संस्कृतशिक्षा

[[संस्कृतशिक्षा Source: EB]]

[

[TABLE]

বিজ্ঞাপন।

সংস্কৃতশিক্ষা চতুর্থ ভাগ, সঙ্কলিত ও প্রচারিত হইল। এই চতুর্থ ভাগ, দুই অংশে বিভক্ত। প্রথম অংশের নাম গদ্যবন্ধ, দ্বিতীয় অংশের নাম পদ্যবন্ধ। শান্তিবৃত্ত নামক কোন জৈন গ্রন্থ হইতে এই গদ্যবন্ধ সংগৃহীত হইয়াছে। শান্তিচরিত নামে এক খানি প্রাচীন পদ্যময় জৈন গ্রন্থ আছে। সংবৎ ১৫৩৫ ইং ১৪৭৮ অব্দে অর্থাৎ বর্তমান বৎসর হইতে, ৪০০ বৎসর পূর্ব্বে জয়চন্দ্র নামক যতির শিষ্য ভাবচন্দ্র নামক কোন ব্যক্তি উক্ত পদ্যময় শান্তিচরিত হইতে, গদ্যময় এই শান্তিবৃত্ত প্রণয়ন করিয়াছিলেন। আমি যে পুস্তকখানি হইতে এই সংস্কৃতশিকার চতুর্থ ভাগের গদ্যবন্ধ সংগ্রহ করিয়াছি, তাহা ১৬৫ বৎসর পূর্ব্বে লিখিত, এবং তাহা কলিকাতা সংস্কৃত বিদ্যালয়ের প্রস্তকালয় হইতে প্রাপ্ত। সেই পুস্তকের শেষে লিখিত আছে যে,

श्रीमद्विक्रमतः शराग्नितिथियुग्वर्षे १५३५सिते भाद्रके मासे नन्दतिथौ वरे रविदिने श्रीशान्तिवृत्तं व्यधात्। श्रीराका पक्षमुख्येप्रवरगुणनिधि श्रीजयचन्द्रसूरेः शिष्य श्रीभावचन्द्रोऽनुमति यतिवरःपद्यतो गद्यबन्धम्॥ संवत् १५३५ वर्षे भाद्रपदमासे कृष्णवक्षेनवम्यां तिथौ रविवासरे श्रीपूर्णिमा पक्षी भट्टारक श्रीपार्श्वचन्द्रसूरिपट्टालङ्कार संयम श्रीशृङ्गारपूज्य श्रीजयचन्द्र सूरिशिष्य भट्टारक श्रीभावचन्द सूरिभिः स्वल्पम

तिसाधुसाध्वीवाचनाय सुगमार्थं श्रीशान्तिवृत्तं गद्यबन्धेन विहितं चिरं नन्दतु। संवत् १७६८ वर्षेऽमितौ वैशाखवदि ११ तिथौ। आचन्द्रार्क चिरं नन्दतात्। प्रतिरियं वक्ष्यमाना॥ श्रीः॥बः॥बः॥बः॥(न शोधितम्।)

এই শান্তিবৃত্তে উত্তম সুললিত সরল ভাষায়, গল্পচ্ছলে অনেক নীতিবিষয়ক ও ধর্ম্মবিষয়ক উপদেশ আছে। ইহার মধ্যে যে উপাখ্যান গুলিতে ধর্ম্ম বিশেষের উপদেশ বা অশ্লীলাদি নাই, যে সমুদায় অংশ কোন ধর্ম্মের বিরুদ্ধ নহে, যাহা বালকদিগের পাঠের উপযুক্ত, প্রায় সেই সমুদার অংশই ইহাতে সঙ্কলিত হইয়াছে। কোন কোন স্থলে, ধর্ম্মবিশেষের পক্ষপাতাদি পরিহার করিবার নিমিত্ত, দুই একটি নাম বা শব্দ পরিবর্ত্ত করিয়া দিয়াছি। এই সঙ্কলিত গদ্যবন্ধ পাঠ করিলে এক্ষণে কেহ অনুভব করিতে পারিবেন না যে, ইহা বৌদ্ধ বা জৈন গ্রন্থ হইতে উদ্ধৃত।

পদ্যবন্ধ, মহাভারত হইতে সঙ্কলিত। মহাভারত রূপ মহাসাগরের গর্ভে যে সমুদায় মহোজ্জ্বল উপদেশরত্ন নিহিত আছে, তাহার মধ্যে কয়েকটিমাত্র ইহাতে সংগৃহীত হইয়াছে। আমি বিবেচনা করি, এই উপদেশ গুলি সুকুমার মতি বালকদিগের পক্ষে বিশেষ উপযোগী হইতে পারে। এক্ষণে এতৎপাঠে যদি বিদ্যার্থীদিগের মধ্যে এক ব্যক্তিরও কিঞ্চিৎ উপকার হয়, তাহা হইলেও শ্রম সার্থক বোধ করিব।

