[[संस्कृत-शिक्षाक्रमः Source: EB]]
[
[TABLE]
प्रारम्भिकं वक्तव्यम्।
इह खलु संस्कृतभाषाभ्युन्नतये विद्वद्भिः संभूय ‘अखिलभारतवर्षीयं संस्कृतसाहित्यसंमेलनम्’ इतिनाम्ना विशिष्टा संस्था यतःप्रभृति प्रतिष्ठापिता, यतश्च विभिन्नेषु प्रान्तेषु प्रत्यब्दमधिवेशनान्यस्याः प्रवृत्तानि, तत एवानेन संमेलनेन सावधानमिदमालोचितम् यत् शिक्षापद्धतिसंशोधनम् एव संस्कृतोन्नतौ प्रधानो हेतुर्भवेत्। यतो हि शिक्षापद्धतावस्माकं दृश्यन्ते केचिद्बलवत्तमा दोषाः, त एव च संस्कृतविदुषामुन्नतौ प्रतिबन्धकीभूयं संस्कृतभाषाप्रचारं ह्रसयन्ति। त इमे विचार्य पूर्वं निराकरणीयाः देशकालानुकूलतया च संस्कृतशिक्षापद्धतिः परिष्कार्या। यतो हि देशकालयोरत्यन्तं विरोधे दुर्लभा कस्मिन्नपि कार्यसिद्धिः। तत्र विचार्यमाणे मुख्यतया प्रचलितायां शिक्षापद्धताविमे दोषाः प्रतिभासन्ते। (१) प्रारम्भिकशिक्षायाः काठिन्यम्। वैज्ञानिकेऽस्मिन् युगे शिक्षाविज्ञानगवेषकैः सुस्पष्टमिदं सिद्धान्तितम्-यत् प्रारम्भिकी शिक्षा यावदेव सरलत्वं प्राप्येत- तावदेव शिक्षाप्रचारसौकर्यं भवेत्। तत एवाङ्गलभाषाशिक्षाधिनायकाः प्रत्यहं प्रारम्भिकशिक्षायां सरलतामाधातुं प्रयतन्ते, तत एव च भवति तासां भाषाणां शिक्षायाः प्रत्यहमेवाधिकाधिकः प्रचारः। अस्माकं तु प्रारम्भिकी शिक्षा अद्यापि तथैव कठिना। प्रायेण संस्कृतशिक्षामन्दिरे प्रविविक्षूणामेवेच्छात्राणामग्रे पाणिनीयमन्यद्वा किमपि सूत्रनिबद्धं व्याकरणमस्माभिरवस्थाप्यते, कोषश्च केवलं
घोषणार्थम्। पूर्वं भाषापरिचयः तदनु तद्व्याकरणज्ञानम्, इत्ययं युक्तियुक्तोऽप्याधुनिकानां विदुषां घण्टाघोषो नाद्यावधि संस्कृतशिक्षकैः कर्णे क्रियते। बहवस्तु हिन्दीभाषाया अप्यपरिचितान् बालान् संस्कृतव्याकरणे कोषे च नियोजयन्ति। कुतः खल्वपरिपक्वप्रज्ञानां छात्राणां तथाविधे गहने व्याकरणे प्रवेशो भवतु। ततः किल तेच्छात्रा अध्यापकैस्ताड्यमानाः शुकत्त्वमवलम्ब्य ग्रन्थाक्षराणि कण्ठे कुर्वन्ति, न तु शिक्षाया मुख्यं प्रयोजनं प्रज्ञापरिष्कारो नाम तेषां लेशतोऽपि सिद्ध्यति। एवं प्रतिशतं सप्ततिरशीतिर्वा च्छात्राः प्रविविक्षव एव अनया द्वारपिधायिन्या दृढतरार्गलया बहिरेव निष्कास्यन्ते। तेषामेव कृते (केचिद् भ्रष्टाः सुध्युपास्यप्रयोगे) इत्यादय आभाणका- अस्मद्देशे प्रसिद्ध्यन्ति। ताँश्च संस्कृतभाषाया महत्वं ख्यापयन्तः सगर्वं वयमुदाहराम इत्यहो अस्माकं वैचित्र्यम्। कथमित्थं संस्कृतभाषायाः प्रचारः सेत्स्यति। कथं वा कोणे निलीनेयं जीवनं रक्षिप्यतीति नैव शिक्षाकर्णधारा मनागपि विचारयन्ति। दृश्यन्ते बहवश्छात्राः संस्कृतशिक्षायां प्रविष्टाः, ततो निराशा भूत्वा प्रतिनिवृत्ताश्च आङ्गलभाषायां प्रविश्य पाटवमासादितवन्तः स्वल्पेनैव कालेन। अहो सप्तसमुद्रान्तरितदेशभाषा येषां सुग्रहा, स्वीया देशभाषा स्वकीयमातृभाषा तेषां दुर्लभेति महच्चित्रम्। यद्यपि राजभाषेतिविशिष्टफललाभप्रत्याशया आंगलभाषां बहवोऽधीयते इति सत्यम्
तथापि शिक्षापद्धतिकाठिन्यमपि संस्कृतमध्येतुमिच्छतामपि प्रतिबन्धकमित्यपि नासत्यम्। पूर्वतने च संस्कृतशिक्षाप्रचारकाले संस्कृतशिक्षायाः सरलत्वाय प्रायतन्त विशिष्टप्रज्ञा इति प्रत्यक्षं पश्यामः। क्रमेण जनानां बुद्धिह्रास इत्यस्माकं दार्शनिकः सिद्धान्तः। तत एव महाभाष्यादिदुरूहग्रन्थेभ्यो व्याकरणशिक्षां कठिनामवेक्ष्य काशिकाधातुवृत्तिप्रभृतयो ग्रन्थास्तैस्तैर्विद्वद्भिर्निरमाषत शिक्षासौकर्यार्थमेव। अथ ततोऽपि बोधे कालेन काठिन्यमालक्ष्य सिद्धान्तकौमुदी भट्टोजिदीक्षितमहाशयेन सौकर्यमेवोद्दिश्य विरचिता। तत्रापि काठिन्यं निध्याय तत्रभवान् वरदराजो लघुकौमुदीं निर्ममे। इदानीं तु कालक्रमेण साध्यतिकठिनेवाभातिच्छात्राणाम् परं नेदानीं सौकर्यार्थमाधीयते विद्वद्भिः प्रयत्नः। तस्मात् संस्कृतप्रचाराय प्रारम्भिकशिक्षायाः सरलताप्रापणमत्यावश्यकम्।
अथ (२) संस्कृतशिक्षायां समयोपयोगिविषयाणामप्रवेशो द्वितीयो दोषः। देशकालानुकूल्येव जनानामभिरुचिर्भिन्ना भिन्ना भवतीति नात्र कस्यापि विवादो भवेत्। यादृशी लोकस्याभिरुचिस्तादृशविषयाणां विधानेन लोके प्रतिष्ठां लक्ष्यते स एव च लोकसेवामपि कर्तुं समर्थो भविष्यतीत्येतदपि निर्विवादम्। पुराप्यस्माकं शिक्षापद्धतिर्लोकाभिरुचिभेदेन विभिन्नाऽवर्ततेति मनागवधायानुमातव्यम्। यदा किल काव्यप्रिया आसन् लोकनेतारो राजप्रभृतयो जनाः तदा तदा काव्यशास्त्रप्रधानैव देशे शिक्षा प्रावर्त्तत, कवय एव च बाहुल्येन भारते प्रादुरभवन्।
अथ यदा विदुषां पारस्परिकशास्त्रार्थश्रवण आसीदभिरुचिर्महताम् परिष्कारप्रधाना प्रावर्तत तत्र शिक्षापद्धतिः। इदानीं तु तस्मिन् कवित्वयुगे तस्मिंश्चावच्छेदकतायुगे व्यतीते निरुद्देश्येवास्माकं शिक्षापरिपाटी, केवलं परीक्षोत्तरणार्थमिदानीमध्ययनम्। उत्तीर्य च परीक्षां पथिभ्रष्टा इव विचरन्तो विद्वांसोऽन्येषामपि संस्कृताध्ययनपरित्यागे निदर्शनानि भवन्ति। न हि लोके शिक्षिता इति मन्यते। लोको हि संप्रति साधारणज्ञाने (General Knowledge) रुचिमान्। गणितं, भूगोलविद्या, इतिहासः, विज्ञानं, इत्येवंप्रभृतिविषयाणामपरिचितो नेदानीं लोके शिक्षित इति मन्यते। न चैते विषया अस्माभिः शिक्षायां नियतत्त्वेन परिगृहीताः। तत एव समयोपयोगिविज्ञानविरहिताः संस्कृतज्ञा न शिक्षितत्त्वेन समाजे समाद्रियन्ते। नापि लोकेषु प्रभावं स्वीयं प्रतिष्ठापयितुं प्रगल्भन्ते। किमन्यत् यत् संस्कृतज्ञानामेव प्रधानं कर्त्तव्यं येन तेषां विद्यायाः प्रभावो भवेत् तदपि संसाधयितुं नैव पाटवं संस्कृतशिक्षितानाम्। अद्यत्त्वे किल यूरोपीयास्तदनुयायिन आङ्ग्लभाषापण्डिता भारतीयाश्च भारतस्य पुरावृत्तविषये यत् किमपि प्रकल्पन्ते। स्वीयवैज्ञानिकपरिपाटीसमर्थितं च तदेव सर्वत्राप्रतिहतं प्रचारयन्ति। तेन गौरवमस्माकमस्तमयते। परं संस्कृतज्ञा ऐतिहासिकपद्धतिविज्ञानवर्जिता न किमपि तत्र प्रतिविधातुं प्रभवन्ति। केवलं तेषां मुखमवलोकयन्ति, गालीर्वा तेभ्यो ददति, दैवं समयं वा निन्दन्ति। न तु तावता किमपि सिद्धं सेत्स्यति वा।
