संस्कृत-पाठ-माला (अष्टादशो भागः)

[[संस्कृत-पाठ-माला (अष्टादशो भागः) Source: EB]]

[

[TABLE]

शब्दसिद्धि

पाठकोंका धातुओंके साथपरिचय अच्छी प्रकार हो चुका है, उनके रूप बनाना भी वे अब भली प्रकार जानने लगे हैं। इसलिये अब धातुओंसे शब्दसिद्धि किस रीतिसे होती है इसका विचार इस भागमें संक्षेपसे करना है। यदि इस भागका अभ्यास पाठक अच्छी तरहसे करेंगे तो उनको शब्दोंकी उत्पत्ति कैसी हुई है यह समझमेंआयेगा और नामोंके यौगिक अर्थकैसे होते हैं इसका भी पता लगेगा। इसलिये आशा है कि पाठक इस भागका उत्तम अध्ययन करेंगे और उचित लाभ उठावेंगे।

**~~

**
मुद्रक और प्रकाशक—व० श्री० सातवलेकर, बी. ए.
भारत–मुद्रणालय, पारडी (जि. सूरत )
**

~~**

!॑#1

संस्कृत—पाठ—माला।

भाग अठारहवां।
पाठ १

धातुसे प्रत्यय लगाकर जो शब्द बनते हैं उनका विधि अबबताया जाता है। इससे पूर्वभागों में कुछ प्रत्यय बताये गये हैं उनका संक्षेपसे उल्लेख यहां किया जाता है—

(१) तथ्य।

संस्कृत में ‘तव्य’ प्रत्यय बहुत उपयोगी है और इसके लगनेसे अतिसुगम रीतिसे शब्द बनते हैं। देखिये ‘गम्’ धातुसे ‘गन्तव्यं’ बनता है, कृ’ धातुसे’कर्तव्यं’ बनता है। इसी प्रकार अन्यान्य धातुओंसेशब्द बनते हैं। इनका उपयोग निम्न स्थानपर दिया है —

मया गन्तव्यम् = मुझे जाना चाहिये !
मया कर्म कर्तव्यम् = मुझे कर्म करना चाहिये।
मया पुस्तकं पठितव्यम् = मुझे पुस्तक पढना चाहिये।
त्वया इदानीं न क्रीडितव्यम् = तुझे अब नहीं खेलना चाहिये।

इस प्रकार इन शब्दोंका उपयोगहोता है।ये शब्द विशेषण रूपमें आगये तो इनका लिंग, वचन, विभक्ति विशेष्यके लिंगवचनके अनुरूप होती है जैसे—

एषा बाला त्वया रक्षितव्या = यह बालिका तेरेद्वारा रक्षित होने योग्य है ।

एष प्रासादस्त्वया रक्षितव्यः = यह राजमहल तेरेद्वारा रक्षित होने योग्य है ।

एतत्क्षेत्रंत्वया रक्षितव्यम् = यह खेततेरेद्वारा रक्षित होने योग्य है ।

पाठक इसमें देख सकते हैं कि एकही ‘रक्षितव्य’ शब्द विशेष्यके अनुसार किस प्रकार बदला है । ऐसे वाक्योंमें प्रायः ‘अस्ति’ क्रिया अध्याहृत कल्पना करकेही अर्थ देखा जाता है, जैसा —

एतत्पुस्तकं त्वया तत्र रक्षितव्यं अस्ति ।
एतत्पुस्तकं त्वया तत्र रक्षितव्यम् ।

इन दोनों वाक्योंका तात्पर्य एकही है। जिस समय क्रियापदके रूप करना कठिन होता है उस समय ऐसे रूपोंसे वाक्य बनाना बहुतही सुगम होता है । यह संस्कृत में बडीही सुविधा है।

शब्द
स्पर्ध्—स्पर्धितव्यं = स्पर्धा करनेयोग्य ,,
विद्—वेदितव्यं = जानने,,
मुद्— मोदितव्यं = आनंद करने,, ,,
खाद्— खादितव्यं = खाने,,
भर्ज्—भर्जितव्यं = भूनने,,
अर्च्—अर्चितव्यं = पूजा करने,,
वाञ्छ्—वाञ्छितव्यं = इच्छा,,
वेष्ट्— वेष्टितव्यं = वेष्टन,,
चेष्ट्—चेष्टितव्यं = चेष्टा,,,,
जल्प्—जल्पितव्यं = बोलने,,
भाष—भाषितव्यं = ,,,,
**ज्ञा—**ज्ञातव्यं = जानने योग्य
दा— दातव्यं = देने ,,
**हन्—**हन्तव्यं = हवन करने ,,
वस्— वस्तव्यं = रहने ,,
वच्— वक्तव्यं = बोलने ,,

इस प्रकार कई शब्द बन सकते हैं। पाठक पूर्वोक्त धातुओंसे शब्द बनावें और जहां इस प्रत्ययका रूप आजाये वहां वह रूप पहचानें।

संस्कृत वाक्यानि।

तेन वीरेण किमर्थं तेन सह न स्पर्धितव्यम्? बालकः एतदन्नंइदानीमेव खादितव्यम्। मम भृत्येन सर्वेऽपि चणकाः अद्यैव भर्जितव्याः। ईश्वरस्त्वया नित्यशोऽर्चितव्यः। बालकैर्बालिकाभिश्च शोभनानि पुस्तकानि नित्यशः पठितव्यानि। सर्वैर्मनुष्यैः सायं समये क्रीडांगणं गत्वाऽवश्यं क्रीडितव्यम्। वीरैः पुरुषैः स्त्रीणां रक्षा कर्तव्या। इदानीं एष ग्रामो वीरैः रक्षितव्यः। त्वया पूर्वं सर्वं ज्ञातव्यं पश्चात् स्वकर्तव्यं कर्तव्यम्।

इस प्रकार पाठक अनेकानेक वाक्य बना सकते हैं। इस ‘तव्य’प्रत्ययवाले शब्दोंके लिये तृतीया विभक्तिके कर्ताकी आवश्यकता रहती है। जैसा —

मया वक्तव्यं। रामेण शत्रुर्हन्तव्यः। व्याघ्रेण पुरुषः न हन्तव्यः। अग्निना सर्वं वनं दग्धव्यम्।

इस रीतिसेअनेकानेक वाक्य बनाना सुगम है।

(२) अनीय।

दूसरा ‘अनीय’ प्रत्यय उसी अर्थ में होता है। इसके बनानेकी रीति भी अति सुगम है। ‘कृ’ धातुसे ‘करणीय, गम् ’ धातुसे ‘गमनीय’ रूप होते हैं। देखिये इसके रूप—

कृ — करणीयं = करने योग्य
स्मृ — स्मरणीयं = स्मरण करने योग्य
भृ—भरणीयं = भरणपोषण करनेयोग्य
प्रथ्—प्रथनीयं = फैलाने ,,
त्वर्— त्वरणीयं = शीघ्रता करने ,,
वृध्—— वर्धनीयं = बढाने ,,
रुच्—रोचनीयं = प्रकाशने
शुभ् — शोभनीयं = शोभित करने ,,
बुध्—बोधनीयं = जानने ,,
ज्वल्—ज्वलनीयं = जलाने ,,
स्पृह्—स्पृहणीयं = इच्छा करने ,,

इसी प्रकार सुगमतापूर्वक अन्य धातुओं से अन्यान्य रूप बनते हैं। इनसे वाक्य भी पूर्ववत् बनते हैं—

संस्कृत वाक्यानि।

त्वया सर्वंकर्म इदानीमेव करणीयम्। यन्मया वर्धनीयं अस्ति तदहं वर्धयामि। यत्त्वया संवर्धनीयं भवेत्तत्त्वं संवर्धय। त्वया पुष्पमालाभिः शोभनीय एष मण्डपः। अग्निना त्वया ज्वलनीयमेतत्पत्रम्। त्वया भरणीय एष बालः। तेन करणीय एष यत्नः।

इस प्रकार वाक्य बनाये जा सकते हैं।

~~ ~~

पाठ २

रामायणम्।

रामस्तु वालिनमब्रवीत् “धर्मंअर्थं कामं चापि लौकिकव्यवहारमविज्ञाय बाल्यादिव कथं विगर्हसे? इक्ष्वाकूणां राज्ञां पालितेयं भूमिः भरतभूमिरिति कथ्यते। वयं चात्र धर्मस्य रक्षितारः। तथा चान्येऽपि बहवः पार्थिवाः सन्त्येव। वयं धर्मरक्षणार्थमेवात्र संचरामः। धर्मस्य रक्षणं, सज्जनानां पालनं, दुष्टानां निर्दलनं चास्माकं कर्म। त्वं तु धर्ममार्गे न स्थितः।

सनातनं धर्मं त्यक्त्वा भ्रातुर्भार्यायां पापमाचरसि। यस्तु भगिनीमौरसीं भार्यां वाऽनुजस्य कामात्प्रचरेत् स नरो वध्य इति सद्भिः कथितो धर्मः। अतएव त्वं मया हतः। पापस्य नरस्याशासनाद्राजा किल्बिषमाप्नोति, तस्य शासनादेव राजा श्रेयः प्राप्नोति। अतस्त्वं वधाय एव योग्यः पापाचारोमया हतः।”

एतद्रामवचनं श्रुत्वा धर्मेऽधिगतनिश्चयो वाली रामचंद्रे दोषं न दध्यौ। उवाच तं— “यत्त्वं आत्थ तत्तथैव न संशयः। न चात्मानं शोचे, “नच भार्यां नापि बान्धवान् यथा तु पुत्रं गुणज्येष्ठमङ्गदं शोचे। विधत्स्व सुग्रीवेऽङ्गदे च उत्तमां मतिम्। त्वमेवासि गोप्ता शास्ता चइति। " एवमुक्त्वा मुमोह, जीवितान्तं जगाम च।

वालिनो भार्या तु तारा तच्छुत्वोद्विग्ना भूत्वा तत्रागमत्। पतिं पञ्चत्वं गतं दृष्ट्वा विललाप च। तारां दीनां तथा क्रोशन्तीं दृष्ट्वाऽङ्गदं च विलपन्तमवलोक्य सुग्रीवोऽपि विषादमगमत्। पतिमुखं समुपजिघ्रन्ती तारा बहु विललाप आह च —

‘किं मही मत्तोऽपि प्रियतरा तव? यतस्तां भूमिं परिष्वज्य शेषे? नापि मां प्रतिभाषसे? विपश्चिता शूराय खलु कन्या न प्रदातव्या।’ इति।

समानशोकः काकुत्स्थो रामस्तां सान्त्वयन्वाह — ‘मृतः पुरुषः शोकपरितापेन युज्यते श्रेयसा न। अतः अनन्तरं कार्यंकर्तुं त्वमर्हसि। अलं शोकेन। नियतिः श्रेष्ठा, तत्प्राप्तकालं कर्म उपास्यताम्।’ इति।

ततः सह सुग्रीवेणाङ्गदो रुदन् विधिवत् पितरं अग्निं ददौ चकार च दीर्घमध्वानं प्रस्थितं पितरमपसव्यं प्रदक्षिणं सह रामेण। ततो हनुमानव्रवीत् — ‘भवत्प्रसादात्, काकुत्स्थ! पितृपैतामहं राज्यं दुष्प्राप्यमपि सुग्रीवेण प्राप्तम्। अत इदानीं त्वया समनुज्ञातः सुग्रीवो भवता सह नगरं प्रवेक्ष्यति इति। तच्छ्रुत्वा राम उवाच — हे हनूमन्! अहं तु पितुर्निर्देशमनुसरन् चतुर्दशवर्षपर्यन्तं ग्रामं वा नगरं वा न प्रवेक्ष्यामि। सुग्रीवश्च राज्ये अभिषिच्यतां, अङ्गदश्च यौवराज्येऽभिषिक्तो भवतु विधिवत् इति।

रामेणैवं समनुज्ञातः सुग्रीवो रम्यां किष्किंधां पुरीं प्रविवेश। साधु इति ब्रुवत्सु वानरेषु यौवराज्येऽङ्गदं चाभ्यषेचयत्।

माल्यवतः पर्वतस्य पृष्ठे वसन् राम एकदा लक्ष्मणमब्रवीत् ‘पश्यायं जलसमागमे वर्षाकालः संप्राप्तः मेघपटलैरम्बरमाच्छादितम्। नीलमेघाश्रिता विद्युत् स्फुरति।’

पर्जन्यजलधाराभिरभिषिच्यमानाः पर्वताः नवयौवनेनैवाधिकतरं विभान्ति। अस्मिन्भाद्रपदे मासे मंत्ररतानां ब्राह्मणानां अध्ययनकालोऽयमुपस्थितः इति।’

तत ऊर्ध्वं शारदीं रजनीं ज्योत्स्नामयीं दृष्ट्वा सुग्रीवं च कामवृत्तं दृष्ट्वा रामः परमातुरो भूत्वा सुमोह।सीतां अनुचिन्तयंश्च कृशेन वदनेन लक्ष्मणमुवाच — ‘अधुना मेघाः शान्तवेगाः। वार्षिकाश्चत्वारो मासाः वर्षशतोपमाःसीतामपश्यतो मम गताः। हेलक्ष्मण! सुग्रीवः कृपां न कुरुते।स त्वं किष्किन्धांप्रविश्य ग्राम्यसुखे सक्तंमूर्खंसुग्रीवं ब्रूहि। वीरः सत्यपरः एव भवति। हे सुग्रीव! त्वंसमये तिष्ठ। मा वालिनः मार्गेण गच्छ। इति।’

