संस्कृतविहारः

[[संस्कृतविहारः Source: EB]]

[

[TABLE]

First Edition
May 1939

( All rights reserved by the Publisher)

Printed by R. D. Desai at New Bharat Printing Press, 6, Kelewadi. Bombay.
Published by G. D. Khanolkar at Swastik Publishing House, 6, Kelewadi, Bombay 4.

FOREWORD

Messrs Gokhale and Marathe deserve to be congratulatedon their present adventure which seeks to make the teaching ofSanskrit in our Secondary Schools really interesting. Thoseacquainted with the result of the current methods will doubtlessagree that they have failed to achieve this aim. I have therefore,no hesitation in recommending that the plan of work indicatedby Messrs Gokhale and Marathe after a fairly long trial with itbe adopted by Schools and teachers concerned in the reformof Sanskrit-teaching. The plan steers clear of a good many ofthe difficulties and complexities of Sanskrit-teaching and showsa straight-forward way of dealing with it.

It would be advisable for Schools which have more thanone class in each High School Standard to try the plan indicated in this book in one class and the current plan in the other orothers and note the progress of the pupils as well as theirattitude towards the subject in each and determine for themselves the value and usefulness of each plan.

[TABLE]

PREFACE.

This part carries on the work of the First Part along thelines indicated in the preface of that Part. The Panchatantra, the Kadambari, The Ramayana, the Mahabharata, the Raghuvansha,and the classical dramas provide the literary material. Thegrammar portion covered is the declension of consonantal nouns(excepting the irregular ones) and the conjugations of roots ofthe second, third, fifth, seventh, eighth and ninth conjugations inthe conjugational tenses and moods. A few easy compoundsviz. the Dwanda. the Tatpurusha and a few varieties of theKarmadharaya and the Bahuvrihi have been introduced. Thefew Sandhis that did not find place in the First Part have nowbeen explained.

Thus by the end of the Second Year’s Course the studentwill have overcome one of the obstacles in the study of Sanskritliterature viz. Sandhis. He will also have made considerableheadway in the interpretation of compounds—another stumbling block in his path. Incidentally he will have read a numberof literary pieces and become acquainted with not a few of thebest known Sanskrit authors. He will, therefore, be able toface any unseen piece with some confidence, though the nonconjugational tenses and moods remain as yet closed groundto him.

Variety and interest have been the guiding principles in theselection of literary pieces. Most of them have been adaptedso as to suit the scheme of this series but without violence tothe style or the spirit of the original. In style and vocabulary adistinct though gradual rise above the level of the First Part hasbeen aimed at.

An index of words used had been appended to the FirstPart. It was, however, suggested by some Sanskrit Teachers

that such an appendix was not very necessary and that the SecondPart should rather have a list of useful verbal derivatives.That suggestion has been acted upon and we are very thankfulto the kind friends who made this suggestion.

It will be seen that as in the First Part. Dr. Bhandarkar’sscheme of grammar teaching has been closely followed; thegrammar portion in this Part roughly corresponds to that in thelast eight lessons of Dr. Bhandarkar’s First Book and the firsttwelve lessons of his Second book. We have, however, thoughtit advisable to introduce a few easy compounds at this stage,because the knowledge of compounds is a necessary preliminaryto the pleasurable reading of Sanskrit literature. Hence thosewho insist on the formal teaching of grammar can profitablyuse this book as a literary reader in conjunction with Dr.Bhandarkar’s books.

We can hardly find words to express our deep gratitude toour Guru,Principal K. S. Vakil, who has not only blessed thisseries with his Foreword, but also given us all possible encouragement in bringing it out. Mr. K. B. Bapat Shastri of Chiplun andGurubandhu K. J. Dixit of Sangli have also obliged us bymaking invaluable suggestions.

V. D. G.
R. M. M.

V. D. G.
R. M. M.

अनुक्रमणिका

१ ध्रुवकथा
२ ऋकारान्ताः शब्दाः
३ तारापीडस्य सन्देशः
४ सदुपदेशः
५ विध्यर्थः
६ मूढो बधिरः
७ चकारान्ता जकारान्ताश्च शब्दाः
८ भुजङ्गमदष्टो विदूषकः
९ प्रशस्तो विवाहः
१० नवमो गणः
११ सीतानुनयः
१२ शठं प्रति शाठ्यम्
१३ लक्ष्मीवर्णनम्
१४ क्रोधान्धः कूर्मः
१५ तकारान्ता दकारान्ता धकारान्ताश्च शब्दाः
१६ रामस्तुतिः
१७ कर्णस्यास्त्राधिगमवृत्तान्तः
१८ वत्वन्ताः शब्दाः
१९ विलासवत्याः सन्देशः
२० धनलुब्धस्य मठाधिपतेः
२१’अदस्’ ‘इदम्’ च
२२ अशोकवनिकायां सीता
२३ धूर्तः शृगालः
२४ पञ्चमाष्टमगणौ
२५ सौहृदविनाशकं दारिद्र्यम्
२६ बुभुक्षितः किन्न करोति पापम्
२७ इन्नन्ताः शब्दाः
२८ दमयन्तीविलापः
२९ परस्परमर्माणि गोपनीयानि
३० अन्नन्ताः शब्दाः
३१ नृपो वैशम्पायनवृत्तान्तं पृच्छति
३२ सीताविनोदनम्
३३ गानप्रियो गर्दभः
३४ द्वितीयो गणः
३५ देवस्याभिभवः
३६ सान्ताः शब्दा द्वितीयो गणश्च
३७ रावणाधिक्षेपः
३८ शून्यहृदया शकुन्तला
३९ भगवाञ् जाबालिः
४० कृष्णस्तुतिः
४१ शशकरक्षकः शशाङ्कः
४२ सप्तमो गणः
४३ वैशम्पायन आत्मानं निर्भर्त्सयते
४४ अतिलोभो न कर्तव्यः
४५ तृतीयो गणः
४६ जयद्रथवधप्रतिज्ञा
४७ सफलः प्राणत्यागः
४८ वर्तमानकालवाचकानि
४९ विष्णुस्तुतिः
५० भृत्यगुणाः
५१ कूटानि

द्वितीयो भागः

प्रथमः पाठः

ध्रुवकथा

<MISSING_FIG href="../books_images/U-IMG-173382239413.png"/>

एकदा ध्रुवः पितुरुत्तानपादस्य सभां गतः। तत्र च भ्रातरमुत्तमंपितुरङ्क उपविष्टमैक्षत। अथ यावत्स समीपं गत्वा पितुरङ्कमारोहतितावदुत्तमस्य माता सुरुचिः सहसैवागत्य तं भर्तुरङ्कादपाकर्षत्परुषंचाभाषत। तेन खिन्नो ध्रुवो मात्रे सुनीत्यै सर्वं वृतान्तं न्यवेदयदवदच्च —मातः, पित्राप्येवमुपेक्षितोऽहं नातः परमत्र स्थातुमिच्छामि।वनमाश्रित्य जगद्भर्तारं नारायणं च सन्तोष्य परमानन्दस्थानं च लब्धुंयत इत्युक्त्वा स प्रस्थित एव। विरमैतस्मात्साहसादिति वारंवारं

मात्रा निवारितोऽपि ध्रुवो न पितरि मातरि भ्रातरि वा मम स्नेहइत्युक्त्वा विपिनमभजत।

तस्य तिग्मया तपश्चर्यया सन्तुष्टो विश्वस्य रक्षिता विष्णुस्तस्यपुर आविरभवद्वरं वृणीष्वेति चावदत्। विमात्रा पितुरङ्कादहमपकृष्टः। अतस्तादृशं स्थानं मह्यंयच्छ यस्मान्न कोऽपि मामपक्रष्टुंसमर्थ इति प्रार्थनापरोध्रुवो नारायणस्य चरणयोरपतत्। तथास्त्वित्युक्त्वा वराणां दात्रा विष्णुना तस्मै ध्रुवं स्थानं दत्तम्।

सन्धिविवरणम्

यस्मात्+न = यस्माद् न, यस्मान्न वा

स्वाध्यायः

** वियुज्य पदानि लिखत —**

** **न्यवेदयदवदच्च,पितुरङ्कादहमपकृष्टः, विरमैतस्मात्साहसादिति, सहसैवागत्य,यत इत्युक्त्वा.

वाक्यानि रचयत —

** **विरम (शोक) इति (कपिञ्जलः) अवदन्मुनिः।
(राम) सीतायाः परमः स्नेहः।
द्रोणेन (पाण्डव) शस्त्रविद्या (दत्त)
कृष्णः (द्रौपदी) पुरः (आविस्+भू )


द्वितीयः पाठः

ऋकारान्तः पुंलिङ्गः ‘पितृ’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा पिता पितरौ पितरः
द्वितीया पितरम् पितरौ पितॄन्
विभक्तिः ए. व. द्विव. ब. व.
तृतीया पित्रा पितृभ्याम् पितृभिः
चतुर्थी पित्रे पितृभ्याम् पितृभ्यः
पञ्चमी पितुः पितृभ्याम् पितृभ्यः
षष्ठी पितुः पित्रोः पितॄणाम्
सप्तमी पितरि पित्रोः पितृषु
सम्बोधनम् पितर् पितरौ पितरः

एवं भ्रातृ, जामातृ, देवृ, नृ, सव्येष्टृ चैते शब्दाः।
नृ शब्दस्य षष्ठीबहुवचनरूपे नृणाम्, नॄणाम्।

ऋकारान्तः पुंलिङ्गः ‘दातृ’ शब्दः

प्रथमा दाता दातारौ दातारः
द्वितीया दातारम् दातारौ दातॄन्
सम्बोधनम् दातर् दातारौ दातारः

शेषं पितृवत्।

एवंरक्षितृ धातृ इत्यादयः।

ऋकारान्तः स्त्रीलिङ्गः ‘मातृ’ शब्दः

द्वितीया मातरम् मातरौ मातॄः

शेषं पितृवत्।

एवं यातृ, दुहितृ, ननान्दृ, इत्यादयः।

ऋकारान्तः स्त्रीलिङ्गः ‘स्वसृ’ शब्दः

प्रथमा स्वसा स्वसारौ स्वसारः
द्वितीया स्वसारम् स्वसारौ स्वसॄः
सम्बोधनम् स्वसर् स्वसारौ स्वसारः

शेषं मातृवत्।

तृतीयः पाठः

तारापीडस्य सन्देशः

बलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यज्ञापयत्। कुमार,महाराजः समाज्ञापयति। पूर्णा नो मनोरथाः। अधीतानि शास्त्राणि।शिक्षिताः सकलाः कलाः। गतोऽसि सर्वायुधविद्यासु परां प्रतिष्ठाम्। अनुमतोऽसि निर्गमाय विद्यागृहात्सर्वाचार्यैः। उपगृहीतशिक्षं पश्यतु त्वांजनः। व्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानिलोकलोचनानि। तन्निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनं मातृभ्योऽभिवाद्य च गुरूनपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि।सम्मानय राजलोकम्। पूजय द्विजातीन्। परिपालय प्रजाः। आनन्दय बन्धुवर्गम्। एष च ते, त्रिभुवनैकरत्नं महाजव इन्द्रायुधो नामतुरङ्गमः प्रेषितो महाराजेन द्वारे तिष्ठति। तदयमनुगृह्यतामधिरोहणेन। इदं च राजकुलप्रसूतानां विनयोपपन्नानां शूराणामभिरूपाणांकुलक्रमागतानां राजपुत्राणां सहस्रं परिचारार्थमनुप्रेषितं तुरङ्गमाधिरूढं द्वारे प्रणामलालसं प्रतिपालयति। इत्यभिधाय बलाहकोव्यरमत्।

कादम्बर्याम्

समासविवरणम्

दर्शितविनयः = दर्शितः विनयः येन सः। तृतीयाबहुव्रीहिः
उपगृहीतशिक्षः = उपगृहीता शिक्षा येन सः। „
अपगतनियन्त्रणः= अपगतं नियन्त्रणं यस्मात् सः। पञ्चमीबहुव्रीहिः

स्वाध्यायः

वियुज्य पदानि लिखत —

तन्निर्गत्य, गतोऽसि, महाजव इन्द्रायुधो नाम.

वाक्यानि रचयत —

(पितृ) तारापीडेन चन्द्रापीडाय सन्देशः(प्रेषित)

चन्द्रापीडस्य दर्शनेन ( मातृ ) आनन्दिताः।
ध्रुवो नानुमतः ( वनगमन ) ( मातृ )
रामो भुवनेषु ( वीररत्न ) अस्ति।
बालानां (सहस्र ) व्यायामाशिक्षकस्याज्ञां ( प्रतिपालय् )


चतुर्थः पाठः

सदुपदेशः

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानंच ज्ञाता नैव प्रकाशयेत्॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियभाषणम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥

बृहस्पतेरपि प्राज्ञोविश्वासं न व्रजेन्नरः।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च॥

प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः।
किन्तु मेपशुभिस्तुल्यं किन्नु सत्पुरुषैरिति॥

वृत्त्यर्थं नातिचेष्टेतसा हि धात्रैव निर्मिता।
गर्भादुत्पतिते जन्तौ, मातुः प्रस्रवतः स्तनौ॥

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम्।
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्॥

सुभाषितरत्नभाण्डागारे

सन्धिविवरणम्

किम् + नु =किं नु, किन्नु वा

स्वाध्यायः

** वियुज्य पदानि लिखत**—

व्रजेन्नरः, पिबेज्जलम् , धात्रैव.

विग्रहं कुरुत—

अर्थनाशम्, प्रियभाषणम्.

वाक्यानि रचयत—

ज्ञाता दीनमपि परुषं न (भाष)[ विध्यर्थः ]
पुत्रः (मातृ ) आदरं ( दर्शय् )[ विध्यर्थः ]
(धातृ) योजनामुल्लङ्घयितुं कःसमर्थः।[विध्यर्थः ]
(जगद्भर्तृ) नारायणाय नमः।


पञ्चमः पाठः

विध्यर्थः परस्मैपदम्

अहम् वदेयम् कुप्येयम् क्षिपेयम् चिन्तयेयम्
आवाम् वदेव कुप्येव क्षिपेव चिन्तयेव
वयम् वदेम कुप्येम क्षिपेम चिन्तयेम
त्वम् वदेः कुप्येः क्षिपेः चिन्तयेः
युवाम् वदेतम् कुप्येतम् क्षिपेतम् चिन्तयेतम्
यूयम् वदेत कुप्येत क्षिपेत चिन्तयेत
सः वदेत् कुप्येत् क्षिपेत् चिन्तयेत्
तौ वदेताम् कुप्येताम् क्षिपेताम् चिन्तयेताम्
ते वदेयुः कुप्येयुः क्षिपेयुः चिन्तयेयुः

विध्यर्थः आत्मनेपदम्

अहम् लभेय विद्येय क्षिपेय चिन्तयेय
आवाम् लभेवहि विद्येवहि क्षिपेवहि चिन्तयेवहि
वयम् लभेमहि विद्येमहि क्षिपेमहि चिन्तयेमहि
त्वम् लभेथाः विद्येथाः क्षिपेथाः चिन्तयेथाः
युवाम् लभेयाथाम् विद्येयाथाम् क्षिपेयाथाम् चिन्तयेयाथाम्
यूयम् लभेध्वम् विद्येध्वम् क्षिपेध्वम् चिन्तयेध्वम्
सः लभेत विद्येत क्षिपेत चिन्तयेत
तौ लभेयाताम् विद्येयाताम् क्षिपेयाताम् चिन्तयेयाताम्
ते लभेरन् विद्येरन् क्षिपेरन् चिन्तयेरन्

षष्ठः पाठः

मूढो बधिरः

कोऽपि बधिर उपकर्तारमृत्विजं रुजा पीडितं श्रुत्वा तं द्रष्टुं गृहात्प्रस्थितः। मार्गे चैवमचिन्तयत् — ऋत्विजः सकाशं गत्वापि सह्यो रुजआवेग इति तं पृच्छेयम्। किंचिदिव सह्यइति स प्रतिवदेत्। ततःकिमौषधं सेवस इति मम वाचं श्रुत्वैतदौषधं सेव इति स प्रतिभाषेत। अनन्तरं कस्ते भिषगिति मया पृष्ट एष मम भिषगिति सप्रतिवदेत्। अथ तां तामनुरूपां वाचमाभाष्य मित्रमापृच्छ्य गृहमागमिष्यामीति।

एवं चिन्तयित्वर्त्विजं प्राप्य सादरमपृच्छत् — मित्र, अपि सह्यो रुजआवेगः। तथैव वर्तत इति स समगृणात्। बधिरोऽवदत् — विधातुःप्रसादेन तथैव वर्तताम्। कीदृशमौषधं सेवसे। ज्वरार्तः प्रत्यभाषतममौषधं मृत्तिकैव। बधिरः पुनः समगृणात् — तदेव भद्रतरम्।कस्तेभिषक्। ज्वरार्तः सकोपमब्रवीत् — मम भिषग्यम एव। बधिरः प्रत्यवदत् — स एव समर्थः। तं भिषजं मा परित्यज।

एवं प्रतिकूलया वाचा कुपितः स ऋत्विक्परिजनमादिशत् —भोःकिमेष एवं क्षते क्षारं प्रक्षिपति। निष्कास्यतामर्धचन्द्रदानेनेति।अथ स मूढः परिजनेन गलहस्तिकया बहिर्निस्सारितः।

सन्धिविवरणम्

चिन्तयित्वा + ऋत्विजम् = चिन्तयित्व ऋत्विजम्,चिन्तयित्वर्त्विजम् वा
मम + औषधम् = ममौषधम्

समासविवरणम्

ज्वरार्तः = ज्वरेण आर्तः। तृतीयातत्पुरुषः

स्वाध्यायः

वियुज्य पदानि लिखत —

सेव इति, रुज आवेगः, मृत्तिकैव.

वाक्यानि रचयत

परिजनः ( भर्तृ ) आज्ञां ( अनुसृ )
ध्रुवः ( विमातृ ) ( प्रतिकूल ) वाचा भृशं दुःखितः।
( मातृ ) आपृच्छ्य रामः वनवासाय ( अयोध्या ) प्रस्थितः।
( उन्मत्त ) नरः ( नाट्यगृह ) गलहस्तिकया बहिः( निस्सारित )

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत —

उपकर्तारम्, पृच्छेयम्, विधातुः, निष्कास्यताम्, आगमिष्यामि, प्रतिभाषेत.