नहि खलु संस्कृतज्ञा बुद्धिदरिद्रा भवन्ति। यदि ते पद्धतिं तां व्यज्ञास्यन्, अवश्यं तर्हि भारतगौरवापकर्षकाण्यपि यथेष्टं प्रकल्पनानि युक्तिभिः प्रतिव्यधास्यन्। यदद्यावधि प्रतिविहितं तद् आङ्गलभाषापण्डितैरेव देशभक्तैः प्रतिविहितम्। केवलसंस्कृतज्ञाः स्वकार्येऽस्मिन्नुदासीना इति कलङ्कभाज एव। कियद्वा वक्तव्यं-संस्कृतसाहित्येतिहास वक्तव्यं संस्कृतसाहित्येतिहाससम्बन्धेपि आङ्गलपण्डितानामेव वचः प्रमाणं भवति न तु संस्कृतज्ञानाम्। तेषां सामयिकरीत्या पुरावृत्तप्रतिपादनयोग्यताविरहात्। आङ्गलपण्डितानां संस्कृतमर्मज्ञताया अभावात् यदिदानींतनेऽन्वेषणे संस्कृतसाहित्येतिहासविषये भारतेतिहासविषये चोच्छृखलाः प्रकल्पना विजृम्भते आन्ध्यं वा बहुत्र दृश्यते सोऽयं कस्य दोषः ? विचार्यमाणे संस्कृतपंडितानामेव। यदेते समर्था अपि सामयिकपद्धतिविज्ञानाभावादकर्मण्या इव संवृत्ताः। तथैवाधुनिकविज्ञानमस्माकं वेदे दर्शने चायुर्वेदज्योतिषादिषु च सर्वत्र प्रहरति युक्तियुक्तं च तद्वचो न केवलं ( शेषं कोपेन पूरयेत्) इति रीत्या शक्यं निराकर्तुम्। यदि तु तस्याधुनिकस्य विज्ञानस्य रीतिः संस्कृतपण्डितैर्विज्ञायेत तदा स्वीयशास्त्रेष्वन्तर्निहितं विज्ञानमप्येषां बुद्धौ भासेत। तत्परिष्करणप्रवणाश्च सामयिकानाक्षेपान दूरीकृत्य स्वभाषणगौरवमपि प्रतिष्ठापयेयुः, स्वशास्त्रान्तरनिहितपद्धतिबोधनेन च वर्तमानकालिकं विज्ञानमप्युन्नमय्य जगतोऽप्युपकारमादध्युः। न खलु आधुनिकविज्ञानमद्यावधि सर्वथा पूर्णतां गतम्। अस्माकं शास्त्रेषु
नास्त्येवोच्चतमं विज्ञानम्, उन्मत्तप्रलपितमेव वा तत्-इत्येतदपि च न श्रद्धास्पदम्। तस्मादस्माकं विज्ञानप्रकाशनेनाधुनिकस्य विज्ञानस्योन्नतिः सम्भाव्यते एव। आस्तामप्रकृतमिदम्। तादृशविषयाणामज्ञानेन तु संकृतज्ञानां सुमहानपकर्ष एव। अतीव लज्जास्पदमिदम् यत् संस्कृतपण्डिता आंगलपाठालयेषु अध्यापकत्वेन नियुक्तास्तत्र पाठ्यमानान् हिन्दीभाषाग्रस्थानप्यध्यापयितुं न प्रभवन्ति, हिन्दीभाषाज्ञानाभावात्। संस्कृतपण्डितानां सामयिकज्ञानविरहादेव च संस्कृतपाठनार्थमपि राजकीयविद्यालयेषु आंगलभाषाविद एव गृह्यन्त इति केवलसंस्कृतज्ञानां वृत्तिदौर्लभ्यमधिकायते, तस्मात्संस्कृतशिक्षायां सामयिकविषयाणां सन्निवेशोऽतीवावश्यकः। यथा देशभाषया वा ते विषयाः पाठनीयाः, सरलसंस्कृतेन वा नवीनपद्धत्या संग्रथनीयाः। प्रौढं हिन्दीभाषासाहित्यज्ञानमाङ्गलभाषाज्ञानमपि च व्यवहारोपयोगि संस्कृतज्ञानां यथा भवेत् तथा प्रयतनीयम्।
संस्कृतशिक्षायां गृह्यमाणेष्वपि विषयेषु किञ्चिदेकविषयाध्ययने छात्राणां प्रवर्तनम्, तेन च संस्कृतसाहित्ये बहूनां विषयाणां विलोपप्रसङ्गस्तृतीयः सुमहान् दोषः। कियतश्चित् कालादेकतमस्यैव व्याकरणस्य न्यायस्य, ज्यौतिषादेर्वा शिक्षा ग्रहीतव्येति नियमः संस्कृतशिक्षायां प्राचरत्। तेन चादितोऽन्तपर्यन्तमेकमेव विषयमधीत्य पण्डितमानिनोपि संस्कृतज्ञा इतरविषये श्वेतं कृष्णं किमपि न जानन्ति। न चानेकविषयज्ञानमन्तरेण व्युत्पन्नः कोऽपिभवेत्।
यद्यपि पद्धत्यानया, एकस्मिन् विषये प्रौढिः समासाद्यते, परं विषयान्तराणां सामान्यस्यापि ज्ञानस्याभावे सा प्रौढिरकिञ्चित्करैव। किञ्चैवं बहव आवश्यका अपि विषयाः पण्डितैरपि न ज्ञायन्ते इति महती हानिरापतति। धर्मज्ञानं खलु संस्कृतज्ञानस्य मुख्यं प्रयोजनम्, ततोऽपि प्रायेण वञ्चिता भवन्ति संस्कृतविद्वांसः। आवश्यकं स्वानुष्ठेयमपि बहवो न जानन्ति, दूरे तु परोपदेशप्रत्त्याशा। जिह्रीमो वक्तुम् - यत् संस्कृतसाहित्यस्य वर्णमालास्थानीया ये शिक्षा ग्रन्थास्तेषां विज्ञातारोऽप्यद्यत्वेऽतिविरलाः। नैयायिका व्याकरणमुपेक्षन्ते, वैयाकरणा अलङ्कारशास्त्रं न जानन्तीत्येवं सर्वत्र व्युत्पत्तेरभावः प्रतिभासते। किञ्चैवं पद्धतौ प्रचलितायां द्वित्रा एव विषया अवशिष्टाः संस्कृतवाङ्मये, शेषास्तु विलुप्ताः, लुप्यन्ति च। चिरादेव विविधकलाग्रन्था अस्तं गताः। यस्य रक्षार्थमेव संस्कृताध्ययनं समयोजनमभूत्, विलीनः स भगवान् वेदः, न सन्त्येव वेदार्थज्ञा विद्वांसः। अतिगौरवास्पदस्य विविधचमत्कृतिनिधानस्य भारतीयानां सर्वस्वस्य आगमशास्त्रस्य (तन्त्रशास्त्रस्य) वार्तापि क्वचिन्न श्रूयते। मीमांसाशास्त्रमुच्छिन्नप्रायम्। दर्शनज्ञानं तिमिरावृतमेव। यच्च संस्कृतज्ञानामाजीवनसाधनम्, तदपि संस्कृतपण्डितैः स्वयं परित्यक्तम्। बहुषु विद्यालयेषु, बह्वीषु च संस्थासु धर्मोपदेशका विद्वांसः संग्रहीतुमिष्यन्ते, न चैते विशिष्ट्यापि वृत्या योग्या
लभ्यन्ते। बहवः श्रद्धालवः कर्मकाण्डाभिज्ञान् काले काले मृगयन्ते, न च लभन्ते। अतिविरलाः खलु कर्मकाण्डाभिज्ञाः। रुचिरकथावाचका अपि समये समये बहुषु स्थानेष्वन्विष्यन्ते। अस्य अपि तु भारतप्रसिद्धायाः पद्धतेरभावः क्रमेण जायते। तदित्थं परित्यक्तेषु लोकोपयोगिषु जीवनोपायेषु, विलुप्तेषु च संकृतसाहित्यगौरवाख्यपदकेषु गभीरशास्त्रेषु यत्र तत्र प्रत्यब्दं शताधिकानां महाशयानां तत्तत् परीक्षोत्तरणमात्रेण कथं संस्कृतसाहित्यरक्षा तदुन्नतिर्वा भविष्यतीति विचार्यं मनाक्। तस्मात् प्राथमिकशिक्षायां मध्यमशिक्षायां च समुपयुक्तबहुविषयज्ञानं संनिवेश्यमेव। उत्तमशिक्षायान्त्वेकस्यैव शास्त्रस्य विशिष्टं पाण्डित्यमनुलक्षणीयम्। परं तत्रापि सहकारिभूतानां सर्वोपयोगिनां च शास्त्राणां शिक्षा प्रदेयैव, प्रदेयैव। किञ्चोतमशिक्षायां सर्व एव तथाविधा विषयाः संनिवेश्या, येन संस्कृतसाहित्यस्याङ्गानां विलोपो न भवेत्। लोकोपयोगिता गौरवं च संस्कृतस्य सुरक्षिते भवेताम्।
अभिनवग्रन्थानामनादरः शिक्षापद्धतौ चतुर्थो दोषः। समये समये लोकानां मतिवैचित्र्याद् विभिन्नपद्धतिकानां ग्रन्थानामावश्यकता सर्वत्र जायते। संस्कृतसाहित्येपि तथैव दृष्टचरम्, विभिन्नकालिकानां ग्रन्थानां विभिन्नपद्धत्यवलोकनात्। सर्वेष्वपि विषयेषु कालभेदेन विभिन्नसरणिमनुसृत्य विद्वद्भिः पूर्वं ग्रन्था विरच्यन्ते स्म, बहुलश्चैतेषां प्रचारस्ततत्समये जायते स्म।
इदानीं तु प्रायेण ग्रन्था न विरच्यन्त एव, ये चापि कैश्चिद् विपश्चिद्भिर्विरच्यन्ते तेषामपि शिक्षापद्धतौ तदधिनायकैरग्रहणात् प्रचारो न जायते। तत एव च हतोत्साहा ग्रन्थकर्त्तारो न पुनर्ग्रन्थनिर्माणे प्रवर्तन्त इति साहित्यस्याप्यभिवृद्धिः स्थगिता।
