[[संस्कृतभाषा Source: EB]]
[
[TABLE]
॥श्री हरिः॥
संस्कृतभाषा
<MISSING_FIG href="../books_images/U-IMG-1734351475-+–123.png"/>
ननु सर्वेषामेव देशानां प्राचीनभाषा निश्चितास्ति यथा–तुर्कदेशस्य तुर्की, फारसदेशस्य फारसी, अर्वदेशस्य अरवी, इङ्गलैंडदेशस्य अंग्रेजी, इत्यादि।
न च विज्ञायते भारतवर्षस्य प्राचीनभाषा काऽऽसीदिति। तन्निवेद्यते भारतस्य भाषा संस्कृतमेवासीत्। या च देवभाषेत्यऽप्युच्यते। यस्याश्च रचितं भगवता पाणिनिनाऽष्टाध्यायीतिनामकं व्याकरणं–सैव प्राचीनभारतभाषास्ति।
आसीत् किमपि सौभाग्यं भारतस्य यत् सर्वत्र भारते श्रवणपुटेन संस्कृतभाषैव पोता जैनैः सैव रसनयोदाहृता, सैव पठिता, सैव लिखिता च।
हा कष्टं भाग्यवशेन तस्य संस्कृतस्यैषा दुर्गतिर्जाता यत् प्राप्तोऽवसरोऽस्यापि प्रष्णास्य ‘भारतस्य प्राचीनभाषा कासीदिति’। न चाश्चर्यमघटितघटनापटुत्वादीश्वरस्य।
उक्तं च–‘इह खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः’।
संस्कृतसंभाषणनाशव्रणोपरि लवणचोदोम्यसौनिपात्यते यदुच्यते जनैः संस्कृतं भारतस्य प्राचीन भाषा नास्ति। किं विशेषवाष्पपातनेन निश्वासप्रकटीकरणेन च यतो युक्तिप्रमाणाभ्यां निश्चितमेवास्ति संस्कृतमेव प्राचीनभाषा भारतस्येति।
सन्ति चात्र विप्रतिपत्तयो यथा - संस्कृतमितिनाम्नासंस्कृतं संस्कारं प्राप्तं निर्मितमित्यर्थ अतः कैश्चिद् वुधजनैः स्वयं संभाषणार्थं निर्मितं नतु सकलभारतवासिनामासी त्साधारण्येन संस्कृतं भाषेति कैश्चिदुच्यते।
अत्रोच्यते–किमीश्वरेण विनाऽन्योपि कोपि पदार्थोऽनिर्मितोऽस्ति? नास्त्येव, सकलप्रपञ्चस्यैव निर्मितत्वात्।
तत्र भारतस्यैव निर्मितत्वसिद्धेः का हानिस्तदन्तर्गतभाषायाः संस्कृतरूपाया निर्मितत्वप्राप्तेः
ननु संस्कृतमिति संस्कारं प्राप्तमित्यर्थलाभेनाऽनुमीयते संस्कारकरणात्पूर्वं प्राथमिकं किमप्यन्यदेवरूपसासीन्नत्वेतत् संस्कारादेवास्य प्राप्तेरिति चेन्न। यदि प्राथमिकमन्यदेवासीद्रूपं तर्हि दर्श्यतां तस्योदाहरणं यत्क्तोदृशमासीत्।उदाहरणदर्शनाभावेन ज्ञायत ऐकरूप्यम्।
किं च भवदभिलषितं रूपंवेदेभ्योपि प्राचीनमासीदिति परिभाषणमेवानुचितं यतो ‘अंग्रेज ’ कुलेनाप्युच्यते भारते वेदानां समयः प्राचीनतरोस्तीति।
यदि च वेदेभ्यः पश्चादासीत्तदा सर्वप्राचीना वेदास्तूपलभ्यन्ते, तदनंतरजातस्य संस्कृतपूर्वरूपस्यैकस प्युदाहरणं
नोपलभ्यत इति तु न्यायविरुद्धम् तव रसनायोग्यम्। वेदास्तु प्राचीनतराः सन्ति संस्कृतं प्राचीनं नास्तीति कथनमपि तथा।
अपि च वेदाः किमर्थं प्रकटीकृताः परमेश्वरेणान्येन वेतिप्रण एतदेवोक्तं भविष्यति प्रजार्थमिति। यदि च प्रजायां संस्कृतसंभाषणप्रचार एव नासीत्तदा वेदानां प्रजार्यत्वं केन हेतुना सेत्स्यति।
यदि तात्कालिकविद्वज्जनार्थमित्युच्यते तदा त्वीश्वरे वैषम्यदोषः प्राप्नोति न च वैषम्यमस्ति तस्मिन्। यतो वैषम्यं वासनया भवति वासनैव तस्मिन्नास्ति तथा चोक्तं भगवता पतञ्जलिना’ क्लेशकर्मविप्राकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति। तथोक्तं साचादपि गीतायां–‘समोऽहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः’ इति। नन्वत्रैव ‘न प्रियः’ इत्युक्तं प्रियत्वाभावे कथमाऽऽयासितमीश्वरेणेतिचेत्। ‘न प्रियः’ इत्यस्य प्रियत्वाभावे नास्ति तात्पर्य्यं किं तु प्रीत्यां न्यूनाधिक्याऽभावं द्योतयन्नीश्वरस्य समदृष्टितां व्यञ्जयति। न चेश्वरस्यदृष्टिरेव नास्तीति शङ्क्यम्। ‘तदैक्षतबहुस्यांप्रजायेय’ इत्यादिश्रुत्या सिद्धत्वात्।
