[[संस्कृत-पाठ-माला (तृतीयोभागः) Source: EB]]
[
[TABLE]
[TABLE]
सूचना।
———
पाठको ! यह तृतीय भाग आपको दिया जाता है। पूर्ववत् ही इसका अध्ययन आप कीजिये। बीच बीचमें ऐसे पाठ रखे हैं कि जो “केवल संस्कृत”के ही हैं। वे पाठ यदि आपके समझ में आगये, तो आप यह समझ सकते हैं कि, उस पाठ तक का भाग आपको अवगत हो चुका है, परंतु यदि वे पाठ समझ में नहीं आये, तो आपको पूर्वके पाठ पुनः देखने चाहियें।
इस युक्तिसे आप अपनी परीक्षा भी कर सकते हैं और शीघ्र आगे भी बढ सकते हैं।
स्वाध्यायमण्डल,
औंध (जि. सातारा)
११ ज्येष्ठ संवत् १९८९.
लेखक
श्रीपाद दामोदर खातवलेकर
<MISSING_FIG href="../books_images/U-IMG-17352115551.png"/>
मुद्रक और प्रकाशक—श्रीपाद दामोदर सातवलेकर, स्वाध्याय मंडल,
भारतमुद्रणालय, औंध, ( जि. सातारा. )
<MISSING_FIG href="../books_images/U-IMG-17352115551.png"/>
ॐ
संस्कृत—पाठ—माला।
तृतीय भाग।
पाठ १
अकारान्त पुल्लिंग शब्दोंके रूप निम्नप्रकार बनते हैं—
१ प्रथमा कुमारः = लडका
संबोधन (हे) कुमार = हे लडके !
२ द्वितीया कुमारं = लडके को
३ तृतीया कुमारेण =लडके ने
४ चतुर्थी कुमाराय = लडके के लिये
५ पंचमी कुमारात् =लडके से
६ षष्ठी कुमारस्य = लडके का
७ सप्तमी कुमारे = लडके में
इसी प्रकार निम्नलिखित अकारान्त शब्दों के रूप होते हैं—
पुत्रः–लडका
प्राणः–प्राण
राक्षसः–राक्षस
यज्ञः–यज्ञ
अश्वः–घोडा
पंकः–कीचड
दुर्गः–कीला
द्वारपालः–द्वार का रक्षक
वृषभः–बैल
मेषः–मेंढा
कन्दुकः–गेंद
सिंहः–सींह, बबर
देशः–देश, प्रांत
खण्डः–टुकडा
मंचकः–मेज, पलंग, टेबल
विष्टरः–आसन, कुर्सी
भागः–हिस्सा
धर्मः–धर्म
संस्कृत वाक्य।
१ तव पुत्रः कुत्रः गतः? २ मम पुत्रः अद्य मातुलस्य गृहं गतः। ३ स कदा आगमिष्यति?४ स श्वः आगमिष्यति। ५ तस्मिन् पंके वृषभः पतितः। ६ तं विष्टरं अत्र आनय। ७ मम मंचकः अत्र नास्ति। ८ धर्मस्य तत्त्वं त्वं जानासि किम् ? ९ अस्मिन् देशे राक्षसः नास्ति। १० तव द्वारपालः तत्र अस्ति किम् ? ११ त्वं यज्ञस्य अनुष्ठानं किं न करोषि ? १२ अस्य गृहस्य एष भागः अस्ति। १३ तस्य पुत्रः ग्रामं गतः।
भाषावाक्य।
१ तेरा लडका कहां गया ? २ मेरा लडका आज मामाके घर गया। ३ वह कब आवेगा ?४ वह कल आवेगा। ५ उस कीचड में बैल गिर गया है। ६ उस कुर्सीको यहां ला। ७ मेरा मेज यहां नहीं है। ८ धर्मका तत्त्वतू जानता है क्या ? ९ इस देशमें राक्षस नहीं है। १० तेरा द्वारपाल वहां है क्या ? ११ तू यज्ञका अनुष्ठान क्यों नहीं करता ? १२ इस घरका यह भाग है। १३ उसका लडका ग्रामको गया।
पाठ २
१ मम पुत्रं पश्य। २ पुत्रेण फलं न आनीतं। पुत्राय पुस्तकं देहि। ४ पुत्रात्दूरं न गच्छ। ५ पुत्रस्य वस्त्रं नय। ६ पुत्रे सर्व सुखं भवति। ७ स धर्मेण राज्यं रक्षति। ८ तस्य भागं त्वं किं न इच्छसि ?९ विष्टरे पुस्तकं रक्षितम्। १० मंचकस्य समीपं एव विष्टरः अस्ति। ११ दुर्गः कुत्र अस्ति ? १२ कः दुर्गः ?१३ कृष्णदुर्गः इति यः अस्ति। १४ कृष्णदुर्गः विजयदुर्गस्य समीपं एव अस्ति।
१ मेरे पुत्रको देख।२ पुत्रने फल नहीं लाया। ३ पुत्रको पुस्तक दो। ४ पुत्रसे दूर मत् जा। ५ पुत्रका वस्त्र ले जा। ६ पुत्रमें सब सुख होता है। ७ वह धर्मसे राज्यकी रक्षा करता है। ८ उसके हिस्सेको तू क्यों नहीं चाहता ?९ कुर्सीपर पुस्तक रखा है। १० मेजके पासही कुर्सी है। ११ कीला कहां है ? १२ कौनसा कीला ? १३ कृष्णदुर्ग जो है। १४ कृष्णदुर्ग विजयदुर्ग के पासही है।
संस्कृत वाक्य।
सर्वंबलं प्राणे एव भवति। प्राणः एव बलं अस्ति। रावणः नाम एकः राक्षसः अस्ति। लंकानगरे तस्य राज्यं अस्ति। सिंहः यथा वने भवति तथा अश्वः
ग्रामे भवति। मंचके पुस्तकं नास्ति। गृहे मंचकः अस्ति। अश्वं वीरः आरोहति। वीरः अश्वं आरोहति किम्? वृषभं कःआरोहति? महादेवः वृषभं आरोहति। अस्य दुर्गस्य कःद्वारपालः अस्ति? कंदुकः त्वया कुत्र रक्षितः? यथा मेषः धावति तथा एव वृषभः अपि धावति। तत्र पंकः अस्ति, तत्र न गच्छ। यथा पिता कुमारं पश्यति, तथा कुमारः जनकं पश्यति। चोरेण मम अश्वः नीतः। द्वारपालस्य शस्त्रं तीक्ष्णं अस्ति। दुर्गे सैनिकः भवति। गृहे गृहस्य रक्षकः अस्ति।
संधि किये वाक्य।
तव पुत्रः कुत्र गतः ?कुत्र गतस्तव पुत्रः ?कुत्र तव पुत्रो गतः ?मम पुत्रोऽद्य मातुलस्य गृहं गतः। मातुलस्य गृहमद्य गतो मम पुत्रः। मम पुत्रो गतोऽद्य मातुलस्य गृहम्। मम मंचकोऽत्र नास्ति। नास्त्यत्र मम मंचकः। तव द्वारपालस्तत्राऽस्ति किम् ? किं तत्राऽस्ति तव द्वारपालः ? अस्ति किं तव द्वारपालस्तत्र ? रावणो नामैको राक्षसोऽस्ति। राक्षसोऽस्त्येको रावणो नाम। एको राक्षसो रावणो नामाऽस्ति। अश्वमारोहति वीरः। आरोहत्यश्वं वीरः। वीर आरोहत्यश्वम्। कुमारो जनकं पश्यति। जनकं कुमारः पश्यति।
पाठ ३
इस पाठ में निम्न लिखित श्लोक पढिये—
न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा॥
भ० गीता १।३२
** पद—**न। कांक्षे। विजयं। कृष्ण। न। च। राज्यं। सुखानि। च। किं। नः। राज्येन। गोविंद। किं। भोगैः। जीवितेन। वा।
** अन्वय—**हे कृष्ण! विजयं न कांक्षे। राज्यं सुखानि च न (कांक्षे )। हे गोविंद ! राज्येन नः किं ? भोगैःकिं ? जीवितेन वा किम् ?
** अर्थ—**हे कृष्ण! मैं विजय नहीं (कांक्षे ) चाहता। राज्य और सुखभी नहीं चाहता। हे गोविंद राज्यसे (नः) हमें क्या ? भोगों से क्या ? और जीवित सेभी क्या [ मिलेगा ] ?
येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥
भ० गीता १ । ३३
** पद—**येषां। अर्थे। कांक्षितं। नः। राज्यं। भोगाः। सुखानि च। ते। इमे। अवस्थिताः। युद्धे। प्राणान्। त्यक्त्वा। धनानि। च॥
** अन्वय—**येषां अर्थे राज्यं नः कांक्षितम्, येषां अर्थे भोगाःनः (कांक्षिताः), येषां च अर्थे सुखानि नः (कांक्षितानि)‚ते इमे प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः॥
** अर्थ—**( येषां) जिनके ( अर्थे ) लिये राज्य (नः ) हमने (कांक्षितं ) चाहा था, जिनके लिये भोग हमने चाहे थे, तथा जिनके लिये सुख हमने चाहे थे, (ते ) वे (इमे ) ये प्राणों और धनोंको ( त्यक्त्वा ) छोडकर ( युद्धे ) युद्धमें ( अवस्थिताः ) उपस्थित हैं।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा॥
भ० गीता १ । ३४
** अर्थ—**आचार्य, पितर, पुत्र तथा ( पितामहाः ) दादा, ( मातुलाः) मामा, ( श्वशुराः ) ससुर, ( पौत्राः) पोता, साले, तथा संबंधी [ लोग ये हैं ]
संधि किये वाक्य।
१ अहं विजयं न कांक्षे। नाऽहं विजयं कांक्षे। विजयमहं न कांक्षे। न कांक्षे विजयमहम्। न कांक्षेऽहं विजयम्।
२ अहं राज्यमपि नेच्छामि। नेच्छाम्यहं राज्यं। राज्यं नाऽहमिच्छामि। नाहमिच्छामि राज्यम्। इच्छामि नाहं राज्यम्।
पाठ ४
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥
** पद—**एतान्। न। हन्तुं। इच्छामि। घ्नतः। अपि। मधुसूदन। अपि। त्रैलोक्य+राज्यस्य। हेतोः। किं। नु। मही + कृते॥
भ० गीता १।३५
** अन्वय—**हे मधुसूदन ! एतान् घ्नतःअपि त्रैलोक्यराज्यस्य हेतोः अपि हन्तुं न इच्छामि। किं नु महीकृते ?
** अर्थ—**हे ( मधु + सूदन ) मधु दैत्य को मारनेवाले कृष्ण ! ( एतान् ) इनको (घ्नतः ) हमारा घात करनेवाले हैं। तो मी त्रैलोक्य के राज्य के ( हेतोः) हेतु से भी ( हन्तुं ) मारने की इच्छा नहीं करता हूं; फिर ( महीकृते ) पृथ्वी के राज्य के लिये क्या है ?
निहत्य धार्तराष्ट्रान्नःका प्रीतिः स्याज्जनार्दन।
पापमेवाऽऽश्रयेदस्मान्हत्त्वैतानाततायिनः॥
** पद—**निहत्य। धार्तराष्ट्रान्। नः। का। प्रीतिः। स्यात्। जनार्दन। पापं। एव। आश्रयेत्। अस्मान्।हत्त्वा। एतान्। आततायिनः॥
भ० गीता० १।३६
** अन्वय—**हे जनार्दन ! धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात्? एतान् आततायिनः हत्त्वा अस्मान् पापं एव आश्रयेत्॥
** अर्थ—**हे ( जनार्दन) कृष्ण ! ( धार्तराष्ट्रान् ) धृतराष्ट्र के
पुत्रोंको( निहत्य ) मारकर ( नः ) हमारा क्या ( प्रीतिः) प्रिय ( स्यात् ) होगा? ( एतान् ) इन ( आततायिनः ) दुष्टोंको ( हत्त्वा ) मारकर ( अस्मान् ) हमें पाप ही ( आश्रयेत् ) आश्रितहोगा।
तस्मान्नाऽऽर्हावयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्त्वा सुखिनः स्याम माधव॥
** पद—**तस्मात्। न।अर्हाः। वयं। हन्तुं। धार्तराष्ट्रान्। स्व+बांधवान्। स्व+जनं। हि। कथं। हत्त्वा। सुखिनः।स्याम । माधव॥
भ. गीता १।३७
** अन्वय—**हे माधव ! तस्मात् स्वबांधवान् धार्तराष्ट्रान् हन्तुं वयं न अर्हाः। हि स्वजनं हत्वा कथं सुखिनः स्याम?
** अर्थ—**हे ( माधव ) कृष्ण ! ( तस्मात् ) इसलिए ( स्व + बांधवान् ) अपने भाई ( धार्तराष्ट्रान् ) धृतराष्ट्र के पुत्रोको ( हन्तुं ) मारने के लिये ( वयं ) हम ( न अर्हाः) योग्य नहीं हैं। (हि ) क्यों कि ( स्व +जनं ) अपने ही मनुष्यों को (हत्त्वा) मारकर ( कथं ) कैसे हम ( सुखिनः) सुखी ( स्याम ) होंगे?