प्रक्तानां च ग्रन्थानां समयेऽस्मिन् दुरूहत्वात् पद्धतिभेदाच्च तेभ्यस्तथा व्युत्पत्तिरपि न जायते। यद्यपि नूतना ग्रन्था न तथा मर्मस्पृशो भवन्ति इदानीन्तनानां ग्रन्थकर्तॄणां पण्डितानां तथा विज्ञानाभावात्, अतएव बह्व्यस्त्रुटयोऽपि तेषु लक्ष्यन्त इति केषांचिदाक्षेपः। बहुष्वंशेषु तथ्योऽप्ययम्, परं तथाभूतानां विदुषां सर्वथा नास्त्यभावः। नैव संभवन्तीदानीं निर्दोषा उपयुक्ता ग्रन्था इति नेदं सारवद्वचः। अभिनवग्रन्थानामादरे क्रियमाणे सोत्साहं विद्वद्भिस्तथा ग्रन्था निर्मास्यंते। ते च विचार्य युक्ताश्चेन्नियोज्याः शिक्षापद्धतौ, अयुक्ताश्चेत्यरित्याज्याः। त्रुटयस्तु प्राचीनेष्वपि ग्रन्थेष्वेकस्य ग्रन्थकारस्यापरेणोद्भावित एवेति- मनुष्यमात्रे सुलभास्ताः। तस्मादार्षग्रन्थानपरिवर्त्यापि विद्वद्विरचिततत्तद्विषयकनिबन्धस्थाने आधुनिका अपि ग्रन्थाः सन्निवेश्या एव। समयोपयोगिनीं पद्धतिमवलम्ब्य प्रकटनीयाश्च नवीनास्तत्तद्विषयका ग्रन्था इत्येतदप्यावश्यकम्।
आजीवनोपायानामसंग्रहः शिक्षापद्धतौ पञ्चमो दोषः। इदानीं हि संस्कृतशिक्षिता अध्यापनं विहाय न किमपि कर्तुं शक्नुवन्ति। अध्यापनमपि बहुभिर्न यथोचितमनुष्ठातुं शक्यते। न चैतावन्मात्रेण सर्वेषां निर्वाहो भवेत्। तस्मात् ज्ञानार्थमध्य-
यनं नियम्याद्विलोकयात्रार्थं शिल्पवाणिज्यादिविषया अपि शिक्षणीया एव। येन संस्कृतशास्त्रशिक्षया खल्वात्मोन्नतिं प्रतिष्ठां विन्दन्तोऽपि विद्वांसो जीविकार्थमपि न क्लिश्येरन्, अपि तु स्वातन्त्रेण जीविकां प्राप्नुयुरिति। धर्मशास्त्रमप्यापत्काले ईदृशीं वृत्तिं विदधात्येवेति तथा शिक्षाप्यावश्यकी। इत्येवं प्रायान् बहून् दोषान् दूरीकृत्य संस्कृतशिक्षापद्धतिः परिष्कार्या। न च सर्वथैव प्राक्तनी पद्धतिः परित्याज्या, तथा सति संस्कृतशास्त्राणां मार्मिकज्ञानविलोपप्रसंग आपतेदिति नूतनप्रत्नयोः पद्धत्योः संमिश्रणेन विलक्षणोऽध्वा प्रवर्त्तनीय इति निश्चितं संस्कृतसाहित्यसम्मेलनेन। अस्मादेव सर्वेष्वपि संमेलनेष्वेतद्विषयकाः प्रस्तावा विचारिता अभवन्। चतुर्थाधिवेशननिश्चयमनुरुध्य शिक्षाक्रमविषयिण्येका प्रश्नावली संपाद्य, भारतस्य सर्वेषामपि प्रान्तानां ये विशिष्टा विद्वांसस्तेषां सविधे संप्रेषिता। भूयोभूयश्चेति महाभागास्तथाविधालस्योपेक्षा वशीकृताः यत् कैश्चिदेवविद्वद्भिरुत्तराणि संप्रेषितानि। निम्ननिर्दिष्टनाम्नां विदुषामुत्तराणि लिखितान्युपलब्धानि।
(विद्याभूषणश्रीहरिहरस्वरूपशास्त्रिद्वारेण)
१ श्रीकृष्णमाचार्यमहाशयः, एम. ए. सहृदयासम्पादकः मधुरा। (मद्रास)
२ त. शं. श्रीनारायणशास्त्री वी० ए० वी० एल० मद्रास
३ पुन्नशेरिनम्वि श्रीनीलकण्ठशर्मा, मातृकासंस्कृतमहापाठशालाध्यक्षः।
४ विद्यामार्तण्डश्रीसीतारामशास्त्री भिवानी
कार्यालये लब्धान्युत्तराणि।
५ गोस्वामिश्रीलक्ष्मणाचार्यमहाशयः मथुरा।
६ श्रीरमापतिशास्त्री जी० टी० संस्कृत कालेज ग्राण्डरोड मुम्बइ
७ रायबहादुर श्रीकमलाशंकर प्राणशंकरत्रिवेदिमहाशयः, सूरत (मुम्बई)
८ म० म० मुकुन्दशास्त्री श्रीनगर (काश्मीर)
९ श्रीकाशीरामशास्त्री संस्कृतविद्यालयनिरीक्षकः काशी।
१० संस्कृतसाहित्यसमितिः लखनऊ।
११ श्रीभगवानदासमहाशयः काशी
१२ श्रीनारायणदत्तशास्त्री प्रयाग
१३ श्रीहरिप्रपन्नाचार्यः इटावा
एतेषां सर्वेषामपि विदुषां मतानि भूयोभूयो हि सम्यग्विवेचितानि। अथ काले काले बहुभिर्विद्वभिः सह समक्षं समालप्य तन्मतं गृहीतम्। यथा-
१ म० म० डा० श्रीगंगानाथमहाशयः एम० ए० डी० लिट् प्रिंसिपल गवर्नमेंट संस्कृतकालेज काशी।
२ श्रीरघुवरदयालुशास्त्री एम० ए० प्रिंसिपल सनातनधर्मकालेज लाहौर (पंजाब)
३ कविरत्न श्री अखिलानंदशर्मा अनूपशहर। इत्यादीनाम्। जयपुरे च समितिमेकां समायोज्य निम्ननिर्दिष्टैर्विद्वभिः सह बहुकालं विचारितम्।
१ राजगुरुश्रीचंद्रदत्तशर्माणः व्याकरणाचार्याः
२ भट्ट श्रीमथुरानाथशास्त्री साहित्याचार्यः
३ श्रीकन्हैयालालशर्मा न्यायाचार्यः
४ श्रीमदनलालशास्त्री व्याकरणाचार्यः
५ गुलेर्युपाव्ह श्रीसोमदेवशर्ममहाशयः
व्याकरणाचार्यश्रीसूर्यनारायणशास्त्रिणा (जयपुरस्थेन) विद्याभास्कर श्रीपरमेश्वरानन्दशास्त्रिणा (सनातनधर्म संस्कृतकालेजलाहौरस्थेन) च बहुबारं भूयोभूयः परामृश्य बहुमतेन संस्कृतशिक्षापद्धतिरियं निश्चिता। इयं च संस्कृतसाहित्यसंमेलनस्य समग्रेधिवेशने विषयनिर्वाचनसमितौ श्राविता। यत्र बहबो विशिष्टा विद्वांस उपस्थिता आसन्। तेषु मुख्या यथा-
१ म० म० श्रीहाथीभाई शास्त्रीमहाशयः (जामनगर)
२ क्षीरसागर श्रीवामनाचार्यमहाशयः। मथुरा
३ श्रीपशुपतिशास्त्रिमहाशयः(कलकत्ता)
४ श्रीकालीपदतर्काचार्य बी० ए० बी०डी० (कलकत्ता)
५ श्रीगीष्पतिकाव्यतीर्थमहाशयः (कलकत्ता)
६ विद्याभूषण श्रीहरिहरस्वरूपशास्त्री(झज्झर)
७ श्रीमौलिचन्द्रशर्मा एम० ए० (झज्झर)
८ श्रीगणेशीलालसारस्वतः साहित्याचार्यः(आगरा)
९ श्रीघनश्यामशर्मा संस्कृतप्रोफेसर(आगरा)
१० श्रीकुलमणिशास्त्री (झालरापाटन)
११ श्रीजयदेवझा मीमांसातिथिः(झालरापाटन)
१२ श्रीअनन्तशास्त्री उपाध्यायः (धारमालवा)
१३ श्रीसत्यदेवपण्डे महाशयः(कानपुर) इत्यादयः
प्रायेण तत्र सर्वैरेव विद्वद्भिरियं पद्धतिरैकमत्येनानुमोदिता पुनरपि त्वत्रैकवारं सर्वेषामपि भारतप्रसिद्धविदुषां संमतिमुपादाय तदनु अस्याः प्रचाराय प्रयत्न आस्थेय इति तत्र निर्धारितम्। तदनुसृत्य मुद्रितेयं संस्कृतशिक्षापद्धतिः श्रीमतां विदुषां सेवायां सम्मतिग्रहणार्थं संप्रेष्यते।
अत्र पद्धतौ प्रथममध्यमोत्तमभेदन शिक्षाया भागत्रयं कल्पितम्। तत्र च प्रथमशिक्षा विषयावबोधप्रधानैव निर्दिष्टा, ग्रंथास्तु तत्र प्रान्तभेदेन रुचिभेदेन विकल्पिता इष्यन्त इति टिप्पण्यान्ते अनुमत (Options) रूपेण निर्दिष्टाः। मध्यमशिक्षायां विषयावबोधप्राधान्येऽपि क्वचिदस्त्येव नियतग्रंथापेक्षा इति तत्र सहैव ग्रंथनिर्देशः कृतः। उत्तमशिक्षा तु प्रायेण ग्रंथप्रधानैवेदानीं सम्भवतीति ग्रंथा एवं तत्र निर्दिष्टाः।
उत्तमशिक्षायां बहुषु विकल्पेषु ग्रंथनिर्देशस्तदभिज्ञविद्वदनुमत्यैव सम्भवतीति तेषु विकल्पेषु संकेतमात्रं कृतम्। येषां विदुषां सविधे पाठ्यक्रमोऽयं प्रेष्यते तेषु तथाविधविकल्पेषु ग्रंथान् निर्देष्टुं समर्थः, ते सविनयं संप्रार्थ्यते यत्कृपया उत्तमशिक्षाया भागद्वये ग्रंथनिर्देशस्तैः स्वसंमत्या विधेयः। अनुगृहीतं भवेत्तेन संमेलनमिदम्, सुरभारती च। अत्र प्रथममध्यमे शिक्षे