सप्तमः पाठः

चकारान्तः स्त्रीलिङ्गः ‘वाच्’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा वाक्-ग् वाचौ वाचः
विभक्तिः ए. व. द्विव. ब. व.
द्वितीया वाचम् वाचौ वाचः
तृतीया वाचा वाग्भ्याम् वाग्भिः
चतुर्थी वाचे वाग्भ्याम् वाग्भ्यः
पञ्चमी वाचः वाग्भ्याम् वाग्भ्यः
षष्ठी वाचः वाचोः वाचाम्
सप्तमी वाचि वाचोः वाक्षु
सम्बोधनम् वाक्-ग् वाचौ वाचः

जकारान्तः पुंलिङ्गः ‘ऋत्विज्’ शब्दः

प्रथमा ऋत्विक्-ग् ऋत्विजौ ऋत्विजः
द्वितीया ऋत्विजम् ऋत्विजौ ऋत्विजः
तृतीया ऋत्विजा ऋत्विग्भ्याम् ऋत्विग्भिः
चतुर्थी ऋत्विजे ऋत्विग्भ्याम् ऋत्विग्भ्यः
पश्चमी ऋत्विजः ऋत्विग्भ्याम् ऋत्विग्भ्यः
षष्ठी ऋत्विजः ऋत्विजोः ऋत्विजाम्
सप्तमी ऋत्विजि ऋत्विजोः ऋत्विक्षु
सम्बोधनम् ऋत्विक्-ग् ऋत्विजौ ऋत्विजः

एवं भिषज्।
एवं चापि रुज्, स्रज् इत्यादयः स्त्रीलिङ्गाः शब्दाः।


अष्टमः पाठः

भुजङ्गमदष्टो विदूषकः

<MISSING_FIG href="../books_images/U-IMG-173388430414.png"/>

** विदूषकः** — परित्रायतां परित्रायतां भगवान्। सर्पेणास्मिदष्टः।

नृपः —कष्टं कष्टम्। क्व भवान्परिभ्रान्तः।

विदूषकः—देवीं द्रक्ष्यामीत्याचारपुष्पाणि ग्रहीतुं प्रमदवनंगतोऽस्मि।

देवी —हा धिक्। हा धिक्। अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि।

विदूषकः —तस्मिन्नशोकस्तबकं ग्रहीतुं प्रसारिते दक्षिणहस्तेकोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि। नन्वेतेद्वे दन्तपदे। ( इति दंशं दर्शयति )

परिव्राजिका— तेन हि दंशच्छेदस्तावत्क्रियताम्।

नृपः —सम्प्रति विषभिषजा प्रयोजनम्। जयसेने, ध्रुवसिद्धिःक्षिप्रमानीयताम्। (निष्क्रान्ता जयसेना)

विदूषकः —अहो पापेन मृत्युना गृहीतोऽस्मि

नृपः

मा कातरो भव।अविषोऽपि कदाचिद्दंशो भवेत्।

विदूषकः

कथं न भेष्यामि। सिमसिमायन्ति मेऽङ्गानि।

देवी

दर्शितमशुभं रुजा। अवलम्बध्वं ब्राह्मणम्। ( परिजनःससम्भ्रममवलम्बते)

विदूषकः

भो भवतो बाल्यादपि प्रियवयस्योऽहम्। तद्विचार्यापुत्राया मे मातुर्योगक्षेमं वह।

नृपः

मा कातरो भव। अचिरात्त्वांभिषक् चिकित्सते।स्थिरो भव।

जयसेना

(प्रविश्य) देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति। इहैवानीयतां गौतम इति।

नृपः

तेन हि परिजनपरिगृहीतमेनं तत्रभवतः सकाशं नय।

जयसेना

तथा।

विदूषकः

भवति, जीवेयं वा न वा। यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व।

देवी

चिरं जीव। (निष्क्रान्तौविदूषकः प्रतिहारी च)

मालविकाग्निमित्रे

सन्धिविवरणम्

तस्मिन् + अशोकस्तबकम् = तस्मिन्नशोकस्तबकम्
भोस् + भवतः = भो भवतः

समासविवरणम्

कोटरनिर्गतः = कोटरात् निर्गतः। पञ्चमीतत्पुरुषः

स्वाध्यायः

विग्रहं कुरुत—

भुजङ्गमदष्टः, दंशच्छेदः, तन्मृष्यस्व.

वाक्यानि रचयत—

(नृ ) रिक्तहस्तेन ( भूभुज् ) न पश्येत्।

( विधातृ ) सर्वेषामपि जन्तूनाम् ( योगक्षेम ) वहति।
प्रतिकूलया ( वाच् ) बधिरः ( मित्र ), अपराद्धः।

समासान् योजयत—

नृपेण आदिष्टा जयसेना वैद्यम् आह्वातुं गता।
दर्शितः विषादः यया सा देवी आक्रन्दत्।
तपश्चरणेन सन्तुष्टः विष्णुर्ध्रुवस्य पुर आविरभवत्।


नवमः पाठः

प्रशस्तो विवाहः

अस्ति निषधेषु वीरसेनसुतो नलो नाम शूर उदारश्च महीपतिः।स कदाचिद्विहारार्थमन्तःपुरसमीपस्थं वनमयात्। तत्र जातरूपपरिष्कृतान् इंसान्वीक्ष्य स कौतुकादेकमगृह्णात्। ततो हंसोनृपतिं मानुषया वाचावदत् —

भो महाराज, न हन्तव्योऽहम्। तवोपकारं कुर्याम्। विदर्भाधिपतेर्भीमस्य सुरैरपि स्पृहणीया विनयान्विता च दमयन्ती नाम कन्यास्ति। तस्यास्त्वं सदृशो भर्ता, सा चतव सदृशी भार्या। युवयोस्तुल्यसंयोगे कामदूतो भवामीति। ततोनलस्तं गमनायान्वजानात्। विदर्भदेशं सम्प्राप्य स दमयन्तीमभाषत—

दमयन्ति, नलो नाम निषधेष्वस्ति भूपतिः।
तस्य त्वं यदि भार्या स्याः सफलं जननं भवेत्॥

त्वं चासि रत्नं नारीणां नराणां च नलस्तथा।
विशिष्टाया विशिष्टेन प्रशस्तः सङ्गमो भवेत्॥

तच्छ्रुत्वा सा प्रावदत्—

तस्य भूभुजोऽनन्यसुलभा गुणा मया पूर्वंश्रुता एव। नलादन्यं न वृणे। तेन मां योजय। एवं ते महत्पुण्यंभविष्यतीति। ततो हंसोऽपि निषधान्प्राप्य नलाय यथावृत्तमाख्यात्।

अत्रान्तरे भीमो नृपो दमयन्त्याः स्वयंवरार्थंमहीपालानाह्वयत्। तदैषा मां वृणीत मां वृणीतेति मन्यमाना मदनपीडिताः सर्वे

भूभुजः कुण्डिनपुरमायान्रङ्गं च प्राविशन्। ततो रङ्गं प्रविष्टा शुभानना दमयन्ती नृपाणां नयनानि चित्तानि च स्वप्रभयामुष्णात्। तत्र सा नलतुल्याकृतीन्पञ्च पुरुषानपश्यत्। सन्देहाच्च नलं नृपं नाभ्यजानात्। समचिन्तयश्च —

देवान्कथं जानीयां कथं च नलं नृपं विद्यामिति। एवं विचिन्त्य पुनः पुनश्च विचार्य देवान्प्रार्थयत —

हंसानां वचनं श्रुत्वाहं नैषधमवृणि। यथा मयैतद् व्रतं नलस्याराधनार्थं प्रारब्धं ततो देवा मे तमेव प्रदिशन्तु। स्वानि रूपाणि चाविष्कुर्वन्तु येनाहं नलं नृपमभिजानीयाम्। तस्या नले भक्तिमनुरागं च वीक्ष्य देवा यथोक्तमकुर्वन्। भैमी च नैषधं धर्मेणावृणीत। अनन्तरं नलो दमयन्ती च देवान्स्तुतिभिरप्रीणीताम्। देवाश्च तौ वरैरन्वगृह्णन्।

नलोपाख्याने

सन्धिविवरणम्

हंसान् + च = हंसांश्च

समासविवरणम्

शुभानना = शुभम् आननं यस्याः सा। षष्ठीबहुव्रीहिः

स्वाध्यायः

वियुज्य पदानि लिखत—

तवोपकारम्, निषधेष्वस्ति, सन्देहाच्च.

विग्रहं कुरुत—

मानुषभाषया, विनयान्विता, जातरूपपरिष्कृतान्, विदर्भाधिपतेः

वाक्यानि रचयत

दमयन्ती नलस्य, स्कन्धे ( स्रज् ) व्यसृजत्।
विष्णुर्ध्रुवं ( ध्रुवपद ) अन्वगृह्णात्।
भीमेन नलमाह्वातुं दूतः (निषधेषु) (प्रेषितः)

दशमः पाठः

नवमो गणः

प्री

परस्मैपदम्

वर्तमानकालः प्रीणामि प्रीणीवः प्रीणीमः
प्रीणासि प्रीणीथः प्रीणीथ
प्रीणाति प्रीणीतः प्रीणन्ति
भूतकालः अप्रीणाम् अप्रीणीव अप्रीणीम
अप्रीणाः अप्रीणीतम् अप्रीणीत
अप्रीणात् अप्रीणीताम् अप्रीणन्
आज्ञार्थः प्रीणानि प्रीणाव प्रीणाम
प्रीणीहि प्रीणीतम् प्रीणीत
प्रीणातु प्रीणीताम् प्रीणन्तु
विध्यर्थः प्रीणीयाम् प्रीणीयाव प्रीणीयाम
प्रीणीयाः प्रीणीयातम् प्रीणीयात
प्रीणीयात् प्रीणीयाताम् प्रीणीयुः

आत्मनेपदम्

वर्तमानकालः प्रीणे प्रीणीवहे प्रीणीमहे
प्रीणीषे प्रीणाथे प्रीणीध्वे
प्रीणीते प्रीणाते प्रीणते
भूतकालः अप्रीणि अप्रीणीवहि अप्रीणीमहि
अप्रीणीथाः अप्रीणाथाम् अप्रीणीध्वम्
अप्रीणीत अप्रीणाताम् अप्रीणत
आज्ञार्थः प्रीणै प्रीणावहै प्रीणामहै
प्रीणीष्व प्रीणाथाम् प्रीणीध्वम्
प्रीणीताम् प्रीणाताम् प्रीणताम्
विध्यर्थः प्रीणीय प्रीणीवहि प्रीणीमहि
प्रीणीथाः प्रीणीयाथाम् प्रीणीध्वम्
प्रीणीत प्रीणीयाताम् प्रीणीरन्

मूष्

परस्मैपदम्

वर्तमानकालः मुष्णामि मुष्णीवः मुष्णीमः
मुष्णासि मुष्णीथः मुष्णीथ
मुष्णाति मुष्णीतः मुष्णन्ति
भूतकालः अमुष्णाम् अमुष्णीव अमुष्णीम
अमुष्णाः अमुष्णीतम् अमुष्णीत
अमुष्णात् अमुष्णीताम् अमुष्णन्
आज्ञार्थः मुष्णानि मुष्णाव मुष्णाम
मुषाण मुष्णीतम् मुष्णीत
मुष्णातु मुष्णीताम् मुष्णन्तु
विध्यर्थः मुष्णीयाम् मुष्णीयाव मुष्णीयाम
मुष्णीयाः मुष्णीयातम् मुष्णीयात
मुष्णीयात् मुष्णीयाताम् मुष्णीयुः

तृतीयपुरुषस्यैकवचनम्

धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः
ज्ञा जानाति अजानात् जानातु जानीयात्
जानीते अजानीत जानीताम् जानीत
धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः
वृ वृणीते अवृणीत वृणीताम् वृणीत
गृृ गृणाति अगृणात् गृणातु गृणीयात्
ग्रह् गृह्णाति अगृह्णात् गृह्णातु गृह्णीयात्
गृह्णीते अगृह्णीत गृह्णीताम् गृह्णीत

एकादशः पाठः

सीतानुनयः

प्रविश्योपवनं पापो रावणो राक्षसाधिपः।
अपश्यद्राक्षसीमध्ये सीतां दुःखपरायणाम्॥

मृगयूथपरिभ्रष्टां मृगीमिव शुनीवृताम्।
अधोगतमुखीं सीतामवदच्च निशाचरः॥

यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्।
जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥

परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना।
नैषा धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः॥

राज्यभ्रष्टेनदीनेन तापसेन पदातिना।
किं करिष्यसि रामेण मानुषेणाल्पशक्तिना॥

दर्शने मा कृथा बुद्धिं राघवस्य वरानने।
काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः॥

त्रयाणामपि लोकानां न तं पश्यामि शोभने।
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्॥

रामायणे

समासविवरणम्

सुरासुराः=सुराः च असुराः च। द्वन्द्वः
मृगयूथपरिभ्रष्टा = मृगाणां यूथम् मृगयूथम्। ( ष. त. )
मृगयूथात् परिभ्रष्टा मृगयूथपरिभ्रष्टा।
पञ्चमीतत्पुरुषः

स्वाध्यायः

विग्रहं कुरुत—

राज्यभ्रष्टेन, शुनीवृताम्, वरानने, अल्पशक्तिना.

वाक्यानि रचयत —

दमयन्ती (नल) (प्राणः) अपि गरीयसी।

अन्धः (दर्पण) किम् करिष्यति।

सुरुचिः ध्रुवस्य वनगमने (निमित्तं) (जाता)

मम (हनन) बुद्धिं मा कृथा इति हंसो नलम् (गॄ)


द्वादशः पाठः

शठंप्रति शाठ्यम्

अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स चविभवक्षयाद्देशान्तरं गन्तुमैच्छद् व्यचिन्तयच्च —

यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः।
तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः॥

तस्य गृहे लोहभारघटिता पूर्वपुरुषैरुपार्जिता तुलासीत्। तां चकस्यचिद्वणिजो गृहे निक्षिप्य स देशान्तरं प्रस्थितः। सुचिरं कालंदेशान्तरं भ्रान्त्वा पुनः स्वपुरमागत्य तं वणिजं समगृणात् — भोवणिग्, दीयतां सा मे निक्षेपतुला। स प्रत्यभाषत —भो नास्ति

सा त्वदीया तुला मूषिकास्तामाश्नन्। जीर्णधन आह—

भो वणिग्,नास्ति दोषस्ते यदि मूषिकैर्भक्षिता। ईदृश एव संसारः। न किंचिदत्र शाश्वतमस्ति। परमहं नदीं स्नानार्थं गमिष्यामि तत्त्वमात्मीयंनप्तारं मया सह स्नानोपकरणं धारयितुं प्रेषयेति। सोऽपि चौर्यभयात्तस्मात् परिशङ्कितः स्वनप्तारमब्रवीत् —

वत्स, पितृव्य एषतव स्नानार्थं नदीं गमिष्यति। तद्गम्यतामेतेन सार्धं स्नानोपकरणमादायेति।

अथैष शिशुः स्नानोपकरणमादाय तेनाभ्यागतेन सहप्रस्थितः। तथानुष्ठिते वणिग् नद्यामस्नात्। तं शिशुं च नदीगुहायांप्रक्षिप्य तद्द्वारं शिलयास्तृणात्। सत्वरं गृहमागतश्च तेन वणिजापृष्टः —

भो अभ्यागत, आचक्ष्व कुत्र मे नप्ता यस्त्वया सह नदींगत इति। सोऽब्रवीत्—

नदीतटात् स श्येनेनहृत इति। वणिगाह —

असत्यवाक्, किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति। तत्समर्पय मे नप्तारम्। अन्यथा राजकुले निवेदयिष्यामीति। स आचष्ट—

भोः सत्यवाक्, यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां नाश्नन्ति। तदर्पय मे तुलां यदि दारकेणप्रयोजनमिति।

एवं तौ विवदमानौ द्वावपि राजकुलं गतौ। तत्र वणिक् तारस्वरेणारौत्—

भो अब्रह्मण्यमब्रह्मण्यम्। मम शिशुरेतेन चौरेणापहृतइति। अथ धर्माध्यक्षास्तं समगृणन् —

भोः समर्प्यतां वणिक्शिशुः। सआह—

किं करोमि। मम समक्षमेव नदीतटाच्छ्येनेनापहृतः शिशुः।तच्छ्रुत्वा तेऽवदन्—

भो न सत्यमभिहितं भवता। किं क्वचिच्छ्येनःशिशुं हर्तुं शक्नोति। स आह—

भो भोः श्रूयताम्—

तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः।
बालं तत्र हरेच्छ्येनो कर्तव्यो नात्र संशयः॥

तेऽववन् —

कथमेतत्। ततो वणिक् सभ्यानामग्र आदितः सर्वंवृतान्तमाचष्ट। ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्यतुलाशिशुप्रदानेन सन्तोषितौ।

पञ्चतन्त्रे

नवमो गणः

तृतीयपुरुषस्यैकवचनम्

धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः
अश् अश्नाति आश्नात् अश्नातु अश्नीयात्
स्तॄ स्तृणाति अस्तृणात् स्तृणातु स्तृणीयात्
स्तृणीते अस्तृणीत स्तृणीताम् स्तृणीत

स्वाध्यायः

वियुज्य पदानि लिखत —

कस्मिंश्चिदधिष्ठाने, द्वावपि, भो अब्रह्मण्यम्, क्वचिच्छ्येनः.

विग्रहं कुरुत —

विभवक्षयात्, विभवहीनः, लोहभारघटिता, सत्यवाक्, तुलाशिशुप्रदानेन.

समासान् योजयत —

सुरैः स्पृहणीया दमयन्ती नलमवृणीत।
नष्टः विभवः यस्य सः वणिग् देशान्तरं गतः।
रावणात् भीता सीता मौनमभजत।


त्रयोदशः पाठः

लक्ष्मीवर्णनम्

आलोकयतु तावल्लक्ष्मीमेव भवान्प्रथमम्। अनार्या ह्येषा लब्धापिदुःखेन परिपाल्यते। न परिचयं रक्षति। नाभिजनमीक्षते। न वैदग्ध्यंगणयति। न त्यागमाद्रियते। न विशेषज्ञतां विचारयति। न क्वचिन्निर्भरमाबध्नाति पदम्। यथा यथा चेयं चपला दीप्यते तथा तथादीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति। न हि तं पश्यामियो ह्यपरिचितयैनया न निर्भरमुपगूढो यो वा न विप्रलब्धः। एवं-

विधयापि चैनया दुराचारया कथमपि देववशेन परिगृहीता विक्लवाभवन्ति भूपतयः। सर्वाविनयाधिष्ठानतां च गच्छन्ति। तथाहि।तेषां दाक्षिण्यं प्रक्षाल्यते। हृदयं मलिनीभवति। सत्यवादितापह्रियते। गुणाश्चोत्सार्यन्ते। केचित्सम्पद्भिः प्रलोभ्यमाना रागावेशेनबाध्यमाना विह्वलतामुपयान्ति। आसन्नमृत्यव इव बन्धुजनमपिनाभिजानन्ति। अदूरदर्शिनः पापेनाध्मातमूर्तयो भवन्ति। तदवस्थाश्चव्यसनशतशरव्यतामुपगता पतितमप्यात्मानं नावगच्छन्ति।

कादम्बर्याम्

सन्धिविवरणम्

तावत् + लक्ष्मीम् = तावल्लक्ष्मीम्

समासविवरणम्

अनार्या = न आर्या अनार्या। नञ्तत्पुरुषः
अविनयः = न विनयः अविनयः। „ „

स्वाध्यायः

वियुज्य पदानि लिखत —

क्वचिन्निर्भरमाबध्नाति, ह्यपरिचितयैनया.