पाठक यहां अनुभवसे देखें कि इन श्लोकोंका अर्थ कितने अंश में उनके ध्यान में आने लगा है। श्लोक के पद कैसे बनते हैं, पदोंके पश्चात् अन्वय किस रीतिसे होता है और अन्वय बनते हीकैसा अर्थ सुगम हो जाता है, इसका अनुभव पाठक देखें।
पाठ ५
हे कृष्ण ! अहं विजयं न कांक्षे।
हे गोविंद ! अहं राज्यं अपि न इच्छामि।
हे देव ! अहं सुखं अपि न वांच्छामि।
राज्येन, भोगेन, जीवितेन वा मम किं भवति ?
हे मित्र ! त्वं राज्यं इच्छसि वा न इच्छसि ?
त्वं सुखं अपि कथं न वांच्छसि ?
सः जीवितं वांच्छति, परंतु सुखं न इच्छति।
यः विजयं न कांक्षति, सःराज्यं अपि न इच्छति।
यः सुखं इच्छति‚ सः राज्यं विजयं च वांच्छति।
भोगात् सुखं भवति वा न भवति ?
यस्य अर्थेराज्यं कांक्षितं सः कुत्र गतः ?
सः पुरुषः भोगं सुखं च त्यक्त्वा विजयं इच्छति।
स वीरः धनं त्यक्त्वा युद्धे अवस्थितः।
राज्यस्य अर्थेअहं धनं प्राणं च इच्छामि।
सः धनस्यअर्थे राज्यं प्राणं च वांच्छति।
त्वं तु प्राणस्य अर्थे राज्यं धनं च इच्छसि।
त्वं किं तस्मिन् युद्धे न अवस्थितः ?
स वस्त्रं पुस्तकं च त्यक्त्वा तत्र गतः।
तेन दुग्धं जलं च त्यक्त्वा अन्नं एव खादितम्।
अहं मनुष्यं हन्तुं न इच्छामि।
अहं कं अपि जन्तुं हन्तुं न इच्छामि।
अहिंसा धर्मः एव मम धर्मः अस्ति।
त्रैलोक्यस्य राज्यस्य हेतोः अपि तं हंतुं न इच्छामि।
महीराज्यस्य कृते अपि हंतुं न इच्छामि।
तं निहत्य मम का प्रीतिः स्यात्?
धार्तराष्ट्रान निहत्य नः का प्रीतिः स्यात्।
कौरवान् निहत्य नः किं कल्याणं स्थात?
पशुं निहत्य मनुष्यस्य किं कल्याणं स्यात्?
राष्ट्रं निहत्य नृपस्य का प्रीतिः स्यात्?
तं हत्वा पापं एव अस्मान् आश्रयेत्।
आततायिनः हत्वा नः पापं न आश्रयेत्।
दुष्टं हत्वा पापं भवति वा न भवति?
स्वबान्धवान् हन्तुं वयं न अर्हाः।
स्वमानवान् हन्तुं त्वं न अर्हः।
मूर्खः स्वबान्धवान् एव हन्तुं यत्नं करोति।
सः स्वजनं हत्त्वा कथं सुखी भवति?
दुर्जनः एव स्वजनं हत्वा सुखी भवति।
हितवचनं एव श्रेयः भवति।
यत् अत्यन्तं भूतहितं तत् वचनं श्रेयः अस्ति।
यः मरणात् भीतः नास्ति स एव वीरः।
पाठ ६
विशुद्धस्य मृत्युः शोभनः भवति।
यः स्वधर्मे तिष्ठति स एव श्रेष्ठः पुरुषः।
यस्य शिरः पलितं भवति स वृद्धः न भवति।
तरुणस्य अपि शिरः पलितं भवति।
यदा नृपः अत्र भवति तदा एव सुखं भवति।
रामचन्द्रस्य शोभनं भूषणं अत्र नास्ति।
शुभ्रं पुष्पं त्वया किं न आनीतम्?
यथा कृपणः धनं रक्षति तथा वीरः यशः रक्षति।
सः पुरुषः मद्रासनगरात् कदा आगतः?
यदा रथः तत्र गच्छति, तदा पुरुषः आगच्छति।
सर्वभूतानां हृदयदेशे ईश्वरः तिष्ठति।
सः ईश्वरः सर्वभूतानि भ्रामयति।
सर्वभावेन तं एव ईश्वरं धारणं गच्छ।
तस्य प्रसादात् उपासकः परमां शांति प्राप्स्यति।
ईश्वरस्य प्रसादात् उत्तमं शाश्वतं सुखं भवति।
अहं ईश्वरं सर्वभावेन शरणं गच्छामि।
पूर्व पाठोंमें जो श्लोक दिये हैं उनकी वाक्यरचना समझ में आने से इसप्रकार के अनेकानेक वाक्य बनानेकी योग्यता प्राप्त हो सकती है। पाठक इसी प्रकार उपयोगी वाक्य प्रतिसमय बनाते जांयगे, तो उनकी संस्कृत भाषामें शीघ्र प्रगति हो
जाएगी। संस्कृत सीखनेका यही सुगम उपाय है।
इस पुस्तक में जो पठनका क्रम रखा है, वह अत्यंत सुगम है। उस क्रमके अनुसार जो पाठक पढेंगे उनको विना आयास संस्कृतका ज्ञान हो सकता है। अब संधि किये वाक्य पढिये—
१ अहं सुखमपि न वांच्छामि। नाहं सुखमपि वांच्छामि।न वांच्छामि सुखमप्यहम्। सुखमहमपि न वांच्छामि।
२ स जीवितं वांच्छति, परंतु सुखं नेच्छति। जीवितं स वांच्छति, परंतु नेच्छति सुखम्। स न सुखमिच्छति, परंतु जीवितं वांच्छति।
३ यः सुखमिच्छति, स राज्यं विजयं च वांच्छति। सुखं य इच्छति, स राज्यं विजयं च वांच्छति। स वांच्छति राज्यं विजयं च‚ य इच्छति सुखम्।
४ स वीरो धनं त्यक्त्वा युद्धेऽवस्थितः। धनं त्यक्त्वा स वीरोऽवस्थितो युद्धे। अवस्थितः स वीरो युद्धे धनं त्यक्त्वा।
५ अहं मनुष्यं हन्तुं नेच्छामि। नेच्छाम्यहं मनुष्यं हन्तुम्। हन्तुं नेच्छाम्यहं मनुष्यम्।
६ अहं कमपि हन्तुं नेच्छामि। नेच्छाम्यहं कमपि हन्तुम्। कमप्यहं हन्तुं नेच्छामि। हन्तुं नेच्छाम्यहं कमपि।
पाठ ७
(१) भगवान् तपस्वी, स्वाध्यायशीलः वाल्मीकिः ऋषिः एकदा वनं विचचार।
(२) समीपं एव स ऋषिः एकं क्रौंचमिथुनं अपश्यत्।
(३) तस्मात् एकं क्रौंचं पापः निषादः जघान।
( ४ ) क्रौंचं हतं दृष्ट्वापरमकारुणिकः ऋषिः अवदत्।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौंचमिथुनादेकमवधीःकाममोहितम्॥
( १ ) भगवान् तपस्वी, स्वाध्याय करनेवाला वाल्मीकऋषि (एक-दा) एक समय वनमें ( विचचार ) भ्रमण करता रहा। ( २) पासही वह ऋषि एक क्रौंच पक्षीका (मिथुनं ) जोडा ( अपश्यत् ) देखता रहा। ( ३ ) उस [ जोडे ] से एक क्रौंच पक्षीको पापी निषादने ( जघान ) मारा। ( ४ ) क्रौंच पक्षीको मारा हुआ ( दृष्ट्वा ) देखकर परम ( कारुणिकः ) दयामय ऋषि ( अवदत) बोले—
** अन्वय—**हे निषाद ! त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः। यत् क्रौंचमिथुनात् एकं काममोहितं अवधीः।
** अर्थ—**हे (निषाद) भील ! तू (शाश्वतीः) बहुत ( समाः ) वर्ष (प्रतिष्ठां ) जीवित रहने की अवस्थाको नहीं ( अगमः ) जाओगे अर्थात् बहुत वर्ष जीवित नहीं रहोगे। ( यत् ) क्यों-
( ५ ) अयं श्लोकः समाक्षरैः तेन महर्षिणा गीतः।
( ६ ) सः ऋषिः अस्य श्लोकस्य पादं पादं पुनः पुनः अनुव्याहरत्।
( ७ ) इमं श्लोकं दृष्ट्वा मुनिः संतुष्टः।
( ८ ) ईदृशैः एव श्लोकैःसंपूर्ण रामायणं काव्यं करवाणि इति महर्षेः बुद्धिः जाता।
( ९ ) ऋषिः तथा एव रामचंद्रस्य चरितं चकार।
( १० ) तत् एव रामायणं अस्ति।
( ११ ) सरयूनदीतीरे कोसलःनाम महान् जनपदः आसीत्।
———————————————————————————————————————————————————
कि क्रौंचपक्षीके जोडेमें से एक कामसे मोहित हुए को ( अवधीः ) तूने मारा है। चूं कि तुमने काममोहित क्रौंचपक्षीको मारा है इसलिये तू अब बहुत देरतक जीवित नहीं रहेगा।
(५) यह श्लोक सम अक्षरों में उस महर्षिने गाया। ( ६ ) वह ऋषि इस श्लोकका एकएक पाद पुनः पुनः बोलने लगा। (७) इस श्लोकको देखकर मुनि संतुष्ट हुआ। ( ८ ) ( ईदृशैः ) ऐसेही श्लोकोंसे संपूर्ण रामायण काव्य ( करवाणि ) करूंगा, ऐसी महर्षिकी बुद्धि (जाता ) हो गई। (९) ऋषिने उसी प्रकार रामचंद्रका चरित्र ( चकार ) बनाया, किया। (१०) वही रामायण है। ( ११ ) सरयूनदीके किनारे कोसल नामक बडा ( जनपदः ) देश ( आसीत् ) था।
पाठ ८
( १ ) सः कोसलःजनपदः धनधान्यस्यान्नः मुदितः च आसीत्। ( २ ) तस्य कोसल–देशस्य महापुरी अयोध्या नगरी राजधानी आसीत्। ( ३ ) तां अयोध्यां राजधानीं राष्ट्रवर्धनः राजा दशरथः पालयामास।( ४ ) स राजा दशरथः दीर्घदर्शी महातेजा जनप्रियः वशी सत्यप्रतिज्ञः च आसीत्। ( ५ ) तस्य भूपस्य हिते रताः यशस्विनः अष्टौ अमात्याः बभूवुः। ( ६ ) तेषां पुरे वा राष्ट्रे वा एकः अपि असत्यवादी नरः न आसीत्। ( ७ ) न अपि दुष्टः पापी वा चौरः वा तत्र जनपदे आसीत्। ( ८ ) सर्व राष्ट्रं प्रधानं आनंदपूर्णंच आसीत्।( ९ ) तत्र सर्वः अपि जनः सुखपूर्णः मुदितः ईश्वरभक्तः च आसीत्।
————————————————————————————————————————————————————
( १ ) वह कोसल देश धन और धान्यसे सम्पन्न और ( मुदितः ) आनंदित था। ( २ ) उस कोसलदेशकी बडी अयोध्या नगरी राजधानी थी। ( ३ ) उस अयोध्या राजधानी का राष्ट्र बढानेवाला राजा दशरथ पालन करता था। ( ४ ) वह राजा दशरथ दूरदर्शी, ( महा ) बडा तेजस्वी, लोकप्रिय, (वशी) संयमी और सत्यवचनी था। ( ५ ) उस
भा. ३ फा. २
राज्यहित में तत्पर यशस्वी आठ ( अमात्याः ) मंत्री (बभूवुः) थे। ( ६ ) उनके नगर में अथवा राष्ट्रमें एकभी असत्य भाषण करनेवाला मनुष्य नहीं था। ( ७ ) नहीं कोई दुष्ट पापी अथवा चौर उस देशमें था।( ८ ) सब राष्ट्र शांतियुक्त और आनंद से पूर्ण था। ( ९ ) वहां सब ही लोग सुखी (मुदितः) आनंदित और ईश्वरभक्त थे।
पाठक इस पाठके संस्कृत भागको वारंवार पढें। इतनी वार पढें कि करीब ये वाक्य स्मरण में रहें। एकवार भाषाके अर्थके साथ पढ़ेंगे तो पुनः अर्थ देखनेके विनाही संस्कृत भाग समझ में आ जायगा। अब संधि किये संस्कृत वाक्य पढिये—
संधि किये वाक्य।
भगवान्तपस्वी स्वाध्यायशीलो वाल्मीकी ऋषिरेकदा वनं विचचार। समीपमेव स ऋषिरेकं क्रौंचमिथुनमपश्यत्। तस्मादेकं क्रौंचं पापो निषादो जघान। क्रौंचं हतं दृष्ट्वा परमकारुणिक ऋषिरवदत्“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौंचमिथुनादेकमवधीः काममोहितम्।”अयं श्लोकस्समाक्षरैस्तेन महर्षिणा गीतः। स ऋषिरस्य श्लोकस्य पादं पादं पुनः पुनरनुव्याहरत्। इमं श्लोकं दृष्ट्वा स मुनिः संतुष्टः। ईदृशैरेव श्लोकैः संपूर्ण रामायणं काव्यं करवाणीति महर्षेर्बुद्धिर्जाता।
पाठ ९
अब इस पाठ में निम्नलिखित शब्द स्मरण कीजिये
वत्सः–बछडा, बालक
रसः–रस
मूषकः–चूहा
प्रसादः–प्रसाद
नृपः–राजा
लेखकः–लेखक
रूप्यकः–रुपया
चरणः–पांव
अर्भकः–बालक
रथः–रथ, गाडी
पाकः–पाक ( अन्न )
पटः–वस्त्र
उपदेशकः–उपदेशक
आणकः–आना
संस्कृत वाक्य।
१ हे नृप !प्रसादं कुरु। २ उपदेशकः वत्साय रसं ददाति। ३ मूषकः अन्नं खादति। ४ तवपटः कुत्र अस्ति? ५ ममरथः तेन नीतः। ६ अद्य लेखकः लेखनायन आगतः। ७ त्वया पाकः कृतः न वा ?