प्रायेणैकविधे एव व्यवस्थापिते। मध्यमशिक्षायामपि बहुविषयावबोध एव नियमितः। केवलं ज्यौतिषायुर्वेदादिच्छात्राणां कृते विषयद्वयं तत्र विकल्पितम्। वृतिसौकर्यार्थमपि च तत्र विकल्पा आस्थिताः। उत्तमशिक्षा तु एकविषयप्रधानैव। परं तत्रापि नियतरूपेण व्युत्पत्याधायकाः केचन ग्रंथाः सर्वसाधारण्येन स्वीकृताः, द्वितीये तु विभागे सर्वथैकस्यैव विषयस्य प्राधान्यम्। तत्रापि ये सर्वतोमुखीं व्युत्पत्तिमभिवाञ्छन्ति तत्कृते साधारणविभागः दर्शनसाधारणविभागश्च जागर्त्येवेति सर्वं तत्रैव सटिप्पणं पर्यालोच्यं स्यात्।
यत्र यत्राभिनवा ग्रन्था अपेक्ष्यन्ते तत्र तत्र तथा प्रदर्शितम्। अभिनवग्रन्थसम्पादनाय संमेलनेन प्रयत्यते। आशास्यते अन्येऽपि देशमान्याः प्रौढाविद्वांसोऽस्मिन् कर्मणि स्वयं साहाय्यमादध्युरिति। अपेक्षितेषु ग्रंथेषु येन विदुषा यत्र ग्रन्थो निर्मातुमिष्टस्तत्सूचना तेन कृपया सम्मेलनकार्यालये पूर्वमेव सम्प्रेष्या, येन तदर्थं प्रयत्नान्तरं नालम्ब्येत। यावत्तथाविधग्रंथसम्पादनं न भवति तावात् कथं कक्षा निर्वाह्येत्येतदपि तत्र तत्र निर्दिष्टम्। अस्मिन् शिक्षाक्रमे राष्ट्रभाषेति संमत्य हिंदीभाषा बहुतरं संगृहीता। स्वतन्त्र्येणापि हिन्दीभाषासाहित्यं तत्तत्परीक्षासु नियमितम्, येषां च विषयाणां शिक्षोपयोगिनो ग्रंथाः संस्कृते नोपलभ्यन्ते तेषां शिक्षणमपि हिन्दीभाषयैवानुमतम्। तेन संस्कृतविदुषां हिन्दीभाषाज्ञानं, हिन्दीभाषाप्रेम च सम्यगभिवृद्धं स्यात्। हिन्दीभाषा-
विरोधिताकलंकश्च संस्कृतविदुषां ललाटे समारोप्यमाणः सम्यक् प्रोच्छितः स्यात्।
समयेऽस्मिन्नाङ्गलभाषाज्ञानं सर्वेषामावश्यकमिति सर्वेषामनुभवगोचरीभूतोऽयं विषयः। तत्तस्या अप्यत्र पाठ्यक्रमे सन्निवेशः कृतः। परं नियमेन सन्निवेशं बहवो नानुमन्यन्त इति ऐच्छिकरूपेण विकल्पेष्वेव सा भाषा निर्दिष्टा। यथासम्भवं सर्वैः सा ग्राह्यैवेति त्वभिसन्धिः। तत्सम्बन्धविषयानधिजिगांसुभिस्तु पूर्णं तस्या ज्ञानं सम्पादनीयं स्यात्।
तथैव वृत्यर्था कलाद्या अपि तत्रतत्रैच्छिकरूपेण त्रिष्वपि शिक्षाविभागेषु निर्दिष्टाः। येषां तत्र भवेदिच्छा, ते तत्रान्यतमं गृह्णीयुः, येषां तु न प्रयोजनं भवेत् ते न गृह्णीयुरपीति।
अस्मिन् क्रमे उत्तमशिक्षायां क्वचिद् विदुषां ग्रन्थबाहुल्यं प्रतीयेत यद्यपि, तथापि तत्रेदं विचार्य मध्यमशिक्षायां बहून् विषयानधिगतवन्तो व्युत्पन्नाश्छात्रा बह्वध्येतुं शक्ष्यन्तीत्येकम्। यथाद्यत्व एकैकस्य ग्रन्थस्य परिष्कारप्रधानाशिक्षा बहुभिरब्दैः समाप्यते तथा तत्र न विवक्षितम्, तत्तद्ग्रंथनिर्दिष्टविषयाणां सम्यग्ज्ञानं तु प्रयोजनमिति द्वितीयम्। केषुचित्तु विभागेषु(उपदेशकविभागादिषु) तावद्विषयाणामापाततोऽपि बोध इष्ट इति तृतीयम्। विविच्यापदिं सर्वं येषां मते ग्रन्थबाहुल्यं भासेत, तैः कृपया स्वसंमत्या संशोधनं निर्देष्टव्यमेव। कुत्र कियती न्यूनता तेषामभिमतेति सुस्पष्टं कृपया निर्देश्यम्। अखि-
लभारतवर्षसाधारण्येन शिक्षाक्रमोऽयं संगृहीतः। अत्र अस्मिन् प्रान्ते यस्य विद्यालयस्य यावद्विकल्पग्रहणमेव शक्तिः तावन्तो विकल्पास्तेन संग्राह्याः मुख्यमुद्देश्यं (निदर्शितशिक्षादोषनिराकरणरूपं) रक्षयता च येन विद्यालयेन स्वप्रान्तानुकूलं स्वशक्त्यनुकूलं च क्वचित् किञ्चित् परिवर्तनं चिकीर्षितं स्यात् तेनापि स्वप्रान्तीययोग्यविद्वदनुमत्या तथा शक्यते विधातुम्। एकप्रान्तस्था एक नगरस्था वा यत्र अनेके संस्कृतविद्यालयाः, ते यदि परस्परं संमत्याविभज्य बहून् विकल्पान् गृह्णीयुस्तर्हि शिक्षाविषये महानुपकारो भवेत्। यस्य च विद्यालयस्य धनादिशक्तिरल्पीयसी, तेन मध्यमशिक्षापर्यन्तं प्रथमशिक्षापर्यन्तमेव वाध्यापनं प्रवर्तनीयम्, न तु विकलाप्युत्तमशिक्षा सर्वैः प्रवर्तनीयेति संमेलनानुमत्तम्।
इदन्त्वत्र विशेषतोऽवधेयम्- यदत्र शिक्षाक्रमे प्रथमशिक्षा आंङ्गलभाषाया मैट्रिकपरीक्षा तुल्या, मध्यमपरीक्षा च इण्टरमिडियटपरीक्षातुल्या, उत्तमपरीक्षाया भागद्वयं च क्रमेण बी० ए० एम्० ए० परीक्षयोस्तुल्यमिति साधारण्येन विज्ञायते। परमाङ्गलभाषाध्ययने प्रथमशिक्षायां बहुतरः कालोऽपेक्ष्यते, अग्रे तु स्वल्पः प्रत्तिपरीक्षं वर्षद्वयात्मकः। अस्माकं तु संस्कृतभाषाया एतद्देशीयत्वात्प्रथमशिक्षायां स्वल्पः कालोऽपेक्ष्यते, अग्रे तु बहुतरदुरूहविषयसंकीर्णत्वाच्छिक्षाया अधिककालोऽपेक्ष्यते इत्यस्त्येव वैषम्यम्। सकलितस्तु कालः आङ्गलभाषाया एम्० ए० पर्यन्तं शिक्षापेक्षयाऽत्र न्यून एवेति। किञ्च तत्र मैट्रिकपरीक्षया यावान् बोधस्ततः कथंचिदन्न्यून एवात्र प्रथमपरीक्षया संभवति इति प्रती-
यते। तस्माद् विश्वविद्यालयेषु आङ्गलभाषापरीक्षास्विव संस्कृतपरीक्षास्वपि वयसो नियमः स्यात् (षोडशवर्षवयसोऽन्यूनाश्छात्राः प्रथमशिक्षातो नोत्तरणीया, न वा कालेजविभागे प्रवेशनीया इति) तत्र मध्यमशिक्षा मैट्रिकस्थाने मन्तव्या। षोडशाब्दपर्यन्तं मध्यमशिक्षां समाप्योत्तमायां प्रविशेदिति नियम आस्थेयः, मध्यमशिक्षापर्यन्तं च मैट्रिककालसमानतापि प्रायेण भविष्यति। कालेजविभागे तु उत्तमशिक्षैव खण्डद्वयं खण्डत्रयं वा प्रकल्प्य स्थापनीयेति युक्तं भाति। अन्यश्चेत्कोऽपि सुलभः प्रकारोऽत्र विदुषामभिमतः स तर्हि कृपया बोधनीयः। येन तथाविधा विभागा अत्र प्रकल्प्येरन्निति।
इमं शिक्षाक्रमं सावधानमालोच्य स्वस्वसंमतिं द्रुतं प्रकटयेयुर्विद्वांसो महाभागा इति सुदृढ़माशास्यते। संमतिसंग्रहानन्तरमयं शिक्षाक्रमः सुनिश्चितः स्यात्। परीक्षाव्यवस्थापि चैतदनुसारं संपाद्येत। संस्कृतविद्यालयेषु राजकीयपरीक्षासु चैतं क्रमं प्रचारयितुं संमेलनं सुदृढं प्रयतेतैवेति।
गिरिधरशर्मा चतुर्वेदः
(संमेलनमन्त्री)
संस्कृतशिक्षाक्रमः।
१—आदौ वर्षद्वयं स्व-स्वदेशभाषा शिक्षा। लेखनम्, वाचनम्, देशभाषासम्बन्धिलघुपुस्तकवाचनम्, साधारणवाक्यार्थावबोध इत्येतावत्पर्यन्तं ज्ञानमावश्यकम्। देशभाषापद्योच्चारणशैली संस्कृतपद्योच्चारणशैली चाप्यत्र शिक्षणीया। अन्यप्रान्तवासिभिरपि हिन्दीभाषाशिक्षणाय प्रयतनीयम्। गणितपट्टिका, (पहाडा) संख्यालेखः, संकलनं, व्यवकलनं च गणितेऽभ्यसनीयम्।
२—तदनु शिक्षायास्त्रयो विभागाः। प्रथमः, मध्यमः, उत्तमश्चेति। उत्तमेऽप्यवान्तरं भागद्वयम् इति संभूय भागचतुष्टयं स्यात्। प्रत्येकं त्रयस्त्रयः संवत्सराः शिक्षार्थमपेक्षितः काल इति साधारण्येन द्वादशवार्षिकीयं शिक्षापद्धतिः।