एवं समादिष्टो लक्ष्मणो रम्यां किष्किन्धां नगरीं प्रविवेश। नानापुष्पफलशोभितां च तां नगरीं ददर्श। अवार्यमाणश्च लक्ष्मणः प्रविवेश रम्यं सुग्रीवस्य गृहम्। तस्यान्तःपुरे बहुभिः स्त्रीभिः सततं प्रवर्तमानं संगीतं निशम्योद्विग्न इवाभवत्। स्थित्वा च तत्र कंचित्कालं ज्याशब्दंकृतवान्। तंज्याशब्दं श्रुत्वा आगतं लक्ष्मणं ज्ञात्वा तं क्रोधयुक्तं च दृष्ट्वा सतारामुवाच— ‘किं नु क्रोधकारणम्! यत्प्रकृत्या मृदुरपि लक्ष्मण इदानीं सरोष इव दृश्यते।अतस्त्वमेव अग्रे गत्वा तं प्रसादयेति।

तथेत्युक्त्वा तारा सलज्जा इव लक्ष्मणसंनिधानं जगाम। स्त्रीसंनिकर्षादवाङ्मुखो निवृत्तक्रोधश्चाभूल्लक्ष्मणः। साऽपि तं प्रार्थयामास किमर्थं कोपः? को न विष्ठति भवन्निदेशे? वानरवंशनाथस्य प्रमादमपि सोढुमर्हसि। महाबाहो लक्ष्मण! आगच्छ अन्तः, क्षमस्व सुग्रीवमिति। ततोऽरिन्दमो लक्ष्मणोऽभ्यन्तरं प्रविवेश।

सुग्रीवोऽपि तत्र लक्ष्मणं दृष्ट्वाव्यथितेन्द्रियो बभूव। रुमाद्वितीयं नारीमध्यगतं सुग्रीवं लक्ष्मणोऽब्रवीत्— ‘राजा कृतज्ञः सत्यवादी च लोकेमहीयते। कृतार्थेन त्वया सीताया मार्गेणे यत्नो विधेयः। तस्मिन् विषये त्वं किमपि कर्म न करोषि। तत्किं वालिनो मार्गेणैव गन्तुमिच्छसि? न स संकुचितो मार्गः येन वाली हतो मृतश्च। अतः सुग्रीव! समये तिष्ठ, मावालिपथमन्वगाः’ इति।

‘तच्छ्रुत्वासुग्रीवो विमद आसीत्। उवाच च लक्ष्मणम् “सर्वमेव मयेदं ऐश्वर्यं.रामप्रसादादेव प्राप्तम्। स एव स्वेनैव तेजसा रावणं वधिष्यति सीतां च प्राप्स्यति। तस्यानुयात्रां अयमहं करिष्यामि, इति।”

लक्ष्मणोऽपि प्रीत्योवाच—“त्वया सनाथेन सनाथो मेभ्राता। क्षमस्व मे पयोक्तिंइति।”

सुग्रीवोऽपि पार्श्वस्थं हनूमन्तमब्रवीत्। क्षिप्रं तांस्तान् वानरानानय, आनुयात्रिकं कल्पय च। श्रुत्वा तद्वचनं वायुपुत्रोहनुमान् वानरान् सर्वासु दिक्षु प्रेषयामास। वानरराजस्याज्ञां श्रुत्वा सर्वे वानरा आययुः। तेषां सर्वेषां वानराणां महती सेना बभूव। तया सेनया सह सुग्रीवो राघवं आगत्य तस्य पादयोः पपात। तं पादयोः पतितं बहुमानादुत्थाप्य राघवः सुग्रीवं परिषस्वजे।

शब्दार्थ
लौकिकव्यवहारः = लोगोंमें करने का व्यवहार
बाल्यं = मूढता
विगर्ह्= निंदा करना
संचर् = भ्रमण करना
निर्दलनं = नाश
औरसी = औरस
किल्बिषं = पाप
पञ्चत्वं गतः = मृत
विपश्चित् = ज्ञानी
नियतिः = दैव
परमातुरः = अति दुःखी
ग्राम्यसुखं = हीन सुख
अनिवार्यमाणः = जिसको प्रतिबंध न हुआ हो
अवाङ्मुख = नीचे मुख किया हुआ
सोढुं = सहन करनेयोग्य
मार्गणं = शोध.ढूंढना
विमदः = जिसको गर्व नहीं
पार्श्वस्थः = पीछे खडा
निर्देश = आज्ञा
समासाः
लौकिकव्यवहारः = लौकिकश्चासौ व्यवहारश्च
धर्मरक्षणार्थं = धर्मस्य रक्षणं धर्मरक्षणं तदर्थम्
पापाचारः = पापं आचरतीति
गुणज्येष्ठं = गुणैः ज्येष्ठं
समानशोकः = समानः शोकः यस्य
भवत्प्रसादः = भवतां प्रसादः
दुष्प्राप्यं = दुःखेन प्राप्यं
जलसमागमः = जलस्य समागमः
मेघपटलं = मेघानां पटलम्
नीलमेघाश्रिता = नीलश्चासौ मेघश्च नीलमेघः

~~ ~~

पाठ ३

( महाभारत भीष्मपर्व अ० ५१ )

सञ्जय उवाच।

क्रौञ्चं दृष्ट्वाततो व्यूहमभेद्यं तनयस्तव।
रक्ष्यमाणं महाघोरं पार्थेनामिततेजसा॥१॥

आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव।
सौमदत्तिंविकर्णं च सोऽश्वत्थामानमेव च॥२॥

दुःशासनादीन्भ्रातॄंश्च सर्वानेव च भारत।
अन्यांश्च सुबहूञ्छूरान्युद्धाय समुपागतान्॥३॥

ततोऽभेद्यं क्रौञ्चं नाम महाघोरं व्यूहं, सैन्यव्यूहं, अमिततेजसा पार्थेन पृथापुत्रेण रक्ष्यमाणं दृष्ट्वा तव तनयः दुर्योधनः॥१॥ हे पार्थिव! सः आचार्य उपसंगम्य समीपं गत्वा, कृपं शल्यं च सौमदत्तिं विकर्ण च अश्वत्थामानं एव च॥२॥ हे भारत! दुःशासनादीन् भ्रातॄन् च सर्वान् एव अन्यान् सुबहून् युद्धाय समुपागतान् शूरान् च॥३॥

प्राहेदं वचनं काले हर्षयंस्तनयस्तव।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥४॥

एकैकशः समर्था हि यूयं सर्वे महारथाः।
पाण्डुपुत्रान् रणे हन्तुं ससैन्यान्किमु संहताः॥५॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तमिदमेतेषां बलं भीष्माभिरक्षितम्॥६॥

संस्थानाः शूरसेनाश्च वेत्रिकाः कुकरास्तथा
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा॥७॥

शत्रुञ्जयेन सहितास्तथा दुःशासनेन च।
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः॥८॥

चित्रसेनेन सहिताः सहिताः पारिभद्रकैः।
भीष्ममेवाभिरक्षन्तु सहसैन्यपुरस्कृताः॥९॥

ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष।
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम्॥१०॥

भीष्मः सैन्येन महता समन्तात्परिवारितः।
ययौप्रकर्षन्महतीं वाहिनीं सुरराडिव॥२९॥

तव तनयः सर्वान् हर्षयन् काले इदं वचनं प्राह। ‘यूयं सर्वेऽपि महारथाः नानाशस्त्रप्रहरणाः नानाशस्त्रप्रहारिणः सर्वेऽपि युद्धविशारदाः ससैन्यान् पांडुपुत्रान् हन्तुमेकैकशः समर्था हि, किमु संहताः एकीभूताः॥४-५॥ भीष्माभिरक्षितं अस्माकं बलं अपर्याप्तं तैः व्याप्तुं शक्यम्। भीमाभिरक्षितं एतेषां इदं बलं सैन्यं तु पर्याप्तं परितः सर्वतः व्याप्तुं शक्यम्॥६॥ संस्थानाः, शूरसेनाश्च वेत्रिकाः कुकराः तथा शत्रुञ्जयेन तथा दुःशासनेन सहिता सर्वे वीराः, वीरेण विकर्णेन तथा नन्दोपनन्दकैश्च सहिताः, चित्रसेनेन सहिताः, पारिभद्रकैः वीरैः सहिताश्च सहसैन्य पुरस्कृताः सर्वे वीराः भीष्ममेव अभिरक्षन्तु॥७-९॥ हे मारिष धृतराष्ट्र! ततः भीष्मश्च द्रोणश्च तव पुत्रश्च दुर्योधनः पांडवानां प्रतिबाधकं महाव्यूहमव्यूहन्त॥१०॥ महता सैन्येन समन्तात्परिवारितो भीष्मः सुरराड् इन्द्र इव महतीं वाहिनीं प्रकर्षन् ययौ॥११॥

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्।
कुन्तलैश्च दशार्णैश्च मागधैश्व विशांपते॥१२॥

विदर्भैमैकलैश्चैव कर्णप्रावरणैरपिI
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्॥१३॥

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः।
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्॥१४॥

ततो दुर्योधनो राजा सहितः सर्वसोदरैः।
अश्वातकैर्विकर्णैश्च तथाचाम्बष्ठकोसलैः॥१५॥

दरदैश्च शकैश्चैव तथा क्षुल्लकमालवैः।
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्॥१६॥

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष।
विन्दानुविन्दावावन्त्यौ वामपार्श्वमपालयन्॥१७॥

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः।
श्रुतायुश्चाच्युतायुश्च दक्षिण पार्श्वमास्थिताः॥१८॥

तं प्रतापवान् महेष्वासः भारद्वाजः अन्वयात्। हे विशांपते प्रजानां पालक! कुन्तलैः दशार्णैः मागधैः च विदर्भैः मैकलैः च कर्णप्रावरणकैः अपि वीरैः सहिताः गान्धाराः सिन्धुसौवीराः अथ शिवयः वपातयः सर्वसैन्येन सहिताः आहवशोभिनं युद्धशोभिनं वीरं भीष्मं अपालयन्। तथा स्वसैन्येन सहितः शकुनिः भारद्वाजं द्रोणं अपालयत्॥१२–१४॥ ततः राजा दुर्योधनः सर्वसोदरैः सहितः अश्वातकैः विकर्णैश्च तथा अम्बष्ठकोसलैः दरदैः च शकैः च एव तथा क्षुल्लकमालवैः सहितः अतएव संहृष्टः आनंदितः सौबलेयस्य शकुनेः वाहिनीं सेनां अभ्यरक्षत॥१५–१६॥ हे मारिष धृतराष्ट्र भूरिश्रवाः शलःशल्यः भगदत्तः॥ आवन्त्यौअवन्तिदेशीयौविन्दानुविन्दौ वामं पार्श्वमपालयन्॥१७॥ सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः श्रुतायुः च अच्युतायुः च दक्षिणं पार्श्व आस्थिताः स्थिताः॥१८॥

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थितः॥१९॥

पृष्ठगोपास्तु तस्यासन् नानादेश्या जनेश्वराः।
केतुमान्वसुदानश्च पुत्रः काश्यश्चाभिभूः॥२०॥

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत।
दध्मुः शंखान्मुदायुक्ताः सिंहनादांस्तथोन्नदन्॥२१॥

तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः।
सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान्॥२२॥

ततः शंखाश्च भेर्यश्व पेश्यश्च विविधाः पुरैः।
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥२३॥

अश्वत्थामा, कृपः च एव कृतवर्मा च सात्वतः, महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थितः॥१९॥ नानादेश्याः जनेश्वराः तस्य पृष्ठगोपाः पृष्ठरक्षका आसन्। केतुमान् वसुदानः च काश्यः च अभिभूः पुत्रः तस्य पृष्ठरक्षका आसन्॥२०॥ हे भारत! ततः ते सर्वे तावकाः युद्धाय हृष्टा भूत्वा मुदा युक्ताः शंखान् दध्मुः तथा सिंहनादान् उन्नदन्॥२१॥ तेषां हृष्टानां तु शब्दं श्रुत्वा वृद्धः कुरुपितामहः भीष्मः उच्चैः सिंहनादंविनद्य, प्रतापवान् शंखं दध्मौ॥२२॥ ततः शंखाश्च भेर्यश्च विविधाः पेश्यश्च आनकाश्च परैः अभ्यहन्यन्त स तुमुलः शब्दोऽभवत्॥२३॥

                       **शब्दार्थ** \।

अभेद्यं भेदन करने अयोग्य आवन्त्यौ = अवन्ति देशके लोग उपसंगम्य = पास जाकर पर्याप्त = घेरनेयोग्य सोदर = एक पेटले जन्मे हुए भेरी = नगाडा ‘तुमुल = बड़ा रक्ष्यमाणः = जिसकी रक्षा हो रही है

युद्धविशारदः = युद्ध में प्रवीण
अपर्याप्त = घेरनेके लिये अशक्य
वाहिनी = सेना
सेनापृष्ठं = सैन्यकी पिछाडी
आनक = ढोल
विनद्य = शब्द करके

.