नन्वीश्वर एव नास्तीति चेदुच्यते–मा भवत्वीश्वरः। तथापि वेदस्यीपलभ्यमानत्वात्तस्य कर्त्ता त्वयाप्यवश्यं स्वीकर्तव्य एव। ततो महत्स्वऽपि समदृष्टितैव युक्तोक्तं च ‘विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि–शुनि चैव श्वपाके च पण्डिताः समदर्शिनः’ १ यदि चेद्घृणास्त्यऽत्रास्तिकग्रन्थवाक्यत्वात्तर्हि राजनीतिवाक्यं गृहाणं ‘अयं निजः परो वेति विभागः क्षुद्रचेतसां – उदारहृदयानां तु वसुधैव कुटुम्बकम्’ इति। तस्मात्सिद्धं वेदानां प्रजार्थत्वम्। तत्तु सकलप्रजायां संस्कृत–
प्रचारखोकारेणैव सेत्स्यति। ननु त्वयैवोक्तं पूर्वं ‘भारतस्यैव निर्मितत्वसिद्धेः का हानिस्तदन्तर्गतभाषायाः संस्कृतरूपाया निर्मितत्वप्राप्तेः ’ इत्यनेन तवैव जिह्वया कल्पितत्वं प्राप्तं ते परमप्रियस्य संस्कृतस्य’ इतिचेदायुपता स्थूलमीक्ष्यते यतोस्य नास्त्यसिप्रायः कैश्चित् पण्डितैः स्वसंभाषणार्थं कल्पितं संस्कृतमिति। किं तु येन भारतं कल्पितं तेनैवातोपि सिद्धमाऽऽदि भाषात्वं संस्कृतस्य।
ननु यदि सकलप्रजायां प्रचार आसीत् संस्कृतस्य मातृभाषात्वात्तदा स्वयमेव वेदार्थज्ञता प्राप्ता मानवानां, पुनर्वेदाध्ययनं किमर्थं कृतमाचार्यमुखाज्जनैरिति चेन्निवेदयामि श्रूयताम् - इङ्गलैंडदेशस्य अंगरेजी तु मातृभाषैव तदा जणैरपि किमर्थं पठ्यते पाठशालायां अंगरेजी। अन्यदेशीयजनैरपि स्वदेशभाषा किमधीयते। भारतवासिभिरपि ‘विहारीसतसई’ ‘तुलसीरामायण’ इत्यादि ग्रन्थाः किमर्थं पठ्यन्ते गुरुमुखात्। असौ महात्मा तुलसीरामायणं सम्यग् जानातीति च कथमुच्यते। यथैतत्सर्वं युक्तं मन्यते तथा संस्कृतस्य मातृभाषात्वेपि युक्तं वेदानां गुरुमुखादध्ययनमिति बहुलमेतदेव। किं च यत् श्रीमतामाग्रहोस्ति संस्कृतमिति पदेन संस्कारकर्मत्वसेवावगम्यतेऽस्य संस्कृतस्य। तत्रोच्यताम्। किं मम पित्रा पितृव्येन पितामहेन गुरुणा महागुरुणा वा संस्कारः कृतः। अथवा तव तैः कृतः। अथवा अन्यस्यैव कस्यापि तैः सः कृतः। केन किंनाम्ना कदा कस्यां समायां कृतोस्तीति सकलं निवेद्यताम्।
यदि केनापि न कृतः न चास्ति प्रमाणं तत्र तथापि मे
वचनात् संस्कारकर्मता स्वीकर्तव्येत्युच्यते। तदा मयाप्युच्यते तवोत्तमाङ्गे शृङ्गमस्तीति तत्वयापि खीकर्तव्यम्।
ननु भवतु मे शिरसि शृङ्ग’ स्वीकृतं च मया, अधुना तु संस्कृतस्य संस्कारकर्मत्वं स्वीकुरु। अत्रोच्यते शृङ्गवत्त्वात्त्वयि पशुत्वं प्राप्त पशूनां मूर्खानां वचनं नाऽवधेयं भवतीति तव महता प्रयत्नेनापि न सिद्धं संस्कृतस्य संस्कारकर्मत्वम्।
अथ यदि संस्कारकर्मत्वमेव नास्ति संस्कृतस्य तर्हि संस्कृतमिति किमर्थं कृतं नाम, यतो व्युत्पत्तिपक्ष स्वीकारेणाऽसंस्कृतस्य संस्कृतमितिनाम नोचितम्। अथ च संस्कृते रमत इति रामः, विवेष्टीति विष्णुरित्यादौ सर्वत्र यथा ‘व्युत्पत्तिपक्षपरिग्रहोस्ति तथा संस्कृतपदेपि। इत्युक्तं भवता पंडित वरेण, श्रूयतां प्रश्नोत्तरम्। यथा–शास्त्रे व्युत्पत्तिपक्ष्परिग्रहोस्ति तथाऽव्युत्पत्तिपक्षपरिग्रहोप्यस्त्य ऽन्यथार्थवत्सूत्रस्य वैयर्थ्यापत्तिः। कृतद्दितसूत्रेणैव व्युत्पन्नानां प्रातिपदिकत्वसिद्धेः। अथ यथा संस्कृतपदे व्युत्पत्तिपक्षस्वीकारेण संस्कारकर्मता मन्यते त्वया तथाऽचलेति पदेपि न चलतोत्यऽ चलेति कथं न स्वीक्रियते तत्र तु व्युत्पत्तिपक्षमनालोच्यैव पृथिवी स्थिरास्ति रविरेव तदुपरि भ्रमतीत्यादिविकल्प्यते तेऽहो वैषम्पम्। अथान्यदपि नाम यद्यस्तु तत्रापि त्वया व्युत्पत्तिपक्षेण कुजालकल्पना किं कर्तुं न शक्यते यस्मान्निपुणोसि तत्र।
किं च संस्कारेणापि किं व्यक्तिभेदो भवति, न भवत्येव। यदि भवति तर्हि ददाम्यहमेकामजां तां भवन्तः संस्कारद्वारा गोरूपेण परिणमन्ताम्। अयि महाशयशिरोमणे संस्कारेणाप्येष एव भेदो भवति यः किल शयनोत्थितस्यस्नाने