तत्र प्रथमशिक्षायाम्
१—संस्कृतपाठ्ये- अभिनवसंदृब्धा लघुगद्यग्रन्थाः रामायणमहाभारतहितोपदेशपञ्चतन्त्रादिसंगृहीतगद्यपद्यभागः। नीतिशतकादिभ्यः संगृहीतानि पद्यानि। (संस्कृतभाषायां प्रवेशो यावता भवेत्) (सहस्रश्लोकपरिमाणादन्यूनो गद्यपद्यभागोऽत्र शिक्षायां नियमनीयः स्यात्)।
____________________________________________________________
१- प्रथमश्रेण्यामभिनवसंदृब्धलघुगद्यग्रन्थमात्रं नियमनीयम्। श्रीविधुशेखरभट्टाचार्यमहाशयस्य ‘संस्कृतसंदर्भः’ तत्रादर्शभूतः। द्वितीयतृतीययोश्च श्रेण्योर्गद्यपद्यसंग्रहरूपौ
२- व्याकरणे—वर्णानां स्थानप्रयत्नविवेकः, साधारण्येन संधिज्ञानम्, सनियमं लिङ्गभेदेन शब्दरूपज्ञानम्, व्यवहारसुप्रयुक्तधातुरूपज्ञानम्, कर्तृकर्मादिकारकभेदेन प्रथमादिविभक्तीनाम्, कालपुरुषगणादिभेदन धातुरूपाणाम्, तद्योजनायाश्च सम्यक् परिचयः, कृत्तद्धितसमासानां साधारणा नियमाः, कर्तृकर्मप्रधानवाक्यपरिचयः निपातोपसर्गपरिचयश्चेति। (स्वस्वाधीतगद्यपद्येषु अन्यत्रापि च साधारणवाक्यादिषु पदानि निर्वक्तुं यथा शक्नुयात्)
३- अनुवादः (देशभाषायाः संस्कृते, संस्कृतस्य च देशभाषायाम्)
______________________________________________________________
अभिनवग्रन्थौ। ऋजुपाठः, हितोपदेशः पञ्चतन्त्रम्, श्रीवाल्मीकिरामायणम्, महाभारतम्, भर्तृहरिकृतनीतिशतकं चेति एभ्यः कश्चित् कश्चिदंशः। यथा कुसुममाला (संग्रहः)
२ श्रीसूर्यनारायणशास्त्रिणां ‘सरलसंस्कृतशिक्षकस्य’ भागपञ्चकम्। श्री के, पी त्रिवेदिनां संस्कृतशिक्षिका। भागचतुष्टयात्मिका च रूपमाला तिङन्तमञ्जरी च। शब्दमञ्जरी, तिङ्नाममञ्जरी, धातुरूपमुक्तावली, समासप्रकरणं च इति एवंविधा अन्येऽपि वा अभिनवरीत्या संदृब्धाः संदर्भाः शिक्षणार्थमनुमन्यते। स्थानप्रयत्नविवेकस्तु पाणिनीयशिक्षातः शिक्षणीयः।
३ - सस्कृतबालबोधिनी, अनुवाददीपिकादिकं किमप्यभिनवं पुस्तकं शिक्षार्थं संग्राह्यम्। विशेषतस्तु व्यावहारिकशब्दकोषं कम-
४ - कोशे एकार्थानेकशब्दज्ञानम्। (यथासम्भवं तत्तन्नाम्ना तत्तदर्थे कुतः प्रवृत्तिरिति व्युत्पत्यर्थं शिक्षणीयम्)
५— हिन्दीभाषासाहित्यम् - गद्यपद्यभागस्य सम्यगनुशीलनम्।
६— गणिते - दशमलववर्जं त्रैराशिकान्तगणितम्। व्यापारगणितं वा। अत्रैव तिथिपत्रं (पञ्चांग) वीक्षणाभ्यासश्च।
७—भूगोले - महाद्वीपानां तद्विभागानां च साधारणज्ञानम्, भारतवर्षस्य च साकल्येन ज्ञानम्।
____________________________________________________________
प्यादाय तच्छब्दानां व्यवहाराभ्यासः कारयितव्यः, पत्रादिलेखश्च शिक्षणीयः।
४ - अमरकोषः, अमरसारः, आख्यातचद्रिका, हलायुधः, एतेभ्य उपयुक्तोंऽशस्ततद्ग्रन्थात् समादेयः अमरकोष एव वा।
५—श्री महावीरप्रसादद्विवेदिमहाशयस्य महाभारतात्, गो० तुलसीदासकृतरामायणविनयपत्रिकाभ्यां भूषणग्रन्थावल्याश्च संग्रहीतोंऽशः। हिंदीशिक्षावल्याः पंच भागाः पूर्वमध्याप्याः। अत्रान्यदेशवासिभिः स्वस्वभाषासाहित्यशिक्षापि नियन्तुं शक्यते। परं हिंदीभाषासाहित्यज्ञानं सर्वैरावश्यकं मन्तव्यम्।
६ - ७ - सस्कृते एतच्छिक्षार्थमुपयुक्ता, ग्रन्था यथा सम्पद्येरन् तथा प्रयतनीयम् यावत्तु नास्ति तत्सम्पत्तिः तावत् हिंदीभाषयैव विषया इमे शिक्षणीयाः।
८—इतिहासे—श्रीरामयुधिष्ठिरहरिश्चन्द्राणां भारतीयमहापुरुषाणां सावित्र्यादिसाध्वीनां तच्चरितानां तद्देशकालानां जन्मतिथ्यादीनां च केवलं कथारूपेण वाचिकः परिचयः।
९— धर्मे - नित्यकर्मशिक्षा, शौचाचारशिक्षा, सामान्यधर्मशिक्षा च। तत्रैव कतिचित् स्तोत्राणि, नीतिश्लोकाः, स्वास्थ्थरक्षोपयुक्तनियमज्ञानं च।
१०— अथैतेषु विकल्परूपेण यथाभिरुचि किमप्येकं द्वयं वा वृत्यर्थमैच्छिकरूपेण ग्राह्यम्।
(क) वेदपाठे - याजुषो रुद्राध्यायः सस्वरः। ऋग्वेदादीनां वा स स भागःसस्वरः (ख) लिपिसौष्ठवम्। (ग) ससिकाक्षरयोजनाभ्यासः (Composing) (घ) चित्रणकलाभ्यासः (Drawing) (ङ) मृत्काष्ठादि वस्तुनिर्माणशिल्पम् (Clay modelling) (च) सूत्रनिर्माणशिल्पम्। (छ) क्षेत्रमापनम् (Survey) (ज) वृक्षारापेणम् (Gardening) चेति।
संस्कृतशिक्षाक्रमः।
मध्यमशिक्षायाम्। (वर्षत्रयेण)
१— संस्कृतपाठ्ये गद्यपद्ययोः प्रौढं ज्ञानम्।
____________________________________________________________
९— एवंविधानि लघुपुस्तकान्यावश्यकानि। पुस्तकसम्पत्तिपर्यन्तं मनुस्मृत्यादिभ्यः आचरादिकं शिक्षणीयम्। स्तोत्राणि च स्तोत्ररत्नाकरादिभ्यः, शिक्षणीयानि।
१० – उपनीतैर्द्विजैर्यथासम्भवमेतच्छिक्षणीयमेव। ये तु अग्रे कर्मकाण्डविषये प्रवेष्टुमिच्छन्ति, तैरवश्यमेतदध्येयं स्यात्। येषां तु वेदाधिकारी धर्मसिद्धस्त एवात्रानुमन्यन्ते।
(तत्र गद्यपद्यसंग्रहात्मका ग्रन्थाः) प्रतिश्रेणि(प्रतिवर्षं) सहस्रश्लोकपरिमितो गद्यपद्यभागः। गद्ये पञ्चतन्त्रदशकुमारचरितश्रीहर्षचरितशिवराजविजयानां संगृहीता भागाः। पद्ये कालिदासकाव्यानां किरातार्जुनीयादीनां च भागाः। नाटकेषु भासस्य स्वप्नवासवदत्तम्, पञ्चरात्रमित्यादि, कालिदासस्य शाकुन्तलम्, वेणीसंहारादि च अविकलमेव यथोपयोगं संग्राह्यम्। यावता प्रौढिर्भवेत्। (छन्दोज्ञानार्थं वृत्तरत्नाकरादिः कश्चन ग्रन्थः प्रथमश्रेण्यामेवशिक्षणीयः)
२— व्याकरणे - व्याकरणस्य सर्वेषु प्रकरणेषु योग्यता यथा संपद्येत, संस्कृतभाषायामधिकारश्च भवेत्। अधीतानधीतग्रन्थेषु सर्वाणि पदानि सम्यङ् निर्वक्तुं साधयितुं च शक्नुयात् तावदध्याप्यम्। (पाणिनीयव्याकरणस्य सौकर्येण शिक्षार्थम् अभिनवप्रकल्पितं किमपि प्रौढं सरलं च पुस्तकं संमेलनविदुषामभिमतं नियतीकृतं स्यात्)
तावत्तु मध्यकौमुदी, सवृत्त्युहरणा अष्टाध्यायी, सारस्वतचन्द्रिके, मुग्धबोधः कालापकातन्त्रे, शाकटायनम्, जैनेन्द्रव्याकरणम् वेत्येवंविधैर्ग्रन्थैर्विकल्पितैः शिक्षा प्रवर्तनीया। विशेषेण मध्यकौमुद्येवात्र समीचीनानुमन्यते। उत्तमशिक्षायां व्याकरणमधिजिगांसुभिस्तु नियमेनैव साध्येतव्या।
______________________________________________________________
१ संगृहीतग्रन्थप्रकाशनात्पूर्वं निर्दिष्टग्रन्थेषु केषांचित्केचिद्भागाः शिक्षकैर्नियमनीयाः।