विग्रहं कुरुत—

आसन्नमृत्यवः, आध्मातमूर्तयः, तदवस्थाः.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत —

आबध्नाति, विप्रलब्धः, प्रक्षाल्यते, अभिजानन्ति, आत्मानम्, आलोकयतु.


चतुर्दशः पाठः

क्रोधान्धः कूर्मः

अस्ति मगधदेशे फुल्लोत्पलो नाम कासारः।तत्र चिरं संकटविकटौनाम हंसौ निवसतः।तयोः सुहृत् कम्बुग्रीवोनाम कूर्मश्च तत्रैव प्रतिवसति। अथैकदा धीवरैरागत्य तत्रोक्तम्। यदत्राद्योषित्वा प्रातर्मत्स्यकूर्मादीन्हनिष्यामः। तदाकर्ण्य कर्मो हंसावाह

सुहृदौ, श्रुतैषा धीवराणां वाक्। अधुना किंमया कर्तव्यमेतस्यामापदि। श्वेतगरुता अवदताम् —

ज्ञायतां पुनस्तावत्प्रातर्यदुचितं तत्कर्तव्यम्। कुर्मो ब्रूते —

मा मैवम्। यतो दृष्टेषापदस्माभिः। उक्तं च—

<MISSING_FIG href="../books_images/U-IMG-173389901112.png"/>

चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥

तद्यथाहमन्यंहृदमद्य प्राप्नोमि तथा क्रियताम्।

हंसा आहतुः — जलाशयान्तरे प्राप्ते तव कुशलम्। मार्गे तु कस्तेविधिः। कूर्मोऽब्रवीत्—यथाहं भवद्भ्यां सह वियतो मार्गेण यामि सउपायो विधीयताम्। हंसौ ब्रूतः— कथमुपायः सम्भवति। कच्छपोवदति — युवाभ्यां चञ्चुधृतं काष्ठखण्डमहं मुखेनावलम्बेय। युवयोर्ग-

रुतोर्बलेनाहमपि सुखेन गच्छेयम्। हंसौ चक्षाते

सम्भवत्येष उपायःपरमत्रापायोऽपि स्यात्। आवाभ्यां नीयमानं त्वामवलोक्य लोकाःकिञ्चिद्वदेयुरेव। तदाकर्ण्य यदि त्वमुत्तरं दास्यसि तदा तन्मरणम्।तत्सर्वथात्रैव स्थीयताम्। कूर्मो ब्रूते

किमहमज्ञः। नाहं किमपिवदेयम्।

** ततस्तथानुष्ठिते वियति नीयमानं कूर्ममालोक्य सर्वे गोरक्षकापश्चाद्धावन्ति दृशदः क्षिपन्ति वदन्ति च। तत्र कश्चिद्वदति—**

यद्येषकूर्मः पतितो भवेत्तदात्रैव पक्त्वाश्नीमः। कश्चिद्वदति

अत्रैवदग्ध्वा भक्षयामः। कश्चिद् ब्रूते

गृहं नीत्वा खादामः। तत्पुरुषवचनंश्रुत्वा स कूर्मः क्रुधा सन्तप्तः पूर्वसमयं विस्मृत्याब्रवीत्

मृदमश्नीत।उद्घाटितमात्रे च वदने स पतितो गोरक्षकैर्व्यापादितश्च।

पञ्चतन्त्रे

समासविवरणम्

मत्स्यकूर्मादीन् = मत्स्याः च कूर्माः च मत्स्यकूर्माः। ( द्वन्द्वः )
मत्स्यकूर्माः आदिः येषाम् ते मत्स्य कूर्यादयः,तान्। ( ष. ब. )

परुषवचनम् = परुषं च तद् वचनं च परुषचनम्। कर्मधारयः

स्वाध्यायः

विग्रहं कुरुत—

सङ्कटविकटौ, कूपखननम्, चञ्चुधृतम् .

प्रयोगान्तरं कुरुत—

गोरक्षकाः पाषाणान् क्षिपन्ति।
वयं कूर्मं भक्षयामः।
एषा दुःखेन परिपाल्यते जनैः।
शिशुः श्येनेन अपाह्रियत।

वाक्यानि रचयत—

यथा यथा विषस्यावेगः ( वृध् ) तथा तथा वेदना ( असह्य ) (भू )
नलस्य ( हंस ) अपि प्रयोजनम्।
( रुज् ) प्रतिक्रिया अविलम्बेन ( चिन्तनीय )

सत्सप्तमीं योजयत—

यदा ध्रुवो वनं गतः तदा सुनीतिरतीवदुःखिताभवत्।
यदा गुरुभिरनुज्ञा दत्ता तदा चन्द्रापीडो विद्यागृहान्निर्गतः।
यदा दमयन्ती रङ्गं प्राविशत् तदा नृपलोचनानि विकसितानि।


पञ्चदशः पाठः

तकारान्तः पुंलिङ्गो ‘गरुत्’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा-सम्बोº गरुत्-द् गरुतौ गरुतः
द्वितीया गरुतम् गरुतौ गरुतः
तृतीया गरुता गरुद्भ्याम् गरुद्भिः
चतुर्थी गरुते गरुद्भ्याम् गरुद्भ्यः
पञ्चमी गरुतः गरुद्भ्याम् गरुद्भ्यः
षष्ठी गरुतः गरुतोः गरुताम्
सप्तमी गरुति गरुतोः गरुत्सु

एवं मरुत्, हरित् इत्यादयः।

तकारान्तो नपुंसकलिङ्गो ‘वियत्’ शब्दः

प्र. द्वि. सम्बो. वियत्-द् वियती वियन्ति

शेषं ‘गरुत्’ वत्। एवं जगत् इत्यादयः।

दकारान्तः पुंलिङ्गः ‘सुहृद्’ शब्दः

प्र. सम्बो. सुहृत्-द् सुहृदौ सुहृदः
द्वितीया सुहृदम् सुहृदौ सुहृदः
तृतीया सुहृदा सुहृद्भ्याम् सुहृद्भिः इ.

एवं आपद्, विपद्, दृशद्, मृद् इत्यादयः स्त्रीलिङ्गाः शब्दाः।

धकारान्तः स्त्रीलिङ्गः ‘क्रुध्’ शब्दः

प्र. सम्बो. क्रुत्-द् क्रुधौ क्रुधः
द्वितीया क्रुधम् क्रुधौ क्रुधः
तृतीया क्रुधा क्रुद्भ्याम् क्रुद्भिः इ.

एवं क्षुध्, समिध् इत्यादयः।


षोडशः पाठः

रामस्तुतिः

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम्।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः॥

माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने॥

आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम्

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्॥

रामरक्षास्तोत्रे

तद्धितवृत्तिविवरणम्

दाशरथिः = दशरथस्य अपत्यं पुमान्
भैमी = भीमस्य अपत्यं स्त्री
कौसल्येयः = कौसल्यायाः अपत्यं पुमान्

स्वाध्यायः

विग्रहं कुरुत —

करुणार्णवम्, शान्तमूर्तिम्, लक्ष्मणानुचरः.

वाक्यानि रचयत —

भक्तः ( आपद् ) रामं ( स्मृ ) [ विध्यर्थः ]
( राम ) स्निग्धो लक्ष्मणो वनगमनम् ( वॄ ) [ भूतकालः ]
श्रीरामस्य मुखप्रभा भक्तानां नयनानि ( मुष् ) [ वर्तमानकालः]


सप्तदशः पाठः

कर्णस्यास्त्राधिगमवृत्तान्तः

कर्णः — मद्रराज, श्रूयतां ममास्त्रस्य वृत्तान्तः।

शल्यः —ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम्।

कर्णः —पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि।

शल्यः —ततस्ततः।

कर्णः —तं क्षत्रान्तकं भृगुवंशकेतुं गत्वा प्रणस्य निकटे निभृतःस्थितोऽस्मि। ततस्तेन भगवताशीर्वचनं दत्त्वा पृष्टोऽस्मिको भवान्, किमर्थमिहागत इति।

शल्यः —ततस्तत

कर्णः

भगवन्,अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि। तत उक्तोऽहं भगवता। ब्राह्मणेषूपदेशं करिष्यामिन क्षत्रियाणामिति।

शल्यः

अस्ति खलु भगवतः क्षत्रियैः पूर्ववैरम्। ततस्ततः।

कर्णः

ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धः। ततःकतिपयदिवसातिक्रमे कदाचित् फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि। ततः सगुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः।

शल्यः

ततस्ततः।

कर्णः

ततो वज्रमुखेन नाम कृमिणा ममोरुद्वयं कृत्तम्। मया चगुरोर्निद्राच्छेदभयात्सा वेदनासह्यत। अनन्तरमुत्थायक्षतजाप्लुतः स मां बुद्ध्वाक्रोधादशपत् — कालविफलान्यस्त्राणि ते सन्त्विति।

शल्यः

अहो कष्टमभिहितं तत्रभवता।

कर्णः

परीक्षामहे तावदस्त्रस्य वृत्तान्तम्। ( तथा कृत्वा )एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते।

शल्यः

भोः कष्टंखल्वेतत्।

कर्णः

शल्यराज, अलमलं विषादेन।

हतोऽपि लभते स्वर्गं जित्वा तु लभते महीम्।
उभे बहुमते लोके नास्ति निष्फलता रणे॥

प्रयोगान्तरविवरणम्

न अहम् क्षत्रियः इति मया उक्तम् = न अहम् क्षत्रियः इति अहम् उक्तवान्
शल्येन वृत्तान्तः श्रुतः = शल्यः वृत्तान्तम् श्रुतवान्
एषा महाराजेन आनीता = एनां महाराजः आनीतवान्

स्वाध्यायः

वियुज्य पदानि लिखत—

अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि, ब्राह्मणेषूपदेशम्,भगवताशीर्वचनम्.

विग्रहं कुरुत—

भृगुवंशकेतुम्, फलमूलसमित्कुशकुसुमाहरणाय, क्षतजाप्लुतः .

तुमन्तानां स्थाने नामानि योजयत—

मामास्ति कौतुहलमेनं वृत्तान्तं श्रोतुम्।
कर्णोऽखिलान्यस्त्राण्युपशिक्षितुं जामदग्न्यसकाशं गतः।
वणिक् स्नातुं नदीं गतः।

नाम्नां स्थाने तुमन्तानि योजयत—

कुसुमानामाहरणाय शिष्यः प्रेषितः।
चन्द्रापीडस्य दर्शनायोत्कण्ठिता मातरः।
कूर्मस्य रक्षणायोपायः कल्पितः।


अष्टादशः पाठः

वत्वन्तः पुंलिङ्गो ‘भगवत्’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा भगवान् भगवन्तौ भगवन्तः
द्वितीया भगवन्तम् भगवन्तौ भगवतः
तृतीया भगवता भगवद्भ्याम् भगवद्भिः
चतुर्थी भगवते भगवद्भ्याम् भगवद्भ्यः
पश्चमी भगवतः भगवद्भ्याम् भगवद्भ्यः
षष्ठी भगवतः भगवतोः भगवताम्
सप्तमी भगवति भगवतोः भगवत्सु
सम्बोधनम् भगवन् भगवन्तौ भगवन्तः

नपुंसकलिङ्गे

प्र. द्वि. सम्बो. भगवत् भगवती भगवन्ति

शेषं पुंलिङ्गवत्।

स्त्रीलिङ्गे

प्र. भगवती भगवत्यौ भगवत्यः

शेषं टिट्टिभीवत्।

एवं बलवत्, गुणवत्, श्रीमत्, धीमत्, गतवत्, उक्तवत्इत्यादयः शब्दाः।


नवदशः पाठः

विलासवत्याः सन्देशः

कैलासःकृतप्रणामः समुपसृत्य क्षितितले दक्षिणकरं निधायव्यज्ञापयत् — कुमार, महादेवी विलासवती समाज्ञापयति। एषा खलुकन्यका महाराजेन पूर्वं कुलूतराजधानीमवजित्य कुलूतेश्वरदुहितापत्रलेखा नाम बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपनीता। सा मयानाथा राजदुहितेति च स्नेहेन दुहितेवेयन्तं कालमुपलालिता संवर्धिता च। तदेषेदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनीति कृत्वा मया प्रेषिता। न चैषायुष्मता सामान्यपरिजन इवद्रष्टव्या। बालेव लालनीया। स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया।शिष्येव द्रष्टव्या। सुहृदिव सर्वविश्रम्भेष्वभ्यन्तरीकरणीया।दीर्घकालसंवर्धितस्नेहतया स्वसुतायामिव हृदयमेतस्यामस्ति मे।बलवानेतस्यां पक्षपातः। महाभिजनराजवंशप्रसूता चार्हत्येषैवं-

विधानाचारान्। नियतं स्वयमेवैषाभिविनीततया कतिपयैरेवदिवसैः कुमारमाराधयिष्यति। केवलमतिचिरकालोपचिता बलवतीमे प्रेमवृत्तिरेतस्यामविदितशीलश्चैतस्याः कुमार इति सन्दिश्यते।सर्वथा तथायुष्मता प्रयतितव्यं यथातिचिरमेषोचिता परिचारिकाःते भवति। इत्यभिधाय कैलासो व्यरमत्।

कादम्बर्याम्

विध्यर्थवाचकानि

एषा बाला इव लालनीया = त्वम् एनाम् बालाम् इव लालयेथाः।
शिष्या इव द्रष्टव्या = त्वम् एनाम् शिष्याम् इव पश्येः।
एषा चापलेभ्यः निवारणीया = त्वम् एनाम् चापलेभ्यः निवारयेः।

स्वाध्यायः

विग्रहं कुरुत—

कृतप्रणामः, क्षितितले, कुलूतेश्वरदुहिता.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत—

आयुष्मता, बलवान्, व्यरमत्, एतस्याम्, इयन्तम्, बलवती.

वाक्यानि रचयत—

अशोकवने ( मृगयूथपरिभ्रष्ट ) ( मृगी ) इव सीतां हनुमानपश्यत्।
बालानां ( क्रीडन ) ( बलवत् ) पक्षपातः।
( अल्प ) एव (दिवस ) कर्णोऽस्त्रविद्यामशिक्षत।
विलासवती पत्रलेखां चन्द्रापीडाय ( प्रेषितवत् )


विंशः पाठः

धनलुब्धस्य मठाधिपतेः

<MISSING_FIG href="../books_images/U-IMG-173388749815.png"/>

अस्ति कस्मिंश्चिद्विविक्तप्रदेशे मठायतनम्। अमुष्मिन्देवदत्तोनाम परिव्राट्प्रतिवसति स्म। अस्मै भक्तजनो नित्यं सूक्ष्मवस्त्राणियच्छति। इमान्यसौ सुगुप्तं विक्रीणीते धनसञ्चयं च करोति।एवमस्य महती वित्तमात्रा सञ्जाता। ततोऽसौ न कस्यचिद्विश्वसिति। नक्तंदिवं कक्षान्तरादिमां मात्रां न मुञ्चति। अथवा साधुचेदमुच्यते।

अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः॥

** अथाषाढभूतिर्नाम परवित्तहारको धूर्तोऽमूमर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत् -कथं मयेयमर्थमात्रामुष्माद्धर्तव्या।अस्मिन्मठे तावद् दृढशिलासञ्चयवशाद्धित्तिभेदो नास्ति। उच्चैस्त-**

रत्वाच्च द्वारेण प्रवेशोऽपि न सम्भवति। तदमुं मायावाग्भिर्विश्वास्य छात्रतां व्रजामि येनासौ विश्वस्तः कदाचिद्विश्वासमागच्छति।

एवं निश्चित्यामुष्यान्तिकमुपगम्य ॐ नमः शिवायेति प्रोच्चार्यसाष्टाङ्गं प्रणम्य च सप्रश्रयमवदत् —भगवन्, असारः संसारोऽयंगिरिनदीवेगोपमं यौवनं, तृणाग्निसमं जीवितं, शरदभ्रच्छायासदृशा भोगाः, स्वप्नसदृशो मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः। एवंमया सम्यक् परिज्ञातम्। तत्किं करोमि येन मे संसारोत्तरणं भविष्यति। इदं श्रुत्वा देवदत्तः सादरमब्रवीत् —वत्स, धन्योऽसि यद्यौवनेऽयं विरक्तिभावस्ते। यच्चमां संसारसागरोत्तरणोपायं पृच्छसितच्छ्रूयताम् —

शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः।
दीक्षितः शिवमन्त्रेण भसिताङ्गः शिवो भवेत्॥

तच्छ्रुत्वाषाढभूतिरस्य पादौ गृहीत्वा सप्रश्रयमिदमाचष्ट—भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु। देवदत्त आह —अनुग्रहं तेकरिष्यामि किन्तु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम्। यतो निःसङ्गता परिव्राजां प्रशस्यते। तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यमिति। स आह — भगवन्, भवदादेशः प्रमाणम्।परेत्र ह्यमुनामे प्रयोजनम्। अथ कृतशयनसमयं देवदतोऽनुग्रहंकृत्वा शास्त्रोक्तविधिना तं शिष्यतामनयत्। अयमपि परिचर्ययेमंपरितोषमनयत्। पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति।

अथ कालान्तरेणाषाढभूतिरचिन्तयत् —अहो न कथंचिदयं मेविश्वासमागच्छति। तत्किं दिवापि शस्त्रेण हन्मि किं वा विषं प्रयच्छामि किं वा पशुमिव व्यापदयामीति। यावदसावेवं चिन्तयतितावदेव देवदत्तस्य शिष्यपुत्रः कश्चिद् ग्रामादामन्त्रणार्थंसमायातोऽब्रवीच्च —भगवन्, पवित्रारोपणस्य कृते मम गृहमायातु भवानिति।

तच्छ्रुत्वा देवदत्त आषाढभूतिना सह प्रहृष्टः प्रस्थितः। अथास्यमार्गे काचित्सरित्समायाता। इमां दृष्ट्वामात्रां कक्षान्तरादवतार्यवस्त्रपुटे सुगुप्तां निधायाषाढभूतिमाह—

भो,आषाढभूते, यावदहंपुरीषोत्सर्गंकृत्वा समागच्छामि तावदियं कन्था योगेश्वरस्य सावधानतया रक्षणीया। इत्युक्त्वा गतः। आषाढभूतिरप्यमुष्मिन्नदर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः। देवदत्तः पुनरागत्य यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन यावत्कन्थामवलोकयति तावन्मात्रांन पश्यति। ततश्च हा हा मुषितोऽस्मीति पृथिवीतले मूर्छयान्यपतत्।

पञ्चतन्त्रे

सन्धिविवरणम्

अमुष्मात् + हर्तव्या = अमुष्माद् हर्तव्या, अमुष्माद्धर्तव्या वा

समासविवरणम्

कक्षान्तरगता= कक्षान्तरं ( कक्षायाः अन्तरम् ) गता कक्षान्तरगता - द्वितीयतत्पुरुषः

स्वाध्यायः

विग्रहं कुरुत—

विविक्तप्रदेशे, कष्टसंश्रयाः, स्वप्नसदृशः, मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः,कृतशयनसमयम्.