भाषावाक्य।
१ हे राजा ! प्रसाद कर। २ उपदेशक बछडेके लिये रस देता है।३ चूहा अन्न खाता है। ४ तेरा वस्त्र कहाँ है ? ५ मेरा रथ उसने लिया। ६ आज लेखक लिखनेके लिये नहीं आया। ७ तूने पाक बनाया या नहीं ?।
संस्कृत–वाक्य।
वत्सं अत्र आनय। अर्भकं तत्र नय। स पुरुषः
बालकम्अत्र न रक्षति। कथं तेन पटः रक्षितः?एकस्य नाणकस्य अन्नं देहि। एकस्य रूप्यकस्य मोदकान्आनय। तव कार्यालये लेखकः किं करोति? यदा लेखकःन आगच्छति तदा तत्र कः लिखति? उपदेशकः धर्मस्य उपदेशं कर्तुं ग्रामात् ग्रामं नगरात् नगरं च भ्रमति। स रथेन गच्छति वा न वा? यथा त्वं पटंकरोषि तथा अहं अपि करोमि। नृपस्यनगरं पश्य, तत् अतिशोभनं अस्ति। त्वया धान्यं मूषकात्रक्षणीयम्। यत्र नृपः भवति तत्र सेवकः अपि भवति एव। अहं ईश्वरस्य प्रसादं इच्छामि न किंचित् अपि अन्यत्इच्छामि। यत्र दीप अस्ति तत्र गच्छ। पुस्तकं च पठ। इदानीं अत्र का अपि दीपः नास्ति। पुस्तकं दीपस्य प्रकाशेन एवपठितुं शक्नोमि।
संधि किये वाक्य।
वत्समत्रानय। आनय वत्समत्र। अत्र वत्समानय। स पुरुषो बालकमत्र न रक्षति। नाऽत्र रक्षति स पुरुषो बालकम् बालकं न रक्षत्यत्र स पुरुषः। यत्र नृपो भवति तत्र सेवको भवत्येव। भवत्येव तत्र सेवको यत्र भवति नृपः।
पाठ १०
शब्द।
निम्नलिखित शब्द स्मरण कीजिये—
आम्रः—आम
सूदः—अन्न पकानेवाला
अपूपः—पूरी
ओदनः—भात
मूर्खः—मूढ
आपणः—बाजार, दुकान
ग्रामः—गांव
देशः—देश
निवासः—निवास
प्राज्ञः—ज्ञानी
संस्कृत वाक्य।
१ अस्मिन् ग्रामे आपणः कुत्र अस्ति?२ मम उद्याने एकआम्रवृक्षः अस्ति। ३ तस्य फलं अत्यंतं स्वादु वर्तते। ४ यथा प्राज्ञः वदति तथा मूर्खः न वदति। ५ मम सूदःओदनं पचति। ६ त्वया अपूपः भक्षितः वा न?
भाषा वाक्य।
१ इस ग्राम में बाजार कहां है ? २ मेरी बागमें एक आमका वृक्ष है। ३ उसका फल अत्यंत स्वादु होता है। ४ जैसा ज्ञानी बोलता है, वैसा मूढ नहीं बोलता। ५ मेरा रसोइया भात पकाता है। ६ तूने पूरी खाई या नहीं?
संस्कृत वाक्य।
यत्अन्नंस्वादु अस्ति तदेव त्वं भक्षय। यत्
अन्नं स्वादु नास्ति, तत् कदाचित् अपि त्वं न् भक्षय। इदानीम्अन्नस्य भक्षणस्य समयः। अहं भोजनसमये ओदनंअपूपं च भक्षयामि जलं च पिबामि। यथा मूढः अन्नं भक्षयति, तथा प्राज्ञः अपि भक्षयति। तव सेवकः मूर्खः एव अस्ति। सः न एव जानाति किं अन्नं स्वादु किं वा अस्वादु।
यदा वीरः गच्छति तदा शस्त्रेण सह एव गच्छति। यथा योधः युद्धं करोति, तथा प्राज्ञः अपि करोति एव। परंतु वीरस्य शस्त्रयुद्धं भवति, तथा प्राज्ञस्य शब्दयुद्धं भवति।
तवकुत्रनिवासः? मम निवासः अत्र एव। यत्र सः अस्ति तत्र एव अहं अस्मि। प्राज्ञेन सह एव अहं गमिष्यामि।
संधि किये वाक्य।
यदन्नंस्वाद्वस्ति, तदेव त्वं भक्षय।अन्नं यत्स्वाद्वस्ति, तदेव त्वं भक्षय। त्वं तदेवान्नं भक्षय, यत्स्वाद्वस्ति। भक्षय त्वमन्नं तदेव, यदस्ति स्वादु। त्वमेव तदन्नं भक्षय, स्वादु यदस्ति।
मम निवासोऽत्रैवास्ति। अत्रैवास्ति मम निवासः। निवासोऽस्त्यत्रैव मम। अस्त्यत्रैव मम निवासः। अस्ति ममात्रैव निवासः।
पाठ ११
जलं पिबति। अन्नं भक्षयामि। दुग्धं पास्यामि। तस्य वृक्षस्य फलं अत्र अहं आनयामि‚ तं फल च भक्षयामि। मार्जारः दुग्धं पिबति। ब्राह्मणः वेदं पठति। क्षत्रियः युद्धं करोति। वैश्यःआपणे वाणिज्यं करोति। शूद्रः सेवकः भवति।
यथा त्वं जानासि तथा एव वद। कदापि असत्यं न वद। सत्यस्य वचनं श्रेयः। यत् अत्यन्तं भूतहितं तत् एव सत्यं इति मम मतम्। नरकस्य त्रिविधं द्वारं। कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयं त्यजेत।
अस्मिन् ग्रामं तव गृहं अस्ति किम् ? तव गृहे अश्वः अस्ति वा न ? मम गृहे एकः एव अश्वः अस्ति। तं अश्वं अहंप्रतिदिनं आरोहामि। तं न कः अपि अन्यः आरोहति।
परवशं सर्व दुःखमेव। सर्व सुखं यत् आत्मवशं भवति। एतत् सुखस्य लक्षणं‚ च एतत् दुःखस्य लक्षणं त्वं विद्धि।
तव गृहे इदानीं तव पितामहः वर्तते वा न ?तव माता कुत्र गता इदानीं ? अद्यएव मम भ्राता ग्रामात् आगतः। यत्र त्वं गतः तत्र एव मम भ्राता अपि गतः।
तस्मिन्युद्धे तस्य पार्थिवस्य पराभवः भूतः। अस्मिन्ग्रंथे तत् एव लिखितं अस्ति। यथा वने सिंहः तथा नगरे नृपः भवति। इदानीं सैनिकः कुत्र गच्छति ? युद्धाय गच्छति इति अहं जानामि।
यथा सुवर्णकारः सुवर्णस्य भूषणं करोति, तथा त्वमपि कुरु। तस्य कपोतः कुत्र गतः ? पश्य, इदानीं सः कपोतः तस्मात् देशात् आगच्छति।
त्वं किं न क्रीडसि ? अहं सायंकाले एव क्रीडामि, न तु प्रातः समये। यथा त्वं क्रीडसि तथा देवदत्तः न क्रीडितुं शक्नोति। एतत् स्थानं शोभनं अस्ति, अत्र एव अहं क्रीडामि। त्वं अत्र क्रीडसि, तर्हि अहं अत्र
नैव क्रीडिष्यामि।
स चक्रं भ्रामयति। तत् त्वं पश्यसि किम् ?यथा स चक्रं भ्रामयितुं शक्नोति, तथा अहं न शक्नोमि
क्षमावतां एक एव दोषः अस्तिः न द्वितीयः। कः स दोषः ? एष दोषः यत् जनः क्षमया युक्तं एनं अशक्तं मन्यते।
हे राजेन्द्र ! शमीकःनाम परमधर्मात्मा दान्तः शान्तः महातपाः एकः ऋषिः तव राज्ये तव नगरस्य समीपे एव वर्तते। हे राजन् ! मौनव्रतस्य तस्य स्कंधे एकः मृतः सर्पः त्वया धनुष्कोट्या अवसक्तः।
पाठ १२
१ सः ऋषिः तव तत् कर्म क्षान्तवान्। परन्तु तस्य पुत्रः न चक्षमे।
२ हे राजेन्द्र ! तेन क्रुद्धेन ऋषिपुत्रेण त्वं शप्तः असि। पितुः अज्ञातं एवं शप्तः असि।
३ हे नृप ! तत्र रक्षां कुरु इति पुनः पुनः स ऋषिः त्वां अब्रवीत्। तं क्रुद्धं पुत्रं यन्तुं स ऋषिः शमीकः न शक्नोति। अतः तेन अहं प्रेषितः।
४ तत्यथा इच्छसि तथा कुरु। अहं गच्छामि। इदानीं अहं अत्र स्थातुं न शक्नोमि। शीघ्रमेव मया गंतव्यम्।
५ पश्य तं पर्वतम्। तस्य नाम हिमाचलः। अस्य पर्वतस्य किं नाम ? अस्य पर्वतस्य नाम सह्य पर्वत इति।
६ कस्मात् नगरात् त्वंआगतः? काशीनगरात् अहं आगतः। अद्य अहं वेदं पठितुं आगतः। इदानीं एव वेदं पठामि। तथा त्वमपि पठ।
७ हे मित्र ! यदा त्वं स्नानाय गंगां गमिष्यसि, तदा अहमपि आगमिष्यामि। अहं गंगास्नानं प्रातः समये एव कर्तुमिच्छामि।
संधि किये वाक्य।
१ स ऋषिस्तव तत्कर्म क्षान्तवान्। परन्तु तस्य पुत्रों न चक्षमे।
२ राजेन्द्र ! तेन क्रुद्धेनर्षिपुत्रेण त्वं शप्तोऽसि।पितुरज्ञातमेव शप्तोसि।
३ हे नृप। तत्र रक्षां कुर्विति पुनः पुनः स ऋषिस्त्वामब्रवीत्। तं क्रुद्धं पुत्रं यन्तुं स ऋषिः शमीको न शक्नोति। अतस्तेनाऽहं प्रेषितः।
४ तद्यथेच्छसि तथा कुरु। अहं गच्छामि। इदानीमत्र स्थातुं न शक्नोमि। शीघ्रमेव मया गन्तव्यम्।
५ पश्य तं पर्वतम्। तस्य नाम हिमाचलः। अस्य पर्वतस्य किं नाम ? अस्य पर्वतस्य नाम सह्यपर्वत इति।
६ कस्मान्नगराश्वमागतः? काशीनगरादहमागतः। अग्राहं वेदं पठितुमागतः। इदानीमेव वेदं पठामि। तथा त्वमपि पठ।