३—अनुवादः—संस्कृतगद्यपद्ययोर्भाषान्तरीकरणम्। देशभाषायाः संस्कृतेऽनुवादः, संस्कृतनिबन्धलेखाभ्यासश्च।
४ —कोशे - अनेकार्थशब्दविज्ञानम्, प्रवृत्तिनिमित्तज्ञानपुरस्सरम्। (अमरकोषादिभ्यः शिक्षणीयम्)
५ —साधारण्येन समस्तभूगोलज्ञानम् भारतवर्षेतिहासः। एतदर्थं सस्कृते पुस्तकान्यपेक्ष्यन्ते। तावत् हिंदीभाषापुस्तकैरपि शक्यते शिक्षा प्रवर्तयितुम्।
६—पदार्थविज्ञानम् (Science) विज्ञाने प्रवेशयोग्यता यावता भवेत् तावद्विज्ञानभागो रसायनभागश्च सस्कृतेन हिंदीभाषया शिक्षणीयः।
७— धर्मशिक्षा गृहस्थाचारशिक्षा(मनुस्मृत्यादिभ्यः सूत्रेभ्यश्च) जैनानां रत्नकरण्डश्रावकाचारतः।
निम्ननिर्दिष्टेष्वन्यतमं द्वयमावश्यकम्।
८ अलङ्कारशास्त्रे दोषगुणालङ्काराणां भाषापरिष्कृतेर्नियमानां व्युत्पत्तिशास्त्रसम्बन्धिनां (शक्तिलक्षणाव्यञ्जनाविशेष्य-विशेषणभावनियमप्रकृतिप्रत्ययाद्यर्थविशेषाणां च) विषयाणां, साधारण्येन रसस्य नाटकाङ्गानां, च ज्ञानं यावता भवेत् तथाविधं शृङ्गार बाहुल्यविरहितमुपयुक्तोदाहरणसंदृब्धं सरलया शैल्या निबद्धमनतिगुरु किमप्यभिनवं पुस्तकम्। तावत् चन्द्रालोककुवलयानन्दौ, काव्यादर्शः, साहित्यकौमुदी वा, दशरूपकं च तत्सहचरम् इत्येवं शिक्षा प्रवर्तनीया)
९—न्यायशास्त्रे - पदार्थविभागादिबोधः, तल्लक्षणबोधः, नवीनन्यायपरिभाषाबोधश्च। (न्यायबोधिनीसिद्धान्तचन्द्रोदयेतिटीकाद्वययुतस्तर्कसंग्रहः, न्यायप्रदीपो वा श्रीगङ्गासहायकृतः)।
अथवा
८—पूर्णमङ्कगणितम्, व्यावहारिकगणितसहकृतम् रेखागणितं च(अभिनवशैलीनिबद्धं गणितपुस्तकम्, लीलावती वा एतदर्थं नियमनीया)
९—मुहूर्तभागः सारणीभागश्च। (मुहूर्तचिन्तामणिः, ग्रहलाघवम् चेत्येवविधा ग्रन्थाः) (बृहज्ज्यौतिषसारो वा)
अथवा
८—हिन्दीभाषा साहित्यम्। (महाकाव्यानि अलङ्कारग्रन्थाश्च हिन्दीसाहित्यसंमेलनपाठनक्रमात्संग्राह्याः)।
९—डिङ्गलभाषाकाव्यपरिचयः।
अथवा
८—आङ्गलभाषासाहित्यम्
९—आङ्गलभाषाव्याकरणम् } मौट्रिकयोग्यतोपयुक्तम्
अथवा
८—९ आयुर्वेदः (लघुत्रयीत्यादि)
अथवा
८—९ पुराणविषयः (श्रीमद्भागवतम् रामायणमहाभारतांशाश्च)
अथैतेषु वृत्त्यर्थम् विकल्परूपेण यथाभिरुचि एकं द्वयं वा ऐच्छिकम्
(अ) अन्यतमवेदभागः। (मन्त्रसंहितादिः) संस्कारग्रन्थः ग्रहयागादिसहितः, मुहूर्तग्रन्थश्च। (कर्मकाण्डार्थम्)
(क) अध्यापनकलापरिचयः।
(ख) कथावाचनशैली हरिकीर्तनशैली वा।
(ग) ज्योतिषफलकथनाभ्यासः (बृहज्जातकादिजातकग्रन्था अप्येतदर्थमध्येतव्याः)
(घ) वक्तृताशैली। (स्वस्वाभीप्सितधार्मिकसामाजिकराजनैतिकादिविषयपरिज्ञानाय समपेक्षितग्रन्थाध्ययनम्)
(ङ) संगीतम्।
(च) रोगनिदान-भेषजव्यवस्थाभ्यासः।
(छ) आङ्गलभाषा। (मिडिलयोग्यतोपयुक्ता)
(ज) समाचारपत्रग्रन्थसम्पादनशैली।
(झ) चित्ररचनाचातुर्यम्, घटिकासंस्कारादि च। (फोटोग्राफी, सरङ्गं हस्तचित्रम्)
____________________________________________________________
(अ) येषां वेदाधिकारस्त एवात्र प्रवेष्टुमर्हन्ति।
(छ) एतावत् आङ्गलभाषाज्ञानं यथासंभवं सर्वैः संपादनीयम्। अधिकमभ्यासमभिवाञ्छद्भिस्तु पूर्वनिर्दिष्टेषु विकल्पेषु(८-९) अपि आङ्गलभाषा ग्राह्या।
१ एतेषु वृत्त्यर्थेषु विषयेषु क्वचिद्ग्रन्थापेक्षा चेद् हिन्दीभाषा निबद्धैरेव ग्रन्थैः कार्यं परिचालनीयम्। संस्कृतेऽपि सर्वविषयग्रन्थसंग्रहाय यतनीयं च।
(ञ) मुद्रणलेखः (टाइप राइटिंग्) संक्षिप्तलेखप्रक्रिया (शार्ट हैण्ड राइटिङ्ग)
(ट) वास्तुसम्बन्धिमानचित्रकलाकौशलम्।
(ठ) वनस्पतिविज्ञानम्।
(ड) कृषिविद्या।
(ढ) वस्त्रवयनसूचीकर्मादि।
(ण) काष्ठवस्तुनिर्माणम्।
(त) वाणिज्यपरिचयः, अर्थशास्त्रं च। (एकोनोमी)
——————–
उत्तमशिक्षा
प्रथमोभागः।
(वर्षत्रयम्)
तत्र नियतविषयाः- (१) काव्य संग्रहग्रन्थाः(किरातमाघनैषधप्रभृतिभ्यः पद्यसंग्रहः, कादम्बरीवासवदत्तानलचम्पूप्रभृतिभ्यो गद्यसंग्रहः। तुलनात्मकालोचनाविज्ञान-सिद्ध्यर्थं प्रधानकवीनां शैलर्तुवनसागरचन्द्रसूर्यादिवर्णनसंग्रहः।) रघुवंशविमर्शमेघसंदेशविमर्शादि च समालोचनोपयुक्तम्। मुद्राराक्षसमालतीमाधवोत्तररामचरितानर्घराघवादिनाटकेष्वन्यतमम् एकं द्वयं वा।
(२) प्राकृतव्याकरणम्। संक्षिप्तः संस्कृतसाहित्येतिहासश्च।
(तत्तद्विभागप्रविष्टैः स्वविभागसंबन्धिशास्त्रेतिहासः सम्यक्परिशीलनीयः।
(३) अलङ्कारशास्त्रस्य प्रौढं ज्ञानम्। (साहित्यदर्पणसदृशो ग्रन्थोत्रोपादेयः)
(४) प्रस्तावानुवादप्रौढिः।
(५) धर्मशास्त्रे मनु-याज्ञवल्क्य-पराशरस्मृतिष्वन्यतमा।
निम्ननिर्दिष्टेषु विभागेष्वन्यतमविभागनियतग्रन्थाः।
(२) वेदविभागः
(क-खयोरन्यतरत्)
(क) वैदिकविज्ञानप्रधाना शिक्षा।
१ - ऋग्वेदसंहितायाः संगृहीतो भागः। (सूक्तशतद्वयादन्यूनः)
२ - ऐतरेयब्राह्मणम्।
३- दशोपनिषदः।
४ - निघण्टुसहकृतं निरुक्तम्, वृहद्देवता च।
५ - मीमांसादर्शनस्य त्रयोऽध्यायाः।
६ - प्रातिशाख्यमन्यतमम्।
(एतद्विभागप्रविष्टैरुपदेशपद्धतिः शिक्षणीया, पुरातस्वान्बेषणे वा प्रवर्तनीयम्)
(ख) कर्मकाण्डप्रधाना शिक्षा।
(१) शुक्लयजुःसंहितायाः पूर्वार्धम्। ( सस्वरं पाठाभ्यासः कर्मोपयोग्यर्थज्ञानं च)।
७ —दशरूपकम्।
८—सिद्धान्तमुक्तावली।
९—अर्थसंग्रहः।
१०— पिङ्गलसूत्रम्।
एतद्विभागप्रविष्टैः प्राचीनसंस्कृतकाव्यानां भाषान्तरकाव्यानां च तुलनात्मकालोचनाभ्यासे यतनीयम्।
(५) दर्शनविभागः।
१—न्यायसिद्धान्तमुक्तावली।
२—मीमांसान्यायप्रकाशः।
३—शास्त्रदीपिकायास्तर्कपादः।
४—सांख्यतत्त्वकौमुदी।
५—वेदान्तपरिभाषावेदान्तसारौ।
६—प्रमेयरत्नमाला (जैनानाम्)
७—न्यायदर्शनं सभाष्यम्।
८— पञ्चदशी।
एतद्विभागप्रविष्टैराधुनिकतर्कशल्या (लाजिक) आधुनिकदर्शनशास्त्रस्य(फिलासफी) आधुनिकविज्ञानस्य च परिचयः संपाद्यः।
__________________________________________________________
२ साधारणविभागे सर्वशास्त्राणां सामान्या योग्यतालक्ष्यीक्रियते।
५ विभागेस्मिन् सर्वदर्शनानां साधारणी योग्यता लक्ष्यीकृता
(६) न्यायविभागः।
(अन्यतरत्)
(अ)
(१) सिद्धान्तमुक्तावली, पूर्णा। प्रत्यक्षखण्डान्ता दिनकरी च।
(२) गौतमसूत्रं सभाष्यम्।
(३) वैशेषिकसूत्रं सोपस्कारम्।
(४) मीमांसान्यायप्रकाशः।
(५) शक्तिवादः
(क)
(१) सिद्धान्तमुक्तावली, पूर्णा। प्रत्यक्षखण्डान्ता दिनकरी च।
(२) माथुरी पञ्चलक्षणी सिंहव्याघ्रसहिता।
(३) जगदीश्या व्यधिकरणसिद्धान्तलक्षणावच्छेदकत्त्वनिरुक्तयः।