वाक्यपूरणं कुरुत —

रामः सुग्रीवस्य मित्रतां —————————।
प्राज्ञः न —————————–विश्वस्यात्।
तव कामदूतो भवामीति हंसो नलेन सह ————————— अकरोत्।
रामस्य दर्शने त्वया बुद्धिः न ———————– इति रावणः सीताम् ——————।
——————— दीक्षया ——————- अनुग्रहं कृतवान्।

एकविंशः पाठः

‘अदस्’ पुंलिङ्गे

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा असौ अमू अमी
द्वितीया अमुम् अमू अमून्
तृतीया अमुना अमूभ्याम् अमीभिः
चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
षष्ठी अमुष्य अमुयोः अमीषाम्
सप्तमी अमुष्मिन् अमुयोः अमीषु

अदस्

स्त्रीलिङ्गे

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा असौ अमू अमूः
द्वितीया अमूम् अमू अमूः
तृतीया अमुया अमूभ्याम् अमूभिः
चतुर्थी अमुष्यै अमूभ्याम् अमूभ्यः
पञ्चमी अमुष्याः अमूभ्याम् अमूभ्यः
षष्ठी अमुष्याः अमुयोः अमूषाम्
सप्तमी अमुष्याम् अमुयोः अमूषु

अदस्

नपुंसकलिङ्गे

प्र. द्वि. अदः अमू अमूनि

शेषं पुंलिङ्गवत्।

‘इदम्’

पुंलिङ्गे

प्रथमा अयम् इमौ इमे
द्वितीया इमम्-एनम् इमौ -एनौ इमान्-एनान्
तृतीया अनेन - एनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पश्चमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः - एनयोः एषाम्
सप्तमी अस्मिन् अनयोः - एनयोः एषु

‘इदम्’ स्त्रीलिङ्गे

प्रथमा इयम् इमे इमाः
द्वितीया इमाम्-एनाम् इमे -एने इमाः-एनाः
तृतीया अनया - एनया आभ्याम् आभिः
चतुर्थी अस्यै आभ्याम् आभ्यः
पश्चमी अस्याः आभ्याम् आभ्यः
षष्ठी अस्याः अनयोः - एनयोः आसाम्
सप्तमी अस्याम् अनयोः - एनयोः आसु

‘इदम्’नपुंसकलिङ्गे

प्रथमा इदम् इमे इमानि
द्वितीया इदम्-एनत् इमे - एने इमानि - एनानि

शेषं पुंलिङ्गवत्।


द्वाविंशः पाठः

अशोकवनिकायां सीता

<MISSING_FIG href="../books_images/U-IMG-173390689914.png"/>

ततो मलिनसंवीतां राक्षसीभिः समावृताम्।
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः॥

अपश्यच्छुक्लपक्षादौ चन्द्ररेखामिवामलाम्।
मन्दं प्रस्यायमानेन रूपेण रुचिरप्रभाम्॥

सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम्।
व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम्॥

ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्।
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च॥

शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्।
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्॥

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥

दुःखेनातर्कयत्सीतां हनुमाननलङ्कृताम्।
संस्कारेण यथा हीनां वाचमर्थान्तरं कृताम्॥

रामायणे

समासविवरणम्

सपङ्का = पङ्केन सहिता। सहबहुव्रीहिः
अर्थान्तरम् = अन्यः अर्थः अर्थान्तरम्। कर्मधारयः (नित्यसमासः)

स्वाध्यायः

वियुज्य पदानि लिखत —

अपश्यच्छुक्लपक्षादौ, ग्रहेणाङ्गारकेणेव, कालमेघैरिवावृताम्.

विग्रहं कुरुत —

उपवासकृशाम्, शुक्लपक्षादौ, रुचिरप्रभाम्, अश्रुपूर्णमुखीम्.

** वाक्यपूरणं कुरुत**—

सधनम् परिव्राजम् असेवत —————————– ।
रङ्गे ———————-अपश्यन्ती दमयन्ती ——————–अभवत्।
गुरोः ——————अभिभूतानि कर्णस्य शस्त्राणि ————-अभवन्।
——————– कूर्मः स्वमरणम् अकारयत्।


त्रयोविंशः पाठः

धूर्तः शृगालः

अस्ति कस्मिंश्चिद्वनोद्देशे महाचतुरको नाम शृगालः। स कदाचिदरण्ये स्वयं मृतं गजं समाप्नोत्। तत्समन्ताद्भ्रमति परं कठिनां त्वचं भेत्तुंन शक्नोति। अत्रान्तरे तत्र कश्चि

द्गजःसमायात्। तं दृष्ट्वा ससंयोजितकरः सादरमवक्-भर्तः, त्वदीयोऽहं लाकुटिकस्त्वदर्थे गजमिमं पामि। तदेनं जक्षितु भर्ता। तं दृष्ट्वा पञ्चानन आचष्ट-भोनाहमन्यहतं सत्त्वं कदाचिज्जक्षिमि। तन्मया प्रसादीकृत एष ते गजः।

<MISSING_FIG href="../books_images/U-IMG-173390704815.png"/>

तच्छ्रुत्वा शृगालः सानन्दमब्रवीत् - युक्तमिदं भर्तुर्निजभृत्येषु। तन्निशम्य सिंहोऽयात्।

याते तस्मिन्कश्चिद्व्याघ्रः समायातः। तमपि दृष्ट्वासौ व्यचिन्तयत्—

एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः। तत्कथमिदानीमेनमतिवाहयिष्यामि। नूनं शूरोऽयम्। न खलु भेदं विना साध्यो भविष्यति।एवं सम्प्रधार्य तस्याभिमुखो भूत्वोन्नतकन्धरः ससम्भ्रममवक्—

माम, कथं भवानत्र मृत्युमुखे प्रविष्टः। एनं गजं साम्प्रतं सिंहोऽहन्।स च मां रक्षपालं निधाय स्नानार्थमयात्। तेन च मम समादिष्टम्—

यदि कश्चिद्व्याघ्रः समैति तन्मम सुगुप्तं कथनीयम्। येन वनमिदंनिर्व्याघ्रं करोमि। तच्छ्रुत्वा व्याघ्रः सन्त्रस्तस्तमाह—

भो भगिनीसुत,प्राणदक्षिणां वन्वे। मदीयां कामपि वार्तां तस्य माख्याहि। एवमुक्त्वा प्रनष्टः।

अथ तस्मिन्याते तत्र कश्चिच्चित्रकः समायातः। तमपि दृष्ट्वा व्यचिन्तयत्—

दृढदंष्ट्रोऽयम्। तदस्य पार्श्वाद्गजचर्मच्छेदं साध्नोमि। एवंनिश्चित्य तमवदत् —

भो भगिनीसुत, किमिति चिरदृष्टोऽसि। कथं चबुभुक्षित इव भक्ष्यं विचिनोषि। तदतिथिरसि मे। एष गजःसिंहेन हतस्तिष्ठति। अहं चास्य तदादिष्टो रक्षपालः। यावत्सिंहोन समायाति तावदस्य मांसं यथेष्टं भुङ्क्ष्व। स आह—

माम, यद्येवं

तन्न कार्यं मे मांसाशनेन। न धृष्णोमि सिंहम्। अहमितोऽपयामि।शृगाल आह—

भो अधीर, विश्रब्धं भक्षय। तस्यागमनं दूरतोऽहं तेनिवेदयिष्यामि। अथ चित्रकेण तथानुष्ठिते चर्मभेदं जातं विज्ञायतेनाभिहितम् —

भो भगिनीसुत, गम्यतां गम्यताम्। एष सिंहःसमायाति। तच्छ्रुत्वा चित्रकोऽपि दूरं प्रनष्टः।

अथ यावदसौ तत्कृतद्वारेण किंचिन्मांसं भुङ्क्ते तावदपरः शृगालःसङ्क्रुद्धः समायातः। तं तुल्यपराक्रमं दृष्ट्वाचिन्तयत्—

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥

तदहं धृष्णोम्येनम्। ततस्तदभिमुखो भूत्वा तं दंष्ट्राभिरक्षिणोत्।दिशोभाजं चाकरोत्। अनन्तरं सुखेन तन्मांसमभुङ्क्त।

पञ्चतन्त्रे

स्वाध्यायः

वियुज्य पदानि लिखत—

कस्मिंश्चिद्वनोद्देशे, तन्निशम्य, भूत्वोन्नतकन्धरः, सन्त्रस्तस्तमाह, धृष्णोम्येनम्—

विग्रहं कुरुत—

संयोजितकरः, मृत्युमुखे, दृढदंष्ट्रः, चिरदृष्टः, अन्यहतम्.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

त्वचम्, भर्तः, गम्यताम्, योजयेत्, अस्य.

वाक्यानि रचयत

चतुरः ( बलवत्) न धृष्णोति।
( हनुमत् ) लङ्कायां (सीता) व्यचिनोत्।
( बुद्धिमत् ) शृगालेन व्याघ्रचित्रकौ (वञ्चित )
न (इदम्) (राजदुहितृ ) कुमारेण अनादरः कर्तव्यः इति विलासवतीसमादिशत्।

चतुर्विंशः पाठः

पञ्चमो गणः

चि

परस्मैपदम्

वर्तमानकालः चिनोमि चिनुवः - चिन्वः चिनुमः - चिन्मः
चिनोषि चिनुथः चिनुथ
चिनोति चिनुतः चिन्वन्ति
भूतकालः अचिनवम् अचिनुव - अचिन्व अचिनुम - अचिन्म
अचिनोः अचिनुतम् अचिनुत
अचिनोत् अचिनुताम् अचिन्वन्
आज्ञार्थः चिनवानि चिनवाव चिनवाम
चिनु चिनुतम् चिनुत
चिनोतु चिनुताम् चिन्वन्तु
विध्यर्थः चिनुयाम् चिनुयाव चिनुयाम
चिनुयाः चिनुयातम् चिनुयात
चिनुयात् चिनुयाताम् चिनुयुः

आत्मनेपदम्

वर्तमानकालः चिन्वे चिनुवहे- चिन्वहे चिनुमहे - चिन्महे
चिनुषे चिन्वाथे चिनुध्वे
चिनुते चिन्वाते चिन्वते
भूतकालः अचिन्वि अचिनुवहि-अचिन्वहि अचिनुमहि-अचिन्महि
अचिनुथाः अचिन्वाथाम् अचिनुध्वम्
अचिनुत अचिन्वाताम् अचिन्वत
आज्ञार्थः चिनवै चिनवावहै चिनवामहै
चिनुष्व चिन्वाथाम् चिनुध्वम्
चिनुताम् चिन्वाताम् चिन्वताम्
विध्यर्थः चिन्वीय चिन्वीवहि चिन्वीमहि
चिन्वीथाः चिन्वीयाथाम् चिन्वीध्वम्
चिन्वीत चिन्वीयाताम् चिन्वीरन्

आप्

परस्मैपदम्

वर्तमानकालः आप्नोमि आप्नुवः आप्नुमः
आप्नोषि आप्नुथः आप्नुथ
आप्नोति आप्नुतः आप्नुवन्ति
भूतकालः आप्नवम् आप्नुव आप्नुम
आप्नोः आप्नुतम् आप्नुत
आप्नोत् आप्नुताम् आप्नुवन्
आज्ञार्थः आप्नवानि आप्नवाव आप्नवाम
आप्नुहि आप्नुतम् आप्नुत
आप्नोतु आप्नुताम् आप्नुवन्तु
विध्यर्थः आप्नुयाम् आप्नुयाव आप्नुयाम
आप्नुयाः आप्नुयातम् आप्नुयात
आप्नुयात् आप्नुयाताम् आप्नुयुः

तृतीयपुरुषस्य एकवचनम्

धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः
श्रु शृणोति अशृणोत् शृणोतु शृणुयात्
शक् शक्नोति अशक्नोत् शक्नोतु शक्नुयात्
साध् साध्नोति असाध्नोत् साध्नोतु साध्नुयात्
धृष् धृष्णोति अधृष्णोत् धृष्णोतु धृष्णुयात्

अष्टमो गणः

कृ

परस्मैपदम्

वर्तमानकालः करोमि कुर्वः कुर्मः
करोषि कुरुथः कुरुथ
करोति कुरुतः कुर्वन्ति
भूतकालः अकरवम् अकुर्व अकुर्म
अकरोः अकुरुतम् अकुरुत
अकरोत् अकुरुताम् अकुर्वन्
आज्ञार्थः करवाणि करवाव करवाम
कुरु कुरुतम् कुरुत
करोतु कुरुताम् कुर्वन्तु
विध्यर्थः कुर्याम् कुर्याव कुर्याम
कुर्याः कुर्यातम् कुर्यात
कुर्यात् कुर्याताम् कुर्युः

आत्मनेपदम्

वर्तमानकालः कुर्वे कुर्वहे कुर्महे
कुरुषे कुर्वाथे कुरुध्वे
कुरुते कुर्वाते कुर्वते
भूतकालः अकुर्वि अकुर्वहि अकुर्महि
अकुरुथाः अकुर्वाथाम् अकुरुध्वम्
अकुरुत अकुर्वाताम् अकुर्वत
आज्ञार्थः करवै करवावहै करवामहै
कुरुष्व कुर्वाथाम् कुरुध्वम्
कुरुताम् कुर्वाताम् कुर्वताम्
विध्यर्थः कुर्वीय कुर्वीवहि कुर्वीमहि
कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम्
कुर्वीत कुर्वीयाताम् कुर्वीरन्

तृतीयपुरुषस्य एकवचनम्

धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः
क्षिण् क्षिणोति अक्षिणोत् क्षिणोतु क्षिणुयात्
वन् वनुते अवनुत वनुताम् वन्वीत

पञ्चविंशः पाठः

सौहृदविनाशकं दारिद्र्यम्

**विदूषकः—**भोः किमिदं चिन्तयसि।

चारुदत्तः **—**वयस्य,

सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तुतु याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥

विदूषकः **—**भो वयस्य, मरणाद्दारिद्र्याद्वा कतरत्ते रोचते।

चारुदत्तः **—**वयस्य,

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥

विदूषकः **—**भो वयस्य, अलं सन्तापितेन। प्रियजनसङ्क्रामितवि-

भवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपितेऽधिकतररमणीयः।

चारुदत्तः—

वयस्य, न ममार्थान्प्रति दैन्यम्।

सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥

मृच्छकटिके

स्वाध्यायः

वियुज्य पदानि लिखत—

दुःखान्यनुभूय, घनान्धकारेष्विव, प्रतिपच्चन्द्रस्येव .

विग्रहं कुरुत—

अल्पक्लेशम्, विभवनाशकृता, नष्टधनाश्रयस्य.

समासान् योजयत—

मरणात् दारिद्र्यात् च कतरत्ते रोचते।
परिचर्यया संतुष्टःअपि देवदत्तः न शिष्यस्य विश्वासमागच्छत्।
अपहृता मात्रा यस्य सः परिव्राड् मूर्च्छितः अभवत्।
आचारात् प्रमत्ताः नराः परिचयं न गणयन्ति।

वाक्यपूरणं कुरुत—

वनवासात्पितृवचनभङ्गाद् वा ———————-एव रामाय अरोचत।
रावणेन अपहृतायाःसीतायाः ————————-अपि अधिकतरवन्दनीयःआसीत्।
नरः ————————–धनानि आप्नोति।
दरिद्रः सुहृत्सु ———————कर्तुं न शक्नोति।


षड्विंशः

बुभुक्षितः किन्न करोति पापम्

अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम केसरी। तस्यानुजीविनस्त्रयः काको द्वीपी जम्बूकश्च। अथ तैः सार्थाद्भ्रष्टःकश्चिदुष्ट्रोदृष्टः पृष्टश्च। कुतो भवानागतः। सोऽप्यात्मवृत्तान्तमकथयत्। ततस्तैर्नीत्वा केसरिणेऽसौ समर्पितः। केसरी तमभयवाचान्वगृह्णात्तस्यच चित्रकर्ण इत्याख्यां कृत्वा स्वसमीपं तं स्थापितवान्। अथ कदाचित्केसरिणः शरीरवैकल्याद्भूरिवृष्टिकारणाच्चाहारो दुर्लभोऽभवत्।ततस्तैरनुजीविभिरालोचितम् —चित्रकर्णमेव यथा स्वामी व्यापादयति तथानुष्ठीयताम्। द्वीपिनोक्तम् —असौ स्वामिनाभयवाचं दत्त्वानुगृहीतः। तत्कथमेतत्सम्भवति। काको द्वीपिनं ब्रूते —इह समयेपरिक्षीणः स्वामी पापमपि कुर्यात्। यतः—

त्यजेत्क्षुधार्ता महिला स्वपुत्रं खादेत्क्षुधार्ता भुजगी स्वमण्डम्।
बुभुक्षितः किन्न करोति पापं क्षीणा नरा निष्करुणा भवन्ति॥

इति संचिन्त्य सर्वे सिंहान्तिकमगच्छन्। सिंहेनोक्तम् —आहारार्थंकिंचित्प्राप्नतकिम्। तैरुक्तम् —यत्नादपि न किंचिदाप्नुम। केसरीपृच्छति — कोऽधुना जीवनोपायः। काकश्चष्टे —स्वामिन्, स्वाधीनाहारपरित्यागात्सर्वनाशोऽयमुपस्थितः। सिंहेनोक्तम् —अत्राहारःकः स्वाधीनः। काकः कर्णे कथयति —चित्रकर्ण इति। सिंहो भूमिंस्पृष्ट्वाकर्णौ स्पृशति। अभयवाचं दत्त्वा धृतोऽयमस्माभिः। तत्कथमेतत्सम्भवति। काको ब्रूते - नासौ स्वामिना व्यापादयितव्यः। किन्त्वस्माभिरेव तथा कर्तव्यं यथासौ स्वदेहदानमङ्गीकरोति। सिंहस्तच्छ्रुत्वा तूष्णीं स्थितः।

ततोऽसौ लब्धावकाशो बलिभुक्कूटं कृत्वा सर्वानादाय केसरिणःसमीपं गतः। अथ बलिभुजोक्तम् — देव, यत्नादप्याहारो न प्राप्तः।अनेकोपवासखिन्नः स्वामी। तदिदानीं स्वामिने स्वदेहदानं कर्तुमिच्छामि। मदीयं मांसमुपभुज्यताम्। केसरिणोक्तम् —वरं प्राणपरित्यागोनपुनरीदृशे कार्ये प्रवृत्तिः। जम्बुकेनापि तथैवोक्तम्। ततः सिंहे-

नोक्तम् —

मैवम्। अथ व्याघ्रेणोक्तम्—

मद्देहेन जीवतु स्वामी।सिंहोऽब्रवीत् — न कदाचिदेवमुचितम्। अथ चित्रकर्णोऽपि जातविश्वासस्तथैवात्मदानमाह। तन्मुखान्निर्गतायामेव वाचि द्वीपिनासौकुक्षिं विदार्य व्यापादितः सर्वैश्च भक्षितः। अत उच्यते—

नदीनां शस्त्रहस्तानां नखिनां शृङ्गिणां तथा।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥

पञ्चतन्त्रे

समासविवरणम्

आहारार्थम् = आहाराय इदम्। चतुर्थीतत्पुरुषः ( नित्यसमासः )

स्वाध्यायः

वियुज्य पदानि लिखत—

जम्बूकश्च, सार्थाद्भ्रष्टः, ततस्तैर्नीत्वा, द्वीपिनोक्तम्,
किन्न, किन्त्वस्माभिरेव.