७ हे मित्र ! यदा त्वं स्नानाय गंगां गमिष्यसि, तदाऽहमप्यागमिष्यामि। अहं गंगास्नानं प्रातःसमय एव कर्तुमिच्छामि।
सूचना—पूर्ववाक्यों के अनुसंधानसे पाठक जान सकते हैं कि कौनसा संधि किस स्थान पर कैसा हुआ है।
**पाठ १३ **
अब निम्नलिखित श्लोक देखिये—
तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम्॥
भ० गी० अ० ३।४१
**पद—**तस्मात्। त्वं। इंद्रियाणि। आदौ। नियम्य। भरत + ऋषभ। पाप्मानं। प्रजहिहि। एनं।ज्ञान + विज्ञान+ नाशनम्॥
** अन्वय—**हे भरतर्षभ! त्वं तस्मात् आदौ इंद्रियाणि नियम्य एनं ज्ञानविज्ञाननाशनं पाप्मानं प्रजहिहि।
**अर्थ—**हे (भारत + ऋषभ ) भरतश्रेष्ठ ! तू ( तस्मात् ) इसलिये (आदौ ) प्रारंभ में इंद्रियोंका ( नियम्य ) संयम कर ( एनं ) इस ज्ञान और विज्ञान के नाशक (पाप्मानं ) पापी का ( प्रजहि ) नाश कर।
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्॥
मनुस्मृति ३ । २
** पद—**वेदान्। अधीत्य। वेदौ। वा। वेदं। वा। अपि। यथा + क्रमम्। अ–वि–प्लुत + ब्रह्मचर्यः गृहस्थाश्रमं। आवसेत्॥
**अन्वय—**वेदान्वेदौ वा वेदं वा अपि यथाक्रमं अधीत्य अविप्लुतब्रह्मचर्यःगृहस्थाश्रमं आवसेत्॥
** अर्थ—**(वेदान् ) सब वेदोंका, (वेदौ)* दो वेदोंका (वा) अथवा ( वेदं ) एक वेदका ( यथाक्रमं ) क्रमके अनुसार ( अधीत्य ) अध्ययन करके ( अ–विप्लुतब्रह्मचर्यः) ब्रह्मचर्य को न तोडनेवाला गृहस्थाश्रम में ( आवसेत् ) वसे।
निर्मलोनिर्विकल्पोऽहं निश्चलोऽहं निरन्तरम्।
निर्विकारो नित्यपूतो निर्मोहो निःस्पृहोऽस्म्यहम्॥
** पद—**निर्मलः। निर्विकल्पः। अहं। निश्चलः। अहं। निरंतरम्। निर्विकारः। नित्यपूतः। निर्मोहः। निःस्पृहः अस्मि। अहम्॥
** अन्वय—**अहं निर्मलः, अहं निर्विकल्पः, अहं निश्चलः, अहं निरंतरं निर्विकारः, अहं नित्यपूत, अहं निर्मोहः निःस्पृहः च अस्मि।
** अर्थ—**( अहं ) मैं निर्मल, (निर्विकल्पः ) विकल्प अर्थात् संदेहरहित, (निश्चलः) चंचलतारहित, निरंतर ( निर्विकारः ) विकाररहित, (नित्यपूतः ) सदा पवित्र, ( निर्मोहः) मोहरहित और (निःस्पृहः ) निरिच्छ (अस्मि) हूं।
——————————————––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––———
* बहुशः द्विवचन में प्रथमा, संबोधन और द्वितीया विभक्तिको औ प्रत्यय लगता है, जैसा कि कुमारौ। तृतीया, चतुर्थी और पंचमीको भ्याम्, जैसा कि कुमाराभ्याम्। और षष्ठी सप्तमी को ओःप्रत्यय लगता है जैसा कि रामयोः।
पाठ १४
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः॥
**पद—**मातृवत्। स्वसृवत्। च। एव। नित्यं। दुहितृवत्। च। ये। परदारेषु। वर्तन्ते। ते। नराः।स्वर्गगामिनः॥
** अन्वय—**येनित्यं मातृवत् स्वसृवत् दुहितृवत् च परदारेषु वर्तन्ते, ते नराः स्वर्गगामिनः॥
** अर्थ—**( ये ) जो ( नित्यं सदा (मातृवत् ) माता के समान, ( दुहितृवत्) भगिनी के समान और ( दुहितृवत् ) पुत्री के समान ( पर–दारेषु ) परस्त्रीके विषय में ( वर्तन्ते ) वर्ताव करते हैं, (ते) वे नर ( स्वर्ग–गामिनः) स्वर्गको जानेवाले हैं।
** भावार्थ—**दूसरेकी स्त्री बडी ऊमरवाली है तो उसको माता, समान आयुवाली हो तो उसे बहिन और छोटी आयुवाली हो, तो उसे पुत्री मानकर बर्ताव करनेवाले लोग स्वर्गके भागी होते हैं।
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्॥
** पद—**श्रुति + स्मृति + उदितं। धर्मं। अनुतिष्ठन्। हि। मानवः। इह। कीर्ति।अवाप्नोति। प्रेत्य। च।अनुत्तमं। सुखम्॥
** अन्वय—**हि श्रुति–स्मृति–उदितं धर्मंमानवः अनु–तिष्ठन् इह कीर्तिंअवाप्नोति प्रेत्य च अनुत्तमं सुखम्॥
** अर्थ—**(हि) निःसंदेह श्रुति और स्मृति से ( उदितं ) प्रकाशित धर्मका (अनुतिष्ठन् ) अनुष्ठान करनेवाला (मानवः) मनुष्य (इह) यहां कीर्ति ( अवाप्नोति ) प्राप्त करता है और (प्रेत्य) मरनेके पश्चात् (अन् उत्तमं) श्रेष्ठ सुख प्राप्त करता है।
न वै तेषां स्वदते पथ्यमुक्तं
योगक्षेमं कल्पते नैव तेषाम्।
भिन्नानां वै मनुजेन्द्र परायणं
न विद्यते किंचिदन्यद्विनाशात्॥
म.भा. उ. ३६/५७
** अन्वय—**पथ्यं उक्तं तेषां न वै स्वदते। तेषां योगक्षेमं नैव कल्पते। हे मनुजेन्द्र ! भिन्नानां परायणं विनाशात् अन्यत् किंचित् न विद्यते॥
** अर्थ—**( पथ्यं ) हितकारक (उक्तं ) भाषण ( तेषां ) उनको नहीं (स्वदते ) स्वादु लगता। उनका योगक्षेम नहीं होता।हे (मनुज + इंद्र ) मनुष्यों में श्रेष्ठ ! (भिन्नानां) आपसमें झगडनेवालों का (परायणं) परिणाम विनाशसे अन्य कुछभी नहीं होता है।
इस रीति से श्लोकोंका अर्थ करनेसे आपकी संस्कृत में प्रगति अति शीघ्र होगी। इसलिये जितनी मेहेनत आप संस्कृत श्लोकोंपर करेंगे उतना लाभ आपको निःसंदेह होगा।
इस पाठका अध्ययन जब आप समाप्त करेंगे, उस समय आप इन श्लोकों को ही दस पंद्रह वार बडी आवाज में अवश्य पढिये।
पाठ १५
इकारान्त पुलिंग शब्द के रूप निम्नलिखित प्रकार होते हैं—
१ प्र० गिरिः = पर्वत
सं० ( हे) गिरे = ( है ) पर्वत !
२ द्वि० गिरिं = पर्वत को
३ तृ० गिरिणा =पर्वत ने
४ च० गिरये = पर्वत के लिये
५ पं० गिरेः = पर्वत से
६ ष० गिरेः =पर्वत का
७ स० गिरौ = पर्व में में
इसी प्रकार निम्नलिखित इकारान्त पुल्लिंग शब्दों के रूप होते हैं—
ऋषिः = ऋषि
मुनिः= मुनि
महर्षिः = महाऋषि
कपिः=वानर
अब्धिः = समुद्र
आजिः= युद्ध
उमापतिः = शंकर
कृमिः=कृमि
विधिः =विधि,ब्रह्मा
देवापिः = देवापी नामका मनुष्य
बृहस्पतिः =देवोंके गुरु
शस्त्रपाणिः = शस्त्रधारी वीर
सेनापतिः = सेनापति
इषुधिः = बाणोंकी तूणीर
तित्तिरिः = तित्तर पक्षी
दुन्दुभिः=ढोल
संस्कृत–वाक्य।
१ ऋषिःआश्रमे तपः करोति। २ मुनिः मौनव्रतः भवति।३ यथा ऋषिः धर्मं जानाति, तथा एवं मुनिः अपि जानाति एव। ४ कपिः कथं वृक्षं आरोहति? ५ वृक्षस्य उपरि तं कपिं पश्य। ६ तेन कपिना वृक्षस्य फलं भक्षितम्। ७ कपये जलं अधुना देहि। ८ अब्धेःजलं स्नानाय हितकरं भवति। ९ आजौवीरः युद्धं करोति। १० हे उमापते!मां रक्ष। ११ तस्मिन् जले कृमिः अस्ति। १२ विधिना जगत् निर्मितम्। १३ इदानीं देवापिः अरण्ये ईश्वरस्य उपासनां करोति। १४ बृहस्पतिना किं कार्यं कृतम् ?
भाषा–वाक्य।
१ ऋषि आश्रम में तप करता है। २ मुनि मौनव्रत होता है। ३ जैसा ऋषि धर्म जानता है, वैसा ही मुनि भी जानता ही है। ४ बंदर कैसा वृक्षपर चढता है ? ५ वृक्षके ऊपर उस बंदरको देख। ६ उस बंदरने वृक्षका फल खाया। ७ कपिके लिये जल अभी दे। ८ समुद्रका जल स्नानके लिये हितकारी होता है। ९ युद्धमें वीर युद्ध करता है। १० हे शंकर ! मेरी रक्षा कर। ११ उस जल में कृमि है। १२ ब्रह्माने जगत् निर्माण किया। १३ इस समय देवापी अरण्य में ईश्वर की उपासना करता है। १४ बृहस्पतिने क्या कार्य किया ?
