिषु’ इति हैमः ॥
शाला शलन्त्यत्र । ‘शल गतौ’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः । स्कन्धशाखायाम्’ इति हैमः ।
शाला शलति । ‘शल चलने’ (भ्वा० प० से०) । ‘ज्वलति-’ (३.१.१४०) णः । ‘शाला तरुस्कन्धशाखा शाला भवनमिष्यते’ इति शाश्वतः ॥
शालूकम् “शालूकमिति । एषां सौगन्धिकादीनां कन्दो मूलम् । शल्यते, शलति वा । ‘शल चलनसंवरणयोः (भ्वा० आ० से०) । ‘शलिमण्डिभ्यामूकण्’ (उ० ४.४२) । वृद्धिः (७.२.११६) च ॥ एकम् उत्पलकन्दस्य ।”
शालूरः शाडते । शाडृ गतौ (भ्वा० आ० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ (उ० ४.९०) इत्यूरः । डलयोरैक्यम् । शालते वा । ‘शाल कत्थने’ (भ्वा० आ० से०) । ‘परिसरकृकलासस्वेदसालूर इत्यूष्मविवेकाद्दन्त्यादिरपि ॥
शालेयः शेति । शालीनां भवनं क्षेत्रं शालेयम् । तदस्यास्ति । अर्शआद्यच् (५.२.१२७) । ‘शालेयः स्यान्मिसौ पुमान् । त्रिषु शाल्युद्भवे क्षेत्रे’ (इति मेदिनी) ॥
शालेयः सुधाव्याख्या – शालीनाम् ॥ च भवनं क्षेत्रम् । ‘व्रीहिशाल्योर्ढक्’ (५.२.२) ॥
शाल्मलिः शालयति । ‘शल संचलने’ (भ्वा० आ० से०) । णिजन्तः । क्विप् (३.२.१७८) । मलते । ‘मल धारणे’ (भ्वा० आ० से०) । ‘सर्व धातुभ्य इन्’ (उ० ४.११८) । शाल् चासौ मलिश्च ॥
शाल्मलीवेष्टः शाल्मल्या वेष्टः । ‘क्वाथः कषायो निर्यूषो निर्यासो वेष्टकस्तथा’ इति रभसः ॥
शावकः शव्यते । ‘शव गतौ’ (भ्वा० प० से०) । घञ् । (३.३.१९) । स्वार्थे कन् (५.३.७५) ॥
शावरः शबराणामयम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘शाबरी शूकशिम्ब्यां स्यात् पुंसि पापापराधयोः । लोध्रे च’ इति तालव्यादिः ॥ दन्त्यादिरपि । ‘सावराख्यापराधे च लोध्रे पापे च पठ्यते इति दन्त्यादात्रजयः ॥
शासनम् शासेर्युट् (३.३.११५) । (‘शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशान्तिषु’ इति मेदिनी) ॥
शास्ता शास्तीति शास्ता । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) इति तृन् तृज्वा । पितृवच्छास्तृशब्दः । नप्त्रादिग्रहणस्य (६.४.११) नियमार्थत्वात् । चान्द्रे शासेः क्तिचि शिष्टिरित्यत्र ‘शास्ता’ इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शित्वाद्बुद्धवाचिनोऽपि दीर्घः-इति सुभूतिः । तन्न । तृचस्तस्येप्रसङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाच्च । (‘शास्ता समन्तभद्रे ना शासके पुनरन्यवत्’) ॥
शिंशपा “शीघ्रं शीर्षं वा पाति । ‘आतः’ (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा ‘शिम्” इत्यव्यक्तं शब्दं शब्देन वा शपति । ‘शप आक्रोशे’ (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३४) । शिम्बाभिः शपति, इति वा । ‘देविका शिंशपा-’ (७.३.१) इति निर्देशाद्वाशब्दलोपः । द्वितालव्या शिंशपा । ‘श्वश्रूस्तथा श्वशुरशाश्वतशिंशपाश्च’ इति शभेदात् ॥ अगुरुसारा शिंशपा ‘अगुरुशिंशपा’ इत्येकं नाम - इति स्वामी । तन्न । उक्तरुद्रविरोधात् ॥”
शिक्यम्
- तेति । तामालम्बितुं शीलमस्य । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
शिक्षा श्रुतेर्वेदस्य शिक्षेत्याद्यङ्गम् । ‘शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते । शिक्ष्यते स्थानादिकमनया । ‘शिक्ष विद्योपादाने’ (भ्वा० आ० से०) । गुरोश्च-’ (३.३.१०३) इत्यप्रत्ययः । अङ्ग्यते ज्ञायतेऽनेन । ‘अगि गतौ (भ्वा० प० से०) । घः (३.३.११८) । घञ् (३.३.१२१) वा ॥ अङ्ग्यते ज्ञायतेऽनेन । ‘अगि गतौ (भ्वा० प० से०) । घः (३.३.११८) । घञ् (३.३.१२१) वा ॥
शिखण्डः शिखेति । शिखिनाम्यते । ‘अम गत्यादिषु’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । शकन्ध्वादिः (वा० ६.१.९४) । ‘शिखण्डो बर्हचूडयोः’ इति हेमचन्द्रः ॥
शिखण्डकः “शिखाया अण्ड इव । ‘इवे-’ (५.३.९६) इति, स्वार्थे (ज्ञापि० ५.४.५) वा कन् । शकन्ध्वादिः (वा०६.१.९४) । ‘शिखण्डौ तु शिखाबर्हौ’ इति तालव्यादौ रभसः । ‘शिखण्डो बर्हचूडयोः’ (इति मेदिनी) ।शकन्ध्वादित्वं केचिन्नेच्छन्ति । ‘शिखाण्डकशिखण्डकौ’ इति वाचस्पतिसुभूती ॥”
शिखरम् “शिखाऽस्यास्ति । शिखाया ह्रस्वश्च’ (५.२) इति रः । शिखां राति, इति वा । ङ्यापोः-’ (६.३.६३) इति ह्रस्वः । शिखरं पुलकाग्रयोः । पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । गिरिवृक्षाग्रकक्षासु इति हैमः । ’अस्त्री’ इति पूवोत्तराभ्यां सम्बन्धते ।”
शिखरम् शिखां राति । ‘रा दाने’ (अ० प० अ०) । कः (३.२.३) । ‘शिखरोऽस्त्री द्रुमाग्रे चाद्रिशृङ्गपुलकाग्रयोः’ ।
शिखरी शिखरमस्यास्ति । अत इनिः (५.२.११५) । शिखरी स्यादपामार्गे शैलपादपयोः पुमान् ॥
शिखा शेते । ‘शीङः किद्ध्रस्वश्च’ (उ० ५.२४) इति खः । शिखा ज्वाला बर्हिचूडालाङ्गलक्यग्रमात्रके ॥
शिखा शीति । शेते । ‘शीङो ह्रस्वश्च’ (उ० ५.२४) इति खः । ‘शिखा शाखाबर्हिचूडालाङ्गलिक्यग्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च’ (इति मेदिनी) ॥
शिखा शीति । शेते । ‘शीङो ह्रस्वश्च’ (उ० ५.२४) इति खः । ‘शिखा शाखाबर्हिचूडालाङ्गलिक्यग्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च’ (इति मेदिनी) ॥
शिखावलः शिखास्त्यस्य । ‘दन्तशिखात् संज्ञायाम्’ (५.२.२१३) इति वलच् ॥
शिखावान् शिखाः सन्त्यस्य । मतुप् (५.२.९४) । (व्रीह्यादित्वात् (५.२.११६) इनिप्रत्यये शिखी’ अपि । शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्य न्यलिङ्गकः ॥
शिखिग्रीवम् शिखिनो ग्रीवा । शिखिग्रीवास्यास्ति । अर्शआद्यच् (५.२.१२७) तद्वद्वर्णत्वात् ॥
शिखिवाहनः शिखी मयूरो वाहनमस्य ।।
शिखी पक्षे व्रीह्यादित्वात् (५.२.११६) इनिः । शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः’ (इति मेदिनी) ॥
शिग्रुः शिनोति । ‘शिञ् निशाने (स्वा० उ० अ०) । ‘जत्र्वादयश्च’ (उ० ४.१०२) इति निपातितः । ‘शिग्रुर्ना शाकमात्रे च शोभाञ्जनमहीरुहे’ ॥
शिग्रुः “शीक्यते शीकते । ‘शीकृ सेचने (भ्वा० आ० से०) बाहुलकाद् रुग्ह्रस्वौ गश्च । शिनोति । ‘शिञ् निशाने’ (स्वा० उ० अ०) । ‘जत्र्वादयश्च’ (उ० ४.१०२) इति साधुः, इति वा । ‘शिग्रुर्ना शाकमात्रे च शोभाञ्जनमहीरुहे’ इति विश्वमेदिन्यौ ॥”
शिग्रुजम् शीति । शिग्रोर्जायते स्म । ‘पञ्चम्याम्’ (३.२.९८) इति डः ॥
शिङ्घाणः शिङ्घ्यते । ‘शिघि आघ्राणे’ (भ्वा० प० से०) । ‘आणको लूधूशिङ्घिधाञ्भ्यः’ (उ० ३.८३) । पृषोदरादिः (६.३.१०९) । सिंहमाणयति वा । कर्मण्यण् (‘शिङ्घाणं काचपात्रे च लोहनासिकयोर्मले’ इति मेदिनी) ‘सिंहानम्’ इति पाठे सिंहवदनिति । ‘अन प्राणने’ (अ० प० से०) । अच् (३.१.१३४) । हिंसमानयति वा । ‘कर्मण्यण्’ (३.२.१) ॥
शिञ्जितम् भूषणानामिति । भूषणानां ध्वनौ । ‘शिजि अव्यक्ते शब्दे’ (अ० आ० से०) । तालव्यादिः । भावे क्तः (३.३.११४) ॥ ‘गुरोश्च-’ (३.३.१०३) इत्यप्रत्यये ‘शिञ्जा’ अपि - इति स्वामी ॥
शिञ्जिनी शिङ्क्ते । ‘शिजि अव्यक्ते शब्दे’ (अ० आ० से०) आवश्यके णिनिः (३.३.१७०) ॥
शितिकण्ठः शितिः कालः कण्ठोऽस्य ।
शितिसारकः शिति कालः सारो मज्जा यस्य ॥
शिफा शिफेति । शेते । ‘शीङ् स्वप्ने’ (अ० अ० से०) । बाहुलकात् फक् ह्रस्वश्च । ‘शिफा जटायां सरिति मांसिकायां च मातरि’ ।
शिफाकन्दः शिफा मूलतरप्ररोहः तत्सहितः कन्दो मूलम् ॥ शिफा’ इति ‘कन्दम्’ इति च पृथक् नामनी इत्यन्ये ॥ (२)द्वे पद्मकन्दस्य ।
शिबिका शीति । शिवैव । ‘संज्ञायां कन्’ (५.३.७५) । यद्वा शिवं करोति । ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्ताद् ण्वुल् ॥
शिबिरम् शवन्त्यत्र । ‘शव गतौ’ (भ्वा० प० से०) । बाहुलकात् किरच् अन इत्वं च ॥ (षण्ढे) क्लीबे ।
शिरः “शिर इति । श्रियते । ‘श्रीञ् सेवायाम्’ (भ्वा० उ० से०) । ‘श्रयतेः स्वाङ्गे शिरः किच्च’ (उ० ४.१९४) इत्यसुन्, धातोः शिरादेशश्च । यत्तु-शेते स्वाङ्गोपरि तिष्ठति । ‘शीङः किच्च इत्यसुन् शिरादेशश्च – इति मुकुटः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्रादर्शनात् । ‘शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च ।”
शिरस्त्रम् शिरस्त्रायते । ‘त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
शिरस्म् “श्रीयते उष्णीषादिना । ‘श्रयतेः स्वाङ्गे शिरः किच्च’ (उ० ४.१९४) इत्यसुन् । ‘शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च’ (इति मेदिनी) । ‘शिरोवाची शिरोऽदन्तो, रजोवाची रजस्तथा’ ।”
शिरस्यः शीति । शिरसि भवः । ‘शरीरावयवाच्च’ (४.३.५५) इति यत् । ‘ये च तद्धिते’ (६.१.६१) इत्यत्र ‘वा केशेषु’ इति वचनाद्वा शीर्षन् । ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि’ (इति मेदिनी) ॥
शिरीषः शीति । शृणाति शीर्यते वा। ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘शॄपॄभ्यां कित्’ (उ० ४.२७) इतीषन् ॥
शिरोधिः शिरो धीयतेस्याम् । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः ॥
शिरोरत्नम् शिरसो रत्नम् ॥
शिरोरुहः शिरसि रोहति । ‘इगुपध-’ (३.१.१३५) इति कः ॥
शिलम् शिलनम् । ‘शिल उञ्छे’ (तु० प० से०) । कः (वा० ३.३.५८) घञ् (३.३.१८) वा । संज्ञापूर्वकत्वान्न गुणः । ‘उञ्छः कणश आदाने कणिशाद्यर्जनं शिलम्’ इति यादवः ॥
शिला अध इति । शिलति । शिल उच्छे’ (तु० प० से०) । ‘इगुपध-’ (३.१.११५) इति कः । शिल उञ्छे स्त्रियां ग्रावद्वाराधःस्थितदारुणोः’ इति तालव्यादौ रभसः । ‘तलदारु शिली योषित् नासा दारूर्वमस्य यत्’ इति बोपालितात् शिली’ इत्यपि ॥
शिला शिलति । शिल उञ्च्छे’ (तु० प० से०) तालव्यादिः । ‘इगुपध-’ (३.१.१३५) इति कः ॥
शिलाजतुः शिलाया जत्विव । षष्ठीतत्पुरुषः ॥
शिली “शिलीति । शिलति । शिल उञ्छे’ (तु० प० से०) । ‘इगुपध-’(३.१.१३५) इति कः । ‘जातेरस्त्री-’ (४.१.६३) इति ङीष् । (शिलमुञ्छे स्याद्, गण्डूपद्यां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधःस्थितदारुणि(१) ॥ (२) द्वे किंचुलकाभार्यायाः इति स्वामी । क्षुद्रकिचुलकजातेः ।”
शिलोच्चयः शिलाभिरुच्चीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘एरच्’ (३.३.५६) ॥
शिल्पम्
- शीति । शील्यते । ‘शील समाधौं’ (भ्वा० प० से०) । शल्यते वा । ‘शल गती’ (भ्वा० प० से०) । ‘खष्पशिल्प-’ (उ० ३.२८) इति साधुः । ‘शिल्पं स्रुवे क्रियादिके’ इति विश्वः (हैमः) ॥ कला नृत्यगीतादिरूपा चतुःषष्टिभेदभिन्ना । आदिना सुवर्णकारादिकर्मग्रहः ।
शिल्पिशाला “शिल्पिनां शाला ॥ शिल्पस्य शाला, इति तु स्वामी ॥”
शिल्पी
- शिल्पमस्यास्ति । ‘अत-’ (५.२.११५) इतीनिः । ‘शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ’ (इति मेदिनी ) ॥ ‘तक्षा च तन्तुवायश्च नापितो रजकस्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः’ ॥
शिवः शिवमस्यास्ति । अर्शआद्यच् (५.२.१२७) । शिवयतीति वा । ‘तत्करोति (वा० ३.१.२) इति ण्यन्तात्पचाद्यच् (३.१.१३४) ॥ (शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । बालके गुग्गुलौ वेदे पुंडरीकद्रुमेऽपि च । सुखे क्षेमे जले क्लीबम् ।।
शिवमल्ली शिवेति । शिवप्रिया मल्ली ॥
शिवम् “शेतेऽनेन । शिवम् । ‘शीड् स्वप्ने’ (अ० आ० से०) । ‘खर्वनिघृष्व-’ (उ० १.१५३) इति वन्, ह्रस्वश्च निपातितः । शिवं तु मोक्षे क्षेमे सुखे जले । शिवो योगान्तरे वेदे गुग्गुलौ बालके हरे । पुण्डरीकद्रुमे कीले’ ॥”
शिवा शिवयति । शिवमस्त्यस्याः । शिवो वास्ति भर्तृत्वेन यस्या इति वा । शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाभया’ इति शाश्वतः । पुंयोगे तु शिवी ।
शिवा शिवमस्त्यस्याम् । अर्शआद्यच् (५.२.१२७) । शिवा झटामलौषधौ । अभयामलकीगौरीफेरुसक्तफलासु च’ (इति मेदिनी) ॥
शिवा शिवं करोति । ‘तत्करोति (वा० ३.१.२६) इति णिच् । पचाद्यच् (३.१.१३४) । ‘शिवा झाटामलौषधौ अभयामलकीगौरीफेरुसक्तुफलासु च ॥
शिवा शिवं करोति । ‘तत्करोति (वा० ३.१.२६) इति णिच् । पचाद्यच् (३.१.१३४) । ‘शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखे क्षेमे जले क्लीबं शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च’ इति मेदिनी ॥
शिवा स्त्रियामिति । शिवः शिवा वा देवताऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । शकुनावेदकत्वात् । ‘शिवः किलः शिवा क्रोष्टा भवेदामलकी शिवा’ इति शाश्वताच्छृगालेऽपि स्त्रीलिङ्गः । चतुष्पदां द्विलिङ्गता वक्ष्यते । तदपवादोऽयम् ॥
शिशिरः “‘शश प्लुतगतौ’ (भ्वा० प० से०) । ‘अजिरशिशिर-’ (उ० १.५३) इति किरच्, उपधाया इत्वं च निपात्यते । ‘शश्वच्छशाङ्कशिशिराण्यपि शूकशिम्बिस्तालव्यशद्वययुताः कथिताः कियन्तः’ इति शभेदः । (‘शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु’) ॥”
शिशिरः ‘शश प्लुतगतौ’ (भ्वा० प० से०) । अजिरशिशिर- (उ० १.५३) इति किरजन्तो निपातितः । शशन्ति धावन्ति यस्मिन्पथिकाः । ‘शिशिरः स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत्’ इति विश्वः ।
शिशुः “श्यति, शायते, वा । ‘शो तनूकरणे’ (दि० प० अ०) । ‘शः कित् सन्वच्च’ (उ० १.२०) इत्युः सन्वद्भावाद्द्वित्वेत्वे । शशति प्लुतेन गच्छति । ‘शश प्लुतगतौ’ (भ्वा० प० से०) । ‘शशिरपोरत इः’ इति कुः)-इति मुकुटश्चिन्त्यः । उज्ज्वलदत्तादिषु ‘शशिरपोरतः’ इति सूत्रादर्शनात् ॥”
शिशुकः शिशुः शिशुमारः । तस्य प्रतिकृतिरिव । ’इवे प्रतिकृतौ (५.३.९६) इति कन् । शिशुकः शिशुमारे स्याद्वलकोलूपिनोरपि’ । द्वे शोंशु इति ख्यातमत्स्यावशषस्य ।
शिशुत्वम् शिश्विति । शिशोर्भावः । ‘तस्य भावस्स्वतलौ’ (५.१.११९) । ‘आ च त्वात्’ (५.१.१२०) इति वा त्वः ॥
शिशुमारः तद्भेदा इति । तेषां जलजन्तूनां भेदा उच्यन्ते ॥ शिशून् मारयति । “मृङ् प्राणत्यागे’ (तु० आ० अ०) । णिच् (३.२.२६) । ‘कर्मण्यण्’ (३.२.१) । शिशुमारोऽम्बु सम्भूतजन्तौ तारात्मकाच्युते इति विश्वमेदिन्यौ ।
शिश्नः शीति । शशति । ‘शश प्लुतगतौ’ (भ्वा० प० से०) शिनोति । ‘शिञ् निशाने’ (स्वा० उ० अ०) । बाहुलकान्नक् । पृषोदरादिः (६.३.१०९) । - रास्नादिनिपातान्नक् इति मुकुटोऽपाणिनीयः ॥
शिष्टिः ‘क्तिन्नावादिभ्यः’ (३.३.९४) इति क्तिन् । बाहुलकात्तिः । ‘शास्तिः’ ॥
शिष्यः शिष्यते । ‘शासु अनुशिष्टौ (अ० प० से०) । ‘एतिस्तुशास्-’ (३.१.१०९) इति क्यप् । ‘शास इदङ्हलोः’ (६.४.३४) ।‘शासिवसि-’(८.३.६०) इति षः ॥
शीकरः शीकर इति । सृता वायुना इतस्ततः प्रेरिता अम्बुकणाः शीकराः । तालव्यादिः । ‘शम्बशीकरपांशवः’ इति तालव्यप्रकरणे ऊष्मविवेकात् । शीकृ सेचने’ (भ्वा० आ० से०) । ‘ऋच्छेररन् (उ० ३.१३१) इति बाहुलकादरन् । (‘शीकरं सरले वातसृताम्बुकणयोः पुमान्’) (सीकरः) ‘दन्त्यादिरयम्’ इति धनपालादयः ।।
शीघ्रम् “रंह आदयः सवेगगतिवचनाः । शीघ्रादयस्तु धर्मवचना एव’ । अत एव शीघ्रं पचति’ इति प्रयोगः, न तु ‘जवं पचति”” इति–इति वदन्ति । वस्तुतस्तु रंहः प्रभृतयो वेगाख्यगुणपराः शीघ्रादयस्तु कालाल्पत्वपराः-इति । शिङ्घति व्याप्नोति । ‘शिघि आघ्राणे’ (भ्वा० प० से०) । ‘शीघ्रादयश्च’ (?) इति रगन्तो निपातितः । (‘शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ त्रिषु’)”
शीतः अर्शआद्यचि (५.२.१२७) शीतः ।
शीतः शीतमस्यास्ति । अच् (५.२.१२७) । ‘वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु’ इति रभसः । क्लीबलिङ्गमपि । ‘शीतं तुषारवानीरबहुवारद्रुमेषु च’ इत्यजयात् ॥
शीतः श्यायते स्म । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘गत्यर्थाकर्मक-’ (३.४.७२) इति क्तः । ‘द्रवमूर्ति-’ (६.१.२४) इति संप्रसारणम् । ‘हलः’ (६.४.२) इति दीर्घः ॥
शीतकः
- शीतं करोति । ‘शीतोष्णाभ्यां कारिणि’ (५.२.७२) इति कन् ॥
शीतभीरुः शीताद्भीरुः ॥ ‘शतभीरुः’ इति वा पाठः । शतं वियोगिनो भीरवोऽस्याः । ‘मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायन्ती भूपदी तृणशून्यकम्’ इति वाचस्पतिः ॥
शीतम् गुणे स्पर्शविशेषे शीतम् । ‘शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना । श्यैङ् गतौ’ (भ्वा० प० अ०) । भावे क्तः (३.३.११४) । ‘द्रवमूर्ति स्पर्शयोः श्यः’ (६.१.४५) इति संप्रसारणम् । ‘श्योऽस्पर्शे (८.२४७) इति पर्युदासान्न निष्ठानत्वम् ।
शीतलः शीतं गुणोऽस्यास्ति । सिध्मादित्वात् (५.२.९७) लच् । शीतं लाति । कः (३.२.३) वा (‘शतलं पुष्पकाशीशे शैलजे मलयोद्भवे । पुमानासनपर्ण्यां स्याच्छिशिरे वाच्यलिङ्गकम्)
शीतलः शीतं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥ ‘शीतलवातकः’ इत्यपि नाम । ‘शणपर्णी शीतलवातकः’ इति धन्वन्तरिः ॥
शीतशिवः शीतमस्यास्ति । अच् (५.२.१२७) । शिवमस्यास्ति । अच् (५.२.१२७) । शीतश्चासौ शिवश्च । ‘अथ शीतशिवं क्लीबं शैलेयमणिमन्थयोः । पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधौ (इति मेदिनी) ॥
शीतशिवम् शीतं च तच्छिवं च ॥
शीतशिवम् शीतं च तच्छिवं च । ‘अथ शीतशिवं क्लीबं शैलेयमणिमन्थयोः । पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधौ (इति मेदिनी) । शितं शुभ्रम् । सितं च तच्छिवं च । (सितशिवम्)-इति मुकुटः ॥
शीधुः
- शेरतेऽनेन । ‘शीङो धुक्-’ (उ० ४.३८) । अर्धर्चादिः (२.४.३१) । ‘पुंनपुंसकयोदरुजीवातुस्थाणुशीध- वः’ इति त्रिकाण्डशेषः ॥ यद्यपि ‘शीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम्’ इति माधवः । तथापि भेदमनादृत्योक्तम् ।
शीर्षकम् अथेति । शर्षस्य प्रतिकृतिः । ‘इवे-’ (५.३.९६) इति कन् । शर्षे कं सुखमस्माद्वा ॥
शीर्षण्यः शीति । शिरसि भवः । ‘शरीरावयवाच्च’ (४.३.५५) इति यत् । ‘ये च तद्धिते’ (६.१.६१) इत्यत्र ‘वा केशेषु’ इति वचनाद्वा शीर्षन् । ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि’ (इति मेदिनी) ॥
शीर्षण्यम् शिरसे हितम् । ‘शरीरावयवाद्यत्’ (५.१.६) । ‘ये च तद्धिते’ (६.१.६१) इति शिरःशब्दस्य शीर्षन्नादेशः । ‘ये चाभाव–’ (६.४.१६८) इति टिलोपो न । शीर्षण्यं शीर्षरक्षणे । ‘शीर्षण्यो विशदे कचे’ इति हैमः ॥
शीर्षम् ‘कुमारशीर्षयोः’ (३.२.५१) इति ज्ञापकाच्छिरःशब्दस्य शीर्शादेशः ॥
शीलम् शुचाविति । ‘शुचौ’ इति भाषितपुंस्कत्वात्पुंवद्भावः (७.१.७४) । ‘शील समाधाने’ (भ्वा० प० से०) । ण्यन्तात् (३.१.२६) घञ् (३.३.१८) । यद्वा ‘शीङो धुक्लुक्वलञ्वालनः’ (उ० ८.३८) इति लक् । अर्धर्चादिः (२.४.३१) । शीलं स्वभावे सद्वृते’ इति विश्वः । चरित्रमात्रेऽपि । शीलम् । ‘निष्ठा च शीलं चारित्रं चरित्रं चरितं तथा’ इति रत्नकोषात् ।
शीवकः “सेति । श्यति गात्रकण्डूम्, शेतेऽत्र वा । ‘सर्वनिघृष्व-’ (उ० १.१५३) इति साधुः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥”
शुकः शोकति । ‘शुक गतौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा शोभते । शवति वा । ‘शुभ दीप्तौ’ (भ्वा० आ० से०) । ‘शु गतौ’ । वा । ‘शुकवल्कोल्काः’ (उ० ३.४२) इति साधुः । ‘शुको व्याससुते कीरे रावणस्य तु मन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम्’ (इति मेदिनी) ॥
शुकनासः शुकनासा इव पुष्पमस्यास्ति । अर्शआद्यच् (५.२.१२७) ॥
शुकम् “शोचति । ‘शुच शोके’ (भ्वा० प० से०) । ‘शु गतौ’ वा । ‘शुकवल्कोल्काः’ (उ० ३.४२) इति निपातः । ‘ग्रन्थिपर्णे शिरीषे च शुकः स्यात्’ इति विश्वः । ‘शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि, ग्रन्थिर्पणे नपुंसकम् (इति मेदिनी) ॥ -शुकस्येव बर्हाणि पर्णान्यस्य । (‘शुकवर्हम्’) इत्येकं नाम-इत्येके ॥”
शुक् सम्पदादित्वात् क्विप् (वा० ३.३.१०८) ॥
शुक्तिः “शुच्यति, शोचति, शोकति, वा । ‘शुच्य अभिषवे’ (भ्वा० प० से०) । ‘शुच शोके’ (भ्वा० प० से०) । शुक्तिः गतौ (भ्वा० प०) वा । क्तिच् (३.३.१७४) । ‘शुक्तिः कपालशकले शङ्खे शङ्खनकेऽपि च । नख्यश्चावर्तदुर्नाममुक्तास्फोटेषु च स्त्रियाम्’ ॥ (२) द्वे शुक्तिकायाः ॥”
शुक्तिः शुक्तिरिति । शोचति । ‘शुच शोके’ (भ्वा० प० से०) । क्तिच् (३.३.७४) । ‘शुक्तिः शङ्खनके शङ्खे कपालखण्ड दृग्रुजोः। नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि इति हैमः ॥
शुक्रः शोचयति । ‘ऋजेन्द्र-’ (उ० २.२८) इति निपातितः । शुक्रं रेतोऽस्यास्तीति वा । अर्शआद्यच् (५.२.१२७) शुक्लवर्णत्वादिति वा । रलयोरेकत्वम् । (‘शुक्रः स्याद्भार्गवे ज्यष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम्’)
शुक्रः शुक्र इति । माहेश्वरशुक्रद्वारा निर्गतत्वाच्छुक्रः । शोचति । ‘शुच शोके’ (भ्वा० प० से०) । ‘ऋजेन्द्र-’ (उ०२.२८) इति रक् इति वा ।
शुक्रः “विरहिणः शोचन्त्यस्मिन् । ‘शुच’ शोके (भ्वा० प० से०) । ‘ऋजेन्द्र-’ (उ० २.२८) इति रक्, चकारस्य ककारश्च । ‘शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम् ।”
शुक्रम् श्विति । शोचत्यनेन । ‘शुच शोके’ (भ्वा० प० से०) । शोचयति वा । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति साधुः । ‘शुक्रं तु रेतोऽक्षिरुजोः’ इति हैमः ॥
शुक्रशिष्याः शुक्रस्य शिष्याः ॥
शुक्लः शुक्लपक्षः पूर्वसंज्ञः ।
शुक्लः शोकति मनोऽस्मिन् । ‘शुक गतौ” (भ्वा० प० से०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इति निपातितः । ‘शुक्लो योगान्तरे सिते । नपुंसकं तु रजते’ ।
शुचिः शुचिं पवित्रं करोति शुचयति । ‘तत्करोति-’ (वा० ३.१.२६) इति ण्यन्ताद् अच इः’ (उ० ४.१३९) । यद्वा शोचति । अन्तर्भावितण्यर्थाच्छुचेः (भ्वा० प० से०) । ‘इगुपधात्- ३०४.१२०) इतीन् । (शुचिर्ग्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु’) ।
शुचिः ‘ईशुचिर् पूतीभावे (दि० उ० से०) । शुच्यति पूतीभवत्यनेन । इसिः ।
शुचिः शुचिरिति । अयमिति शुचेः पुंस्त्वाभिव्यक्त्यर्थम् । शोचन्ति विरहिणोऽस्मिन् । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । किच्च ।
शुचिः ‘शुच दीप्तौ’ ॥ इक् (वा० ३.३.१०८)
शुचिः उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । शोचन्त्यनेन वा । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । ‘शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेषुपधाशुद्धमन्त्रिणि । शृङ्गारे च’ इति हेमचन्द्रः ।
शुण्ठी अथेति । शुण्ठति कफम् । ‘शुठि प्रतिघाते’ (भ्वा० पओ से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । इनि (उ० ८४.११८) तु ह्रस्वान्तोऽपि । ‘सघन्याशुण्ठिसैन्धवम्’ इति वैद्यकम् । इत्थं च गौरादित्वं न कल्प्यम् । ‘कृदिकारात्’ (ग० ४.१.४५) इति सिद्धेः ॥
शुण्डा
- श्विति । शुन्यते । ‘शुन गतौ’ (तु० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११२) । ‘शुण्डा पानगृहे मता । (अप्यम्बुहस्तिनीवेश्याहस्तिहस्तसुरासु च’ इति मेदिनी) । ‘(शुण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः । नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे )’ इति विश्वः ॥
शुतुद्रिः “शु पूजितं तुदति । ‘तुद व्यथने (तु० उ० अ०) । ‘इगुपधात्कित्’ (उ० ४.१२०) इतीन् । बाहुलकाद्रुक् । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि’ इति हि श्रुतिः । यत्तु मुकुटः - शतद्रुरेव पृषोदरादित्वात् (६.३.१०९), आदि-वर्णविकारे शतद्रुः इति स्वामी, शितं तीक्ष्णं द्रुता शितद्रः इति कौमुदी, इत्याह । तन्न । ‘एतदबुध्यमानाः शितद्रुः सितद्रुर्वेत्याहुः’ (स्वामिग्रन्थेन) इत्यनेन तेनास्यार्थस्य दूषितत्वात् । व्युत्पत्त्यन्तरस्य कृतत्वाच्च ॥ (२) द्वे शतद्रवाः ।”
शुद्धान्तः शुद्धा उपधाशुद्धा रक्षका अन्ते समीपेऽस्य ॥
शुनकः
- शुनति । ‘शुन गतौ’ (तु० प० से०) । क्वुन् (उ० २.३२) ॥
शुनी
- शुनी गौरादिः (४.१.४१) ॥
शुभः शुभः
शुभम् शोभते । ‘शुभ शोभायाम्’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३४) इति कः । शु पूजितं भाति । ‘आतः (३.१.३) इति को वा । अन्येभ्योऽपि-’ (वा० ३.२१०१) इति डो वा । ‘शुभो योगे शुभं भद्रे ॥
शुभ्रः “शोभते । ‘शुभ दीप्तौ, शोभायां वा’ (भ्वा० आ० से०) । ‘स्फायि’ (उ० २.१३) इति रक् । ‘शुभ्रं दीप्तेऽभ्रके सिते’ इति हैमः ।”
शुभ्रदन्ती शुभ्रौ दन्तावस्या । ‘नासिकोदरौष्ठ- (४.१.५५) इति ङीष् (‘शुभ्रदन्ती सुदन्त्यां स्यात्पुष्पदन्तेभयोषिति’) । शुभदन्ती इति वा पाठः । शुभौ दन्तावस्याः ।
शुभ्रांशुः शुभ्रा अंशवो यस्य ।
शुल्कः घेति । घट्टादौ देयम् । शुल्क्यते । ‘शुल्क अतिसर्जने’ (चु० प० से०) । घञ् (३.३.१९) । ‘शुल्कं घट्टादिदेये स्याद्वरादर्थग्रहेऽस्त्रियाम्’ (इति मेदिनी) । मुकुटस्तु - शलति प्रतिबन्धोऽनेन । ‘शुल्कवल्कोल्काः’ इति निपातः -इत्याह । तन्न । उज्ज्वलदत्तादिषु ‘शुल्कवल्कोल्काः’ (उ० ३.४२) इति पाठस्य दर्शनात् । धातुपाठे ‘शुल्क’ धातोर्दर्शनाच्च ॥
शुल्बम् “शलति । ‘शल गतौ’ (भ्वा० प० से०) । ‘उल्वादयश्च’ (उ० ४.९५) इति साधु । यद्वा शुल्वयति, शुल्व्यते, वा । ‘शुल्व माने’ (चु० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) । ‘एरच् (३.३.५६) वा । ‘शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ’ इति हेमचन्द्रः ॥”