(४) शक्तिवादः।
(५) मीमांसान्यायप्रकाशः।
एतदुद्विभागप्रविष्टैरपि आधुनिकतर्कशैल्या आधुनिकविज्ञानस्य च परिचयो यथासंभवं संपाद्यः।)
(७) सांख्ययोगविभागः।
(१) सांख्यतत्त्वकौमुदी श्रीबालरामोदासीनटीका युता।
(२) सांख्यकारिका गौड़पादभाष्यसहिता।
(३) योगसूत्रं भोजवृत्तियुतम्।
(४) सांख्यसारः योगसारसंग्रहश्च।
(५) न्यायसिद्धान्तमुक्तावली।
(६) वेदान्तपरिभाषा।
(७) मीमांसान्यायप्रकाशः।
(८) विष्णुपुराणस्य सृष्टिखण्डम्।
(८) वेदान्तविभागः।
(क) अद्वैते
(१) वेदान्तपरिभाषावेदान्तसारौ।
(२) पञ्चदशी।
(३) भगवद्गीता शाङ्करभाष्यमाधुसूदनीभ्यामुपेता।
(४) ब्रह्मसूत्रं शङ्करभाष्योपेतम्(१ १/२ अध्यायः)
(५) मीमांसासूत्रस्य सभाष्यस्य तर्कपादार्थवादप्रकरणे
(६) न्यायसिद्धान्तमुक्तावली।
(७) सांख्यतत्त्वकौमुदी।
(अनेनैव क्रमेण विशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतेषु वैष्णवदर्शनेषु शैवदर्शने च अन्यतमस्य शिक्षा सम्पाद्या। ग्रन्थनिर्देशस्तदभिज्ञविद्वदनुमत्या क्रियते। एकविभागप्रविष्टैरपरमतज्ञानं तुलनारूपेण परस्परालोचनं च यथासंभवं संपाद्यम्।)
(एतद्विभागप्रविष्टैः पाश्चात्यदार्शनिकमतान्यपि यथासंभवं ज्ञेयान्यालोच्यानि च। वैज्ञानिकमतेन अद्वैतवादस्य सम्बन्धश्चापि पर्यालोच्यः)
(९) पूर्वमीमांसाविभागः।
(१) मीमांसान्यायप्रकाशः मीमांसापरिभाषा च।
(२) मीमांसादर्शनस्य कुतूहलवृत्तिभाष्याभ्यां सहितस्याध्यायषट्कम्। अधिकरणमालाया अध्यायषट्कं च।
(३) शास्त्रदीपिकायाः प्रथमोऽध्यायः।
(४) मानमेयोदयः।
(५) अधिकरणकौमुदी।
(६) न्यायसिद्धान्तमुक्तावली।
एतद्विभागप्रविष्टैस्तैत्तिरीयसंहिताब्राह्मणे आपस्तम्भश्रौतसूत्रं च सावधानमालोच्यम्।
(१०) जैनदर्शनविभागः।
(१) प्रमेयरत्नमाला।
(२) सप्तभङ्गीतरङ्गिणी।
(३) तत्त्वार्थसूत्रम् सर्वार्थसिद्धिसहितम्।
(४) स्याद्वादमञ्जरी।
(५) आप्तपरीक्षा।
(६) आप्तमीमांसा।
(११) धर्मशास्त्रविभागः।
अन्यतमम्।
(क) आचारभागः
(१) मनुस्मृतिः पूर्णा।
(२) समिताक्षराया याज्ञवल्क्यस्मृतेराचारप्रायश्चित्ताध्यायौ
(३) आचारादर्शः।
(४) निर्णयसिन्धुः।
(५) आशौचपञ्जिका (विद्यावाचस्पतिश्रीमधुसूदनशर्मणाम्)
(६) वशिष्ठपराशरस्मृती।
(७) आपस्तम्बधर्मसूत्रम्।
(८) गृह्यसूत्रम्।
(९) मीमांसान्यायप्रकाशः।
(१०) न्यायमुक्तावली।
(ख) धर्मोपदेशविभागः।
(१) मनुस्मृतिः (इतरस्मृतिपर्यालोचनसहिता)
(२) आशौचपञ्चिका(पूर्वनिर्दिष्टा)
(३) मीमांसादर्शनस्यायं पादत्रयम्।
(४) न्यायदर्शनं सभाष्यम्।
(५) सांख्यतत्त्वकौमुदी।
(६) योगभाष्यम्।
(७) दशोपनिषदः।
(८) वेदान्तसारः।
(९) निरुक्तं समग्रम्।
(१०) चरकसंहितायाः शारीरविमानस्थानयोः, सदाचारादिप्रकरणविशेषाणां चालोचनम्।
(११) यथासंभवं धार्मिकमतवादसंबन्धिनां ग्रन्थानां महाभारतरामायणपुराणादीनां चालोचनम्।
(एतद्विभागप्रविष्टैर्वक्तृताशैली लेखशैली च विशेषतः शिक्षणीये) (विषयावगमप्रधानमध्ययनमस्मिन् विभागे स्यात्- न तु ग्रन्थालोचनप्रधानम्)
(ग) व्यवहारविभागः।
१—समिताक्षरा याज्ञवल्क्यस्मृतिः पूर्णा।
२—व्यवहारमयूखः।
३—दत्तकमीमांसा।
४—महाभारतशान्तिपर्वान्तर्गतं राजधर्मप्रकरणम्।
५—शुक्रनीतिः।
६—मीमांसान्यायप्रकाशः।
७—सिद्धान्तमुक्तावली।
(एतद्विभागप्रविष्टैराधुनिकी शासनप्रणाली व्यवहारनियमविधानं संपत्तिशास्त्रं च पर्यालोच्यानि)
(१२) ज्यौतिषविभागः।
१ – रेखागणितबीजगणिते।
२ – क्षेत्रमितिः।
३ – त्रिकोणमितिः।
४ – सिद्धान्तशिरोमणेर्गणितगोलाध्यायौ।
५ – वृहज्जातकम्।
६ – नीलकण्ठी।
७ – बृहत्संहिता।
८ – षट्पच्चाशिका।
९ – वसन्तराजः।
(एतद्विभागप्रविष्टैराधुनिकज्योतिषविज्ञानमपि सावधानं संपादनीयम्।)
(१३) आयुर्वेदविभागः।
(आयुर्वेदसम्मेलनक्लृप्तयोजनानुसारम्)
(१४) तन्त्रशास्त्रविभागः।
(संहितायामल – डामरादीनामद्ध्ययनं नियम्येत। अनुभवद्वारेण तत्परीक्षा च प्रयोजनीया स्यात्)
(१५) इतिहासविभागः।
ऋग्वेदसंहिता-ब्राह्मण-महाभारत-रामायण-पुराणादीनाम् ऐतिहासिकदृष्ट्यालोचनम्। प्राक्तनभूगोलविचारः, राजतरङ्गिण्यादीनामैतिहासिककाव्यानामध्ययनम्। शिलालेखा-
ध्ययनाभ्यासः। विविधप्राकृतभाषाभ्यासः। आङ्गलभाषाया विशेषतोऽभ्यासः। पाश्चात्योद्भावितैतिहासिकसिद्धांतावगमश्चेत्यादि विभागेऽस्मिन् शिक्षणयं स्यात्। सत्यावश्यकत्त्वेऽत्र साहित्येतिहासः जातीयेतिहास इति भागद्वयं कल्प्येत। एतद्ग्रन्थनियमनं तदभिज्ञविद्वदनुमत्या क्रियेत।
(१६) भाषाविज्ञानविभागः।
प्राकृतभाषाया विविधभेदभिन्नायाः परिज्ञानम्, संस्कृतप्राकृतव्याकरणनियमानां निरुक्तादीनां चाध्ययनम्। पाश्चात्योद्भावितभाषाविज्ञानपद्धतेरध्ययनम्। बहुविधभाषानुशीलनम्। प्राकृतनलिपिज्ञानम्, शिलालेखाध्ययनाभ्यासश्चेत्यादि विभागेऽस्मिन् शिक्षणीयं स्यात्।
(१७) भाषान्तरविभागः।
विभागेऽस्मिन् नियतसंस्कृतकाव्यादिभिश्व सह आङ्गलभाषासाहित्यस्य, प्राकृतभाषासाहित्यस्य, हिन्दीभाषासाहित्यस्य वा विकल्परूपेण विशेषतोऽध्ययनं नियतं स्यात्। अत्रापि संस्कृताङ्गलभाषादिसाहित्ययोस्तुलनात्मकालोचनाविज्ञानं यथासंभव संपाद्यम्।
(१८) पाश्चात्यविज्ञानविभागः।
अत्र संस्कृतनियतग्रन्थानाम् आङ्गलभाषाया अधिकेनाध्ययनेन च सह पाश्चात्यानां विज्ञानस्य(Science) अध्ययनं मुख्यं स्यात्। वेददर्शनायुर्वेदादिपर्यालोचनेन विशेषतस्तन्त्रग्रन्थानामध्य
यनेन च प्राक्तनविज्ञानस्पष्टीकरणमपि च प्रयोजनीयं स्यात्।
(१९) सम्पत्तिशास्त्रविभागः।
प्राक्तनानां राजनैतिकग्रन्थानामाधुनिकग्रन्थानामनुवादितानां चाध्ययनं नियम्येत।
(२०) कृषिविभागः, (२१) कलाविभागः
अनयोरपि विभागयोः प्राक्तनानां संस्कृतग्रन्थानामन्विष्याध्यापनं नवीनैरनुवादितैर्ग्रन्थैः सह नियतीकृतं स्यात्।
अथास्यामुत्तमशिक्षायां यस्मिन् कस्मिन्नपि विभागे प्रविष्टैर्वृत्त्यर्थे गौरवार्थे च निम्ननिर्दिष्टेषु किमप्येकं द्वयं वा ऐच्छिकरूपेण संग्राह्यम्।
(क) आङ्गलभाषा(मैट्रिकयोग्यतोपयुक्ता, द्वितीयभागे तु इण्टरमेडियटयोग्यतोपयुक्ता)
(ख) अध्यापनकलाशिक्षा(ट्रेनिङ्ग)
(ग) ग्रन्थपत्रादिसम्पादनशैली।
(घ) कृषिविद्या।
(ङ) वनस्पतिविज्ञानम्।
(च) रसायनम्।
(छ) भाषाविज्ञानम्।
(ज) प्राचीनलिपिविज्ञानम्।
(झ) ऐतिहासिकगवेषणा
(ञ) अर्थशास्त्रव्यापारादिशिक्षा।
(ट) संगीतम्।