पाठ १६
१ शस्त्रपाणिना वीरेण शोभनं युद्धं कृतम्। २ तस्य सेनापतेः सैनिकः अत्र धावति। ३ तस्य वीरस्य एषः इषुधिः। ४ तित्तिरिः आकाशे विचरति। ५ दुन्दुभिः महाशब्दं करोति। ६ कस्य एष दुन्दुभिः अस्ति? ७ ऋषिः योगबलेन सर्व जानाति। ८ मुनिः मौनव्रतेन तथैव ज्ञानी भवति। ९ कस्य एष महान् शब्दः ? १० तस्य राज्ञः दुन्दुभेः एष महान् शब्दः अस्ति।
१ शस्त्रधर वीरने उत्तम शुद्ध किया। २ उस सेनापतिका सैनिक यहां दौडता है। ३ उस वीरका यह इषुधि है। ४ तित्तिरपक्षी आकाश में चलता है। ५ ढोल बडा शब्द करता है। ६ किसका यह ढोल है ? ७ ऋषि योगबल से सब जानता है। ८ मुनि मौनव्रतसे वैसाही ज्ञानी होता है। ९किसका यह बड़ा शब्द ? १० उस राजाकी दुन्दुभिका यह बडा शब्द है।
वाचनपाठः।
भगवान् तपस्वी स्वाध्यायशीलः वाल्मीकी ऋषिः एकदा वनं विचचार। समीपं एव स ऋषिः एकं क्रौंचमिथुनं अपश्यत्। तस्मात् एकं क्रौंचं पापः निषादः जघान। क्रौंचं हतं दृष्ट्वा परमकारुणिकः
भा. ३ फा. ३
ऋषिः अवदत्। “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौंचमिथुनादेकमवधीः काममोहितम्॥” अयं श्लोकः तेन महर्षिणा गीतः। स ऋषिः अस्य श्लोकस्य पादं पादं पुनः पुनः अनुव्याहरत्। इमं श्लोकं दृष्ट्वा मुनिः संतुष्टः। ईदृशैः श्लोकैःसंपूर्ण रामायणं काव्यं करवाणि इति महर्षेः बुद्धिः जाता। वाल्मीकी ऋषिः तथा एव रामचंद्रस्य चरितं चकार। तत् एव रामायणं अस्ति।
सरयूनदीतीरे कोसलः नाम महान् जनपदः आसीत्। सः कोसलः जनपदः धनधान्यसंपन्नः मुदितः च आसीत्। तस्य कोसलस्य देशस्य महापुरी अयोध्या नगरी राजधानी आसीत्। तां राष्ट्रवर्धनः राजा दशरथः पालयामास। स राजा दीर्घदर्शी महातेजाः जनप्रियः वशी सत्यप्रतिज्ञः च आसीत्। तस्य भूपस्य हिते रताः यशस्विनः अष्टौ अमात्याः बभूवुः। तस्मिन्राष्ट्रेएकः अपि असत्यवादी न आसीत्। न अपि दुष्टः पापी वा चौरः वा तत्र कः अपि आसीत्। सर्वंराष्ट्रं प्रशान्तं आनन्दपूर्णं च आसीत्। तत्र सर्वः अपि जनः सुखपूर्णः मुदितः ईश्वरभक्तः च आसीत्।
[ पाठकों को यदि इसके अर्थका संदेह हुआ तो पाठ ७,८ देखें ]
पाठ १७
इस पाठमें पुनः इकारान्त पुल्लिंग शब्द देते हैं।
आधिः = दुःख
उदधिः समुद्र
अद्रिः = पर्वत
वारिधिः = समुद्र
रश्मिः = किरण
रविः = सूर्य
राशिः = ढेर
ग्रंथिः= ग्रंथि, गांठ
क्रिमिः = कीडा
ध्वनिः = शब्द
बलिः = कर
मरीचिः = किरण
संस्कृत वाक्य।
१ स पुरुषः आधिना पीडितः। २ इदानीं उदधिंस्नानाय गच्छ। ३ एष सूर्यस्य रश्मिः। ४ सूर्यस्य एकः रश्मिः सोमं दीपयति ५ उदधेः जलं स्नानाय शोभनं अस्ति। ६ जनः भूपाय बलिं ददाति। ७ सूर्यस्य मरीचिः प्रकाशं करोति। ८ यथा अद्रौ एषः वृक्षः भवति, तथा वने अपि भवति एव। ९ आकाशात् पर्जन्यः पतति। १० तत् सर्वंजलं समुद्रं गच्छति। ११ तस्य एषः ध्वनिः। १२ धान्यस्य राशिं पश्य। १३ स पुरुषः उदधेः जले स्नात्वा अत्र आगच्छति। १४ तस्मै जनाय रक्तं वस्त्रं देहि। १५ अस्य सूत्रस्य एष ग्रंथिः। १६ पर्जन्यस्य जलं अद्रौ पतति। १७ तत् नदीमार्गेण समुद्रं गच्छति। १८ वो प्रकाशः आरोग्यं ददाति।
भाषावाक्य।
१ वह पुरुष दुःखसे पीडित है। २ अब समुद्र के प्रतिस्नान के लिये जा।६ यह सूर्यका किरण। ४ सूर्यका एक किरण चंद्रको प्रकाशित करता है। ५ समुद्र का जल स्नान के लिये उत्तम है। ६ प्रजाजन राजाको कर देता है। ७ सूर्यका किरण प्रकाश देता है। ८ जैसा पर्वतमें यह वृक्ष होता है, वैसा वनमें भी होता ही है। ९ आकाशसे वृष्टि गिरती है। १० वह सब जल समुद्रको जाता है। ११ उसका यह शब्द है। १२ धान का ढेर देख। १३ वह मनुष्य समुद्रके जलमें स्नान करके यहां आता है। १४ उस मनुष्यको लाल वस्त्र दो। १५ इस सूत्र यह गांठ है। १६ पर्जन्य का जल पर्वतपर गिरता है। १७ वह नदी के मार्ग से समुद्र को जाता है। १८ सूर्यका प्रकाश आरोग्य देता है।
संधि किये वाक्य।
१ स पुरुष आधिना पीडितः। इदानीमुदधिं स्नानाय गच्छ। गच्छेदानीमुदधिं स्नानाय। गच्छोदधिमिदानीं स्नानाय।
२ एष सूर्यस्य रश्मिः। रश्मिरेष सूर्यस्य। सूर्यस्यैष रश्मिः। रश्मिः सूर्यस्यैषः।
३ सूर्यस्यैको रश्मिः सोमं दीपयति। सूर्यस्य दीपयत्येको रश्मिः सोमम्। सोमं सूर्यस्यैको रश्मिदीपयति।
पाठ १८
शब्द।
गभस्तिः–किरण
सारथिः–सारथि
कुक्षिः–पेट, गर्भाशय
श्रोणिः–कमर, पुट्ठा
दुन्दुभिः–ढोल
नाभिः–नाभि, मध्य
प्रजापतिः–प्रजापालक, राजा
नृपतिः–राजा
भूपतिः–राजा
निभिः–खजाना
संस्कृत वाक्य।
१ सारथिः रथं नयति। २ सारथिना रथः नीतः। ३ रथात् सारथिः पतति। ४ तस्य देशस्य भूपतिः अत्र आगतः। ५ नृपते निधिंकः जानाति ? ६ न जानामि, नृपतेः सारथिः कुत्र गतः। ७ यज्ञः भुवनस्य नाभिः। ८ दुन्दुभेः ध्वनिं त्वं शृणोषि किं? ९ क दुंदुभेः शब्दं करोति ? १० सः पुरुषः नृपतेः निधिं रक्षति। ११ प्रजापतिः प्रजां रक्षति। १२ यः प्रजां रक्षति स एव प्रजापतिः भवति।१३ प्रजापतिः सैनिकं भ्रामयति। १४ भूपतेः प्रसादात् सः धनं इच्छति। १५ नृपतिः ईश्वरं शरणं गच्छति। १६ नगरात नगरं साधुः भ्रमति। १७ तव गृहे इदानीं कः अस्ति ? १८ तस्य हस्तात् दुन्दुभिः पतितः। १९ यथा सैनिकः धावति, तथा त्वं धाव।
भाषा वाक्य।
१ सारथि रथ लेजाता है। २ सारथिने रथ चलाया। ३ रथसे सारथि गिरता है। ४ उस देशका राजा यहां आगया है। ५ राजाका खजाना कौन जानता है ? ६ नहीं जानता हूं, राजाका सारथि कहां गया। ७ यज्ञ ही जगत् कानाभि ( अर्थात् मध्य ) है। ८ ढोलका शब्द तू सुनता है क्या ? ९ कौन ढोलका शब्द करता है ? १० वह मनुष्य राजाके खजाने का रक्षण करता है। ११ प्रजापति प्रजाका रक्षण करता है। १२ जो प्रजाका रक्षण करता है, वही प्रजापति होता है। १३ राजा सिपाहीको घुमाता है।१४ राजाकी कृपासे वह धन चाहता है। १५ राजा ईश्वरको शरण जाता है। १६ ( एक ) शहर से ( दूसरे ) शहरको साधु घूमता है। १७ तेरे घरमें अब कौन है? १८ उसके हाथ से ढोल गिर गया। १९ जैसा सिपाही दौडता है, वैसा तू दौड।
संधि किये वाक्य।
१ सारथी रथं नयति। रथं सारथिर्नयति। सारथिना रथो नीतः। नीतो रथः सारथिना। सारथिना नीतो रथः।
२ तस्य देशस्य भूपतिरत्रागतः। अत्रागतो भूपतिस्तस्य देशस्य। आगतोऽत्र भूपतिर्देशस्य तस्य।
३ नृपतेर्निधिंको जानाति ? जानाति को निधिं नृपतेः?
पाठ १९
इस पाठ में निम्नलिखित श्लोक देखिये—
कुतस्त्वा कश्मलमिदं विषमेसमुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥
भ० गीता २ । २
** पद—**कुतः। त्वा। कश्मलं। इदं। विषमे। समुपस्थितं। अन्+आर्य+जुष्टं।अ+स्वर्ग्य। अ + कीर्तिकरं। अर्जुन।
**अन्वय—**हे अर्जुन ! विषमे अनार्यजुष्टं अस्वग्यं अकीर्तिकरं इदं कश्मलं त्वा कृतः समुपस्थितम् ?
**अर्थ—**हे अर्जुन ! (वि + समे) इस कठिन प्रसंग में (अन्+ आर्य + जुष्टं ) आर्य जिसका सेवन नहीं करते, ( अ + स्वर्ग्यं) जो स्वर्गको देनेवाला नहीं है, और ( अ + कीर्ति +करं ) जो कीर्तिको बिगाडनेवाला है, ऐसा ( इदं ) यह ( कश्मलं ) मोह (त्वा ) तेरे पास ( कुतः ) कहांसे ( सं + उपस्थितं ) आगया ?