शुल्वम् “- श्विति । शुल्व्यते, शुल्वयति वा । ‘शुल्व विसर्गे’ (चु० प० से०) ण्यन्तः । ‘एरच् (३.३.५६) । अच् (३.१.१३४) वा ‘रज्जुः शुल्वा वराटो ना’ इति रत्नकोषात्स्र्यपि । ‘शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ’ इति विश्वः (मेदिनी) । स्वामी तु—‘सुम्यं वटाकरः’ इति पठति । सु पूजितं मीयते । ‘मीङ् गत्याम्’ (दि० आ० अ०) । ‘एरच्’ (३.३.४६) । बाहुलकाद्यण् । सुमे पुष्पे साधु । ‘तत्र साधुः’ (४.४.९८) इति यत् ॥”
शुश्रूषा शुश्रूषणम् । ‘श्रु श्रवणे’ (भ्वा० प० अ०) । सन्नन्तः । ‘अ प्रत्ययात्’ (३.३.१०२) ॥
शुषिः शुष्यत्यत्र । ‘शुष शोषणे’ (दि० प० अ०) । इगुपधात्कित्’ (उ० ४.१२०) । शुषिः शोषे बिलेऽस्त्री स्यात्’ इति मेदिनी । सुष्टु स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) बाहुलकात् किः । (सुषिः) । ‘विवराभिधायिनि शुषिरादौ शास्त्रेषु दन्त्यतालव्यौ’ इत्यूष्मविवेकः ।
शुषिरः सरन्ध्र इति । शुषिरस्यास्ति । ‘उषशुषि-’ (५.२.१०७) इति रः ।
शुषिरम् “वंशेति । वंशो वेणुः । आदिपदात्काहलादि । शुषिश्छिद्रमस्यास्ति । ऊषशुषि-’ (५.२.१०७) इति रः । शुषिरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियाँ गर्ते वह्नौ, रन्ध्रान्विते त्रिषु’ । सूर्म्यं सुषिरामिव (पस्पशाह्निक भाष्यस्थश्रुतौ) इति प्रयोगात् (सुषिरम्) दन्त्याद्यपि । प्राच्यास्तु तालव्याद्येव’ इत्याहुः”
शुषिरम् शोषणम् । ‘शुष शोषणे’ (दि० प० अ०) । ‘इगुपधात्कित्’ (उ० ४.१२० )। शुषिरस्यास्ति । ‘उषशुषि-’ (५.२.१०७ ) इति रः । ‘शुषिरं वंशादिवाद्य विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियां गर्ते वह्नौ रन्ध्रान्विते त्रिषु’॥
शुषिरा शुषीति । शुषिरस्त्यस्याः । ‘ऊषशुषि-’ (५.२.१०७) इति रः । शुषिरमस्त्यस्यां वा । ‘अर्शआदिभ्योऽच्’ (५.२.१२७) ॥
शुष्कमांसम् शुष्कं च तन्मांसं च ॥
शुष्मम् “शुष्यत्यनेनारिः । ‘शुष शोषणे’ (दि० प० अ०) । ‘अविसिविसिशुषिभ्यः कित्’ (उ० १.१४४) इति मन् । ‘शष्मं तेजसि, सूर्ये ना’ (इति मेदिनी) ॥”
शुष्मा शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्’ इति शब्दार्णवात् ‘बर्हिः शुष्मा’ इति व्यस्तं समस्तं नाम इति कश्चित् । तत्र समस्तपक्षे बर्हिः कुशः शुष्म बलमस्येति विग्रहः बर्हिः सान्तः (‘बर्हिः पुंसि हुताशने । न स्त्री कुशे’) । बर्हिरिदन्तः । ‘शुष्मा इति नान्तः पृथग् इत्यन्यः । शुष्यत्यनेनेति शुष्मा । ‘शुष शोषणे’ (दि० प० अ०) अन्येभ्योऽपि-’ (३.२.७५) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ॥ शुष्यति जलम् । शुषेरन्तः भवितण्यर्थात् ‘अविसिविसिशुषिभ्यः कित्’ (उ०१.१४४) इति मनिप्रत्यये ‘शुष्मः’ अदन्तोऽपि ॥
शूकः श्विति । श्यति । ‘शो तनूकरणे’ (दि० प० अ०) । ‘उलूकादयश्च’ इति साधुः । (उ० ४.४१) । ‘शूकोऽनुक्रोशशुङ्गयोः’ इति विश्वः ॥
शूककीटः शूकयुक्तः कीटः। शाकपार्थिवादिः (वा० २.१.७८) ॥
शूकधान्यम् श्विति । शूकयुक्तं धान्यम् ॥ आदिना गोधूमादिः ।
शूकशिम्बिः शूकयुक्ता शिम्बिः’ । ‘शश्चच्छशाङ्कशिशिराणि च शूकशिम्बिः’ इत्यूष्मविवेकात् द्वितालव्या । ‘शूकशिम्बिस्तु मर्कटी । शुकशिम्बा च’ इति वाचस्पतिः ॥
शूद्रा शूद्रेति । ‘शूद्रा चामहत्पूर्वा जातिः’ (वा० ४.१.४) इति टाप् ॥
शूद्राः
- श्विति । शोचति । ‘शुच शोके’ (भ्वा० प० से०) । ‘शुचेर्दश्च’ (उ० २.१९) इति रक् दीर्घश्च ।-‘शदे रक् चात ऊत्वं च’-इति सुभूतिरपाणिनीयः ॥
शूद्री शूद्रीति । शूद्रस्य स्त्री । ‘पुंयोगा-’ (४.१.४८) इति ङीष् ॥
शूरः “श्विति । शूरयति । ‘शूर, वीर, विक्रान्तौ’ (चु० उ० से०) अच् (३.१.१३४) ‘शूरः स्याद्यादवे भटे’ (इति मेदिनी) ॥”
शूर्पम् “शूर्पयति, शूर्प्यतेऽनेन वा । ‘शूर्प माने’ (चु० प० से०) । अच् (३.१.१३४) । ‘पुंसि-’ (३.३.१०८) इति घो वा । ‘शुभशतकिंशारुशूर्पांशुकम्’ इति शभेदात्तालव्यादिः । ‘सूर्ये च’ इति पाठाद्दन्त्यादिरपि ॥”
शूलाकृतम् श्विति । शूलेन कृतम् । ‘शूलापाके’ (५.४.६५) इति डाच् ॥
शूली शूलमस्यास्ति । इनिः (५.२.११५) |
शूल्यम् शूले संस्कृतम् । ‘शूलोखाद्यत्’ (४.२.३७) ॥
शृङ्खलः अथेति । पुंसां कट्यां चेत् काञ्ची । शृङ्गैः खलति । ‘खल सञ्चये’ (भ्वा० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘शृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने’ (इति हैमः) ॥
शृङ्खलकः केति । ‘शृङ्खलमस्य बन्धनं करभे’ (५.२.७९) इति कन् ॥
शृङ्खला “अथेति । शृङ्गं प्राधान्यं खलति । ‘खल सञ्चलने, सञ्चये च’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । अच् (३.१.१३४) । यद्वा शृङ्गात्प्राधान्यात् खलत्यनेन । ‘पुंसि’ (३.३.११८) इति घः । भिदाद्यङ् (३.३.१०४) वा । पृषोदरादिः (६.३.१०९) । ‘शुङ्खला पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने’ (इति हैमः) । (शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडे त्रिषु’ इति मेदिनी) ॥”
शृङ्गः शृणाति । ‘शृ हिंसायाम्’ (क्र्या० प० से०) । ‘शृणातेर्हस्वश्च’ (उ० १.१२६) इति गन् नुट् च । ‘शृङ्गं प्रभुत्वे शिखरे चिह्न क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोऋषभौषधौ’ (इति मेदिनी) ॥
शृङ्गम् शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । ‘शृणातेर्ह्रस्वश्च (उ० १.१२६) इति गन्नुड्ह्रस्वाः । श्रृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः कूर्चकशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोर्ऋषभौषधौ’ इति मेदिनी ।
शृङ्गवेरम् शृङ्गमिव वेरं शरीरमस्य ॥
शृङ्गाटकः शृङ्गेति । शृङ्गं प्राधान्यमटति । ‘अट गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । ‘संज्ञायां कन् (५.३.७५) । (‘शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे’ ॥
शृङ्गारः स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विका गुणाः’ । श्रृङ्गारेति । श्रृङ्गारादयोऽष्टौ रसाः । चशब्दाच्छान्तोऽपि नवमः । वात्सल्यं दशमः । रस्यन्ते । ‘रस आस्वादने’ चुराद्यदन्तः । कर्मणि घञ् (३.३.१९) । रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान् । स्त्रियां तु रसना पाटा शल्लकी कङ्गुभूमिषु’ इति विश्वमेदिन्यौ । श्रृङ्गार इति । श्रृङ्गं प्राधान्यमियर्ति । ‘कर्मण्यण्’ (३.२.१) । शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसम्भवे । (चूर्णं लवङ्गपुष्पे च)’ इति हैमः ।
शृङ्गिणी शृङ्गमस्त्यस्याः । ‘अतः’ (५.२.११५) इतीनिः ॥
शृङ्गी मद्गुरस्येति । मद्गुरो मत्स्यभेदः । योग्यतया सादृश्याद्वा तस्य प्रिया स्त्री । शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । गृणातेर्हस्वश्च’ (उ० १.१२६) इति गन् ह्रस्वत्वं कित्वं नुडागमश्च । ‘पुंयोगात्- (४.१.४८) इति जातेः-’ (४. १.६३) इति वा ङीष् । ‘मद्गुरी’ इत्यपि । ‘भार्या भेकस्य वर्षाभ्वी श्रृङ्गी स्यान्मद्गुरस्य तु । शिली गण्डूपदस्यापि दुलिः स्यात्कमठस्य तु’ इत्यमरमाला । (‘श्रृङ्गी स्वर्णमीनविशेषयोः । विषायामृषभौषध्याम्’) (१)
शृङ्गी शृणाति । ‘शॄ हिंसायाम् (क्र्या० प० से०) । ‘शृणातेर्हस्वश्च’ (उ० १. १२६) इति गन् कित् नुट् च । गौरादिः (४.१.४१) । शृङ्गी विषायामृषभे स्वर्णमीनविशेषयोः’ इति विश्वः ॥
शृङ्गी शृङ्गीति । शृणाति गदम् । ‘शॄ हिंसायाम्’ (क्रया० प० से०) । ‘शृणातेर्ह्रस्वश्च ’ (उ० १.१२६) इति गन् नुम् च । गौरादित्वात् (४.१.४१) ङीष् । ‘ऋषभेऽतिविषायां च शृङ्गी । मद्रवल्लभा’ इति रुद्राजयौ ॥
शृङ्गीकनकम् अलमिति । अलंकारसम्बन्धि सुवर्णम् । शृङ्गिणामी । शृङ्गीं कनति । ‘कनी दीप्तौ’ (भ्वा० प० से०) क्वुन् (उ० २.३२) । ‘शृङ्गी’ इति पृथग् नाम वा । ‘स्त्री शृङ्गी मण्डनसुवर्णम्’ इति रत्नकोषः । ‘भूषणं कनकं शृङ्गी’ इति नाममाला च । अल्पं शृङ्गं प्राधान्यं वा यस्याः । गौरादिः (४.१.४१) । ‘स्त्री स्यात्काचिन्मृणाल्यादि’ इति वचनात् ॥
शेखरः शिङ्खति । ‘शिखि गतौ’ (भ्वा० प० से०) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥
शेफः शेते रेतःपाते । ‘वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च’ (उ० ४.२०१) इत्यसुन् । ‘पुट् च’ इति वा पाठः । ‘शेपः । बाहुलकात् प-फ -प्रत्ययाभ्यामदन्तावप्येतौ (शेफशेपौ) । अत एव ‘शेपपुच्छ-’ (६.३.२१) इति वार्तिकं संगच्छते ॥
शेफालिका शेफेति । शेरते शेफा अलयोऽस्याम् । वा ङीष् । स्वार्थे कन् (५.३.७५) ॥
शेमुषी शेते । शेः विच् (३ . २.७५) । मोहः । तं मुष्णाति । शेमुषी । ‘मुष स्तेये’ (क्र्या० प० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । गौरादित्वात् (४.१.४१) डीष् ।
शेलुः शेलुरिति । शिलति । ‘शिल उञ्छे’ (तु० प० से०) । बाहुलकादुः ॥
शेवधिः शे कल्याणे मोहे वावधिः । ‘तत्पुरुषे-(६.३.१४) इत्यलुक् । यद्वा शेतेऽनेन शेवं सुखम् । ‘इण्शीभ्यां वन्’ (उ० १.१५२) । शेवं धीयतेऽस्मिन् । धाञः (जु० उ० अ०) ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किः ।
शेवालम् जलेति । जलं नीलयति । णील वर्णे’ (भ्वा० प० से०) । णिच् (३.१.२५) । ‘कर्मण्यण्’ (३.२.१) ॥ जले शेते तिष्ठति । ‘शीङो वलञ्वलन्वालनः (उ० ४.३८) । शेवलश्चैव शेवालः शैवलो जलनीलिका’ (इति वाचस्पतिः) ।
शेषः “न अन्तोऽस्य । अनन्तः केशवे शेषे पुमान्, निरवधौ त्रिषु ।”
शैक्षः शायिति । शिक्षामधीयते । तदधीते (४.२.५९)
शैखरिकः शिखरे प्रायेण भवति । अध्यात्मादित्वात् (वा० ४.३.६०) ठक् ॥
शैलः प्रचुराः शिलाः सन्त्यत्र । ज्योत्स्नादित्वादण् (वा० ५.२.१०३) ॥ ‘शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके’ इति हैमः ॥
शैलालिनः
- शायिति । शिलादिना प्रोक्तं नटसूत्रमधीयते । ‘पाराशर्यशिलालिभ्याम्-’ (४.३.११०) इति णिनिः ॥
शैलूषः शिलूषस्यापत्यम् । शैलूष इव इति वा । ‘नटे बिल्वे च शैलूषः’ इति तालव्यादिमूर्धन्यान्ते रभसः ॥
शैलूषाः
- शिलूषस्य ऋषेरपत्यम् । अण् (४.१.११४) । ‘नटे बिल्वे च शैलूषः’ इति तालव्यादिमूर्धन्यान्तेषु रभसः ॥
शैलेयम् शिलायां भवम् । ‘नद्यादिभ्यः’ (४.२.९७) इति ढक् । ‘शैलेयं तालपर्ण्यां च सैन्धवे । शैलजे ना तु मधुपे शिलातुल्येऽन्यलिङ्गकम्’ (इति मेदिनी) ॥
शैवलः जले शेते तिष्ठति । शीङो धुक्लक्वलञ्वालनः (उ० ४.३८) । शेवलश्चैव शेवालः शैवलो जलनीलिका’ (इति वाचस्पतिः) ।
शैवलिनी शैवलमस्त्यस्याम् ।
शैशवम् ‘इगन्ताच्च लघुपूर्वात्’ (५.१.१३१) इत्यण् ॥
शोकः ‘शुच शोके’ (भ्वा० प० से०) । घञ् (३.३.१८) ॥
शोचिष्केशः शोचींषि ज्वालाः केशा इवास्य । ‘नित्यं समासेऽनुत्तरपदस्थस्य ’ (८.३.४५) इति षत्वम् ।
शोणः शोण इति । शोणति । ’शोणृ वर्णगत्योः’ (भ्वा० प० से०) । पचाद्यच् (३.३.१३४) । ‘शोणः कृशानौ स्योनाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये ॥
शोणः शोण इति । शोणयति । ’शोणृ वर्णे’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘शोणः कृशानौ स्योनाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये ।
शोणकः शोणति । ‘शोणृ वर्णे (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । (शोणः कृशानौ श्योनाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये) । स्वार्थे कन् (५.३.७५) ॥ स्वामी तु–शवति । शोनकः – इत्याह ॥
शोणरत्नम् शोणेति । शोणं च तद्रत्नं च ॥
शोणितम् शोणति स्म । ‘शोणृ वर्णगत्योः’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः ।– शोणते इति मुकुटश्चिन्त्यः ॥
शोथः यत्तु - ‘शु गतौ’ । ‘यूथादयश्च’-इति मुकुटेनोक्तम् । तन्निर्मूलम् ॥
शोथघ्नी शोथं हन्ति । ‘अमनुष्य-’ (३.२.५३) इति टक् । ‘टिड्ढा-’ (४.१.१५) इति ङीप् ॥
शोधनी शोध्यतेऽनया । ‘शुध शौचे (दि० प० अ०) । ण्यन्ताल्ल्युट् (३.३.११७) ॥ एषु कर्तरि ल्युट् (३.३.११३) वा । ‘वर्धनी’ अप्यत्रा । (संमार्जनी बहुकरी वर्धनी च समूहनी’ इति हैमात्) ।
शोधितम् शोध्यते स्म । ‘शुध शुद्धौ (दि० प० अ०) । ण्यन्तात् कर्मणि क्तः (३.२.१०२) ॥
शोफः शाविति । शवति । ‘शव गतौ’ (भ्वा० प० से०) । बाहुलकात् फः । यश्च । ‘च्छ्वोः-’ (६.३.१९) इत्यूठ् । ‘आद्गुणः’ (६.१.८७) । संज्ञापूर्वकत्वात् ‘एत्येध-’ (६.१.८९) इति न वृद्धिः । यद्वा शवति । ‘शु गतौ’ । ‘शोफ ओषधिभेदे स्यादुत्कृते त्वग्विवर्धने’ इति हैमः ॥
शोभा शोभेति । शोभयति । ‘शुभ शुम्भ शोभायाम्’ (तु० प० से०) । पचाद्यच् (३.१.१३६) । यत्तु मुकुटेनोक्तम् शोभतेऽनया । ‘शुभ शुम्भ शोभार्थौ’ इति निर्देशात् ‘गुरोश्च हल’ (३.३.१०३) इत्यकारः - इति । तन्न । अर्थनिर्देशस्यानार्षत्वात् । यदपि-‘गुरोश्च हलः’ इति चकारादप्रत्ययः इति तु वयम्-इति । तदपि न । आकरे तथानुक्तेः । उक्तरीत्या निर्वाहाच्च । (‘शोभा कान्तीच्छयोर्मता’) । शुम्भयतीति शुम्भापि बोध्या ।
शोभाञ्जनः शोभेति । शोभामनक्ति । ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु’ (रु० प० से०) । कर्तरि ल्युट् (३.३.११३) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युज्वा ॥ प्रज्ञाद्यणि (५.३.४८) ‘शौभाञ्जनः’ ॥ सुष्ठु भा तामनक्ति । ल्युट् (३.३.११३) । प्रज्ञाद्यणि (५.४.३८) (‘सौभाञ्जनः’) दन्त्यादिरपि ॥
शोषः शोषयति । ‘शुष शोषणे’ (दि० प० अ०) । अच् (३.१.१३४) । ‘शोषः शोषणयक्ष्मणोः’ इति हैमः ॥
शौकम् “कपोतादीनां गणस्य पृथक्पृथगेकैकम् । | कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति । तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोतानाम्, शुकानाम्, मयूराणाम्, तित्तिरीणाम्, च गणः । ‘अनुदात्तादेरञ्’ (४.२.४४) । शुकात्तु ‘तस्य समूहः’ (४.२.३७) इत्यण् । आदिना काकवर्तकोलृकादीनां ग्रहः । ‘कापोतो रुचके, क्लीबं कपोतौघेऽञ्जनान्तरे’ (इति मेदिनी) ॥ ‘शौकं शुकगणे स्त्रीणां करणे’ (इति मेदिनी) ॥”
शौक्लिकेयः शुक्लिके देशे भवः । ‘दृतिकुक्षि-’ (४.३.५६) इति योगविभागाड्ढञ् ।
शौण्डिकः
- शाविति (‘शुण्डा पानगृहे मता । अम्बुहस्तिनीवेश्याहस्तिहस्तसुरासु च’ इति मेदिनी) । शुण्डा सुरा पण्यमस्य । ‘तदस्य पण्यम्’ (४.४.५१) इति ठक् ॥
शौण्डी शुण्डायां मद्यपानगृहे भवा । शौण्डो मत्ते च विख्याते पिप्पल्यां तु भवेस्त्रियाम् (इति मेदिनी) ।
शौद्धोदनिः शुद्ध ओदनोऽस्येति । शकन्ध्वादिः (वा० ६.१.९४) । शुद्धोदनस्यापत्यम् । ‘अत इञ्’ (४.१.९५) ॥
शौरिः “शूरस्यापत्यम्, तद्वंशजत्वात् । वृष्णित्वेऽपि बाह्वादित्वात् (४.१.९६) इञ् । ‘सूरो यादवे दन्त्यवान्’ इति माधवी । ‘सौरिः’ अपि ॥”
शौर्यम् शूरस्य भावः कर्म वा । ष्यञ् (५.१.१२४) । ‘शौर्यमारभटीशक्तयोः’ इति विश्वः ॥
शौल्विकः
- शाविति । शुल्वघट्टनं शिल्पमस्य । ‘शिल्पम्’ (४.४.५५ ) इति ठक् ॥
श्मशानम् श्मेति । शवाः शेरतेऽत्र । पृषोदरादिः (६.३.१०९) । द्वितालव्यम् ॥
श्मश्रुम् तदिति । तस्य वृद्धिस्तस्याम् । श्म मुखं श्रयति । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । श्मनि मुखे श्रूयते । ‘श्रु श्रवणे’ (भ्वा० प० से०) मितद्र्वादित्वात् । (वा० ३.२.१८०) डुः । सम्पदादिक्विप् (वा ३.३.१०८) वा । आगमशास्त्रस्यानित्यत्वान्न तुक् ॥
श्यामः श्यायते मनोऽस्मात् । ’श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘इषियुधीन्धि-’(उ० ११४५) इति मक् । ‘श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारुके । श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः’ इति हैमः ।
श्यामलः श्यामः श्यामत्वमस्यास्तीति । सिध्मादित्वात् (५.२.९७) लच् । ‘श्यामलः पिप्पले श्यामे’ इति हैमः ।
श्यामा श्येति । श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘इषियुधि-’ (उ० १.१४५) इति मक् ॥
श्यामा श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘इषियुधि-’ (उ० १.१४५) इति मक् ॥
श्यामा श्यामेति । श्यामो वर्णोऽस्त्यस्याः । अर्शआदिः (५.२.१२७) । ‘श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णाहरितोः पुंसि स्यात्तद्वति त्रिषु । मरिचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियंगावपि वल्गुलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकोषधौ’ । (नीलिकायाम्) ॥
श्यामाकः श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘पिनाकादयश्च’(उ० ४.१५) इति साधुः । यद्वा श्यामं वर्णमकति । ‘अक गतौ’ (भ्वा० प० से०) । अण् (३.२.१) ॥ ‘श्यामाकः श्यामकोऽपि च’ इति हलायुधः । तत्र मूलविभुजादिके (वा० ३.२.५) शकन्थ्वादित्वम् (वा० ६.१.९४) बोध्यम् । यत्तु–‘श्यालूधूभ्यो मकन्’–इत्याह मुकुटः । तन्न । तस्योणादिवृत्तावदर्शनात् (साँवा इति ख्यातः) ॥ प्रमुखशब्दान्नीवाराद्याः । मुकुटस्तु - अनन्तराः कुशादयो व्यवहिताश्च कङ्गुकोद्रवादयो गृहीताः – इत्याह । कोद्रवादीनामेवं सति हविष्यत्वापातात् ।
श्यालः श्येति । श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । बाहुलकात्कालन् । –उच्छिष्टमधुपर्कवाची ‘श्या’ शब्दः । श्यां लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । इति मुकुटः । -स्यामयति । ‘स्यम वितर्के चुरादिः । अच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) मस्य लः - इति स्वामी । ‘स्यालसालसमसूरसूरयः’ इति सभेदाद्दन्त्यादिः । – ‘स्याल वितर्के’ -इति मुकुटस्य प्रमादः । स्याल धातोरभावात् ॥ पत्युः श्यालाः स्युः ॥
श्यावः श्याव इति । श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । बाहुलकात् ‘कृसृगृदृभ्यो वः’ (उ० १.१५५)
श्येतः श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । ‘हृश्याभ्यामितन्’ (उणा० ३.९३)
श्येनः श्यायते । ‘श्यैङ गतौ’ (भ्वा० आ० अ०) । ‘श्यास्त्याहृञ् विभ्य इनच्’ (उ० २.४६) । (‘श्येनः पक्षिणि पाण्डुरे” इति मेदिनी) ॥
श्रद्धालुः श्रेति । श्रद्धते तच्छीला । ‘स्पृहिगृहि-’ (३.२.१५८) इत्यालुच् । ‘श्रद्धालुर्दोहदिन्यां स्त्री श्रद्धायुक्ते च वाच्यवत्’ (इति मेदिनी) ॥
श्रवः ‘सर्वधातुभ्योऽसुन्’ (उ० ४.१८९) ॥
श्रवणः ल्युट् वा करणे (३.३.११७) । ‘श्रवणं श्रुतौ च कर्णे नक्षत्रे न नपुंसकम्’ (इति मेदिनी) ॥
श्रविष्ठा श्रविष्ठयेति । श्रवणं श्रवः । ‘ॠदोरप्’ (३.३.५७) । प्रसिद्धः । श्रवोऽस्त्यस्याः । मतुप् (५.२.९४) । अतिशयेन श्रववती । इष्ठन् (५.३.५५) । ‘विन्मतोर्लुक्’ (५.३.६५) इति मतुपो लुक् ।
श्राणा श्रायते स्म । ‘श्रा पाके’ (अ० प० अ०) । कर्मणि क्तः (३.२.१०२) । ‘संयोगादेरातः’ (८.२.४३) इति निष्ठानत्वम् ॥
श्राद्धदेवः श्राद्धस्य देवः । अंशभाक्त्वात् । पितृपतित्वाद्वा ।।
श्राद्धम् श्रेति । श्रद्धात्रास्ति । ‘प्रज्ञाश्रद्धा-’ (५.२.१०१) इति णः ॥ तेषां पितॄणां कर्म । शास्त्रविधानेन ॥
श्रावणः श्रावण इति । स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुतिकर्णयोः इति रभसः । श्रवणेन युक्ता पौर्णमासी श्रवणा । लुबविशेषे (४.२.४) इति प्राप्तो लुब् यद्यपि पौर्णमास्यां नेष्यते इत्युत्सर्गः । विभाषा फाल्गुनी- (४.२२३) इति लिङ्गात् । तथापि श्रवणशब्दादिष्यत एव । तत्रैव (४.२.२३) सूत्रे श्रवणा इति निर्देशात् । ‘अबाधकान्यपि निपातनानि’ इति श्रावणी इत्यपि । ततः ‘सास्मिन्’ (४.२.२१) इत्यणि श्रावणः । श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता’ इति हैमः ।
श्रावणिकः विभाषा फाल्गुनी (४.२.२३) इति ठकि श्रावणिकः ।
श्री श्रीयते सर्वैः । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । ‘क्विब्वचि-’ (उ० २.५७) इत्युणादिसूत्रेण क्विप् । श्रीर्वेषरचना शोभा भारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तौ वेषोपकरणे मतौ’ (इति विश्वमेदिन्यौ) ॥
श्रीः श्रयति हरिम् । क्विब्वचि ‘(वा० ३.२.१७८) इति क्विब्दीर्घौ । यत्तु मुकुटेन ‘संप्रसारणनिषेधश्च’ इत्युक्तम् । तच्चिन्त्यम् । श्रयतेस्तदविधानात् । यत्तु–श्रीयते सर्वैः इति विगृहीतम् । तन्न । क्विपः कृत्वेन कर्तरि विधानेन कर्मण्यसम्भवात् । बाहुलकस्य त्वगतिकगतित्वात् । ’लक्ष्मीसरस्वतीधात्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता’ इति व्याडिः | श्रीलक्ष्मीशब्दौ ‘कृदिकारात्-’(ग० ४.१.४५) इति डीषन्ताविति मैत्रेयः । तन्न । कारग्रहणस्य तपरत्वार्थस्य वैयर्थ्यप्रसङ्गात् । अन्यथा ‘कृदिवर्णात्- ‘कृदेः इति वा वदेत् । ‘कारग्रहणान्न’ इति मनोरमाया उणादौ दीक्षिताः ।
श्रीकण्ठः श्रीः शोभा कण्ठेऽस्य । (‘श्रीकण्ठः कुरुजाङ्गले । शंकरे च’) ।
श्रीघनः श्रिया घनः पूर्णः । क्षुभ्नादित्वात् (८.४.३९) न णत्वम् ॥
श्रीदः “श्रियं दयते, ददाति, वा ।।”
श्रीपतिः श्रियः पतिः (‘श्रीपतिर्विष्णुभूपयोः’)
श्रीपर्णः श्रीति । श्रीः पर्णेषु यस्य । ‘श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे’ इति हैमः ॥
श्रीपर्णिका श्रीति । श्रीः पर्णेषु यस्याः । ‘पाककर्णपर्ण-’ (४.१.६४) इति ङीप् । स्वार्थे कन् (५.३.७५) । ‘श्रीपर्णी काश्मरीकुम्भ्योः क्लीबे पद्याग्निमन्थयोः’ ॥
श्रीपर्णी श्रीयुक्तानि पर्णान्यस्याः । ‘श्रीपर्णस्त्वग्रिमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे” इति हैमः । ‘श्रीपर्णी काश्मरीकुम्भ्योः क्लीबे पद्माग्निमन्थयोः’ ॥
श्रीफलः श्रीपदं श्रीप्रियं वा फलमस्य । शाकपार्थिवादिः (वा० २.१.६९) । ‘श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ॥
श्रीफली श्रीमत् फलमस्याः । ‘श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम्’ (इति मेदिनी) ॥
श्रीमान् श्रीरस्त्यस्य । मतुप् (५.२.९४) । ‘श्रीमस्तिलकवृक्षे ना मनोज्ञे धनिके त्रिषु’ ॥
श्रीवत्सलाञ्छनः वदति महत्त्वम् । ‘वृ-तॄ-वदि-वचि-वसि-हनि-कमि-कषिभ्यः सः (उ० ३.६२) वत्सः । श्रीयुक्तो वत्सः श्रीवत्सो महत्वलक्षणं श्वेतरोमावर्तविशेषो लाञ्छनं यस्य । ‘शौरिश्रीवतसदैत्यारि विष्वक्सेनजनार्दनाः’ इति शब्दार्णवात् । ’श्रीवत्सः’ अपि ॥
श्रीवासः “श्रियोः वासः । ‘श्रीवासो वृकधूपे स्यात् पङ्कजे मधुसूदने’ (इति मेदिनी) । श्रीश्चासौ वासश्च, इति वा । ‘श्रीर्वेषरचनाशोभाभारतीसरलद्रवे’ इति विश्वः ॥”
श्रीवेष्टः श्रियः सरलद्रवस्य पिष्टः । तच्चूर्णेन जनितत्वात् — इति मुकुटः । अन्ये तु श्रीसंज्ञकः श्रियो वा वेष्टो निर्यासः इत्याहुः ॥
श्रीसंज्ञम् श्रियः संज्ञा संज्ञा यस्य ॥
श्रीहस्तिनी “श्रीति । श्रिया हस्तः । श्रीहस्तो विद्यतेऽस्याः । ‘अतः’ (५.२.११५) इतीनिः । हस्तं गृह्णाति हस्तयति, अवश्यं श्रियं हस्तयति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः, इति वा ॥”
श्रुतिः श्रूयते। ‘श्रु श्रवणे’ (भ्वा० प० अ०) । कर्मणि क्तिन् (३.३.९४) । ‘श्रूयते धर्मोऽनया’ इति वा । ‘श्रूयजीषिस्तुभ्यः करणे’ (वा० ३.३.९४) इति क्तिन् । ‘श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः । स्त्रियाम् ।।
श्रुतिः श्रूयतेऽनया । क्तिन् (३.३.९४) । ‘श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम्’ (इति मेदिनी) ॥
श्रेणिः “- समिति । श्रयति, श्रीयते, वा । ‘श्रिञ् सेवायाम्’ (भ्वा० उ० से०) । ‘वहिश्रिश्रुयु-’ (उ० ४.५१) इति निः । ‘श्रेणिः स्त्रीपुंसयोः पङ्कौ समानशिल्पिसंहतौ’ (इति मेदिनी) ॥”
श्रेणी श्रीयते । श्रिञ् सेवायाम् (भ्वा० उ० से०) । ‘बहिश्रि-’ (उ ४.५३) इति निः । श्रेण्याल्यां कारुसंहतौ’इति हैमः ॥ पञ्च सान्तर्पङ्क्तेः ।
श्रेयः अतिशयेन प्रशस्यम् । द्विवचन- (५.३.५७) इतीयसुन् । ‘प्रशस्यस्य श्रः’ (५.३.६०) । ‘श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत्’
श्रेयः अतिशयेन प्रशस्यं श्रेयः । ‘श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते तु वाच्यवत्’ ।
श्रेयसी अतिप्रशस्ता । ईयसुन् (५.३.५७) । ‘प्रशस्यस्य श्रः’ (५.३.६०) । ‘उगितश्च (४.१.६) इति ङीप् । ‘श्रेयसी करिपिप्पल्यामभयापाठयोरपि’ इति मेदिनी ॥
श्रेयसी अतिशयेन प्रशस्ता । ‘प्रशस्यस्य श्रः’ (५.३.६०) । ‘श्रेयसी करिपिप्पल्यामभयापाठयोरपि’ । (इति मेदिनी) ॥
श्रेयसी अतिशयेन प्रशस्ता । ‘श्रेयसी करिपिप्पल्यामभयापाठयोरपि’ (इति मेदिनी)॥
श्रोणः श्रविति । श्रोणति । ‘श्रोणृ संघाते’ (भ्वा० प० से०) । अच् (३.१.१३४) । यत्तु- शृणोति । ‘रास्नादयः’ इति नक् प्रत्ययादिः इति मुकुटः । तन्न । ‘रास्नादयः’ इति सूत्राभावात् । नगादेर्विधायकाभावाच्च ॥
श्रोणिः श्रोणति । ‘श्रोणृ संघाते’ (भ्वा० प० से०) । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) ॥
श्रोणिफलकम् श्रोणेः फलकमिव । चर्माकारत्वात् ॥
श्रोत्रम् श्रूयतेऽनेन । ‘श्रु श्रवणे’ (भ्वा० प० अ०) । ष्ट्रन् (उ० ४.१५९) ॥
श्रोत्रियः श्रोत्रीति । छन्दोऽऽधीते । ‘श्रोत्रियंश्छन्दोऽधीते’ (५.२.८४) इति वा श्रोत्रियन्निपात्यते ॥
श्रौषट्
- श्रूयते अनेन वा । ‘श्रु श्रवणे’ (भ्वा० प० से०) । बाहुलकाड्डौषट् ॥
श्लेष्मणः पामादित्वात् (५.२.१००) नः ॥
श्लेष्मन् श्लिष्यति । ‘श्लिष आलिङ्गने’ (दि० प० अ०) । ‘सर्वधातुभ्यो मनिन्’ (उ० ४.१४५) ॥
श्लेष्मलः श्लेष्मेति । श्लेष्मास्यास्ति । ‘सिध्मादिभ्यश्च’ (५.२.९६) इति लच् ॥