समासाः
युद्धविशारदः = युद्धे विशारदः
पाण्डुपुत्रः = पाण्डोः पुत्रः
सुरराट् = सुराणां राट्.राड् राजा
सेनापृष्ठं = सेनायाः पृष्ठं
जनेश्वरः = जनानां ईश्वरः
कुरुपितामहः = कुरूणां पितामहः

प्रथम पाठमें दो प्रत्यय बताये; अब इस पाठमें कुछ प्रत्यय बताये जाते हैं। पाठक देखें कि कितनी सुगमता से कैसे शब्द बनते हैं और उनका कितना उपयोग किया जाता है।

( ३ ) य।

यह प्रत्यय भी पूर्ववत् लगता है और पूर्ववत्हीइसके रूप होते हैं। जैसा— ‘ज्ञा’धातुसे’ज्ञेय’ ‘पा’ धातुसे ‘पेय’ इत्यादि रूप होते हैं —

शब्द
ज्ञेय = जानने योग्य
पेय = पीने ,,
ध्येय = ध्यान करने ,,
शस्य = प्रशंसा ,,
क्रेय = मोल लेने ,,
जन्य = उत्पन्न होने ,,
देय= देनेयोग्य ,,
वध्य = वध करनेयोग्य ,,
जेय = जय करने ,,
शप्य = शाप देने ,,
लभ्य = प्राप्त होने ,,
सह्य = सहन करने ,,

संस्कृत—वाक्यानि।

ब्रह्म एव सर्वैर्ज्ञेयं वस्तु, परंतु तदेव न केनापि ज्ञायते। शत्रुः शूरैर्वध्यो भवति। इदं दुःखं त्वया सह्यं इदानीम्। तत् कथं सह्यं भवेत्। मित्राणां मधुरैः सान्त्वपूर्वैर्वचनैर्महदपि दुःखं सह्यं भवति। स ग्रंथस्त्वया मह्यं देयः। इदानीमेव देयः। किं एतज्जलं पेयं अस्ति? यदि तृषितोऽसि तर्हि स्वयैतज्जलं पेयं नान्यथा, यत एतत् परिशुद्धं नास्ति। त्वया तस्य कर्म शस्यम्। वध्यः पुरुषो वधकैर्वधस्थानं प्रति नीयते।

एक ”य”प्रत्यय दूसरी जातिका है उसके लगने के समय पूर्वधातुके स्वरका गुण होता है। इसके रूप देखिये—

धातु प्रत्यय रूप अर्थ
कृ कार्यं करने योग्य
वृष् ,, वर्ष्यं वृष्टि करने ,,
यज् ,, याज्यं यज्ञ ,, ,,
त्यज् ,, त्याज्यं त्याग ,, ,,
युज् ,, योज्यं संयोग ,, ,,
प्रयुज् ,, प्रयोज्यं प्रयोग ,, ,,
वच् ,, वाच्यं बोलने ,, ,,
पच् ,, पाच्यं पकाने ,,

इनका उपयोग वाक्यों में बहुत होता है।

संस्कृत वाक्यानि।

कदापि कर्म न त्याज्यं कार्यमेव तत्। कर्म नैव त्याज्यं यतः तद्दोषवत् इति मनीषिणो वदन्ति। यत्कार्यं तदवश्यमेव कार्यम्। त्वया इदानीं नैवं वाच्यम्। त्वया स एवं वाच्यः। कार्यं कर्म सदैव समाचार। अकार्यं कदापि न समाचर। यद्युक्त्या योज्यं तत्त्वं संयोजय। यत्प्रयोज्यं यत्प्रयोक्तव्यं त्वया। रामस्त्वया वाच्यः। यत्त्वं अधुना तत्र न गमिष्यसीति।

इस प्रकार अनेकानेक शब्द बनाकर पाठक उनका उपयोग करके अनेक वाक्य बना सकते हैं।

तीसरे प्रकारका एक ’य’ प्रत्यय है जिसके लगने के समय इस प्रकार गुण नहीं होता है, जिसके रूप निम्न प्रकार बनते हैं—

स्तुत्यः = स्तुति करने योग्य
गुह्यं = गुप्त रखने ,,
भिद्यं = भेद करने ,,
कृत्यं = करने ,,
कल्प्यं = कल्पना करने ,,
जुष्यं = सेवन करने ,,
आवृत्यं = आवरने ,,
शस्यं = प्रशंसा करने ,,
शिष्यं = सिखाने ,,

इस प्रकार के शब्द भी पूर्वोक्त प्रकार वाक्यों में प्रयुक्त होकर अनेकानेक वाक्य बनाये जा सकते हैं —

संस्कृत–वाक्यानि।

इदं गुह्यं वचनं त्वया कस्मै अपि न कथनीयम्। यत्कृत्यं त्वया कर्तव्यं तत्त्वंअधुनैव कुरुष्व। स्तुत्यः खल्वेष तव प्रयत्नः यंत्वं करोषि।

इस प्रकार पाठक शब्द बनाकर उनका उपयोग वाक्योंमें करें।

( ४ ) अक

’अक’ प्रत्यय बहुत ही उपयोगी है। कई शब्द इस एकही प्रत्ययसे बनते हैं, इसके लगने के समय धातुके स्वरका गुण या वृद्धि भी होती है। जैसे ‘वच्’ = वाचकः, पच् = पाचकः इत्यादि।

( १७ ) शब्दार्थः।

कारकः = करनेवाला दायकः = देनेवाला
बोधकः = जतलानेवाला पाचकः = पचानेवाला
घातकः = घात करनेवाला बाधकः = बाधा करनेवाला
गायकः = गानेवाला याजकः = यज्ञ करनेवाला
चालकः = चलानेवाला वाचकः= वाचक
आच्छादकः = आच्छादन करनेवाला तोषकः = संतोष करनेवालाm
त्रासकः = त्रास करनेवाला मोदकः = आनंद देनेवाला
नर्तकः = नाचनेवाला वर्धकः = बढानेवाला
पालकः = पालक कर्तकः = काटनेवाला
संहारकः = संहार करनेवाला शोधकः = शोधन करनेवाला
नाशकः = नाश करनेवाला ग्राहकः = ग्राहक

इन शब्दों में धातुके उपान्त्य स्वरका दीर्घ गुण या वृद्धि हुई है। परंतु कई धातुओंके स्वरका गुणादि नहीं होता और कई धातुओं में उपान्त्यमें स्वर होनेपर भी स्वर जैसाका वैसा रहता है। इसके उदाहरण अब देखिये—

जनकः = पिता, जन्मदाता हिंसकः = हिंसा करनेवाला
वधकः = वधकर्ता आरंभकः = आरंभ करनेवाला
दमकः = दमन करनेवाला व्रीडकः = लज्जा करनेवाला
निन्दकः = निंदा करनेवाला खनकः = खोदनेवाला
अर्चकः = पूजक जल्पकः = बडबडनेवाला

पाठक इस प्रकार अब शब्द बना सकते हैं। जो शब्द उनके पाठ आ चुके हैं उनको प्रथम यदि वे देखेंगे तो उनको शब्द बनानेका भी पता लग जायगा। और अनेक वाक्य बनाना सुगम हो जायगा।
२ [ सं. पा. मा. भा. १८]

संस्कृत–वाक्यानि।

तस्य परमात्मनो वाचकः प्रणवोऽस्ति। अस्य पदार्थस्य वाचकः कःशब्दोऽस्ति? त्वं तस्य गमने किमर्थं बाधको भवसि? यदा याजकोऽवागमिष्यति तदा यज्ञं समापयिष्यति। तस्य राज्ञो घातकास्ते मनुष्या वधस्थानं नीयन्ते राजपुरुषैः। अस्याः पाठशालायां संचालकोऽध्यापक इदानीं कुत्र गतोऽस्ति? अस्मिन् विशाले मंदिरे किमर्थं न कोऽपि गायको दृश्यते? प्रजानां पालको राजा भवति तथैव गवां पालको गोप इति कथ्यते। सर्वेषां प्राणिनां नाशको मृत्युरेव नियतसमये आगच्छति प्राणिनामन्तं करोत्येव। तत्र द्वौ पाचकौ स्तः परन्तु न कोऽपि स्वाद्वन्नं पक्तुं शक्नोति। मिष्टान्नं बालकाय मोदकं भवति।

अस्य बालकस्य जनकः कुत्र गत इदानीम्? साधूनां निन्दकः सदैव दुर्जन एव भवति। देवतानामर्चकः साधुरेव मन्तव्यः। मनुष्याणां वा प्राणिनां वा हिंसको दुर्जनः खलु स्थानादस्माद् दूरं गच्छतु। खनको लोहमयेन दण्डेनैव भूमिं खनति।

सूचना ।

पाठक इस प्रकार वाक्य बनावें। धातुसे शब्द बनाना और उनका वाक्यों में उपयोग करना पाठकों को इस प्रकार या सकता है।

~~ ~~

पाठ ४

रामायणम्।

रामं नमस्कृत्य सुग्रीव उवाच—“एतत्सर्वं मम सैन्यं दृशे वर्तते। तदिदानीमाज्ञापयितुमर्हसि किं कार्यं मया कर्तव्यमिति। उच्यतां यत्प्राप्तकालं मन्यसे। इति।

राम उवाच— “ज्ञायतां प्रथमं सीता यदि जीवति वा न। सोऽपि देशो यस्मिन् रावणो वसति। नाहमस्मिन् कार्ये प्रभुः। न च लक्ष्मणः एतत्कर्म

कर्तुः समर्थः। त्वमेव कार्यस्यास्य हेतुः प्रभुः समर्थश्च इति।”

एवमुक्तः सुग्रीवो नीलहनुमज्जाम्बवदङ्गदादीन् प्रमुखान्वानरवीरान्दक्षिणां दिशमभिलक्ष्य प्रेषयामास संदिदेश च “यश्च मासात्पूर्वमेव निवृत्य दृष्टा सीतेति वक्ष्यति स मत्तुल्यविभवो भूत्वा भोगैः सुखं विहरिष्यति इति।” एवं आज्ञापिताः सर्वे ते वीराः स्वां स्वां दिशं संप्रतस्थिरे।

सुग्रीवेण यथोद्दिष्टं हनुमानपि दक्षिणं देशं गन्तुं प्रचक्रमे। गुहागहनदुर्गादीन्यन्वेषमाणाः सर्वे वानरा नैव सीतां ददृशुः। नापि रावणम्। पुनः पुनर्विचिन्त्य खिन्ना दीनमानसाः सर्वे समागत्यैकत्र मिलिता एकान्ते वृक्षमूले निषेदुः। मुहूर्तं समाश्वस्ताश्च पुनरेवोद्यताः। ततस्ते घोरं ददृशुः सागरं वरुणालयम्। ते सर्वे उपविश्य च विन्ध्यगिरेः पादे चिन्तामापेदिरे।

तदा युवराजोऽङ्गद उवाच। “किमकृतार्थानामस्माकं मरणमेव शरणं वा कचिदुपायोऽस्ति। मर्तव्यमेव नात्र संशयः। इति " तत्र जटायुषोभ्राता संपातिगृध्रराजस्तत्रोपचक्रमे। सर्वोस्तान् वानरान् संहर्षयन्कथयत्—“दुरात्मना रावणेन ह्रियमाणा तरुणी मया दृष्टा। श्रूयतां तस्य निलयं रक्षसः। कुबेरस्य साक्षाद् भ्राता एव रावणः लङ्कामध्यास्ते। इतः समुद्रस्य शतयोजने संपूर्णेविश्वकर्मणा निर्मिता रम्या पुरी लंका। तस्यां राक्षसीभिर्निरुद्धा दीना सीता वसति। अस्य समुद्रस्य लंघने कश्चिदुपायो दृश्यताम्। तत्र गत्वा सीतां प्राप्य समृद्धार्था भविष्यथ इति। '

ततो दक्षिणोत्तरां दिशं प्राप्य ते वीराः संनिवेशं चक्रुः। अंगदस्तु तान् वीरान्संमान्याऽपृच्छत्—‘क इदानीं समुद्रं लंघयिष्यति? कः सुग्रीवं सत्यसन्धं करिष्यति।’ इति।

जाम्बवांस्तु तान्सर्वान्विषण्णान्दृष्ट्वाहनूमन्तमब्रवीत् — “वीर! किं तूष्णीं स्थितोऽसि? न किमपि जल्पसि? त्वमेव तेजोबलाभ्यां समोऽसि रामलक्ष्मणयोः सुग्रीवस्य च। तदेव बलं वीर्ये च यद्गरुडस्य। तव विक्रमश्च तेनैवतुल्यः। त्वं तु वीर्यवान् बुद्धिसंपन्नश्च लंघने प्लवने च समर्थः। स्वच्छन्दतस्तवमरणं। वयं तु अद्यैव गतप्राणाः, भवानेवास्मासु दाक्ष्यविक्र—

मसंपन्नः। त्वद्वीर्यं द्रष्टुकामा हीयं वानरसेना। अतउत्तिष्ठ लंघय महार्णवम्। इति "