संपादिते संपन्नस्नानस्याऽशने कृते लक्ष्यते। न तु शयनोत्थितो देवदत्तः स्नानेन यज्ञदत्तो भवति,स्नानेन यज्ञदत्तरूपतां प्राप्तो भोजनेन विष्णुदत्तो भवति। यदि यज्ञदत्तः शयनस्नानाशनादौ, संस्कारविशेषे चूड़ाकर्मोपनयन परिणयनादौ च जनेरामरणमेक एव तिष्ठति तर्हि संस्कृते संस्कारेण भेदो जात इति कथमुच्यते।
यदि च कालिकभेदेन तदुच्यते, कालिकभेदस्तु सर्वत्रैव निवड एव। यथा– पूर्वकाले भीमसेनादयोऽतिबलवन्तो मानवा आसन्। इदानींतनास्तु न्यूनबलाः सन्ति तत्र केषु मानव प्रयोगो भवतु। नागरीभाषायामपि विहरीकृतानां श्रीसूरदासकृतानामानंदघनकतानां नागरीदासकृतानां चे- त्यादीनां सर्वेषामेव ग्रन्थानां भाषाया भेदोऽस्त्येव। तत्र कस्य ग्रन्थस्य भाषा नागरी, कंस्याऽनागरीति नास्ति भेदः सर्वेषां नागर्येव। तथा संस्कृतेपि कालभेदो भेदाय न शक्तः।
ननु भवतु न वा भवतु संस्कारकर्मत्वं। किं तु संभाषणप्रचारस्तु नैवासोदित्यपि न सम्यक्। यतो विद्ददुभिः पाणिनिप्रभृतिभिः यन्निरमाथि व्याकरणमस्य संस्कृतस्य तत् किं ते विक्षिप्ता आसन्नथवाऽऽधुनिका सथुरावासिनश्वोवेब्राह्मणा भङ्गापानोत्यत्ताः। यत्तैरप्रचलिताया व्याकरणं कृतम्। निर्मिता च मनोभिलाषिता भाषा निष्फला। यतो भाषायाः साफल्यं संभाषणेनैव भवति भारतं विनान्यत्र प्रचार आसीदित्यस्य तु कथैव का।
यदि चाभिप्रायोस्ति ते नष्टा भ्रष्टा कापि पूर्वं भाषासीत्। तस्या अपि कोपि भागो गृहीत्वा संस्कृत्य च स्वयमपि
निर्माय चेत्यादिप्रकारेण मिश्रणं कृत्वा प्रचारं प्रापिता पाणिनिप्रभृतिभिः। तस्यात् प्राप्तमनेन शासनेन तैः प्रचारं प्रापितैषा भाषा। अयि कृपानिधेऽहं सहस्त्रधाञ्जलिं कृत्वा प्रार्थयामि संप्रत्यप्येकवारं प्रापय प्रचारं संस्कृतम्।
‘यदि चेदुच्यते नाहं चक्रवर्ती येन शासयामि। तर्हि पाणिनिप्रभृतयः किं चक्रवर्तिन आसन्।
अयि चतुरचूडामणे यदि शासनेनापि कापि प्रचारं प्राप्नुयाद् भाषा तर्हि भारतवासिनां स्तनंधयैरपि नागरीभाषणं दोषवद् भवेत्। ननु संस्कृतं देवभाषेत्युच्यते त्व’वदसि भारतभाषेतिचेत्। तदपि निवेदयासि गुरो। सस्यगुक्तं देवभाषेति। अनेन तु संस्कृतस्य स्वर्गेपि प्राप्त राज्यम्। तदपि गुणाय न तु दोषाय।
इन्द्रस्य नेत्रसहस्रमस्ति, अन्यासां देवतानामपि नेत्रयुगलमस्ति। रसना नासिका मुखमित्यादयोप्यमराणां सन्ति ते किं मानवेषु नोपलभ्यन्ते। स्वर्गे सुखमस्ति तत् किं मात्रया मह्यां नास्ति। यदि च व्यक्तिभेदेन देशभेदेन भिन्नत्वात्तेषां नदोषः। तर्हि संस्कृते किं व्यक्तिदेशभेदो नास्ति, भारतवर्गयोः मानवामरयोर्भिन्नत्वात्।
ननु वस्तु द्विविधं भवति किंचित्साधारणं किंचिदसाधारणम्। नेत्रादीनां साधारणत्वान्नरेषूपलब्धावदोषः। संस्कृतं त्वऽसाधारणं वृन्दारकाणाम्। इति चेत्। किमैन्द्रपदादप्यऽसाधारणं संस्कृतं तदेव लब्धं नहुषेण। पारिजातोप्यानीतो भगवता कृष्णोन। सुराङ्गना अप्यानीता रावणेन।
न चास्तिकपक्षोस्त्ययं। तर्हि संस्कृतं देवभाषेत्यपि स
एव। ननु से पक्षस्य त्वया रक्षणं कर्तव्यमेवास्ति चेत्तर्ह्येवं वद वर। यद्येष एवाग्रहोस्ति तदा सद्दर्शितया सरण्याऽवतरन्तु भवन्तः। यथा पूर्वं यासीद्भाषा सा वेदभाषां देवभाषेति नामहयेनोक्ता नरैर्भाषिता च। तदनन्तरं स्वोशूद्रादीनां पठनपरिपाव्यामल्पतां गतायां तेषां संभाषणे प्राप्त’ भेदेन। अन्योपि न प्राप्नुयाद्भेद इति समालोच्य प्रेक्षावद्भिर्लोकभाषां वेदभाषां च संमिश्रय निरमायि व्याकरणम्। सा मिश्रिता प्राप्तमर्यादा भाषा संस्कृतभाषेतिसंकेतितम्। इति संभाव्यते। तथापि यत्संस्कृतमित्युच्यते तस्यैव सिद्ध’ संभाषणं पुरा।
ननु पूर्वं वेदभाषैव प्रभाषिता नरैरितितवैव निवेदनेन प्राप्तं नाम संस्कृतभिन्नैव कापि भाषासीत्। इति चेच्छृणु। वृद्धादाबालकं पण्डितादापामरं सकले जगति प्रतिजनं पृच्छ ‘वेदस्य भाषा कतमे ‘त्यनुयोगेनैव निवेदयिष्यन्ति संस्कृतमिति। ततोपि सस सिद्धिः।