विग्रहं कुरुत

स्वाधीनाहारपरित्यागात्, लब्धावकाशः, जातविश्वासः, क्षुधार्ता, शरीरवैकल्यात्.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

अभयवाचा, अन्वगृह्णात्, प्राप्नुत, जीवतु, वाचि.

समासान् योजयत

सार्थात् भ्रष्टः उष्ट्रः काकेन जम्बूकेन च दृष्टः।
म्लानं मुखं यस्याः सा सीता हनुमता वीक्षिता।
काकेन कल्पितया युक्त्या उष्ट्रः वञ्चितः।

वाक्यानि रचयत—

वरं स्वसुखनाशः न पुनर् ( परपीडन ) प्रवृत्तिः।
सिंहस्य अनुजीविनः आहारम् ( वि+चि )
केसरी उष्ट्राय अभयम् ( प्रति+श्रु )
क्षुधार्ताः सेवकाः सिंहात् उष्ट्रम् ( वन् )

सप्तविंशः पाठः

इन्नन्तः पुंलिङ्गः ‘स्वामिन्’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा स्वामी स्वामिनौ स्वामिनः
द्वितीया स्वामिनम् स्वामिनौ स्वामिनः
तृतीया स्वामिना स्वामिभ्याम् स्वामिभिः
चतुर्थी स्वामिने स्वामिभ्याम् स्वामिभ्यः
पञ्चमी स्वामिनः स्वामिभ्याम् स्वामिभ्यः
षष्ठी स्वामिनः स्वामिनोः स्वामिनाम्
सप्तमी स्वामिनि स्वामिनोः स्वामिषु
सम्बोधनम् स्वामिन् स्वामिनौ स्वामिनः

एवं केसरिन्, अनुजीविन्, नखिन्, शृङ्गिन् इत्यादयः।

नपुंसकलिङ्गे

प्र. द्वि. स्वामि स्वामिनी स्वामीनि
सम्बोधनम् स्वामि-स्वामिन् स्वामिनी स्वामीनि

शेषं पुंलिङ्गवत्। एवं भाविन्, गुणिन् इत्यादयः।


अष्टाविंशः पाठः

दमयन्तीविलापः

अपक्रान्ते नले साध्वी दमयन्ती गतक्लमा।
अबुध्यत वरारोहा सन्त्रस्ता विजने वने॥

अपश्यमाना भर्तारं शोकदुःखसमन्विता।
प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम्॥

हा नाथ, हा महाराज, हा स्वामिन्किंजहासि माम्।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥

ननु नाम महाराज, धर्मज्ञः सत्यवागसि।
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः॥

पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ।
भीताहमतिदुर्धर्ष, दर्शयात्मानमीश्वर॥

नृशंसं बत राजेन्द्र यन्मामेव गतामिह।
विलपन्तीं समागम्य नाश्वासयसिपार्थिव॥

न शोचाम्यहमात्मानं न चान्यदपि किंचन।
कथं तु भवितास्येक इति त्वां नृप शोचिमि॥

कथं तु भूभृत्तृषितः क्षुधितः श्रमकर्षितः।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि॥

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना।
इतश्चेतश्च रुदती पर्यधावत दुःखिता॥

नलोपाख्याने

स्वाध्यायः

विग्रहं कुरुत —

गतक्लमा, शोकदुःखसमन्विता, तीव्रशोकार्ता.

वाक्यपूरणं कुरुत —

नष्टविभवः नरः ————————कारणं भवति।
——————— दुर्भाग्यम् अनुजीविषु अधिकतरं —————-जनयति।
सर्वनाशे ————————–अर्धं जहाति पण्डितः।
नलम् अपश्यन्ती ——————————-शोकावेगं धारयितुं न ——————- ।


नवविंशः पाठः

परस्परमर्माणि गोपनीयानि

<MISSING_FIG href="../books_images/U-IMG-1733971380114.png"/>

अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा। तस्य राज्ञः पुत्रोजठरवल्मीकाश्रयेण फणिना प्रतिदिनं प्रत्यङ्गं क्षीयते। अनेकोपचारैःसद्भिषग्भिश्चिकित्स्यमानोऽपि न स्वास्थ्यमाप्नोति। अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः। कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा नगरस्य सीमनि वर्तमाने महति देवालये कालं यापयति।

अथामुष्मिन्नगरे बलिनामा राजास्ते। तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः। ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्यनमस्कारं कुरुतः। तत्र चैकाब्रवीत् — विजयस्व महाराज, यस्यप्रसादात्सर्वं सुखं लभ्यते। द्वितीया तु विहितं भुङ्क्ष्व महाराजेतिब्रवीति। तच्छ्रुत्वा प्रकुपितो राजाब्रवीत् —

भो मन्त्रिणः, एतां दुष्टभाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रदत्त येन निजविहितमियमेव भुङ्क्ते। अथ तथेति प्रतिपद्याल्पपरिवारा सा कुमारिकामन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता।

सापि प्रहृष्टमानसा तं पतिं देववत्प्रतिपद्य प्रेम्णादायान्यविषयं

गता। ततोऽनल्पमध्वानं गत्वा वर्त्मनि तडागतटे राजपुत्रमावासरक्षायै निरूप्य स्वयं घृततैललवणतण्डुलादिक्रयनिमित्तं सपरिवारागता। कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मीकस्योपरि मूर्धानं निधाय प्रसुप्तः। तस्य च मुखाद्भुजगः फणांनिष्काम्य वायुमश्नाति। तत्रैव च वल्मीकेऽपरः फणी निष्क्रम्यतथैवासीत्।

अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर्मध्याद्वल्मीकस्थेनसर्पेणोक्तम् — भो भो दुरात्मन्, कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थंदुनोषि। मुखस्थोऽहिराचष्ट —भो भोस्त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हेम्ना पूर्णं कलशयुगलम्। इत्येवं परस्परस्य मर्माण्युद्धाटितवन्तौ। पुनर्वल्मीकस्थोऽहिरब्रवीत् — भोदुरात्मन्, भेषजमिदं ते कोऽपि न जानाति यज्जीर्णोत्कालिकञ्जिकाराजिकापानेन भवान्विनाशमुपैति। अथोदरस्थः फण्यब्रवीत् — तवाप्येतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्णतैलेन महोष्णोदकेन वातव विनाशः स्यादिति।

एवं सा राजकन्या विटपान्तरिता तयोः परस्परालापान्मर्ममयानशृणोत्तथैव चान्वतिष्ठत्। विधायाव्यङ्गं नीरोगं भर्तारं निधिं चपरममासाद्य स्वदेशाभिमुखं प्रायात्। पितृमातृस्वजनैः प्रतिपूजिताविविधोपभोगं प्राप्य सुखेनावस्थिता। अत उक्तम्।

परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः।
त एव निधनं यान्ति वल्मीकोदरसर्पवत्॥

पञ्चतन्त्रे

स्वाध्यायः

वियुज्य पदानि लिखत

चैकाब्रवीत्, मन्त्रिण एताम्, वल्मीकस्योपरि.

विग्रहं कुरुत —

भिक्षाटनम्, सपरिवारा, क्रोधसंरक्तलोचनयोः, उष्णतैलेन, पितृमातृस्वजनैः.

** एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत**—

फाणिना, आप्नोति, अमुष्मिन्, दुहितरौ, मन्त्रिणः, अश्नाति, स्यात्,अशृणोत्.

वाक्यानि रचयत

( नल ) निर्वेदात् दमयन्तीम् ( त्यज् )
कन्यायाः अप्रियां ( वाच् ) श्रुत्वा भूपः कोपम् धारयितुम् न ( शक् )
( सुहृद् ) विमुखता चारुदत्तम् भृशम् ( दु )
( फणिन् ) कलहःराजकन्यायाः ( हित ) अभवत्।
अन्तर्भेदाकुलम् गृहम् ( विनश् )


त्रिंशः पाठः

अन्नन्तः पुंलिङ्गो ‘राजन्’शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा राजा राजानौ राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि - राजनि राज्ञोः राजसु
सम्बोधनम् राजन् राजानौ राजानः

एवं मूर्धन्, बलिनामन् इत्यादयः।

अन्नन्तः नपुंसकलिङ्गः ‘हेमन्’ शब्दः

प्रथमा हेम हेमनी-हेम्नी हेमानि
द्वितीया हेम हेमनी-हेम्नी हेमानि
सम्बोधनम् हेमन्, हेम हेमनी-हेम्नी हेमानि
तृतीया हेम्ना हेमभ्याम् हेमभिः

शेषं पुंलिङ्गवत्। एवं नामन्, प्रेमन् इत्यादयः।

अन्नन्तः नपुंसकलिङ्गः ‘वर्त्मन्’ शब्दः

प्र. द्वि. वर्त्म वर्त्मनी वर्त्मनि
तृतीया वर्त्मना वर्त्मभ्याम् वर्त्मभिः
चतुर्थी वर्त्मने वर्त्मभ्याम् वर्त्मभ्यः
पञ्चमी वर्त्मनः वर्त्मभ्याम् वर्त्मभ्यः
षष्ठी वर्त्मनः वर्त्मनोः वर्त्मनाम्
सप्तमी वर्त्मनि वर्त्मनोः वर्त्मसु
सम्बोधनम् वर्त्मन्, वर्त्म वर्त्मनी वर्त्मानि

एवं मर्मन्, कर्मन् इत्यादयः।


एकत्रिंशः पाठः

नृपो वैशम्पायनवृत्तान्तं पृच्छति

इत्यभिधाय गते च तस्मिन् कञ्चुकिनि राजा वैशम्पायनमपृच्छत् —कश्चिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातमिति। स प्रत्यवदत्। देव, किं वा नास्वादितम्। कषायमधुरःप्रकाममापीतो जम्बूफलरसः। खण्डितानि दाडिमीबीजानि।नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितान्यामलकीफलानि

स्वेच्छया। किं वा प्रलपितेन बहुना। सर्वमेव देवीभिः स्वयंकरतलोपनीयमानममृतायत इति। एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्। आस्तां तावत्सर्वमेवेदम्। अपनयतु नः कुतूहलमाख्यातु भवानादितः प्रभृति कार्त्स्न्येनात्मनो जन्म। कस्मिन्देशेभवान्कथं जातः। केन वा नाम कृतम्। का माता। कस्ते पिता।कथं वेदानामागमः। कथं शास्त्राणां परिचयः। कुतः कलाः समासादिताः। किं जन्मान्तरानुस्मरणमुत वरप्रदानम्। अथवा विहगवेषधारी कश्चिच्छन्नो निवससि। क्व वा पूर्वमुषितम्। कथं पञ्जरबन्धः।कथं चाण्डालहस्तगमनमिह वा कथमागमनमिति।

कादम्बर्याम्

समासविवरणम्

नलिनीदलहरिन्ति = नलिन्याः दलानि नलिनीदलानि। ( ष. त. )
नलिनीदलानि इव हरिन्ति तानि। कर्मधारयः
द्राक्षाफलस्वादूनि= द्राक्षायाः फलानि द्राक्षाफलानि। ( ष. त. )
द्राक्षाफलानि इव स्वादूनि तानि। कर्मधारयः

स्वाध्यायः

विग्रहं कुरुत —

करतलोपनीयमानम्, जन्मान्तरानुस्मरणम्.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत—

कञ्चुकिनि, नलिनीदलहरिन्ति, एवंवादिनः, जन्म.

** वाक्यानि रचयत—**

( राजन् ) वैशम्पायनं पितुः मातु च ( नामन् ) पृष्टवान्।
वैशम्पायनस्य वेदशास्त्रपरिचयादिना ( महिमन् ) नृपस्य ( महत् )विस्मयः जातः।
कथं त्वया ( भर्तृ ) नीरोगः कृतः इति श्वशुरेण ( राजदुहितृ) पृष्टा।


द्वात्रिंशः पाठः

सीताविनोदनम्

**लक्ष्मणः—**जयत्वार्यः। आर्य, तेन चित्रकरेणास्मदुपदिष्टमार्यस्यचरितमस्यां वीथिकायामभिलिखितम्। तत्पश्यत्वार्यः।

**रामः—**जानासि वत्स दुर्मनायमानां देवीं विनोदयितुम्। तत्कियन्तमवधिं यावत्।

लक्ष्मणः **—**यावदार्याया हुतभुजि विशुद्धिः।

**रामः —**शान्तम्।

उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥

देवि, देवयजनसम्भवे, प्रसीद। एष ते जीवितावधिः प्रवादः।

कष्टंजनः कुलधनैरनुरञ्जनीयः
तन्नो यदुक्तमशिवं न हि तत्क्षमं ते।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि॥

**सीता —**भवत्वार्यपुत्र, भवतु। एहि। प्रेक्षामहे तावत्ते चरितम्।

( इत्युत्थाय परिक्रामतः )

लक्ष्मणः **—**इदं तदालेख्यम्। एष मिथिलावृत्तान्तः।

रामः **—**द्रष्टव्यमेतत्।

जनकानां रघूणां च सम्बन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥

सीता **—**एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरोविवाहदीक्षिता यूयम्। अहो जानामि तस्मिन्नेव प्रदेशेतस्मिन्नेव काले वर्ते।

लक्ष्मणः **—**इयमार्या। इयमप्यार्या माण्डवी। इयमपि वधूःश्रुतकीर्तिः।

सीता **—**वत्स, इयमप्यपरा का।

लक्ष्मणः — (सलज्जस्मितम्। अपवार्य) अये ऊर्मिलां पृच्छत्यार्या।भवतु। अन्यतः सञ्चारयामि। (प्रकाशम्) आर्ये,दृश्यतां द्रष्टव्यमेतत्। अयं च भगवान्भार्गवः।

सीता —( ससम्भ्रमम् ) कम्पितास्मि।

रामः— ऋषे, नमस्ते।

लक्ष्मणः —आर्ये, पश्य पश्य। अयमसावार्येण—

रामः —( साक्षेपम्) अयि वत्स, बहुतरं द्रष्टव्यम्। अन्यतो दर्शय।

सीता —( सस्नेहबहुमानं निर्वर्ण्य ) सुष्ठु शोभसे आर्यपुत्र, एतेनविनयमाहात्म्येन।

लक्ष्मणः —एते वयमयोध्यां प्राप्ताः।

रामः —( सास्रम् ) स्मरामि हन्त स्मरामि।

जीवत्सु तातपादेषु नवे दारपरिग्रहे।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः॥

उत्तररामचरिते

स्वाध्यायः

वियुज्य पदानि लिखत —

जयत्वार्यः, इत्युत्थाय, तस्मिन्नेव, अयमसावार्येण.

** विग्रहं कुरुत**—

उत्पत्तिपरिपूतायाः, पावनान्तरैः, जीवितावधिः, विवाहदीक्षिताः, कुलधनैः.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

कियन्तम्, हुतभुजि, सुरभिणः, मूर्ध्नि, जानासि, ग्रहीता, दृश्यताम्, भार्गवः.

प्रयोगान्तरं कुरुत—

तेन चित्रकरेण आर्यस्य चरितम् अभिलिखितम्। ( अभिलिखितवत् )
प्रेक्षामहे तावत्ते चरितम्।
आर्ये, दृश्यतां द्रष्टव्यमेतत्।


त्रयस्त्रिंशः पाठः

गानप्रियो गर्दभः

<MISSING_FIG href="../books_images/U-IMG-173415558912.png"/>

कस्मिंश्चिदधिष्ठान उद्धतो नाम गर्दभ आस्ते। अथ तस्यकदाचिच्छृगालेन सह मैत्री सञ्जता। स च पीवरत्वाद् वृतिभङ्गं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति। एवं तौस्वेच्छया चिर्भटिका जक्षितः प्रत्यहं प्रत्यूषे स्वस्थानं यातश्च। अथकदाचित्स मदोद्धतःक्षेत्रमध्यस्थितो रासभः शृगालमवक् — भोभगिनीसुत, पश्य पश्य। अतीव निर्मला रजनी। तदहं गीतं करिष्यामि। तदाचक्ष्व कतमेन रागेण करोमीति।

स आह — किमनेन वृथानर्थप्रचालनेन। यतश्चौरकर्मप्रवृत्तावावाम्। निभृताश्चचौराः स्युः। अपरं त्वदीयं गीतं न मधुरम्।शङ्खशब्दानुकारं दूरादपि श्रूयते। जनास्तव गीतं द्विषन्ति। तदत्रक्षेत्रे रक्षापुरुषाः स्वपन्ति। तव विरावं श्रुत्वा ते जाग्रति घ्नन्तिबध्नन्ति वावाम्।तज्जक्षिहि तावदमृतमयीश्चिर्भटीः। मा त्वमव्यापारपरो भव।

तच्छ्रुत्वा रासभ आह — भो न वेत्सि गीतरसं वनाश्रयत्वात्।तेनैतद् ब्रवीषि। उक्तं च

शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ।
धन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा॥

शृगाल आह

माम, अस्त्येतत्परं न वेत्सि त्वं गीतम्। केवलंविरौषि। तत्किं तेन स्वार्थभ्रंशकेन। रासभ आह —

धिग् धिङ् मूर्ख,किमहं न वेद्मि गीतम्। जानाम्यस्य भेदानपि।

शृगाल आह—

माम, यद्येवं तदहं तावद्वतेर्द्वारे स्थितः क्षेत्रपमवलोकयामि। त्वं पुनः स्वेच्छया गीतं कुरु। तथानुष्ठिते रासभरटनमाकर्ण्य क्षेत्रपः क्रोधात् प्रधावितः। यावद्रासभो दृष्टस्तावल्लकुटप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः।

पञ्चतन्त्रे

समासविवरणम्

चौरकर्मप्रवृत्तौ = चौरस्य कर्म चौरकर्म। ( ष. त. )
चौरकर्मणि प्रवृत्तौ। सप्तमीतत्पुरुषः

क्षेत्रमध्यस्थितः = क्षेत्रस्य मध्यम् क्षेत्रमध्यम्। ( ष. त. )
क्षेत्रमध्ये स्थितः। सप्तमीतत्पुरुष.