श्लेष्मातकः श्लेष्माणमतति । ‘अत सातत्यगमने (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ (उ० २.३२) ॥
श्वःश्रेयसम् श्व आगामि श्रेयोऽत्र । श्वःश्रेयसम् । ‘श्वसो वसीयः श्रेयसः’ (५.४.८०) इत्यच् समासान्तः । ‘श्वःश्रेयसं तु कल्याणे परमात्मनि शर्मणि’ ॥ श्वोवसीयसमपि बोध्यम् ।
श्वः
- आगामि अहः । पृषोदरादिः (६.३.१०९) ॥
श्वदंष्ट्रा शुनो दंष्ट्रेव । संज्ञापूर्वकत्वान्न दीर्घः ॥
श्वपचः
- श्वानं पचति । अच् (३.१.१३४) । न्यङ्क्वादित्वात् (ग० ७.३.५३) कुत्वे ‘श्वपाकः’ अपि ॥
श्वभ्रम् श्वभ्रति। ‘श्वभ्र गतौ’ (चु० प० से०) । व्यन्तात्पचाद्यच् । शु शोभनमभ्रं व्योमात्र वा । तालव्यादि ।
श्वयथुः श्वयति अनेन । ‘टु ओश्वि गतिवृद्धयोः’ (भ्वा० प० से०) । ‘ट्वितोऽथुच्’ (३.३.८९) ॥
श्ववृत्तिः शुनो वृतिरिव शुन इव वृत्तिर्वा ॥
श्वशुरः “श्वेति । तयोः पतिपत्न्योः पिता परस्परं श्वशुरः । ‘शु’ इति आश्चर्ये पूजायां वा । शु आशु अश्नुते, अश्यते वा । ‘अशू व्याप्तौ संघाते च’ (स्वा० आ० से०) । ‘शावशेराप्तौ’ (उ० १.४४) इत्युरन् । द्वितालव्यः ‘श्वश्रूः शिशुश्वशुरः’ इति शभेदात् ॥”
श्वशुरः ‘श्वशुरः श्वश्र्वा’ (१.२.७१) इत्येकशेषो वा ॥
श्वश्रू पेति । पत्युर्माता पत्न्याः श्वश्रूः । पत्न्या माता पत्युः श्वश्रूः । श्वशुरस्य स्त्री । ‘श्वशुरस्योकाराकारलोपश्च’ इत्यूङ् । पुंयोगलक्षणङीषोऽपवादः ॥
श्वश्रूश्वशुरौ श्वेति । श्वश्रूश्च श्वशुरश्च ॥
श्वसनः श्वसन इत्यादि । श्वसित्यनेन । ‘श्वस प्राणने’ (अ०प० से०) । ल्युट् (३.३.११७) । (‘श्वसनं श्वसिते पुंसि मारुते मदनद्रुमे’) ।
श्वसनः निर्जलेऽपि श्वसिति । नन्द्यादिः (३.१.१३४) । ‘श्वसनं श्वसिते पुंसि मारुते मदनद्रुमे ॥
श्वा
- श्वयति । ‘टु ओ श्वि गतिवृद्ध्योः’ (भ्वा० प० से०) । ‘श्वन्नुक्षन्-’ (उ० १५९) इति साधुः ॥ ‘कुक्कुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः’ इति वाचस्पतिः ।
श्वाविध् श्वेति । श्वानं विध्यति । ‘व्यध ताडने’ (दि० प० अ०) । क्विप् (३.२.१७८) । ‘नहिवृति-’ (६.३.११६) इति दीर्घः ॥
श्वित्रम् श्वेतते । ‘श्विता वर्णे’ (भ्वा० आ० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् ॥
श्वेतः ‘ञिश्विता वर्णे’ (भ्वा० आ० से०) भ्वादिः । श्वेतम् । घञ् (३.३.१८) । ‘श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्किनीषु च । क्लीबं रूप्ये (ऽन्य वच्छुक्ले)
श्वेतगरुत् श्वेता गरुतोऽस्य ॥
श्वेतमरिचम् श्वेतं मरिचमिव ॥
श्वेतम् श्वेतते । ‘श्विता वर्णे (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीबं रूप्येऽन्यवच्छूक्ले’ (इति मेदिनी) ॥
श्वेतरक्तः श्वेतेति । श्वेतरक्तः ।
श्वेतसुरसा सितेति । शोभनो रसोऽस्याः । श्वेता चासौ सुरसा च ॥
षट्कर्म असाविति । असौ विप्रः । षट्कर्माण्यस्य । इज्याध्ययनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यते तं ॥
षट्पदः षट् पदान्यस्य ॥
षडभिज्ञः “दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम्, कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दानशीलक्षान्ति वीर्यध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥”
षडाननः षड् आननान्यस्य ॥
षड्ग्रन्थः केति । षड् ग्रन्थयो यस्य । ‘अच् प्रत्यन्ववपूर्वात्-’ (५.४.७५) इत्यत्र ‘अच्” इति योगविभागादच् । षड् ग्रन्था यस्य वा । ‘षड्ग्रन्था तु वचायां स्त्री स्यात्करञ्जान्तरे पुमान् ॥
षड्ग्रन्था षड् ग्रन्था ग्रन्थयो यस्याः । ‘षड्ग्रन्था तु वचायां स्त्री स्यात्करञ्जान्तरे पुमान्’ (इति मेदिनी) ॥
षड्ग्रन्थिका षड् बहवो ग्रन्थयोऽस्याः ॥
षड्जः षड्भ्यो जातः । ‘पञ्चम्याम्-’ (३.२.९८) इति डः । ‘नासां कण्ठमुरस्तालु जिहां दन्तांश संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति । स्मृतः ।
षण्डः षेति । सनोति । सन्यते वा । ‘षणु दाने’ (तु० उ० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । बाहुलकान्न सत्वम् । ‘षण्डं पद्मादिसङ्घाते न स्त्री स्याद्गोपतौ पुमान्’ इति मूर्धन्यादौ डान्ते (मेदिनी) । ‘शण्ढः’ इति पाठे ‘शमेर्ढः’ (उ० १.९९) । ‘शण्ढः स्यात्पुंसि गोपतौ । आ(अ)कृष्टाण्डे वर्षवरे तृतीयप्रकृ- तावपि’ (इति मेदिनी) ॥
षण्डम् “अब्जेति । सनोति । ‘षणु दाने’ (तु० उ० से०) । ‘ञमन्ताड्डः (उ० १.१११) । बाहुलकात्सत्वाभावः । ‘षण्डः स्मृतो बलीवर्दे षण्डं तु कानने भवेत्’ इति मूर्धन्यादावजयः । ‘षण्डं पद्मादिसंघाते न स्त्री स्याद् गोपतौ पुमान्’ । ‘शडि रुजायां संघाते च’ (भ्वा० आ० से०) । घञ् (३.३.१८) । तालव्यो मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः’ इत्यूष्मविवेकः । मकुरमुकुरै दर्पणे, षण्डः समूहे, दारदोऽम्बुधौ’ इति सारस्वतकोशः । एकम् अब्जादीनां समूहस्य ।”
षष्टिक्यः षष्टिकानाम् ॥ च भवनं क्षेत्रम् । ‘यवयवकषष्टिकाद्यत्’ (५.२.३) यवकः शूकशून्यो यवः ।
षाण्मातुरः षण्णां मातॄणामपत्यम् । ‘मातुरुत्संख्यासं-’ (४.१.११५) ।
ष्ठीवान् अतिशयितमस्थि यस्मिन् । मतुप् (५.२.९४) । ‘आसन्दीवत्-’ (८.२.१२) इति साधुः ॥
संकर्षणः “संकर्षति, सम्यक् कृष्यते वा । आद्ये नन्द्यादित्वात् (३.१.१३४) ल्युः । द्वितीये कर्मणि (३.३.११३) ल्युट् ॥”
संकोचम् “संकोचति, संकुच्यते, वा । यद्वा संकोचयति, संकोच्यते, वा । ‘कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु’ (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । सङ्कुचति- इति मुकुटो न सम्यक् । ‘कुच सङ्कोचने’ इत्यस्य कुटादित्वेनाचि गुणाभावप्रसङ्गात् । ‘सङ्कोचो मीनभेदे च बन्धं क्लीबं तु कुङ्कुमे’ इति मेदिनी ॥”
संक्रन्दनः संक्रन्दयति । ‘क्रदि आह्वाने रोदने च (भ्वा० प० से०) । ल्युः (३.१.१३४) ।
संख्यम् संख्यानम् । चक्षिङः ख्यातेर्वा भावे कः । ‘संख्यमाहवे । संख्यैकादौ विचारे च’ इति हैमः ॥
संख्या संख्यानम् । ‘चक्षिङः ख्या’ (२.४.५४) । ‘आतश्च-’(३ ३.१०६) इत्यङ् । ‘संख्यैकादौ विचारे च’ ।
संख्यावत् संख्या विचारणास्त्यस्य । मतुप् (५.२.९४) ॥
संग्रामः संग्रामणम् । ‘संग्राम युद्धे’ (चु० उ० स०) ण्यन्तः । ‘एरच्’ (३.३.५६) ॥
संग्राहः समिति । संगृह्यते । ‘ग्रह उपादाने’ (क्र्या० उ० से०) ‘समि मुष्टौ’ (३.३.३६) इति कर्मणि घञ् ॥
संघः संघेति । संहन्यते । घञ् (३.३.१९) । ‘संघोद्धौ गणप्रशंसयोः’ (३.३.८६) इति साधुः ॥
संघातः संहन्यते । घञ् (३.३.१९) । ‘हनस्तोऽचिण्णलोः-’ (७.३.३२) । ‘हो हन्तेः-’ (७.३.५४) इति घः । ‘संघातः पुंसि घाते च संहतौ नरकान्तरे’ (इति मेदिनी) ॥
संचयः संचीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘एरच्’ (३.३.५६) ॥
संचारिका “संचरति । संचारयति, वा । ‘चर गतौ’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘संचारिका तु युगले कुट्टनीघ्राणयोरपि’ । इति विश्वमेदिन्यौ ॥”
संज्ञपनम् ‘मारणतोषणनिशामनेषु ज्ञा’ (भ्वा० प० अ०) । ‘ज्ञप मिच्च’ (चु० प० से०) इति वा ॥
संज्ञुः सेति । संयते जानुनी यस्य । प्राग्वत् ज्ञुः (५.४.१२९) ॥ ‘प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽप्यत्रैव दृश्यते । संज्ञुः संहतजानौ च भवेत् संज्ञोऽपि तत्र हि । ऊर्ध्वनुरूर्ध्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्ध्वजानुके’ इति साहसाङ्कः ।
संडीनम् “प्रेति । प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम् । ‘डीङ् विहायसा गतौ’ (दि० आ० अ०) । ‘नपुंसके भावे क्तः’ (३.३.११४) । ‘स्वादय ओदितः’ (गणसूत्रम्) इत्योदित्त्वात् (८.२.४५) निष्ठानत्वम् ॥—प्रडीनं तिर्यग्गमनम् इत्यन्ये ॥ ‘एताः’ इत्यनेन हि डीनाद्या बोध्याः ।”
संततिः समिति । सन्तन्यते । ‘तनु विस्तारे’ (तु० उ० से०) । क्तिन् । (३.३.९४) ‘संततिः स्यात्पङ्गौ गोत्रे पारम्पर्ये च पुत्रपौत्राणाम् । (इति मेदिनी) ॥
संतानः सन्तन्यते । घञ् (३.३.१९) । ‘सन्तानः सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे’ (इति मेदिनी) । कर्तृकरणाधिकरणेष्वपि विग्रहः सम्भवति । आद्ये ‘तनोतेः’ (वा० ३.१.१४०) इति णः । अन्यत्र ‘हलश्च’ (३.३.१२१) इति घञ् ॥
संतापः संतापयति । ‘तप संतापे’ (भ्वा० प० अ०) ।
संदावः संद्रवणम् । संदवनम् । ‘दु द्रु गतौ’ (भ्वा० प० अ०) । ‘समि युद्रुदुवः’ (३.३.२३) इति घञ् ॥
संदेशवाक् संदेशेति । संदिश्यते घञ् (३.३.१८) । संदेशोऽर्थः। तस्य वाक् ॥
संदेहः ‘दिह उपचये’ (अ० उ० अ०) । संदेहनम् । घञ् (३.३.१८)
संदोहः संदुह्यते । ‘दुह प्रपूरणे’ (अ० उ० अ०) । घञ् (३.३.१९) ॥
संद्रावः संद्रवणम् । संदवनम् । ‘दु द्रु गतौ’ (भ्वा० प० अ०) । ‘समि युद्रुदुवः’ (३.३.२३) इति घञ् ॥
संधानम्
- समिति । संधीयते । ‘डुधाञ्’ (जु० उ० अ०) । ल्युट् (३.३.११३) । भावे (३.३.११५) वा । ‘संधानं स्यादभिषवे तथा सङ्घट्टनेऽपि च’ इति विश्वः (मेदिनी) ॥
संधिः समिति । संधानम् । ‘उपसर्गे घोः किः’ (३.३.९२) ॥
संध्या संध्येति । सम्यग् ध्यायन्त्यस्याम् । ‘ध्यै चिन्तायाम्’ (भ्वा० प० अ०)। ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् । ‘संध्या पितृप्रसूनद्यन्तरयोर्युगसंधिषु ॥*॥ निर्यकारोऽपि । संधीयतेऽनुसंधीयतेऽस्याम् । डुधाञः (जु० उ० अ०) अङ् (३.३. १०६) । ‘संध्या पितृप्रसूः संधा’ इति शब्दार्णवः ॥
संनद्धः “समिति । संनह्यति, संनह्यते, वा स्म । अकर्मकत्वात्कर्तरि (३.४.७२) कर्मणि (३.२.१०२) वा क्तः । ‘संनद्धो वर्मिते व्यूढे’ (इति मेदिनी) ॥”
संपत्तिः ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘सम्पत्तिसाकल्यान्तवचनेषु’ (२.१.६) इति निर्देशात् स्र्यधिकारेऽपि ‘वासरूप-’ (३.१.९४) न्यायः क्वचित्प्रवर्तते ॥
संपदि
- संपद्यते । ‘पद गतौ’ (दि० आ० अ०) । इन् (उ० ४.११८) । पृषोदरादित्वात् (६.३.१०९) समोऽन्त्यलोपः ।
संपद् अथेति । सम्पदनम् अनया वा । ‘पद गतौ’ (दि० आ० अ०) । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् ॥
संपरायकम् सम्परायनम् । ‘अय गतौ’ (भ्वा० आ० से०) । ‘इ गतौ’ (भ्वा० प० अ०) वा । घञ् (३.३.१८) । स्वार्थे कन् (ज्ञापि० ५.४.५) । विनयादित्वात् (५.४.३४) ठकि ‘साम्परायिकः’ अपि ॥
संपुटकः सम्पुट्यते । ‘पुट संश्लेषणे’ (तु० प० से०) । क्वुन् (उ० २.३२) ॥
संप्रधारणा समिति । संप्रधारणम् ‘धृञ् धारणे’ (भ्वा० उ० अ०) । ण्यन्तः । ‘ण्यास-’ (३.३.१०७) इति युच् ॥
संप्रहारः सम्प्रहरणम् । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । घञ् (३.३.१८) । ‘सम्प्रहारो गतौ रणे’ इति हैमः ॥
संबरारिः संबरस्यारिः । क्लीबं तु संबरं नीवौ बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च’ इति दन्त्यादौ रभसः । शंवरं सलिले पुंसि मृगदैत्यविशेषयोः’ इति तालव्यादौ मेदिनीकारात् । तालव्यादिरपि ॥
संमदः ‘मदी हर्षे (दि० प० से०) । प्रमदसंमदौ हर्षे’ (३.३.६८) इत्यप् । ‘प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति’ ।
संयत् संयतनम् । यती प्रयत्ने’ (भ्वा० अ० से०) संयमनम् । ‘यम उपरमे’ (भ्वा० प० अ०) वा । सम्पदादिः (वा० ३.३.१०८) ‘गमादीनाम्’ (वा० ६.४.४०) इति मलोपः । तुक् (६.१.७१) ॥
संयुगः संयोजनम् । ‘युजिर् योगे’ (स्वा० उ० अ०) । घञ् (३.३.१८)–‘रथयुग-’ (४.४.७६) इति निर्देशाद्गुणाभावः । प्रतिजनादिषु (४.४.९९ गणे) ‘संयुग’ शब्दपाठाद्वा ॥
संरावः ‘उपसर्गे रुव’ (३.३.२२) इति घञ् ॥
संलापः संलाप इति । संलपनम् । घञ् (३.३.१८) ॥ मिथोऽन्योन्यं प्रति भाषणम् । आलापस्त्वेकेनापि क्रियते ।
संवत्
- संवयते । ‘वय गतौ’ (भ्वा० आ० से०) । क्विप् (३.२.७६) । यलोपः (६.१.६६) । तुक् (६.१.७५) । यद्वा संवदति विच् (३.२.७५) ॥
संवत्सरः संवसन्त्यृतवोऽत्र । ‘वसेश्च’ (३.७१) । ‘सपूर्वाच्चित्’ (उ० ३.७२) इति सरप्रत्ययः । सः स्यार्धधातुके’ (७.४.४९) इति तः ।
संवर्तः संवर्तते जगदत्र । हलश्च (३.३१२१) इति घञ् । ‘संवर्तः प्रालयेऽक्षद्रौ’ इति हैमः ।
संवर्तिका समिति । संवर्तते । (वृतु वर्तने’ (भ्वा० आ० से०) । ‘हृपिशिरुहिवृतिविदिच्छदिकीर्तिभ्यश्च’ (उ० ४.११९) इतीन् । ‘संवर्तिर्नवपत्रिका’ इति वोपालितः । ततः स्वार्थे कन् (५.३.७५)
संवसथः समाविति । संवसन्त्यत्र । ‘वस निवासे’ (भ्वा० प० अ०) । उपसर्गे वसः’ (उ० ३.११६) इत्यथच् ॥
संविद् संवेदनम् । विद ज्ञाने’ (अ० प० से०) । (‘संवित् सम्भाषणे ज्ञाने संग्रामे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि’)
संविद् संविदिति । संवेदनम् । ‘विद ज्ञाने (अ० प० से०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् ।
संवेगः समाविति । संवेजनं संचलनम् ॥ ओविजी भयचलनयोः (तु० आ० से०) । घञ् (३.३.१८)
संवेशः संवेशनम् । विश प्रवेशने’ (तु० प० अ०) । घञ् (३.३.१८) । ‘संवेशः स्वापस्त्रीरतबन्धयोः ॥
संव्यानम् संवीयतेऽनेन । ल्युट् (३.३.११७) । ‘संव्यानं छदनेंऽशुके’ इति विश्वमेदिन्यौ ॥
संशप्तकः समिति । संशपनम् । ‘शप आक्रोशे’ (भ्वा० उ० अ०) । भावे क्तः (३.३.११४) । संशप्तं शपथं कुर्वन्ति । ‘तत्करोति’ (वा० ३.१.२६) इति णिच् । ण्वुल् (३.१.१३४) । क्वुन् (उ० २.३५) वा । सम्यक् शप्तं सत्यं येषां ते इति वा ॥ समयाच्छपथाद्धेतोराचाराद्वा ।
संशयः ‘शीड्’ (अ० आ० से०) । ‘एरच्’ (३.३.५६) । संशयः ।
संश्रवः एवं संश्रव ।
संसद् संसीदन्त्यस्याम् । क्विप् (वा० ३.३.१०८) ॥
संसरणम् “सम्भूय सरन्त्यत्र, अनेन, वा । ‘सृ गतौ’ (भ्वा० प० अ०) । -करणा-’ (३.३.११७) इति ल्युट् इति मुकुटः । तन्न । घस्य ल्युडपवादत्वात् । बाहुलकाद्वा ल्युट् (३.३.११३) । युच् (उ० २.७८) तु युक्तः ॥ (२) ‘दश धन्वन्तरो राजमार्गो घण्टापथः स्मृतः’ इति चाणक्यः । द्वे राजमार्गस्य ।”
संसिद्धिः असौम्येऽसुन्दरे । एकं कूराया दृष्टेः । संसिद्धीति । संसेधनम् । षिध संराद्धौ (दि० प० अ०) । क्तिन् (३.३.९४) । (‘संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायामपि स्त्रियाम्
संस्था “समिति । संतिष्ठतेऽनया । सम्यगवस्थानं वा । प्राग्वदङ् । (‘संस्थश्चरेऽवस्थिते, स्त्री स्थितौ सादृश्यनाशयोः’ (इति मेदिनी) ॥”
संस्थितः संतिष्ठते स्म । ‘गत्यर्था–’ (३.४.७२) इति क्तः ॥
संस्पर्शा सम्यक् स्पृशति स्पृशते वा । ‘स्पृश स्पर्शने’ (तु० प० से०) । ‘पदरुज-’ (३.३.१६) इति घञ् । पचाद्यच् (३.१.१३४) वा । कर्मणि घञ् (३.३.१९) वा ॥
संस्फोटः संस्फोटनम् ‘स्फुटिर् विशरणे’ (भ्वा० प० से०) घञ् (३.३.१८) ‘संस्फेटः’ इति तु स्वामी । तत्र ‘स्फिट अनादरे’ (चु० प० से०) ॥
संहतजानुकः सेति । संयते जानुनी यस्य । प्राग्वत् ज्ञुः (५.४.१२९) ॥ ‘प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽप्यत्रैव दृश्यते । संज्ञुः संहतजानौ च भवेत् संज्ञोऽपि तत्र हि । ऊर्ध्वनुरूर्ध्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्ध्वजानुके’ इति साहसाङ्कः ।
संहतिः संहन्यते । क्तिन् (३.३.९४) ॥
संहननम् संहन्ति । संहन्यते वा । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् । यद्वा संहन्यन्तेऽस्मिन् भूतानि । ‘करणा-’ (३.३.११७) इति ल्युट् ॥
संहारः हरणं हारः । घञ् । (३.३.१८) । सम्यग् हारोऽत्र ॥*॥ सम्यग् घातोऽत्र (‘संघातः पुंसि घाते च संहतौ नरकान्तरे’ इति मेदिनी) इत्येके ॥
संहूतिः संहूतिरिति । बहुकर्तुका चेत् संहूतिः ।
सकृत्प्रजः सकृत् प्रजा यस्य ॥
सक्तुफला सक्तुवत् फलमस्याः । अजादिः (४.१.४) ॥
सक्थिम् “सेति । सजति, सज्यते, वा । ‘षञ्ज सङ्गे’ (भ्वा० प० अ०) । ‘असिसञ्जिभ्यां क्थिन्’ (उ० ३.१५४) ॥”
सखिः समानः ख्यायते लोकैः । ‘समाने ख्यः सः चोदात्तः’ (उ० ४.१३७) इतीण् स च डित् । टिलोपः (६.४.१४३) । ‘नौ व्यो यलोपः’ इत्यतोऽनुवर्तनाद्यलोपः समानस्य सभावः ॥
सखी समानं ख्यायते जनैः । ‘समाने ख्यः स चोदात्तः’ (उ० ४.१३७) इतीण् डित् समानस्य स च । ‘सख्यशिश्वी-’ (४.१.६२) इति ङीष् । ‘सखा मित्रे सहाये ना वयस्यायां सखी मता’ (इति मेदिनी) ॥
सख्यम् सेति । सख्युर्भावः कर्म वा । ‘सख्युर्यः’ (५.१.१२६) ॥
सगर्भ्यः समाने गर्भे भवः । ‘सगर्भसयूथ-’ (४.४.११४) इति यत् । ‘सगर्भ’ इति निर्देशात्सः । यद्वा सह तुल्ये गर्भे कुक्षौ भवः । ‘सह साकल्यसादृश्ययौगपद्यसमृद्धिषु’ इति विश्वः ॥
सगोत्रः सेति । समानं गोत्रं कुलमस्य । ‘ज्योतिर्जनपद-’ (६.३.८५) इति सः ॥
सग्धिः “सेति । अदनम् । ‘अद भक्षणे’ (अ० प० अ०) । क्तिन् (३.३.९४) ‘बहुलं छन्दसि’ (२.४.३९) इति घस् । ‘घसि भसोर्हलि च’ (६.४.१००) इत्युपधालोपः । ‘झलो झलि’ (८.२.२६) इति सलोपः । ‘झषस्तथोऽधः’ (४.२.४०) । ‘झलां जश् झशि’ (८.४.५३, भा० ५९) इति घस्य गः । समाना ग्धिः पूर्ववत् ॥”
सङ्करः समिति । संकीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । हिंसायाम् (क्र्या० उ० से०) वा । ‘ॠदोरप्’ (३.३.५७) । ‘संकारः’ इति पाठे तु कर्मणि घञ् (३.३.१४) । (‘अथ संस्कारोऽवकारेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायाम्’ इति हैमः । मेदिनीकोशे तु ह्रस्वमध्यः) ॥
सङ्कल्पः इदमिदं कुर्यामिति मनसः कर्म व्यापारः । संकल्पनम् । ‘कृपू सामर्थ्ये (भ्वा० आ० से०) । भावे घञ् (३.२.१८) ।
सङ्काशः
- सङ्काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘सङ्काशः सदृशेऽन्तिके’ इति हैमः ॥
सङ्कीर्णाः
- आचेति । सङ्कीर्यते स्म । ‘कॄ विक्षेपे’ (तु० प० से०) । क्तः (३.२.१०२) । ‘ॠत इद्धातोः’ (७.१.१००) । ‘रदाभ्याम्-’ (८.२.४२) इति नत्वम् ॥अम्बष्ठश्च करणश्च । अम्बष्ठकरणावादी येषां ते । आदिना उग्रादिग्रहः ।
सङ्कुलम् अथेति । संकुलति । ’कुल संस्त्याने’ (भ्वा० प० से०) । कः (३.१.१३५) । ‘संकुलं त्रिषु विस्पष्टवाचि व्याप्ते’ ॥
सङ्गतम् संगतमिति । संगच्छते स्म । ‘गत्यर्था-’(३.४.७२) इति कर्तरि क्तः ॥
सङ्ग्रहः संग्रहणम् । ‘ग्रहवृदृ’ (३.३.५८) इत्यप् । ‘विस्तरेणोपदिष्टा नामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः । संग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि’ इति मेदिनी ॥
सज्जः सज्जति । ‘षस्ज गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘अथ सज्जः स्यात्संनद्धे संभृते त्रिषु’ (इति मेदिनी) ॥
सज्जनः संश्चासौ जनश्च । ‘सज्जनं तु भवेत्क्लीबमुपरक्षणघट्टयोः । वाच्यलिङ्गं कुलीने स्यात् कल्पनायां च योषिति’ (इति मेदिनी) ॥
सज्जनम् सेति । सज्जन्ते (न्त्य) नेन । ‘षस्ज गतौ’ (भ्वा० प० से०) । ल्युट् (३.३.११७) । सत् शोभनं जन्यतेऽनेन वा । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । घञ् (३.३.१९) ‘जनिवध्योश्च’ (७.३.३५) इति न वृद्धिः ॥
सज्जना एवं ‘षस्ज गतौ’ (भ्वा० प० से०) । ण्यन्ताद्युच् (३.३.१०७) । ‘सज्जनं तु भवेत्क्ली- बमुपरक्षणघट्टयोः । वाच्यलिङ्गं कुलीने स्यात्कल्पनायां च योषिति’ (इति मेदिनी) ॥
सञ्जवनम् सञ्जेति । सञ्जवन्त्यत्र । ‘जु गतौ’ सौत्रः । अधिकरणे ल्युट् (३.३.११८) ॥
सञ्ज्वरः ‘ज्वर रोगे’ (भ्वा० प० से०) । ण्यन्तौ । संज्वरयति । पचाद्यच् (३.१.१३४) । यत्तु-संतापनं संतापः । घञ् (३.३१८) । संज्वरयति संज्वरः । अच् (३.१.१३४) इति मुकुटेनोक्तम् । तन्न । वैषम्ये प्रमाणाभावात् । भावकर्त्रभिधायिनोः समानार्थकत्वाभावात् । समौ समानार्थकौ समलिङ्गौ ।
सटा सटति । ‘षट अवयवे’ (भ्वा० प० से०) । अच् (३.१.१३४) ‘सटा जटाकेसरयोः’ (इति मेदिनी) ॥ ‘कोटीरस्तु जटा सटा’ इति रभसः ।
सततम् सततेत्यादि । संतन्यते स्म । ‘तनु विस्तारे’ (त० उ० से०) । क्तः (३.४.७२) । अनुदात्तोपदेश-’ (६.४.३७) इति नलोपः ‘समो वा हितततयोः’ (वा० ६.१.१४४) इति वा समो मलोपः। पक्षे संततम् ।
सती अस्ति एकस्मिन् पत्यौ । ‘अस भुवि’ (अ० प० से०) । शतृ (३.२.१२४) ‘श्नसोरल्लोपः’ (६.४.१११) । ‘उगितश्च’ (४.१.६) इति ङीप् । ‘सन् साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्’ (इति मेदिनी) ॥
सतीनकः सति जीवे इनः प्रभुः । ‘संज्ञायाम् (२.१.४४) इति समासः । ‘हलदन्तात् (६.३.९) इत्यलुक् । सतीनं वायुं करोति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ।-प्रज्ञाद्यणि (५.४.३८) ‘सातीनकः’ अपि–इति माधवी ॥
सतीर्थ्यः सेति । समाने तीर्थे वसन्ति । ‘समानतीर्थे वासी’ (४.४.१०७) इति यत् । ’तीर्थे ये’ (६.३.८७) इति समानस्य सः ।
सत् सत्
सत्त्रिन् सेति । सत्रमस्यास्ति । इनिः (५.२.११५) । ‘सत्रमाच्छादने यज्ञे सदादाने च कैतवे’ इति विश्वः ।
सत्त्वम् सतो भावः सत्त्वम् । सीदन्त्यस्मिन् गुणादय इति वा । सदेस्त्वन् (उ० ४.१०५) । सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ।
सत्पथः संश्चासौ पन्थाश्च । ‘सन्महत्-’ (२.१.६१) इति तत्पुरुषः । ‘ऋक्पूर्’ (५.४.७४) इत्यः ॥
सत्यंकारः घञ् (३.३.१८) । ‘कारे सत्यागदस्य’ (६.३.८७) इति मुम् ॥
सत्यम् सत्यमित्यादि । सति साधु सत्यम् । ‘सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति’ ॥
सत्यवचस् सत्यं वचो येषाम् ॥
सत्याकृतिः क्तिन् (३.३.९४) । ‘सत्यादशपथे’ (५.४.६६) इति डाच् ॥
सत्यानृतम् सेति । सत्यसहितमनृतम् । शाकपार्थिवादिः (वा० २.१.७८) ॥
सत्यापनम् क्लीति । सत्यस्य करणम् । ‘सत्यापपाश-’ (३.१.२५) इति णिजापुकौ । भावे ल्युट् (३.३.११४) । ‘सत्यापना सत्याकृतिः’ इति स्त्रीकाण्डे वोपालितात् ‘ण्यासश्रन्थः-’ (३.३.११७) इति युजपि ॥
सत्रा
- सह त्रायते । क्विप् (३.२.७६) ॥
सत्वरम् सह त्वरया वर्तते ।।
सदनम् सीदन्त्यत्र । ‘षद्लृ’ (भ्वा० प० अ०) । अधिकरणे युच् (उ० २.७८) । ‘सदनं मन्दिरे तोये’ ॥ स्वार्थण्यन्ताद्युचि सादनमपि । ‘सदनं सादनम्’ इति द्विरूपकोशः ॥
सदस् सीदन्त्यस्याम् । असुन् (उ० ४.१८९) ॥
सदस्यः सेति । सदसि साधवः । ‘तत्र साधुः(४.४.९८) इति यत् ॥
सदा -‘सर्वस्य सोऽन्यतरस्यां दि’ (५.३.६) ॥
सदागतिः सदा गतिरस्य (‘सदागतिर्नाकवातनिर्वाणेषु सदीश्वरे’)
सदानीरा सदा नीरं यस्याः । ‘प्रथमं कर्कटे देवी त्र्यहं गङ्गा रजस्वला । सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी’ इति स्मृतेः ॥ द्वे गौरीविवाहे कन्यादानोदकाज्जातनद्याः ।
सदृक्
- समान इव पश्यति । | ‘त्यदादिषु-’ (३.२.६०) इति कञ्क्विनौ । क्सश्च । ‘दृग्दृशवतुषु’ (६.३.८९) ‘दृक्षे च’ (वा० ६.३.८९) इति सभावः ॥
सदृक्षः
- समान इव पश्यति । | ‘त्यदादिषु-’ (३.२.६०) इति कञ्क्विनौ । क्सश्च । ‘दृग्दृशवतुषु’ (६.३.८९) ‘दृक्षे च’ (वा० ६.३.८९) इति सभावः ॥
सदृशः
- समान इव पश्यति । | ‘त्यदादिषु-’ (३.२.६०) इति कञ्क्विनौ । क्सश्च । ‘दृग्दृशवतुषु’ (६.३.८९) ‘दृक्षे च’ (वा० ६.३.८९) इति सभावः ॥
सद्म सीदन्त्यत्र । ‘षद्लृ विशरणादौ’ (भ्वा० तु० प० अ०) । मनिन् (उ० ४.१४५) । (‘सद्म स्यान्मन्दिरे नीरे’ इति मेदिनी) ॥
सद्यः
- समानेऽहनि । ‘सद्यः परुत्-’ (५.३.२२) इति साधुः ॥
सधर्मिणी समानो धर्मोऽस्त्यस्याः । इनिः (५.२.११५) । ‘समानस्य-’ (६.३.८४) इति सः ।
सनत्कुमारः सनत्कुमार इत्यादि । सनत् नित्यं कुमारः । ‘सनात्कुमारः अपि । यद्वा ‘हंसगो गृहिणः सनत्’ इति ब्रह्मपर्याये रभसः । तस्य कुमारोऽपत्यम् । दन्त्यादिः।
सना
- सनति । ‘षण सम्भक्तौ (भ्वा० प० से०) । आ प्रत्ययः ॥ सनात् सनत् ॥
सनाभिः समानो नाभिर्मूलपुरुषोऽस्य । ‘ज्योतिर्जनपद-’ (६.३.८५) इति समानस्य सः ॥
सनिः सेति । सननम् । ‘षणु दाने’ (तु० उ० से०) । इन् (उ० ४.११८) ॥
सनिष्ठेवम् निष्ठेवनम् । ‘ष्ठिषु निरसने’ (भ्वा० प० से०) । घञ् (३.३.१८) । लघूपधगुणः (७.३.८६) ॥ ‘सनिष्ठीवम्’ इति पाठे तु पृषोदरादित्वात् (६.३.१०९) ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥
सन्ततम् पक्षे संततम् ।।
सन्तमसम् तम इति। विष्वक् सर्वतः तमः समन्तात्तमः । अच् (५.४.७९)
सन्तानः सम्यक् तनोति पुष्पाणि । ‘ज्वलिति-’(३.१.१४०) इति सूत्रे तनोतेरुपसंख्यानात् णः । सम्यक्तन्यन्ते पुष्पाण्यस्मिन्नित्यधिकरणे ।‘हलश्च (३.३.१२१) इति घञ् वा । (‘संतानः संततौ गोत्रे स्यादपत्ये सुरद्रुमे ।।
सन्दानम् संदीयते । सम्पूर्वो दाण् बन्धने । ल्युट् (३.३.१३३) ॥
सन्देशहरः स्यादिति । संदेशं वाचिकं हरति । ‘हरतेरनुद्यमनेऽच्’ (३.२.९) ॥
सन्धिनी अथेति । सन्धानम् । ‘डुधाञ्’ (जु० उ० अ०) । ‘आतश्च-’ (३.३.१०६) इत्यङ् । संधास्त्यस्याः । व्रीह्यादित्वात् । (५.२.११६) इनिः । अवश्यं सन्धत्ते वा । ‘आवश्यका (३.३.१७०) इति णिनिः । ‘संघिनी वृषभाक्रान्ताकालदुग्धोस्रयोः स्त्रियाम्’ (इति मेदिनी) ॥
सन्नकद्रुः सन्नो लीनः कद्रुर्वर्णोऽस्य ॥
सन्निवेशः समिति । संनिविशन्तेऽत्र । विश प्रवेशने’ (तु० प० अ०) । हलश्च (३.३.१२१) इति घञ् ।
सपत्नः सपत्नीव । ‘व्यन् सपत्ने’ (४.१.१४५) इति निर्देशादकारः ॥
सपदि
- सम्पद्यतेऽस्मिन् । इन् (उ० ४.११८) । पृषोदरादित्वात् (६.३.१०९) मलोपः ॥
सपर्या अतिथीनामदृष्टपूर्वाणां गृहमागतानाम् । सपर्यणम् । ‘सपर पूजायाम् । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । ‘अ प्रत्ययात्’ (३.३.१०३) । सपर्या पूजा ॥