अथ च यद्यन्यदीयकरावलम्बनेनैव गम्यते तदा तूष्णी मास्ताम्। यदि स्वयमप्यस्ति गमनशक्तिस्तर्हि त्यक्ताग्रहं समालोच्यतां, लौकिकादु वैदिकस्य कियद्भेदोस्ति संस्कृतस्य। अयि मनीषिचूड़ामणे समुक्तसंस्कृतयोरल्पतरोस्ति भेदः। यथा वेदे अस्म इति प्रयुज्यते लोके पुनराभ्यमिति। स चापि प्रतिशब्दं नास्ति किं तु कुत्रचिदेव। तदपि नियसि- तोस्ति वेदेऽस्म इति। लोकेऽस्मभ्यमिति। प्रकृतिस्तूभयात्राप्यऽस्मदेव।
यद्यनेनैव भेदेन भेद इत्युच्यते तर्हि गढ़वदादि प्रयोगैः विष्णुनारायणशिवशङ्करादिप्रयोगैरपि भेदं वद।
यथैकत्र विष्णुशब्दोत्यन्यत्र नारायणशब्दोस्ति पर्यायवाचित्वात् किमर्थं शब्दभेदेन कृतः प्रयोग इत्यादि विचारणया। अथैवं भेदस्वीकारे महदाकुलीभविष्यति विस्तरभयात्तन्न निवेद्यते।
अपि च वेदानामपि भाषा संस्कृतमित्येवोच्यते। वेदानां समयः प्राचीनतरोस्तीत्यपि च। एवं वेदेभ्यः पूर्वं कोपि नासोत्तदा केन कृतः संस्कारो यदि च वेदेभ्यः पूर्वं कापि भाषा नासीत्तदा कस्याः छतः। इति कर्तृकर्मता निवेद्यताम्।
ननु वेदेभ्योपि पूर्वमासन्मानवा आसीच्च कापि भाषेति, निवेदयामि तदा वेदानां वर्त्तमानभाषासनादृत्य नूतनभाषायां निर्वर्तनेन न सेत्स्यति प्रजार्थत्वम्। तच्चावश्यकमतः स्वीकुरु वेदेभाषावदु व्यावहारिक संस्कृतेपि रूढं संस्कृतपदम्। संप्रत्यपि समागतं मनसि किं चिन्नवा न चेदन्धदपि वक्ष्यते। श्रूयतामयि श्रवणं दत्त्वा यथा - संदेहोत्पत्तिरेव कथंकारं भवति यदि कोपि संभवो भवति तदैवेति वक्तव्यस् तदा तु संभवत्येव यदि संस्कृतस्य प्राचीनभारतभाषात्वं तदैवेयं क्रियते कुजालकल्पना त्वया। अन्यथा अर्वी भारतभाषा आसीन्न वा, अथ अङ्गरेजी भारतभाषा असीन्न वा, किमित्यादिर्न क्रियते संशयः।
यदि च संभवति भारतभाषात्व’ संस्कृतस्य, उदाहरणान्यपि प्राप्नुवन्त्येव, अन्यस्यां भाषायां प्राचीन भारतीयत्वसाधने युक्तिरपि नास्ति, न चोपलभ्यन्त उदाहरणनीति संस्कृतं किं तेनादिरिपोः पुत्रोस्ति येन समूलघातं हन्यते।
नतु नष्टाया भाषायाः कथमुपलभ्यन्तामुदाहरणानि
तत्र वदामि किं भवादृशेननाशितं संस्कृतं नष्टस्यापि तस्य पुष्कलान्युदाहरणानि समीक्ष्यन्ते संभाषणप्रचारनाशेर्नव नाश उच्यते भाषायाः॥
ऋते चाश्च भाषां शकुनिनिकरोपि शक्नोति खातुमित्यपि न शक्यते वक्तुम्। का कथा पुनर्मानवमसृहस्य, सवत्येव च भाषा प्रतिदेशमेवं भारतस्यापि निर्दिश्यैव भाषा, एवं यदि संस्कृतभिन्ना भाषासीत्, तस्याः किं नाम, किसुदाहरणम्। इत्यत्र उदाहरणं किं नासापि न प्राप्स्यते॥
संस्कृतस्य तु वेदभारतरामायणादिपुष्कलमुदाहरणं।
अपि चावासनिर्माणसमये कुणाद्युपरि यत्संवन्नचत्रनासादि लिख्यते तत्प्रचलितभाषायामेव यदीयं युक्तिर्मे सम्यगस्ति तदा काव्यमान्नान्तर्गता प्राचीनलेखसालानिरोक्षणीयास्ति। एवं स्वयमेव स्फुटी भविष्यति नास कामीद् भारतभाषेति॥
अन्यत्र च्यामण्ले सर्वासां भाषाणांमध्ये संस्कृतमेव प्राचीनतर सिति साधितं जनैः। उच्यतां कुत्रप्रचार आसीद् संभाषणस्य। ऋते भारतं तपस्विनः संस्कृतस्यान्यन लाभप्रमाणाभावात्। भारत प्रसाणा सिद्धंनः सभीहितम् ॥
अपि च श्रूयतां मज्जनशिखामणे यो देशो येषां जनानां भवति तेषां प्राथमिकेष्टग्रन्यास्तस्यैव देशस्य भाषायां संपाद्यन्ते यथा - म्लेच्छानां अर्वनामकों देश अर्बिभाषायामेव तेषां कुराननामको ग्रन्थोस्ति। एवं हणानामपि वायविन्न ईसाममीप्रभृति ह्रणभाषायामेव ।
सिद्धमेवास्ति च भारतं हिंदूजनानां देशः। तेऽत्रैव निवसन्तीति, आस्तिकाः, सन्ति ते इत्यपि च, तेषामिष्टग्रन्था वेदपुराणादय इदमपि। ग्रन्थाश्च ते संस्कृतनिर्मिता इति सिद्धिः संस्कृतमेव भारतभाषेति॥ यतो ये निर्मीयन्ते च ग्रन्थास्ते केवलं प्रजोपकारतया यथा सकलसाधारणप्रजाया उपकारो भवेदनेन संदर्भेणेति। अन्यथा संप्रति कथं नागरी भाषायां यतन्ते भवन्तः। तदेतदर्थमेव नामेदानीं भारतभाषा नागर्येव तस्यां संदर्सनिर्माणेन निखिललोकोपकारो भविष्यति।