गीतझङ्कारजा = गीतस्य झङ्कारः गीतझङ्कारः। ( ष.त )
गीतझङ्कारात् जाता। उपपदतत्पुरुषः

क्षेत्रपः = क्षेत्रं पाति इति। उपपदतत्पुरुषः

स्वाध्यायः

वियुज्य पदानि लिखत—

कस्मिंश्चिदधिष्ठान उद्धतो नाम, यतश्चौरकर्मप्रवृतावावाम्, तज्जक्षिहि,दृष्टस्तावल्लकुटप्रहारैस्तथा.

विग्रहं कुरुत

गानप्रियः, मदोद्धतः, रक्षापुरुषः, शरज्ज्योत्स्नाहते.

वाक्यानि रचयत

यदा लक्ष्मणः भार्गववृत्तान्तम् अदर्शयत् तदा रामः अवदत् किम्(अदस्) (दृष्ट)

सीतायाः अग्निशुद्धिस्मरणेन रामः तथा ( दुःखित ) ( भू ) यथा ( चित्रपटदर्शन ) अपि ( असमर्थ ) जातः।
( धन्य ) ते ( यद् ) बालानाम् अङ्गरजसा ( मलिनीभू )सुभद्रार्जुनयोःविवाहेन ( यादव ) ( पाण्डव ) च सम्बन्धः जातः।


चतुस्त्रिंशः पाठः

द्वितीयो गणः

‘या’ परस्मैपदम्

वर्तमानकालः भूतकालः
यामि यावः यामः अयाम् अयाव अयाम
यासि याथः याथ अयाः अयातम् अयात
याति यातः यान्ति अयात् अयाताम् अयान्- अयुः
आज्ञार्थः विध्यर्थः
यानि याव याम यायाम् यायाव यायाम
याहि यातम् यात यायाः यायातम् यायात
यातु याताम् यान्तु यायात् यायाताम् यायुः

एवंपा, ख्या, स्ना इत्यादय आकारान्ता धातवः।

‘स्वप्’ परस्मैपदम्

वर्तमानकालः भूतकालः
स्वपिमि स्वपिवः स्वपिमः अस्वपम् अस्वपिव अस्वपिम
स्वपिषि स्वपिथः स्वपिथ अस्वपीः- अस्वपः अस्वपितम् अस्वपित
स्वपिति स्वपितः स्वपन्ति अस्वपीत् - अस्वपत् अस्वपिताम् अस्वपन्
आज्ञार्थः विध्यर्थः
स्वपानि स्वपाव स्वपाम स्वप्याम् स्वप्याव स्वप्याम
स्वपिहि स्वपितम् स्वपित स्वप्याः स्वप्यातम् स्वप्यात
स्वपितु स्वपिताम् स्वपन्तु स्वप्यात् स्वप्याताम् स्वप्युः

एवंश्वस्, अन्, जक्ष्, रुद्च । ‘जक्ष्’ ‘रुद्’ इत्यनयो
धात्वोः निम्नलिखितानि विशिष्टानि रूपाणि आलक्षयितव्यानि।

जक्ष् वर्त. तृ. पु. ब. व. जक्षति भूत. तृ. पु. ब. व. अजक्षुःआ. तृ. पु. ब. व. जक्षतु

रुद् वर्त. ए . वचनानि रोदिमि, रोदिषि रोदिति. भूत. ए . वचनानिअरोदम्, अरोदीः - अरोदः, अरोदीत् - अरोदत्. आ. प्र. पु.रोदानि, रोदाव, रोदाम. तृ. पु. ए. व. रोदितु.

‘अस्’ परस्मैपदम्

आज्ञार्थः विध्यर्थः
असानि असाव असाम स्याम् स्याव स्याम
एधि स्तम् स्त स्याः स्यातम् स्यात
अस्तु स्ताम् सन्तु स्यात् स्याताम् स्युः

‘आस्’ आत्मनेपदम्

वर्तमानकालः भूतकालः
आसे आस्वहे आस्महे आसि आस्वहि आस्महि
आस्से आसाथे आध्वे आस्थाः आसाथाम् आध्वम्
आस्ते आसाते आसते आस्त आसाताम् आसत
आज्ञार्थः विध्यर्थः
आसै आसावहै आसामहै आसीय आसीवहि आसीमहि
आस्स्व आसाथाम् आध्वम् आसीथाः आसीयाथाम् आसीध्वम्
आस्ताम् आसाताम् आसताम् आसीत आसीयाताम् आसीरन्

‘इ’ परस्मैपदम्

वर्तमानकालः भूतकालः
एमि इवः इमः आयम् ऐव ऐम
एषि इथः इथ ऐः ऐतम् ऐत
एति इतः यन्ति ऐत् ऐताम् आयन्
आज्ञार्थः विध्यर्थः
अयानि अयाव अयाम इयाम् इयाव इयाम
इहि इतम् इत इयाः इयातम् इयात
एतु इताम् यन्तु इयात् इयाताम् इयुः

‘चक्ष्’ आत्मनेपदम्

वर्तमानकालः भूतकालः
चक्षे चक्ष्वहे चक्ष्महे अचक्षि अचक्ष्वहि अचक्ष्महि
चक्षे चक्षाथे चड्ढ्वे अचष्ठाः अचक्षाथाम् अचड्ढ्वम्
चष्टे चक्षाते चक्षते अचष्ट अचक्षाताम् अचक्षत
आज्ञार्थः विध्यर्थः
चक्षै चक्षावहै चक्षामहै चक्षीय चक्षीवहि चक्षीमहि
चक्ष्व चक्षाथाम् चड्ढ्वम् चक्षीथाः चक्षीयाथाम् चक्षीध्वम्
चष्टाम् चक्षाताम् चक्षताम् चक्षीत चक्षीयाताम् चक्षीरन्

पञ्चत्रिंशः पाठः

देवस्याभिभवः

एकदा स्वर्गपतिरिन्द्रो मरुतां सभायां भगवतः श्रीमहावीरस्यमहिमानमस्तौत्। सर्वदेवानां मध्यादेकेन सुमनसा नाम मरुता तन्नाभिनन्दितम्। यतः परगुणश्रवणेन सर्वः प्रीणातीति नास्ति नियमः।स देवस्तु शङ्कितहृदयो भगवतो जिनवरस्य बलतेजसी परीक्षितुंनिश्चयमकरोत्। अमरराजमनापृच्छ्यैव च स तदर्थं गतः। तदाश्रीभगवान्महावीरो बाले वयसि वर्तते समवयोभिर्मित्रैश्च सहक्रीडति। तत्र गत्वा प्रथममसौ सुमना महासर्पस्य रूपं धारयित्वासमीपस्थं वृक्षं वेष्टित्वा स्थितः। तं महाफणिनं दृष्ट्वा सर्वे क्रीडारताबालाः प्रद्रुता भयव्याकुलमनसः।

ततः सुमना देवस्तुल्यवयसो बालस्य रूपं धारयित्वा क्रीडायांनिमग्नः। तस्यां क्रीडायां पराजिता बाला जयिनः शिरसि धृत्वागच्छन्ति। असौ देवोऽप्यात्मानं पराजितं दर्शयित्वा भगवन्तं महावीरं शिरस्यधारयत्स्वं रूपं च सप्ततालोपमं कृत्वा गन्तुं प्रवृत्तः।तद्दृष्ट्वा भगवन्तं च नीयमानं प्रेक्ष्यान्ये बाला भीता इतस्ततः प्राद्रवन्। तान्विषण्णां ज्ञात्वा श्रीभगवानात्मनस्तेजस्तस्मै देवाय दर्शयितुं मनस्यकरोत्। एकेनैव मुष्टिना स कारुणिको भगवान्सुमनसःशिरसि प्राहरत्। तेनासौ निश्चेष्टो भूत्वा भूमावपतत्। कथं कथमप्युत्थायातीव लज्जितोऽसौ स्वस्थानं गतः।

समासविवरणम्

अमरराजः = अमराणाम् राजा अमरराजः। ( ष. त. )

स्वाध्यायः

विग्रहं कुरुत —

परगुणश्रवणेन शङ्कितहृदयः, समवयोभिः, महाफणिनम्, भयव्याकुलमनसः.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत—

मरुताम्, भगवतः अस्तौत्, महिमानम्, प्रीणाति, परीक्षितुम्,जयिनः, प्राद्रवन्.

समासान् योजयत

सुमनसा क्रीडायां निमग्नाः बालाः दृष्टाः।
देवस्य सप्ततालोपमात् रूपात् भीताः बालाः प्राद्रवन्।
अतुला शक्तिः यस्य सः महावीरः सुमनसं पराजयत।


षट्त्रिंशः पाठः

सान्तः पुंलिङ्गः ‘सुमनस्’ शब्दः

विभक्तिः ए. व. द्विव. ब. व.
प्रथमा सुमनाः सुमनसौ सुमनसः
द्वितीया सुमनसम् सुमनसौ सुमनसः
तृतीया सुमनसा सुमनोभ्याम् सुमनोभिः
चतुर्थी सुमनसे सुमनोभ्याम् सुमनोभ्यः
पञ्चमी सुमनसः सुमनोभ्याम् सुमनोभ्यः
षष्ठी सुमनसः सुमनसोः सुमनसाम्
सप्तमी सुमनसि सुमनसोः सुमनस्सु
सम्बोधनम् सुमनः सुमनसौ सुमनसः

सान्तः नपुंसकलिङ्गः ‘तेजस्’ शब्दः

प्रथमा तेजः तेजसी तेजांसि
द्वितीया तेजः तेजसी तेजांसि
सम्बोधनम् तेजः तेजसी तेजांसि

शेषं पुंल्लिङ्गवत्।

एवं वयस्, शिरस्, ओजस् इत्यादयः

सान्तः नपुंसकलिङ्गः ‘चक्षुस्’ शब्दः

प्र. द्वि० सम्बो. चक्षुः चक्षुषी चक्षूंषि
तृतीया चक्षुषा चक्षुर्भ्याम् चक्षुर्भिः
चतुर्थी चक्षुषे चक्षुर्भ्याम् चक्षुर्भ्यः
पञ्चमी चक्षुषः चक्षुर्भ्याम् चक्षुर्भ्यः
षष्ठी चक्षुषः चक्षुषोः चक्षुषाम्
सप्तमी चक्षुषि चक्षुषोः चक्षुःषु

एवं धनुस्, हविस्, आयुस् इत्यादयः

द्वितीयो गणः

स्तु

परस्मैपदम् वर्तमानकालः आत्मनेपदम्
स्तौमि स्तुवः स्तुमः स्तुवे स्तुवहे स्तुमहे
स्तवीमि स्तुवीव स्तुवीमः स्तुवीवहे स्तुवीमहे
स्तौषि स्तुथः स्तुथ स्तुषे स्तुवाथे स्तुध्वे
स्तवीषि स्तुवीथः स्तुवीथ स्तुवीषे स्तुवीध्वे
स्तौति स्तुतः स्तुवन्ति स्तुते स्तुवाते स्तुवते
स्तवीति स्तुवीतः स्तुवीते
भूतकालः
अस्तवम् अस्तुव अस्तुम अस्तुवि अस्तुवहि अस्तुमहि
अस्तुवीव अस्तुवीम अस्तुवीवहि अस्तुवीमहि
अस्तौः अस्तुतम् अस्तुत अस्तुथाः अस्तुवाथाम् अस्तुध्वम्
अस्तवीः अस्तुवीतम् अस्तुवीत अस्तुवीथाः अस्तुवीध्वम्
अस्तौत् अस्तुताम् अस्तुवन् अस्तुत अस्तुवाताम् अस्तुवत
अस्तवीत् अस्तुवीताम् अस्तुवीत
आज्ञार्थः
स्तवान स्तवाम स्तवाम स्तवै स्तवावहै स्तवामहै
स्तुहि स्तुतम् स्तुत स्तुष्व स्तुवाथाम् स्तुध्वम्
स्तुवीहि स्तुवीतम स्तुवीत स्तुवीष्व स्तुवीध्वम्
स्तौतु स्तुताम् स्तुवन्तु स्तुताम् स्तुवाताम् स्तुवताम्
स्तवीतु स्तुवीताम् स्तुवीताम्
विध्यर्थः
स्तुयाम् स्तुयाव स्तुयाम स्तुवीय स्तुवीवहि स्तुवीमहि
स्तुवीयाम् स्तुवीयाव स्तुवीयाम

इ. इ.

एवं रु परस्मैपद एव।


सप्तत्रिंशः पाठः

रावणाधिक्षेपः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
आर्ता दीनस्वरा दीनं प्रत्यभाषत तं शनैः॥

निवर्तय मनो मत्तः स्वजने प्रीयतां मनः।
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्॥

साधु धर्ममवेक्षस्व साधु साधुव्रतं चर।
यथा तव तथान्येषां रक्ष्या दारा निशाचर॥

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे।
यथा हि विपरीता ते बुद्धिराचारवर्जिता॥

अकृतात्मानमासाद्य राजानमनये रतम्।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च॥

तथैव त्वां समासाद्य लङ्का रत्नौघसङ्कुला।
अपराधात्तवैकस्य न चिराद्विनशिष्यति॥

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा।
अनन्या राघवेणाहं भास्करेण यथा प्रभा॥

साधु रावण रामेण मां समानय दुःखिताम्।
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्॥

एवं ते च भवेत्स्वस्ति सम्प्रदाय रघूत्तमे।
अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्॥

रामायणे

स्वाध्यायः

विग्रहं कुरुत —

दीनस्वरा, पापकृत्, निशाचर, रत्नौघसङ्कुला, रघूत्तमे.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

रक्षसः, निवर्तय, मनः, प्रीयताम्, अवेक्षस्व, विनशिष्यति, सम्प्रदाय.

पूर्वकालवाचकानां स्थाने क्रियापदानि योजयत

रावणस्य वचनं श्रुत्वा सीता प्रत्यभाषत।
सततालोपमं रूपं कृत्वा सुमना गन्तुं प्रवृत्तः।
तान्विषण्णाञ् ज्ञात्वा देवः सुमनसेऽकुप्यत्।
आपदं प्राप्य त्वं विनश्यसि।


अष्टात्रिंशः पाठः
शून्यहृदया शकुन्तला

<MISSING_FIG href="../books_images/U-IMG-173398781722.png"/>

( नेपथ्ये )

आः

तिथिपरिभाविनि,

विचिन्तयन्तीयमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथांप्रमत्तः प्रथमं कृतामिव॥

प्रियंवदा — हा धिक्। हा धिक्। अप्रियमेव संवृत्तम्। कस्मिन्नपिपूजार्हेऽपराद्धा शून्यहृदया शकुन्तला (पुरोऽवलोक्य) न खलु यस्मिन्कस्मिन्नपि। एष दुर्वासाःसुलभकोपो महर्षिः। तथा शप्त्वा वेगबलोत्फुल्लयादुर्वारया गत्या प्रतिनिवृत्तः।

अनसूया —कोऽन्यो हुतवहाद्दग्धुं प्रभवति। गच्छ। पादयोःप्रणम्य निवर्तयैनं यावदहमर्धोदकमुपकल्पयामि।

प्रियंवदा

तथा ( इति निष्क्रान्ता )

अनसूया

(पदान्तरे स्खलितं निरूप्य ) अहो, आवेगस्खलितयागत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम्।

( प्रविश्य )

प्रियंवदा

प्रकृतिवक्रः सः कस्यानुनयं प्रतिगृह्णाति। किमपिपुनः सानुक्रोशः कृतः।

अनसूया

तस्मिन्बह्वेतदपि। कथय

प्रियंवदा

यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया। भगवन्। प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य इति।

अनसूया

ततस्ततः

प्रियंवदा

ततो न मे वचनमन्यथा भवितुमर्हति। किन्त्वभिज्ञानाभरपादर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः।

अनसूया

शक्यमिदानीमाश्वासयितुम्। अस्ति तेन राजर्षिणासम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम्। तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति।

प्रियंवदा

सखि, एहि। देवकार्यं तावन्निर्वर्तयावः।

( इति परिक्रामतः )

प्रियंवदा

( विलोक्य ) अनसूये, पश्य तावत्। वामहस्ते वदनमुपदधानालिखितेव प्रियसखी। भर्तृगतया चिन्तयात्मानमपि नैषाविभावयति। किं पुनरागन्तुकम्।

अनसूया

प्रियंवदे, द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु।रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी।

प्रियंवदा

को नामोष्णोदकेन नवमल्लिकां सिञ्चति।

अभिज्ञानशाकुन्तले

स्वाध्यायः

विग्रहं कुरुत—

शून्यहृदया, अनन्यमानसा, तपोधनम्, अर्घोदकम्, प्रकृतिवक्रः,सानुक्रोशः, राजर्षिणा, भर्तृगतया.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

वेत्सि, दुर्वासाः, प्रतिगृह्णाति, भगवता, पिनद्धम् .