সংবৎ১৯৩৫ } শ্রী জগন্মোহন তর্কালঙ্কার।
১ লা জ্যৈষ্ঠ

संस्कृतशिक्षा

<MISSING_FIG href="../books_images/U-IMG-17358816771.jpg"/>

चतुर्थ भागः।

_______

गद्यवन्धः।

इहैव भरतक्षेत्रे अनन्तरत्ननिकेतनं रत्नपुरं नाम पत्तनमस्ति। तत्र श्रीषेणनामा भूपतिरभूत्। तस्य द्वेभार्य्ये, मुख्या असिनिन्दिता, द्वितीया सिंहनिन्दिता च।

एकदा आद्या महिषीसुखशय्यायां शयाना यामिन्यां स्वप्नमध्ये निजोत्सङ्गवर्त्तिनौ सूर्य्यचन्द्रमसौ ददर्श। तद्दर्शनेन सा राज्ञीहर्षप्रकर्षं दधौ। ततः स्वधिया तया चिन्तितं, शास्त्रविद एवं वदन्ति, ‘भव्यतरं स्वप्नं वीक्ष्ययस्य कस्य पुरतो न कथ्यते’, तावत् शयनमपि न कर्त्तव्यम्। अतः सा विनिद्रा सती तं स्वप्नंप्रातःकाले स्वभर्त्तुःकथयामास।

ततः सोऽपि नृपः स्वबुद्ध्याशास्त्रदृष्ट्या च विचार्य्यप्रसन्नवचसा तत्फलमित्थंशशंस, देवि! एतत्स्वप्नमहिम्नाते युग्मजातौ भूविख्यातौ कुलोद्व्योतकरौ प्रवरौ च पुत्रौ भविष्यत इति। एवं श्रुत्वा सा महिषी मुदिता। ततश्चसा गर्भद्वयं दधतीनितरां शुशुभे।

अथ सम्पूर्णसमये तया पुत्रद्वयं सुषुवे। ततः पिता

महोत्सवपुरःसरं जातकर्म्मादिकं विधाय यथासमयं तयोः पुत्रयोरिन्दुषेणो च विन्दुषेणो इति च नाम विनिर्म्ममे।

तन्नाम्ना तौ द्वावपि लाल्यमानौप्रवर्द्धमानौ च क्रमेणाष्टवार्षिकौ संवृत्तौ। ततश्च राज्ञा तौ द्वावपि कुलाचार्य्यसमीपे समर्पितौ कलाभ्यासं कारितौ क्रमेण यौवनं प्राप्तौ।

इतश्चात्रैवभारते मगधनाम्नि देशे अचलनामा ग्रामोऽस्ति। तत्र धरणिजटाभिधानो द्विजपुङ्गवो वेदवेदाङ्गविचक्षणो वसति। तद्भार्य्या यशोभद्रा। तत्कुक्षिसम्भवौ नन्दिभूति-श्रीभूति-नामानौ पुत्रौ बभूवतुः। पञ्चवर्षानन्तरं तौ नन्दनौ यत्नतो निरन्तरं स विप्रो वेदशास्त्रं पाठयामास। तथा दास्याः कपिलायाः पुत्रः कपिलनामासीत्। सोऽपि द्विजनन्दनः। परन्तु तं प्रज्ञाधिकमपि जातिहीनतया वेदशास्त्रं द्विजो न पाठयति स्म। परन्तु कपिलःशृण्वन्नेव चतुर्द्दशविद्याविशारदोऽभूत्।

अथासौ तस्मिन् ग्रामे जातिहीनतया मानमलभमानो गृहान्निःसृत्य यज्ञोपवीतं वहन् महाब्राह्मणसममात्मानं मन्यमानो ब्रह्मक्रियाकुशलो वेदवेदाङ्गनिपुणो महींभ्राम्यन् श्रीरत्नपुरपत्तनमाययौ।

तत्र सत्यकिनामा महोपाध्यायः स्वलेखशालायां बहून् छात्रान्वेदशास्त्राणि पाठयति स्म। कपिलस्तत्र समेतः। तेन चासौ छात्रान् पाठयन् दृष्टः। तदा स्वकीयचातुर्य्यप्रकाशनाय तेन कपिलेन तदीयच्छात्रसमीपे कश्चित् वेद-