सपर्या कण्ड्वादौ ‘सपर पूजायाम्’इति पठ्यते । यक् (३.१.२७) । ‘अ प्रत्ययात्’ (३.३.२०२) ॥
सपिण्डः सेति । समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वास्य । ‘वान्यस्मिन्सपिण्डे-’ (४.१.१६५) इत्यादिनिर्देशात् समानस्य सः । यद्वा सह पिण्डेन वर्तते । ‘सपिण्डता तु पुरुषे सप्तमे विनिवर्तते’ । (मनुः ५.६०) ॥
सपीतिः सेति । पानम् । ‘पा पाने’ (भ्वा० प० अ०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘घुमास्था-’ (६.४.६६) इतीत्वम् । समाना पीतिः । समानस्य छन्दसि-’ (६.३.८४) इति सभावः । सह पीतिर्वा । ‘सहस्य सः संज्ञायाम्’ (६.३.७८) ॥
सप्तकी “सपति । ‘षप समवाये’ (भ्वा० प० से०) । बाहुलकात्तन् । स्वार्थे (ज्ञापि० ५.४.५) कन् । सप्तभिरनेकाभिः किङ्किणीभिः, सप्त स्वरान् वा कायति । ‘आतः’ (३.१.१३६, २.३) इति कः । गौरादिः (४.१.४१)—कायन्ति अस्याम् । मूलविभुजादित्वात् (वा० ३.२.५) कः–इति मुकुटश्चिन्त्यः । अधिकरणे तत्प्रवृत्तेरसम्भवात् ॥”
सप्ततन्तुः सप्तभिश्छन्दोभिरग्निजिह्वाभिर्वा तन्यते । यद्वा तानि सप्त तन्यन्तेऽत्र । ‘सितनिगमि-’ (उ० १. ६९) इति तुन् ॥
सप्तपर्णः सप्तेति । काण्डे काण्डे सप्त पर्णान्यस्य ॥
सप्तर्षयः सप्त च ते ऋषयश्च । दिक्संख्ये- (२.१.५०) इति द्विगुः । ‘चित्रः शिखण्डश्चूडाविशेषोऽस्त्येषाम्’ इति व्युत्पत्त्या प्रत्येकं सप्तापि चित्रशिखण्डिनः । ‘मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः’ ।
सप्तला अथेति । सप्त लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अथ सप्तला । वनमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्’ (इति मेदिनी) ॥
सप्तला सप्तेति । सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । ‘ला दाने (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘अथ सप्तला । नवमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्’ (इति मेदिनी) ॥
सप्तार्चिः सप्तार्चिषो यस्य । काली-कराली-मनोजवा-सुलोहिता-सुधूम्रवर्णा स्फुलिङ्गिनीविश्वदासाख्याः सप्त वहर्जिह्वाः (‘सप्तार्चिः पावके पुंसि कूरचक्षुषि च त्रिषु’) ।
सप्ताश्वः सप्ताश्वा यस्य ।
सप्तिः सपति सेनायां समवैति । ‘षप समवाये (भ्वा० प० से०) । क्तिच् (३.३.१७४) । बाहुलकात्तिर्वा ॥
सब्रह्मचारिणः एकेति । ब्रह्मवेदस्तदध्ययनव्रतमप्युपचाराद्ब्रह्म । एकस्मिन् ब्रह्मणि व्रताचरणं येषां ते । मिथः परस्परम् । समानं ब्रह्म चरन्ति । ‘व्रते’ (३.२.८०) इति णिनिः । ‘चरणे ब्रह्मचारिणि’ (६.३.८६) इति समानस्य सः ।
सभर्तृका सह भर्त्रास्ति । ‘नद्यृतश्च’ (५.४.१५३) इति कप् ॥
सभा सह भान्त्यत्र । अन्येभ्योऽपि ’ (वा० ३.२.१०१) इति डः । ‘सभा द्यूतसमूहयोः । गोष्ठ्यां सभ्येषु शालायाम्’ इति हैमः ॥
सभा सह भान्त्यस्याम् । ‘भा दीप्तौ’ (अ० प० अ०) । भिदाद्यङ् (३.३.१०६) । ‘समाना भान्त्यस्याम्’ इति वा । ‘समानस्य’ (६.३.८४) इति योगविभागात् ‘सभा (२.४.२३) इति निर्देशाद्वा समानस्य सः । ‘सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि’ (इति मेदिनी) ॥
सभासद् सेति । सभायां सीदन्ति । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥
सभास्तारः सभां स्तृणन्ति । ‘स्तृञ् आच्छादने ’ (क्र्या० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥
सभिकः
- सेति । सभा द्यूतमाश्रयत्वेनास्यास्ति । व्रीह्यादित्वात् (५.२.११६) ठन् । ‘सभा द्यूतं सभागृहम्’ इति रुद्रः ॥
सभ्यः सभायां साधवः । ‘सभाया यः’ (४.४.१०४) ॥
सभ्यः सभायां साधुः । ‘सभाया यः (४.४.१०५) ॥
समः
- वेति । समति । ‘सम वैक्लव्ये’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
समङ्गा समङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
समङ्गा समन्ततोऽङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥
समजः पेति । संवीयतेऽत्र । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । ‘समुदोरजः पशुषु’ (३.३.६९) इत्यप् । ‘समजः पशुवृन्दे ना विपिने तु नपुंसकम्’ (इति मेदिनी) ॥
समज्ञा समैः सर्वैर्ज्ञायते । ‘ज्ञान बोधने’ (क्र्या० प० से०) । घञर्थे कः (वा० ३.३.५८) । (अन्यत्रापीति) डो वा ॥ ‘समाज्ञा इति समाङ्पूर्वाज्ज्ञः (क्र्या० प० से०) । आतश्चोपसर्गे (३.३.१०६) इत्यङ् ॥ ‘समज्या’ इति पाठे (समाङ्पूर्वात्) ‘अज गतौ’ (भ्वा० प० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । ‘क्यपि प्रतिषेधः’ (वा० २.४.१५६) इति न वीत्वम् ॥
समज्या सेति । समजन्त्यस्याम् । ‘अज गतौ’ (वा० प० से०) ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् । च’ ‘क्यपि च’ (वा २.४.५६) इति वीभावो न ॥
समञ्जसम् सम्यगञ्जोऽत्र ‘अच् प्रत्यन्वव-’ (५.४.७५) इत्यत्र ‘अच्’ इति योगविभागादच् । यद्वा संमतमञ्जसा तत्त्वमत्र । ‘ह्रस्वो नपुंसके-’ (१.२.४७) इति ह्रस्वत्वम् ॥
समन्ततः
- समन्तात् । आद्यादित्वात् (वा० ५.४.४४) तसिः ॥
समन्तदुग्धा समन्ताद् दुग्धमस्याः ॥
समन्तभद्रः समन्तं भद्रमस्य सः । समन्ताद्भद्रमस्येति तु व्यधिकरणत्वादनुचितम् ॥
समम्
- समति । ‘षम वैक्लव्ये’ (भ्वा० प० से०) । अम् ॥
समयः सम्यग् एति । ‘इण् गतौ” (अ० प० अ०) । पचाद्यच् (३.१.१३४) । (‘समयः शपथे भाषासम्पदोः कालसंविदोः । सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे निदेशे च ।
समया
- समयनम् । ‘आ समिण् निकषिभ्याम्’ (उ० ४.१७५) । ‘समयान्तिकमध्ययोः’ (इति मेदिनी) ॥
समरः समरणम् । ‘ऋ गतौ’ (क्र्या० प० से०) । घः (३.३.११८) ‘ऋदोरप्’ (३.३.५७) वा । यत्तु ऋच्छन्त्यत्र । ‘ॠ गतौ’ (भ्वा० प० अ०) ‘ऋदोरप्’ (३.३.५७) इति मुकुटेनोक्तम् । तन्न ऋषन्तादपो विधानात् ॥
समर्थनम् ‘अर्थ उपयाञ्चायाम्’ (चु० उ० से०) सम्पूर्वः । ल्युट् (३.३.११५) ॥
समवर्तिन् समं वर्तितुं शीलमस्य । ‘सुप्यजातौ’ (३.२.७८) इति णिनिः ।।
समवायः समवाय्यते । ‘अय गतौ’ (भ्वा० आ० से०) । घञ् (३.३.१९) । समवयन्त्यनेनास्मिन् वा । घञ् (३.३.१९) - इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । बाहुलकस्यागतिकगतित्वात् ॥
समष्ठिला समे तिष्ठति । ‘मिथिलादयश्च’ (उ० १.५७) इति साधुः । यद्वा सम्यग्ष्ठिला बीजं यस्याः । ‘गण्डीरो ना समष्ठिला’ इति माला ॥
समस्या समेति । समसनम् । असु क्षेपणे’ (दि० प० से) । ण्यत् (३.१.१२४) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यद्वा समं कृत्स्नम् । तद्विषयिणीच्छा समस्या । तत्प्रयोज्यत्वाच्छब्दोऽपि सा । समशब्दात्क्यचि (३.१.८) ‘सर्वप्रातिपदिकेभ्यः’ (वा० ७.१.५१) इति सुगागमे ‘अ प्रत्ययात्’ (३.३.१०२) इत्यः टाप् (४.१.४) ॥
समा ‘षमष्टम अवैक्लव्ये’ (भ्वा० प० से०) । समन्ति विक्लवं कुर्वन्ति सर्वम् । पचाद्यचि (३.११३४) टाप् (४.१.४) । बहुवचननिर्देशात्प्रायेणायं बहुवचनान्तः इति ध्वनयति । क्वचिद्वचनान्तरमपि । ‘समां समां विजायते’ (५.२.१२) इति सूत्रात् । ‘समायां समायाम् इति तत्र भाष्याच्च । संमान्ति सह वर्तन्ते ऋतवोऽस्यामिति वा । ‘मा माने’ (अ० प० अ०) । ‘आतश्चोपसर्गे’ (३.३.१०६) इत्यङ् । ‘समां समाम्’ (५.२.१२) इति निर्देशान्मलोपः । समा संवत्सरे स्त्रियाम् । ‘समा सर्वसाधुसमानेषु समं स्यादभिधेयवत्’ ॥
समांसमीना “सेति । समायां समायां विजायते । ‘समां समां विजायते’ (५.२.१२) इति खः, उत्तरदले टाब्विभक्त्योर्लोपः पूर्वदले यलोप एव ॥”
समाकर्षी समाकर्षत्यवश्यं मनः ‘आवश्यका-’ (३.३.१७१) इति णिनिः । यद्वा समाकर्षणशीलः ‘सुप्यजात’ (३.२.७८) इति णिनिः ।
समाघातः समाहननम् । घञ् (३.३.११८) । ‘समाघातो वधे युद्धे (इति मेदिनी) ॥
समाजः अन्येषामिति । अन्येषां संघः । संवीयतेऽत्र । घञ् (३.३.१९) ॥
समाधिः समाङ्पूर्वाद्धाञो भावे किः (३.३.९२) । ‘समाधिर्ना समर्थने’ । ध्याने वैरस्यनियमे काव्यस्य च गुणान्तरे ।
समानः “प्रसरणेन, अपसरणेन, समन्तात्, ऊर्ध्वेन व्याप्त्या च अनित्यनेन । ‘हलश्च’ (३.३.१२१) इति घञ् इति मुकुटः । अन्ये तु - प्राणयति, अपानयति, समन्तादानयति । आनयतेः (ण्यन्तात् ‘अन प्राणने’ (अ० प० से०) इत्यस्मात् डः (वा० ३.२.१०१) । अच् (३.१.१३४) वा–इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र ‘हृदि प्राणो, गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । अन्नप्रवेशनं मूत्राद्युत्सगोंऽत्रविपाचनम् । भाषणादिनिमे घादि तद्वयापाराः क्रमादमी । हदि प्राणो, गुदेऽपानः, समानो नाभिसंस्थितः । उदानः, कण्ठदेशे स्याद्वयानः सर्वशरीरगः ॥ अत्र प्रवेशनं, मूत्राद्युत्सोंऽत्रविपाचनम् भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः’ (८.४.१९) इति णत्वम् । ‘प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्ग, पुंभूम्नि चासुषु’ । (‘अपानं तु गुदे क्लीबं, पुंसि स्यात्तस्य मारुते । ‘उदानोऽप्युदावर्ते वायुभेदे भुजंगमे । ‘समानं सत्समैकेषु त्रिषु, ना नाभिमारुते’) । प्रत्येकं देहस्थपञ्चवायूनाम् ।”
समानः “- सह मानेन वर्तते । समानं मानमस्य, इति वा । ‘समानस्य च्छन्दसि’ (६.३.८४) इति सः ॥”
समानोदर्यः समेति । समान उदरे शयितः । ‘समानोदरे शयितः’ (४.४.१०८) इति यत् ॥
समावृत्तः ग्विति । गुरोः सकाशाल्लब्धा प्राप्तानुज्ञा आज्ञा येन । समावर्तते स्म । ‘गत्यर्था-’ (३.४.७४) इति क्तः ।
समासार्था समसनं समासः । घञ् (३.३.१८) समासोऽर्थो यस्याः पूरणसाकाङ्क्षा । कविशक्तिपरीक्षार्थमपूर्णतयैव पठ्यमाना । यथा ‘शतचन्द्रं नभस्तलम्’ इति । तत्र ‘दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन’ इत्यादिना सा पूर्यते ॥
समाहृतिः समेति । समाहरणम् । क्तिन् (३.३.९४) ॥
समाह्वयः
- सम्यगाहूयन्तेऽत्र । ‘हेञ्’ (भ्वा० उ० अ०) । ‘पुंसि-’ (३.३.११८) इति घः । बाहुलकान्नात्वम् ॥
समितिः “समयन्त्यस्याम् । ‘इ गतौ” (भ्वा० प० अ०) । क्तिन् (३.३.९४) । सह विद्यमाना मिलितैर्वा मितिः प्रमाऽस्याम्, इति वा । ‘समितिः सम्पराये स्यात्सभायां सङ्गमेऽपि च’ (इति मेदिनी) ॥”
समितिः समयनम् । ‘इ गतौ’ (भ्वा० प० से०) । क्तिच् (३.३.१७४) । ‘समितिर्युधि सङ्गमे । साम्ये सभायाम्’ । इति हेमचन्द्रः ॥
समित् समिध्यतेऽनया । सम्पदादिः (वा० ३.३.१०८) ॥
समित् समयनम् । ‘इ गतौ’ (भ्वा० प० अ०) सम्पदादिः (वा० ३.३.१०८) । तुक् (६.१.७१) ॥
समीकम् “समनम् । ‘षम वैक्लव्ये’ (भ्वा० प० से०) । ‘अलीकादयश्च’ (उ० ४.२५) इति कीकन् । सम्यगयनम्, वा । ‘ई गत्यादौ’ (अ० प० अ०) । बाहुलकात् कः ॥”
समीरः “सम्यग् ईर्ते गच्छति, ईरयति प्रेरयति वा । ‘ईर गतौ (अ० आ० से०) । अच् (३.१.१३४) ।”
समीरणः युचि (३.२.१४८) तु समीरणः। (‘समीरणःस्यात्पवनेपथिकेचफणिज्जके’)
समीरणः समीति । समीरयति । ईर गतौ’ (अ० आ० से०) । ल्युः । ‘समीरणस्तु पवने पथिके च फणिज्जके’ (इति मेदिनी) ॥
समुत्पिञ्जः सेति । समुत्पिञ्ज(य)ति । ‘पिजि हिंसायाम्’ (चु० प० से०) ण्यन्तः । ‘एरच्’ (३.३.५६) ॥
समुदयः समुदीयते । ‘इण् गतौ’ (अ० प० अ०) । ‘ई गतौ’ (अ० प० अ०) वा । ‘एरच्’ (३.३.५६) । ‘भवेत्समुदयः संघे संयुगे च समुद्गमे’ (इति मेदिनी) ॥
समुदायः समुदायते । ‘अय गतौ’ (भ्वा० आ० से०) । आङ् । अच् (३.१.१३४) । ‘समुदायः समूहे स्याद्युद्धे’ (इति मेदिनी) ॥
समुदायः समुदयनम् । ‘अय गतौ’ (भ्वा० आ० से०) । घञ् (३.३.१८) ॥
समुद्गकः सेति । समुद् गच्छति । ‘अन्येष्वपि’ (वा० ३.२.४८) इति डः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
समुद्रः समुद्र इति । समुनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । ‘स्फायि-’ (उ० २.१३) इति रक् । समीचीना उद्रा जलचर विशेषा यस्मिन्निति वा । सह मुद्रया मर्यादया वर्तते इति वा ॥
समुद्रान्ता समुद्रोऽन्तो यस्याः । यद्वा मुद्रया सह वर्तमानोऽन्तः समीपं यस्याः । आच्छादकत्वात् ॥
समुद्रान्ता समुद्रोऽन्तोऽस्याः ॥
समुद्रान्ता समुद्रान्तोऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । समुद्रोऽन्तोऽस्या वा । ‘समुद्रान्ता तु कार्पासीपृक्कादुरालभासु च’ (इति मेदिनी) ॥
समुपजोषम्
- समुपजोषणम् । ‘जुषी प्रीतिसेवनयोः’ (तु० आ० से०) । अम्प्रत्ययः ॥ मुकुटस्तु–‘शम्’ ‘उपजोषं च–इति पठति । तत्र ‘शम् उपशमे’ (दि० प० अ०) धातुर्णिजन्तः । विच् (३.२.७५) ।
समूरुः शोभनावूरू यस्य ॥
समूहः समूहेति । समूह्यते । ‘ऊह वितर्के’ (भ्वा० आ० से०) । घञ् (३.३.१९) । -‘हलश्च’ (३.३.१२१) इति मुकुटस्य प्रमादः । तत्र ‘करणाधिकरणयोः’ इत्यस्यानुवर्तनात् ॥
समूह्यः “सेति । समुह्यते, समूह्यते, वा । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ऊह वितर्के’ (भ्वा० आ० से०) वा ॥”
सम्पाकः “‘सम्क् पाकोऽस्य । दन्त्यादिः । ‘सम्याकस्तर्कके, धृष्टे त्रिषु ना चतुरङ्गले’ । शं कल्याणं पाकोऽस्य, इति (शंपाकः) तालव्यादिरपि ॥ स्वामी तु–शमीं शिविम् अकति, इति विगृह्णन् ‘शम्याकः’ इति पाठं मन्यते ।”
सम्प्रति
- ‘सम्’ ‘प्रति’ एतयोः समाहारद्वन्द्वः ॥
सम्फुल्लः उत्फुल्लसंफुल्लयोरुपसंख्यानम्’ (वा० ८.२.५५) । ‘उत्फुल्लं करणे स्त्रीणामुत्ताने च विकस्वरे’॥
सम्भेदः सरित इति । अन्याः कौशिकीगण्डकी-चर्मण्वती-गोदावर्यादयः । समिति । सम्भिद्यन्ते मिलन्त्यत्र । भिदिर् विदारणे’ (रु० उ० अ०) । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘सम्भेदः स्फुटने सङ्गे’ । सिन्ध्वोः सङ्गमः । एकम् नद्यादिसङ्गमस्य ।
सम्भ्रमः सम्भ्रमणम् । घञ् (३.३.१८) । ‘सम्भ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि ।
सम्मार्जनी संमेति । संमृज्यतेऽनया । ल्युट् (३.३.११७) । ‘मृजेद्धृद्धिः’ (७.२.११४) ॥
सम्मृष्टम् सेति । संमृज्यते स्म । ‘मृजू शुद्धौ’ (अ० प० से०) । कर्मणि क्तः (३.२.१०२) ॥
सम्यक् समञ्जति संगच्छते । अञ्चु गतौ (भ्वा० प० से०) । क्विन् (३.२.५९) । सम्यक् । सम्यङ् पुंसि स्त्रियां समीची ॥
सम्राज् येनेति । सम्यग् राजति । ‘सत्सू-’ (३.२.६१) इति क्विप् । ‘मो राजि समः क्वौ’ (८.३.२५) ॥ केचित्तु पृथक् त्रीणि नामान्याहुः । राजसूयकर्ता सम्राट् । द्वादशराजमण्डलस्येश्वरोऽपि सम्राट् । सर्वनृपतीनां शासकोऽपि सम्राट् ॥
सरः स्रियते । सृ गतौ (भ्वा० प० से०) । कर्मण्यसुन् (उ० ४.१८९) । (‘सरो नीरतडागयोः’) ॥ तत एव महत्त्वे गौरादित्वात् (४.१.४१) ङीष् । (‘सरसी विश्वकासारे’) ॥ त्रीणि कृत्रिमपद्माकरस्य । पञ्चापि सरोमात्रस्येत्यन्ये ।
सरकः
- सेति । स्रियते । ‘सृ गतौ (भ्वा० प० अ०) । ‘वुन् कृञादिभ्यः’ (उ० ५.३५) । ‘सरकः शीधुपानेक्षुशीधुनोर्मद्यभाजने’ इत्यजयः । अपिशब्दात् सरकोऽप्यस्त्री । ‘सरकं वा नानुतर्षो ना’ इति रत्नकोषः ॥
सरघा सरेति । सरं गतिमन्तं घातयति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । णिलोपे (६.४.५१) टिलोपः (६.४.१४३) । यद्वा रङ्घणं रघः । ‘रघि गतौ’ (भ्वा० आ० से०) । ‘खनो घ च’ (३.३.१२५) इति घित्करणात् ‘अन्येभ्योऽपि’ इति घः । आगमशास्त्रस्यानित्यत्वान्न नुम् । सह रघेण गत्या वर्तते ॥
सरटः सरेति । सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) ॥
सरणा सरेति । सरति । ‘सृ गतौ’(भ्वा० प० अ०) । ‘बहुलमन्यत्रापि’(उ० २.७८) इति युच् ॥ ल्युटि (३.३.११३) ‘सरणी’ इत्यपि । ‘सरणा सरणी चार्वी कटम्भरा महाबला’ इति रुद्रः ॥
सरणिः “‘अर्ति-’ (उ० २.१०२) इत्यनिः । सरणिः श्रेणिवर्त्मनोः’ इति दन्त्यादौ रभसः । ‘शुभं शुभे प्रदीप्ते च, शरणिः पथि चावलौ’ इति तालव्यादावजयात्तालव्यादिरपि । तत्र ‘शॄ हिंसायाम् (क्र्या० प० से०) । बाहुलकादनिः ॥”
सरत्निः म्विति । स हस्तः मुष्यतेऽनया । ‘मुष स्तेये’ (क्र्या० प० से०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । यद्वा मुष्णाति । क्तिच् (३.३.१७४) (‘संपीडिताङ्गुलिर्मुष्टिः’ इति हलायुधः (‘मुष्टिर्द्वयोः फले । बद्धपाणौ त्सरौ’ इति मेदिनी) । बद्धया मुष्ट्योपलक्षितः । ऋच्छति । अर्यतेऽनेन वा । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘ऋतनि’ (उ० ४.२) इति कत्निच् । ‘रत्न्यरत्नी स्त्रियौ बद्धमुष्टितताङ्गुली’ इत्यमरमाला ॥
सरमा
- सेति । सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । बाहुलकादमः । (‘सरमा कुक्कुरीदेवशून्योः स्याद्राक्षसीभिदि’ इति मेदिनी) ॥
सरलः सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । बाहुलकादलच् । ‘सरलः । पूतिका काष्ठे नाऽथोदारावक्रयोस्त्रिषु’ इति मेदिनी ॥
सरलद्रवः सरलस्य देवदारोर्द्रवः ॥
सरला सरति । ‘सृ गतौ’ (भ्वा० प० से०) । बाहुलकादलन् ॥ ‘सरणा’ इति पाठे युच् (३.२.१५०) । ‘सर्वानुभूतिः सरला त्रिपुटा रेचनी सरा इति वाचस्पतिः ॥
सरसी स्रियते । सृ गतौ (भ्वा० प० से०) । कर्मण्यसुन् (उ० ४.१८९) । (‘सरो नीरतडागयोः’) ॥ तत एव महत्त्वे गौरादित्वात् (४.१.४१) ङीष् । (‘सरसी विश्वकासारे’) ॥ त्रीणि कृत्रिमपद्माकरस्य । पञ्चापि सरोमात्रस्येत्यन्ये ।
सरसीरुहम् सरस्यां रोहति । ‘इगुपध-’ (३.१.१३६) इति कः ॥
सरस्वती “सरांसि सन्त्यस्याम् । मतुप् (५.२.९४) । ‘सरस्वांस्तु नदे वार्धौ नाऽन्यवद्रसिके, स्त्रियाम् । वाणी स्त्रीरत्नवाग्देवी-गो-नदीषु नदीभिदि । मनुपत्न्यामपि ।”
सरस्वती सरोऽस्त्यस्याः । मतुप् (५.२.९४) । ‘सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि’ इति हैमः ।
सरस्वान् “‘सरो नीरे तडागे च’ इति रुद्रः । सरो नीरं गतिर्वास्त्यस्मिन् । मतुप् (५. २.९५) । ‘तसौ मत्वर्थे’ (१.४.१९) इति भत्वम् । ‘सरस्वांस्तु नदे वार्धौ ना, न्यवद्रसिके, स्त्रियाम् वाणीस्त्रीरत्नवाग् देवीगोनदीषु नदीभिदि । मनुपत्न्यामपि ॥”
सरित् सरति । ‘सृ गतौ (भ्वा० प० से०) । सरतेरिनिः (उ० १.९७) ॥
सरित्पतिः सरितां पतिः ।
सरीसृपः कुटिलं सर्पति । नित्यं कौटिल्ये गतौ (३.१.२३) इति यङ् । पचाद्यच् (३.१.१३४) । ‘यङोऽचि च (२.४.७४) । ‘संसार-सारस-सरीसृप-सस्य-सास्नाः इति द्विदन्त्ये ऊष्मविवेकः ।
सर्जः सर्ज्यते । ‘षर्ज अर्जने’ (भ्वा० प० से०) । ण्यन्तादच् (३.३.५६) ॥
सर्जकः सृजति । ‘सृज विसर्गे (तु० प० अ०) । ण्वुल् (३.१.१३३) । यद्वा सर्ज्यते । ‘षर्ज अर्जने’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ॥
सर्जरसः सर्जस्य सालस्य रसः ॥
सर्पः सर्प इति । सर्पति । ‘सृप्लृ गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘इगुपध-(३.१.१३५) इति को वा । ‘नोक्तमनित्यम्’ इति गुणः । यद्वा सर्पणम् । भावे घञ् । सर्पः सोऽस्यास्ति । अर्शआद्यच् (५.२.१२७) । स्त्रियां जातित्वान्ङीष् (४.१.६३ ) ।
सर्पराजः सर्पाणां राजा । ‘राजा-’ (५.४.९१) इति टच् ।
सर्पिः सर्पति ‘सृप्लृ गतौ’ (भ्वा० प० से०) । इसिः (
सर्वंसहा सर्वं सहते । ‘षह मर्षणे’ (भ्वा० आ० अ०) । ‘पूःसर्वयोः-’ (३.२.४१) इति खच् (‘सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ
सर्वज्ञः “सर्वज्ञ इत्यादि । सर्वं जानाति । ‘ज्ञा अवबोधने’ (क्र्या० प० अ०) । ‘आतोऽनुपसर्गे कः’ (३.२.३) । यद्वा सर्वे ज्ञा यस्य । स्वात्मनः सर्वस्यापरोक्षत्वात् । यः साक्षादपरोक्षात्’ इति श्रुतेः । यद्वा सर्वे ज्ञा यस्मात् । ‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मानो व्युच्चरन्ति’ इति श्रुतेः । यद्वा सर्वे ज्ञा येन । ‘तस्य भासा सर्वमिदं विभाति’ इतिः श्रुतेः । (‘सर्वज्ञस्तु जिनेन्द्र स्यात्सुगते शङ्करेऽपि च’) ॥”
सर्वज्ञः सर्वं जानाति । ‘आतोऽनुपसर्गे’ (३.२.३) इति कः ।।
सर्वतः
- सर्वस्मात् । ‘पञ्चम्यास्तसिल्’ (५.३.८) ॥
सर्वतोभद्रः सर्वतो भद्रमत्र ॥
सर्वतोभद्रः सर्वतो भद्रं यस्मात् । ‘सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बे ना सर्वतोभद्रा गम्भारीनटयोषितोः’ इति मेदिनी ॥
सर्वतोभद्रा सर्वतोभद्रं यस्याः । ‘सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बे ना सर्वतोभद्रा गंभारी नटयोषितोः’ इति मेदिनी ॥
सर्वतोमुखम् सर्वदिग्गमनात् । ‘सर्वतोमुख उग्रे च क्षेत्रज्ञब्रह्मणोः पुमान् । नपुंसकं तु पानीये सुरवर्त्मन्यपि स्मृतम् ॥
सर्वदा
- सर्वस्मिन्काले । ‘सर्वैका-’ (५.३.१५) इति दा ॥
सर्वधुरावहः सर्वधुराया वहः ॥
सर्वधुरीणः स इति । सर्वा चासौ धूश्च । सर्वधुरां वहति । ‘खः सर्वधुरात्’ (४.४.७८) इति खः ॥
सर्वमङ्गला “सर्वेभ्यः सर्वेषां वा मङ्गला । सर्वाणि मङ्गलान्यस्याः, इति वा । ‘मङ्गला’ इत्यपि । ‘मङ्गलासित दूर्वायामुमायां पुंसि भूमिजे । नपुंसकं तु कल्याणे पुंसि सर्वार्थ दक्षिणे’ ।”
सर्वरसः सर्वै रस्यते । ‘रस आस्वादने’ (चु० उ० से०) अदन्तः । ण्यन्तः । घञ् (३.३.१९) । अच् (३.३.५६) वा । सर्वे रसा यस्मिन् वा । नानाकृतिगन्धत्वात् ॥
सर्वलिङ्गी “सर्वाणि च तानि लिङ्गानि, सर्वेषां लिङ्गानि वा,सर्वलिङ्गानि सन्ति येषाम् । ‘अतः’ (५.२.११५) इतीनिः ॥”
सर्ववेदस् सेति । सर्वस्वं दक्षिणा यत्र विश्वजिदादौ स येनेष्टः कृतः । सर्वं वेदयति । विद्लृ लाभे’ (तु० उ० अ०) । ण्यन्तः । सर्व विन्दति वा । असुन् (उ० ४.१८९) ॥
सर्वसंनहनः सर्वेषां संनहनम् । सर्वसंनहनमर्थो यस्य ॥
सर्वानुभूतिः सर्वेति । सर्वा अनुभूतयोऽस्याम् । सर्वैरनुभूयते । कर्मणि क्तिन् (३.३.९४) इति वा ॥
सर्वाभिसारः सेति । सर्वेणाभिसरणम् । ‘सृ गतौ’ (भ्वा० प० से०) । भावे घञ् (३.३.१८) ॥
सर्वार्थसिद्धः सर्वार्थेषु सिद्धो निष्पन्नः । ‘सिद्धशुष्क (२.१.४१) इति समासः । सर्वोऽर्थः सिद्धोऽस्येति वा ॥ ‘सिद्धार्थः’ अपि । ‘सिद्धाथौं बुद्धसर्षपौ’ इति शाश्वतः ॥
सर्वौघः सर्वस्यौघः । ‘सर्वौघो गुरुवेगे च सर्वसंनहने पुमान्’ (इति मेदिनी) ॥
सर्षपः सेति । सरति स्नेहोऽस्मात् । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सर्तेरपः षुक्च’ (उ० ३.१४१) इत्यपः षुगागमश्च । ‘सर्षपः स्यात् सरिषपः कुटस्नेहश्च तन्तुभः’ इति त्रिकाण्डशेषः ॥
सलिलम् सलति । ‘षल गतौ’ (भ्वा० प० से०) । ‘सलिकलि-’ (उ० १.५४) इतीलच् । रलयोरेकत्वम् । सरिलं सलिरं सलिलम्’ इति वाचस्पतिः ।
सल्लकी सलति । ‘षल गतौ’ (भ्वा० प० से०) । क्वुन् । (उ० २.३२) । पृषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । सत्कृत्य लक्यते वा । ‘लक आस्वादने’ । क्वुन् (उ० २.३२) ॥ ‘सल्लकी सिल्लकी ह्लादा’ इति रुद्रः ॥ ‘श्वाविद्द्रुभेदौ शल्लक्यौ’ इति तालव्यादौ रभसः । तत्र ‘शल चलने’ (भ्वा० प० से०) धातुः ॥
सवः सूयते सोमोऽत्र । ‘षु अभिषवे’ (स्वा० उ० अ०) । ‘ऋदोरप्’ (३.३.५७) । यद्वा सूयतेऽत्र । अनेन वा । ‘षू प्रेरणे’ (तु० प० से०) । अप् (३.३.५७) । घः (३.३.११८) वा । ‘सवो यज्ञे च संधाने’ इति मेदिनी ॥
सवनम् ‘ल्युट् च’ (३.३.११५) । ‘सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च’ (इति मेदिनी) ॥ ‘सा’इति सुत्या ॥
सवयस् समानं वयोऽस्य । ‘ज्योतिर्जनपद-’ (६.३.८५) इति समानस्य सः ॥
सविता “सुवति । ‘षू प्रेरणे’ (तु० प० से०) । तृच् (३.१.१३३) । यत्तु-सूयते, सूते-इति स्वामिमुकुटाभ्यामुक्तम् । तन्न । ‘स्वरतिसूतिसूयति-’ (७.२.४४) इतीड्विकल्पात्पक्षे ‘सोता’ इति रूपप्रसङ्गात् । उक्तधात्वोरर्थासंगतेश्च ।”
सव्येष्ठा सव्ये वामे तिष्ठति । ‘सव्ये स्थश्छन्दसि’ (उ० २.१०१) इत्यृन् डिच्च । ‘स्थास्थिन्स्थृणाम्’ (८.३.९७) इति वक्तव्यात् षत्वम् । ‘स्थास्थिन्यूनाम्’ ‘इति पाठे तु सुषामादित्वात्’ (८.३.९८) षत्वम् । हलदन्तात् (६.३.९) इत्यलुक् । ‘सव्येष्ठः’ इत्यदन्तोऽपि । ‘प्राजिता दक्षिणस्थश्च सादी सारथिरुच्यते । सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च’ इत्यमरमाला ॥
सस्यम् सस्ति । ‘पस घस्ति स्वप्ने’ (अ० प० से०) । ‘माछाससिसुभ्यो यः (उ० ४.१०९) ॥ तालव्यादिपाठे तु ‘शसु हिंसायाम् (भ्वा० प० से०) । शस्यते । ‘तकिशसिचति-’ (वा० ३.१.९७) इति यत् । -‘क्यपि’ इति मुकुटोक्तिश्चिन्त्या । ‘अचो यत्’ (३.१.९७) इत्यत्र हरीतक्यादीनामुपसंख्यानात् । षसेर्द्विदन्त्यस्य ‘तकि-’ (वा० ३.१.९७) इत्यत्राग्रहणाच्च ॥
सस्यसंवरः सस्यैः संव्रियते । ‘वृञ् वरणे (स्वा० उ० से०) । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् ॥
सह
- सहते । पचाद्यच् (३.१.१३४) ॥ ‘सजुष्’ शब्दोऽप्यत्र ॥
सहः “सह्यतेऽनेन । ‘षह अभिभवे’ (भ्वा० प० अ०) । असुन् (उ० ४.१८९) । ‘सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः’ इति सान्तेषु हैमः । ‘दण्डोत्पलामुद्गपर्णी कुमारीनखभेषजे । सहा स्त्रियां, बले न स्त्री’ इति रभसाददन्तमपि ॥”
सहकारः सह कारयति मेलयति द्वन्द्वम् । अच् (३.१.१३४) ॥ अतिशयितं सौरभमस्य ॥
सहचरी “पीतेति । सह चरति । पचादौ चरट्’ इति टित्त्वनिपातनात् ङीप् (४.१.१५) । यत्तु-‘भिक्षासेना-’ (३.२.१७) इति चकारस्यानुक्तसमुच्चयार्थत्वात् ‘चरेष्टः’- इत्याह मुकुटः । तन्न । तत्र प्रमाणाभावात् । (‘भवेत्सहचरो झिंट्यां द्वयोरनुचरे त्रिषु’ इति मेदिनी) ॥ ‘अन्येषामपि’ (६.३.१३७) इति दीर्घत्वे ‘सहाचरः’ इत्यपि, इति स्वामी - इति मुकुटः । तदपि न । आङैव सिद्धत्वात् ॥”