उत्तमशिक्षा।
द्वितीयो भागः
(अस्मिन् विभागेऽन्यतमविषयस्यैव शिक्षा स्यात्)
(१) वेदविभागः
(क)
१—ऋगवेदसंहितायाः संगृहीतो भागः।
२—संहितान्तराणामालोचनम्।
३—शतपथब्राह्मणम्।
४—तैतिरीयगोपथताण्ड्यब्राह्मणानामालोचनम्।
५—उपयुक्तानां वेदाङ्गपुराणादीनामालोचनम्।
६—पूर्वोत्तरमीमांसयोर्यथासंभवमध्ययनम्।
( ख )
१—शुक्लयजुःसंहिताया उत्तरार्धम्। (पूर्वभागवत्)
अथवा
१—ऋक्सामकृष्णयजुःसंहितानामन्यतमाया अवशिष्टो भागः। (पूर्वभागवत्)
२—शतपथब्राह्मणम्।
३—निरुक्तम्।
४— कात्यायनश्रौतसूत्रम्, स्व-स्वशाखोपयोगिसूत्रान्तरं वा। इष्टियज्ञादिपद्धतयश्च।
५—कुण्डमण्डपादिविषयः।
६—शान्तिसारः।
७—देवप्रतिष्ठा।
८— मन्त्रशास्त्रादनुष्ठानादिविषयः।
(२) साधारणविभागः
१—सिद्धान्तकौमुदी तत्त्वबोधिनीसहिता पूर्णा।
२— सिद्धान्तमुक्तावली दिनकरी सहिता।
३—शक्तिवादो, लघुमञ्जूषा वा।
४— काव्यप्रकाशः सप्रदीपः।
५— समिताक्षरा याज्ञवल्क्यस्मृतिः।
६—न्यायदर्शनं सभाष्यम्।
७—चरकसंहितायाः शारीरविमानसदाचारदिनर्तुचर्यादिप्रकरणविशेषाः।
८—भगवद्गीताया विविधभाष्यटीकाभिरर्थपर्यालोचनम्।
९—पञ्चदशी।
१०—कुसुमाञ्जलिर्हरिदासयुक्तः।
(३) व्याकरणविभागः
(अन्यतमम्)
(क)
१ मनोरमाशब्दरत्ने अव्ययीभावान्ते।
२ शब्देन्दुशेखरोऽव्ययीभावान्तः, प्रक्रियाभागस्य च।
३ परिभाषेन्दुशेखरः ।
४ माधवीया धातुवृत्तिः।
५ अङ्गाधिकारमहाभाष्यम्।
६ लघुमञ्जूषा, व्युत्पत्तिवादशक्तिवादौ वा।
७ निरुक्तं पूर्वषट्कम्।
(ख)
१ काशिका पदमञ्जरीव्याख्यायुता।
२ माधवीया धातुवृत्तिः।
३ सप्रदीपोद्यतमहाभाष्यस्यादिममध्यायद्वयम् - अङ्गाधिकारप्रकरणं च।
४ लघुमञ्जूषा-व्युत्पत्तिवादशक्तिवादौ वा।
५ शब्दकौस्तुभो नवाह्निकमात्रम्।
६ वाक्यपदीयम्।
७ निरुक्तम्।
(ग)
१ सकैयटविवरणं सम्पूर्णं महाभाष्यम्।
२ शब्दकौस्तुभो नवाह्निकमात्रम्।
३ वाक्यपदीयम्।
४ निरुक्तम्।
(४) साहित्यविभागे
१ वासवदत्ता।
२ भारतचम्पूः।
३ अनर्घ्यराघवनाटकम्।
४ चित्रमीमांसा।
५ रसगङ्गाधरः।
६ ध्वन्यालोकः।
७ अलङ्कारकौस्तुभः।
८ नाट्यशास्त्रम्।
९ प्राकृतपिङ्गलसूत्रम्।
छन्दः प्रौढये ग्रन्थान्तराणि च।
१० सरस्वतीकण्ठाभरणस्य चित्रप्रकरणम्।
(५) दर्शनविभागः
१ वैशेषिकसूत्रं सोपस्कारम्।
२ पातञ्जलसूत्रं सभाष्यम्।
३ सर्वदर्शनसंग्रहः।
४ शारीरकभाष्यं भामतीसहितम्।
५ छान्दोग्यबृहदारण्यकोपनिषदौ।
६ न्यायमञ्जरी, वैशेषिककन्दली वा।
७ जैनदर्शने सप्तभङ्गीतरङ्गिणी, आप्तपरीक्षा च।
८ कुसुमाञ्जलिः।
९ भगवद्गीता विविधभाष्यटीकापर्यालोचनसहिता।
१० विशिष्टाद्वैतादिशुद्धद्वैतादिसिद्धान्तानां सम्यक् परिचयः
(६) न्यायविभागः।
(अ)
१ न्यायभाष्यवार्तिकं तात्पर्यटीका च।
२ न्यायमञ्जरी।
३ प्रशस्तपादभाष्यं किरणावलीकन्दलीभ्यां युतम्।
४ माथुरी पञ्चलक्षणी।
५ सिद्धान्तलक्षणजागदीशी।
६ कुसुमाञ्जलिर्वर्धमानटीकायुतः
(क)
१ सामान्यनिरुक्त्यादिरुबाधान्ता गादाधरी प्रामाण्यवादगादाधरी च।
२ कुसुमाञ्जलिर्वर्धमानटीकायुतः।
३ व्युत्पत्तिवादः।
४ शब्दशक्तिप्रकाशिका पदवाक्यरत्नाकरो वा।
५ वैशेषिकसूत्रं सोपस्कारम्।
६ न्यायसूत्रं सभाष्यम्।
अथवा
(ख)
१ शिरोमणिसहितः पूर्णश्चिन्तामणिः।
२ सामान्यनिरुक्तिगादाधरी।
३ कुसुमाञ्जलिर्वर्धमानटीकायुतः।
४ न्यायसूत्रं सभाष्यम्।
(७) सांख्ययोगविभागः।
१ सांख्यप्रवचनभाष्यम्।
२ योगसूत्रभाष्यम् वाचस्पत्यटीकायुतं वार्तिकेन चोपेतम्।
३ भगवद्गीता।
४ कठश्वेताश्वतरोपनिषदौ सभाष्ये।
५ हठयोगप्रदीपिका।
६ सिद्धसिद्धान्तपद्धतिः। (गोरक्षनाथकृतः)
७ श्रीमद्भागवतम्(कपिलोपदेशादिसृष्टिप्रक्रिया च)
८ देवीभागवतादिभ्यः देवीगीतासृष्टिप्रकरणादिपर्यालोचनम्
९ महाभारतशान्तिपर्वान्तर्गतो मोक्षधर्मः।
(८) वेदान्तविभागः।
(क) अद्वैते
१ भामतीयुतं शारीरकभाष्यं पूर्णम्।(चतुःसूत्र्यां परिमलकल्पतरू च)
२ दशोपनिषदःसभाष्याः।
३ चित्सुखी।
४ विवरणप्रमेयसंग्रहः।
५ अद्वैतसिद्धिः।
६ खण्डनखण्डखाद्यम्।
७ न्यायदर्शनम् - सभाप्यम्।
८ रामानुजवाल्लभनिम्बार्कभाष्याणां प्रथमोध्यायः।
( ख ) ( ग ) एवमेव विशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतेषु वैष्णवशैवदर्शनेषु अन्यतमस्य प्रौढं ज्ञानम्। साहचर्येण चापरेषां सिद्धान्तानां सामान्यं ज्ञानम्।
(९) मीमांसाविभागः।
१ मीमांसादर्शनस्य कुतूहलवृत्तिभाष्याधिकरणमालाशास्त्रदीपिकासहितस्य शेषांशः।
२ श्लोकवार्तिकम्।
३ तन्त्रवार्तिकस्य द्वौ पादौ(अर्थवादस्मृतिपादौ)
४ विधिरसायनम्।
५ प्रकरणपञ्चिका।
६ भाट्टदीपिका।
७ भाट्टरहस्यम्।
८ तैत्तिरीयसहितातैत्तिरीयब्राह्मणयोरालोचनम्।
(१०) जैनदर्शनविभागः।
१ प्रमेयकमलमार्तण्डः।
२ अष्टसाहस्री।
३ राजवार्तिकम्।
४ श्लोकवार्तिकम्।
५ पञ्चाध्यायी।
६ गोमट्टसारः(प्राकृतः)
७ षड्दर्शनसमुच्चयः।
(११) धर्मशास्त्रविभागः।
(क) आचारभागे
१ पराशरमाधवः।
२ कालमाधवः।
३ वीरमित्रोदयः( व्यवहारप्रकरणवर्जम्)
४ स्मृतितत्त्वम्(रघुनन्दनभट्टाचार्यकृतम्)
( व्यवहारतत्त्वरहितम्)
५ अधिकरणमालायास्त्रयोऽध्यायाः।
६ चतुर्वर्गचिन्तामणि- विधानपारिजातद्वादशमयूखसंस्कार-रत्नमालाप्रभृतिनिबन्धनां यथासंभवमालोचनम्।
७ गृह्यसूत्रादिकर्मकाण्डग्रन्थानामालोचनम्।
(ख) धर्मोपदेशविभागे।
निर्णयसिन्धुः।
धर्मसिन्धुः।
३ ऋक्संहितायाः संगृहीतसूक्तानि।
४ शतपथब्राह्मणस्य संगृहीतभागाः।
५ अथर्वसंहितायाः पर्यालोचनम्।
६ बृहद्देवता।
७ भगवद्गीताया विविधभाष्यटीकानुसारमर्थविवेचनम्।
८ शारीरकदर्शनं पूर्णम्।
९ सर्वदर्शनसंग्रहः
१० न्यायकुसुमाञ्जलिः।
(ग) व्यवहारविभागः।
१ वीरमित्रोदयस्य व्यवहारप्रकरणम्।
२ स्मृतितत्त्वस्य व्यवहारप्रकरणम्।
३ कौटिल्यकृतमर्थशास्त्रम्।
४ आधुनिकशासनप्रणाल्या व्यवहारनियमानां च विशिष्ट परिचयः। तारतम्यपरीक्षणं च। (तदर्थमाङ्गलभाषाया अपि अधिकमध्ययनमत्रापेक्षितं स्यात्।)
५ संपत्तिशास्त्रम्।
(१२) ज्यौतिषविभागः।
१ सूर्यसिद्धान्तः।
२ तत्त्वविवेकः।
३ यन्त्रराजः।
४ केतकी।
५ केशवीजातकम्।
६ जैमिनीयसूत्रम्।
७ बृहत्पराशरी।
८ अन्येषां संहिताग्रन्थानां यथासंभवमालोचनम्।
९ आधुनिकस्य(पाश्चात्य) ज्योतिषस्य सम्यक् परिचयः उत्तमशिक्षायाः प्रथमे भागे या याष्टिप्पण्यः यच्चा युर्वेदतन्त्रेतिहासादिविभागव्यवस्थापनम्
-तत्सर्वमिहाप्यनुसन्धेयम्।
॥ इति ॥
_________________
]