क्लैब्यंमा स्मः गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप॥
भ० गीता २ । ३
**पद—**क्लैब्यं। मा। स्म।गमः। पार्थ। न। एतत्। त्वयि। उपपद्यते। क्षुद्रं। हृदय + दौर्बल्यं। त्यक्त्वा। उत्तिष्ठ। परंतप॥
** अन्वय—**हे पार्थ ! क्लैब्यंमा गमः स्म। एतत् त्वयि न उपपद्यते। परंतप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उतिष्ठ।
** अर्थ—**हे ( पार्थ ) अर्जुन ! ( क्लैब्यं) क्लीबत्व अर्थात् दुर्बलता के पास (मा) मत्(गम ) जा। ( एतत् ) यह (त्वयि) तेरे लिये (न उपपद्यते ) सजता नहीं।हे( परंतप ) शत्रुको ताप देनेवाले अर्जुन ! इस क्षुद्र हृदयकी दुर्बलताको (त्यक्त्वा ) छोडकर (उतिष्ठ ) उठ॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा )।
तथा देहान्तरप्राप्तिरस्तत्र न मुह्यति॥
भ० गीता २ । १३
**पद—**देहिनः। अस्मिन्। यथा। देहे। कौमारं। यौवनं। जरा। तथा। देहे + अंतर + प्राप्तिः। धीरः। तत्र। न। मुह्यति॥
**अन्वय—**यथा अस्मिन् देहे देहिनः कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः। तत्र धीरः न मुह्यति॥
अर्थ—(यथा ) जिस प्रकार ( अस्मिन् ) इस देह में (देहिनः ) देहधारी मनुष्यको (कौमारं ) कुमार अवस्था, यौवन अवस्था और (जरा) वृद्ध अवस्था [ प्राप्त होती है ], तथा ( देह +अन्तर + प्राप्तिः ) दूसरे देहकी प्राप्ति होती है, इसलिये (तत्र) उस में (धीरः) धैर्यशाली पुरुष ( न मुह्यति) मोह नहीं करता।
पाठ २०
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति॥
** पद—**अ+विनाशि। तु।तत्। विद्धि। येन। सर्व। इदं। ततं। वि-नाशं। अ+व्ययस्य। अस्य। न। कः। चित्। कर्तु । अर्हति।
भ० गी०२/१७
** अन्वय—**येन इदं सर्वंततं तत् तु अविनाशि विद्धि। अस्य अव्ययस्य विनाशं कश्चित् कर्तुं न अर्हति।
**अर्थ—**जिसने ( इदं ) यह सब (ततं) फैलाया है, (तत्) वह (तु) निश्चय से अविनाश [ है ऐसा ] ( विद्धि ) जान। इस ( अव्ययस्य ) अविनाशीका विनाश ( कः चित् अपि ) कोई भी कर नहीं (अर्हति ) सकता।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णानि नरोऽपराणि॥
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥
भ० गीता २।२२
**पद—**वासांसि। जीर्णाणि। यथा। विहाय। नवानि। गृह्णाति। नरः। अपराणि। तथा। शरीराणि। विहाय।जीर्णानि। अन्यानि। संयाति। नवानि। देवी॥
**अन्वय—**यथा जीर्णानि वासांसि विहाय नरः अपराणि नवानि गृह्णाति। तथा देही जीर्णाणि शरीराणि विहाय अन्यानि नवानि संयाति।
**अर्थ—**जिस प्रकार जीर्ण ( वासांसि ) वस्त्रोंको ( विहाय ) फेंक कर ( नरः) मनुष्य ( अपराणि ) दूसरे ( नवानि ) नये ( गृह्णाति ) लेता है, उसी प्रकार ( देही ) शरीर धारण करनेवाला जीर्ण शरीर फेंक कर अन्य नये ( संयाति ) प्राप्त करता है।
इतने श्लोक जिस समय आप पढचुकेंगे, उसके पश्चात् आप केवल श्लोकोंकोही कई वार पढिये और देखिये कि विना अन्वयादि पढे उक्त श्लोक आपके समझमें आते हैं वा नहीं।
तथा स्वयं दूसरे की सहायता के बिना ही आप श्लोकों के पद तथा अन्वय बनाइये और कोई अशुद्धि तो नहीं होती, इसकी परीक्षा देखिये।
यदि आप स्वयं पद और अन्वय बनायेंगे, तो आपकी प्रगति बहुत हो चुकी है, ऐसा निश्चयसे सिद्ध होगा।
संधि किये वाक्य।
येनेदं सर्वं ततं तत्त्वविनाशि विद्धि। अस्याव्ययस्य विनाशं कश्चिदपि कर्तुं नार्हति। यथा जीर्णानि वासांसि विहाय नरोऽपराणि नवानि गृह्णाति‚ तथा देही जीर्णानि शरीराणि विहायान्यानि नवानि संयाति।
पाठ २१
यदि पिछले पाठ आपके ठीक हो चुके हैं, तो निम्नलिखित वाक्य आप विना आयास समझ सकते हैं—
संस्कृत–वाचन–पाठः।
हे पार्थ ! त्वं क्लैब्यंमा गमः स्म। एतत् त्वयि न उपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ।
हे मनुष्य ! क्षुद्रं कुविचारं त्यक्त्वा शीघ्रं सुविचारं कुरु। हे मनुष्यश्रेष्ठ ! अस्वर्ग्यंअकीर्तिकरं कर्म त्यक्त्वा स्वर्ग्यंकीर्तिकरं कर्म एव कुरु। हे अर्जुन ! त्वं आर्यजुष्टं कर्म न करोषि‚ अपि तु अनार्यजुष्टं कर्म एव करोषि। एतत्अकीर्तिकरं अस्ति। अस्मिन् विषमे समये कश्मलं त्वां कुतः उपस्थितम् ?
अस्मिन् समये स्वहितस्य घातकं कर्म कथं करोषि ? तेन तव अकीर्तिः एव भविष्यति।
हे मनुष्य ! त्वं दौर्बल्यं न गच्छ। एतत् न योग्यम्। अतः शीघ्रं दौर्बल्यं त्यक्त्वा शोभनाय प्रयत्नाय उत्तिष्ठ।
मनुष्यः देहे कौमारं यौवनं जरां च प्राप्नोति। तथा तस्य देहान्तरप्राप्तिः अपि भवति एव। अतः तत्र धीरः न मुह्यति।
यथा दिने प्रातःकालः मध्याह्नकालः सायंसमयः च भवति, तथा एव शरीरे कौमारसमयः यौवनसमयः जरासमयः च भवति। एष शरीरस्य धर्म एव अस्ति। तत्र सुखं किं दुःखं वा किम्? येन इदं सर्वं जगत् कृतं, तत् अविनाशि ब्रह्म अस्ति। येन इदं सर्वं जगत् रचितं स ईश्वरः एव अस्ति। तस्य कदापि नाशः न भवति, अतः तस्य नाम “अव्ययः”इति भवति।
येन सर्व पुस्तकं रचितं स भट्टभास्करः अत्र आगतः। तस्य लेखस्य कः अपि विद्वान् खंडनं कर्तुं समर्थः न भवति।
यथा मनुष्यः जीर्णानि वासांसि त्यक्त्वा नवानि वासांसि गृह्णाति‚ तथा एव जीवः जीर्णानि शरीराणि विहाय‚ नवानि अपराणि शरीराणि गृह्णाति। एवं मनुष्यस्य पुनर्जन्म भवति।
मनुष्यःजीर्णं गृहं त्यक्त्वा नवीनं गृहं प्राप्नोति, तथा एव पुरुषः जीर्णंवस्त्रं विहाय नवीनं वस्त्रं प्राप्नोति।
यथा पुत्रः जीर्णं पुस्तकं विहाय नवीनं पुस्तकं पठति‚ तथा त्वं पुराणं शस्त्रं त्यक्त्वा नवीनं एव गृहाण। तथा तेन एव युद्धं कुरु।
पाठ २२
संस्कृतवाचनपाठः।
हे भरतश्रेष्ठ ! त्वं प्रथमं इंद्रियाणि नियम्य पापं विचारं प्रजहि। एष पापः विचारः ज्ञानस्य नाशकः विज्ञानस्य अपि विनाशकः अस्ति।
वेदान् अधीत्यमनुष्यः गृहस्थाश्रमं आयसेत्। वेदस्य अध्ययनं न कृत्वा गृहस्थाश्रमं न आवसेत्।
स्नानं कृत्वा एव भोजनं कर्तव्यम्।
के नराः स्वर्गं गच्छन्ति। ये मनुष्याः परस्त्रीविषये मातृवत् स्वसृवत् पुत्रीवत् च वर्तन्ते, एते मानवाः स्वर्गगामिनः भवन्ति।
यः मनुष्यः धर्मंरक्षति, तं धर्मः रक्षति एव। स एव मनुष्यः इह कीर्तिं अवाप्नोति‚ प्रेत्य च उत्तमं सुखं प्राप्नोति।
ये मनुष्याः भिन्नाः वर्तन्ते तेषां पथ्यं उक्तं न स्वदते। तेषां योगक्षेमं नैव कल्पते। विनाशात् अन्यत् भिन्नानां मनुष्याणां परायणं किंचित् अपि न विद्यते।
तस्मिन् एव आश्रमे देवापिः तपः करोति। सः इदानीं मौनव्रतः अस्ति। अतः किंचित् अपि न
वदति। कोसलस्य देशस्य कः नृपतिः अस्ति ? कोसलदेशस्य भूपतिः दशरथः अस्ति। तस्य कः पुत्रा ? तस्य रामचंद्रः इति एकः पुत्रः अस्ति। तस्य अन्यः कः पुत्रः ?तस्य दशरथनृपस्य अन्यः पुत्रः लक्ष्मणः इति अस्ति। किं तस्य अन्यः कः अपि पुत्रः अस्ति ?तस्य दशरथनृपस्य अन्यः पुत्रः भरतः इति अस्ति। शत्रुघ्नः अपि तस्य एव पुत्रः अस्ति।
तस्य राष्ट्रे कोसले देशे सर्वः जनः सुखयुक्तः अस्ति। यः धार्मिकः राजा अस्ति, तस्थ राष्ट्रे जनः सुखयुक्तः भवति एव। अतः धर्मः एव सुखदायकः अस्ति।
सूचना।
यदि आप यह पाठ नहीं समझ सकेंगे, तो पिछले पाठ आपको पुनः देखने चाहियें। परंतु यदि आप यह पाठ पूर्णता से समझ गये हैं, तो आप आगे बढ सकते हैं। यह एक प्रकारकी परीक्षा ही है। पिछले पाठ ठीक होनेपर इस पाठ में आपको कोई कठिनता प्रतीत नहीं होगी।
संधि किये वाक्य।
हे भरतश्रेष्ठ ! त्वं प्रथममिन्द्रियाणि नियम्य पापं विचारं प्रजहि। एष पापो विचारोज्ञानस्य नाशको विज्ञानस्याऽपि विनाशकोऽस्ति। वेदानधीत्य मनुष्यो गृहस्थाश्रममावसेत्।
पाठ २३
उकारान्त पुल्लिंग शब्द के रूप निम्नप्रकार बनते हैं—
१ भानुः–सूर्य
(हेभानो !–(हे) सूर्य !
२ भानुं–सूर्य को
३ भानुना–सूर्य ने
४ भानवे–सूर्य के लिये
५ भानोः–सूर्य से
६भानोः–सूर्य का
७ भानौ–सूर्य में
इस रीति से उकारान्त पुल्लिंग शब्द के रूप होते हैं। उकारान्त पुल्लिंग शब्द ये हैं—
गुरुः = अध्यापक
मृत्युः= मरण
जन्तुः = प्राणि
क्रतुः = यज्ञ, कर्म
अक्रतुः = यज्ञ न करनेवाला
विष्णुः= व्यापक ईश्वर
बाहुः = बाहु
हनुः = ठोढी
साधुः = साधु [ वाला
भिक्षु = भिक्षु, मीख मागने
पशुः = पशु
तंतुः = धागा
चरुः = अन्न,पके चावल
ऋतुः = ऋतु
संस्कृत वाक्य।
१ मित्र ! त्वं कुत्र गच्छसि ? २ अहं इदानीं गुरोः गृहं गच्छामि। ३ तव गुरुः किं अध्यापयति ? ४ मम गुरु मां व्याकरणं अध्यापयति। ५ इदं फलं कुत्र नयसि?६ इदं फलं गुरवे दास्यामि। ७ सर्वः
जन्तुः मृत्युं प्राप्नोति एव। ८ भिक्षुःगृहात्गृहं भिक्षार्थं भ्रमति। ९ उपदेशकः ग्रामात् ग्रामं उपदेशार्थं भ्रमति। १० एषः वसन्तऋतुः अस्ति। ११ अस्मिन् वसन्ते ऋतौ पुष्पं फलं च भवति। १२ त्वं कं ऋतुं कर्तुं इच्छसि ? १३ अहं राजसूयं कर्तुं इच्छामि। १४ व्यापकः ईश्वरः विष्णुः इति उच्यते। १५ साधुः विष्णुं एव ध्यायति। १६ तन्तुना वस्त्रं भवति। १७ तन्तोः अन्यत् किं भवति ?१८ तन्तोः रज्जुः भवति।
भाषा वाक्य।
१ हे मित्र ! तू कहां जाता है ? २ मैं अब गुरुके घर जाता हूं। ३ तेरा गुरु क्या पढाता है ? ४ मेरा गुरु मुझे व्याकरण पढाता है। ५ यह फल कहां ले जाता है ? ६ यह फल गुरुको दूंगा। ७ सब प्राणी मरण को प्राप्त होता है। ८ भिक्षु एक घरसे दूसरे घर को भिक्षा के लिये घूमता है। ९ उपदेशक एक ग्रामसे दूसरे ग्रामको उपदेश के लिये घूमता है। १० यह वसंत ऋतु है। ११ इस वसंत ऋतु फूल और फल होता है। १२ तू कौनसा यज्ञ करना चाहता है ? १३ में राजसूय यज्ञ करना चाहता हूँ। १४ व्यापक ईश्वरको विष्णु ऐसा कहते हैं। १५ साधु विष्णु का ही ध्यान करता है। १६ धागेसे वस्त्र होता है। १७ धागेसे अन्य क्या होता हूँ ? १८ धागे से डोर बनता है।
पाठ २४
१ अक्रतुः मनुष्यः साधुः न भवति। २ अग्निना अहं चरुं पचामि। ३ ऋतोः फलं किं भवति? ४क्षत्रियस्य बाहुः बलयुक्तः भवति। ५ विद्याविहीनः मनुष्यः द्विपाद पशुः एव भवति। ६ विद्यासम्पन्नः मनुष्यः एव मनुष्यः भवति। ७ चरुं कस्मै दास्यसि? ८ अहं चरुं तस्मै दास्यामि। ९ कार्पासस्य एषः तन्तुः अस्ति। १० कः अपि जन्तुः क्षणं अपि अकर्मकृत् न तिष्ठति। ११ अक्रतोः मनुष्यस्य जीवनं अपि व्यर्थम्। १२ यथा मनुष्ये जीवः अस्ति, तथा पशौ अपि जीवः अस्ति। १३ गुरुः पूज्यः भवति। १४ गुरुणा सह अहं गच्छामि। १५ साधुः अपि भिक्षुः भवति।
१ कर्म न करनेवाला मनुष्य साधु नहीं होता है। २ अग्निसे मैं अन पकाता हूं। ३ यज्ञका फल क्या होता है? ४ क्षत्रिय का बाहु बलवान् होता है। ५ विद्यारहित मनुष्य दो पांववाला पशुड़ी होता है। ६ विद्यासम्पन्न मनुष्यही मनुष्य होता है। ७ अन्नतू किसको देगा ? ८ में अन्न उसको दूँगा। ९ कपासका यह धागा है। १० कोई भी प्राणि क्षणभर भी कर्म न करते हुए नहीं ठहरता। ११ कर्म न करनेवाले मनुष्यका जीवन भी व्यर्थ है। १२ जैसा मनुष्य
भा. ३ फा. ४
में जीव है, वैसा पशुमें भी जीव है। १३ गुरु पूज्य होता है। १४ गुरुके साथ मैं जाता हूं। १५ साधु मी भिक्षु होता है।
**संधि किये वाक्य **
१ अक्रतुर्मनुष्यः साधुर्न भवति। न साधुर्भवत्यक्रतुर्मनुष्यः। न भवति साधुरऋतुर्मनुष्यः।
२ अग्निनाऽहं चरुं पचामि। पचाम्यहं चरुमग्निना। चरुमहमग्निना पचामि। अहमग्निना चरुं पचामि।
३ ऋतोः फलं किं भवति ? ऋतोर्भवति किं फलम् ?