मारुतिस्ततो गिरिं महेन्द्रमारुरोह। आदौ मनश्च समाधाय अर्णवं लिलंघयिषुः बाहुचरणाभ्यां पर्वतं पीडयामास। ततोऽसौ रोमाणि दुधुवे अनिल इव चकम्पे। महानादं च निननाद। बाहु स्तंभयामास, आससाद च कट्यां, चरणौ च संचुकोच। दूरादाकाशे मार्गमालोकयन्हृदये प्राणान्रुरोध। पद्भ्यां दृढमवस्थानं च कृत्वोवाच — “यथा रामप्रेरितो बाणो निर्गच्छेत्तथाऽहं लंकां गमिष्यामि” इति।

एवमुक्त्वा मारुतिर्वेगेन उत्पपात। यं यं स समुद्रस्य देशं जगाम तं तं प्रदेशं स्वकीयांगवेगेन प्रक्षोभयामास। एवं तं प्लवमानं सर्वेऽपि तुष्टुवुः। प्राप्तसमुद्रपारस्तु योजनानां शतस्यान्ते वनराजिं ददर्श। तथा च द्वीपमेकम्। मलयोपवनानि नदीमुखानि च। योजनशतानि तीर्त्वाप्यनिःश्वसन् कपिर्न ग्लानिमधिगच्छति। नगाग्रे स्थितां लंकां परिखाभिरलंकृतां कांचनप्राकारावृतां स ददर्श। तस्याश्च महतींरक्षां निरीक्ष्याचिन्तयामास।” नेयं शक्या प्रवेष्टुमनेनैव रूपेण। वायुरपि अत्रनाज्ञातश्चरेत्। तद्रजन्यामेवाहं राघवस्यार्थसिद्धये लंकामभिपतिष्यामि इति।”

ततो रात्रौ तूर्णं उत्पत्य लंकां प्रविवेश। नन्दितो भवनाद्भवनं ददर्श। रावणस्य तु भवनमर्धयोजनविस्तीर्णं संप्राप्तः। या वैश्रवणे लक्ष्मीस्तामेव रावणगृहे स ददर्श। ततः प्रस्थितो रावणनिषेवितां शालां ददर्श स तत्र कांचनान् दीपानपश्यत्। तत्रैकतमे देशे दिव्यं शयनासनं छत्रं चददर्श। तस्मिन् शयने सुप्तं राक्षसेन्द्रं मारुतिः प्रेक्षते स्म। तस्य पादमूलगताश्चास्य पत्नीरपि तत्रैव स ददर्श। तासां मध्ये एकान्तविन्यस्ते शयने शयानां चारुरूपिणीं मंदोदरीं ददर्श। तां दृष्ट्वा वायुसुतो हनूमान् सैव सीतेति तर्कयामास।

अचिरादेव तां बुद्धिमवधूय मनस्येव विचारयामास “सीता रामेण

वियुक्ता नैवालंकुर्यादात्मानम्? नान्यं नरं सुरं वोपतिष्ठेत। " इति विमृश्याऽन्येयमिति निश्चित्य तत्र भूयश्चचार।

एवमशेषेण हनूमान् रावणान्तः पुरमपश्यत्। परंतु जानकीं नापश्यत्। चिन्तयामास च — “मया रावणस्य सर्वाः स्त्रियो दृष्टाः। अत्र वैदेही परिमार्गितुमशक्या। भवतु। अन्यत्र पश्यामि। इदानीं दृष्टा वीथ्यश्च वेदिकाश्च पुष्करिण्यश्च। सर्वं चान्यद्दृष्टम्। परंतु वैदेही नैव दृश्यते। भवतु, विचिनोमि पुनः यावन्नपश्यामि।

इत्युक्त्वाऽशोकवनिकां जगाम। तत्र नाना वापीः, पुष्पवाटिकाश्चापश्यत्। तत्रैकं वृक्षमारुह्य व्यचिन्तयत् — “इतो द्रक्ष्यामि वैदेहीम्। इयमत्र रम्या नलिनी, इमां नूनमेष्यति सीता यदि जीवति। " एवं ब्रुवन् स सर्वत्र नयने प्रेरयामास।

ततो मलिनवस्त्रां, राक्षसीभिः समावृतां दीनां, उपवासकृशां, पुनः पुनर्निःश्वसन्तीं, अमलां, तापसीं पुत्रीं समीक्ष्य सैव सीतेति स तर्कयामास। हृष्टश्च मनसैव रामं जगाम प्रशशंस च तं प्रभुम्। तत्र मैथिली दृष्ट्वा मारुतिरतुलं हर्षं लेभे।

अथ मंगलवादित्रैर्दशग्रीवः प्राबोध्यत। विबुध्य तु सः वैदेहीमेवान्वचिन्तयत्। अशोकवनिकां च प्रविशति स्म। रावणस्तु कामपराधीनः सीतासक्तमना मन्दगतिरभवत्। दृष्ट्वैव तं सीता प्रावेपत तत्रैव रुहत्येवोपविष्टा।

**शब्दार्थ **
त्वद्वशे = तेरे अधीन नगाग्रं = पर्वतका अग्रभाग
मत्तुल्यविभवः = मेरे समान वैभववाला वीथी = गली
जटायुः = एक पक्षी, जटायु पुष्करिणी = जल स्थान, तालाब
संनिवेशं = निवास पुष्पवाटिका = उद्यान
लिलंघयिषुः = लांघने की इच्छाकरनेवाला नलिनी = कमलिनीका स्थान
प्राप्तकालं = इस समयके योग्य
अशोकवनिका = अशोक नामक उद्यान
निषेदुः = बैठ गये
समाश्वस्त = विश्रामको प्राप्त
निलयं = घर
विषण्ण = खिन्न.दुःखी
ग्लानि= थकावट
अशेषेण = सब
अमला = मलरहित
वेदिका = वेदी
वापी = कूआ
विबुध्य = जागकर
**समासाः **
वृक्षमूलं = वृक्षस्य मूलम्
वरुणालयं = वरुणस्य आलयम्
अकृतार्थः = कृतः अर्थः येन सः कृतार्थः
दुरात्मा = दुष्टः आत्मा यस्य सः
दक्षिणसमुद्रः= दक्षिणश्चासौ समुद्रश्च
बुद्धिसंपन्नः = बुद्ध्या सम्पन्नः
रावणनिषेविता = रावणेन निषेविता
मलिनवस्त्रा = मलिनं वस्त्रं यस्याः सा
उपवासकृशा = उपवासेन कृशा
सीतासक्तमनाः = सीतायां भासक्तं मनः यस्य सः
रावणान्तःपुरं = रावणस्य अन्तःपुरम्
अशक्या = न शक्या
पुष्पवाटिका = पुष्पाणां वाटिका
अमला = न मलिना
कामपराधीनः = कामेन पराधीनः

!#2

पाठ ५

(महाभारत भीष्मपर्व अ० ५१)

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
प्रदध्मतुः शंखवरौ हेमरत्नपरिष्कृतौ॥२४॥

पांचजन्यं हृषीकेशो देवदत्तं धनंजयः।
पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः॥२५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥२६॥

काशिराजश्च शैब्यश्च शिखंडी च महारथः।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः॥२७॥

पांचाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः।
सर्वे दध्मुर्महाशंखान्सिंहनादांश्चनेदिरे॥२८॥

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्॥२९॥

एवमेते महाराज प्रहृष्टाः कुरुपांडवाः।
पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम्॥३०॥

**~~

          ~~**

“ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ वीरौ हेमरत्नपरिष्कृतौ शंखवरौ प्रदध्मतुः॥२४॥ हृषीकेशः कृष्णः पांचजन्यं, धनंजयोऽर्जुनो देवदत्तं भीमकर्मा वृकोदरः पौण्ड्रं महाशंखं दध्मौ॥२५॥ कुन्तीपुत्रो राजा युधिष्ठिरोऽनन्तविजयं, नकुलः सहदेवश्च सघोषमणिपुष्पकौ॥२६॥ काशिराजः च शैब्यः च महारथः शिखंडी च धृष्टद्युम्नः विराटश्च महारथः सात्यकिश्च॥२७॥ महेष्वासाः पांचाल्याः च द्रौपद्याः पञ्च आत्मजाश्च सर्वे महाशंखान् दध्मुः सिंहनादांश्चनेदिरे॥२८॥ तत्र वीरैः स सुमुहान् घोषः समुदीरितः स तुमुलः शब्दः नभः पृथिवीं चैव व्यनुनादयत्॥२९॥ हे महाराज! एवं एते कुरुपांडवाः प्रहृष्टाः परस्परं तापयानाः पुनः युद्धाय सजग्मुः॥३०॥

( महाभारत भीष्मपर्व अ० ५२ )

धृतराष्ट्र उवाच —

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च।
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे॥१॥

संजय उवाच —

समं व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजम्।
अपारमिव सन्दृश्य सागरप्रतिमं बलम्॥२॥

तेषां मध्ये स्थितो राजन् पुत्रो दुर्योधनस्तव।
अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः॥३॥

ते मनः क्रूरमाधाय समभित्यक्तजीविताः।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः॥४॥

ततो युद्धं समभवत्तुमुलं लोमहर्षणम्।
तावकानां परेषां च व्यतिषक्तरथद्विपम्॥५॥

मुक्तास्तु रथिभिर्वाणा रुक्मपुङ्खाः सुतेजसः।
सन्निपेतुरकुंठाग्रानागेषु च हयेषु च॥६॥”

**~~

          ~~**

धृतराष्ट्र उवाच — एवं मामकेषु इतरेषु च अनीकेषु व्यूढेषु प्रहरतां श्रेष्ठाः कथं प्रहारं प्रचक्रिरे॥१॥ संजय उवाच — व्यूढेषु अनीकेषु समं सन्नद्धरुचिरध्वजं सागरप्रतिमं बलं अपारं संदृश्य॥२॥ हे राजन्! तेषां मध्ये स्थितः तव पुत्रः दुर्योधनः तावकान् सर्वान् “दंशिताः युद्ध्यध्वं इति अब्रवीत्॥३॥ ते सर्वे एव उच्छ्रितध्वजाः मनः क्रूरं आधाय समभित्यक्तजीविताः पाण्डवान् अभ्यवर्तन्त॥४॥ ततः तावकानां परेषां च व्यतिषक्तरथद्विपं तुमुलं लोमहर्षणं युद्धं समभवत्॥५॥ रथिभिः मुक्तः रुक्मपुंखासुतेजसः बाणाः अकुंठाग्रानागेषु च हयेषु च सन्निपेतुः॥६॥

तथा प्रवृते संग्रामे धनुरुद्यम्य दंशितः।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः॥७॥

सौभद्रे भीमसेने च सात्यकौ च महारथे।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते॥८॥

एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः।
ववर्षशरवर्षाणि वृद्धः कुरुपितामहः॥९॥

अभिपद्यत ततो व्यूहस्तस्मिन्वीरसमागमे।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्॥१०॥

सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः॥११॥

अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीमं महारथम्।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः॥१२॥

एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम्।
नाशयिष्यति सुव्यक्तंदुर्योधनहिते रतः॥१३॥

एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः॥१४॥

_________________________________________________

तथा संग्रामे प्रवृते भीमपराक्रमः महाबाहुः दंशितः भीष्मः धनुरुद्यम्यअभिपत्य॥७॥ सौभद्रे अभिमन्यौ भीमसेने च महारथे सात्यकौ च, कैकेयेच विराटे च धृष्टद्युम्ने च पार्षते॥८॥ एतेषु नरवीरेषु चेदिमत्स्येषु च अभिभूः कुरुवृद्धः पितामहः शरवर्षाणि ववर्ष॥९॥ ततः तस्मिन् वीरसमागमेव्यूहः अभिपद्यत सर्वेषामेव सैन्यानां महान् व्यतिकर आसीत्॥१०॥ सादिनः ध्वजिनः चैव हतप्रवरवाजिनः विप्रद्रुतरथानीकाः पांडवाःसमपद्यन्त॥११॥ नरव्याघ्रोऽर्जुनस्तु भीमं महारथं दृष्ट्वा क्रुद्धःवार्ष्णेयं कृष्णं अब्रवीत्"याहि यत्र पितामहः”॥१२॥ हे वार्ष्णेय! हे कृष्ण! एष सुसंक्रुद्धो भीष्मःदुर्योधनहिते रतः सुव्यक्तं मम वाहिनीं नाशयिष्यति॥१३॥ हे जनार्दन! एषद्रोणः कृपः शल्यः विकर्णश्च दुर्योधनपुरोगमा धार्तराष्ट्राश्च सहिताः॥१४॥

पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना।
सोऽहं भीष्मं वधिष्यामि सैन्यहतोजनार्दन॥१५॥

दृढधन्वना रक्षिताः पाञ्चालान् मिहनिष्यन्ति। हे जनार्दन! सोऽहंसैन्यहेतोः भीष्मं वधिष्यामि॥१५॥

| शब्दार्थ| | | |———————————-|——————————| | स्यन्दनः = रथ | परिष्कृत = सुशोभित | | व्यूढ = व्यूह बने हुए | अनीक=सैन्य | | मामक = मेरा | इतर = दूसरा | | प्रहरत् = प्रहार करनेवाला | सन्नद्ध = बद्ध | | दंशितः = काटे हुए या रक्षित होकर | तुमुल = भयानक गर्जनासे युक्त | | रुक्मं = सुवर्ण | व्यतषिक्त=मिलजुलकर | | वार्ष्णेय = कृष्ण | व्यतिकरः =विरोध |

शखोंके नाम–पाञ्चजन्य, देवदत्त, पौंड्र, अनंतविजय, सुघोष, मणिपुष्पक।

समासाः। .