** वाक्यानि रचयत**—

( सुमनस् ) नाम देवः ( महावीर ) अपराद्धः।
रावणं हन्तुम् ( राम ) कः अन्यः ( प्र+भू )
( शकुन्तला ) अनवधानेन ( दुर्वासस् ) तथा क्रुद्धः यथा तां सहसैवाशपत्।
सीतायाः अग्निदिव्यमपि ( लोकप्रवाद ) अन्यथा ( कृ ) न प्रभवति।
देवाः अपि ( अस्मद् ) धर्षयितुं न ( शक् ) किं पुनः ( राम ) इतिरावणः सीता (वद् )


नवत्रिंशः पाठः

भगवाञ् जाबालिः

आलोक्य चाहमचिन्तयम्। अहो प्रभावस्तपसाम् इयमस्यशान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामिनीय चक्षुषःप्रतिहन्ति तेजांसि। सततमुदासीनापि भयमिवोपजनयति प्रथमोपगतस्य। नित्यमसहिष्णु तपस्विनां प्रतनुतपसामपि तेजः प्रकृत्यादुःसहं भवति। किमुत दर्शनानि। धन्यमिदमाश्रमपदमयमधिपतिर्यत्र। एष प्रवाहः करुणारसस्य। सन्तरणसेतुः संसारसिन्धोः।आधारः क्षमाम्भसाम्। परशुस्तृष्णालतागहनस्य। सागरः सन्तोषामृतस्य। उपदेष्टा सिद्धिमार्गस्य। अनवकाशो विषयाणाम्।अनभिमुखः सुखानाम्। अस्य भगवतः प्रसादादेवोपशान्तवैरमपग-

तमत्सरं तपोवनम्। अहो प्रभावो महात्मनाम्। अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तान्तरात्मानः पशुपक्षिणोऽपि तपोवनवसतिसुखमनुभवन्ति।

कादम्बर्याम्

द्वितीयो गणः

‘हन्’ परस्मैपदम्

वर्तमानकालः भूतकालः
हन्मि हन्वः हन्मः अहनम् अहन्व अहन्म
हंसि हथः हथ अहन् अहतम् अहत
हन्ति हतः घ्नन्ति अहन् अहताम् अघ्नन्
आज्ञार्थः विध्यर्थः
हनानि हनाव हनाम हन्याम् हन्याव हन्याम
जहि हतम् हत हन्याः हन्यातम् हन्यात
हन्तु हताम् घ्नन्तु हन्यात् हन्याताम् हन्युः

समासविवरणम्

संसारसिन्धुः = संसारः सिन्धुः इव।} कर्मधारयः
संसारः एव सिन्धुः।} कर्मधारयः

सन्तोषामृतम् = सन्तोषःअमृतम् इव।} कर्मधारयः
सन्तोषः एव अमृतम्।} कर्मधारयः

स्वाध्यायः

विग्रहं कुरुत—

उत्तप्तकनकावदाता, प्रतनुतपसाम्, सन्तरणसेतुः, अनवकाशः, उपशान्तवैरम्, तपोवनवसतिसुखम्.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

तपसाम्, इयम्, चक्षुषः, प्रतिहन्ति, तपस्विनाम्, उपदेष्टा, महात्मनाम्.


चत्वारिंशः पाठः

कृष्णस्तुतिः

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनंतरूप॥

वायुर्यमोऽग्निर्वरुणःशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते॥

नमः पुरस्तादथ पृष्ठतस्ते नमोस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः॥

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥

श्रीमद्भगवद्गीतासु

स्वाध्यायः

वियुज्य पदानि लिखत—

लोकत्रयेऽप्यप्रतिमप्रभावः, पितेव, प्रियायार्हसि .

** एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत**—

रक्षांसि, धाम, समाप्नोषि, ततम्, ईड्यम्, सोढुम्.

वाक्यानि रचयत—

स्थाने खलु ( दमयन्ती ) नलो ( वृत )
अस्थाने खलु ( दुर्वासस् ) कोपः।
सीता ( राम ) परं ( निधानम् )
महावीरः( सुमनस् ) अपराधं क्षन्तुम् (अर्ह् )


एकचत्वारिंशः पाठः

शशकरक्षकः शशाङ्कः

<MISSING_FIG href="../books_images/U-IMG-173398807821.png"/>

कदाचिद्वर्षास्वपि वृष्टेरभावात्तृषार्तं गजयूथं यूथपतिमाह —नाथ,कोऽभ्युपायोऽस्माकं जीवनाय। नास्त्यत्र क्षुद्रजन्तूनां निमज्जनस्थानम्। वयं तु निमज्जनाभावादन्धा इव। क्व यामः। किं कुर्मः। ततोहस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान्। ततो दिनेषुगच्छत्सु निमज्जनार्थमागच्छन्तो गजाः पादाहतिभिस्तत्तीरावस्थितान् क्षुद्रशशकान्क्षुन्दन्ति। अनन्तरं शिलीमुखो नाम शशकोऽचिन्तयत् —अनेन गजयूथेन निमज्जनोत्सुकेन प्रत्यहमत्रागन्तव्यम्।अतो विनश्यत्यस्मत्कुलम्।

ततो विजयो नाम वृद्धशशकोऽभ्यदधात्—बिभीत। मयाऽत्रप्रतीकारः कर्तव्यः। ततोऽसौ प्रतिज्ञाय चलितः। मार्गे च तेनालोचितम् —कथमहं गजयूथसमीपे हस्तिराजमनुयुञ्जीय।

अतोऽहं पर्वतशिखरमारुह्य यूथनाथमभिदधामि। तथानुष्ठितेयूथनाथोऽब्रवीत् — कस्त्वम्। कुतः समायातः। स ब्रूते —शशकोऽहम्।भगवांश्चन्द्रमा मां भवदन्तिकं प्राहिणोत्। यूथपतिराह —कार्यमुच्यताम्। विजयो ब्रूते

उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा।
सदैवावध्यभावेन यथार्थस्य हि वाचकः॥

तदहं भगवतो चन्द्रमस आज्ञया ब्रवीमि। शृणु। यदेताञ् चन्द्रसरोरक्षकाञ् शशकांस्त्वमतृणेट् तन्न युक्तं कृतम्। यतस्ते शशकाश्चिरमस्माकं रक्षिता अत एव मे शशाङ्क इति प्रसिद्धिः।

एकमुक्तवति दूते यूथपतिर्भयादिदमाह —

इदमज्ञानतः कृतम्।पुनर्न गमिष्यामि। दूतोऽब्रवीत् —

यद्येवं तदत्र सरसि कोपात्कम्पमानंभगवन्तं शशिनं प्रणम्य प्रसाद्य गच्छ। ततो रात्रौ यूथपतिं नीत्वाजले चञ्चलं चन्द्रबिम्बमदर्शयत्। यूथपतिश्च प्रणामं कृत्वावदत्—

देव, अज्ञानान्मयापराधः कृतः। ततः क्षम्यताम्। नैवं वारान्तरंविदधामि। इत्युक्त्वा प्रस्थितः।

पञ्चतन्त्रे

स्वाध्यायः

वियुज्य पदानि लिखत—

निमज्जनाभावादन्धा इव, भगवांश्चन्द्रमा माम्, चन्द्रसरोरक्षकांञ् शशकांस्त्वम्, अज्ञानान्मयापराधः.

विग्रहं कुरुत—

निमज्जनस्थानम्, हस्तिराजः, तत्तीरावस्थितान्, निमज्जनोत्सुकेन.

समासान् योजयत—

वनस्य राजा अन्येन हतं सत्त्वं न कदापि भक्षयति।
गजयूथं चन्द्रमसः भयेन अन्यं तडागं गतम्।
विषयः एव कान्तारम् महात्मना छिद्यते।
कासारस्य तटे स्थिताः शशकाः करिभिः क्षुद्यन्ते।


द्वाचत्वारिंशः पाठः

सप्तमो गणः

क्षुद्

परस्मैपदम् आत्मनेपदम्
वर्तमानकालः
क्षुणद्मि क्षुन्द्वः क्षुन्द्मः क्षुन्दे क्षुन्द्वहे क्षुन्द्महे
क्षुणत्सि क्षुन्त्थः क्षुन्त्थ क्षुन्त्से क्षुन्दाथे क्षुन्द्ध्वे
क्षुणत्ति क्षुन्तः क्षुन्दन्ति क्षुन्ते क्षुदाते क्षुन्दते
भूतकालः
अक्षुणदम् अक्षुन्द्व अक्षुन्द्म अक्षुन्दि अक्षुन्द्वहि अक्षुन्द्महि
अक्षुणः-त्-द् अक्षुन्तम् अक्षुन्त अक्षुन्त्थाः अक्षुन्दाथाम् अक्षुन्द्ध्वम्
अक्षुणत्-द् अक्षुन्ताम् अक्षुन्दन् अक्षुन्त अक्षुन्दाताम् अक्षुन्दत
आज्ञार्थः
क्षुणदानि क्षुणदाव क्षुणदाम क्षुणदै क्षुणदावहै क्षुणदामहै
क्षुन्द्वि क्षुन्तम् क्षुन्त क्षुन्स्व क्षुन्दाथाम् क्षुन्द्ध्वम्
क्षुणत्तु क्षुन्ताम् क्षुन्दन्तु क्षुन्ताम् क्षुन्दाताम् क्षुन्दताम्
विध्यर्थः
क्षुन्द्याम् क्षुन्द्याव क्षुन्द्याम क्षुन्दीय क्षुन्दीवहि क्षुन्दीमहि

इ. इ.

एवं भिद्, खिद्, छिद् इत्यादयः।

युज्

परस्मैपदम् आत्मनेपदम्
वर्तमानकालः
युनज्मि युञ्ज्वः युञ्ज्म युञ्जे युञ्ज्वहे युञ्ज्महे
युनक्षि युङ्क्तः युङ्क्त युङ्क्षे युञ्जाथे युङ्ग्ध्वे
युनक्ति युङ्क्तः युञ्जन्ति युङ्क्ते युञ्जाते युञ्जते
भूतकालः
अयुनजम् अयुञ्ज्व अयुञ्ज्म अयुञ्जि अयुञ्ज्वहि अयुञ्ज्महि
अयुनक्-ग् अयुङ्क्तम् अयुङ्क्त अयुङ्क्थाः अयुञ्जाथाम् अयुङ्ग्ध्वम्
अयुनक्-ग् अयुङ्क्ताम् अयुञ्जन् अयुङ्क्त अयुञ्जाताम् अयुञ्जत
आज्ञार्थः
युनजानि युनजाव युनजाम युनजै युनजावहै युनजामहै
युङ्ग्धि युङ्क्तम् युङ्क्त युङ्क्ष्व युञ्जाथाम् युङ्ग्ध्वम्
युनक्तु युङ्क्ताम् युञ्जन्तु युङ्क्ताम् युञ्जाताम् युञ्जताम्
विध्यर्थः
युञ्ज्याम् युञ्ज्याव युञ्ज्याम युञ्जीव युञ्जीवहि युञ्जीमहि

इ. इ०

एवं भुज्।

‘तृह्’परस्मैपदम्

वर्तमानकालः भूतकालः
तृणेह्मि तृंह्वः तृंह्म अतृणहम् अतुंह्व अतृंह्म
तृणेक्षि तृण्ढः तृण्ढ अतृणेट्-ड् अतृण्ढम् अतृण्ढ
तृणेढि तृण्ढः तृंहन्ति अतृणेट्-ड् अतृण्ढाम् अतृंहन्
आज्ञार्थः विध्यर्थः
तृणहानि तृणहाव तृणहाम तृंह्याम् तृंह्याव तृंह्याव
तृण्ढि तृण्ढम् तृण्ढ तृंह्याः तृंह्यातम् तृंह्यात
तृणेढु तृण्ढाम् तृंहन्तु तृंह्यात् तृंह्याताम् तृंह्युः

त्रयश्चत्वारिंशः पाठः

वैशम्पायन आत्मानं निर्भर्त्सयते

अनुपजातपक्षतया नातिस्थिरचरणसंचारस्य मुहुर्मुहुरधोमुखेनापततो ममाभवन्मनसि। अतिकष्टासु दशास्वपि जीवितनिरपेक्षान खलु भवन्ति जगति प्राणिनां वृत्तयः। नास्ति जीवितादन्यदभिमततरमिह जगति जन्तूनाम्। एवमुपरतेऽपि ताते यदहमविकलेन्द्रियः पुनरेव प्राणिमि। धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम्। खलंहि खलु मे हृदयम्। यतो लोकान्तरमुपगतायामम्बायां नियम्य शोकावेगमाप्रसवदिवसात्परिणतवयसापि तातेन तैस्तैरुपायैर्यदहं परिपालितस्तत्सर्वमेकपदे मया विस्मृतम्। अतिकृपणाः खल्वमी प्राणायदुपकारिणमपि तातमद्यापि गच्छन्तं नानुगच्छन्ति। सर्वथा नकंचिन्न खलीकरोति जीविततृष्णा यदीदृगवस्थमपि मामायासयतिजलाभिलाषः। अद्यापि दूरत एव सरस्तीरम्। तथा हि जलदेवतानूपुररवानुकारि दूरेऽद्यापि कलहंसविरुतम्। अस्फुटानि श्रूयन्तेसारसरसितानि। सीदति मे हृदयम्। अन्धकारतामुपयाति चक्षुः।अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्यैवोपपादयेत्।

कादम्बर्याम्

स्वाध्यायः

विग्रहं कुरुत —

अविकलेन्द्रियः, अकरुणम्, लोकान्तरम्, ईदृगवस्थम्, जलदेवतानूरपुरवानुकारि.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत —

मनसि, प्राणिनाम्, प्राणिमि, परिणतवयसा, अमी, उपयाति, उपपादयेत्.

** युक्तानि अव्ययानि योजयत**—

— गजवञ्चकं शशकम्।
—मरणम्— एतद् दुःखोपहतं जीवितम्।

धन्यः———

जाबालेःआश्रमः।
———

वृद्धशशकः गजयूथप्रतीकारे नियुक्तः।
———

रामभद्रः इदं वनं पुनरपि अलङ्कुर्यात्।
खलु, स्थाने, धिक्, अपि नाम, वरम् ———

न.


चतुश्चत्वारिंशः पाठः

अतिलोभो न कर्तव्यः

अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः। तस्य चकृषिकर्म सदैव निष्फलं भवति। अथैकस्मिन्दिने स ब्राह्मण उष्णकालावसाने घर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्त आसीत्।उत्थितश्च नातिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भीषणंभुजङ्गमं दृष्ट्वाबिभेदचिन्तयच्च— नूनमेषा क्षेत्रदेवता मया कदाचिदपि नपूजिता। तदेनं मे कृषिकर्म विफलीभवति। तदस्या अहं पूजामद्यविदधामि। इत्यवधार्य कुतोऽपि क्षीरमानीय सः शरावमपिपः।वल्मीकान्तिके शरावं न्यदधादभ्यदधाच्च – भोः क्षेत्रपाल, मयैतावन्तं कालं न ज्ञातं यत्त्वमत्र वसति। तेन पूजा न कृता। तत्साम्प्रतंक्षमस्व। विधेहि मे कल्याणमिति। एवमुक्त्वा दुग्धं च निवेद्यगृहमजिहीत। अथ प्रातर्यावदागत्य पश्यति तावद्दीनारमेकं शरावेदृष्टवान्। एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति।एकैकं च दीनारं गृह्णाति।

अथैकस्मिन्दिवसे ब्राह्मणो वल्मीके क्षीरनयनाय पुत्रं न्ययुङ्क्तग्रामान्तरमजिहीत च। पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य चपुनर्गृहं समायातः। दिनान्तरे तत्र गत्वा दीनारमेकं च दृष्ट्वागृहीत्वाच चिन्तितवान्—

नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः। तदेनं हत्वासर्वमेकवारं ग्रहीष्यामि। इत्येवं सम्प्रधार्यान्येद्युर्ब्राह्मणपुत्रेण सर्पोलगुडेन शिरसि ताडितः। ततः स सर्पः कथमपि दैवादमुक्तजीवित

एव रोषात्तमेव तीव्रविषदर्शनैस्तथादशद्यथा ब्राह्मणपुत्रः सद्यःपञ्चत्वं गतः।

अथ द्वितीयदिने तस्य पिता समायातः। स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा स आह – यो भूतान्नानुगृह्णाति तस्य भूतार्थानश्यन्त्येव। पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वातारस्वरेण सर्पमस्तौत्। तदा सर्पश्चिराद्ब्राह्मणमभ्यदधात्—

त्वंलोभादत्रागतः पुत्रशोकमपि विहाय। एवं कुर्वन्न जिह्रेषि किम्।अतः परं तव मम च प्रीतिर्नोचिता। तदेनं वल्मीकंजहामि।इत्युक्त्वा बहुमूल्यं हरिकमणिं तस्मा अददात्क्षेत्रं चाजहात्।ब्राह्मणोऽपि मणिं गृहीत्वा दुःखितो गृहमागतः।

पञ्चतन्त्रे

समासविवरणम्

प्रतिदिनम् = दिने दिने प्रतिदिनम्। अव्ययीभावः

स्वाध्यायः

प्रयोगान्तरं कुरुत—

एषा क्षेत्रदेवता मया न पूजिता।
हरिदत्तः शरावे दीनारं दृष्टवान्।
ब्राह्मणपुत्रेण सर्पोलगुडेन शिरसि ताडितः।
ब्राह्मणः सर्पं तारस्वरैणास्तौत्।
ब्राह्मणः प्रतिदिनमेकैकं दीनारं गृह्णाति।
अस्फुटानि श्रूयन्ते सारसरसितानि मया।
गतवयसापि तातेन तैस्तैरुपायैरहं परिपालितः।


पञ्चचत्वारिंशः पाठः

तृतीयो गणः

धा

परस्मैपदम् आत्मनेपदम्
वर्तमानकालः
दधामि दध्वः दध्मः दधे दध्वहे दध्महे
दधासि धत्थः धत्थ धत्से दधाते धद्ध्वे
दधाति धत्तः दधति धत्ते दधाते दधते
भूतकालः
अदधाम् अदध्व अदध्म अदधि अदध्वहि अदध्महि
अदधाः अधत्तम् अधत्त अधत्थाः अदधाथाम् अधद्ध्वम्
अदधात् अधत्ताम् अदधुः अधत्त अदधाताम् अदधत
आज्ञार्थः
दधानि दधाम दधाम दधै दधावहै दधामहै
धेहि धत्तम् धत्त धत्स्व दधाथाम् धद्ध्वम्
दधातु धत्ताम् दधतु धत्ताम् दधाताम् दधताम्
विध्यर्थः
दध्याम् दध्याव दध्याम दधीय दधीवहि दधीमहि
दध्याः दध्याताम् दध्यात दधीथाः दधीयाथाम् दधीध्वम्
दध्यात् दध्यातम् दध्युः दधीत दधीयाताम् दधीरन्