४ क्षत्रियस्य बाहुर्बलयुक्तो भवति। बलयुक्तो बाहुर्भवति क्षत्रियस्य। बाहुर्भवति बलयुक्तः क्षत्रियस्य॥
५ विद्यासंपन्नो मनुष्य एव मनुष्यो भवति। विद्यासंपन्न एव मनुष्यो मनुष्यो भवति।
६ कार्पासस्यैष तन्तुरस्ति। एष तन्तुः कार्पासस्याऽस्ति। एष कार्पासस्य तन्तुरस्ति।
७ कोऽपि जन्तुः क्षणमप्यकर्मकृन्न तिष्ठति। न तिष्ठति कोऽपि जन्तुरकर्मकृत् क्षणमपि। क्षणमध्यकर्मकृन्न कोपि जन्तुस्तिष्ठति।
८ अक्रतोर्मनुष्यस्य जीवनमपि व्यर्थम्। व्यर्थं जीवनमप्यक्रतोर्मनुष्यस्य।
पाठ २५
उकारान्त पुल्लिंग शब्द इस पाठमै स्मरण कीजिये—
प्रभुः= मालिक, ईश्वर
इक्षुः=ईख
मेरुः= मेरुपर्वत
सेतुः= पुल, सेतु
सक्तुः=सत्तु
वायुः वायु, हवा
भानुः = सूर्य
बिंदुः =बिंदु
इषुः=बाण
स्तनयित्नुः = मेघ
संस्कृत वाक्य।
१ गृहस्य प्रभुः गृहस्थः। २ राष्ट्रस्य प्रभुः नृपतिः। ३ विश्वस्य प्रभुः विष्णुः अस्ति। ४ सः सक्तुं तितउना पुनाति। ५ वस्त्रेण घृतं सः पुनाति। ६ सत्येन मनः शुध्यति। ७ अहं सक्तुं खादामि। ८ इक्षोः मधुरः रसः भवति। ९ भानोः प्रकाशः प्रखरः भवति। १० रामेण इषुणा रावणः हतः। ११स्तनयित्नुः आकाशे गर्जति। १२ जन्तोः शरीरे वायुः एव प्राणः भवति। १३ चातकः जलबिन्दुं इच्छति। १४ सक्तुः बलप्रदः अस्ति। १५ यदा सक्तुः इक्षोः रसेन सह भक्षितः भवति, तदा एव सः बलप्रदः भवति। १६ आकाशात्वृष्टिः बिन्दुरूपेण भवति। १७ तत्र शोभनः सेतुः अस्ति।
भाषावाक्य।
१ घरका स्वामी गृहस्थ है। २ राष्ट्रका ईस राजा है। ३ विश्वका प्रभु विष्णु है। ४ वह सत्तुको छाननीसे शुद्ध करता है। ५ कपडेसे घी वह शुद्ध करता है। ६ सत्यसे मन शुद्ध होता है। ७ में सत्तु खाता हूं। ८ ईखका मीठा रस होता है। ९ सूर्यका प्रकाश प्रखर होता है। १० रामने बाणसे रावण मारा। ११ मेघ आकाशमें गरजता है। १२ प्राणी के शरीर में वायु ही प्राण होता है।१३ चातक पक्षी जलबिन्दु चाहता है। १४ सत्तु बल देनेवाला है। १५ जब सत्त ईख के रस के साथ खाया जाता है, तब वह बल देनेवाला होता है। १६ आकाशसे वृष्टि बिंदुरूपसे होती है। १७ वहां उत्तम पुल है।
संधि किये वाक्य।
१ गृहस्य प्रभुर्गृहस्थोऽस्ति। अस्ति गृहस्थो गृहस्य प्रभुः। प्रभुर्गृहस्थास्ति गृहस्थः।
२ राष्ट्रस्य प्रभुर्नृपतिरेवाऽस्ति। नृपतिरेव प्रभू राष्ट्रस्याऽस्ति। राष्ट्रस्य नृपतिरेव प्रभुरस्ति।
३ विश्वस्य प्रभुर्विष्णुरस्ति। विष्णुरस्ति प्रभुर्विश्वस्य। प्रभुर्विश्वस्य विष्णुरस्ति।
४ रामेणेषुणा रावणो हतः। हतो रावणो रामेणेषुणा। इषुणा रावणो रामेण हतः।
पाठ २६
अब उकारान्त विशेषण दिये जाते हैं, उनके रूप भी पूर्वोक्त प्रकार ही होते हैं, जब ये शब्द उकारान्त पुल्लिंग शब्दोंका गुण बताते हैं—
भीरु = डरपोक
श्रद्धालु = श्रद्धा रखनेवाला
निद्रालु = सोनेवाला
पटु = कुशल
वर्धिष्णु= बढनेवाला
सहिष्णु = सहन करनेवाला
भूष्णु = होनेवाला
प्रभविष्णु= बलवान्, मुख्य
संस्कृत वाक्य।
१ भीरुः मनुष्यः यशस्वी न भवति। २ भीरुणा पुरुषेण किं कर्तव्यम् ? ३ पटुः जनः एव सर्व कर्म करोति। ४ वर्धिष्णुः नृपः साम्राज्यं प्राप्नोति। ५ प्रभविष्णुना नृपतिना राज्यं संवर्धितम। ६ भीरुणा भूपतिना सर्व राज्यं त्यक्तम्। ७ धर्मस्य तत्त्वं तस्य गुरुः एव जानाति। ८ विष्टरं अत्र आनय। ९ शूरः नृपः विजयं एव कांक्षति। १० भीरुःनृपः पलायनं करोति। ११ यस्य अर्थे युद्धं कृतं‚ स एव भीरुः। १२ सः नृपतिः राज्यं धनं प्राणं च त्यक्त्वा युद्धे अवस्थितः। १३ आचार्य गुरुं वा निहत्य पातकं भवति। १४ स्वबान्धवं हन्तुं त्वं न योग्यः। १५ पापेन निषादेन मृगः हतः।
भाषा–वाक्य।
१ डरपोक मनुष्य यशस्वी नहीं होता। २ भीरु पुरुषने क्या करना ? ३कुशल मनुष्यही सब कर्म करता है। ४ बढनेवाला राजा साम्राज्य प्राप्त करता है। ५ बलवान् राजाने राज्य बढाया।३ भीरु राजाने सब राज्य छोडा। ७ धर्मका तत्व उसका गुरुही जानता है। ८ कुर्सी यहां ला। ९ शूर राजा विजयही चाहता है। १० डरपोक राजा भागना करता है। ११ जिसके लिये युद्ध किया, वही डरपोक है। १२ वह राजा राज्य, धन और प्राण छोडकर युद्धमें उपस्थित है। १३ आचार्य वा गुरुका हनन करके पाप होता है। १४ अपने भाईको मारनेके लिये तू योग्य नहीं है। १५ पापी निषादने मृगका हनन किया।
संधि किये वाक्य।
१ भीरुर्मनुष्यो यशस्वी न भवति। न भवति यशस्वी भीरुर्मनुष्यः।
२ पटुर्जन एव सर्वं कर्म करोति। करोति सर्वं कर्म पटुर्मनुष्यः। सर्व कर्म पटुरेव मनुष्यः करोति।
३ भीरुर्नृपः पलायनं करोति। करोति पलायनं भीरुर्नृपः। पलायनं करोति भीरुर्नृपः।
पाठ २७
अब इस पाठ में निम्नलिखित श्लोक पढिये—
स्वधर्ममपि चाऽवेक्ष्य न विकंपितुमर्हसि।
धर्म्याद्धियुद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते॥
**पद—**स्व + धर्मं। अपि। च। अवेक्ष्य। न। वि+कंपितुं। अर्हसि। धर्म्यात्। हि। युद्धात्। श्रेयः। अन्यत्। क्षत्रियस्य। न। विद्यते॥
भ. गीता २ । ३१
**अन्वय—**अपि च स्वधर्मंअवेक्ष्य विकंपितुं न अर्हसि। हि क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते।
**अर्थ—**और अपने धर्मको (अवेक्ष्य) देखकर (वि + कंपितुं ) कांपनेके लिये (न अर्हसि ) तू योग्य नहीं है। (हि) क्यों किं क्षत्रिय के लिये धर्मयुद्धसेभिन्न(श्रेयः ) कल्याणकारी और कुछभी ( न विद्यते ) नहीं है।
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥
भ. गीता २ । ३२
**पद—**यदृच्छया। च। उपपन्नं। स्वर्ग + द्वारं। अपावृतं। सुखिनः। क्षत्रियाः। पार्थ। लभन्ते।युद्धं। ईदृशम्॥
**अर्थ—**हे (पार्थ ) पृथाके पुत्र अर्जुन ! ( यदृच्छया ) विना प्रयत्न ( उपपन्नं ) प्राप्त और ( अपावृतं ) खुला हुआ
स्वर्गका द्वार (ईदृशं) ऐसा युद्ध ( सुखिनः) आनंदित क्षत्रियों को मिला करता है।
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मंकीर्तिंच हित्वा पापमवाप्स्यसि॥
भ. गीता २ । ३३
**पद—**अथ। चेत्। त्वं। इमं। धर्म्यं। संग्रामं। न। करिष्यसि। ततः। स्वधर्मं। कीर्तिं। च। हित्वा। पापं।अवाप्स्यसि॥
** अर्थ—**( अथ चेत् ) और यदि तू इस धर्मरूप ( संग्रामं ) युद्धको नहीं करेगा, (ततः) तो स्वधर्म और कीर्तिका ( हित्वा ) त्याग करके पाप ही (अवाप्स्यसि ) बटोरेगा।
अकीर्तिंचापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते॥
**पद—**अ + कीर्तिं। च। अपि। भूतानि। कथयिष्यन्ति। ते। अव्ययाम्। संभावितस्य। च। अकीर्तिः।मरणात्। अतिरिच्यते॥
भ. गीता २/३४
** अन्वय—**( भूतानि) ते अव्ययां अकीर्तिंच अपि कथयिष्यन्ति। संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते॥
अर्थ—( भूतानि ) मनुष्य तेरी ( अव्ययां ) अक्षय अकीर्तिही ( कथयिष्यन्ति ) कहते रहेंगे। और संभावित पुरुष के लिये दुष्कीर्ति मरणसे भी बढकर होती है।
पाठ २८
भयाद्रणादुपरतंमंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥
भ. गीता २/३५
** पद—**भयात्। रणात्। उपरतं। मंस्यन्ते। त्वां। महारथाः। येषां। च। त्वं। बहुमतः। भूत्वा। यास्यसि।लाघवम्॥
** अन्वय—**महारथाः त्वां भयात् रणात् उपरतं मंस्यन्ते॥ त्वं येषां बहुमतः भूत्वा लाघवं यास्यसि।
** अर्थ—**महारथी तुझे भयके कारण ( रणात् ) युद्धसे भागा हुआ (मंस्यन्ते ) मानेंगे। और ( येषां ) जिन्हें तू इस समय ( बहुमतः ) बहुमान्य है ? उनके ही मनमें तू ( लाघवं यास्यसि ) छोटा बन जायगा।
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ट कौंतेय युद्धाय कृतनिश्चयः॥
भ. गीता २/३७
** पद—**हतः। वा। प्राप्स्यसि। स्वर्गं। जित्वा। वा। भोक्ष्यसे। महीम्। तस्मात्। उत्तिष्ठ। कौंतेय।युद्धाय। कृत+निश्चयः॥
** अन्वय—**हतः वा स्वर्गं प्राप्यसि। जित्वा वा महीं भोक्ष्यसे। हेकौंतेय ! तस्मात् युद्धाय कृतनिश्वयः उत्तिष्ठ॥
अर्थ—( हतः ) मर गया तो स्वर्ग को ( प्राप्स्यसि ) प्राप्त होगा और ( जित्वा ) जीत गया तो पृथ्वी (भोक्ष्यसे) भोगेगा। हे ( कौंतेय ) अर्जुन ! इसलिये युद्धका निश्चय करके (उतिष्ठ ) उठ॥
इस समयतक जितने लोक आगये हैं, उतने कमसे कम दस बार पढ़िये। अथवा उतनी बार पढिये कि जितनी चार पढने से पढ़ते ही अर्थ ध्यानमें आ जायगा।
यदि आप श्लोक शनैः शनैः पढ़ेंगे, तो सुगमता से आपके ध्यानमें अर्थ आ जायगा।
तथा प्रत्येक श्लोक के पद, अन्वय और अर्थ स्वयं करनेका भी साथ साथ अभ्यास कीजिए।
संधि किये वाक्य।
१ महारथास्त्वां भयाद्रणादुपरतं मंस्यन्ते। मंस्यन्ते त्वां रणाद्भयादुपतं महारथाः। रणाद्भयादुपरतं मंस्यन्ते त्वां महारथाः।
२ त्वं येषां बहुमतो भूत्वा लाघवं यास्यसि। येषां त्वं बहुमतो भूस्वा लाघवं यास्यसि।
३ हतो वा स्वर्गंप्राप्स्यसि। जित्वा वा महीं भोक्ष्यसे। कौन्तेय ! तस्माद्युद्धाय कृतनिश्चय उत्तिष्ठ।
पाठ २९
संस्कृत–वाचन–पाठः।
१ तव पुत्र इदानीं कुत्र गतः?तं त्वमधुना पश्यसि किम् ? केन स इदानीं नीतः ? कुत्र नीतः ? त्वं जानासि किम् ?
