¶। मङ्गलाचरण, प्रस्तावना

धन्वन्तरिनिघण्टु ¶। मङ्गलाचरण, प्रस्तावना

मङ्गलाचरण, प्रस्तावना

नमामि धन्वन्तरिमादिदेवं सुरासुरैर्वन्दितपादपद्मम् ।
लोके जरारुग्भयमृत्युनाशं धातारमीशं विविधौषधीनाम् ॥१॥
अनेकदेशान्तरभाषितेषु सर्वेष्वथ प्राकृतसंस्कृतेषु ।
गूढेष्वगूढेषु च नास्ति सङ्ख्या द्रव्याभिधानेषु तथौषधीषु ॥२॥
प्रयोजनं यस्य तु यावदेव तावत्स गृह्णाति यथाऽम्बु कूपात् ।
तथा निघण्टाम्बुनिधेरनन्ताद् गृह्णाम्यहं किञ्चिदिहैकदेशम् ॥३॥
नामोक्तमेकस्य यथौषधस्य नामापरस्यापि तदेव चोक्तम् ।
शास्त्रेषु लोकेषु च यत् प्रसिद्धं न गृह्यतेऽसौ पुनरुक्तदोषः ॥४॥
तुल्याभिधानानि तु यानि शिष्टैर्द्रव्याणि योगे विनिवेशितानि ।
अर्थाधिकारागमसम्प्रदायैर्विभज्य तर्केण च तानि युञ्ज्यात् ॥५॥
किरातगोपालकतापसाद्या वनेचरास्तत्कुशलास्तथाऽन्ये ।
विदन्ति नानाविधाभेषजानां प्रमाणवर्णाकृतिनामजातीः ॥६॥
तेभ्यः सकाशादुपलभ्य वैद्यः पश्चाञ्च शास्त्रेषु विमृश्य बुद्ध्या ।
विकल्पयेद् द्रव्यरसप्रभावान् विपाकवीर्याणि तथा प्रयोगात् ॥७॥
प्रायो जनाः सन्ति वनेचरास्ते गोपादयः प्राकृतनामसञ्ज्ञाः ।
प्रयोजनार्था वचनप्रवृत्तिर्यस्मात्ततः प्राकृतमित्यदोषः ॥८॥
एकं तु नाम प्रथितं बहूनामेकस्य नामानि तथा बहूनि ।
द्रव्यस्य जात्याकृतिवर्णवीर्यरसप्रभावादिगुणैर्भवन्ति ॥९॥
नाम श्रुतं केनचिदेकमेव तेनैव जानाति स भेषजं तु ।
अन्यस्तथाऽन्येन तु वेत्ति नाम्ना तदेव चान्योऽथ परेण कश्चित् ॥१०॥
बहून्यतः प्राकृतसंस्कृतानि नामानि विज्ञाय बहूंश्च पृष्ट्वा ।
दृष्ट्वा च संस्पृश्य च जातिलिङ्गैर्विद्याद्भिषग्भेषजमादरेण ॥११॥
गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ।
मूलजातिश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥१२॥
अनामविन्मोहमुपैति वैद्यो न वेत्ति पश्यन्नपि भेषजानि ।
क्रियाक्रमो भेषजमूलमेव तद् भेषजं चापि निघण्टुमूलम् ॥१३॥
तस्मान्निघण्टुरित्येष नातिसङ्क्षेपविस्तरः ।
हिताय वैद्यपुत्राणां यथावत्सम्प्रकाश्यते ॥१४॥
द्रव्यावलिं विना वैद्यास्ते वैद्या हास्यभाजनम् ।
द्रव्यावलि(ल्य)भिधानानां तृतीयमपि लोचनम् ॥१५॥
द्रव्यावलिनिविष्टानां द्रव्याणां नामनिर्णयम् ।
लोकप्रसिद्धं वक्ष्यामि यथागमपरिस्फुटम् ॥१६॥
अनन्तपारस्य निगृह्य किञ्चित्सारं चिकित्सागमसागरस्य ।
उक्तो मया सम्प्रति कल्पयोगाद्द्रव्यावलीनामसमुच्चयोऽयम् ॥१७॥
विचार्य दोषौषधदेशकालं वपुर्वयः सात्म्यबलाग्निमात्रम् ।
विकारहेत्वाकृतिसाध्यताश्च ततश्चिकित्सेद्भिषगामयार्तिम् ॥१८॥
ज्वराभिभूते षडहे व्यतीते विपक्वदोषे कृतलङ्घनाद्यैः ।
यद्भेषजं वैद्यवरप्रयुक्तं निःसंशयं हन्त्यचिरेण रोगान् ॥१९॥