इयं च सर्वोपकारिणी सतिरधुनैव राजकुलं दृष्ट्वा भारतेपि नाव्यत इति न वक्तव्यम्। किंतु पूर्वं तावदस्या एव सतेर्भारते राज्यमासीदन्यथा कथं महदुन्नतिभूमिं गतं भारतम्। एवं पूर्वमपि सर्वोपकारधिया संदर्भाः संस्कृत एव कृता जनैरिति ज्ञायते भारतभाषा संस्कृतमेवेति॥
अथ च नागरी भाषापि सैव प्रशस्यते या संस्कृतमयी भवति। यदि च भारतस्य पूर्वा भाषा संस्कृतं न स्यात्तदा संस्कृतमयीनागरीप्रशंसनं कथं संगेच्छेत। यत आदि भाषासंश्लेषतः प्रशस्यते। नन्वन्यभाषासंयोगत्वेन संस्कृतसौन्दर्येण वा तत्संयोगःस्तूयत इतिचेत्तर्हि फारसीभाषा अग्रेजीभाषा वा किं नागरीतोऽन्या नास्ति किं वा ते भाषे सुन्दर्यौ नास्तः। यत्तयोः संयोगो न प्रशस्यते। यदि च सुन्दरत्व’ नाभिमतं तयोर्भवता तदा खकार्यव्यापारे वरुरांच्या कथं संभाष्यते अंग्रेजी। नन्वस्माभिः अंग्रेजीभाषाया अपि संबन्धः प्रशस्यते तदा विहारीप्रभृतिभिः कथं न फारसी भाषामयी
कृता कविता। इदानींतनैरपि अंग्रेजीविद्यानिपुणैर्हरिचन्द्रजगन्नाथप्रभृतिभिः कथं वा नोपादीयते स्वकवितायां अंग्रेजी भाषासंबन्धः। तेन प्रत्यक्षमिवानुमीयते भारतस्यादि भाषा संस्कृतमेव। आसीच्च कदापि पुरा भारते चक्रवर्तित्वं संस्कृतस्येतिपुष्कलम्।
ननु युक्तिवादेनैवोच्यते त्वया न च दत्तं किमपि प्रमाणमिति चेन्नोयन्तां प्रमाणन्यपि। तत्र तावत् यद् भगवता पाणिनिना ‘अस्तेर्भू २।४।५२’ इति सूत्रयुक्तं तस्यार्थः ‘अस धातोरार्धधातुकविषये भू इत्ययमादेशःस्यात्’। यदि संस्कतस्य प्रचारोनासीत्तर्हि कृतमनेन सूत्रेण। किमर्थमार्धधातुकविषये भ्वादेशविधानं कृतं किं भविष्यतीतिवत् “ असिष्यतीति" उच्चारयितुं न शक्यते। शक्यते च। पुनः एतत्सूत्रनिर्माणेन सुधैव गौरवं कृतम्। तस्मादनुमीयतेऽनेन पूर्वमासीदेव संस्कृत संभाषणप्रचारो यतोऽसधातोरार्धधातुकविषये भूधातुवत् प्रयोगप्राप्त्या सुनिनाऽऽर्धधातुकेऽसःस्थाने ‘अस्तेर्भू’ इत्यनेन भू एवादिष्टः।
अथ च ‘गोरायाढ्रक् ४।१।१२८।’ इत्यनेनापत्यार्थे गोधाशब्दात् ढुक्प्रत्ययमुपदिश्य पुनः ‘आरगुदीचाम् ४।१। ३०।’ इत्यनेनोदीचां सते गोधाशब्दादारक् प्रत्यय उद्दिश्यते। तदपि कथं। पूर्ववदेव हथैव कस्माद् गौरवं कृतं। तेन ज्ञायत उदीचां मते गौधार इति। सामान्यतो गौधेर इति प्रयुक्त- सासीत्तथैव मुनिनापि सूत्रद्दयं कृतम्। गौधेय इत्यर्थं गोधाशब्दस्य शुभ्रादिषु च न्यासः कृतः।
अपि च ‘तस्यापत्यम् ४।१।२२।’ इत्यनेन अण्विहितः पुनस्तस्मिन्नेवार्थे ‘अत इञ् ४। १८५। ’ इत्यनेन
इञ्विहितः तत् किमर्थमेकसूत्रेणैव निर्वाहे प्राप्ते द्वितीयं सूत्र कृतं। लभ्यते तेन औपगव इत्याद्यर्थं प्रथमं, दाशरथिरित्याद्यर्थं द्वितीयम्।
एवमन्यान्यपि बहूनि सूत्राणि संस्कृतप्रचारानुमापकानि सन्ति।
यन्निर्मीयते तत्राऽवश्यंभाविनी भवति लाघवापेक्षा गौरवं तु विवशं क्रियते। तस्माद यदि संस्कृतस्य प्रचारो नासीन्निर्मितं चैतदस्ति तदैकार्थ एकमेव सूत्र कथं न कृतं किमर्थमेकार्य एव बहुसूत्रसंपादनेन गौरवायितम्। ते नानुमीयते संस्कृतप्रचारत्वम्। यत एकार्थ एव विविधाः प्रयोगा उपलब्धा यथा ’ औपगवः ’ दाशरथिः, गौधेरः, गौधारः, वैनतेयः, कौलटिनेयः, चाटकैरः रैवतिकः, इत्यादयः तेषां सर्वेषां संग्रहार्थं बहुसूत्रबंधनेन विवशं गौरवं कृतम् ॥
ननु कदाऽवातरद् भूतले भगवान् पाणिनिरित्यपेक्ष्यते चेट गृहाण प्रमाणं शाब्द’ तथाहि —
“पाणिनिः कोटिभिः शिष्यैर्लक्ष्यैः कात्यायनस्तथा
नृपस्य भ्रातरः सर्वे चान्ये भूपाः समाययुः"१।
इत्युक्तं ब्रह्मवैवर्तस्य श्रीकृष्णखण्डे १०४ अध्याये।