२ कदा स आगमिष्यति ? केन सह स आगमिष्यति ? कस्मात् स्थानात् केन सह कदा स पुनरागमिष्यति ?
३ कथं तस्मिन्पंकेस वृषभः पतितः ? स वृषभस्तस्मिन्पंके केन वा पातितः। कथं स तत्र गतः ?
४ मम मंचकोऽत्र नास्ति। केन स अद्यैव नीतः ? किमर्थं मम मंचकस्तेन नीतः ?
५अस्य गृहस्यैष भागो ममैवाऽस्ति। ममैवाऽस्त्यस्य गृहस्यैष भागः। अस्य गृहस्थाऽन्यो भागः कस्यास्ति?
६ पुत्रेण फलं नाऽऽनीतम्। किमर्थं तेन पुत्रेण फलं नाऽऽनीतम् ? अद्य न तेन पुत्रेण फलमानीतम्।
७ तस्य मंचकस्य समीपमेव विष्टरोऽस्ति। केन रक्षितो विष्टरस्तस्य मंचकस्य समीपम् ?मया तस्य
मंचकस्य समीपमेव विष्टरो रक्षितः।
८ कृष्णदुर्गो विजयदुर्गस्य समीपमेवाऽस्ति। अहं विजयदुर्गस्य मार्गंजानामि। कृष्णदुर्गस्य मार्गंन जानामि। त्वं जानासि किम् ?
९ लङ्कानगरे रावणः राज्यं करोति। तेन रावणेन किं कृतम् ? रामेण किमर्थं तस्य वधः कृतः ?
१० रामेण बाणेन रावणस्य वधः कृतः। रावणो राक्षसोऽस्ति। राक्षसो दुष्टो भवति। दुष्टः पुरुषः पीडको भवति।
११ यथा व्याघ्रो वने भवति, तथा अश्वोग्रामे भवति। तथा गृहे बिडालोऽपि भवति।
१२ हस्ते भूषणं भवति। मुखेऽन्नं भवति। वृक्षे फलं भवति। दीपे प्रकाशो भवति। सूर्ये प्रभा भवति। समुद्रे जलं भवति।
१३ साहमे श्रीर्भवति। ब्राह्मणे विद्या भवति। क्षत्रिये शौर्यंभवति।
१४ तवद्वारपालेन मम पुस्तकं न नीतम्। तत् पुस्तकं तस्य द्वारपालेनाऽद्य नीतम्। कदा नीतम् ?
इदानीमेव नीतम्।
१५ वीर आरोहत्यश्वम्।क्षत्रियो गजमारोहति। स पुरुषो गजं नारोहति, नापि स अश्वमारोहति।
पाठ ३०
१ वैद्यो वत्साय ददाति रसम्। बालको रसं न पिषति। त्वमिदानीं तत्र गच्छ, यत्र स बालकोऽस्ति।
२ मूषकोऽन्नं खादति। न मूषकोऽन्नं खादति, परंतु बिडालो मोदकं भक्षयति। अद्य तस्मिन् गृहे मूषको नास्ति, परन्तु तत्र बिडालोऽस्ति।
३ येनान्नं खादितं स नैष बिडालः। स कोऽपि अन्योऽस्ति। येन विडालेन मूषको भक्षितः, स इदानीं कुत्र गतः ?
४ इदानीं लेखको लेखनायकिं नागच्छति ? यदा स आगच्छति, तदा त्वं कुत्र गच्छसि ? लेखक आगच्छति, परन्तु लेखनं न करोति।
५ त्वया अद्योत्तमः पाकः कृतः। नहि नहि, स पाको मया न कृतः, परंतु मम मित्रेण हरिदत्तेन कृतः।
६ गोवत्सः किमर्थं धावति ? तमत्रानय। यथा स अत्रैव तिष्ठति तथा कुरु। येन मार्गेण स अत्रा. गच्छति, तेनैव मार्गेण तमानयात्र।
७ स पुरुषो बालकं न रक्षति। स उत्तमः पुरुषःशोभनं बालकमपि न रक्षति।किमर्थं स एवं करोति ?
कुत्र स गच्छति ? किमर्थं स तत्र न गच्छति ?
८ यदा वीरो युद्धं प्रति गच्छति, तदा शस्त्रास्त्रेण सह गच्छति, तथा स्वमपि गच्छ। स्वधर्मस्य रक्षणार्थं युद्धं कुरु। मनुष्येण रक्षितो धर्मो मनुष्यमेव रक्षति।
९ मम अत्रैव निवासोऽस्ति। अस्मिन् स्थाने तिष्ठामि, अस्मिन् स्थाने पठामि, अस्मिन् स्थाने भोजनं करोमि, तस्मिन् स्थाने स्नानं करोमि।
१० यथा त्वं जानासि तथा वद। कदापि असत्यं न वद।सत्यस्यैव वचनं श्रेयस्करं भवति। यदत्यन्तं भूतहितं तदेव सत्यमिति शास्त्रस्य सिद्धान्तोऽस्ति।
११ यद्यत् परवशं तत्तत्सर्वं दुःखमेव भवति। यद्यत्स्वववशं तत्तत्सरर्वंसुखकरं भवति। एतदेव सुखदुःखलक्षणमस्ति।
१२ यंत्रकारः कुत्र चक्रं भ्रामयति ? यत्र विश्वमित्रोऽस्ति तत्र स चक्रं भ्रामयति। यदा स चक्रं भ्रामयति, तदा सोऽन्यः पुरुषस्तत्र किं करोति ?
१३ कस्मान्नगरात्स पुरुषोऽश्रागतः ? यदि स काशीनगरादेवागतस्तर्हि तेन सह भाषणं कर्तुमिच्छामि।
१४ यदा त्वं नदीतीरं स्नानायगमिष्यसि, तदा वस्त्रं पात्रं च तत्र नय।
पाठ ३१
इस पाठ में निम्न लिखित लोक पढिये—
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम्।
तथोक्तः प्राञ्जली राजा पुत्रं वव्रेगुणान्वितम्॥
महाभारत द्रोणपर्व ५५ \। २२
** पद—**वरं। वृणीष्व। भद्रं। ते। यादृशं। पुत्रं। ईप्सितं।तथा+उक्तः। प्र+अञ्जलिः। राजा। पुत्रं। वत्रे।गुण+अन्वितं।
** अन्वय—**वरं वृणीष्व। ते भद्रं। यादृशं पुत्रं ईप्सितं। तथोक्तः राजा प्राञ्जलिः गुणान्वितं पुत्रं वव्रे।
** अर्थ—**( वरं ) वर (वृणीष्व ) मांग। (ते) तेरा ( भद्रं) कल्याण हो। ( यादृशं ) जैसा ( पुत्रं ) पुत्र ( ईप्सितं ) इष्ट है, वैसा वर मांग। ( तथोक्तः ) वैसा कहा गया राजा( प्राञ्जलिः ) हाथ जोडकर ( गुणान्वितं ) गुणयुक्त पुत्रको ( वत्रे ) मांगने लगा।
** भावार्थ—**तुम्हें जैसा पुत्र चाहिये वैसा वर मांग, तेरा कल्याण हो, ऐसा कहा जानेपर राजाने अपनेलिये जैसा चाहिये, वैसा गुणी पुत्र मांग लिया।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम्।
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम्॥२३॥
**पद—**यशस्विनं। कीर्तिमन्तं। तेजस्विनं। अरिन्दमं। यस्य। मूत्रं। पुरीषं। च। क्लेदः। स्वेदः। च। काञ्चनम्।
** अन्वय—**यशस्विनं कीर्तिमन्तं तेजस्विनं अरिंदमम्। यस्य मूत्रं पुरीषं च क्लेदः स्वेदः च काञ्चनम्।
अर्थ—( उसने ऐसा पुत्र मांगा कि जो ) यशस्वी, कीर्तिमान्, तेजस्वी और ( अरिं–दमं ) शत्रुको दबानेवाला हो।तथा ( यस्य ) जिसका ( मूत्रं) मूत और ( पुरीषं ) जिसकी विष्ठा तथा जिसका ( क्लेदं) मल और ( स्वेदः ) पसीना ये सब (कांचनं)सुवर्ण ही हो।
**भावार्थ—**उसने ऐसा पुत्र मांगा कि जिसका मल, मूत्र, विष्ठा और पसीना अर्थात् जिसके शरीरके सब मल सुवर्ण ही होते थे। तथा जो यशस्वी कीर्तिमान्तेजस्वी और शत्रुको जीतनेवाला था।
संधि किये हुए वाक्य।
१ यथा जनकः कुमारं पश्यति, तथा कुमारो जनकं पश्यति किम् ? इदानीं कुमारो जनकं पश्यति। पश्य तम्, स तं कथं पश्यति।
२ यथा त्वं धावसि‚ तथाऽहमपि धावामि। यथा स धावति, तथा त्वं न धावसि। यथाऽहं धावामि, तथा त्वं धावसि।
—————————
]