पदार्थः पृष्टः। तदा सत्यकिना हृदये चिन्तितं, महान् पण्डितोऽयं, यत् पृष्टं वाक्यं, तन्ममापि हृदये नोत्पद्यमानमस्ति, मदीयच्छात्रेकथं समर्थता स्यात् प्रत्युत्तरदाने इति विचिन्त्य तत्र महोत्कृष्टं विद्यागुणं दृष्ट्वा ब्रह्मक्रियायोग्यं विज्ञाय स्वपदे संस्थापयामास। यतो गुणैः कस्य चेतो न नम्यते।

अथ सत्यकि-पण्डितस्य जम्बुकानाम्नीगेहिनी बभूव। तत्कुक्षिसम्भवा सत्यभामा पुत्रौ गुणवती रूपवती च, परन्तु कुमारिकास्ति। तदा तेन उपाध्यायेन हृदि विचिन्तितम्, एतस्या योग्योऽयं वरः। इति ध्यात्वासौ तस्मै तां पुत्रींददाति स्म। कपिलस्तु तया सार्द्धंस्वेच्छया विषयसुखंभुञ्जानः सुखेन तस्थौ। उपाध्यायेन सम्मानित इति कारणात्जनैरपि कपिलः सत्कृतो विद्वत्सभासु विशेषतः सम्मानितो राजप्रसिद्धश्च सञ्जातः।

अथैकदा प्रावृट्कालः प्रादुर्बभूव। तस्मिंश्च समये कपिलो रात्रौ कौतुकाविष्टो देवकुलेषु नाटकादिविलोकनार्थं गतः। तत्र सङ्गीतादिविनोदेन निशार्द्धंसमतीतम्। ततो नाटकं विसृष्टं, सर्व्वेऽपि जनाः स्वस्थानमगमन्। कपिलोऽपि रात्रौ गाढ़ान्धकारे तोयदे प्रवर्षति गृहं गन्तुंप्रवृत्तः। मार्गे कोऽपि गच्छन्नागच्छन्न दृश्यते। तदा कपिलेन स्वमनसि चिन्तितम्। मुधा किं वस्त्रेआर्द्रीकरोमि, साम्प्रतं मार्गोऽपि निःसञ्चरः संवृत्तः। इति ध्यात्वासौ

वाससी संवृत्य कक्षान्तरे निःक्षिप्य नग्न एव निजगृहं समेतः।

ततो गृहद्वारेणागत्य वस्त्रे परिधाय गृहमध्ये प्रविष्टः। तद्भार्य्या गृहमध्यात् अन्यवाससी समानीय तमिति प्रोचे, स्वामिन्! जलक्लिन्नेवाससीमुञ्च, इमे परिधेहि। तद्वचः श्रुत्वा कपिलःप्राह, प्रिये! मन्त्रशक्त्यामम वस्त्रे न क्लिन्ने, यदि संशयोऽस्ति तर्हि विलोकय। तदा सा सविस्मयं करस्पर्शेन विलोकयामास। ते तथाविधे ज्ञात्वा यावत् साश्चर्य्यामनसि चिन्तयति तावत् विद्युदालोकेन तस्याङ्गंजलार्द्रंदृष्ट्वा सा कुशाग्रधीः स्वमनसीत्थंव्यचिन्तयत्, नूनं वृष्टिभयेन वाससीगोपयित्वा नग्न एवायं पथि समियाय, वृथात्मानं प्रशंसति। अनया चेष्टया नैष कुलीनो विभाव्यते, तस्मादस्य गृहवासोमम विड़म्बनैव। इति विचिन्त्य सा तस्मिन् मन्दरागाभूत्, परन्तु वाह्यवृत्त्या गृहवासं प्रतिपालयतिस्म।

इतश्चकपिलपिता प्रचुरविद्यावानपि कालेन कर्म्मवशात् निर्द्धनो जातः। तदा तं कपिलनामानं पुत्रं विभूतिमन्तं लोके पूजितं च ज्ञात्वा स धनार्थी सन् तद्गृहे प्राघूर्णकः समागतः। भोजनकाले किमपि मिषान्तरं कृत्वा स कपिलो जनकात् पृथगुपविष्टः। तदा तस्या विशेषेण संशयः समुत्पन्नः। तेनैकान्ते विप्रस्तया शपथपूर्व्वमेवं पृष्टः, तात! भवतामेष सुतः अङ्गजोवान्यः?