१ शंखवरः = शंखेषु वरः श्रेष्ठः।
२ हेमरत्नपरिष्कृतः = हेमरत्नैः परिष्कृतः।
३ भीमकर्मा = भीमं कर्म यस्य सः।
४ अपारं = न विद्यते पारः यस्य तत्।
५ समभित्यक्तजीविताः = समभित्यक्तानि जीवितानि यैस्ते।
६ उच्छ्रितध्वजाः = उच्छ्रिताः ध्वजाः यैस्ते।
७ भीमपराक्रमः = भीमः पराक्रमो यस्य सः।
८ नरवीरः = नरेषु वीरः।
९ दुर्योधनपुरोगमाः = दुर्योधनः पुरोगमो येषां ते।
१० दृढधन्वा = दृढं धनुः यस्य सः।

पाठ ६

(५) “तृ”

संस्कृतमें “ तृ ” प्रत्यय बडा महत्व रखता है । पितृ, मातृ, कर्तृ,आदि शब्द इसी प्रत्यय से होते हैं।

[TABLE]

संस्कृत–वाक्यानि।

विश्वस्य कर्ता भुवनस्य धर्ता ईश्वरः सर्वं जगद्व्याप्नोति। स्त्रियः भर्ता एव सर्वं भूषणम्। राजा सर्वेषांराष्ट्राणां पाता। सर्वैर्भ्रातृभिस्तत्र नागन्तव्यम्। हन्तारः सर्वेऽत्रागच्छन्तु। ध्यातारः पुरुषा एकान्तं स्थानं प्राप्य इष्टदेवताध्यानं कुर्वन्तु। पक्तृभिः अन्नं निर्मितं अतस्त्वंआगच्छ भोजनाय।

(६) " अन “

“अन” प्रत्यय धातुके साथ लगकर बहुत रूप बनाता है, अन = तपन। दम् + अन = दमन इ.।

[TABLE]

संस्कृत-वाक्यानि।

ईश्वरस्य भजनं मनुष्यैरवश्यमेव प्रतिदिनं कर्तव्यम्। सूर्यस्य दर्शनं कुरु, पश्य कथं स आकाशेप्रकाशते। दर्पणे मुखं पश्यामि। त्वमपि तं दर्पणमत्रानय। येन साधनेन मनुष्यः अभ्युदयं साधयति तदेव साधनं साधय। स शोभनः पुरुष इदानीमत्रैवागच्छति। त्वमपि तथैव शोभनं आचरणं कुरु। संक्रन्दनो यथा राक्षसान् हन्ति तथैव अन्यैर्मनुष्यैः कर्तव्यम्। इदानीं तत्र गमनं कुरु। तस्य जननं कथमभूत्?

(७) “अ”

“अ"प्रत्यय लगकर अनेक शब्द बनते हैं जैसा—
चुर् + अ = चोरः। कुप् + अ = कोपः।मद् + अ = मदः।

| शब्दार्थ| | | |————————-|——————| | चरः = गुप्तचर, चलनेवाला | नदः = नदी | | सर्पः = सांप | व्रणः = व्रण | | देवः = देव | कोपः = क्रोध | | अघं = पाप | अंकः = चिह्न | | अंग = शरीर | अध्यायः = अध्याय | | अर्कः= सूर्य | क्लेशः = कष्ट | | गजः = हाथी | गदः = रोग | | गंधः = सुवास | चारः = चलनेवाला | | मेघः = मेघ | मदः = गर्व |

.
‘अ’ प्रत्ययों दो भेद हैं। एक प्रकारका अप्रत्यय पूर्व स्वरका गुण वृद्धि करता है और दूसरे प्रकारका नहीं करता। इसी कारण एक ही ‘चर्’ धातुसे ‘चर और चार ’ ये दो शब्द बनते हैं। ये दो प्रत्यय भिन्न हैं। इतनी बात ध्यान में धरनेसे कई स्थानोंपर गुण हुआ और कई स्थानपर नहीं हुआ इसका कारण ध्यानमें आवेगा।

संस्कृत–वाक्यानि।

चारैः पश्यन्ति राजानः। अतो राजानः चारचक्षुष इति कथ्यन्ते। अङ्गंगलितं पलितं मुण्ड, दशनविहीनं जातं तुण्डम्। अर्कः आकाशे तपति। गजाः युद्धेषु प्रयुज्यन्ते। गदा औषधिप्रयोगेन दूरीक्रीयन्ते। अयं मंत्रः यजुर्वेदस्य कस्मिन्नध्याये पठितः ? हे देव! अत्रागच्छ मम पूजांगृहाण च।

(८) ‘मान’

‘मान’ प्रत्यय धातु के साथ लगकर बहुत रूप बनते हैं और इसके वर्तमान काल अर्थ बतानेवाले तथा भविष्यकाल बतानेवाले शब्द बनते हैं। जैसा “पच्+मान = पचमानः (इस समय पकानेवाला), ‘कृ+स्य

+ मान = करिष्यमाणः (भविष्य में करनेवाला ।) यह प्रत्यय लगने के समय जिस गणका धातु हो उस गणके विकरण वर्तमानकालीन प्रत्ययके पूर्व लगते हैं भविष्यकालके प्रत्ययके पूर्व विकरणको आवश्यकता नहीं होती ।

| शब्दार्थ| | | |:——————————:|:——————————–:| | वर्तमानवाचक | भविष्यवाचक | | पचमानः = जो पका रहा है | पक्ष्यमाणः = भविष्य में पकनेवाला | | क्रियमाणः = जो किया जा रहा है | करिष्यमाणः = करनेवाला | | दीयमानः = जो दिया जा रहा है | दास्यमान = दिया जानेवाला |

इस प्रकार अनंत रूप बनते हैं। एक रूपसे दूसरे रूपकी कल्पना हो सकती है।

| शब्दार्थ| | | |—————————|—————————–| | जायमानः = होनेवाला | भक्षमाणः = खानेवाला | | रोचमानः = चमकनेवाला | शोभमानः = शोभनेवाला | | वर्धमानः = बढनेवाला | व्यथमानः = कष्ट भोगनेवाला | | वर्तमानः = रहनेवाला | ईक्षमाणः = देखनेवाला | | भाषमाणः = बोलनेवाला | भासमानः = दीखनेवाला | | शिक्षमाणः = सीखानेवाला | भिक्षमाणः = भीख मांगनेवाला | | क्षममाणः = क्षमा करनेवाला | त्वरमाणः = तीव्रता करनेवाला |

संस्कृत वाक्यानि।

जायमानेन तेन सिंहनाद इव शब्दः कृतः। मेधावी स पुरुषो विद्यया शोभमानो जनसमाजेऽतीवविराजते। भूमित्रोदुःखेन व्यथमानोऽपि औषधं न पिबति। भिक्षमाणा भिक्षवः आपणे दृश्यन्तेकस्माद् ग्रामात्ते आगता इति न ज्ञायन्ते। त्वं तदीक्षमाणोऽपि न पश्यति इति चित्रमेव।

एवं त्वरमाणस्त्वं कुत्र गच्छसि? भाषमाणा विद्वांसो सभां भूषयन्ति।शुक्लपक्षे वर्धमानश्चन्द्रमा भवति, तथा कृष्णपक्षेऽपक्षीयमाणो भवति।पूर्णिमायां चन्द्रमा अतीव रोचमानः समुदयति। दास्यमानां दक्षिणांतुभ्यमहं ददे। पचमानोऽपिस सूदः स्वयं किमपि न करोति। दीयमानं च अन्नं भिक्षुभ्यः स शोभनेन वचसा न ददाति। कटुवचोभिर्दत्तं दानं नशोभमानं भवितुमर्हति।

इस प्रकार पाठक वाक्य बनावें और शब्द भी जहां कहीं आये हों, यहइस प्रत्ययका है यह पहचानें।

______________________

पाठ ७

रामायणम्।

रावणस्तु तां सीतां तथा पीनां आतुरां कृशां निरानन्दां दृष्ट्वा मधुरैर्वाक्यैरुवाच— “सति! किं मां दृष्ट्वा भयाददर्शनामिव गन्तुमिच्छसि। प्रिये ! अहं त्वां कामये। मयिविश्वसिहि। अकामां चैव त्वां न स्प्रक्ष्यामि।यौवनं तु ते संजातमतिवर्तते। यद्यद्गात्रं ते पश्यामि तस्मिंस्तस्मिन्निबध्यतेमे चक्षुः। हे विलासिनि! तव हेतोः पृथिवीमपि विजित्य प्रदास्यामि । राजस्तु जीवति वा न वा शंके। न चापि मम हस्तात्प्राप्तुमर्हति त्वाम् ?इति।”

रावणस्यैतद्वचनं श्रुत्वा तृणमन्तरतः कृत्वा सीता प्रत्युवाच। “मत्तोमनो निवर्त्तयस्व। स्वजन एवं प्रीतिं कुरु। नैवाकार्यं मया कार्यम्। निशाचर! यथा तव तथैवान्येषामपि दाराः खलु रक्ष्याः। अकृतात्मानं अनयेरतं राजानमासाद्य समृद्धान्यपि राष्ट्राणि विनश्यन्ति। यथा भास्करस्य प्रभातथैव रामस्याहंपत्नी। तं शरणागतवत्सलं रामचन्द्रमेव प्रसाद्य मांनिर्यातयितुमर्हसि। अन्यथा रामशरताडितोऽन्तं गमिष्यसि।” इति।

राक्षसेश्वरस्तूवाच— यथा यथा स्त्रीणां प्रियं वक्ता नरो भवति तथातथा परिभूतो भवति। यानि यानि परुषानि वाक्यानि ब्रवीषि तेषु तेषु

ते वध एव युक्तः। द्वौ मासौ रक्षितव्यौ य एव ते मयाऽवधिः कृतः। अतआरोह मम शयनम्। द्वाभ्यां मासाभ्यामूर्ध्वं भर्तारं मामनिच्छन्तीं त्वां खण्डशश्छेत्स्यन्तिमे सूदाः।“इति।

सीतोवाच— “नूनं न कोऽपि ते निःश्रेयसि स्थितोऽत्र जनो यस्त्वां ननिवारयति कर्मणोऽस्माद्विगर्हितात्। त्वदन्यस्तु मां कस्त्रिषु लोकेषु मनसाऽपि प्रार्थयेद्धर्मपत्नीम्? अनार्य! कथं मामेवं व्याहरतस्ते जिह्वाऽपि नशीर्यति! असंदेशाद्वामस्य, तपसोऽनुपालनाच्च केवलं त्वां न करोमिभस्मसात्।” इति।

रावणस्तु जानकींनयने विवृत्यान्ववैक्षत। भुजंग इव निःश्वसंश्वोवाच— “अयमहं नाशयामि त्वां सूर्य इव संध्याम्।” इति।

इत्येवं तामुक्त्वा शत्रुरावणो “रावणः सर्वा राक्षसीःप्रति समादिदेश—यथा सीता मद्वशगा भवति तथा कुरुत। दण्डस्योद्यमनेनापि वैदेहीं मावर्जयत।” इति

धान्यमालिनी राक्षसी ततो दशग्रीवं परिष्वज्योवाच—“महाराज!मया सह क्रीड, किं तवानया सीतया सह? अकामां कामयानस्यचोपतप्यते शरीरम्।” इति।

श्रुत्वैतद्रावणो राक्षसीं धान्यमालिनीमुपहसन्न्यवर्तत। सर्वा एव राक्षस्यस्ततो सीतामभिदुद्रुवुः। सा पुनस्ता राक्षसीरुवाच—“न मानुषी राक्षसस्यभार्या भवितुमर्हति। कामं खादत माम्। न तु वो वचःकरिष्यामि।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तमेवानुरक्ताऽस्मि।सूर्यवर्चमायथा सूर्यं, अरुन्धती वसिष्ठं, रोहिणी शशिनं, लोपामुद्राऽगस्त्यं, सुकन्या च्यवनं, सावित्री वा सत्यवन्तमिति।”

राक्षस्यस्तु क्रोधमूर्च्छितामधिकतरं भर्त्सयन्तिस्म। अथ हनुमान् शिंशपाद्रुमेऽवलीनः सर्वं तदशृणोत्। विनतानाम्नी राक्षसीतदा सीतामब्रवीत्— “सीते! पर्याप्तमेतावद्भर्तुः स्नेहः प्रदर्शितः। भद्रे! अतिकृतं व्यसनायैवोपकल्पते। तद्रावणं भर्तारं भजस्व। नोचेत्सर्वास्त्वां भक्षयामहे।”