सहजः सह तुल्य उदरे जातः । ‘अन्येष्वपि-’ (३.३.१०१) इति डः ॥ सह उदरेण वर्तते । ‘वोपसर्जनस्य’ (६.३.८२) इति सः । ‘सोदरः’ ‘सहोदरः’ चात्र । (‘भ्राता तु स्यात्सहोदरः । समानोदर्यसोदर्यसगर्भ्यसहजा अपि । सोदरश्च’ इति नाममाला) । –‘सहस्य सोऽन्यतरस्याम्’ इति पाक्षिके सभावे –इति मुकुटश्चिन्त्यः तादृशसूत्राभावात् ।
सहधर्मिणी सह धर्मोऽस्त्यस्याः । पत्या सह कर्मस्वधिकारात् । ‘धर्मशीलवर्णान्ताच्च’ (५.२.१३२) इतीनिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य वा सः ॥
सहभोजनम् सहभोजनम् । ‘सुप् सुपा (२.१.४) इति समासः ॥
सहसा
- सहते । ‘सह मर्षणे’ (भ्वा० आ० अ०) । असा प्रत्ययः ॥ अतर्कितेऽविचारिते ।
सहस्यः सहसि बले साधुः । ‘तत्र साधुः’ (४.४.९८) इति यत् ।
सहस्रदंष्ट्रः सहेति । सहस्रं दंष्ट्रा यस्य ।
सहस्रपत्रम् सहस्रं पत्त्राण्यस्य ।
सहस्रवीर्या सहस्रं वीर्याण्यस्याः ॥
सहस्रवेधि सेति । सहस्रं वेधितुं शीलमस्य । ‘विध विधाने’ (तु० प० से०) । ‘सुप्यजातौ’ (३.२.७८) इति णिनिः ॥
सहस्रवेधी सहेति । सहस्रं शतं वा वेधितुं शीलमस्य । ‘विध विधाने (तु० प० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
सहस्रांशुः सहस्रमंशवो यस्या ।
सहस्राक्षः सहस्रमक्षीण्यस्य । बहुव्रीहौ सक्थ्यक्ष्णोः (५.४.७३) इति षच् ।।
सहस्रिणः ‘अण् च’ (५.२.१०३) इत्यण् ॥
सहा सहते । ‘षह मर्पण’ (भ्वा० आ० से ०) । पचाद्यच् (३.१.१३४) । ‘सहो बले न स्त्रियां स्यात् स्त्रियां तु नखभेषजे । दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च’ (इति मेदिनी) ॥
सहा सहेति । आतपं सहते । ‘षह मर्षणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । टाप् (४.१.४) । ‘सहो बले न स्त्रियां स्यात्स्त्रियां तु नखभेषजे । दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च (इति मेदिनी) ॥
सहाः सहते । ‘षह मर्षणे’ (भ्वा० उ० अ०) । असुन् (उ० ४.१८९) । सान्तः । (सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः) । पचाद्यजन्तोऽपि । ‘मार्गे सहः सहाः’ इति शब्दार्णवः ।
सहायः सह अयते । ‘अय गतौ’ (भ्वा० आ० से०) । एति वा । ‘इण् गतौ’ (अ० प० अ०) । अच् (३.१.१३४) ॥
सांदृष्टिकम् सामिति । संदृष्टौ प्रत्यक्षे भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् ॥
सांयात्रिकः सांयेति । समुदितानां गमनं द्वीपान्तरगमनं वा संयात्रा । सा प्रयोजनमस्य । ‘तदस्य प्रयोजनम्’ (५.१.१०९) इति ठञ् ।
सांयुगीनः सामिति । संयुगे रणे साधुः‘प्रतिजनादिभ्यः खञ्’ (४.४.९९) ॥
सांवत्सरः सांवेति । संवत्सरं वेत्ति । ‘तदधीते तद्वेद’ (४.२.५९) इत्यण् ॥
साकम्
- सह अकनम् । अम् प्रत्ययः । ‘सहस्य-’ (६.३.७८) इति सादेशः । ‘आभीक्ष्ण्ये णमुल्’ (३.४.२२) वा ॥
सागरः सगरस्य रातोऽयम् । तस्येदम्’ (४.३.१२०) इत्यण् । न गरो येनामृतेन मस्पना वा सह तेन वा ॥
साचि
- सचनम् । ‘षच समवाये (भ्वा० प० से०) । ‘इणजादिभ्यः (वा० ३.३.१०८) ॥
सातला सातं सुखं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
सातिसारः सेति । सहातिसारेण वर्तते ॥
सात्त्विकम् निर्वृत्ते इति ॥ अङ्गेन निर्वृत्तं भ्रूविक्षेपादि । सत्त्वेन मनोवृत्त्या निवृतं स्तम्भादि । ‘निर्वृत्तेऽक्षद्यूतादिभ्यः’ (४.४.१९) इति प्राग्वहतीयष्ठक् ॥
सादिनः सीदन्त्यवश्यम् । ‘षद्लृ विशरणादौ’ (तु० प० अ०) । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । ‘सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते’ (इति मेदिनी) ॥
साधारणः
- सह आधारणेन वर्तते । ‘वोपसर्जनस्य’ (६.३.८२) इति सभावः । साधायाः । संसिद्धे रणो वाचक इव ॥
साधुः साध्नोति धर्मम् । ‘साध संसिद्धौ (स्वा० प० अ०) । ‘कृवापा-’ (उ० १.१) इत्युण् । ‘साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् (इति मेदिनी) ॥
साधुवाहिनः साधुवहनशीलाः । ‘वह प्रापणे’ (भ्वा० उ० अ०) । ‘सुपि-’ (३.२.७८) इति णिनिः । मुकुटस्तु–‘साधुकारिणी च’ (वा ३.१.७८) इति णिनिः इत्याह । तन्न । एवं सति णिनिना गतार्थत्वात् साधुशब्दस्य प्रयोगो न स्यात् ॥
साध्याः साध्यं सिद्धिः । ‘साध संसिद्धौ’ (स्वा० प० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) इति भावे ण्यत् । साऽस्त्येषाम् । अर्शआद्यच् (५.२.१२७) । ‘साध्यो योगान्तरे सुरे । गणदेवविशेषे च साधनीये च वाच्यवत्’ ॥
साध्वसम् (यत्तु) साधूनस्यति । अच् (३.१.१३४) – इति मुकुटः । तन्न । अणः (३.२.१) प्रसङ्गात् । तस्मात् ‘साधूनामसनम्’ ।
साध्वी साध्नोति परकार्यं परलोकं वा । ‘साध संसिद्धौ’ (स्वा० प० अ०) । ‘कृवापा-’ (उ० १.१) इत्यण् । ‘वोतो गुण-’ (४.१.४४) इति वा ङीष् ॥
सानुः सनोति । ‘षणु दाने’ (त० उ० से०) । दृसनिजनि-’ (उ० १.३) इति ञुण् । सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रके विदे’ ॥
सान्त्वम् अत्यर्थेति । सान्त्वयति । षान्त्व सामप्रयोगे (चु० प० से०) चुरादिः। पचाद्यच् (३.१.१३४) । (सान्त्वं सामनि दाक्षिण्ये) ॥
सान्त्वम् सान्त्वनम् । ‘सान्त्व सामप्रयोगे’ (चु० प० से०) अदन्तः । ‘एरच्’ (३.३.५६) । घञ् (३.३.१८) वा ॥
सान्नाय्यम् सामिति । संनीयते । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । ‘पाय्यसांनाय्य-’ (३.१.१२९) इति साधुः ॥
साप्तपदीनम् सप्तभिः पदैरवाप्यते । ‘साप्तपदीनं सख्यम्’ (५.२.२२) इति साधुः ॥
साम “स्यति पापम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । मनिन् (उ० ४.१५३, ३.२.७४) । ‘साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च’ ।”
सामन्म् सामनम् । ‘साम सान्त्वप्रयोगे’ (चु० उ० से) । बाहुलकात्कनिन् । यद्वास्यति रोषमनेन । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘सतिभ्यां मनिन्मनिणौ’ (उ० ४.१५३) इति मनिन् । मुकुटस्तु–‘सामन्दामन्हेमन्’ इत्यादिना निपात्यते -इत्याह । तन्न । उज्ज्वलदत्तादिषु तादृशसूत्रादर्शनात् । प्रियवचनादिना क्रोधोपशमनं साम । परस्परोपकाराणां दर्शनं गुणकीर्तनम् । सम्बन्धस्य समाख्यानमायत्याः संप्रकाशनम् । वाचां पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पञ्चविधं स्मृतम्’ ॥
सामन्म् सामेति । ‘साम व्याख्यातम्’ ॥
सामाजिकः समाजं समवयन्ति । ‘समवायान्समवैति’ (४.४.३३) इति ठक् । समाजं रक्षन्ति वा । रक्षति’ (४.४.३३) इति ठक् ॥
सामान्यम् समानानां भावः । गुणवचन-’ (५.१.१२४) इति ष्यञ् ।
सामिधेनी ऋगिति । समिधामाधानी । ‘समिधामाधाने षेण्यण्’ (वा० ४.३.१२०) । षित्वात् (४.१.४१) ङीष् । हलः’ (६.४. ४९) इति यलोपः ॥
सामुद्रम् सामुद्रम्
साम्प्रतम्
- सम्प्रतनम् । ‘तनु विस्तारे’ (त० उ० से०) । डम् । पृषोदरादित्वात् (६.३.१०९) समो दीर्घः ॥
साम्प्रतम्
- तस्मात् प्रज्ञाद्यण् (५.४.३८) । गणे पाठान्मान्तत्वम् ॥
सायः दिनस्यान्तः । स्यति समापयति दिनम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘शाद्व्यधा-’ (३.१.१४१) इति णः । सायः दिनान्ते च’ ॥*॥ मान्तमव्ययं त्वव्ययवर्गे वक्ष्यति ॥
सायम्
- सानम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । णम् । युगागमः (७.३.३३) ॥ साये दिनान्ते ।
सारः “सारविति । सरति कालान्तरम् । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सृ स्थिरे’ (३.३.१७) इति घञ् । ‘सारो बले मज्जनि च स्थिरांशे, न्याय्ये च नीरे च धने च सारम् । वरेऽन्यवत् सारमुदाहरन्ति’ ।”
सारथिः “सरत्यश्वान् । ‘सू गतौ’ (भ्वा० प० अ०) । अन्तर्भावितण्यर्थः । ‘सर्तेर्णिच्च (उ० ४.८९) इति घथिन् । सरथस्यापत्यम्, वा ॥”
सारमेयः
- सरमाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
सारवः सरय्वां च भवे । ‘तत्र भवः’ (४.३.५३) इत्यण् । देविकाशिंशपा-’ (७.३.१) इत्यचामादेरात्त्वम् । ‘दाण्डिनायन–’ (६.४.१७४) इति लोपः । स्त्रियां टिड्ढा-’ (४.१.१५) इति ङीप् ॥ (१) देविकासरयूद्धवयोः क्रमेणैकैकम् ।
सारसः सरसि भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सारसः पक्षिभेदेन्द्वोः क्लीबं तु सरसीरुहे’ (इति मेदिनी) ॥
सारसनम् सारमुत्कृष्टं सनमस्य । ‘षण सम्भक्तौ (भ्वा० प० से०) । घः (३.३.११८) । सहारसनेनाल्पशब्देन वा । ‘मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम्’ इति दन्त्यादौ रभसः ॥ पञ्च ‘स्त्रीकटिभूषणस्य’ । ‘स्त्री’ इत्यविवक्षितम् । पुंस्कटिभूषणेऽति । -स्त्रीकट्यां वस्त्रग्रन्थने- इति स्वामी । –एका यष्टिर्भवेत्काञ्ची मेखला त्वष्ट यष्टिकाः । रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः’ -इति भेदस्त्विह न विवक्षितः ॥
सारसनम् येति । सारं सनोति । ‘षणु दाने’ (तु० प० से०) । कर्मणः शेषत्वविवक्षायामच् (३.१.१३४) । यद्वा सारं बलमस्यते दीप्यतेऽनेन । ‘अस गतिदीप्त्यादानेषु’ (भ्वा० उ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । शकन्ध्वादिः (वा० ६.१.९४) । ‘सारसनमप्युरस्त्रे तनुत्रिणां मेखलायां च’ (इति मेदिनी) । विश्वोऽपि-‘सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम् इति ॥
सारसम् सरसि भवम् । तत्र भवः’ (४.३.५३) इत्यण् । ‘सारसं सरसीरुहे । सारसः पुष्कराख्येन्द्वोः’ इति हैमः । (११) सरस्यां रोहति । ‘इगुपध-’ (३.१.१३६) इति कः ॥
सार्थः “सरति, स्त्रियते, वा । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सतेर्णित्’ (उ० २.५) इति थन् । ‘सार्थो वणिक्समूहे स्यादपि संघातमात्रके’ (इति मेदिनी) । ‘यूथादयश्च’ -इति मुकटश्चिन्त्यः ॥”
सार्धम्
- ऋध्यति । ‘ऋधु वृद्धौ’ (दि० प० से०) । बाहुलकात्कम् । सह ऋधं वर्धनम् । ‘सहस्य सः’ (६.३.१८) इति सः ॥
सार्वभौमः सर्वस्यां भूमौ विदितः । तत्र विदितः’ (५.१.४३) इत्यण् । अनुशतिकादिः (७.३.२०) (सार्वभौमस्तु दिग्गज चक्रवर्तिनि’)
सार्वभौमः सर्वभूमेरीश्वरः । ‘तस्येश्वरः’ (५.१.४२) इत्यण् । अनुशतिकादिः (७.३.२०) । ‘सार्वभौमस्तु दिङ्नागे सर्वपृथ्वीपतावपि’ इति विश्वमेदिन्यौ ॥
सालः “सल्यते । ‘षल गतौ’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । ‘सालो वरणसर्जयोः इति रभसः ॥ ‘तालव्यो नृपझषयोः शालो, वृक्षे वृत्तौ द्रुभेदे च । तालव्यदन्त्य उक्तस्तथा स्त्रियां वृक्षशाखायाम्’ इत्यूष्मविवेकः । तत्र ‘शल गतौ (भ्वा० प० से०) धातुर्बोध्यः ।”
सालः सेति । सल्यते । ‘षल गतौ’ (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । सारो दार्ढ्यमतिशयितमस्य । अर्शआद्यच् (५.२.१२७) वा । ‘पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः इति दन्त्यादौ रभसः ॥
सालः सल्यते । ‘षल गतो (भ्वा० प० से०) । ‘अकर्तरि-’ (३.३.१४) इति घञ् । मुकुटस्तु सलति । वायुना चलति । ‘ज्वलितिकसन्तेभ्यो णः’(३.१.१४) – इत्याह । तन्न । दन्त्यादेस्तत्र पाठाभावात् । तालव्योष्मादेस्तत्र पाठात् । पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः’ इति दन्त्यादौ रभसः । ‘सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि’ ।
सालपर्णी सालः पर्णमस्याः । साल शब्दस्य सालपर्णसदृशे लक्षणा ॥ तालव्यशापि ‘शालपर्णी) इत्येके ॥
सास्ना सेति । सस्ति । ‘षस स्वप्ने’ (अ० प० से०) । ‘रास्नासास्ना-’ (उ० ३.१५) इति साधुः ॥
साहसम् सेति । सहसि बले भवम् । ‘तत्र भवः’ (४.३.५२) इत्यण् । ‘साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धार्ष्ट्ये इति हैमः ॥
साहस्रः बेति । सहस्त्रं बलानि सन्ति येषाम् । ’तपःसहस्राभ्यां विनीनी’ (५.२.१०२) ॥
सिंहः सिंह इति । सिञ्चति । ‘षिच क्षरणे’ (तु० उ० अ०) । ‘सिचेः संज्ञायां हनुमौ कश्च’ (उ० ५.६२) । यद्वा हिनस्ति । ‘हिसि हिंसायाम्’ (रु० प० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही तु कण्टकार्यां स्यात्’ (इति मेदिनी) । ‘सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्’ (इति हैमः) ॥
सिंहतलः द्वाविति । सिंहस्येव तलमत्र । ‘संहतलः’ इति पाठान्तरम् । संहतं संघट्टं लाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
सिंहनादः सिंहवन्नदनम् । ‘णद अव्यक्ते शब्दे’ (भ्वा० प० से०) घञ् । (३.३.१८) ॥
सिंहपुच्छी सिंहपुच्छमस्याः सिंहपुच्छाकारपुष्पत्वात् ॥ ‘उपमानात् पक्षाच्च पुच्छाच्च’ (वा० ४.१.५) इति ङीष् ॥
सिंहासनम् सिंहेति । हेमविकारः । नृपासनम् । सिंहाकारमासनम् । सिंह इव वासनम् ॥
सिंहास्यः सिंह आस्यमस्य । सिंहास्यसदृशपुष्पत्वात् ॥
सिंही हिनस्ति । ‘हिसि हिंसायाम्’ (रु० प० से०) । पचाद्यच् (३.१.१३४) । पषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । ‘सिंही तु कण्टकार्या स्यात् (वार्ताकौ वासकेऽपि च’ इति मेदिनी) । ‘सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्’ (इति हैमः) ॥
सिंही हिनस्ति । ‘हिसि हिंसायाम्’ (रु० प० से०) । पचाद्यच् । पृषोदरादिः (६.३.१०९) । ‘सिंहस्तु राशिभेदे मृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम्’ इति हैमः ॥
सिकता एवमिति । एवं सिकता’ सिकतिलः इतीमौ देश एव । ‘सैकतः’ सिकतावान्’ इति तु देशादेशयोः । केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहु ॥
सिकतामयम् सिकतानां विकारः । ‘मयड्वैतयोः-’ (४.३.१४३) इति मयट् । द्वे वालुकामथतटस्य ।
सिकतावत् एवमिति । एवं सिकता’ सिकतिलः इतीमौ देश एव । ‘सैकतः’ सिकतावान्’ इति तु देशादेशयोः । केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहु ॥
सिकतिलः एवमिति । एवं सिकता’ सिकतिलः इतीमौ देश एव । ‘सैकतः’ सिकतावान्’ इति तु देशादेशयोः । केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहु ॥
सिक्थकम् “सिञ्चति, सिच्यते, वा । ‘पिच क्षरणे’ (तु० उ० अ०) । ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्’ (उ० २.७) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥”
सितः सिनोति मनः । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘अञ्जि घृसिभ्यः क्तः’ (उ० ३.८९) । सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा’ इति हैमः ।
सितच्छत्रा सितं बद्धं शुभ्रं वा छत्रमस्याः ॥
सितशूकः “सीति । सितं शूकं यस्य, इति मध्यतालव्यः । (शितशूकः) द्वितालव्यः - इति स्वामी ॥”
सिता सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘अञ्जिघृसिभ्यः क्तः’ (उ० ३.८९) । शुक्लवर्णत्वाद्वा सिता । ‘सितमवसिते च बद्धे धवले त्रिषु । शर्करायां स्त्री’ (इति मेदिनी) ॥
सिताभ्रः “सितं शैत्यं बन्धनं वा चन्द्रं वा अभ्रति । ‘अभ्र गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । सितं शौक्ल्यमभ्रयति स्वसम्बद्धम्, इति वा । शुक्लत्वात् सिताभ्रमिव वा । ‘सिताभः’ इति वा पाठः । सिता आभा यस्य ॥”
सिताम्भोजम् सितं शुक्लं च तदम्भोजं च ॥ द्वे शुभ्रकमलस्य ॥
सिद्धः असेधीदिति सिद्धः । ‘षिधु हिंसासंराद्ध्योः’ (दि० प० से०) । ‘गत्यर्थाकर्मक (३.४.७२) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्शआद्यच् (५.२.१२७) । (सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे) ॥
सिद्धान्तः समाविति । सिद्धोऽन्तो निश्चयो यस्मिन् ।
सिद्धार्थः सीति । सिद्धोऽर्थोऽस्मात् । ‘सरिषपः’ सिते तस्मिन् रक्षोघ्नो भूतनाशनः’ इति रभसः । ‘सिद्धार्थस्तु पुमान् शाक्यसिंहे च सितसर्षपे’ इति विश्वः (मेदिनी) ॥
सिद्धिः सिध्यति । ‘षिधु संराद्धौ’ (दि० प० अ०) । क्तिच् (३.३.१७४) । ‘सिद्धिस्तु मोक्षे निष्पत्तियोगयोः’ इति हैमः । (‘सिद्धिः स्त्री योगनिष्पत्तिपादुकान्तर्धिवृद्धिषु’ इति मेदिनी) ॥
सिध्मम् सिध्यति ‘षिधु गत्याम्’ ‘(संराद्धौ)’ (दि० प० अ०) । बाहुलकान्मक् । यत्तु-पामादित्वान्मनिन्-इति मुकुटः । तन्न । पामादेर्मनिन्विधानाभावात् । धातोः पामादिप्रत्ययाभावात् ॥ ‘पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्मलीति च’ इति रभसः ।
सिध्मलः सिध्यमस्यास्ति । ‘सिध्मादिभ्यश्च’ (५.२.९६) इति लच् । ‘सिध्मलामत्स्यविकृतौ वाच्यवत्तु किलासिनि’ इति मेदिनी ॥
सिध्यः सिध्यन्त्यस्मिन् । ‘पुष्यसिध्यौ नक्षत्रे’ (३.१.११६) इति क्यपि निपातितः ।
सिनीवाली “सेति । चतुर्दशीयोगाद्दृष्टचन्द्रा सती सा अमा सिनीवाली । एन विष्णुना सह वर्तते सा लक्ष्मीः । तद्योगात् । सिनी चन्द्रकला । व्रीह्यादित्वात् (५.२.११६) इनिः । सिनीं वलति धारयति । कर्मण्यण्’ (३.२.१) यत्तु—स्त्रियाः पुंवत्-’ (६.३.३४) इति न पुंवत्वम् । ‘संज्ञापूरण्योश्च’ (६.३.३८) इति निषेधात् इति मुकुटः । तन्न । सिनीवालीत्यत्र सामानाधिकरण्याभावात्, असंज्ञात्वात्, अभाषितपुंस्कत्वाच्च । यदपिसिनी चन्द्रकला सा बालाल्पात्र-इति तेन विगृहीतम् । तदपि न । बालेत्यस्य विशेषणत्वेन पूर्वनिपातप्रसङ्गात् । स्वामी तु—सिनी सिता बालास्त्यस्याम्-इत्याह । तन्न । पुंवद्भावप्रसङ्गात् । (‘सिनी वाली तु दृष्टेन्दुकलामादुर्गयोः स्त्रियाम्’) ।”
सिन्दुकः अथेति । स्यन्दते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० अ० से०) । ‘स्यन्देः सम्प्रसारणं धश्च’ (उ० १.११) इत्युः। बाहुलकादत्र धो न ॥ मुकुटस्तु धमिच्छति । स्वार्थे ‘संज्ञायां कन्’ (५.३.७५) । तदुक्तम् - ‘सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्धुवारितः । नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्धुकः’ इति ॥
सिन्दुवारः “सिन्दुं वृणोति, वारयति वा । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘वृञ् आवरणे (चु० उ० से०) वा । ‘कर्मण्यम्’ (३.२.१) ॥”
सिन्दूरम् सीति । स्यन्दते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) । ‘स्यन्देः सम्प्रसारणं च’ (उ० १.६८) इत्यूरन् ।-‘खर्जादित्वादूरः’ बाहुलकात्सम्प्रसारणं च – इति मुकुटोऽपाणिनीयः । ‘सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके । सिन्दूरी रोचनारक्तचेलिकाधातकीषु च (इति मेदिनी) ॥
सिन्धुः “स्यन्दन्ते आपोऽत्र । स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) ‘स्यन्देः संप्रसारणं धश्च’ (उ० १.११) इत्युः । ‘सिन्धुर्वमथुदेशाब्धिनदे ना, सरिति स्त्रियाम्’ इति विश्वमेदिन्यौ ।”
सिन्धुजम् सिन्धुषु जातम् । ‘सप्तम्यां जनेर्डः’ (३.२.९७) ॥
सिम्बा समति ‘षम वैक्लव्ये’ (भ्वा० प० से०) । ‘उल्बादयश्च’ (उ० ४.९५) इति साधुः । शिनोति ‘शिञ् निशाने’ (स्वा० उ० अ०) । (‘शिम्बा’ । ‘शिमिः’ ‘शिम्बिः’ इत्यपि-)-इति स्वामी ॥
सिरा सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) ‘बहुलमन्यत्रापि’ इति रक् । तालव्यादिरपि । ‘शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति’ इति तालव्यादौ रभसात् । शिनोति । ‘शिञ् निशाने’ (स्वा० उ० अ०) । ‘बहुलमन्यत्रापि’ इति रक् ॥
सिह्लः स्निह्यति । ‘स्निह प्रीतौ’ (दि० प० से०) । अन्तर्भावितण्यर्थः । बाहुलकाल्लक् । पृषोदरादिः (६.३.१०९) ॥
सीता सीति । सीयते । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । क्तः (३.२.१०२) । पृषोदरादिः (६.३.१०९) । -स्यति भुवम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । (बाहुलकात्) क्तः ‘घुमास्था-’ (६.४.६६) इतीत्वम्-मुकुटः । तन्न । ‘द्यतिस्यतिमास्था-’ (७.४.४०) इति विशेषविहितेनेत्वेन बाधात् । ‘सीता लाङ्गलरेखा स्याद्वयोमगङ्गा च जानकी’ इति दन्त्यादौ रभसः । ‘सीता जनकजागङ्गाभेदयोर्हलपद्धतौ’ इति दन्त्यादौ हैमः । शेते स्म । ‘शीङ् स्वप्ने’ (अ० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः’ इति तालव्यादौ धरणिः ॥
सीत्यम् सीति । सीतया सम्मितम् । ‘नौवयोधर्म-’ (४.४.९१) इति यत् ॥
सीमन्तिनी सीम्नोऽन्तः । ‘शकन्ध्वादिः’ (वा० ६.१.९४) । सीमन्तोऽस्त्यस्याः । इनिः (५.२.११५) ॥ (६)
सीमा सीमेति । सीयते । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘नामन्सीमन्-’ (उ० ४.१५१) इत्यादिना निपातितः । ‘मनः (४.१.११) इति न ङीष् ॥a
सीमा ‘डाबुभाभ्याम् (४.१.१३) इति पक्षे डाप् । ‘सीमा घाटस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम्’ ॥
सीरः “सिनोति, सीयते, वा । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘सूसिमिचीनां दीर्घश्च’ (उ० २.२५) इति क्रन् दीर्घत्वं च । ‘हलतिग्मकरौ सीरौ’ इति दन्त्यादौ रभसः । ‘सीरः स्यादंशुमालिनि । लाङ्गले’ इति हैमः ॥”
सीरपाणिः सीरः पाणौ यस्य । अजगरसर्पे शीरस्तालव्यादिः कविभिराख्यातः । लाङ्गलवचनो नित्यं दन्त्यादिर्दृश्यते शास्त्रे इत्यूष्मविवेकः ।
सीसकम् सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । क्विप् (३.२.१७८) । अनित्यत्वान्न तुक् । ईं स्याति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । सि च तदीसं च । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
सीहुण्डः अथेति । ‘सी’ इति हुण्डते । ‘हुडि वरणे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । -सिंहतुण्डस्यापभ्रंशोऽयम् इति स्वामी । पृषोदरादिः । ‘वज्रद्रुमः सिहुण्डोऽथ’ इति रभसाद्ध्रस्वादिरपि ॥
सु
- सूयते । ‘षु गतौ’ (प्रसवैश्वर्ययोः)’ (भ्वा० प० अ०) । क्विपि (३.२.१७८) तुगभावः । डुः (वा० ३.२.१८०) वा ॥
सु
- सवति । षु गतौ (प्रसवैश्वर्ययोः) (भ्वा० प० अ०) । डुः (वा० ३.२.१८०) । (‘सु पूजायां भृशार्थेऽनुमतिकृच्छ्रसमृद्धिषु’ इति मेदिनी) ॥
सुकन्दकः शोभनमतीव वा कन्दयति । भक्षकजातिभ्रंशकत्वात् । ‘कदि रोदने’ (भ्वा० प० से०) । स्वार्थ कन् (५.३.७५) । ण्वुल् (३.१.१३३) वा ॥
सुकरा सु सुखं करोति । अच् (३.१.१३४) । सु क्रियते वा । ‘ईषदुःसुषु-’ (३.३.१२६) इति खल् ॥
सुकृतम् सुष्टु कृतम् । प्रादिसमासः (२.२.१८) । (‘सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु’)
सुखम् “शोभनानि खान्यनेन । ‘सुख, दुःख, तत्क्रियायाम्’ (चु० उ० से०) । भावेऽच् (३.३.५६) वा । (‘सुखं शर्मणि नाके च सुखा पुर्या प्रचेतसः)”
सुखवर्चकः सुखं वर्चयति । ‘वर्च दीप्तौ’ (भ्वा० अ० से०) । क्वुन् (उ० २.३२) ॥
सुखसन्दोह्या सुखेन सन्दुह्यते । ण्यत् (३.१.१२४) ॥
सुगतः शोभनं गतं ज्ञानमस्य ॥
सुगन्धा शोभनो गन्धः सुगन्धः । ‘कुगति (२.२.१८) इति समासः । सुगन्धोऽस्त्यस्याः । मुकुटस्तु - शोभनो गन्धोऽस्याम् । अर्शआद्यच् (५.२.१२७) इत्याह । तन्न । ‘गन्धस्येत्-’ (५.४.१३५) इतीत्प्रसङ्गात् । बहुव्रीहिणोक्तार्थत्वादचोऽप्रसङ्गात् । मत्वर्थे बहुव्रीहिविधानात् । स्वामी तु रास्नासुगन्धयोः स्थाने ‘नागसुगन्धा’ इति पठित्वा ‘सर्पसुगन्धा’ इति व्याख्यत् ॥
सुगन्धिः सुष्टु गन्धोऽस्या । ‘गन्ध स्येत्-’ (५.४.१३५) इति समासान्त इकारः । ‘सुगन्धिः स्यादिष्टगन्धे त्रिषु क्षीरे नपुंसकम् ।
सुगन्धिः शोभनो गन्धोऽस्य । ‘गन्धस्येत्-’ (५.४.१३५) इतीत्त्वम् ॥
सुचरित्रा सुचेति । शोभनं चरित्रमस्याः ॥
सुचेलकः स्विति । शोभनं चेलमेव । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि ॥
सुतः “सूयते स्म । ‘षु प्रसवे’ (भ्वा० प० अ०) । क्तः (३.२.१०२) सुवति–इति स्वामी । तन्न । दीर्घश्रवणप्रसङ्गात् । तस्याप्राप्तेश्च । ‘सुतस्तु पार्थिवे पुत्रे, स्त्र्यपत्ये तु सुता स्मृता’ (इति मेदिनी) ॥”
सुतश्रेणी सुतानां श्रेणी यस्याः ॥
सुतात्मजा सुतस्य सुतायाश्चात्मजा ॥
सुत्या स्विति । सवनम् । ‘षुञ् अभिषवे’ (स्वा० उ० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् ॥
सुत्रामा सुष्ठु त्रायते । ‘त्रैङ् पालने (भ्वा० आ० से०) । आतो मनिन्-’ (३.२.७४) । सु उद् इत्युपसर्गद्वयप्रयोगे तु ‘सूत्रामा दीर्घादिरपि । एतेन अन्येषामपि’ (६.३.१३७) इति दीर्घत्वे ‘सुत्रामा’ इति वदन्मुकुटः प्रत्युक्तः ॥
सुत्वन् स्विति । सुतवान् । ‘षु अभिषवे’ (स्वा० उ० अ०) । सुयजोर्ङ्वनिप्’ (३.२.१०३) । तुक् (६.१.७१) ॥ अभिषवेऽवभृथस्नाने ॥
सुदर्शनः शोभनं दर्शनमस्य । सुखेन दृश्यत इति वा । भाषायां शासियुधिदृशिमुषिभ्यो युच् (वा० ३.३.१३०) ‘सुदर्शनो हरेश्चक्रे मेरुजम्बुद्रुमे पुमान् नद्वयोः शक्रनगरे आ(प्रा)ज्ञौषधिभिदोः स्त्रियाम् । ‘सुदर्शनोऽस्त्रियां चक्रे’ इति नामनिधानात् क्लीबेऽपि ।।
सुदायः याविति । युतकं योनिसम्बन्धः । तत्र भवम् । ‘तत्र भवः’ । (४.३.५३) इत्यण् । युतयोर्वरवध्वोरिदम् । ‘तस्येदम्’ (४.३. १२०) इत्यण् वा । ‘युतकं युगले युक्ते संशयेऽपि च’ इति रभसः । ‘युतकं संशये युगे । नारीवस्त्राञ्चले युक्ते चलनाग्रे च यौतके’ (इति मेदिनी) । ‘यौतकं यौतुकं च तत्’ इति वाचस्पतेरुमध्यमपि । आदिना व्रतभिक्षादिपरिग्रहः । सुदीयते । ‘डुदाञ्’ (जु० उ० अ०) । घञ् (३.३.१९) । युगागमः (७.३.३३) ॥
सुधर्मा शोभनो धर्मोऽस्याम् । ‘धर्मादनिच् केवलात् (५.४.१२४) । ‘डाबुभाभ्याम्’ (४.१.१३) इति पक्षे डाप् । अनो बहुव्रीहेः” (४.१.१२) इति डीप् (४.१.१५) न ।।