इति पृष्टे तेन यथातथं बभाषे। तदा तस्या मनसि निश्चयो जातः।

अथ कपिलेन किञ्चित् दत्त्वा विसृष्टः स जनकः स्वस्थानं गतः। तदनन्तरं सत्यभामा कपिलात् विरक्ता सती श्रीषेणभूपसमीपं गत्वाञ्जलिं कृत्वा प्राह, देव! त्वंजगतीनाथः, पञ्चमो लोकपालः, तथा दीनानाथानां त्वं शरणं त्वमेव गतिः, अतः कारुण्यं कुरुष्व ममोपरि। भूपतिस्तां प्राह, भद्रे! दुःखस्य कारणं ब्रूहि, त्वत्पिता सत्यकिरस्माकं पूज्यः, त्वन्तु तत्पुत्री, कपिलस्य गेहिनी, तेन विशेषतो मान्या, अधुना कारणं दुःखस्य कथय।

सा प्राह, राजन्! यो मम भर्त्ता कपिलो नाम स हि हीनकुलत्वेन दूषितः। राज्ञापृष्टं भद्रे! कथं त्वया ज्ञातं?, तदा तया कपिलस्वरूपं समग्रमेव राज्ञेनिगदितम्।तया पुनरित्थंबभाषे अनेन गृहवासेन मम पर्य्याप्तम्। तथा कुरु भूपते! यथाहं विमलं शीलं पालयामि, अहं त्वदीयं शरणं प्राप्तास्मि।

तया इत्युक्ते राज्ञाकपिल आकारितः कथितश्च भोः कपिल! एषा त्वदीया प्रिया सत्यभामा त्वयि विरक्तास्ति, तत इमां विगलितस्नेहां मुञ्च, इयं पितृवेश्मवत् मदीयमन्दिरे, स्थिता शीलालङ्कृता कुलोचितं धर्म्मंकरोतु। नृपेण इत्युक्तेकपिलोऽप्याह, राजन्! तां विना क्षणमप्यहं स्थातुं न क्षमः, तदिदं कथमुच्यते इति कपि-

लोक्तंवचः श्रुत्वा राजा सत्यभामां पप्रच्छ, भद्रे! यद्येष त्वां न मोक्ष्यति तर्हि किं करिष्यसि? इत्युक्तेतयाप्रोक्तं यद्यस्मात् अकुलीनात् मम मोक्षो न स्यात् तदाहं प्राणत्यागं निश्वयेन कुर्य्याम्।

इति तद्वचनं निशम्य राज्ञा पुनरपि कपिलस्य निगदितं, हंहो! यद्येतां बालां त्वं बलात् ग्रहीष्यसि तर्हि नूनं तव स्त्रीहत्यापातकं भविष्यति। त्वं कथं पापान्नबिभेषि, तथा यदि तव रोचते तर्हि अस्मद्राज्ञी-समीपे जनकगेहवदेषा तिष्ठतु कियन्ति दिनानि, इत्युक्तेकपिलेनानुमतम्। ततः सत्यभामा सुविनीता सुशीला सती नृपप्रियासमीपे सुखेन तस्थौ।

एतस्मिन्नन्तरे त्रिकालदर्शी कश्चिन्महर्षिर्भूमण्डलभ्रमणप्रसङ्गेन तस्मिन् नगरे समायातः। श्रीषेणभूपतिस्तु तद्वन्दनार्थं सपरिच्छदो ययौ। तत्र गत्वा महर्षिं प्रणम्य तदनुज्ञया यथास्थानमुपविष्टो महर्षिमुखात् बहुविधं धर्म्मोपदेशं शुश्राव। धर्म्मोपदेशावसाने महर्षिणोक्तं, राजन्! ये मनुष्या विविधविभवादिकं प्राप्य प्रमादतो धर्म्मंनानुतिष्ठन्ति तेषां जन्म निरर्थकम्। ये च मङ्गलकलसवत् धर्म्मानुसारेण ऐश्वर्य्यशालिनो भूत्वा धर्म्ममार्गं न विजहति त एव श्लघ्याः।

अथ राज्ञाश्रीषेणेन पृष्टं, को मङ्गलकलसः? कृपया तत्कथां कथय। महर्षिः प्राह, राजन्! श्रूयताम्।

मङ्गलकलसकथा।

आसीदुज्जयन्यां वैरसिंहो नाम राजा, तन्महिषी च सोमचन्द्राभिधाना। तत्र धनदत्तनामा श्रेष्ठिपुङ्गवः प्रतिवसति स्म। स हि सुविनीतः सत्यशीलदयान्वितः परोपकारप्रवणश्च। तद्भार्य्या सत्यवती, सा हि सुशीला पतिपरायणा परन्तु सन्तानविवर्जितास्ति। एकदा सा श्रेष्ठिनं सुतचिन्तया म्लानमुखं निरीक्ष्यपप्रच्छ, कान्त! किन्ते दुःखकारणं? तदा श्रेष्ठीयथातथं बभाषे।