इति।

अशोकवृक्षस्य शाखमालम्ब्य तदा सीता नेत्रजलस्रावैः स्तनौस्नापयन्ती शोकस्यान्तं अधिगच्छति। विललाप च बहुविधम्। “हाराम! हा श्वश्रूः!हा कौसल्ये! हा सुमित्रे! इदानीं जीवितं त्यक्तुमिच्छामि। किंतु सत्य एव जनप्रवादो यदकाले मृत्युर्दुर्लभ एवेति। धिड्मानुष्यं धिक्परवश्यताम्, यन्न शक्यंजीवितमपि परित्यक्तुमात्मच्छन्देन।नूनं मम शोकेन देहं त्यक्त्वा देवलोकं यातो भवेल्लक्ष्मणाग्रजः। अथवा नहि तस्य रामस्यार्थो भवेद्भार्यया मया इदानीम्। दृश्यमाने च भवतिप्रीतिः नादृश्यतः सौहार्दं कुतः संभवति? किंवा मे भाग्यक्षयः संजातः यद्वरार्हेणापि रामेण त्यक्ताऽहम्? रावणस्यवशं गता तु प्राणानेवयक्ष्यामि” इति।

तच्छ्रुत्वा तत्सर्वं राक्षस्यो रावणायाख्यातुं जग्मुः।

हनूमांस्ततश्चिन्तयामास— ‘कथं नु मम वाक्यं सीता शृणुयान्नोद्विजेतच।’ इति संचिन्त्य मतिं चकार। अक्लिष्टकर्माणं सुबन्धुं रामं अनुकीर्तयन्नेव नोद्वेजयिष्यामि सीताम्। श्रावयिष्यामि मधुरेण वचसा सर्वं रामवृत्तान्तम्। तथा सर्वं समादधे यथा श्रद्धास्यति इति। एवं विचिन्त्य वैदेह्याः श्रवणेसर्वं रामचरितं आमूलान्तं व्याजहार, सुग्रीवसख्यं, अन्वेषणार्थं वानरप्रेषणं,अन्वेषणान्तं च।

श्रुत्वैतज्जानकी विस्मिता।केशसंवृतं वदनमुत्रन्नम्यसीता ऊर्ध्वं अन्ववैक्षत। वानरं भीमसत्त्वं अवलोक्य पुनर्मुमोह च।

हनूमांस्तु द्रुमादवतीर्य प्राञ्जलिस्तां विनीतवेषो भूत्वाऽब्रवीत् “देवि!रामस्य संदेशात्तस्यैव दूतोऽहं त्वत्सकाशमागतः। वैदेहि! रामः कुशली।त्वां च कौशलमब्रवीत्। लक्ष्मणश्च शिरसाऽभिवादनम्। "

श्रुत्वा तत्सीताऽवदत्— “लौकिकीयं गाथा बत मां कल्याणीव प्रतिभाति। वर्षशतादपि जीवन्तं नरमानन्दोऽसंशयमेत्येव। "

ततो यथा यथा हनूमान्समीपमुपसर्पति तथा तथा तु तं रावणमेव
३ [ सं . पा. मा. भा. १८ ]

परिशंकते। सा तु तदाऽशोकशाखां त्यक्त्वा धरण्यामेवोपाविशत्। उवाच च “मायां प्रविष्टो यदि त्वं रावणो मायावी भूत्वा संतापमुत्पादयसि तन्न शोभनम्। स्वं रूपं परित्यज्य यः परिव्राजको जनस्थाने दृष्टः स एव हि त्वंरावणः। तद्दूरं व्रजेति।”

एवं सीताया निश्चयं बुद्ध्वा मारुतात्मज उवाच—“देवि ! नाहं तथाऽस्मि यथा मामवगच्छसि। त्वया पातितान्याभरणानि मयैवोपहृत्य रामाय दत्तानि। स तत्रादर्शनात् आर्ये! परितप्यते राघवः। स रामःसमित्रबांधवं हत्वा रावणं त्वां क्षिप्रमेव प्राप्स्यति। रामस्य दूतोऽहम्। रामनामाङ्कितं पश्येदमंगुलीयकम्। प्रत्ययार्थं तव दत्तं महात्मना रामेण तत् समाश्वसिहि” इति।

समासाः।

१. निरानंदा आनंदेन रहिता। २ निशाचरः = निशायां चरतीति।३ रामशरताडितः = रामस्य शरः रामशरः। तेन ताडितः।४ राक्षसेश्वरः = राक्षसानां ईश्वरः। ५ राज्यहीनः = राज्येन हीनः।६ क्रोधमूर्च्छिता =क्रोधेन मूर्च्छिता। विनीतवेषः = विनीतः वेषःयस्य। ८ मारुतात्मजः = मारुतस्यआत्मजः। ९ समित्रबांधवं =मित्रैः बांधवैश्च सहितम्। १० रामनामांकितं = रामनाम्ना अंकितम्।

शब्दार्थ
आतुरा = दुःखी अतिकृतं = अधिक किया हुआ
विश्वसिहि = विश्वास कर अन्वेषणं = ढूंढना
गात्रं = अवयव उन्नम्य = ऊपर करके
तृणं = घास कुशली =आरोग्यपूर्ण
दाराः = स्त्री निरानन्दा = आनंदरहित
शयनं = बिछोना स्प्रक्ष्यामि = स्पर्श करूंगा
संदेश = आज्ञा शंक = संदेह करता हूं
अकार्य = अयोग्य कार्य व्यसनं = दुःख
परुष = कठोर प्रेषणं = भेजना
सूद = रसोयिया द्रुमः = वृक्ष
धान्यमालिनी = राक्षसीका नाम परिव्राजकः = संन्यासी

__________________

पाठ ८

(महाभारत भीष्मपर्व अ० ५२)

तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय।
एष त्वां प्रापयिष्याणि पितामहरथं प्रति॥१६॥

एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम्।
प्रापयामास भीष्मस्यरथं प्रति जनेश्वर॥१७॥

चलद्बहुपताकेन बलाकावर्णवाजिना।
समुच्छितमहाभीमनदद्वानरकेतुना॥१८॥

महतासेवनादेव रथेनामितेजसः।
विनिघ्नन्कौरवानीकं शूरसेनांश्च पांडवः॥१९॥

प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्॥२०॥

______________________________________________________________

तं वासुदेवोऽब्रवीत्— “धनंजय! यत्तो भव। एवं त्वां पितामहरथंप्रति प्रापयिष्यामि॥१६॥ हे जनेश्वर! एवं उक्त्वा ततः शौरिः कृष्णः तौ लोकविश्रुतं रथं भीष्मस्य रथं प्रति प्रापयामास॥१७॥ चलद्बहुपताकेनबलाकावर्णवाजिना समुच्छितमहाभीमनदद्वारकेतुना॥१८॥ महता मेघनादेन अमिततेजसा रथेन पांडवः कौरवानीकं शूरसेनान् च विनिघ्नन्॥३९॥ शरणदः, सुहृदां हर्षवर्धनः शीघ्रं प्रायात्। प्रभिन्नं वारणं इव तं वेगेन आपतन्तम्॥२०॥

त्रासयन्तं रणे शूरान्मर्दयन्तं च सायकैः।
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः॥२१॥

सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम्।
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्॥२२॥

द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति।
ततो भीष्मो महाराज सर्वलोकमहारथः॥२३॥

अर्जुनं सप्तसप्तत्या नाराचानां समाचिनोत्।
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः॥२४॥

दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः।
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः॥२५॥

विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम्।
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः॥२६॥

न विव्यथे महाबाहुर्भिद्यमान इवाचलः।
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः॥२७॥

द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः।
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः॥२८॥

___________________________________________________
रणे शूरान् त्रासयन्तं, सायकैः मर्दयन्तं च अर्जुनं सहसा शान्तनवो भीष्मःप्रत्युदीयाय॥ को हि गांडीवधन्वानं कुरुपितामहादन्यः द्रोणवैकर्तनाभ्यां वाअन्यः रथी अर्जुनं संयातुमर्हति॥२१-२३॥ महाराज! ततः सर्वलोकमहारथो भीष्मः नाराचानां सप्तसप्तत्या अर्जुनं समाचिनोत्। द्रोणः पञ्चविंशत्या,कृपः पञ्चाशता शरैः, सैन्धवो नवभिः चैव, शकुनिश्चअपि पञ्चभिः विकर्णोदशभिः भल्लैः हे राजन्! पांडवं विव्याध॥ तैः समन्तात् निशितैः शरैः विद्धःसमहेष्वासः महाबाहुः अर्जुनः भिद्यमानोऽचल इव न विव्यथे। स भीष्मंपञ्चविंशत्या, कृपं च नवभिः शरैः, द्रोणं षष्ट्या विकर्णं च त्रिभिः शरैः,शल्यं चैव त्रिभिः बाणैः, राजानं दुर्योधनं चैवपञ्चभिः॥२१-२८॥

प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ।
तं सात्यकिर्विराटश्र धृष्टद्युम्नश्च पार्षतः॥२९॥

द्रौपदेयाभिमन्युश्च परिवब्रुर्धनञ्जयम्।
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्॥३०॥

अभ्यवर्तत पांचाल्यः संयुक्तः सह सोमकैः।
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम्॥३१॥

अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः।
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्॥३२॥

प्रविवेश ततो मध्यं नरसिंहः प्रतापवान्।
तेषां महारथानां स मध्यं प्राप्य धनंजयः॥३३॥

चिक्रीड धनुषा राजल्ँलक्षं कृत्वा महारथान्।
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः॥३४॥

पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे।
एष पाण्डुसुतस्तात कृष्णेन सहितो बली॥३५॥

यवतां सर्वसैन्यानां मूलं नः परिकृन्तति।
त्वयि जीवति गांगेय द्रोणे च रथिनां वरे॥३६॥

_____________________________________________________

हे भरतर्षभ! अमेयात्मा नरव्याघ्रः किरीटी अर्जुनः प्रत्यविध्यत्॥सात्यकिः विराटः च पार्षतः धृष्टद्युम्नः च द्रौपदेयाभिमन्युः च धनंजयंपरिवव्रुः॥ ततो महेष्वासं द्रोणं गांगेयस्य भीष्मस्य प्रिये रतं पाञ्चाल्यःसोमकैः सह संयुक्तः अभ्यवर्तत॥ हे राजन्! रथिनां श्रेष्ठो भीष्मः तुनिशितैः अशीत्या बाणैः पाण्डवं अर्जुनं विव्याध। ततः तावकाः अक्रोशन्त। तेषां सहितानां तु निनदं शब्दं श्रुत्वा प्रहृष्टवत् प्रतापवान्मध्यं प्रविवेश॥ स धनंजयः तेषां महारथानां मध्यं प्राप्य, हे राजन्!महारथान् लक्ष्यं कृत्वा धनुषा चिक्रीड। ततो राजा दुर्योधनः जनेश्वरःपार्थेन संयुगे युद्धे स्वकं सैन्यं पीड्यमानं दृष्ट्वा भीष्म आह। हे तात ! एष पांडुसुतः कृष्णेन सहितः बली सर्वसैन्यानां यततां हे गांगेय !त्वयि जीवति, रथिनां वरे द्रोणे च जीवति नः परिकृन्तति॥२९ - ३६॥

त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते।
न युध्यति रणे पार्थं हितकामः सदा मम॥३७॥

स तथा कुरु गांगेय यथा हन्येत फाल्गुनः।
एवमुक्तो ततो राजन्पिता देवव्रतस्तव॥३८॥

धिक्क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति।
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः॥३९॥

सिंहनादान्भृशं चक्रुः शंखान्दध्मुश्च मारिष॥४०॥

___________________________________________________

विशांपते! त्वत्कृते चैव कर्णः अपि न्यस्तशस्त्रः सदा मम हितकामः रणेपार्थं न युध्यति। हे गांगेय भीष्म! स त्वं तथा कुरु यथा फाल्गुनः हन्यते।

हे राजन्! ततो तव पिता देवव्रतः एवमुक्तः “धिक् क्षात्रं धर्मं” इत्युक्त्वापार्थरथं प्रति प्रायात्॥ हेराजन्! पार्थिवाः उभौ श्वेतहयौ संसक्तौ प्रेक्ष्यभृशं सिंहनादान् चकुः— हे मारिष! शंखान् दध्मुः॥३७–४०॥

[TABLE]

समासाः।

१ पितामहरथः = पितामहस्य रथः। २ लोकविश्रुतः = लोके विश्रुतः।३ जनेश्वरः = जनानां ईश्वरः। ४हर्षवर्धनः = हर्षं वर्धयतीति।

पाठ ९

(९) “इष्णु”

“इष्णु” प्रत्यय भी बडा उपयोगी है। इसके प्रयोग वारंवार आते हैं।“अलंकरिष्णु” (अलंकार धारण करनेका इच्छुक) इस प्रकार के शब्द इसप्रत्यय से बनते हैं। इस प्रत्ययका “इष” इच्छार्थक धातु मानकर “नु"प्रत्यय मानने से भी ठीक अर्थका बोध हो सकता है।

शब्दार्थ
अलंकरिष्णु = अलंकारों की इच्छा करनेवाला रोचिष्णुः = प्रकाशमान
वर्धिष्णु = बढनेवाला प्रभविष्णु = प्रभावित
सहिष्णु = सहन करनेवाला संचरिष्णु = संचार करनेवाला
पारयिष्णु = पार होनेवाला