तत्र हि द्वारिकायां श्रीकृष्णचन्द्रसमीप आगतानां जनानां प्रस्ताव एतदुक्तम्। तस्माज् ज्ञायते योसौ किल कृष्णचन्द्रस्य युधिष्ठिरस्य च समयः स एव पाणिनेरपि। लब्धोऽनेनाऽऽयुधिष्ठिरं संस्कृत संभाषणप्रचारः।
नन्देतत् प्रमाणं पाणिनिसत्तागमकमस्ति न चाष्टाध्यायी निर्माणसमयस्येति चेन्मा भवतु किमनेन। युधिष्ठिर
समये संस्कृतप्रचारो न सेत्स्यतीति चेन्न च ममाग्रहोस्ति संभाषणसमयनियसने किं तु सर्वतः पूर्व संकृतस्यैव संभाषणप्रचार आसीदिति। तत्त्वष्टाध्यायीलाभमात्रेण, एकार्थेऽनेकस्वविरचनेन पूर्वोक्तयुक्तिभिश्च सिद्धमेवं।
अथान्यदपि नीयतां भाष्याप्रमाणम्। तथाहि—
“अथ शब्दानुशासनं, अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते, शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्, केषां शब्दानां, लौकिकानां वैदिकानां च तत्र लौकिकास्तावद् च, गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति वैदिकाः खल्वपि शन्नोदेवीरभिष्टये " इति॥
नन्वत्र लौकिकानां वैदिकानामिति भेदनिर्देशःकथम्। तत्राह कय्यटः “अथवा भाषाशब्दानामेव लौकिकत्वमिति सेदेन निर्देशः " इति। अयं भावः। गौरित्यादयः शब्दा ‘धनोपलभ्यन्ते लोके तथा वेदेपि यथा च वेदे तथा लोकेपि पुनगौरित्यादीनां लौकिकत्वकथनेन वैदिकत्व’ न निषिध्यते ‘निषेधवाचकपदाभावात्। किं तु ये गवादयः शब्दा लोके श्रूयन्ते तेषां लौकिकत्वं। ये च वेदे तेषां वैदिकत्वम्। तदेव स्फुटीकृतं भाषाशब्दानामेव लौकिकत्वमिति वदता कय्यटेन।
यदि च संस्कृतसंभाषणप्रचारो नासीत्तदा गौरित्यादीनां संस्कृतशब्दानां कथं लौकिकत्वमुक्तां भाष्यकारेण।
अन्यदप्युक्तं भाष्यकारेण तदप्याकर्ण्यताम्। तथाहि—
“सर्वे खत्ल्वेतेशब्दा देशान्तरेषु प्रयुज्यन्ते, न चोपलभ्यन्ते, उपलब्धौ यत्नः क्रियताम्, महान्शब्दस्य प्रयोगविषयः,
सप्तदोपावसुमतो, त्रयो लोकाः, चत्वारो वेदा इत्यादिः। एतावन्तंशब्दस्य प्रयोगविषयमननुनिशम्य सव्यप्रयुक्ता इति वचनं केवलं साहसमाचमेव।
एतस्मिँश्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते तद् यथा—
शवति गतिकर्मा कंवोजेष्वेव भाषितो भवति, विकार एनमार्या भाषन्ते शव इति, हम्मति; सुराष्ट्रषु, रंहतिः प्राच्यमध्येषु गतिसेव त्वार्याः प्रयुञ्जते, दातिर्लवनार्थे प्राच्येषु दात्रमुदीच्येषु।
ये चाप्येते भवतोऽप्रयुक्ता अस्मिताः शब्दा एतेषामपि प्रयोगो दृश्यते”। इति।
किं श्रुतं न वा श्रीमता, भाष्यकारेण प्रतिदेशं साधितः संस्कृतप्रचारः।
यदपि विपक्षेण ‘दाखिनायनः’ इत्यादि गूढशब्दाभिप्रायेणोक्तां ‘न चोपलभ्यन्ते’ तदर्थमप्य क्तां भाष्यकता ‘ये चाप्येते भवतोऽप्रयुक्ता अभिमताः शब्दा एतेषामपि प्रयोगोदृश्यते’ इति।
इदानीसुच्यतां किं ते संस्कृतमस्ति यस्य प्रचारोनासीत् कश्च ते भारतो यत्र प्रचारो नासीत्॥
पुनरुच्यते भाष्यकारेण ‘लिङ्गमशिष्यं लोकाश्रयत्वात्’ इति। यदि संस्कृतसंभाषणप्रचारो नासीत्तदा संस्कृतब्दानां लोकाद् बोधः कथमुद्दिष्टो भगवता।
यदि भाष्यकारसमयसंवित्तिपृच्छास्ति तदा पूर्वोक्तेन ब्रह्मवैवर्तप्रमाणेन पाणिनेरनन्तरभावितया युधिष्ठिरराज्यात् पाश्चात्यमेवानुमीयते भाष्यकृति।
पूर्वोक्त भाष्यवचनैस्तु स्फुटं प्रतीयत आभाष्यकारं संस्कृतप्रचारता।
यदि च पुनरपि श्रीमता संस्कृतशिखाग्रहणं क्रियते रामायणप्रसाणेन। यथोक्तं श्रीहनुमताश्रीरामायणसुन्दरकाण्डे ३० स्वर्गे।
‘अहं ह्रतितनुश्चैव वानरश्च विशेषतः।
वाचं चोदाहरिष्यामि मानुषीसिव संस्कृताम् १।१७।
यदि वाचं प्रवक्ष्यामि द्विजातिरिव संस्कृताम्।
रावणं मन्यमाना सा सीता भीता भविष्यति २।१८।
अवश्यमेव वक्तव्यं मानुषं वाव्यमर्थवत्।
मया सान्त्वयितुं शक्या नान्यथेय मनिन्दिता ३।१९