तद्वचः श्रुत्वा सत्यवती पुनरप्याह, नाथ! अलमनया चिन्तया। इह लोके परलोके च नृणां समीहितार्थदायको धर्म्मएव, अतः कारणात् स एव विशेषेण सेवनीयः, इत्युक्तेश्रेष्ठिना जगदे, कयारीत्या धर्म्मोऽनुष्ठीयताम्? श्रेष्ठिनी प्राह, स्वामिन्! परात्परपरमेश्वरे भगवति भक्तिं कुरुष्व। पात्रेभ्यो दानं देहि, धर्म्मशास्त्राणि लेखयित्वा विज्ञजनेषु वितर। एवं कुर्व्वतो यदि पुत्रो भवेत् तदा महान् लाभः। यदि कदाचित् पुत्रोन स्यात्, तर्हि नाथ! परलोकोऽपि निर्म्मलो भवेत्।

एतत् श्रुत्वा श्रेष्ठी हृष्टोऽवादीत्, प्रिये! त्वया साधूक्तम्। सम्यगाराधितो धर्म्मश्चिन्तामणि-कल्पद्रुमतुल्यतां दधाति।

इति निश्चित्य मनसि देवपूजार्थं पुष्पग्रहणाय श्रेष्ठी आरामिकं समाकार्य्यतस्मै बहु धनं ददौ, ततश्च प्रत्यहं

प्रातः समुत्थाय स स्वयमेव वृक्षवाटिकायां गत्वा कुसुमानि समानीय गृहप्रतिमार्च्चनां विधाय नगरप्रान्तस्थे देव्याःकात्यायन्या मन्दिरे गच्छति। अथ कालेषु गच्छत्सु देवी परितुष्टा प्रत्यक्षीभूय पुत्रवरं ददौ, तेन च वचसा स प्रमुदित श्रेष्ठी।

इतश्च पुण्यप्रभावात् देवतादेशाच्च श्रेष्ठिनी यस्यां रात्रौ गर्भं दधौ, तस्यामेव तया स्वप्ने हेममयः पूर्णकलसो मङ्गलान्वितो दृष्टः। तदा सा जजागार प्रमुदिता च समभूत्। क्रमेण पूर्णसमये शुभवेलायामस्याः पुत्रो जातः। तदा महोत्सवा बभूवुः। पित्रा च दीनदुःस्थितेभ्यो रत्नादिकं दत्त्वा समग्रस्वजनसमक्षंस्वप्नानुसारेण मङ्गलकलस इति नाम व्यधीयत।

अथ मङ्गलकलसः क्रमेण प्रवर्द्धमानो विद्याभ्यासं कुर्व्वन् अष्टवर्षीयो जातः। एकदा तेनेति पृष्टं, तात! नित्यं त्वं प्रातः समुत्थाय क्वयासि? पित्रा चोक्तं, प्रतिदिनं देवपूजार्थं वृक्षवाटिकायां पुष्पग्रहणाय यामि। सुतेनोचे, अहमपि त्वया सार्द्धं गमिष्यामि, इत्युक्तेवार्य्यमाणोऽपि तमनुययौ। आरारामिकेण श्रेष्ठिनः सुतं विज्ञाय तस्य बालकस्य प्रीतये नारङ्ग-जम्बीर-कदलादीनि सुस्वादूनि फलानि दत्तानि।

ततः श्रेष्ठीप्रसूनान्यादाय सपुत्रः स्वगृहं गतः। तस्मिन् दिने श्रेष्ठिना पुत्रेण सह स्नानार्च्चनभोजनादि कृतम्।

ततः सुतो लेखशालायां समगात्। अथ द्वितीयवासरे महताग्रहेण पुत्र एकाकी पुष्पाण्यादातुं वृत्तवाटिकायां ययौ।आरामतश्च चारूणि पुष्पाणि गृहीत्वा समागात्। ततस्तेन पितुरित्थं निवेदितं पितः! अहमेव प्रतिदिनं कुसुमग्रहणाय यास्यामि, भवद्भिस्तु धर्म्मध्यानपरैः स्वगृह एव स्थातव्यम्। तदीयवचसा च तेनानुमतम्। ततो निरन्तरं सुतो वृक्षवाटिकातः कुसुमान्यानयति, श्रेष्ठीसुखेन देवार्च्चनां करोति।