एवं दा।

‘हा’ ( त्यागे ) परस्मैपदम्

वर्तमानकालः भूतकालः
जहामि जहिवः जहिमः अजहाम् अजहिव अजहिम
जहीवः जहीमः अजहीव अजहीम
जहासि जहिथः जहिथ अजहाः अजहितम् अजहित
जहीथः जहीथ अजहीतम् अजहीत
जहाति जहितः जहति अजहात् अजहिताम् अजहुः
जहीतः अजहीताम्
आज्ञार्थः विध्यर्थः
जहानि जहाव जहाम जह्याम् जह्याव जह्याम
जहाहि, जहिहि जहितम् जहित जह्याः जह्यातम् जह्यात
जहीहि जहीतम् जहीत
जहातु जहिताम् जहतु जह्यात् जह्याताम् जह्युः
जहीताम्

‘हा’ ( गमने ) आत्मनेपदम्

वर्तमानकालः भूतकालः
जिहे जिहीवहे जिहीमहे अजिहि अजिहीवहि अजिहीमहि
जिहीषे जिहाथे जिहीध्वे अजिहीथाः अजिहाथाम् अजिहीध्वम्
जिहीते जिहाते जिहते अजिहीत अजिहाताम् अजिहत
आज्ञार्थः विध्यर्थः
जिहै जिहावहै जिहामहै जिहीय जिहीवहि जिहीमहि
जिहीष्व जिहाथाम् जिहीध्वम् जिहीथाः जिहीयाथाम् जिहीध्वम्
जिहीताम् जिहाताम् जिहताम् जिहीत जिहीयाताम् जिहीरिन्

‘भी’ परस्मैपदम्

वर्तमानकालः भूतकालः
बिभेमि बिभिवः बिभिमः अबिभयम् अबिभिव अबिभिम
बिभीवः बिभीमः अबिभीव अबिभीम
बिभेषि बिभिथः बिभिथ अबिभेः अबिभितम् अबिभित
बिभीथः बिभीथ अबिभीतम् अबिभीत
बिभेति बिभितः बिभ्यति अबिभेत् अबिभिताम् अबिभयुः
बिभीतः अबिभीताम्
आज्ञार्थः विध्यर्थः
बिभयानि बिभयाव बिभयाम बिभियाम् बिभियाव बिभियाम
बिभिहि बिभितम् बिभित बिभीयाम् बिभीयाव बिभीयाम
बिभीहि बिभीतम् बिभीत इº
बिभेतु बिभिताम् बिभ्यतु
बिभीताम्

‘ह्री’ परस्मैपदम्

वर्तमानकालः भूतकालः
जिह्रेमि जिह्रीवः जिह्रीमः अजिह्रयम् अजिह्रीव अजिह्रीम
जिह्रेषि जिह्रीथः जिह्रीथ अजिह्रेः अजिह्रीतम् अजिह्रीत
जिह्रेति जिह्रीतः जिह्रियति अजिह्रेत् अजिह्रीताम् अजिह्रयुः
आज्ञार्थः विध्यर्थः
जिह्रयाणि जिह्रयाव जिह्रयाम जिह्रीयाम् जिह्रीयाव जिह्रीयाम
जिह्रीहि जिह्रीहि जिह्रीत इ०.
जिह्रेतु जिह्रीताम् जिह्रियतु

षट्चत्वारिंशः पाठः

जयद्रथवधप्रतिज्ञा

( प्रविश्य )

प्रतीहारी — ( सोद्वेगमुपसृत्य ) जयतु जयतु महाराजः। महाराज,एषा खलु जामातुः सिन्धुराजस्य माता दुःशला चप्रतीहारभूम्यां तिष्ठति।

दुर्योधनः —(स्वगतम्) किं जयद्रथमाता दुःशला चेति। कश्चिदभिमन्युवधकुपितैः पाण्डुपुत्रैर्न किञ्चिदत्याहितमाचेष्टितं भवेत्। ( प्रकाशम् ) गच्छ प्रवेशय शीघ्रम्।

प्रतिहारी —यन्महाराज आज्ञापयति। ( इति निष्क्रान्ता ) ( ततःप्रविशति सम्भ्रान्ता जयद्रथमाता दुःशला च )

उभे —( सास्रंदुर्योधनस्य पादयोः पततः )

माता —परित्रायतां परित्रायतां कुरुनाथः।

दुःशला —( रोदिति )

राजा —( ससम्भ्रममुत्थाय ) अम्ब, समाश्वसिहि। किमत्याहितम्।अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य।

माता —जात, कुतः कुशलम्।

राजा —कथमिव।

माता —( साशङ्कम् ) अद्य खलु पुत्रवधक्रुद्धेन गाण्डीविनाऽनस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः।

राजा —( सस्मितमात्मगतम्) इदं तदश्रुकारणमम्बाया दुःशलायाश्च।पुत्रशोकसन्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था। अहोमुग्धत्वबलानाम्। (प्रकाशम्) अम्ब, कृतं विषादेन।वत्से दुःशले, अलमश्रुपातेन। कुतश्चायमस्य धनञ्जयस्यप्रभावो दुर्योधनबाहुरक्षितस्य महाराजजयद्रथस्य नाशमुत्पादयितुम्।

माता —असमाप्तप्रतिज्ञस्यात्मवधोऽस्य प्रतिज्ञातः।

राजा

यद्येवमानन्दस्थानेऽपि ते विषादः। मातः, शक्तिरक्तिधनञ्जयस्यान्यस्य वा कुरुशतरक्षितस्य महाविक्रमस्यनामापि ग्रहीतुं ते तनयस्य।

भानुमती

आर्यपुत्र, यद्यप्येवं तथापि कृतप्रतिज्ञोधनञ्जयोनिदानं खलु शङ्कायाः।

माता

जाते, साधु कालोचितं त्वया मन्त्रितम्।

राजा

आ, ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः। कःकोऽत्र भोः। जैत्रं मे रथमुपपादय तावत्। यावदहमपितस्य प्रगल्भपाण्डवस्य मरणमुपपादयामि।

( इति निष्क्रान्ताः सर्वे )

वेणीसंहारे

स्वाध्यायः

विग्रहं कुरुत—

महाराजः,अभिमन्युवधकुपितैः, अनस्तमिते, दुर्योधनबाहुरक्षितस्य,असमाप्तप्रतिज्ञस्य, आत्मवधः, कालोचितम्.

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

जामातुः, रोदिति, समाश्वसिहि, गाण्डीविना, किरीटिनः, अम्ब, मातः.


सप्तचत्वारिंशः पाठः

सफलः प्राणत्यागः

** एकस्मिन्नगरे कोऽपि विप्रो महापण्डितः परं पूर्वजन्मयोगेन चौरोवर्तते। स तस्मिन्पुरेऽन्यदेशादागतांश्चतुरो विप्रान् बहूनि वस्तूनिविक्रीणानान् दृष्ट्वाचिन्तितवान्**—

अहो केनोपायेनैतेषां धनमाप्नोमि। इति विचिन्त्य तेषां पुरोऽनेकानि सुभाषितानि चातिप्रियाणिमधुराणि वचनानि जल्पंस्तेषां मनसि विश्वासमुत्पाद्य सेवांकुर्वन्नास्ते। अथवा साध्विदमुच्यते

<MISSING_FIG href="../books_images/U-IMG-173423267112.png"/>

असती भवति सलज्जा क्षारं नीरं च शीतलं भवति।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः॥

अथ तस्मिन्सेवां विदधति तैर्विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि। ततस्तानि जङ्घामध्ये तत्समक्षंप्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः। ततः स धूर्तस्तान्विप्रान्गतुमुद्यतान्प्रेक्ष्य चिन्ताव्याकुलितमनाः सञ्जातः। अहो धनमेतन्नकिंचिन्मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषं दत्त्वैतान्नित्य सर्वरत्नानि गृह्णामि। इति विचिन्त्य तेषामग्रे सकरुणंविलपन्निदमाह — भो मित्राणि, यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः।तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहाम्नैव तथाव्याकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते। यूयमनुग्रहं विधायसहायभूतं मामपि सहैव नयत। तद्वचः श्रुत्वा ते करुणार्द्रचित्तास्तेन सममेव स्वदेशं प्रति प्रस्थिताः।

** अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वाङ्क्षाःकथयितुमारब्धाः**

रे रे किराताः, धावत धावत। सुपादलक्षधनिनो यान्ति। एतान्निहत्य धनं नयत। ततः किरातैर्ध्वाङ्क्षवचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणिमोचयित्वा विलोकिताः। परं धनं किंचिन्न लब्धम्। तदा ते किराताअभ्यदधुः

भोः पान्थाः, पुरा कदापि ध्वाङ्क्षवचनमनृतं नासीत्।ततो भवतां सन्निधौ धनं क्वापि विद्यते। तदर्पयत। अन्यथा सर्वेषामपिवधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः।

तदा तेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम्—यदेतेषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति तदामामपि हनिष्यन्ति। ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि।उक्तं च—

मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥

इति निश्चित्याभिहितम् —भोः किराताः, यद्येवं ततो मां पूर्वं निहत्यविलोकयत। ततस्तैस्तथानुष्ठिते तंधनरहितमालोक्यापरेचत्वारोऽपि मुक्ताः।

पञ्चतन्त्रे

स्वाध्यायः

वियुज्य पदानि लिखत

अन्यदेशादागतांश्चतुरो विप्रान्, कुर्वन्नास्ते, जल्पंस्तेषाम्, समर्प्यैतान्.

समासान् योजयत

मधुरैः वचनैः सः विश्वासम् उदपादयत्।
स्नेहपाशेन बद्धम् मां मा जिहीत।
वणिजः देशे देशे अटन्ति।
जङ्घायां प्रक्षिप्तम् धनं चौराः न अलभन्त।
किरातेभ्यः भीताः विप्राः चौरविप्रेण रक्षिताः।


अष्टाचत्वारिंशः पाठः

वर्तमानकालवाचकानि

वर्तमानकालः वर्तमानकालवाचकं
गणः धातुः तृ० ब० व० धातुसाधितम्
परस्मैपदम् आत्मनेपदम् परस्मैपदम् आत्मनेपदम्
गम् गच्छन्ति गच्छत्
रम् रमन्ते रममाण
बुध् बोधन्ति बोधन्ते बोधत् बोधमान
स्वप् स्वपन्ति स्वपत्
चक्ष् चक्षते चक्षाण
स्तु स्तुवन्ति स्तुवते स्तुवत् स्तुवान
भी बिभ्यति बिभ्यत्
हा (गतौ) जिहते जिहान
दा ददति ददते ददत् ददान
पुष् पुष्यन्ति पुष्यत्
युध् युध्यन्ते युध्यमान
नह् नह्यन्ति नह्यन्ते नह्यत् नह्यमान
आप् आप्नुवन्ति आप्नुवत्
अश् अश्नुवते अश्नुवान
चि चिन्वन्ति चिन्वते चिन्वत् चिन्वान
विश् विशन्ति विशत्
तुद् तुदन्ति तुदन्ते तुदत् तुदमान
तृह तृंहन्ति तृंहत्
खिद् खिन्दते खिन्दान
युज् युञ्जन्ति युञ्जते युञ्जत् युञ्जान
क्षिण् क्षिण्वन्ति क्षिण्वते क्षिण्वत् क्षिण्वान
वन् वन्वते वन्वान
कृ कुर्वन्ति कुर्वते कुर्वत् कुर्वाण
अश् अश्नन्ति अश्नत्
ज्ञा जानन्ति जानते जानत् जानान
१० मन्त्र मन्त्रयन्ते मन्त्रयमाण
पीड पीडयन्ति पीडयन्ते पीडयत् पीडयमान

१. “ददत्” पुंलिङ्गे

प्र० सम्बो० ददत् ददतौ ददतः
द्वि० ददतम् ददतौ ददतः

शेषं “गरुत्” वत्।

ददत्नपुंसकलिङ्गे

प्र० द्वि० सम्बो० ददत् ददती ददति-न्ति

एवं तृतीयगणस्य परस्मैपदिनां वर्तमानकालवाचकानि।
एवं चापि ‘जक्षत्’ ’ जाग्रत्’ ‘शासत्’ ‘चकासत्’ ‘दरिद्रत्’ च।

२.“गच्छत्"पुंलिङ्गे

प्र० सम्बो० गच्छन् गच्छन्तौ गच्छन्तः
द्वि० गच्छन्तम् गच्छन्तौ गच्छतः

शेषं ‘भगवत्’ वत्

एवं तृतीयगणं विहायान्यगणानां वर्तमानकालवाचकानि।

३. “गच्छत्” नपुंसकलिङ्गे

प्र० सम्बो० द्वि. गच्छत् गच्छन्ती गच्छन्ति

शेषं पुंलिङ्गवत्

एवं चतुर्थदशमगणयोर्वर्तमानकालवाचकानि।

४ “विशत्” नपुंसकलिङ्गे

प्र. सम्बो. द्वि. विशत् विशती-न्ती विशन्ति

शेषं पुंलिङ्गवत्

एवं षष्ठगणस्य वर्तमानकालवाचकानि।
एवं चापि ‘यात्’, ‘ख्यात्’ इत्यादीनि द्वितीयगणगतानामाकारान्तधातूनां वर्तमानकालवाचकानि।

५ “चिन्वत्” नपुंसकलिङ्गे

प्र. सम्बो. द्वि. चिन्वत् चिन्वती चिन्वन्ति

शेषं पुंलिङ्गवत्

एवं द्वितीयपञ्चमसप्तमनवमगणानां वर्तमानकालवाचकानि।

६ स्त्रीलिङ्गे

प्र. ए. व. ददती गच्छन्ती विशती-न्ती चिन्वती

शेषं ‘टिट्टिभी’ वत्


नवचत्वारिंशः पाठः

विष्णुस्तुतिः

नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने॥

अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥

सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥

अजस्य गृह्णतोजन्म निरीहस्य हतद्विषः।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव॥

शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम्॥

प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिमहिमा तव।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा॥

अनवाप्तमवाप्तव्यं न ते किंचन विद्यते।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः॥

उदधेरिव रत्नानि तेजांसीव विवस्वतः।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते॥

महिमानं यदुत्कीर्त्य तव संह्रियते वचः।
श्रमेण तदशक्त्या वा न गुणानामियत्तया॥

रघुवंशे

स्वाध्यायः

विग्रहं कुरुत —

विश्वसृजे, मितलोकः, अनीशः, शब्दादीन्, आप्तवागनुमानाभ्याम्, जन्मकर्मणोः .

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत —

बिभ्रते, संहर्त्रे, गृह्णतः, हतद्विषः, तपः, विवस्वतः, संह्रियते, इयत्तया.

वाक्यानि रचयत —

अरण्ये ( वसत्) रामः राक्षसान् अहन्।
मार्गेण ( गच्छत् ) नरैः चौरः दृष्टः।
( विलपत्) दुःशलाम् दुर्योधनः समाश्वासयत्।
दीनारम् ( ददत् ) अपि सर्पे ब्राह्मणपुत्रः प्राहरत्।
राज्यधुराम् (वहत्) अपि तस्य मनसि दर्पः पदं न अकरोत्।


पञ्चाशः पाठः

भृत्यगुणाः

भृत्या अपि त एव ये स्वामिनं सम्पत्तेर्विपत्तौ सविशेषं सेवन्ते।समुन्नम्यमानाः सुतरामवनमन्ति। आलाप्यमाना न समालापाःसंजायन्ते। स्तूयमाना नोत्सिच्यन्ते। क्षिप्यमाणा नापराधं गृह्णन्ति।अनादिष्टा विदधति। कृत्वा न जल्पन्ति। पराक्रम्य न विकत्थन्ते।विकत्थ्यमाना अपि जिह्रियति। महाहवेष्वग्रतो ध्वजभूता लक्ष्यन्ते।दानकाले पलायमानाः पृष्ठतो निलीयन्ते। धनात्स्नेहं बहु मन्यन्ते।गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति। येषां च तृष्णा चरणपरिचर्यायाम्, संतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालतागुणग्रहणे, कापर्ण्यमपरित्यागे भर्तुः। ये च विद्यमानेऽप्यात्मनि नस्वाधीनसकलेन्द्रियवृत्तयः पश्यन्तोऽप्यन्धा इव शृण्वन्तोऽपि बधिरा

इव वाग्मिनोऽपि मूका इव जानन्तोऽपि जडा इवानुपहतकरचरणाअपि पङ्गवइक क्लीबाइवाकिञ्चित्कराः स्वात्मना स्वामिचित्तादर्शेप्रतिबिम्बवद्वर्तन्ते।

कादम्बर्याम्

स्वाध्यायः

एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत

विपत्तौ,स्तूयमानाः, विदधति, जिह्रियति, विद्यमाने, पश्यन्तः, शृण्वन्तः.

सत्सप्तमीं योजयत

यावत् सूर्यः तपति तावत् तमः कथम् आविर्भविष्यति।
यावत् रावणः जीवति तावत् रामस्य कुतः स्वास्थ्यम्।
यावत् अहं जयद्रथं रक्षामि तावत् न कारणं भयस्य।
यदा सूर्यः अस्तम् गतः तदा दिशः तमोवृताः अभवन्।
यदा विपदः आगच्छन्ति तदा सेवकाः सविशेषं स्वामिनं सेवन्ते।


एकपञ्चाशः पाठः

कूटानि

कस्त्वं, शूली मृगय भिषजं नीलकण्ठः प्रियेऽहं
केकामेकां कुरु, पशुपतिर्नैव दृश्ये विषाणे।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः॥

सन्ध्यावन्दनवेलायां तडागान्ते द्विजोत्तमैः।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥

अहं च त्वं च राजेन्द्र लोकनाथावुभावपि।
बहुव्रीहिरहं राजन्षष्ठीतत्पुरुषो भवान्॥

अन्तरालापाः

कस्तूरी जायते कस्मात्
को हन्ति करिणां कुलम्।

किं कुर्यात्कातरो युद्धे
मृगात्सिंहः पलायनम्॥

का शम्भुकान्ता, किमु चन्द्रकान्तम्
कान्तामुखं किं कुरुते भुजङ्गः।
कः श्रीपतिः का विषमा समस्या
गौरीमुखं चुम्बति वासुदेवः॥

व्रजन्ति पद्मानि कदा विकासम्
प्रिया गते भर्तरि किं करोति।
रात्रौ च नित्यं विरहाकुला का
सूर्योदये रोदिति चक्रवाकी॥

बहिरालापाः

आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति च॥

को दुःखी सर्वकार्येषु
किं भृशार्थस्य वाचकम्।
यो यस्माद्विरतो नित्यं
ततः किं स करिष्यति॥

सततं श्लाघते कस्मै
नीचो, भुवि किमुत्तमम्।
कर्तर्यपि रुचादीनां
धातूनां किं पदं भवेत्॥

किमिच्छति नरः काश्यां
भूपानांको रणे हितः।
को वन्द्यः सर्व देवानां
दीयतामेकमुत्तरम्॥

सुभाषितरत्नभाण्डागारे


धातुसाधितसंग्रहः

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

]