सुधा “सुखेन धीयते । ‘धेट् पाने’ (भ्वा० प० अ०) । आतश्चोपसर्गे’ (३.३.१०६) इति कर्मण्यङ् । यत्तु-अङ्विधौ (३.३.१०४,५,६) कारकाधिकारः (३.३.१९,९३) निवृत्तः-इति मुकुटः । तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३.३.९५) कारकाधिकारनिवृत्त्यर्थत्वात् - इति हेतुरपि स्वरूपासिद्धः । ‘अभिविधौ भावे-’ (३..३४) इत्यस्याग्रेऽनुवर्तनात् । यदपि- सुष्ठु दधाति पुष्णाति शरीरमिति पचाद्यजन्तात् (३.१.१३४) टाप् (४.१.४) इति–तदपि न । नित्यत्वाद न्तरङ्गत्वाच्चैकादेशेऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सस्यालोपप्रसङ्गाच्च । ‘आतश्चोपसर्गे (३.१.१३६) कप्रत्ययो वक्तुमुचितः । (‘सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च’) ।”
सुधांशुः सुधायुक्ता अंशवो यस्य ।
सुधीः सु सुष्ठु ध्यायति । ‘ध्यै चिन्तायाम्(भ्वा० प० अ०) । ध्यायतेः सम्प्रसारणं च’ (वा० ३.२.१७८) इति क्विप् सम्प्रसारणं च ॥
सुनासीरः “णासृ शब्दे’ (भ्वा० आ० से०) । बाहुलकादीरन् (उ० ४.३०) । सुष्टु नासीरं सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्त्यः ॥ शु इत्यव्ययस्य पूजार्थकत्वात् (शुनासीरः) तालव्यादिरपि । ‘शुनाशीरशीतशिवशङ्खाः’ इति तालव्यादावूष्मविवेकः । शुनो वायुः, शीरः सूर्यः, तावस्य स्तः इति अर्शआद्यचि (५.२.१२७) अन्येषामपि-’ (६.३१३७) इति दीर्घः इति व्युत्पत्त्या (शुनाशीरः) द्वितालव्योऽपि ।।”
सुनिषण्णकम् सुष्ठः निषण्णमस्मात् ॥
सुन्दरी अतीवोनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । सुपूर्वः । बाहुलकादरः । शकन्ध्वादिः (वा० ६.१.९४) । गौरादिः (४.१.४१) ‘सुन्दरी तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत्’ (इति मेदिनी) ॥
सुपन्थाः अतीति । स्वती पूजायाम् । ‘कुगति-’ (२.२.१८) इति समासः । ‘न पूजनात्’ (५.४.६९) ॥
सुपर्णः तथा कनकमयत्वात्कनकवर्णत्वाद्वा । शोभने पर्णे पक्षावस्य । (‘सुपर्णः स्वर्णचूडे च गरुडे कृतमालके । सुपर्णा कमलिन्यां च वैनतेयस्य मातरि’ ।
सुपर्वाणः “सुष्ठु पर्व अमावास्यादिचरितम्, अङ्गुल्यादिग्रन्थिः, उत्सवो वा येषां सुपर्वाणः । ‘सुपर्वा ना शरे वंशे पर्वधूमसुरेषु च’ ।”
सुपार्श्वकः शोभनं पार्श्वमस्य ॥
सुप्रतीकः “शोभनाः प्रतीका अवयवा यस्य । ‘सुप्रतीको दिगीशेभे, शोभनावयवे त्रिषु । दिक्षु विख्याता गजाः । दिगीशा गजा इति वा । ‘शाकपार्थिवादिः (२.१.६९) । इन्द्रादिगजानाम्”
सुप्रयोगविशिखः शोभनः प्रयोगोऽस्य । सुप्रयोगो विशिखोऽस्य ॥
सुप्रलापः सुप्रेत्यादि । सुष्टु प्रकृष्टं लपनम् । घञ् (३.३.१८) ॥
सुभगासुतः अथेति । सुभगायाः सुतः ॥
सुभिक्षा सुष्टु भिक्ष्यते । घञ् (३.३.१९) ॥
सुमनः सुष्ठु मन्यते । ‘मन्यते’ । ‘मन ज्ञाने’ (दि० आ० अ०) । अच् (३.१.१३४) । ‘गोधूमसुमनौ समौ’ इति रभसः ॥
सुमनसः “शोभनं मनो येषां ते सुमनसः । ‘सुमनाः पुष्पमालत्योः स्त्रियां, ना धीरदेवयोः ॥”
सुमनसः स्त्रिया इति । सुष्ठु मन्यन्ते आभिः । ‘मन ज्ञाने’ (दि० प० से०) । असुन् (उ० ४.१८९) । मुकुटस्तु - ‘सुप्रीतं मनो आभिः’ इति विगृह्य ‘प्रादिसमासः’ इत्याह । तन्न । अन्यपदार्थत्वालाभात् । ‘भूम्नि स्त्रियां सुमनसः’ इति रत्नकोषः । ‘सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः’ इति मेदिन्यादेरेकत्वमपि । ‘पुष्पं सुमनाः कुसुमम्’ इति नाममाला ॥
सुमनाः “स्विति । सुष्ठु मन्यते । ‘मन ज्ञाने (दि० आ० अ०) । असुन् (उ० ४.१८९) । यद्वा शोभनं मनोऽस्याम् । ‘स्त्रियां सुमनसो भूम्नि पुष्पे, जातौ तु भेदतः । विदुष्यपि यदा दृष्टस्तदा भेदेन शिष्यते’ इति व्याडिः ॥ ‘सुमनायाश्च पत्रेण’ इति सुश्रुतदर्शनात् टाबन्तापि ॥”
सुमनोरजः सुमनसां रजः ॥
सुमम् स्त्रिया इति । सुष्ठु मन्यन्ते आभिः ।
सुमेरुः सुमेरुरित्युपसर्गान्तरनिवृत्त्यर्थमुक्तम् ।
सुरज्येष्ठः सुरेषु ज्येष्ठः ॥
सुरदीर्घिका सुराणां दीर्घिकेव ॥
सुरद्विषः “सुरान् द्विषन्ति । ‘द्विष अप्रीतौ’ (अ० उ० अ०) । ‘सत्सूद्विष-’(३.२.६१) इति क्विप् ॥ यद्यपि पातालवासित्वेन पातालवर्गे वक्तुं युक्ताः, तथापि देवविरोधित्वेन बुद्ध्युपारोहादिहैवोक्ताः ।”
सुरनिम्नगा सुराणां निम्नगा । क्षुभ्नादिः (८.४.३९) ॥
सुरपतिः सुराणां पतिः ॥
सुरभिः सुष्टु रभन्ते रभसयुक्ता भवन्त्यत्र । ‘रभ राभस्ये’ (भ्वा आ० अ०) । इन् (उ० ४.११८) ‘सुरभिर्हेम्नि चम्पके जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः । सुगन्धौ गवि शल्लक्याम्’ इति हैमः ।
सुरभिः सुष्टु रभन्तेऽत्र सुरभिः । इन् (उ० ४.११८) ॥
सुरभी सुष्ठ रभते । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । आगमानित्यत्वान्न नुम् (७.१.६३)। ‘सुरभिः सल्लकीमातृभिन्मुरागोषु योषिति’ (इति मेदिनी) ॥
सुरलोकः सुराणां लोकः।
सुरवर्त्म सुराणां वर्त्म ।।
सुरसा “शोभनो रसोऽस्याः । ‘सुरसं तु त्रिषु स्वादौ, पर्णासे तु नपुंसकम् । स्त्री रास्नानागमात्रोश्च’ (इति मेदिनी) ॥”
सुरा
- स्विति । सुष्ठ राति याम् । ‘रा दाने’ (अ० प० अ०) । सु अतीव रायन्त्यनया वा । ‘रै शब्दे’ (भ्वा० प० से०) । ‘आतश्चोपसर्गे (३.३.१०६) इत्यङ् । ‘सुरा चषकमद्ययोः’ ॥ पुंलिङ्गस्त्रिदिवेशे स्यात् (इति मेदिनी) ॥
सुराः सुरन्तीति सुराः । ‘षुर प्रसवैश्वर्ययोः (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । यद्वा समुद्रोत्था सुरास्त्येषाम् । अर्शआद्यच् (५.२.१२७) । यद्वा शोभनं राजते । ‘राजृ दीप्तौ (भ्वा० उ० से०) ‘अन्येभ्योऽपि-’ (३.२.१०१ वा०) इति डः । ‘सुरा चषकमद्ययोः । पुंलिङ्गस्त्रिदिवेशे स्यात् ॥
सुराचार्यः सुराणामाचार्यः ।
सुरामण्डः
- सुराया मण्डः ॥
सुरालयः सुराणामालयः ॥
सुराष्ट्रजम् सुराष्ट्रे जातम् । ‘जनी’ (दि० आ० से०) । ‘सप्तम्यां जनेर्ङः (३.२.९७) ॥
सुवचनम्, सुवर्णः सुवर्णः ।
सुवर्णकः “शोभनो वर्णोऽस्य । सुष्ठु पर्णान्यस्य, इति वा पाठः । (‘सुपर्णः स्वर्णचूडे च गरुडे कृतमालके । सुपर्णा कमलिन्यां च वैनतेयस्य मातरि’) ॥ अष्टौ सोनालु धनवहेड इति ख्यातस्य।”
सुवर्णम् शोभनो वर्णोऽस्य । सुष्ठु वर्ण्यते वा । ‘वर्ण वर्णने’ (चु० प० से०) । ण्यन्तः । ‘एरच्’ (३.३.५६) ॥
सुवल्ली शोभना वल्लिरस्याः ॥
सुवहा सुष्ठु वहति । पचाद्यच् (३.१.१३४) । ‘सुवहा सल्लक्येलापर्णीगोधापदीषु वीणायाम्। रास्नाशेफालिकयोः स्त्री सुखवाह्येऽन्यलिङ्गः स्यात् (इति मेदिनी) ॥
सुवहा सुवहति । पचाद्यच् (३.१.१३४) । ‘गोधापदी तु सुवहा त्रिफला हंसपद्यपि इति कोषान्तरम् ॥
सुवहा सुवहति । पचाद्यच् (३.१.१३४) ॥
सुवहा सुवहति । अच् (३.१.१३४) । ‘सुवहा शल्लक्येलापर्णीगोधापदीषु वीणायाम् । रास्नाशेफालिकयोः स्त्री सुखवाह्येऽन्यलिङ्गः स्यात्’ (इति मेदिनी) ॥
सुवहा “सुष्ठु वहत्यामोदम् । वह प्रापणे’ (भ्वा० उ० अ०) । पचाद्यच् (३.१.१३४) । ‘सुवहा सल्लक्येलापर्णीगोधापदीषु वीणायाम् । रास्नाशेफालिकयोः स्त्री, सुखवाद्येऽन्यलिङ्गः स्यात्’ (इति मेदिनी) ॥”
सुवासिनी सु अतीव वसति पितृगृहे तच्छीला । ‘सुप्यजातौ-’ (३.२.७८) इति णिनिः । ‘स्ववासिनी’ इत्यपि पाठः । स्वेषु पित्रादिषु वस्तुं शीलमस्याः । ‘स्ववासिन्यां चिरिण्टी स्याद्द्वितीयवयसि स्त्रियाम्’ इति रुद्रः ॥
सुव्रत स्विति । शोभनं व्रतमस्याः ॥
सुषमा सुषमेति । शोभनं समं सर्वमनया । ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः (८.३.८८) इति षत्वम् । एतेन सुषामादित्वात् (८.३.९८) षत्वम् इति स्वाम्युक्तिः परास्ता । उक्तरीत्या निर्वाहे सुषामादित्वकल्पनस्य निर्बीजत्वात् । (‘सुषमं रुचिरे समे । सुषमा तु स्यात्परमशोभायां कालभिद्यपि’)
सुषवी सु सुवति । ‘षू प्रेरणे’ (तु० प० से०) । अच् (३.१.१३४) । ‘उपसर्गात्सुनोति-’ (८.३.६५) इति षः । गौरादिः (४.१.४१) । ‘सुषवी कृष्णजीरके । कारवेल्ले च जीरे च’ इति हैमः ॥
सुषवी क्रिति । सुषवणम् । ‘षू प्रेरणे’ (तु० प० से०) । ‘ॠदोरप्’ (३.३.५७) । ‘उपसर्गात्सुनोति-’ (८.३.६५) इति षत्वम् । सोऽस्त्यस्याः । पिप्पल्यादिः (ग० ४.१.४१) ॥
सुषीमः “सुषीमादयः सप्त तु तद्वाञ्शीतगुणवानर्थो येषां ते तद्वदर्थाः । ते च अन्यलिङ्गका विशेष्यलिङ्गाः । सुष्टु सीमा मर्यादा यस्य । ‘सुषामादिषु च (८.३.९८) इति । षत्वम् । स्वामी तु–‘सुष्टु श्यायते’ इति विगृह्य (सुशीमः तालव्यमध्यमाह । तत्र बाहुलकान्मक् संप्रसारणं च । मुकुटस्तु ‘तदयुक्तम् । ‘सुषीमश्च सुषेणश्च सुषन्धिः सर्षषोऽपि च’ इति दन्त्यमूर्धन्य उष्मविवेकाद्-इत्याह । ‘सुषीमः शीतले चारौ त्रिषु, ना पन्नगान्तरे’)”
सुषेणः शोभना सेना यस्य । ‘एति संज्ञायामगात्’ (८.३.९९) इति षत्वम् । ‘रषाभ्याम्-’ (८.४.१) इति णत्वम् । मुकुटस्तु सुष्ठ सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘कृवृतॄ स्वपिसिद्भ्यो नः’ – इत्याह । उज्ज्वलदत्तादौ तूणादिसूत्रस्य ‘कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (३.१०) इति पाठो दृश्यते । (‘सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः’ इति मेदिनी) ॥
सुषेणिका सुष्ठ सेनया याति । सेनाशब्दात् ‘सत्यापपाश-’ (३.१.२५) इति णिच् । पचाद्यच् । ‘एति संज्ञायामगात्’ (८.३.९९) इति षत्वम् । स्वार्थे कन् (५.३.७५) ॥
सुष्ठु
- सुस्थानम् । पूर्ववत् ॥
सुष्ठु
- सुतिष्ठति । ‘अपदुःसुषु स्थः’ (उ० १.२५) इति कुः ॥
सुसंस्कृतम् सुष्ठु संस्क्रियते स्म । क्तः (३.२.१०२) । ‘सम्परिभ्याम्-’ (६.१.१३७) इति सुट् ॥
सुहृद् शोभनं हृदयमस्य । ‘सुहृद्दुर्हृदौ-’ (५.४.१५०) इति साधुः ॥
सूकरः सुधाव्याख्या – सवनम् । ‘षूङ् प्राणिगर्भविमोचने’ (अ० आ० से०) । सम्पदादिः (वा. ३.३.१०८) । सुवं प्रसवं करोति । ‘कृञो हेतु-’ (३.२.२०) इति टः ॥ ‘तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः’ इति शभेदः । शूकोऽस्त्यस्य । खररोमत्वात् रः । यद्वा शूकं राति । ‘रा आदाने (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यद्वा ‘शू’ इति ध्वनिं करोति । अच् (३.१.१३४) । अः (३.२.२०) वा ॥
सूतः
- ब्रेति । सूयते स्म । ‘षूङ् प्रसवे’ (दि० आ० से०) । क्तः (३.४.७२) । ‘सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु । ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि’ इति हैमः ॥
सूतः “सुवति गमयति स्माश्वान् । ‘षू प्रेरणे’ (तु० प० से०) । क्तः (३.२.१०२) । ‘सूतस्तु सारथौ तक्ष्णि क्षत्त्रियाद्ब्रह्मणीसुते । वन्दिपारदयोः (पुंसि, प्रसूते प्रेरिते त्रिषु)’ इति विश्वमेदिन्यौ ॥”
सूतः शिवेन सूयते स्म । ‘षू प्रसवे’ (दि० आ० से०) । क्तः (३.२.१०२) । ‘सूतस्तु सारथौ तक्ष्णि क्षत्त्रियाद्ब्राह्मणीसुते । वन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु’ इति विश्वः (मेदिनी) ॥
सूतिकागृहम् सूतैव सूतिका । ‘सूतकादीनां वा’ (वा० ७.३.४५) । सूतिकाया गृहम् ॥
सूतिमासः स्विति । सूतेः प्रसवस्य मासः ॥
सूत्थानः
- सुष्ठु उत्थानमुद्योगोऽस्य ॥
सूत्रम् “- स्विति । सूत्र्यते । ‘सूत्र वेष्टने’ (चु० उ० से०) अदन्तः । ‘एरच्’ (३.३.५६) । सीव्यते, अनेने वा । ‘षिवु तन्तुसंताने (दि० प० से०) । ‘सिविमूच्योष्टेरूच्’ (उ० ४.१६३) चात् कित् ष्ट्रन् प्रत्ययः । ‘सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः इति हैमः ॥”
सूदा सूदन्ति छागादीन् । ‘षूद हिंसायाम् (चु० उ० से०) । अच् (३.१.१३४) । कः (३.१.१३५) वा । ‘सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे’ इति विश्वमेदिन्यौ ॥
सूनुः सूयते । ‘षूङ् प्राणिप्रसवे’ (दि० आ० से०) । ‘सुवः कित्’ (उ० ३.३५) इति नुः । ‘सूनुः पुत्रेऽनुजेऽर्के ना’ (इति मेदिनी) ॥
सूनृतम् सूनृतमिति । प्रीणाति । ‘प्रीञ् तर्पणे’ (क्र्या० प० अ०) । इगुपध-’ (३.१.१३५) इति कः ॥ सत्सु साधु । यत् (४.४.९८) ॥ प्रियं यत्सत्यम् तस्मिन् । सुष्टु नृत्यन्त्यनेन । घञर्थे कः (वा० ३.३.५८) । यद्वा ‘हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वाद्गुणाभावः । ‘अन्येषामपि’ (६.३.१३७) इति दीर्घः । यत्तु - मूलविभुजादित्वात् (वा० ३.२.५) ‘कः’ इति मुकुटेनोक्तम् । तन्न । तस्य कर्तरि विधानात् । ‘सूनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वचस्यपि’ ॥
सूपकारः स्विति । शोभना आपोऽस्मिन् । ‘ऋक्पूर्-’ (५.४.७४) इत्यः । ‘कुसुयुभ्यश्च’ इत्यपोऽत ऊत् । सवति रसान् । ‘षु प्र सवादौ’ (भ्वा० प० से०) । ‘सुशृभ्यां निच्च’ (उ० ३.२६) इति पो दीर्घश्च ।-‘युकुसूनां किच्च’–इत्यपाणिनीयम् । सूपं करोति । ‘कर्मण्यण्’ (३.२.१) ॥
सूरः “सुवति प्रेरयति कर्मणि लोकम् । ‘षू प्रेरणे’ (तु० प० से०) । ‘सुसूधाञ्गृधिभ्यः क्रन्’ (उ० २.२४) । दन्त्यादिः ॥ शवति । ‘शु गतौ” (सौत्रः) ‘शुसिचिमीनां दीर्घश्च’ (उ० २.२५) इति क्रनि शूरश्च । ‘शूरश्चारुभटे सूर्य इति विश्वः । ‘सुभटे शूरः सूर्ये च दन्त्योऽपि’ इत्यूष्मविवेकः शूरयते वा । ‘शूर विक्रान्तौ’ (चु० अ० से०) अच् (३. १.१३४) । यतु-सूते प्रेरयत्यन्धकारम्, इति विग्रहं प्रदर्श्य ‘षू प्रेरणे’ (तु० प० से०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तन्न । उक्तधातोस्तादृशरूपाभावात् ।”
सूरणः शूर्यते । ‘शूरी हिंसायाम्’ (दि० आ० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । कर्तरि ल्युट् (३.३.११३) वा । यत्तु शूरति इति विगृहीतं मुकुटेन । तन्न । शूरीधातोर्दिवाद्यात्मनेपदित्वात् ॥ सूर्यते । ‘सूरी हिंसायाम् । युच् (उ० २.७८) । ल्युट् (३.१.११३) वा । इति (सूरणः) दन्त्यादिरपि ॥
सूरिः “सूते, सूयते, वा । ‘षूङ् प्रसवे (अ० अ० से०) । ‘षूङ् प्राणिगर्भविमोचने’ (दि० आ० से०) वा । ‘सूङः क्रिः’ (उ० ४.६४) एतेन सुवति–इति विगृह्णन् स्वामी प्रत्युक्तः । उक्तनिर्देशासम्भवात् ।– सुनोति । ‘सुञो दीर्घश्च’ इति रिदीर्घौ -इति वदन्मुकुटोऽपि । उज्ज्वलदत्तादिष्वस्यादर्शनात् । केचित्तु-सुरोऽर्कहलयोः पुंसि । सूरः सूर्योऽस्त्युपास्यतयास्य । अत इनौ (सूरी) नान्तम्- इत्याहुः । दूरदृक् कोविदः सूरी’ इति रभसः॥”
सूर्मी “- स्विति । शोभना ऊर्मिः । बहुव्रीहिर्वा । ‘सर्वतोऽक्तिन्नर्थात्-’ (ग० ४.१.४५) इति, गौरादित्वात् (४.१.४१) वा ङीष् ।-‘ग्रीष्मजाल्मशूर्म-’ इति मप्रत्यये शूरादेशे च इति मुकुटस्त्वपाणिनीयः ।-‘शूर्मी तालव्यादिः’-इत्यप्ययुक्तम् । ‘सूर्म्यं शुषिरामिव’ इति श्रुतिविरोधात् ॥”
सूर्यः सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । सुवति प्रेरयति कर्मणि लोकान् इति वा । ‘षू प्रेरणे’ (तु० प० से०) । ‘राजसूयसूर्य-’ (३.१.११४) इति निपातितः । ‘सूर्योऽर्कपर्णे तपने स्त्री तद्भार्यौषधीमितोः ।
सूर्यतनया सूर्यस्य तनया ॥
सूर्यसूतः सूर्यस्य सूतः ।
सूर्येन्दुसंगमः सूर्येन्दू संगच्छतोऽस्मिन् । घः (३.३.११८)
सृक्कन्म् प्रेति । सृजति लालादि । ‘सृज विसर्गे’ (तु० प० अ०) बाहुलकात्कनिन् । ‘प्रान्तावोष्ठस्य सृक्कणी’ इति क्लीबकाण्डेऽमरदत्तः । ‘कवयुक्तम्’ (सृक्वणी) इत्यन्ये । (सृक्वणी) ङ्यन्ता–इत्येके । अदन्तं सृक्कम्-इत्यपरे । ‘सृक्कि’ शब्द इकारान्तः क्लीबम् । तत्र बाहुलकात्किः ॥
सृगः सरति । ‘सृ गतौ’ (भ्वा० प० अ०) । बाहुलकाद्गक् ॥
सृगालः सृजति मायाम् । ‘सृज विसर्गे (तु० प० अ०) । बाहुलकात् कालन् । न्यङ्क्वादिः (७.३.५३) । असृग् आलाति वा । कः (३.२.३) । पृषोदरादिः (६.३.१०९) ॥ ‘तालव्या अपि दन्त्याश्च शम्बशम्बर शूकराः । रशनापि च जिह्वायां शृगालः कलशोऽपि च’ इति शभेदः । शृङ्गं न लाति । पूर्ववत् । ‘शृगालो वञ्चके दैत्ये शृगालं डमरे विदुः’ विश्वः ॥
सृणिः सरति अन्तर्गच्छति । अनया वा । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सुवृषिभ्यां कित्’ (उ० ४.४९) इति निः । तालव्योष्मादिरपि । शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । शृणिपृष्णिपार्ष्णि-’ (उ० ४.५२) इति साधुः‘शृणिरङ्कुशवाची च काशश्च तृणवाचकः’ इति शभेदः ॥ ‘आरक्षमग्नमवमत्य सृणिं शिताग्रम्’ इति तु माघस्य प्रमादः । सृणेः स्त्रीत्वात् ।
सृणिका स्त्रिति । सरति । ‘सृवृषिभ्यां कित्’ (उ० ४.४९) इति निः । ‘संज्ञायां कन्’ (५.३.७५) । ‘सर्तेर्नुम् च’ (उ० ४.२३) ईकन् कित्त्वं नुम् च । इति (सृणीका) दीर्घमध्यापि ॥
सृतिः सरन्त्यनया । ‘सृ गतौ’ (भ्वा० प० अ०) । क्तिन् (३.३९४) इति मुकुटः । तन्न । अजब्भ्याम्-’ (वा० ३.३.१२६) इति ल्युट्प्रसङ्गात् । (अतः) करणस्यापि कर्तृत्वविवक्षायां क्तिच् क्तौ च’ (३.३१७४) इति क्तिच्‘ । सृतिर्गतौ पथि’ इति हैमः ।
सृमरः सरणशीलः । सृ गतौ (भ्वा० प० अ०) । ‘सृघस्यदः क्मरच्’ (३.२.१५) ॥
सेकपात्रम् सेकेति । सेकस्य पात्रम् ।
सेचनम् सिच्यतेऽनेन । ‘करणा-’ (३.३.११५) इति ल्युट् । ‘सेचनं रक्षणे सेके नौकायाः सेकभाजने’ इति विश्वमेदिन्यौ ॥ (२) द्वे नौस्थजलनिःसारणपात्रस्य ।
सेतुः “सेतुरिति । स्त्रियां वर्तमानायाम् आलौ सेतुः (पुमान्) । सिनोति । सीयते, वा । षिञ् बन्धने (स्वा० उ० अ०) । सितनि–’ (उ० १.६.९) इति तुन् ।”
सेतुः “सिनोति, सीयते वा । ‘षिञ् बन्धने (स्वा० उ० अ०) । ‘सितनि-’ (उ० १.६९) । इति तुन् । ‘सेतुर्नालौ कुमारके ॥”
सेना सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘कॄवृजॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (उ० ३.१०) इति नः । सह इनेन वा ॥
सेनाङ्गम् हेति । पदातीनां समूहः । ‘भिक्षादिभ्योऽण्’ (४.२.३८) हस्तिनश्च अश्वाश्च रथाश्च पादातं च । सेनाङ्गत्वादेकवद्भावः (२.४.२) । सेनाया अङ्गम् ॥ चत्वारोऽवयवा यस्य । ‘संख्याया अवयवे तयप्’ (५.२.४२) । नाविकाटविकादीनां पदातावन्तर्भावः नौकानां रथेष्वन्तर्भावः । महिषादीनां गजाश्वेऽन्तर्भावः इति मुकुटः ॥
सेनानी सेनां नयति । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् । सेनानीः स्यात्पुमान्कार्तिकेये सेनापतौ पुमान्’ ।
सेनानीः सेनेति । सेनां नयति । ‘णीञ् प्रापणे’ (वा० उ० अ०) । ‘सत्सू-’(३.२.६१) इति क्विप् । ‘सेनानीः स्यात् पुमान् कार्तिकेये सेनापतौ पुमान्’ (’ इति मेदिनी) ॥
सेनामुखम् पेति । तिस्रः पत्तयः सेनामुखम् । त्रिभिः सेनामुखैर्गुल्मः त्रयो गुल्मा गणः । त्रयो गणा वाहिनी । तिस्त्रो वाहिन्यः पृतना । तिस्रः पृतनाश्चमूः । तिस्रश्चम्वोनीकिनी । सेनाया मुखमुपक्रमः ॥
सेनारक्षाः सेनेति । सेनां रक्षन्ति । ‘कर्मण्यण्’ (३.२.१) ॥
सेवकः सेवेति । सेवते । ‘सेवृ सेवने’ (भ्वा० आ० से०) । ण्वुल् (३.१.१३३) । ‘सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजीविनि’ (इति मेदिनी) ॥
सेवा सयिति । सेवनम् । ‘षेवृ सेवने’ (भ्वा० आ० से०) । ‘गुरोश्व हलः’ (३.३.१०३) इत्यः ॥
सेव्यम् सेवितुमर्हम् । ‘षेवृ सेवने’ (भ्वा० आ० से०) । अर्हे ण्यत् (३.३.१६९) । ‘सेव्यं क्लीबमुशीरे स्यात्सेवार्हे पुनरन्यवत्’ (इति मेदिनी) ॥
सैकतः एवमिति । एवं सिकता’ सिकतिलः इतीमौ देश एव । ‘सैकतः’ सिकतावान्’ इति तु देशादेशयोः । केचित्तु सिकताशर्कराशब्दौ बहुवचनान्तावाहु ॥
सैकतम् सैकतमिति । सिकताः सन्त्यस्मिन् । सिकताशर्कराभ्यां च’ (५.२.१०४) इति मत्वर्थेऽण् ॥
सैतवाहिनी सितानि वाहनानि यस्यार्जुनस्य । तस्येयम् । यद्वा सितस्यार्जुनस्येयम् । सैती चासौ वाहिनी नदी च ॥
सैनिकाः ‘रक्षति’ (४.४.३३) इति ठक् । ‘सैनिकः सैन्यरक्षे च स्यात्सेनासमवेतके’ (इति मेदिनी) ॥
सैनिकाः पक्षे ठक् (४.४.१) ॥
सैन्धवः सिन्धुषु भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सैन्धवस्तु सिन्धुदेशोद्भवे हये । मणिमन्थेऽपि’ इति हैमः ॥
सैन्धवः सैन्धेति । सिन्धुषु भवः । ‘कच्छादिभ्यश्च’ (४.२.१३३) इत्यण् । ‘सेन्धवस्तु सिन्धुदेशोद्भवे हये । माणिमन्थेऽपि’ इति हेमचन्द्रः ॥
सैन्यः सेनेति । सेनायां समवैति । ‘सेनाया वा’ (४.४.५५) इति ण्यः । ‘सैन्यं सैनिकसेनयोःइति हैमः ॥
सैन्यपृष्ठः सैन्येति । सैन्यस्य पृष्ठे धनुःशतद्वयान्तरे स्थितं सैन्यम् ।
सैन्यम् सेनैव । चतुर्वर्णादित्वात् (वा० ५.१.१२४) ष्यञ् ॥
सैरन्ध्री सायिति । सीरं धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । मूलविभुजादिकः (वा० ३.२.५) । बाहुलकान्मुक् । सीरंन्ध्रस्येयम् । ‘तस्येदम्’ (४.३.१२१) इत्यण् । शिल्पकरणात् कर्षकस्त्रीव यद्वा स्वैरं स्वाच्छन्द्यं धरति । प्राग्वत् कः । पृषोदरादिः । (६.३.१०९) । गौरादिः (४.१.४१) । ‘सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम्’ इति दन्त्यादौ रभसः । ‘चतुःषष्टिकलाभिज्ञा । शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरन्ध्री परिकीर्तिता’ । इति कात्यः । (‘सैरिन्ध्री’ इति) इकारमध्यपाठे पृषोदरादित्वं (६.३.१०९) बोध्यम् ॥
सैरिकः सीरेण ॥ ‘तेन दीव्यति खनति-’ (४.४.२) इति ठक् ॥
सैरिभः सीरोऽस्त्येषाम् । इनिः (५.२.११५) । सीरिणां कर्षकाणामिभ इव । शकन्थ्वादिः (वा० ६.१.९४) । प्रज्ञाद्यण् (५.४.३८) । यद्वा ‘सीरोऽर्कहलयोः पुंसि’ (इति मेदिनी) । सीरस्य सूर्यस्य इभ इव । पुत्रवाहनत्वात् । पूर्ववत् ॥
सैरीयकः सैरीयेति । सीरे भवः । तत्र भवः’ (४.३.५३) इत्यण् । कर्षः । तत्र भवः । ‘वृद्धाच्छः’ (४.२.११४) । ‘संज्ञायां कन्’ (५.३.७५) । ‘सैरेयकः’ इति पाठे ‘नद्यादिभ्यो ढक्’ (४.२.९७) । ‘सैरीयकः सहचरः सैरेयश्च सहाचरः । पीतो रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् । पीतः कुरुण्टको ज्ञेयो रक्तः कुरुवकः स्मृतः । नील आर्तगलो दासीवाणा ओदनपाक्यपि ॥
सैहिकेयः सिंहिकाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ।
सोत्प्रासम् उत्प्रासनम् । ‘असु क्षेपणे’ (दि० प० से०) । घञ् (३.३.१८) । उत्प्रास उपहासः । तत्सहितम् ॥
सोदर्यः ‘विभाषोदरे’ (६.३.८८) इति समानस्य वा सः । ‘सोदराद्यः’ (४.४.१०९) ॥
सोपप्लवः उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि’ । सहोपप्लवेन । ‘वोपसर्जनस्य (६.३.८२) इति सभावः ।
सोपानम् सह विद्यमान उप उपरि आनो गमनमनेन ॥a
सोमः “अमृतं सूते सोमः । अर्तिस्तुसू-’ (उ० १.१४०) इत्यादिना मन् । ‘सोमस्त्वोषधीतद्रसेन्दुषु । दिव्यौषध्यां घनसारे समीरे पितृदैवते । वसुप्रभेदे सलिले वानरे किंनरेश्वरे’ इति हैमः । सोमा नकारान्तोऽपि । नामन्सीमन्सोमन्-’ इत्यादिना दशपाद्यां निपातनात् । यत्तु मुकुटेनोक्तम् — सूयते जायते ‘नवो नवो भवति जायमानः इति श्रुतेः, सूयते यज्ञाङ्गस्थानं वा करोति, सूतेऽमृतं वा सोम इति षुञ् अभिषवे’ । ‘षू प्रेरणे’ वा – इति । तन्न । सूयतेः सकर्मकत्वेन जायते इति प्रातिपदासम्भवात् । श्रुत्युपन्यासोऽप्यसम्बद्धः । जायमान इति जनेरकर्मकस्य ग्रहणात् । एतेनैव स्वाम्युक्तिरपि प्रत्युक्ता । सूयत इत्यस्य यज्ञाङ्गस्थानं वा करोति इत्यर्थकथनमप्यसंगतम् । प्राणिगर्भविमोचनार्थकस्य तदसम्भवात् । सुनोतेः सुवतेश्चोपन्यासः पूर्वान्वयी स्वतन्त्रो वा । नाद्यः । षङा विगृह्य तदुपन्यासस्यासंगतत्वात् । द्वितीयेऽपि ‘अर्ति-स्तु-’ इति हस्वस्य ग्रहणे सुवतेरुपन्यासोऽसंगतः । दीर्घग्रहणे सुनोतेरुपन्यासोऽसंगतः ।”
सोमपः सोमं पिबति । आतोऽ- नुप-’ (३.२.३) इति कः । (‘सोमपाः’ इति) दीर्घ पाठे तु क्विप् (३.२.७६) ॥ सर्वदायम् । दीक्षितस्तु तत्कालम् ।
सोमपीथिन् सविति । सोमस्य पीतम् । सोमपीतमस्यास्ति । इनिः (५.२.११५) — ‘इष्टादिभ्यश्च’ (५.२.८८) इतीनिः इति मुकुटः । स्वामी तु-पानं पीथम् । ‘पातॄतुदिवचि-’ (उ० २.७) इति थक् । ’घुमास्था–’ (६.४.६६) इतीत्वम् । ‘सोमपीथः-इत्याह ।
सोमराजी सोम इव सोमेन वा राजति । ‘राजृ दीप्तौ’ (भ्वा० उ० से०) । ‘उपमाने (३.२.७९) इति ‘सुप्यजातौ-’ (३.२.७८) इति वा णिनिः ॥
सोमवल्कः सोम इव वल्कोऽस्य । ‘सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ॥
सोमवल्लरी सोमस्य वल्लरी ॥
सोमवल्लिका सोमस्य वल्लिः । स्वार्थे कन् (५.३.७५) ॥
सोमवल्ली सोमस्य वल्ली ॥
सोमोद्भवा सोमात्सोमवंशजात् पुरूरवस उद्भवति । तेनावतारितत्वात् । यद्वा सोमोऽमृतमुद्भवत्यस्याः । स्वर्गप्रदत्वात् । अप् (३.३.५७) । सोमाद्रुद्राद्भवति । पचाद्यच् (३.१.१३४) ॥
सोल्लुण्ठनम् सोल्लुण्ठनमिति । ‘लुठि आलस्ये प्रतीघाते च’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । उल्लुण्ठनेन सहितम् ॥
सौगन्धिकः सौगन्धिकमिति । सुगन्ध्येव । स्वार्थे विनयादिभ्यष्ठक् (५.४.३४) । शोभनो गन्धः प्रयोजनमस्य । प्रयोजनम्’ (५.१.१०९) इति ठक् इति वा । ‘सौगन्धिकं तु कह्लारे पद्मरागे च कत्तृणे । (पुंलिङ्गो गन्धपाषाणे सुगन्धव्यवहारिणि) |
सौगन्धिकः शोभनो गन्धोऽस्य । विनयादित्वात् (५.४.३४) स्वार्थे ठक् । ‘आमोदलेशयोर्गन्धः स सुगन्धः सुगन्धकः’ इति रभसः ॥
सौगन्धिका शोभनो गन्धः । सुगन्धः प्रयोजनमस्य । ‘प्रयोजनम् (५.१.१०९) इति ठञ् । ‘सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे । गन्धोत्पले पद्मरागे कह्लारे’ इति हैमः ॥
सौचिकः
- सूची शिल्पमस्य । ‘शिल्पम्’ (४.४.५५) इति ठक् ॥
सौदामनी श्वेतद्विपः सुदामा इति त्रिकाण्डशेषे ऐरावतपर्यायौ । तेनैकदिक् (४.३.११२) इत्यण् । अन्’ (६.४.१६७) इति प्रकृतिभावाट्टिलोपाल्लोपौ न भवतः । ‘सुदाम्नाद्रिणा-’ इति वा । ‘सुदामा तु पुमान्वारिधरपर्वतभेदयोः । सुदाम्नि मेघे भवा वा । ‘सौदामिनी’ इत्यपपाठः ‘सौदामन्यप्सरोभेदे तडित्तद्भेदयोः स्त्रियाम् ।