इतश्चात्रैव भरतक्षेत्रे चम्पा नाम महापुरीविद्यते। अस्ति तत्र सुरसुन्दरी नाम राजा, राज्ञी च गुणावली नाम। एकदा सा स्वप्नावस्थायां निजोत्सङ्गे कल्पलतां दृष्ट्वा जागरूका सतीभर्तुः कथयामास। तदाराज्ञा स्वधिया विचार्य्यप्रोक्तं, देवि! एतत्स्वप्नप्रभावात् सर्व्वलक्षणसम्पन्ना पुत्री भविष्यति। इति निशम्य सा मुमुदे।

ततः परिपूर्णसमये तया सुता प्रसूता। महीपेन तस्यास्त्रैलोक्यसुन्दरीति नाम विदधे। ततः क्रमेण प्रवर्द्धमाना सा तारुण्यं वयः प्राप्ता सतीलावण्य-सौभाग्य-निकेतनं जाता। एकदा तां मनोहराङ्गीं सुतां दृष्ट्वा राजा हृदि वरचिन्तामकरोत्। तदा अन्तःपुरिकाभिर्व्विज्ञप्तं राजन्! एषा बालिका अस्माकं जीविताधारा, वयमेतद्विरहं सोढ़ुमक्षमाः; अतोऽस्या विवाहो नान्यत्र सम्पाद्यः; अस्यामेव पुर्य्यां सुबुद्धिनाम्नो मन्त्रिणः पुत्राय चैषा दातव्या।

इति स्त्रीणां वचो निशम्य नृपो हृदि दध्यौ, नून विवाहादिकार्य्ये,पुरन्ध्रीणामेव प्राधान्यम्, इति विचिन्त्य भूपेन सुबुद्धिनामा सचिवः समाहूतः, बहुमानपूर्व्वकमिति भाषितश्च, भो मन्त्रिन्! मया मत्सुता त्वत्सूनवे देया, विवाहोत्सवः क्रियताम्। इत्युक्तेमन्त्रिणा प्रोक्तं, स्वामिन्! अयुक्तंकिं वदसि? त्वत्पुत्रीकस्मैचित् राजसूनवे घटते न तु मत्पुत्राय। यत उक्तं,

ययोरेव समं वित्तं ययोरेव समं कुलम्।
तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः॥

इति मन्त्रिवचः श्रुत्वा राजा पुनरप्याह, मन्त्रिन्! त्वयात्र न किमपि वाच्यम्, एतत् कार्य्यमित्यमेव भविष्यति। पारिषद्वर्गैरप्युक्तं, मन्त्रिन्!नृपवाक्यं तथेति प्रतिपद्यताम्। तदा मन्त्री नृपवचोऽनिष्टमप्यनुमेने।

ततो मन्त्री गृहं गत्वा उपविष्टश्चिन्तयामास, अहो! महति विपत्सागरे पतितोऽस्मि, किं करोमि? राज्ञः पुत्रीरूपेणासमाना, मत्पुत्रस्तु कुष्ठरोगाभिभूतः। तयोर्योगं कथं करोमि? इति चिन्तातुरतया सर्व्वमपि भोजनादिकं विस्मृतम्।

अथ चिन्तयतस्तस्य एवं बुद्धिरुत्पन्ना यथा मदीया कुलदेवी सप्रभावा, तामेवाराधयामि, तत्प्रसादात् सर्व्वं समीहितं सेत्स्यति इति ध्यात्वा मन्त्री विधिवत् कुलदेवतामारराध। ततः सा भगवती प्रत्यक्षीभूय जजल्प, मन्त्रिन्!

किमर्थमहं ध्यातास्मि। मन्त्रिणोक्तं, मातः! त्वं स्वयमेव सर्व्वं वेत्सि, तथापि पुनर्मम कथयतः शृणु। मत्पुत्रो दुष्टेन कुष्ठव्याधिना पराभूतोऽस्ति। अधुना तथा कुरु यथा नीरोगतां भजते।

देवी प्राह, पुराकृत-कर्म्मयोगादस्य व्याधिवेदना जाता। सा तु मयापि अपाकर्त्तुंन शक्यते। तवैषा प्रार्थना वृथा। इत्युक्तेपुनरपि मन्त्री विमृष्य बभाषे, यद्येवं न स्यात् तर्हि कमपि अन्यं पुरुषं तदाकारं निरामयं कुतोऽप्यानीय मम समर्पय, यथाहंनृपपुत्रींतेनोद्वाह्य स्वपुत्राय ददामि; तस्य च यथोचितं करिष्ये।

एवं निशम्य देवी प्राह मन्त्रिन्! पुरीद्वारे अश्वपालसमीपे यः कश्चिद्बालको मया कुतोऽप्यानीय मुक्तः शीतनिवारणार्थमग्निसेवां करिष्यति स भवता ग्राह्यः, पश्चात् यथोचितं कर्त्तव्यम्। इत्याख्याय देवी तिरोदधे। सचिवोऽपि हृष्टः सन् समग्रां विवाहसामग्रीमाहर्त्तुं लग्नः।