संस्कृत—वाक्यानि।

प्रभविष्णुना विष्णुना राक्षसांन्संहृत्य देवराज्यं संवर्धितम्। वर्धिष्णोरर्जुनस्य वीरस्य भारतीये युद्धेविशेष एव प्रभावः प्रकाशितः। अलंकरिष्णुनाबालकेन बहवोऽलंकाराः स्वशरीरस्योपरि धृताः। संचरिष्णुना आचार्येणसर्वस्मिन्नेव राष्ट्रेऽस्मिन्वर्षे संचारः कृतः। नदीं पारयिष्णुना सैन्येन बह्व्योनौका गृहीत्वा परतीरगमनाय महान्यत्नः कृतः, परंतु महता जलवेगेनबाधितास्ते पारगमनाय असमर्था भूत्वैव प्रतिनिवृत्ताः।

(१०) “स्नु”

इसके रूप निम्न प्रकार होते हैं—
जिष्णु = जयशील
स्थास्नु = ठहरनेवाला
भूष्णु = उन्नतिका इच्छुक
ग्लास्नु = थका हुआ

(११) “नु”

‘नु’ प्रत्यय लगकर निम्न लिखित प्रकार अनेक शब्द बनते हैं—

गृध्नु = लोभी धृष्णु = धैर्यशाली
त्रस्नु = भीरु क्षिप्नु = फेंकनेवाला

( १२ ) “त”

भूत अर्थ बतानेवाला ‘त’ प्रत्यय धातुके साथ लगकर बहुतसे शब्दबनते है —

भूत = बना हुआ पूत= पवित्र हुआ
कृत = किया हुआ स्थित = ठहरा
श्रुत = सुना ,, गत = गया ,,
जित = विजित नीत = लिया ,,
मुदित = आनंदित प्रापित = पहुंचाया
ज्ञात = जाना हुआ
जात = जन्मा ,, गीत = गाया हुआ
स्तुत = प्रशंसित दग्ध = जला ,,
स्नात = स्नान किया हुआ यात = गया ,,
त्रात = रक्षित क्षुब्ध = क्षोभित ,,
त्यक्त = छोड़ा हुआ दत्त = दिया
हृष्ट = हर्षित पठित = पढाया
पीत = पिया हुआ आनीत = लाया ,,
अधीत = पढा उक्त = कहा ,,

प्रायः प्रत्येक धातुका भूतार्थक शब्द इस प्रकार बनता है और भूतक्रिया के स्थानपर प्रयुक्त भी होता है । क्रियाके स्थानपर इन शब्दोंके प्रयोग होते हैं, इसलिये इनका विशेष महत्व है।

संस्कृत-वाक्यानि।

यः पाठः भवद्भिः पाठितः स मयाऽधीतः। यत्त्वया उक्तं तन्मया श्रुतम्।यत्तेनानीतं तन्मया गृहीतं स्वगृहे स्थापितं च। यथा त्वया जलं पीतं तथाअहं पातुं न शक्नोमि। यदि त्वं तेन गीतेन हृष्टोऽसि तर्हि तद्गीतं पुनःशृणु। अत्रैव स्थितः सन् त्वं सर्वं नाटकं पश्यसि। यदि तेन पुस्तकं अद्य नीतं तर्हि शोभनं जातम्। सर्वाणि वस्त्राणि दग्धानि न सन्ति। गृध्नुना यत्प्रशंसितं तन्न साधु।धृष्णुना वीरेण यत्कृतं तदेव साधु। जिष्णुना विजयेनयुद्धं कृतम्। भूष्णुना विशेषः प्रयत्नः कर्तव्यः येन तस्याभ्युदयो भवेत्।

(१३) “न”

“न"प्रत्यय भी बडा उपयोगी है, जिससे अनेक शब्द बनते हैं —

भिन्न = विभिन्न छिन्न = छिन्नभिन्न
म्लान = फीका बना हुआ भग्न = टूटा हुआ
ग्लान = थका हुआ शीर्ण = सूखकर गिरा हुआ

(१४) “तवत्”

धातुके साथ यह प्रत्यय लगकर बहुतसे शब्द बनते हैं, देखिये—

स्नातवत् = स्नान किया कृतवत् = किया
ज्ञातवत् = जान लिया आश्रितवत् = आश्रय किया
उक्तवत् = कहा श्रुतवत् = सुना
जितवत् = जय पाया भक्षितवत् = खाया
वोधितवत् = जाना खनितवत् = खोदा
हृतवत् = हरण किया मर्षितवत् = सहन किया

संस्कृत-वाक्यानि।

किं स तस्मिन् नदे स्नातवान्? यदा त्वं तत्कर्म कृतवान् तदा तेनकिमुक्तम्? कदा त्वं एवं श्रुतवान्? कः मोदकान् अद्य भक्षितवान्?

इस प्रकार इनके प्रयोग होते हैं। पाठक इन शब्दोंको जानकर कमसेकम उनको पहचाननेका तो अवश्य अभ्यास करें।

पाठ १०

रामायणम्।

स्वयं जानकी भर्तुः करविभूषितं अंगुलीयकं संप्राप्य मुदिताऽभवत्।वदनं च तस्या हर्षयुक्तं बभूव। भर्तुः संदेशहर्षिता सीता हनुमन्तं प्रियंकृत्वा प्रशशंस। ‘विक्रान्तस्त्वम्। एकेनैव येन इदं राक्षसस्थानं प्रधर्षितम्।शतयोजनविस्तीर्णः सागरो मकरालयो गोष्पदीकृतस्त्वया। न हि त्वांप्राकृतं मन्ये। न ह्यपरीक्षितं प्रेषयिष्यति रामचन्द्रः। कच्चिन्न व्यथते रामः? कच्चिन्नमयि विवासाद्विगतस्नेहः? कच्चितान्यमनाः? कच्चिद् द्रक्ष्यामिरावणं हृतं रामेण? ’ इति।

मारुतिस्तु प्राञ्जलिः प्रत्युवाच— ‘न त्वामिहस्थां जानीते रामः। श्रुत्वैवतु काकुत्स्थो हतराक्षसां लंका करिष्यति। अनिद्रो हि सततं रामः।सुप्तोऽपि सीतेति व्याहरन्प्रतिबुध्यते।’ इति।

सीता त्वैतच्छ्रुत्वोवाच— ‘अमृतं विषसंपृक्तं भाषितं त्वया। यच्चनान्यमना रामो यच्च शोकपरायण इति। ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे कृतान्तो हि पुरुषं रज्ज्वेव बद्ध्वा परिकर्षति विधिर्नूनमसंहार्यः।कदा रावणं सूदयित्वा मां द्रक्ष्यति पतिः? वाच्यस्त्वया स संस्वरस्वेति। एतत्संवत्सरान्तं हि मम जीवितम्। द्वावेव मासौ शेषौ। रावणस्तु प्रयत्नेनभ्रात्रा बिभीषणेनानुनीतःमां धर्षितुं न प्रयतति। बिभीषणसुतयाकलयैतदाख्यातम्।’ इति।

मारुतिरुवाच—सीते! अद्यैव त्वां राक्षसान्मोचयामि। उपारोहमम पृष्ठम्। संतरिष्यामि त्वया सागरम्।’ इति।

साप्रत्यब्रवीत् — ‘अयुक्तं त्वया सह मम गमनम्। भर्तृभक्ता चान्यस्य गात्रमपि स्वेच्छया स्प्रष्टुं नेच्छेयम्। रावणस्य हननमेव रामाय योग्यम्।’ इति।

मारुतिस्ततो रामसंज्ञार्थमभिज्ञानमयाचत। चूडामणिं तस्मै दत्वोवाचसीता— ‘अभिज्ञातोऽयं रामस्य।’ इति।

सोऽपि वैदेहीमभिवाद्य गमनायोपचक्रमे। चिन्तयामास च स एवार्थ-

साधने समर्थो योऽर्थं बहुधा वेद। इदं नृशंसस्य नन्दनोपमं वनम्।विध्वंसयामि तावत्। भग्नेऽस्मिन्वने कोपं करिष्यति रावणः’ इति।

मारुतवच्च ततो द्रुमान्क्षेप्तुमारभत मारुतिः। बभञ्ज च प्रमदावनम्।रूपं चात्मनः सुमहत्कृत्वाऽदर्शयद्राक्षसीनां विगतनिद्राणां पुरतः। सर्वास्तत्रत्या राक्षसी रावणाय न्यवेदिषुः सीतासंवादवृत्तं चिताग्निरिव रावणोजज्वाल। दीप्ताभ्यां तस्त नेत्राभ्यां सार्चिषोऽश्रुबिंदवः प्रापतन्। किंकरानाम चराक्षसान् हनूमतो निग्रहार्थं व्यादिदेश। ते सर्वे सैनिकाःकूटमुद्गरपाणयो भूत्वा ययुः। हनुमानपि लाङ्गुलं क्षितावाविध्य महाध्वनिंनिननाद। तोरणं समवस्थितस्तदाश्रयं भीममायसं परिघमासाद्य किंकरराक्षसान्जघान। कतिचिद्दूता रावणाय न्यवेदयन्। तदा रावणेन सप्तार्चिवर्चसो मन्त्रिणः सप्त सुताः प्रेरिताः। तेऽपि हनूमता व्यापादिताः। तदासर्वं सैन्यं दशदिशोऽगमत्।

तदा रावणसूनुरिन्द्रजित्स्वयं तत्रसंग्रामे प्राप्तः। हनूमानपि व्यवर्धत।इन्द्रजित्त्वस्रतत्त्ववित्तमवध्यमिति ज्ञात्वाऽस्त्रेण तिजग्राह कालमुष्टिभिर्हन्यमानश्च मारुतिः समीपं राक्षसेन्द्रस्य प्रापितः। रावणस्तु चिन्तयामास।किमेष भगवान् नन्दी, प्रहसिते मया येन पुरा शप्तोऽस्मि कैलासे उतबाणो वाऽसुरः। इति। अव्यग्रस्तु वानरश्रेष्ठोऽर्थवद्वाक्यमुवाच—‘हेराक्षसेश! सुग्रीव संदेशादत्रप्राप्तोऽहम्। वानरेशस्त्वां भ्राता कुशलमब्रवीत्।भवान् कृतद्वारो दृष्टधर्मार्थश्च परदारान्नोपरोद्धुमर्हति। त्रैलोक्ये को राघवस्यव्यलीकं कृत्वा सुखमाप्नुयात्। रामसुग्रीवसख्यमात्मनो हितं बुध्यस्व’ इति।

क्रुद्धो रावणस्तस्य वधमाज्ञापयामास। बिभीषणस्तु नानुमेने वधमस्य।विशेषतो दूतस्य। रावणः पुनरादिदेश—’ अस्य लांगूलं जीर्णैः कार्पासपटैःसंवेष्टय तैलेन परिषिच्य तदग्निना संयोजनीयमिति। राक्षसास्तथा चक्रुः।मारुतिस्तु सघोषं तेनाग्निना लंकां दाहयामास।

ततो मारुतिः पाशांश्छित्त्वोत्पपात वेगेन। परिघेण पुनः पुरद्वारस्य गृहरक्षिणः सूदयामास। सविद्युदिवमेघः प्रदीप्तलांगलो हनूमान् लंकाभवनेषुविचचार। विभीषणस्य गृहं वर्जयित्वा सर्वान्गृहान् ददाह कपिः। वानररूपेणैषोऽग्निरेवायाति इति क्रन्दन्त्यः स्त्रियो गृहेभ्यो बहिर्निष्पेतुः। यथा

रुद्रेण त्रिपुरं तथा तेन लंकापुरं प्रदग्धं एवं वनं भक्त्वा, लङ्कांदग्ध्वारक्षांसि हत्वा सर्वान्संपीड्य च वानरश्रेष्ठो हनूमान् लांगूलाग्निं समुद्रेनिर्वापयामास।

मारुतिस्तु तत ऊर्ध्वमरिष्टगिरिमारुरोह। मारुत इव मारुतात्मज उत्तरांदिशं समुद्रस्य प्रपेदे। तस्य वेगं निशम्य इतस्ततः सर्वे वानरा हनूमन्तंसमुत्पेतुः। हृष्टमानसास्तं परिवार्योपतस्थिरे च। हनूमांस्तु जाम्बवत्प्रमुखान्गुरून् अंगदं चावन्दत। संक्षेपेण सर्वं वृत्तान्तं तेभ्यो न्यवेदयत्। सर्वेततः प्रियाख्यानोन्मुखाः महेन्द्राग्रात् पुप्लुवुः। सर्वे ते वीरा रावणनिदलने निश्चितमतयो युद्धाभिनन्दिनश्च कृतकार्यत्वात् संतुष्टचेतसो भूत्वा,आगत्य प्रस्रवणगिरिं प्रणम्य रामं ससुग्रीवं, प्रवृत्तिं सीतायाः प्रोचुर्युवराजपुरस्कृताः। रामाय मणिं दत्वा हनूमान्प्राञ्जलिरब्रवीत् ‘राम! त्वयि सर्वंमनोरथं संन्यस्य सीता जीवति। अधःशायिनी, विवर्णाङ्गी पद्मिनीव हिमागमे मर्तव्यकृतनिश्चया सा। शनैर्मया विश्वासिता। सा तु सीता संदिदेशमासं जीवितं धारयिष्यामि। ऊर्ध्वं मासान्न जीवेयम्’ इति।