सौधः सौध इति । ‘सुधा स्त्री लेपने मूर्व्यां स्नुहिगङ्गेष्टिकामृते । सुधा लेपोऽस्यास्ति । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् ॥
सौभागिनेयः सुभगाया अपत्यम् । ‘कल्याण्यादीनामिनङ्’ (४.१.१२६) इति ढक् । ‘हृद्भग-’ (७.३.१९) इत्युभयपदवृद्धिः ॥
सौम्यः सोम इव । सोम्यः । ‘शाखादिभ्यो यः’ (५.३.१०३) । ततः प्राज्ञाद्यण् (५.४.३८) । (‘सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगशिरः शिरःस्थाः पञ्च तारकाः’) ।।
सौरभेयः सुरभ्या अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) । ‘इतश्चानिञः’ (४.१.१२२) इति मुकुटस्य प्रमादः । तत्र ‘द्व्यचः’ इत्यनुवृत्तेः ॥
सौरभेयी सुरभ्या अपत्यम् ॥
सौराष्ट्रिकः एते त्रयः क्लीबपुंसोः । सौराष्ट्रे देशभेदे भवः । अध्यात्मादित्वात् (वा० ४.३.६० ) ठञ् । ‘सारोष्ट्रिकः इति पाठः—इति मुकुटः । सुराष्ट्रे भव इति तु स्वामी ।
सौरिः समाविति । सूरस्यार्कस्यापत्यम् । ‘अत इञ्’ (४.१.९५) । ‘तस्येदम्’ (४.३.१२०) इत्यणि ‘सौरः’ अपि ।
सौवर्चलम् सुवर्चलाया इदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘अथ सौवर्चलं सर्जक्षारे च लवणान्तरे’ (इति मेदिनी) ॥
सौवर्चलम् साविति । सुष्ठु वर्च्यते दीप्यते । ‘वर्च दीप्तौ’ (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । प्रज्ञाद्यण् (५.४.३८) । ‘अथ सौवर्चलं सर्जक्षारे च लवणान्तरे’ (इति मेदिनी) ॥
सौविदः सुविदन्ति । ‘इगुपध-’ (३.१.१३५) इति कः । सुविदा एव । प्रज्ञादित्वात् (५.४.३८) स्वार्थेऽण् । यद्वा सुवेदनम् । सम्पदादि क्विप् (वा० ३.३.१०८) । सुविद् सुज्ञानमस्त्येषाम् । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् । यद्वा सुविदश्चतुराः स्त्रियस्तासामिमे रक्षकाः । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥
सौविदल्लः साविति । सुष्ठु विदन्तं विद्वांसमपि लान्ति वशवर्तिनं कुर्वन्ति । सुविदल्लाः स्त्रियः । तासामिमे रक्षकाः । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥
सौवीरम् सुवीरदेशे भवम् । (‘तत्र भवः’ (४.३.५३) इत्यण् । ‘स्रोतोञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च’ इति दन्त्यादौ रभसः ॥
सौवीरम् सुवीरे देशे भवम् । तत्र ‘भवः’ (४.३.५३) इत्यण् । ‘सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति’ इति विश्वः (मेदिनी) ॥
सौवीरम् सुवीरेषु भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति’ (इति मेदिनी) ॥
सौहित्यम् साविति । सुहितस्य भावः । ष्यञ् (५.१.१२४) ॥
स्कन्दः स्कन्दति । पचाद्यच् (३.१.१३४) ।
स्कन्दः स्कन्द्यते । ‘स्कन्दिर गतिशोषणयोः (भ्वा० प० अ०) । कर्मणि घञ् (३.३.१९) । पृषोदरादिः (६.३.१०९) । यत्तु मुकुटेन–उणादौ स्कन्दिर् धातौ ‘कन्देरच्स्वाङ्गे-’ (उ० ४.२०७) इत्यच् प्रत्ययो धश्चान्तादेशः इत्युक्तम् । तन्न । तत्रासुनो विधानात् । अचोऽविधानात् । ‘स्कन्धः स्यान्नृपतावंसे सम्परायसमूहयोः । काये तरुप्रकाण्डे च भ्रात्रादौ छन्दसो भिदि’ इति धान्तेषु मेदिनी । द्वे मूलमारभ्य शाखावधिभागस्य ।
स्कन्धः स्केति । स्कद्यते । ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । घञ् (३.३.१९) । ‘स्कन्देश्च स्वाङ्गे (उ० ४.२०७) इति बाहुलकादनसुन्यपि धः । ‘स्कन्धः प्रकाण्डे कार्योऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च’ इति हैमः ॥
स्कन्धशाखा स्कन्धेति । स्कन्धजा शाखा ॥
स्खलनम् ‘स्खल संचलने’ (भ्वा० प० से०) । भावे ल्युट् (३.३.११५) ॥ (१)
स्खलितम् अथेति । स्खलम् । ‘स्खल सञ्चलने’ (भ्वा० प० से०) । क्तः (३.३.११४) । ‘स्खलितं छलिते भेषे’ (इति हैमः) ॥
स्तनंधयी स्तनं धयति । ‘धेट् पाने’ (भ्वा० प० अ०) । ‘नासिकास्तनयोः-’ (३.२.१९) इति खश् । धेटष्टित्त्वात् (४.१.१५) ङीप् ॥ एषु त्रिलिङ्गता । ‘त्रिषु जरावराः’ इति वक्ष्यमाणत्वात् । स्त्रीलिङ्गनिर्देशः स्त्रीप्रत्ययप्रदर्शनार्थः ।
स्तनपा स्तनौ पिबति । ‘आतोऽनुप-’ (३.२.३) इति कः । -‘सुपि’ (३.३.४) इति योगविभागात्कः इति स्वामिमुकुटौ चिन्त्यौ ॥
स्तनयित्नुः स्तनयति । ‘स्तनगदी देवशब्दे’ (चु० उ० से०) चुरादावदन्तः । ‘स्तनिहृषि-(उ० ३.२९) इतीत्नुच् । अयामन्ता–’ (६.४.५५) इति णेरय् ।।
स्तनितम् “स्तनितमिति । स्तनगदी देव शब्दे’ (चु० उ० से०) । ‘गर्ज शब्दे’ (भ्वा०, चु० प० से०) । ‘रस शब्दे’ (भ्वा० प० से०) । ‘एभ्यो भावे क्तः’ (३.३.११४) ।”
स्तनौ स्तेति । स्तनति कथयति यौवनोदयम् । स्तन्यते शब्द्यते वा कामुकैः । ‘ष्टन शब्दे’ (भ्वा० प० से०) । अच् (३.११३४) । ‘पुंसि-’ (३.३.११८) इति घो वा ॥
स्तबकः स्तूयते । ‘ष्टुञ् स्तुतौ’ (अ० प० अ०) । ‘कृञादिभ्यः’ (उ० ५.३५) इति वुन् । यद्वा तिष्ठति । ‘स्थः स्तोऽम्बजबकौ’ (उ० ४.९६) ॥
स्तब्धरोमा स्तब्धानि रोमाणि यस्य ॥
स्तभः “स्तेति । स्तभ्नोति । ‘स्तम्भु रोधने (सौत्रः) मूलविभुजादित्वात् (वा० ३.२.५) कः । पचाद्यचि (३.१.१३४) तु नलोपो न स्यात् । तुभ इति पाठे, तोभते । ‘तुफ हिंसायाम्’ (भ्वा० आ० से०) । ‘शुभ’ इति पाठे ‘शुभ हिंसायाम्’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः ॥”
स्तम्बः अप्रकाण्ड इति । न प्रकाण्डोऽस्य ॥ तिष्ठति। ‘ष्ठा गतिनिवृत्तौ (भ्वा० प० से०) । ‘स्थः स्तोऽम्बजबकौ’ (उ० ४.९६) । ‘स्तम्बो गुल्मे तृणादीनामकाण्डद्रुगुच्छयोः ।
स्तम्बः स्तेति । तिष्ठति । अत्र वा । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० अ०) । ‘स्यः स्तोऽम्बजबकौ’ (उ० ४.९६) ॥
स्तम्बकरिः स्तम्बं करोति । ‘स्तम्बशकृतोरिन्’ (३.२.२४) । व्रीहिसाहचर्यात्पुंस्त्वम् ॥
स्तम्बेरमः स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयोः’ (इति विश्वः) । स्तम्बे रमते । ‘स्तम्बकर्णयो रमिजपोः’ (३.२.१३) इत्यच् । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् ॥
स्तवः स्तूयतेऽनेन । ‘ॠदोरप्’ (३.३.५७)
स्तुतिः क्तिनि (३.३.९४) स्तुतिः ॥
स्तुतिपाठकः स्तुतेः पाठकाः ॥
स्तेनः
- स्तेनयति । ‘स्तेन चौर्ये’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) ॥
स्तेयम्
- स्तेनस्य भावः कर्म वा । (यन्नलोपौ) ॥ ‘स्तेयं स्तैन्यं च चौर्ये स्याच्चौरिकाचोरिके स्त्रियाम्’ इति वाचस्पतिः ।
स्तैन्यः
- स्तेनस्य भावः कर्म वा । ‘स्तेनाद्यन्नलोपश्च’ (५.१.१२५) इत्यत्र ‘स्तेनात्’ इति योगविभागात् ष्यञ् ॥
स्तोककः स्तोकं कं जलमस्य । स्तोकं कायति वा । ‘कै शब्दे (भ्वा० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः ॥
स्तोत्रम् ‘दाम्नी-’ (३.२.१८२) इति ष्ट्रनि स्तोत्रम् ॥
स्तोमः स्तूयते । ‘ष्टुञ् स्तुतौ’ (अ० उ० अ०) । ‘अर्तिस्तुसु-’ (उ० १.१४०) इति मन् ॥
स्त्री स्त्रीति । स्त्यायति गर्भाऽस्याम् । ‘स्त्यायतेर्ड्रट्’ (उ० ४.१६६) । टिलोपः (६.४.१४३) । यलोपः (६.१.६६) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् ॥
स्त्रीधर्मिणी स्त्रीधर्मो रजोऽस्त्यस्याः । इनिः (५.२.११५) ॥
स्थण्डिलम् सेति । स्थलन्त्यस्मिन् । ‘ष्ठल स्थाने (भ्वा० प० से०) । ‘मिथिलादयश्च’ (उ० १.५७) इति साधुः ॥
स्थण्डिलशायी य इति । स्थण्डिले शेते । ‘व्रते’ (३.२.८०) इति इनिः॥
स्थपतिः स इति । स यज्वा बृहस्पतिसवनामकयागेनेष्टवान् सन् । स्थानम् स्थः । ‘सुपि स्थः’ (३.२.४) इत्यत्र ‘स्थः’ इति योगविभागात् कः । घञर्थे (वा०३.३.५८) वा । स्थः पतिः स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु (इति मेदिनी) ॥
स्थलम् स्थलमिति । स्थलति । ‘ष्ठल स्थाने’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । यत्तु-स्थल्यतेऽत्र । घञर्थे कः’ (वा० ३.३.५८) इति मुकुटः । तन्न । परिगणनात् ।
स्थली स्थली अकृत्रिमा । ‘जानपद-’ (४.१.४२) इति ङीष् । कृत्रिमा स्थला । स्थलं तूभयसाधारणम् ।
स्थविरः तिष्ठति । ‘अजिरशिशिर-’ (उ० १.५३) इति निपातः । –‘स्थिरादयः इति किरन् इति मुकुटस्त्वपाणिनीयः ॥
स्थाणुः तिष्ठति । स्थाणुः (उ० ३.३७) । (स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे) ।
स्थाणुः स्युरिति । अबन्ध्यादयो विकसितान्तास्त्रीलिङ्गयां स्युः । स्थेति । तिष्ठति । स्थाणुः । यत्तु सुभूतिः - धेन्वादित्वान्नुः णत्वं च - इत्याह । तन्न । ‘स्थोः णुः’ (उ ३.३७) इति सूत्रस्य सत्त्वात् । धेन्वादिसूत्राभावाच्च । ‘वा ना’ इति पुंस्त्वम् । रूपभेदात् क्लीबत्वम् । स्थाणुरस्त्री’ इति वा पाठः । ‘स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे’ इति मेदिनी ॥
स्थाण्डिलः ‘स्थण्डिलाच्छयितरि व्रते’ (४.२.१५) इत्यण् ॥
स्थानम् उपचयापचयाभावः स्थानम् ॥
स्थानीयम् स्थानाय हितम् । ‘तस्मै हितम्’ (५.१.५) इति छः ॥
स्थाने
- स्थानस्य करणम् । स्थानशब्दात् ‘तत्करोति-’ (वा० ३.१.२६) इति णिजन्तादेप्रत्ययः ॥ युक्ते उचितार्थे । ‘स्थाने तु कारणार्थे स्याद्युक्तसादृश्ययोरपि’ (इति मेदिनी) ॥
स्थापत्यः तिष्ठन्त्येषु पुरुषाः । ‘घञर्थे कः’ (वा० ३.३.५८) । स्थानां दाराणां पतयः पालकाः स्थपतय एव । चतुर्वर्णादित्वात् (वा० ५.१.१२४) स्वार्थे ष्यञ् । ‘स्थपतिः कञ्चुकिन्यपि’ (इति मेदिनी) ॥
स्थापनी “स्थापयति । ल्युट् (३.३.११३) । ‘स्थापनं रोपणे, पुंसि वने, पाठौषधौ स्त्रियाम् (इति मेदिनी) ॥”
स्थामन्म् तिष्ठत्यनेन । ‘सर्वधातुभ्यो मनिन्’ (उ० ४.१४५) -‘आतो मनिन्-’ (३.२.७५) इति मुकुटस्तु चिन्त्यः । तस्य कर्तरि विधानात् ॥
स्थायुकः स्थेति । स्थातुं शीलमस्य ‘लषपतपदस्था-’ (३.२.१५४) इत्युकञ् ॥
स्थाली तिष्ठत्यत्रौदनादि । ‘ष्ठा गतिनिवृत्तो’ (भ्वा० प० अ०) । ‘स्थाचति-’ (उ० १.११६) इत्यालच् । स्थलत्यत्र वा । ‘ष्ठल स्थाने’ (भ्वा० प० से०) । ज्वलादीण् (३.१.४०) । ‘जातेः’ (४.१.६३) इति ङीष् । स्थालं च । ‘स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलोखयोः’ (इति मेदिनी) ॥
स्थाविरम् स्यादिति । स्थविरस्य भावः । कर्म वा । युवादित्वात् (५.१.१३९) । अण् ॥
स्थासकः तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (भ्वा० प० से०) । बाहुलकात्सः । स्वर्थे कन् (ज्ञापि० ५.४.५) । ‘स्थासकः पुंसि चार्चिक्ये जलादेरपि बुद्बुधे’ इति मेदिनी ॥
स्थितिः तिष्ठन्त्यत्र । बाहुलकादधिकरणे क्तिन् । स्थानं वा । ‘स्थागापा-’ (३.३.९५) इति क्तिन् ॥
स्थिरा “तिष्ठति । अजिरादित्वात् (उ० १.५३) किरच् । स्थिरा भूशालपर्ण्योर्, ना शनौ मोक्षेऽचले त्रिषु ।”
स्थिरा तिष्ठति । ‘अजिरशिशिर-’ (उ० १.५३) इति साधुः । अन्तर्भावितण्यर्थो वा तिष्ठतिः । ‘स्थिरा भूसालपर्ण्योर्ना शनौ मोक्षेऽचले त्रिषु (इति मेदिनी) ॥
स्थिरायुः स्थिरमायुर्यस्याः । षष्टिं वर्षसहस्राणि वने जीवति शाल्मलिः’ इति वचनात् ॥
स्थूणः
- तिष्ठति । ‘ष्ठा गतिनिवृत्तौ’ (स्वा० प० अ०) । ‘रास्नासास्नास्थूणा (उ० ३.१५) इति साधुः । ‘स्थूणा सूर्यो सूर्म्यां रुगन्तरे’ इति हैमः ॥
स्थूलशाटकः शटती । ‘शट रुजादौ’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । स्थूलश्चासौ शाटकश्च ॥ ‘वराशिर्ना’ इत्यन्वयः ।
स्थौणेयम् स्थूणाया अपत्यम् । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ॥
स्थौरिन् स्थूलस्येदम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । रलयोरेकत्वम् । स्थौरं बलमस्यास्ति । इनिः (५.२.११५) । ‘स्थौरी पृष्ठ्यः पृष्ठवहः’ इति वोपालितः ॥
स्नातकः स्नेति । स्नाति स्म । ‘ष्णा शौचे’ (अ० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘संज्ञायां कन्’(५.३.७५) । ‘स्नाताद्वेदसमाप्तौ’ (ग० ५.४.२९) इति कन्-इति मुकुटः । तन्न । उक्तवचनादर्शनात् ॥
स्नानम् ‘ष्णा शौचे’ (अ० प० अ०) । भावे ल्युट् (३.३.११५) ॥
स्नायुः स्नाति । ‘ष्णा शौचे’ (अ० प० अ०) । बाहुलकादुण् । ‘आतो युक् चिण्कृतोः’ (७.३.३३) ॥
स्निग्धः स्निह्यति । ‘स्निह प्रीतौ’ (दि० प० से०) । ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३.२.१८८) इति चाद्वर्तमाने क्तः ॥
स्निग्धम् स्निह्यति स्म । ‘स्निह प्रीतौ’ (दि० प० से०) । ‘गत्यार्था-’ (३.४.७२) इति क्तः । ‘वा द्रुह-’ (८.२.३३) इति घः ॥
स्नुः “स्नुरिति । स्नौति जलम्, स्नाति वा । ‘ष्णु प्रस्रवणे’ (अ० प० अ०) । ‘ष्णा शौचे’ (अ० प० से०) वा । मितद्रवादित्वात् (वा० ३.२.१८०) डुः ॥”
स्नुक् स्नुह्यति । ‘ष्णुह उद्गिरणे’ (दि० प० से०) । क्विप् (३.२.१७८) । ‘वा द्रुह-’ (८.२.३३) इति कुत्वम् ॥ भागुरिमते टाप् । ‘स्नुही च स्नुहा स्नुग्भा स्नुहू’ इत्यमरदत्तः ॥
स्नुषा समा इति । स्नौति । ‘स्नु प्रस्रवणे’ (अ० प० से०) । स्नुवृश्चिकृत्यृषिभ्यः कित्’ (उ० ३.६६) इति सः ॥
स्नुही ‘इगुपधात् कित्’ (उ० ४.१२०) । वा ङीष् (ग० ४.१.४५) ॥
स्नेहः स्नेहनम् । ष्णिह प्रीतौ (दि० प० से०) । घञ् (३.३.१८) । ‘स्नेहः प्रेम्णि घृतादिके’
स्पर्शः ‘स्पृश संस्पर्शने’ (तु० प० से०) । अकर्तरि च (३.३.१९) इति घञ् । ‘स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके ऋजि’ इति हैमः ।
स्पर्शनः स्पृशति । ‘स्पृश स्पर्शने’ (तु० प० अ०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । ‘स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतम्’ इति विश्वः ।
स्पर्शनम् ‘स्पृश संस्पर्शे’ (तु० प० अ०) । ‘स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्’ इति मेदिनी ॥
स्पशः स्पशति । ‘स्पश बाधनस्पर्शनयोः’ (भ्वा० उ० से०) । अच् (३.१.१३४) । ‘स्पशः स्यात्सम्पराये च प्रणिधावपि पुंस्ययम्’ (इति मेदिनी) ॥
स्पृक्का स्पृश्यते । ‘स्पृश स्पर्शने’ (तु० प० अ०) । बाहुलकात्कक् ॥ पृषोदरादित्वात् (६.३.१०९) सलोपे ‘पृक्का’ अपि ॥
स्पृशी स्पृशति । ‘स्पृश स्पर्शने’ (तु० प० अ०) | ‘इगुपध-’ (३.१.१३५) इति कः । -‘स्पृश बाधनस्पर्शनयोः’ इति मुकुटोक्तं निर्मूलम् । गौरादिः (४.१.४१) ॥
स्पृहा ‘स्पृह ईप्सायाम्’ (चु० उ० से०) । भिदादेराकृतिगणत्वादङ् (३.३.१०६) ।
स्फटा स्फटायामिति । स्फटति । ‘स्फट विकसने’ (चु० प० से०) चौरादिकः । णिजभावे पचाद्यच् (३.१.१३४) । ‘फटा’ इति क्वचित्पाठः । पृषोदरादिः (६.३.१०९) । ‘फटा तु कितके फणे’)
स्फिच् स्त्रीति । स्फायते । ‘स्फायी वृद्धौ’ (भ्वा० आ० से०) । बाहुलकात् डिच् प्रत्ययः । स्फोटयति । ‘स्फिट हिंसायाम्’ (चु० प० से०) । क्विप् (३.२.१७८) । ‘स्फिगपूत-’ (६.२.१८७) इति निपातनाट्टस्य चः इति मुकुटः ॥
स्फुटः स्फुटति । स्फुट विकसने’ (तु० प० से०) । इगुपध-’ (३.१.१३५) इति कः । ‘स्फुटो व्यक्तप्रफुल्लयोः । सिते व्याप्ते’ इति हैमः ॥
स्फुलिङ्गः ‘स्फु’ इत्यनुकरणशब्दः । स्फुना फूत्कारेण लिङ्गति । लिगि गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । स्फुलिंग जातावपि । अजादित्वाट्टाप् ।।
स्फूर्जकः स्फूर्जति । ‘टुओ स्फूर्जा वज्रनिर्घोषे’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) ॥
स्फूर्जथुः स्फूर्जथुरिति । स्फूर्जनं स्फूर्जथुः । टुओस्फूर्जा वज्रनिर्घोषे (भ्वा० प० से०) । ‘ट्वितोऽथुच्’ (३.३.८९)
स्म “- स्यति, ‘षोऽन्तकर्मणि’ (दि० प० अ०) ड्म् प्रत्ययः । ‘स्मिङो ङः’ (वा० ३.२.१०१) वा ॥”
स्म
- स्मयते । ‘स्मिङ् ईषद्धसने’ (भ्वा० आ० से०) । डः (वा० ३.२.१०१) ॥
स्मरः स्मरयत्युत्कण्ठयति । ‘स्मृ आध्याने’ (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) स्मर्यतेऽनेनेति वा । पुंसि संज्ञायाम्-’ (३.३.११८) घः॥
स्मरहरः स्मरं हरति । ’हरतेरनुद्यमनेऽच्’ (३.२.९) ।
स्मितम् स हासो मनागल्पः । ‘स्मिङ् ईषद्धसने’ (भ्वा० आ० अ०) । भावे क्तः (३.३.११४) ‘ईषद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् ।
स्मृतिः स्मृतिरिति । वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिः । ‘स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम्’।
स्मृतिः स्मरणम् । ‘स्मृ आध्याने’ (भ्वा० प० अ०) क्तिन् (३.३.९४) । स्मृतिः स्मरणधीच्छासु शास्त्रे’ इति हैमः॥
स्यदः स्यन्दतेऽनेन । ‘स्यदो जवे’ (६.४.२८) इति घञन्तो निपातितः ।।
स्यन्दनः “स्यन्दते । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । ‘स्यन्दनं तु स्मृतं क्लीबे रथाङ्गे तिनिशे नरि’ इति रभसः । स्यन्दनं तु स्नुतौ नीरे, तिनिशे ना, रथेऽस्त्रियाम् ॥”
स्यन्दनः येति । यान्त्यनेन । ‘या प्रापणे’ (अ० प० अ०) । ‘करणा-’ (३.३.११७) इति ल्युट् । चक्रमस्यास्ति इनिः (५.२.११५) । युद्धायेदम् । तस्मिन् । शतमङ्गान्यवयवा यस्य ॥
स्यन्दनारोहाः स्यन्दनमारोहन्ति । ‘रुह बीजजन्मनि प्रादुर्भावे च’ (भ्वा० प० अ०) । अण् (३.२.१) ॥
स्यन्दिनी अवश्यं स्यन्दते । ‘आवश्यका–’ (३.३.१७०) इति णिनिः । ङीप् (४.१.५) ॥
स्यूतः स्य्विति । सीव्यते स्म । ‘षिवु तन्तुसन्ताने’ (दि० प० से०) । क्तः (३.३.१०२) । ‘च्छ्वोः-’ (६.४.१९) इत्यूठ् । ‘स्योनप्रसेवौ’ इति मुकुटः । तत्रौणादिको नः । ‘स्योनस्यू तप्रसेवकाः’ इति रभसः ॥
स्योनाकः “सीव्यति । षिवु तन्तुसंताने’ (दि० प० से०) । बाहलकान्नः । अन्तरङ्गत्वाद्यण् (६.१.७७) । ‘स्योनः किरणसूर्ययोः’ । तेनाकति, अक्यते, वा । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा ॥ श्यायते । ‘श्यैङ् गतौ’ (भ्वा० प० अ०) । पिनाकादौ (उ० ४.१५) निपातितः । श्योनाकः’ तालव्यादिरपि ॥”
स्रंसी स्रंसयति मलम् । ‘स्रंसु अधःपतने’ (भ्वा० आ० से०) । आवश्यके णिनिः (३.३.१७०) ॥
स्रज् सृज्यते । सृजति सुखं वा । ‘सृज विसर्गे’ (तु० प० अ०) । ‘ऋत्विग्-’ (३.२.५९) इति क्विन् ॥
स्रवद्गर्भा स्रवन् गर्भो यस्याः ॥
स्रवन्ती स्रवति । “लटः शतृ-’ (३.२.१२४) । ‘उगितश्च’ (४.१.६) इति ङीप् । ‘शप्रश्यनोः-’ (७.१.८१) इति नुम् ।
स्रवा स्रवति । ‘स्रु गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) ॥ ‘मधुस्रवा’ इत्येकं नाम-इत्यन्ये ॥
स्रवा स्रवति । ‘स्रु गतौ’ (भ्वा० प० अ०) । अच् (३.१.१३४) ॥ संज्ञापूर्वकत्वाद्गुणाभावे स्रुवाऽपि । ‘स्रुवा द्वयोर्होमपात्रे सल्लकीमूर्वयोः स्त्रियाम्’ (इति मेदिनी) ॥
स्रष्टा सृजति । तृच् (३.१.१३३) ॥ ‘सृजिदृशोः-’ (६.१.५८) इत्यम् ॥
स्राक्
- ‘सै पाके’ (भ्वा० प० अ०) । संपदादिः (वा० ३.३.१०८) । स्रामकति । ‘अक कुटिलायां गतौ’ (भ्वा० प० से०) । क्विप् (३.२.७५) ॥
स्रीपुंसः स्त्रीति । स्त्री च पुमांश्च । ‘अचुतर-’ (५.४.७७) इति अच् ॥
स्रुवः “स्रवति । ‘स्रु स्रवणे’ (भ्वा० प० अ०) । ‘स्रुव कः’ (उ० २.६१) । ‘स्रुवः पुमान् । स्रुवो द्वयोहमपात्रे शल्लकीपूर्वयोः स्त्रियाम्’ (’ इति मेदिनी) ॥ चिक् च’ (उ० २.६२) इति स्रवतेश्चिक्प्रत्ययः । स्रुक् चान्ता ॥ एते च स्रुचो विशेषाः स्त्रियः स्त्रीलिङ्गाः । स्रुवस्तु पुंलिङ्गः । मुकुटस्तु-अन्येभ्योऽपि दृश्यते’ (३.२.१७८) इति क्विप् । दृशिग्रहणाद्विध्यन्तरोपसंग्रहणार्थत्वात् । धातोश्चुगागमः इति व्याख्यत् । तन्न । चिक् च’ (उ० २.६२) इति सूत्रस्य जागरूकत्वात् । क्विबविधानाच्च । यदपि–‘स्रुचः इति बहुवचननिर्देशाद्वहुत्वम्-इति । तदपि न भेदापेक्षया स्रुचः षष्ठ्यन्तत्वात् । यदपि-ध्रुवासाहचर्याद्द्वयोः स्त्रीत्वमेव इति । तदपि न । ’स्त्रियः’ इति विशेषविधेः सत्वात् । यथा स्रुवः’ इति रूपभेदात्पुंस्त्वे सिद्धे ‘ना’ इति पुंस्त्वविधिः तथा ‘स्त्रियः’ इति स्त्रीत्वविधिर्बोध्यः । नच– स्रुचो विधानाभावे पृष्ट्यानुवादः कथम् । ‘चण्डांशोः पारिपार्श्वकाः, ‘मुष्ट्या तु बद्धया’ इत्यादिवदुपपत्तेः । ““स्त्रियाः इत्यस्य षष्ठ्यन्तत्वकल्पनं व्यर्थम्॥ क्वचित् ‘स्रुवः’ इति षष्ठ्यन्तपाठः । स्रवति । क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसम्प्रसारणं च’ (उ० ६.५७) इति क्विब्दीर्घौ । (स्रुः) ॥ यज्ञपात्राणां पृथक् पृथक् ।”
स्रुवावृक्षः स्रुवाया वृक्षः । ‘स्रुवा द्वयोर्होमपात्रे सल्लकीमूर्वयोः स्त्रियाम् ॥
स्रोतः स्रोत इति । स्रवति । ‘स्रु गतौ’ (भ्वा० प० अ०) । स्रुरीभ्यां तुट् च’ (उ० ४.२०२) । इत्यसुन् तुडागमः स्रोतो दन्त्यादिः । ‘स्त्रोतःसद्यःसकलसलिलम्’ इति दन्त्यादिषूष्मविवेकात् । स्रोतोऽम्बुवेग इन्द्रिये । एकम् अकृत्रिम जलवहनस्य ।
स्रोतस्वती स्रोतांसि सन्त्यस्याम् । मतुप् (५.२.९४) । ‘अस्माया-’ (५.२.१२१) इति विनौ तु ‘स्रोतस्विनी’ इत्यपि ।
स्रोतोऽञ्जनम् स्रविति । अज्यते नयनमनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । करणे ल्युट् (३.३.११७) । स्रोतोजमञ्जनम् । शाकपार्थिवादिः (वा० २.१.७८) ॥
स्वः स्वनति । ‘स्वन शब्दे’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
स्वजनः स्व आत्मीयश्चासौ जनश्च ॥
स्वधा
- स्वद्यतेऽनेन । ष्वद आस्वादने’ (भ्वा० प० से०) । आ प्रत्ययः । पृषोदरादित्वात् (६.३.१०९) दस्य धः ॥
स्वधितिः स्वं धियति । ‘धि धारणे’ (तु० प० अ०) । क्तिच् (३.३.१७४) ॥
स्वनः ‘स्वनहसोर्वा’ (३.३.६२) इत्यप् घञौ ॥
स्वप्नः ‘स्वपो नन्’ (३.३.९१) । ‘स्वनः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् ।
स्वभावः स्वो भावः ॥
स्वभूः स्वतो भवति । (भुवः (३.२.१७९) इति क्विप् । (‘स्वभूर्ना ब्रह्मणि हरौ’) ॥
स्वयंभूः स्वयमेव भवति । ‘भुवः-’ (३.२.१७९) इति क्विप् ॥
स्वयंवरा अथेति । स्वयं वृणीते । ‘वृङ् सम्भक्तौ’ (क्र्या० आ० से०) । ‘संज्ञायां भृतॄवृजि-’ (३.२.४६) इति खच् ॥
स्वयम्
- सुष्ठ अयते । ‘अय गतौ’ (भ्वा० आ० से०) । अम् ॥ ‘आत्मना’ इत्यत्रार्थे ।
स्वरः स्वरन्ति शब्दायन्ते । ‘स्वृ शब्दोपतापयोः’ (भ्वा० प० अ०) । पचाद्यच् (३.१. १३४) । यद्वा -स्वर्यन्ते अर्था एभिः । ‘पंसि–’ (३.३.११८) इति घः । यद्वा-स्वेन राजन्ते । राजृ दीप्तौ (भ्वा० उ० से०) । अन्येभ्योऽपि- (वा०३.२.१०१) इति डः । स्वरा अचः । तद्धर्मत्वादुदात्तादयोऽपि । ‘स्वरो नासासमीरे स्यान्मध्यमादित्रिकस्वरे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान् इति विश्वमेदिन्यौ । उत् उच्चैरादीयते उच्चार्यते स्म । क्तः (३.२.१०२) । ‘अच उपसर्गात्तः’ (७.४.४७) ‘उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपि’ इति हैमः ।
स्वरुः स्वरति । स्वृ शब्दोपतापयोः (भ्वा० प० अ०) । ‘शुस्वृस्निहि’ (उ० १.१०) इति उः । (‘स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे’) शोभनान्यरूंषि धारा अस्येति (स्वरुस्) सान्तोऽपि ।
स्वरूपम् स्वं रूपम् ॥
स्वर् “यद्यपि ‘चतुष्टयी शब्दानां प्रवृत्तिः’ इति पक्षे संज्ञाशब्देषु व्युत्पत्तिर्नावश्यकी, तथापि शाकटायनाद्यभिमतत्रयीपक्षे व्युत्पत्तिः प्रदर्श्यते ॥ स्वर्यते स्तूयते इति स्वः । ‘स्वृ शब्दोपतापयोः’ (भ्वा० प० अ०)। ‘अन्येभ्योऽपि दृश्यन्ते’ (३.२.७५) इति विच् । बाहुलकात्कर्मणि गुणः (७.३.८४), रपरत्वम् (१.१.५१) इत्याहुः । तन्न । निर्बीजबाहुलकाश्रयणस्यायुक्तत्वात् । ‘स्वरति शब्दायते’ इति व्युत्पत्तिरप्ययुक्ता । उक्तार्थस्य तत्रासम्भवात् । स्वरत्यप्राप्त्या उपतापयति । ‘नैनं कृताकृते तपते’ इति श्रुतेः । स्वरादि (१.१.३७) पाठादव्ययत्वम् । ‘अव्ययोऽस्त्री शब्दभेदे नाविष्णौ निर्व्यये त्रिषु’ । स्वः शब्दस्य मङ्गलार्थमादौ प्रयोगः (‘स्वः प्रेत्य व्योम्नि नाके च’) ॥”
स्वर्गः सुष्ठु अर्ज्यते स्वर्गः । ‘अर्ज अर्जने’ (भ्वा० प० से०) । कर्मणि (३.३.१९) घञ् । ऋज्यतेऽस्मिन्नितिवा । ‘ऋजगतिस्थानार्जनोपार्जनेषु’ (भ्वा० आ० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् ।
स्वर्जिकाक्षारः अथेति । स्वर्जिकारसजः क्षारः । शाकपार्थिवादिः (वा० २.१.७८) ॥
स्वर्णकारः
- स्वर्णं करोति । अण् (३.२.१) ॥
स्वर्णक्षीरी स्वर्णमिव क्षीरमस्याः । गौरादिः (४.१.४१) ॥
स्वर्णदी स्वः स्वर्गस्य नदी । पूर्वपदात्संज्ञायाम् - (८.४.३) इति णत्वम् ॥
स्वर्णम् स्वेति । सुष्ठु ऋणोति । ‘ऋणु गतौ’ (त० उ० से०) । पचाद्यच् (३.२.१३४) । यद्वा अर्णनम् । घञ् (३.३.१८) । शोभनोऽर्णो गतिरनेन ॥
स्वर्भानुः स्वराकाशे विपरीतलक्षणया भाति । ‘दाभाभ्यां नुः’ (उ० ३.३२ । क्षुभ्नादिः (८.४.३९) ।
स्वर्वेश्या स्वः स्वर्गस्य वेश्याः ।
स्वर्वैद्या स्वद्यावित्यादि । स्वः स्वर्गस्य वैद्यौ ।
स्वसा “सुष्ठु अस्यति, अस्यते वा । ‘असु क्षेपणे’ (दि० प० से०) । ‘सुञ्यसेर्ऋन्’ (उ० २.९६) ॥”
स्वस्तिकः स्वस्तिक इत्यादि । स्वस्ति क्षेमं कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । आतोऽनुप-’ (३.२.३) इति कः । (‘स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः’ ॥
स्वस्रीयः स्वेति । स्वसुरपत्यम् । ‘स्वसुश्छः’ (४.१.१४३) ॥
स्वादुकण्टकः अथेति । कण्टकोऽस्यास्ति । अर्श आद्यच् (५.२.१२७) । स्वादुश्चासौ कण्टकश्च ॥
स्वादुकण्टकः स्वादुः कण्टकोऽस्य ॥
स्वादुरसा स्वादू रसोऽस्याः ॥
स्वाद्वी स्वद्यते । ‘स्वद आस्वादने’ (भ्वा० आ० से०) । ‘कृवापा-’ (उ० १.१) इत्युण् । ‘वोतो गुण-’ (४.१.४४) इति ङीष् ॥
स्वाध्यायः स्वेति । सु अतीव आवृत्त्या अध्ययनम् । ‘इडश्च’ (३.३.२१) इति घञ् । स्वार्थमध्ययनं वा॥
स्वानः ‘स्वनहसोर्वा’ (३.३.६२) इत्यप् घञौ ॥