तदनन्तरं मन्त्री स्वतुरङ्गमरक्षकं प्रच्छन्नतया समाहूयसर्व्वं वृत्तान्तमादितो निवेद्य सादरमिदमुवाच, यः कोऽपि बालकः कुतोऽपि भवदन्तिके समभ्येष्यति, स त्वया शीघ्रं समानीय मम समर्पणीयः। इत्युक्तेन तेन अश्वरक्षकेणाङ्गीकृतम्।

इतश्च देवी ज्ञानेन श्रेष्ठिसुतं मङ्गलकलसं तस्या राजसुताया भाविनं वरं विज्ञाय उज्जयन्यां महापुर्य्यां ययौ।

तत्र गत्वा यथा मङ्गलकलसः पुष्पाण्यानयन् शृणोति तथा व्योमस्थैवमुवाच। य एष बालकः पुष्पाण्यादाय गच्छति स भाटकेन राजकन्यां परिणेष्यति।

इति श्रुत्वा स बालो विस्मयमापन्नःकिमेतदिति चिन्तयन् मनसि दध्यौ, गृहं गतस्तातस्य कथयिष्ये। अथ गृहं गतस्तावत् विस्मृतवान्। द्वितीयवासरेऽपि तथैव श्रुतम्। तदा स मनसि व्यचिन्तयत्, अहो! या वाणी कल्ये श्रुता, अद्यापि सा वाणी नभसि श्रूयते। गतदिने पितुर्न कथितम्, परन्तु अद्यैव कथयिष्यामि।

इति विचिन्तयन् मङ्गलकलसो यावद्गच्छति, तावत् महत्या वात्यया समुत्क्षिप्य स चम्पापुरी-समीपस्थे महारण्ये नीतः। तदा स भयभ्रान्तस्तृषाक्रान्तः क्लान्तो मानससरः समानमेकं सरोवरं दृष्ट्वा तत्र वस्त्रपूतं जलं पीत्वा सुस्थीभूय, दर्भतृणैरज्जुं विधाय तया तदीयकूलसंरूढ़मेकं वटवृक्षमारुरोह।

अथास्तमिते भानौ यावदसौ दिशो विलोकयति, तावदुत्तराशायां समीप एव प्रज्वलितमनलं ददर्श। ततोऽसौ शीतपीड़ितो वृक्षात् समुत्तीर्य्य ज्वलनानुसारेण चम्पापुरी-वहिःप्रदेशेययौ। तत्र च अश्वपालसमीपे वह्निसेवां कर्त्तुमुपविष्टः।

अथ तैरश्वरक्षकैः पुरुषैः सहास्यैरित्युक्तं, कोऽयं वराको बालकः कुतः समायातः? इति परस्परं वार्त्तांकुर्व्वत्सु तेषु

तुरगरक्षकस्वामिना श्रुतम्। तदा तेन पूर्व्वसङ्केतं स्मरता स बालकः स्वसमीपे समानीतो निरुपद्रवः कृतश्च। ततश्च प्रत्यूषसमये अतियत्नेन सचिवसमीपं प्रापितः। अथासौ प्रमुदितेन तेन मन्त्रिणा भव्यस्थाने स्थापितः स्नानभोजनादिना सन्तोषितश्च।

मङ्गलकलसेनापि चिन्तितं,कथमयं मम सत्क्रियां कुरुते! गोपायित्वा च कथमहं रक्षितोऽस्मि। इति विमृष्य स सचिवं पप्रच्छ, मम वैदेशिकस्य किमर्थमयं सत्कारः क्रियते? तथा का एषा पुरी, को वा देशः? को वात्र भूपतिः? इत्यादिकं सत्यं प्रोच्यतां, ममात्र विस्मयोऽस्ति। इति श्रुत्वा अमात्योऽवादीत्, ईयं चम्पा नाम पुरी, अङ्गाभिधो देशः, सुरसुन्दरोऽत्र राजा, तस्याहममात्यः सुबुद्धिनामा। मया त्वं महता कारणेन समानीतोऽसि।

तदा तेन पृष्टं, किं तत् कारणम्? सुबुद्धिःप्राहः, भोः! शृणु। राज्ञा त्रैलोक्यसुन्दरी नाम पुत्रीविवाहयितुं मत्पुत्राय दत्ता। स पुनःकुष्ठाभिभूतोऽस्ति, अतस्त्वया तां परिणीय मत्सुताय दातव्या, इत्यर्थे त्वमानीतः। अहमपि यथोचितपुरस्कारेण त्वां परितोषयिष्ये।