इत्यनेन। तत्रापि ममैतन्निवेदनं नास्ति यत् पशुपक्षिणामपि भारते संस्कृतभाषैवासीत्। किं तु मनु॒ष्याणाम्। हनुमत्प्रभृतयस्त वानरा न तु नरास्तेषां संस्कृतभाषा नासीदनेन को दोषः लङ्कानिवासिनामपि भवत्वन्यैव भाषा तथापि नैव दोषो लङ्कायाः भारतवाह्यत्वात्।
अस्मिन्नपि प्रसाणे ‘मानुषीमिवसंस्कृताम्’ इत्यनेन स्फुटं प्रतीयते मे समीहितं भो।
न त्वत्रैव ‘सानुषीमिव संस्कृताम्’ ‘द्विजातिरिव संस्कृताम्’ इति पक्षद्वयेन संदिह्यत इति चेन्नास्ति दोषायैतत्।
यतो द्दिजातिशब्दो ब्राह्मणक्षत्रियवैश्यानां त्रयाणामेव वाचक इतिमते भवतु भेदो द्विजाति संस्कृतस्यान्यसंस्कृतस्य च किं तु संस्कृतं तूभयमेव ।
यदि द्विजातिशब्देन ब्राह्मणजातिरेवोच्यते तथापि
न दोषो यतो ब्राह्मणानां पठनपाठनक्रियाबाहुल्येन तेषां संस्कृतस्याऽन्यजनसंस्कृतादुयुक्त एवं भेदः। तथाप्युभयं संस्कृतमेव।
किमधुना नागरीभाषायां भेदो नास्ति। संस्कृतेपि किं परस्परं काव्यभाषायां भेदो नास्ति। किं मल्लिखितगद्यस्य श्रीवाणभट्टलिखितगद्यस्य परस्परं भेदो नास्ति।
यदि नास्ति तदा दीयतां सह्यं वाणभट्टसमां पदवी।
यदि चास्ति र्भेदः किं तु संस्कृतत्वं तु सल्लेखेप्यस्ति। एवं तदांपि भेद आसीदित्यनेन किं कृतम्।
प्रत्युत सिद्ध साम्राज्यं संस्कृतभाषाया यथा—तदानीं वानरा अपि संस्कृतज्ञा आसन्, तथैव रावणप्रभृतयो राक्षसा अपि।
द्वारिकायामपि संस्कृतप्रचार एवानुमीयते यतो भारतवासिनैव यादवकुलेन तत्र गत्वा निवासोऽकारि।
शुक्रनीतावप्युक्तम्–
‘सुनीतिकुशला नित्यं प्रसवन्ति च भूमिपाः।
शब्दार्थानां न किं ज्ञानं विना व्याकरणं भवेत्॥
टीका यथा ‘भूमिपा राजानो नित्यं सुनीतौ कुशलाः प्रभवन्ति, अस्य नीतिशास्त्रस्य ज्ञानादिति भावः। ननु व्याकरणमनधीत्य कथं शब्दज्ञानं तहते च कथं नीतिज्ञानसंभव इत्याशङ्क्याह शब्दानामिति। व्याकरणं विना शब्दार्थानां ज्ञानं किं न भवेत्? अपि तु भवेदेव। व्याकरणस्य शब्दसाधन एव प्रयोजकत्वादिति भावः’।
इत्यनेन स्पष्टं संस्कृतसंभाषणप्रचार आसीत् पुरेत्युच्यते यदि चेत् संस्कृतभाषा निर्मिता स्यात्तदा बिना व्याकरणं कथं संस्कृतशब्दनामर्थबोधः स्यात्। उक्तं चोक्तपद्येश्रीशुक्रेण विना व्याकरणं बोधः।
पुनरप्युक्तं तत्रैव—
‘स्वस्वाभिमतबोधीनि शास्त्राण्येतानि सन्ति हि’।
अर्थात् यानि यानि शास्त्राणि सन्ति तानि केवलं स्वसिद्धान्तबोधकानि सन्ति। न तु लोकव्यवहारस्यापि। एतेन व्याकरणमपि प्रक्रियामात्रबोधकं नतु शब्दार्थज्ञान- बोधकं तस्य लोकत एव सिद्धसत्वात्। अन्यथा सिद्धसाधनं स्यात्।
यथा भवतीत्यत्र भू धातुरस्ति । तस्मात् ‘वर्तमाने लट् इति लट् प्राप्तः। तिपादेशो जातः। शबागतः। गुणावादेशौकृतौ। ततो भवतीति सिद्धमिति प्रकारेण प्रक्रिया बुध्यते व्याकरणन। नत्वेकदेवदत्तकर्तृकाभावनानुकूला छतिः तस्या लोकत एव बोधात्।
सिद्धमनेन संस्कृतस्य मातृभाषात्व’, विना व्याकरणं मातृभाषाया एक बोद्धुं शक्यत्वात्। दण्डिनाप्युक्ताम्—
‘इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा।
वाचामेव प्रसादेन लोकयात्रा प्रर्वतते १‘
इह लोके शिष्टैर्महेश्वरेन्द्रचन्द्रपाणिनिवररुचिप्रभृति-सिस्नुशिष्टानां प्रकृतिप्रत्ययविभागादिना व्युत्पादितानां संस्कृतानां प्राकृतानां च शिष्टानां देशीनां च वाचां प्रसादेन
लोकयात्रा प्रवर्तत इत्यर्थः। इत्यच संस्कृतप्रसादेनापि लोकयात्राप्रवृत्तिकीर्तनात् सिद्ध’ तस्य मातृभाषात्वम्।
तन्वत्र शिष्टैरनुशिष्टानामित्यनेनानुमीयते पाणिनिप्रभृतिभिरेव निर्मीयाऽनुयासितानां प्रचारं प्रापिताना- मिति चेन्न। अनुपश्चात् संभाषणप्रचारस्य पञ्चात् शिष्टानां सूत्रादिनिर्माणेन विशेषितानामित्यर्थः श्रनुवादितानां चेत्यर्थः। अनुवादश्च सिद्धस्यैव भवति। तेन संभाषणप्रचारात् पाश्चात्यमनुशासनकतृत्वं सिद्धमिति सिद्ध’ नः समीहितस्॥