स्वान्तम् ‘स्वन शब्दे (भ्वा० प० से०) । स्वन्यते स्म । क्षुब्धस्वान्त-’ (७.२.१८) इति मनसि निपातितम् । (‘स्वांन्तं चेतसि गह्वरे)
स्वापः ‘ञिष्वप शये’ (अ० प० अ०) । घञ् (३.३.१८) । ‘स्वापः शयननिद्रयोः । स्पर्शाज्ञतायामज्ञाने’ ॥
स्वापतेयम् स्वापतेयम् ।
स्वाराट् “स्वः स्वर्गे राजते । स्वेषु देवेषु, स्वेन धनेन वा, आ राजते वा । ‘सत्सू-’ (३.२.६१) इति क्विप् । ‘रो रि’ (८.३.१४) इति लोपे ‘ढ्रलोपे-’ (६.३.१११) इति दीर्घः । जान्तः ।”
स्वाहा सुष्टु आहूयन्ते देवा अनया । ‘अन्येभ्योऽपि (वा० ३.२.१०१) इति ङः । स्वाहास्त्यस्या वा । अर्शआद्यच् । (५.२.१२७) ॥
स्वाहा
- स्वादतेऽनेन । ‘स्वाद आस्वादने (भ्वा० आ० से०) । आ प्रत्ययः । पृषोदरादित्वात् (६.३.१०९) दस्य हः । सुष्ठ आ हूयतेऽनेन वा । डा प्रत्ययः ॥
स्वेदः स्विद्यतेऽनेनाङ्गम् । घञ् (३.३.१२१) । ‘स्वेदो घर्मे स्वेदने च’ इति हैमः ।
स्वेदनी स्विद्यतेऽस्मात् । अधिकरणे ल्युट् (३.३.११७) । -‘वा स्त्रियाम्’ इत्यन्वयात् ‘स्वेदनः’ अपि–इति मुकुटः ॥
स्वैरिणी “स्वया, इच्छया स्वेन स्वातन्त्र्येण, वा ईरितुं शीलमस्याः । ‘इर गतौ’ (अ० अ० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘स्वादीरिणोः’ (वा० ६.१.८९) इति वृद्धिः ॥”
ह
- हन्ति । डः (वा० ३.२.१०१) । (‘ह स्यात्सम्बोधने पादपूरणे च विनिग्रहे । नियोगे च क्षिपायां स्यात्कुत्सायामपि दृश्यते’ इति मेदिनी) ॥
हंसः हन्ति । वृतॄवदिहनि- (उ० ३.६२) इति सः । ‘हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मनि मत्सरे । योगिभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरंगमप्रभेदे च’ ।
हंसः हंसा इति । हन्ति गच्छति । ‘वृतॄवदिहनि-’ (उ० ३.६२) इति सः । यद्वा अचि (३.१.१३४) ‘भवेद्वर्णागमाद्धंसः’ इति सक् । ‘हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मन्यमत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरंगमप्रभेदे च’ (इति मेदिनी) ॥
हंसकः हंसेति । हंस इव कायति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । हंस इव । ‘इवे-’ (५.३.९६) इति कन् वा ॥
हञ्जिका “हञ्जीति । हन्ति रोगान् । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘अङ्गारवल्ली हञ्जी च वर्दो वर्वरकस्तथा (इति निघण्टुः) ॥ भनक्ति रोगान् । ‘भञ्जो आमर्दने’ (रु० प० अ०) । ण्वुल् (३.१.१३३) वा । पृषोदरादिः (६.३.१०९) । (फञ्जिका, इति वा इति मुकुटः) ॥”
हञ्जे हञ्जे इत्यत्र डस्य जोऽपि ॥
हट्टविलासिनी हट्टे विलसति तच्छीला । ‘लस क्रीडायाम्’ (भ्वा० प० से०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥
हठः हठनम् । ‘हठ प्लुतिशठत्वयोः’ (भ्वा० प० से०) । ‘पुंसि-’ (३.३.११८) इति ‘खनो घ च’ (३.३.२५) इति वा घः । ‘हठः स्यात्प्रसभे पृश्न्याम्’ ‘हेठो बाधाविहठयोः’ इति मेदिनी ॥
हण्डे हञ्जे इत्यत्र डस्य जोऽपि ॥
हनुः केचित्तु - इदं द्वयं पूर्वान्वयि – इत्याहुः ॥ हन्ति । ‘शॄस्वॄस्निहि-’ (उ० १.१०) इत्युः । ‘हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे’ (इति मेदिनी) ॥
हनुः तदिति । ताभ्यां कपोलाभ्यां परः । हन्ति । ‘शुस्वृस्निहि’ (उ० १.१०) इत्युः । ‘हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे’ (इति मेदिनी) ॥
हयः हयति । ‘हय गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । हिनोति वा । ‘हि गतौ’ (स्वा० प० अ०) । अच् (३.१.१३४) ॥
हयपुच्छी हयेति । हयपुच्छमिव पर्णान्यस्याः । गौरादिः (४.१.४१) ॥
हयमारकः हयानां मारकः ॥
हरः हरति । पचाद्यच् (३.१.१३४) । (‘हरो नाशकरुद्रयोः । वैश्वानरेऽपि च । हीरः अपि । “हीरः कपर्दी शमिरः इति संसारावर्तात् । (‘हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः ।)
हरणः ह्रियते । कर्मणि ल्युट् (३.३.११३) ‘हरणं यौतकादीनां द्रव्ये भुजे हृतावपि’ (इति मेदिनी) ॥
हरिः हरति । ‘अच इः’ (उ० ४.१३९) । ‘हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु । कपौ सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत् पिङ्गहरितोः (इति मेदिनी) ॥
हरिचन्दनः हरेरिन्द्रस्य चन्दनम् । हरिः कपिलवर्णं चन्दनम् । ‘हरिचन्दनमस्त्री स्यात्त्रिदशानां महीरुहे । नपुंसकं तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि’ (इति मेदिनी) ॥
हरिचन्दनम् चन्दयति । चदि आह्वादने’ (भ्वा० प० से०) । ण्यन्तः (३.१.२६) । ल्युः (३.१.१३४) । हरेश्चन्दनः । ‘हरिचन्दनमस्त्री स्यात्रिदशानां महीरुहे । नपुंसकं तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि’ ।
हरिणः हरति मनः । ‘श्यास्त्याहृञ्विभ्य इनच्’ (उ० २.४६) । हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति । सुवर्णप्रतिमायां च हरितावृत्तभेदयोः’ इति हैमः ।
हरिणः “हरति मनः, ह्रियते गीतेन वा । ‘श्यास्त्याह- विभ्य इनच्’ (उ० १.४६) । ‘हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्णप्रतिमायां च’ (इति मेदिनी) ॥”
हरितः हरन्ति नयन्त्यनया । ‘हृसृरुहियुषिभ्य इतिः’ (उ० १.९७) । ‘हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे’ । ता इत्यनेन स्त्रीत्वं व्यनक्ति । दिशां बहुत्वाद्बहुवचनम् ।
हरितः ‘वश्याभ्यामितन्’ (उ० ६३.९३) । ‘हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्’ ॥ (२) हृस्रूरुहियुषिभ्य इतिः (उ० १.९७) । हरित् । (‘हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च’)
हरितकम् “हरितो वर्णोऽस्यास्ति । अर्शआद्यच् (५.२.१२७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । हरति, ह्रियते वा । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । ‘हृश्याभ्यामितन्’ (उ० ३.९३) । कन् (ज्ञा० ५.४.५) ॥”
हरितालकम् हरितं वर्णमालाति । ‘आतोऽनुप-’ (३.२.३) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘हरितालमलं तालवर्णकं नटभूषणम्’ इति माधवः । ‘हरिताले तु कर्वूरं गोदन्तो नटसंज्ञकः’ इति त्रिकाण्डशेषः ॥
हरित् ‘वश्याभ्यामितन्’ (उ० ६३.९३) । ‘हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्’ ॥ (२) हृस्रूरुहियुषिभ्य इतिः (उ० १.९७) । हरित् । (‘हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च’)
हरिदश्वः हरितोऽश्वा यस्य ।
हरिद्रा हरिं वर्णं द्राति । ‘द्रा कुत्सायां गतौ’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । हरिभिर्द्रूयते वा । हरितं द्रवति वा । ‘द्रु गतौ’ (भ्वा० प० अ०) । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥
हरिद्राभः हरिद्रेवाभा दीप्तिरस्य ।
हरिद्रुः हरिः पिङ्गः पीतो वा द्रुरस्य । ‘हरिद्रुः पीतचन्दनम्’ इति निघण्टुः ॥
हरिन्मणिः हरिद्वर्णो मणिः । शाकपार्थिवादिः (वा० २.१.७८) ॥
हरिप्रिया हरेः प्रिया ॥
हरिमन्थकः हरीणां मन्थं जनयति । ‘अन्येष्वपि’ (३.२.१०१) इति डेः-इति मुकुटः । तन्न । ‘हरिमन्थजः’ इति पाठप्रसङ्गात् । हरिभिर्मथ्यते । ‘मन्थ विलोडने (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥
हरिवालुकम् हरिवर्णं बालुकम् ॥
हरिहयः हरिर्हयो यस्य । ‘त्वक्केशवाल-रोमाणि सुवर्णाभानि यस्य तु । हरिः स वर्णतोऽश्वस्तु पीतकौशेयसप्रभः’ इति शालिहोत्रम् ।।
हरीतकी द्वीति । द्वाभ्यां स्त्रीपुंसाभ्यां हीनं फले पुष्पे पत्रे च । वक्ष्यमाणमश्वत्थादि फलपुष्पादिषु वर्तमानं नपुंसकं लिङ्गं ज्ञेयमित्यर्थः । विकारावयवयोरुत्पन्नस्य प्रत्ययस्य ‘फले लुक्’ (४.३.१६३) । ‘पुष्पमूलेषु बहुलम्’ (वा० ४.३.१६६) इति लुक् ।
हरीतकी हरिर्वर्ण इतो यस्याम् । ‘संज्ञायां कन्’ (५.३.७५) । गौरादिः (४.१.४१) ॥
हरेणुः हरति । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । ‘कृहृभ्यामेणुः’ (उ० २.१) । ‘हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके इति रभसात्पुंसि ॥
हरेणू हरति । ‘कृहृभ्यामेणुः’ (उ० २.१) । ‘ढ्रलोपे-’ (६.३.१११) इति दीर्घः । ‘कषायेऽपि हरेणुर्ना रेणुकायां स्त्रियां भवेत्’ इति रुद्रः ॥
हर्म्यम् हर्म्येति । हरति मनः । ’हृञ् हरणे’ (भ्वा० उ० अ०) । अघ्न्यादित्वात् (उ० ४.११२) यत् मुट् च ॥
हर्यक्षः हरिणी पिङ्गले अक्षिणी यस्य । ‘बहुव्रीहौ०’ (५.४.११३) इति षच् ॥
हर्षः ‘हृष तुष्टो’ (दि० प० से०) । घञ् । (३.३.१८)
हलम् हलति । ‘हल विलेखने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘ज्वलिति-’ (३.१.१४०) इति णे ‘हालः’ अपि । ‘हालः फालवहः सीता’ इति विक्रमादित्यः ॥
हला हलति । ‘हल विलेखने’ (भ्वा० प० से०) । बाहुलकादाप्रत्ययः ।
हलायुधः हलमायुधं यस्य ।
हलाहलः “हलति जठरम् ‘हल विलेखने’ (भ्वा० प० से०) । न हलति आहलति वा अच् (३.१.१३४) । अहलम् आहलम्, वा । ततः कर्मधारयः हाला इव, हलतीति वा । हलमिव हलति । अच् (३.१.१३४) प्रज्ञाद्यण् (५.३.३८) । हालाहलं हालहलं वदन्त्यपि हलाहलम्’ इति द्विरूपकोषः । ‘गोनासगोनसौ हालाहलं हालहलं विषम्’ इति त्रिकाण्डशेषः । ‘हलाहलस्तु हयलालोरगे विषे । ज्येष्ठ्यां च’ इति हैमः ।”
हलिप्रियः हलिनः प्रियः । सुराया अधिवासनात् ॥
हलिप्रिया
- हलिनो बलस्य प्रिया ॥
हली हलमस्त्यस्य । (‘हली कृषकसीरिणोः’)
हल्यम् हलेन कृष्टम् । ‘मतजनहलात्करणजल्पकर्षेषु’ (४.४.९७) इति यत् ॥ हल्येन तुल्यम् । ‘तेन तुल्यम्’ (५.१.११५) इति वतिः ।
हल्लकम् हल्लकमिति । हल्लति । ‘हल्ल विकसने । ण्वुल् (३.१.१३३) । यद्वा हलनम् । सम्पदादिः (वा० ३.३.१०८) । हलं लाति ‘ला दाने (अ० प० अ०) ‘आतोऽनुप-’ (३.२.३) इति कः । ‘संज्ञायां कन्’ (५.३.७५) ॥
हविः हूयते । ‘हु दानादौ’ (जु० प० अ०) । ‘अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः’ (उ० २.१०८) इतीसिः । ‘हविः सर्पिषि होतव्ये’ इति हैमः ॥
हविस्म् हूयते । ‘अर्चिशुचि-’ (उ० २.१०८) इतीसिः ॥ सांनाय्यं हविर्विशेषः ॥
हव्यम् “हेति । हूयन्ते प्रीण्यन्ते देवा येन । हूयते प्रक्षिप्यते, वा । हु दानादनयोः’ (जु० प० अ०) ।‘अचो यत् (३.१.९७) ॥”
हव्यवाहनः “हव्यं वाहयति । ण्यन्ताद्वहेः (भ्वा० उ० अ०) ल्युः (३.१.१३४) यत्तु स्वामी–‘हव्यं वाहयति’ इति विगृह्य ‘हव्यपुरीषपुरीष्येषु ञ्युट् (३.२.६५) इत्याह । तन्न । उदाहृतपाठस्यानुपलम्भात् । ‘कव्यपुरीषपुरीष्येषु-’ इति पाठस्योपलम्भात् । ‘वहश्च (३.२.६४) इत्यनुवृत्तेर्यन्तादसम्भवाच्च । मुकुटोऽपि ‘वाहयति’ इति विगृह्य ‘हव्येऽनन्तः पादम्’ (३.२.६६) इति वहेर्ञ्युट्-इत्याह तदपि न । ञ्युटश्छान्दसत्वात् ““वहश्च (३.२.६४) इत्यनुवृत्तेर्ण्यन्तादसम्भवाच्च ।”
हसः अथविति । हसनम् । ‘हसे हसने’ (भ्वा० प० से०) । ‘स्वनहसोर्वा’ (३.३.६२) इत्यप् । हसः ।
हसनी ‘कृत्यल्युटः’ (३.३.११३) इति ल्युट् । ‘टिड्डा-’ (४.१.१५) इति ङीप् ॥
हसन्ती हसति । ‘हसे हसने’ (भ्वा० प० से०) । ‘लटः शतृ-’ (३.२.१२४) । ‘शपुश्यनोः’ (७.१.८१) इति नुम् । ‘हसन्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः’ इति विश्वः ॥
हस्तः “प्रेति । बाहौ प्रसारितपाणौ हस्तः । हसति, हस्यतेऽनेन वा । ‘हसे हसने’ (भ्वा० प० से०) । ‘हसिमृगॄ-’ (उ० ३.८६) इति तन् । ‘हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते’ (इति मेदिनी) ॥ विस्तृतः करो यस्य तस्मिन् ।”
हस्तः “हसति, हस्यते वा । ‘हसे हसने’ (भ्वा० प० से०) । ‘हसिमृग्रिण्-’ (उ० ३.८६) इति तन् । ‘हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते’ (इति मेदिनी) ॥”
हस्तिनखः कूटमिति । हस्तिनो नख इव । हस्तिना न खन्यते । इति वा । ‘खनु अवदारणे’ (भ्वा० उ० से०) । ‘अन्येभ्योऽपि (वा० ३.२.१०२) इति डः ।
हस्तिपकाः हस्तिनं पान्ति । ‘पा रक्षणे’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥
हस्ती हस्तः शुण्डास्यास्ति । ‘हस्ताज्जातौ’ (५.२.१३३) इतीनिः ॥ एवम् ‘करी’ च ॥
हस्त्यारोहाः हस्तिनमारोहयन्ति । ‘कर्मण्यण्’ (३.२.१) ॥
हाटकम् हटति । ‘हट दीप्तौ’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । हाटयति वा । क्वुन् (उ० २.३२) ॥
हायनः “भावाञ्जहाति, जिहीते वा । ‘हश्च व्रीहिकालयोः’ (३.१.४८) इति ण्युट् । ‘हायनः स्त्री’ इतिं पाठे शरदा सम्बन्धः । ‘हायनो न स्त्रियां वर्षे पुंस्यर्चिव्रीहिभेदयोः ।”
हारः हेति । ह्रियते मनोऽनेन । ह्रियते वा । घञ् (३.३.१९) यद्वा हारयति मनः । स्वार्थण्यन्तादच् (३.१.१३४) । ‘हारो मुक्तासरे युधि’ (इति मेदिनी) ॥
हारीतः तेषामिति । एते पक्षिणां भेदाः । ‘हारिः पथिकसंतानद्यूतादिभङ्गयोः स्त्रियाम्’ (इति मेदिनी) । हारिमितईतो वा । हारोऽस्त्यस्मिन् । इनिः (५.२.११५) । हारि मनोहरम् इतं गमनमस्य । यद्वा हारयति । क्विप् (३.२.१७८) । एति स्म । ‘ई गतौ’ (अ० प० अ०) ‘गत्यर्था-’ (३.४.७२) इति क्तः । हा चासावीतश्च । ‘हरीतो विहगान्तरे । मुनौ छद्मनि’ इति हेमचन्द्रः । (‘हरीयाल’ इति ख्यातः) ॥
हार्दम् हृदयस्य कर्म । युवादित्वात् (५.१.१३०) अण् । ‘हृदयस्य हृल्लेख-’ (६.३.५०) इति हृदादेशः ।
हाला
- हलत्यङ्गम् । ‘हल विलेखने’ (भ्वा० प० से०) । ज्वलादित्वात् (३.१.१४०) णः । हल्यतेऽनया वा । ‘हलश्च’ (३.३.१२१) इति घञ् । ‘हालः | सातवाहनपार्थिवे । हाला सुरायाम्’ इति विश्वः (हैमः) ॥
हालिकः खेति । हलेन ॥ ‘तेन दीव्यति खनति-’ (४.४.२) इति ठक् ॥
हासः घञि (३.३.१८) हासः ॥
हास्तिकम् हेति । हस्तिनां समूहः । ‘अचित्तहस्तिधेनोष्ठक्’ (४.२.४७) ॥
हास्यम् ण्यति (३.१.१२४) हास्यम् ।
हाहा “अव्युत्पत्तिपक्षे ‘आतो धातोः’ (६.४.१४०) इत्यस्याप्राप्तेः शसि हाहान्, ‘ओः सुपि’ (६.४.८३) इत्यस्याप्राप्तेर्हूहून्, इत्यादि । यत्तु - ‘आतो धातोः (६.४.१४०) इति योगविभागादाकारलोपः इति मुकुटेनोक्तम् । तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् । अप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यञ्जकशब्दं जहाति । ‘ओहाक् त्यागे’ (जु० प० अ०) । विच् (३.२.७२) । शसि हाहः । हू इति ह्वयति । ह्वेञः (भ्वा० उ० अ०) । क्विप् (३.२.१७८) । ‘वचिस्वपि-’(६.१.१५) इति संप्रसारणम् । हलः’ (६.४.२) इति दीर्घः । बाहुलकाड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहूरपि बोध्यः । हाहाः सान्तोऽपि । गन्धर्वो वीतिहाहसोः’ इति संसारावर्तात् । ‘गन्धर्वो हाहसि प्रोक्तः’ इति रत्नकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह । ‘हहाः’ इत्यादिह्रस्वः । ‘हुहुः’ इत्युभयह्रस्वश्च । ‘हंसो हहाहुहू च द्वौ वृषणश्वश्च तुम्बुरुः’ इति शब्दार्णवात् । गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू’ इति व्यासोक्तेश्च ।”
हि
- हिनोति । क्विपि तुगभावः ॥
हिङ्गु हिनोति । ‘हि गतौ वृद्धौ च’ (स्वा० प० अ०) । हिमं गच्छति वा । मृगय्वादिः (उ० १.३७) ॥
हिङ्गुनिर्यासः हिङ्ग्वाकारो हिङ्गुगन्धो वा निर्यासोऽस्य । ‘हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च’ इति मेदिनी ॥
हिङ्गुली हिङ्गु लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादि ङीष् (४.१.४१) ‘हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली’ (इति मेदिनी) ॥
हिज्जलः हिनोति । ‘हि गतौ वृद्धौ च’ (स्वा० प० अ०) । क्विप् (३.२.१७८) । हित् जलमस्य ॥ ‘इज्जलः’ इत्यपि पाठः । एति । ‘इण् गतौ’ (अ० प० अ०) । क्विप् (३.२.१७८) । तुक् (६.१.७१) । इत् जलमस्य । ‘निचुलेज्जलहिज्जलाः’ इति रभसः ॥
हिण्डीरः हीति । ‘हिण्डी’ इति ‘हिण्डी’ इति वा शब्दमीरयति । ‘ईर गतौ गतौ कम्पने च’ (अ० आ० से०) । अच् (३.३.१३४) । अण् (३.२.१) वा । हादिः । (डिण्डीरः) । डादिर्वा पाठः ॥
हिन्तालः एत इति । एते नालिकेराद्यास्त्रयो हिंतालेन चतुर्थेन सहिताः खर्जुराद्याश्च चत्वारः । तृणजातीया द्रुमाः । शाकपार्थिवादिः (वा० २.१.६०) । हीनोऽल्पस्तालः। पृषोदरादिः (६.३.१०९) ॥
हिमः हन्ति । ‘हन्तेर्हि च’ (उ० १.१४७) इति मक् । हनोति वर्धते । ‘हि गतौ वृद्धौ च’ (स्वा० प० अ०) । मन् (उ० १.१४१ । बाहुलकेन) इति वा । संज्ञापूर्वकत्वान्न गुणः । ‘हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गं स्यात् ।
हिमम् हन्ति ‘हन्तेर्हि च’ (उ० १.१४७) इति मक् । हनोति वर्धते । ‘हि गतौ वृद्धौ च’ (स्वा० प० अ०) । मन् (उ० १.१४१ । बाहुलकेन) इति वा । संज्ञापूर्वकत्वान्न गुणः । ‘हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गं स्यात् ।
हिमवान् हिमेति । हिममस्मिन्नस्ति । मतुप् (५.२.९५) ॥
हिमवालुका हिमा चासौ वालुका च ॥ ‘वेणुसारस्तु (रेणुकावर्ण) कर्पूरो चन्द्रभस्म हिमाह्वयम् । वेधकः’ इति त्रिकाण्डशेषः ।
हिमसंहतिः अथेति । हिमानां संहतिः ।
हिमांशुः हिमांशुरित्यादि । हिमा अंशवो यस्य ।
हिमानी महद्धिमम् । हिमारण्ययोर्महत्त्वे’ (वा० ४.१.४९) इति ङीषानुकौ ।
हिमावती हिममस्त्यस्याः । मतुप् (५.३.९४) । ‘शरादीनां च (६.३.१२०) इति दीर्घः ॥ ‘हेमवर्णं पयस्तस्या हिमवधूमिसम्भवा । सा नागजिह्निकाकारा तन्मूलं वणिजौषधम् ॥
हिरण्यगर्भः हिरण्यं हिरण्यमण्डं तस्य गर्भ इव । ‘तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्’ इति मनूक्तेः । तद्वा गर्भेऽस्य ॥
हिरण्यम् हिरण्यम् ।
हिरण्यम् हिरण्यम् ।
हिरण्यम् हिरण्यम् ।
हिरण्यरेताः हिरण्यं रेतोऽस्य । सान्तः’हिरण्यरेताः पुंसि स्याद्दिवाकरहविभुजो ‘।
हिरण्यवाहः हिरण्यं वाहावस्य ॥ हिरण्यं वहति । ‘कर्मण्यण्’ (३.२.१) । अदन्तः (हिरण्यवाहः) ॥ द्वे नरविशेषस्य ।
हिरुक्
- हिनोति । ‘हि गतौ’ (स्वा० प० अ०) । रुकक् प्रत्ययः ॥
हिरुक्
- हिनोति । रुकक् प्रत्ययः । ‘हिरुक् मध्ये विनार्थे च’ इति रुद्रः । ‘हिरुगुक्तं च सामीप्ये’ इत्यमरमाला ॥
हिलमोचिका हिलेति । हिलति । ‘हिल भावकरणे’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । मोचयति । ण्वुल् (३.१.१३३) । हिला चासौ मोचिका च । ‘ङ्यापोः (६.३.६३) इति ह्रस्वः ॥
ही
- हननम् । बाहुलकाड्डी ॥
हुतभुक्प्रिया हुतभुजः प्रिया ॥
हुतभुग् हुतं भुङ्क्ते । क्विप् (३.२१७८) जान्तः।
हुम्
- हवनम् । ‘हु दानादौ’ (जु० प० अ०) । डुम् प्रत्ययः ॥
हूतिः ह्वानम् । ह्वेञः (भ्वा० उ० अ०) । क्तिन् (३. ३.९४) ॥
हूहू “अव्युत्पत्तिपक्षे ‘आतो धातोः’ (६.४.१४०) इत्यस्याप्राप्तेः शसि हाहान्, ‘ओः सुपि’ (६.४.८३) इत्यस्याप्राप्तेर्हूहून्, इत्यादि । यत्तु - ‘आतो धातोः (६.४.१४०) इति योगविभागादाकारलोपः इति मुकुटेनोक्तम् । तच्चिन्त्यम् । निर्णीतरूपस्य योगविभागेन निर्वाहस्यौचित्यात् । अप्रयुक्तस्य तेन साधनस्यानुचितत्वात् । हा इति शोकव्यञ्जकशब्दं जहाति । ‘ओहाक् त्यागे’ (जु० प० अ०) । विच् (३.२.७२) । शसि हाहः । हू इति ह्वयति । ह्वेञः (भ्वा० उ० अ०) । क्विप् (३.२.१७८) । ‘वचिस्वपि-’(६.१.१५) इति संप्रसारणम् । हलः’ (६.४.२) इति दीर्घः । बाहुलकाड्डाप्रत्यये तु (हाहाः) व्युत्पन्नोऽधातुश्च । एवं डूप्रत्यये हूहूरपि बोध्यः । हाहाः सान्तोऽपि । गन्धर्वो वीतिहाहसोः’ इति संसारावर्तात् । ‘गन्धर्वो हाहसि प्रोक्तः’ इति रत्नकोषाच्च । भोजस्तु हहाहुहुशब्दयोरव्ययत्वमाह । ‘हहाः’ इत्यादिह्रस्वः । ‘हुहुः’ इत्युभयह्रस्वश्च । ‘हंसो हहाहुहू च द्वौ वृषणश्वश्च तुम्बुरुः’ इति शब्दार्णवात् । गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू’ इति व्यासोक्तेश्च ।”
हृदयङ्गमम् हदयं गच्छति । ‘गमश्च’ (३.२.४७) इति खच् ॥
हृदयम् ह्रियते विषयैः । ‘वृहोः षुग्दुकौ च’ (उ० ४.१००) इति कयन् दुगागमश्च । हरति आहरति विषयानिति वा । (‘हृदयं वक्षसि स्वान्ते वुक्कायाम्’)
हृदयम् ह्रिति । हरति । ह्रियते वा । ‘वृह्नोः षुक्दुकौ च’ (उ० ४.१००) इति कयन् । ‘हृदयं मानसे वुक्कोरसोरपि नपुंसकम्’ (इति मेदिनी) ॥
हृद् हृदयस्य ‘पदन्नस्–’ (६.१.६३) इति हृदादेशः । प्रभृतिग्रहणस्य प्रकारार्थत्वात्क्वचित्स्वादावपि । हरतेः क्विप् (३.२.१७८) । तुक् (६.१.७१) । व्यत्ययेन तस्य द इत्यन्ये । (‘हृत् क्लीबं वुक्कचित्तयोः’)
हृद्म् बाहुलकात्केवलोऽपि दुक् ॥ ‘पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्’ इति ।
हृषीकम् हृषीकमिति । हृष्यन्त्यनेन । ‘हृषु अलीके’ (भ्वा० प० से०) । ‘अलिहृषिभ्यां कित्’ (उ० ४.१७) इति करणे ईकन् ।
हृषीकेशः हृषीकाणामिन्द्रियाणामीशः ॥
हे
- ‘हि गतौ’ (भ्वा० प० अ०) । विच् (३.३.७५) ॥
हेतिः “हिनोति, हन्ति वा । ‘हि गतौ” (स्वा० प० अ०) । ‘ऊतियूति-’ (३.३.९७) इत्यादिना क्तिन्नन्तो निपातितः (‘हेतिज्वलास्त्रसूर्यांशुषु) ।”
हेतुः हिनोति व्याप्नोति कार्यम् । ‘हि गतौ’ (स्वा० प० अ०) । ‘कमिमनि’ - (उ० १.७३) इति तुन् ।
हेम “हिनोति, हीयते वा । ‘हि गत्यादौ’ (स्वा० प० अ०) । मनिन् (उ० ४.१४५) ॥”
हेमकूटः हेम्नः कूटो राशिः ॥
हेमदुग्धकः हेमवर्णं दुग्धमस्य ।
हेमन्तः हेमन्त इति । हन्ति । ‘हन्तेर्मुट् हि च’ (उ० ३.१२९) इति झच् हिरादेशो मुडागमः । गुणः (७.३.८४) हेमा अपि । ‘सर्वत्राण् च-’(४.३.२२) इति सूत्रे यद्भाष्यम् ‘हेमन्तस्य तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्यतरस्य सत्त्वात्’ इति । हिनोति वर्धयति बलम् । ‘हि गतौ वृद्धौ च’ (स्वा० प० अ०) । अन्तर्भावितण्यर्थात् अन्येभ्योऽपि’ (३.२.७५) इति मनिन् ।
हेमपुष्पकः हेमवर्णं पुष्पमस्य । (‘हेमपुष्यं तु चम्पके । अशोकद्रौ जपापुष्पे) । कन् (५.३.७५) ॥
हेमपुष्पिका सेति । हेमवर्ण पुष्पमस्याः । ‘पाककर्ण-’ (४.१.५४) इति ङीष् । ‘स्याद्धेमपुष्पिका यूथ्यां चम्पको हेमपुष्पकः (इति मेदिनी) ॥
हेमाद्रिः हेम्नोऽद्रिः ।
हेरम्बः हेरम्बते । ‘हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु’ इति नानार्थरत्नमाला । अबि रबि शब्दे । पचाद्यच् (३.१.१३४) । ‘तत्पुरुषे कृति-’ (६.३.१४) इत्युलुक् । हे उषसि रम्बते इति स्वामी । (‘हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे च’) ।
हेला हिल भावकरणे’ (तु० प० से०) । ‘हेडृ अनादरे’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । ‘स्याद्भावसूचको हावो हेलाऽस्यैवानुभावनम् । ‘प्रौढेच्छा सुरते हेला’ इति वा । (‘हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ।
हेषा हेषेति । हेषणम् । ह्रेषणम् । हेषृ ह्रेषृ शब्दे’ (भ्वा० आ० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः ॥
है
- हन्ति । डै प्रत्ययः ॥
हैमवती हिमवतोऽपत्यम् । ’तस्यापत्यम्’ (४.१.९२) इत्यण् । हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचो मयोः।
हैमवती शुक्लेति । हिमवति भवा । हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचो भयोः इति मेदिनी) ॥
हैमवती हिमवति जाता । ‘तत्र जातः (४.३.२५) इत्यण् ॥
हैमवती हिमवति जाता । ‘तत्र जातः’ (४.३.२५) इत्यण् । हैमवत्य-भयास्वर्णक्षीर्योः श्वेतवचोभयोः’ इति विश्वमेदिन्यौ ॥
हैयङ्गवीनम् तेति । दुह्यते इति दोहः । कर्मणि घञ् (३.३.१९) । गवां दोहः । ह्यो गोदोहः । ह्योगोदोहादुद्भवति । अच् (३.१.१३४) । तस्य ‘हैयङ्गवीनं संज्ञायाम् (५.२.२३) इति निपातः ॥
होता जुहोति । नप्तृनेष्टृत्वष्टृहोतृपोतृ-’ (उ० २.९५) इति साधुः ॥ यजुश्च सामानि च ऋचश्च । ‘चार्थे द्वन्द्वः’(२.२.२९) । समासान्तविधेरनित्यत्वात् ‘ऋक्पूर-’(५.४.७४) इत्यकारो न । यजुः सामर्चो विदन्ति । ‘सत्सूद्विष-’(३.२.६१) इति क्विप् । यजुर्विदध्वर्युः । सामविदुद्गाता । ऋग्विद् होता । ऋत्विग्विशेषाणां क्रमादेकैकम् ।
होमः हवनम् । ‘हु दानादनयोः (जु० प० अ०) । ‘अर्तिस्तुसुहुर्-’ (उणा० १.१४०) इति मन् ॥
ह्यः
- यातमहः । पृषोदरादिः (६.३.१०९) । ‘एषमो ह्यःश्वसोऽन्यतरस्याम्’ (४.२.१०५) इति निर्देशयात्रानुकूलः ॥
ह्रदः तत्रेति । तत्र तेषु मध्ये । अगाधं जलं यत्र स जलाशयः । ह्रादते । ‘ह्राद अव्यक्ते शब्दे’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) ह्रस्वः । एकम् अगाधजलकूपस्य ।
ह्रस्वः हसति । हस्यते वा । ‘ह्रस शब्दे’ (भ्वा० प० से०) । उल्वादिः (उ० ४.९५) ‘ह्रस्वो न्यक्खर्बयोस्त्रिषु’ (इति मेदिनी) ॥
ह्रस्वगवेधुका गवि भूमावेधते । ‘एध वृद्धौ’ (भ्वा० आ० से०) । बाहुलकादुः । ‘संज्ञायां कन्’ (५.३.७५) । ह्रस्वा चासौ गवेधुका च ॥
ह्रस्वाङ्गः ह्रस्वान्यङ्गान्यस्याः ॥
ह्रादिनी “‘ह्राद अव्यक्ते शब्दे’ (भ्वा० आ० से०), आवश्यके णिनिः (३.२.७८)। ह्रादोऽस्त्यस्या । इति वा । इनिः (५.२.११५) ‘ह्रादिनी वज्रविद्युतोः ।”
ह्रादिनी ह्रदाः सन्त्यस्याम् । ‘ह्रादिनी’ इत्यन्ये ॥
ह्रादिनी ह्रादते । आवश्यके णिनिः (३.२.७८) । ह्रादोऽस्ति यस्या वा । इनिः (५.२.११५) । ह्रादिनी वज्रतडितोः ।
ह्रीः ‘ह्री लज्जायाम्’ (जु० प० अ०) । सम्पदादि क्विप्
ह्रीवेरम् ह्रीयुक्तं वेरमस्य । ‘वेरं कलेवरे क्लीबं वार्ताकौ कुङ्कमेऽपि च’ (इति मेदिनी) ॥
ह्रेषा हेषेति । हेषणम् । ह्रेषणम् । हेषृ ह्रेषृ शब्दे’ (भ्वा० आ० से०) । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः ॥
ह्लादिनी ह्लादयत्यवश्यम् । ‘ह्लादी सुखे च’ (भ्वा० आ० से०) । ‘आवश्यका-’ (३.३.१७०) णिनिः ॥