तं मणि हृदये कृत्वा रामो रुरोद। स च सुग्रीवमब्रवीत् ‘यथैव वत्सस्यस्नेहाद् वत्सलाधेनुस्तथैव ममापि हृदयं मणिश्रेष्ठस्यास्य दर्शनात् स्त्रवति।इदं मणिरत्नं मम श्वशुरेण वैदेह्या विवाहकाले मूर्धनि बद्धम्। हा सीते!अहं क्षणमपि जीवितुं न शक्नोमि सीतां विहाय। कथं तिष्ठसि सीतेघोराणां राक्षसीनां मध्ये’ इति।

हनूमन्तं च रामः प्रशशंस! चिन्तयामास च ‘किमस्य प्रियं कुर्यां प्रियाख्यातुः। एष परिष्वगस्तु महात्मनः सर्वस्वभूतो मे दत्तः ’ इति। ततस्तंहनूमन्तं रामः परिषस्वजे।

रामः किंचिद्ध्यात्वा सुग्रीवं पुनरुवाच सागरमासाद्य नष्टं पुनर्मे मनः।कथं नाम वानरा दुष्पारं पारं गमिष्यन्ति? ’ इति।

सुग्रीव उवाच— अलमिदानीं शोकेन, क्रोधमालम्ब, निश्चेष्टाः क्षत्रियामन्दाः, अतः सर्वसैन्यसमवेता अद्यैव अभिप्रयामः। सागरं प्राप्य तस्य लंघनायोपायं च करिष्यामः’ इति।

पाठ ११

भगवद्गीता – पाठः।

** संजयःउवाच–**तं तथा कृपया आविष्टं अश्रुभिः संपूरितनेत्रंशोकाभिभूतं अर्जुनं मधुसूदनः इदं वाक्यं उवाच।

** श्रीभगवान् उवाच—** हे अर्जुन ! अस्मिन् विषमे काले त्वां इदं मालिन्यंकुतः समुपस्थितम्? एतत् अनार्य—सेवितं न स्वर्ग्य-करं अकीर्ति-करं चअस्ति। हे पार्थ! क्लैब्यं मा स्म गमः। त्वयि एतत् न उपयुज्यते। एतत्क्षुद्रं हृदयस्य दार्बल्यं त्यक्त्वा युद्धाय उत्तिष्ठ।

** अर्जुनः उवाच—** हे श्रीकृष्ण! युद्धेपितामहं भीष्मं कथं प्रतियोत्यामि्? गुरु द्रोणाचार्यं च कथं प्रतियोत्स्यामि? एतौ हिपूजायै योग्यौ। महानुभावान् एतान् अ-हत्वाअस्मिन् लोके भैक्ष्यं मपि भोक्तुं श्रेयः।अर्थकामान् गुरुम् हत्वा तु रुधिरमयान् राज्यादीन् भोगान् भुञ्जीय। यत्वा जयेम, यदि वा न जयेयुः एतत् वयं न विद्मः। कतरत् गरीयः एतदपिन जानीमः। यान् हत्वा वयं जीवितुं न इच्छामः ते एव ऐते धृतराष्ट्रस्यः पुत्राअत्र युद्धाय उपस्थिताः।

हे मधुसूदन! मूढचेताः अहं त्वां पृच्छामि। यत् श्रेयः स्यात्, तत् निश्चितं मे ब्रूहि अहं तेशिष्यः। त्वां शरणं आगतं मां शिक्षय। भूमौ शत्रुरहितंसमृद्धं च राज्यं सुराणां अपि च आधिपत्यं लब्ध्वा अपि,मम शोकं यत् अपनुद्यात् तत् अहं इदानीं न पश्यामि।

**संजयः उवाच—**हृषीकेशं एवं उक्त्वा, अर्जुनः ‘न योत्स्ये’ इतिउक्त्वा तूष्णीं बभूव। हृषीकेशः प्रहसन् इव, उभयोः सेनयोर्मध्ये विषीदन्तंअर्जुनं इदं वचः उवाच॥

श्रीभगवान् उवाच— हे अर्जुन ! त्वं अ–शोच्यान् शोचितवान् असि, बहून् बुद्धिवादान् च भाषसे। पण्डिताः गतासून्अगतासून् च न अनुशो-

चन्ति। अस्मिन् देहे यथा कौमारं यौवनं जरा, तथा देहान्तरप्राप्ति भवति।ज्ञानी तत्र न मुह्यति। येन इदं सर्वं विस्तारितं तत् तत्वं अविनाशी अस्तिइति विद्धि। अस्य अव्ययस्य विनाशं कर्तुं कश्चित्न अर्हति।

नित्यस्त देहिनः इमे देहाः नश्वराः। एषः आत्मा अजः, नित्यः शाश्वतः,पुराणः अस्ति। हन्यमाने शरीरे अपि एष आत्मा न हन्यते। एनं आत्मानंअजंअव्ययं नित्यं अविनाशिनं जानीहि। यथा जीर्णानिवस्त्राणि त्यक्त्वा, नरः नवानिवस्त्राणि गृह्णाति तथा देहधारी आत्मा जीर्णानि शरीराणि विहाय नवीनानिशरीराणि स्वीकरोति। एनं आत्मानं शस्त्राणि न छिन्दन्ति। अग्निः एनं नदहति। जलं न एनं क्लेदयति। वायुः एनं न शोषयति। अयं आत्मा अच्छेद्यःअ-द्राह्यः, अक्लेद्यः, अशोच्यःच अस्ति। अयं आत्मा नित्यः सर्वगतः अचलःसनातनः च अस्ति। अयं अव्यक्तः अचिन्त्यः, अविकार्यः च उच्यते।एनं एवं विदित्वा त्वं अनुशोचितुं न अर्हसि। जातस्य हि मृत्युः ध्रुवम् !मृतस्य च जन्म ध्रुवम्।

स्वधर्मं अपि अवेक्ष्य त्वं एवं विकम्पितुं न मर्हसि। धर्म्यात् युद्धात् अन्यत्किंचित् अपि क्षत्रियस्य श्रेयः न विद्यते। ईदृशं युद्धं उद्घाटितं स्वर्गद्वारंअस्ति। सुखिनः क्षत्रियाः ईदृशं युद्धं लभन्ते। अथ चेत् त्वंएनंधर्म्यं संग्रामं न करिष्यसि, हे स्वधर्मं कीर्तिं च हित्वा पापं एव अवाप्स्यसि।सर्वे मानवाः तेअव्ययां अकीर्तिं कथयिष्यन्ति। संभावितस्य तव अकीर्तिःमरणात् अतिरिच्यते। महारथाः त्वांभयात् युद्धात् निवृत्तं मंस्यन्ते।इदानीं येषां त्वं बहुमतः तेषां एव त्वं लाघवं यास्यति। तव शत्रवः बहून्अवाच्यान् निन्दायुक्तान् प्रवादान् सर्वदा कथयिष्यन्ति। तव सामर्थ्यंनिंदयिष्यन्ति। ततः अधिकं दुःखदायकं किं भवेत्? यदि त्वं अस्मिन्युद्धे हतः तर्हि स्वर्णं प्राप्स्यति। जित्वावा राज्यं भोक्ष्यसे। हे कुन्तीपुत्रत्वं युद्धाय कृतनिश्चयः उतिष्ठ ! सुखदुःखे लाभालाभौजयाजयौ समेकृत्वा युद्धाय युज्यस्व। एवं पापं न अवाप्स्यसि।
·

इह अनुष्ठितस्य अस्य योगधर्मस्य नाशो नास्ति। अस्मिन् अनुष्ठाने विघ्नंअपि न भवति। अस्य योगधर्मस्य स्वल्पमपि अनुष्ठानं महतः भयात् त्रायते।अत्र एका एव व्यवसायात्मिका निश्चयात्मिका बुद्धिः आवश्यकीअस्ति।अव्यवसायिनां बुद्धयः अनन्ताः बहुशाखाः च वर्तन्ते।

हे अर्जुन! त्वं निर्द्वन्द्वः नित्यसत्वस्थः आत्मवान् च भव। ते अधिकारःकर्मणि एव अस्ति। ते अधिकारः फलेषु कदाचन नास्ति। कर्मफलस्य हेतुनात्वं कर्माणि मा कुरु। तव अकर्मणि संगः मा भवतु। योगेन कर्माणि कुरु। हेधनंजय! फलस्य संगं व्यक्त्वा कर्म कुरु। सिध्यसिद्ध्योः समः भूत्वा, यत्समत्वं भवति, तत् समत्वं एवं योगः इति उच्यते।

बुद्धियुक्तः सत्वं प्राप्तः उभे सुकृत-दुष्कृते जहाति। तस्मात् योगायसमत्वरूपाय युज्यस्व कर्मसु कौशलं एव योगः भवति।

हे पार्थ! यदा मनोगतान् सर्वान् कामान्त्यजति यदा च आत्मनि एवआत्मना तुष्टः भवति, तदा सः स्थितप्रज्ञः इति उच्यते। दुःखेषु प्राप्तेषु निर्विकारचित्ताः सुखेषु विगतेच्छः, त्यक्त-राग-भय-क्रोधः यः सः स्थितधीःउच्यते। यः सर्वत्र अनभि-स्नेहः तत् तत् शुभाशुभं फलं प्राप्य, शुभं नअभिनन्दति, अशुभं च न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता भवति। स च स्थितप्रज्ञः इति उच्यते।

यथा अयं कूर्मः सर्वशः स्वानि अंगानि संहरते, तथा यः इंद्रियाणांअर्थेभ्यः स्वकीयानि इन्द्रियाणि संहरते, तदा सः स्थितप्रज्ञ इति उच्यते।ज्ञानिनः पुरुषस्य अपि प्रमाथीनि इंद्रियाणि मनः बलात् हरन्ति। तानि मनसा संयम्य ईश्वरनिष्ठः अतएव योगयुक्तः आसीत्। यस्य इन्द्रियाणि वशेतिष्ठन्ति सः स्थितप्रज्ञः इति कथ्यते।

विषयात् ध्यायतः मनुष्यस्य तेषु विषयेषु संग अभिजायते। विषयसंगात्कामः संजायते, कामात् क्रोधःभवति। क्रोधात् मोहः भवति। मोहात्स्मृतिविभ्रमःभवति। स्मृतिभ्रंशात् बुद्धिनाशः। बुद्धिनाशात् मनुष्यःनश्यति।

द्वेष प्रेमरहितैः इन्द्रियैः सर्वान् विषयान् उपभुञ्जन् पुरुषः एवं विधैःवश्यैः इन्द्रियैः वश्यात्मा भूत्वा मनःप्रसादं प्राप्नोति। एवं मनः प्रसादेप्राप्ते अस्य सर्वेषां दुःखानां हानिः उपजायते। प्रसन्नचेतसः पुरुषस्य अस्यबुद्धिः आशु स्थिरा भवति।

अयुक्तस्य योगहीनस्य स्थिरा बुद्धि न भवति। तस्य शान्तिः कुतःभवेत्, अशान्तस्य च सुखं कुतः भवेत् ?

विषयेषु चरतां इन्द्रियाणां मनः अपि तान् अनुगच्छति। तत् मनः अस्यप्रज्ञां हरति यथा समुद्रे वायुः नौकां नयति तद्वत्।

हे अर्जुन! तस्मात् यस्य सर्वेभ्यः विषयेभ्यः इन्द्रियाणि निःशेषेण गृहीतानिस स्थितप्रज्ञः भवति। या सर्वेषां भूतानां रात्रिः, तस्यां रात्रौसंयमी पुरुषःजागर्ति। यस्यां सर्वाणि भूतानि जाग्रति ला पश्यतः मुनेः रात्रिः एव भवति।

नदीनदैः नानाजलप्रवाहैः आपूर्यमाणं अचलवत् स्थितं समुद्रं यथा जलवाहाः सदा प्रविशन्ति, तद्वत् यं आत्मवशं पुरुषं सर्वे कामाः स्वयं प्रविशन्तिस एव शान्तिं आप्नोति। विषयानां भोक्ता कामकामी न कदाचन शान्तिआप्नोति॥

यः पुरुषः सर्वान् विषयकामान् त्यक्त्वा निस्पृहः भूत्वा जगति संचरति,सः निर्ममः निरहंकारः एव शान्तिं प्राप्नोति।

एषाब्राह्मी स्थितिः अस्ति। हे पार्थ ! एनां ब्राह्मीं अवस्थां प्राप्यकदाचित् कश्चित् अपि पुरुषः मोहेन न मुह्यते। अस्यां ब्राह्म्यां अवस्थायांअन्तकाले अपि स्थित्वा, मरणसमये अपि अस्यां अवस्थायां प्रविश्य महत्श्रेयः प्राप्नोति। अत्यन्तं आनन्दं अश्नुते। परमं स्थानं गच्छति।

~~ ~~

]


  1. ../books_images/U-IMG-1734596896Screenshot2024-12-19135857.png ↩︎

  2. ../books_images/U-IMG-1734626354Screenshot2024-12-19220953.png ↩︎