अथ च श्रूयतां सावधानतया यत उक्तं भोजराजेन सरस्वतीकण्ठाभरणे यथा—
‘केऽभूवन्नाव्यराजस्य राज्ये प्राज्ञतभाषिणः।
काले साहसांकस्य के न संस्कृतभाषिणः’॥
आव्यराजः शालिवाहनः। साहसांको विक्रमः।
इत्यनेन तु विक्रमपर्यन्तं संस्कृत संभाषणप्रचारः सिध्यति। नतु विक्रमादित्यकाल एव प्रचारः सिध्यति न तु ततोपि पूर्वसनेन तस्मात्तेन चक्रवर्तिना शासनेन प्रचारं प्रापिता स्यात् संस्कृतभाषेति। हन्त सो पूर्वमेवोक्तं मया न शासनेन भाषाप्रचारो भवति।
ननु तर्हि सिद्धस्यैव प्रचारस्य कथनेन किमायातम्। इदमायातं यथा— विक्रमादित्यात्पूर्वं सामान्यतः प्रचार आसीदेव विक्रमकालेऽलंकारादिविभूषितस्य प्रचारो जातः। उन्नतिश्च जाताऽनेककाव्यरचनादिनेत्युच्यते प्रशस्तिबोधनाय।
अपिचाकर्ण्यताम्—
प्राकृतमितिपदे ‘प्रकृतेरागतं प्राकृतम्, प्रकृतिश्च संस्कृतम्” इति तत्र तत्र यत् प्रेक्षावदद्भिर्व्याख्यानं कृतं तत् कथं संगच्छेत यदि भारतस्यादिभाषा सस्कृतं न स्यात्।
अथानुमानं श्रयतां मे यस्याग्रहद्भिद्रम्।
यदिदानीं वेदभाषायाः संस्कृतमस्ति तस्यैवादौ संभाषण प्रचार आसीत्। यदा च कालप्रभावेन जातं भेदेन तृणां वाचि तदा वृद्धधौरेयेरालोचितं नामैवमेव कियत्- कालेन महान् भेदो भविष्यति वेदनृगिरोस्तस्मात् कोष्य- नोपायः कर्तव्य इति विचार्य। तैर्व्याकरणं निरसायि। तानि च व्याकरणान्येनेकानि श्रूयन्ते महेश्वरव्याकरणं, चन्द्रव्याकरणमित्यादिनि सर्वेभ्यः पाश्चात्यं च पाणिनेरस्ति व्याकरणं यस्याधुना राज्यमस्ति।
व्याकरणस्य द्वौ भागौ। तत्रैको नाम लौकिकोऽपरो वैदिक इति। वेदभागे लोकतो यद् यद् विशेषारित वेदे प्रक्रियायाः स्वराणां वा तत् प्रतिपादितम्।
तस्य संस्कृतस्य संभाषणप्रचारः पाण्डवराज्यपर्यन्तं सम्यगासीत्। ततश्च पुनर्भेदप्राप्त्या प्राकृतस्य जन्माऽभूत्। यथा कथं चं विक्रमराज्य पर्यंतमप्यासीत् संस्कृतम्। विक्रः मराजेन दृष्ट्वा संस्कृतस्य स्थादशा प्रयतितं तत्सौन्दर्याय। लब्धं च समीहितमीहातोप्यधिकम्। यथा तत्समय एव संपादितानि सन्ति महाकाव्यान्यऽनर्वाणि।
यदि विक्रमानन्तरमपि तत्सदृशाः संस्कृतपक्षग्रहिला अचलापालका जायेरंस्तदा संस्कृतमपि वज्रमूलं जायेत। दिष्टवशात् पक्षहीनेन नष्ट’ संस्कृतेन। वर्जितं च प्राकृतेन।
तच्च प्राकृतं देशभेदेनापि पुनर्भेदं प्राप्तम्। यथाशूरसेने शौरसेनो, महाराष्ट्रे महाराष्ट्रो मगधे मागधी, पाञ्चाले पाञ्चाली, इत्याद्याः संज्ञाश्च जाताः। तदेव दैवनियोगतः परिणमन् प्राकृतमिदानींतनों वाग्रूपतां प्राप्तम्। यथा–घटो गृहो मिष्ट’ पुस्तकमित्यादिः संस्कृते श्रूयते। घड़ा घर मिठाई पोथी इत्यादिश्च भाषायाम्। इदानीं तनीभाषाशब्दाश्चतुर्विधास्तथाहि। केपि संस्कृता यथा जलपत्रदीपादयः। केपि प्राकृता यथा– घर धण इत्यादयः केपि फारसीभाषाया यथा– जहाज आव इत्यादयः। केपि देशीशब्दा यथा– धाल रोटी चावल सड़क पंखा इत्यादयः। यद्यपि टेलीग्राम इत्यादीनां अगरेजी शब्दा नामप्यस्ति संकरस्तथापि सर्वसाधारण्याभावाच्चतुर्विधत्व मुक्तम्। यदि चाग्रहोस्ति अंग्रेजीशब्दसंकरेपि तदा तु पञ्चविधत्वं भवतु।
आशास्महे संप्रत्यवधारितं भविष्यति श्रीमता मम निवेदनम्। अलमग्रे।
हं हो संस्कृतवाग्गता क्क विषयं त्यक्त्वाधुना भारतं–
धन्यस्तत्समयो यदा नु रसनाभागेऽस्फुरत् सा नृणाम्।
आहृता विबुधैः समासु, नियतेर्दोषोऽथवा मादृशां-
याता विक्रमराजहंससरणीं दृष्ट्वे व शून्यंजगत् १
समर्प्यते ते करपल्लवे मया
गृहाण हे सज्जन लोकरञ्जन।
विवेचना संस्कृतभाषाणस्य ते
कृता मुदेऽतः सदयं विलोकय॥१॥
समाप्तेयं संस्कृतभाषा
Can be obtained
FROM
Pandit Sudarshan Das
Chaukhambha, Benares City:
]