एतद्वचो निशम्य मङ्गलः प्रोवाच, भो मन्त्रिन् ! कथमीदृशमकृत्यं करोषि, सा रूपवती बाला क्व, क्व च तवकुष्ठीसुतः! नाहमेतावन्निष्ठुरं कर्म्म करिष्यामि। मुग्धं जनं कूपे क्षिप्त्वावरत्राकर्त्तनं कः कुरुते! मन्त्री प्राह,

रे दुष्ट! यदीदं कर्म्मन करिष्यसि तदाहं त्वां निजहस्तेन मारयिष्यामि।

इत्युक्ता सुबुद्धिः निष्कोषीकृतं खड्गमाकृष्यतं हन्तुं प्रवृत्तः, तथापि स कुलीनशिरोमणिरकृत्यं नानुमेने। तदा प्रधानपुरुषैर्मन्त्री तद्वधान्निषिद्धः, तस्य मङ्गलकलसस्यापि उक्तं, भो भद्र! त्वं मन्त्रिवचो मन्यस्व। विचक्षणैः प्रस्ताव-सदृशं क्रियते। इति श्रुत्वा तेनापि मनसि चिन्तितम्, एवमेव नूनंभवितव्यमस्ति, अन्यथा मम उज्जयनीत इहागमनं कथं स्यात्, व्योमवाण्यापि पुरा इत्थमेवोक्तं, तस्मादहमप्येवं करोमि, यद्भाव्यं तद्भवत्येव।

इति विचिन्त्य मङ्गलः सचिवं पुनरेवमाह। इदं यदि निर्घृणं कर्म्मकृतमेव विलोक्यते तदाहमपि भवत्पार्श्वे किमपि अभ्यर्थयामि। इत्युक्तः सचिवः सोऽनुकूलो बभाषे, भो भद्र! कथय।

तेनोक्तंयद्वतु राजा मे प्रयच्छति, तत् सर्वं मामकीनमेव, तच्च तत्क्षणमेव उज्जयन्याः पथि धर्त्तव्यम्। एतद्वाक्यंमन्त्रिणा अनुमेने। ततो निकटस्थे लग्ने हस्तिनमारोप्य वस्त्रालङ्कारविभूषितः स नृपसमीपे निन्ये। तदा राजा प्रमुदितः। त्रैलोक्यसुन्दरी च तं मन्मथोपमं दृष्ट्वा तद्वरप्राप्त्यास्वं कृतार्थं मेने।

ततश्च लग्नसमये विप्रेण पुण्याहं पुण्याहमिति जल्पता वह्निंपरितश्चतुर्व्वारं दम्पती परिभ्रामितौ चत्वारि मङ्गलानि

प्रवर्त्तितानि। प्रथमे मङ्गले राजा वराय भूयांसि चारुवस्त्राणि प्रादात्; द्वितीये मङ्गले वस्त्राभरणान्यदात्; तृतीये मङ्गले सुवर्णमणिरत्नादिकं ददे; चतुर्थे मङ्गले रथादिकं दत्तवान्।

तयोर्दम्पत्योरित्थंविवाहोत्सवः संजज्ञे। विवाहोत्सवे सञ्जातेऽपि यदा जामाता बधूहस्तं न मुञ्चति, तदा राज्ञाभिहितं, वत्स! तव किं यच्छामि, इत्युक्तेन तेन परमोत्कृष्टघोटकपञ्चकं ययाचे। तदा नरेन्द्रो हर्षनिर्भराङ्गतया ततक्षणमेव याचितान् पञ्चाश्वान् तस्मै जामात्रे ददौ।

ततस्तूर्य्यैर्वाद्यमानैर्वन्दिवृन्दरवैर्जायमानैः सवधूकः स मङ्गलकलसः सचिवेन यदा स्वगृहे निन्ये, तदा निशायां मन्त्रिगृहजनः छन्नं छन्नंजजल्प, केनाप्युपायेन शीघ्रमेवायं निष्काश्यताम्।

अथ सा त्रैलोक्यसुन्दरी चेष्टिताकारैर्भर्त्तारं चलचित्तंविज्ञाय तस्योपान्तं न मुमोच। ततः क्षणान्तरेण स देहचिन्तार्थमुत्थितः1। तदनु सा राजसुता पृष्ठत एव ययौ। तदा स पयसा पवित्रीभूय गृहं समेतः। परन्तु सचिन्तोऽस्ति। तस्मिन्नवसरे तया त्रैलोक्यसुन्दर्य्यारहः स्थितं स्वपतिं शून्यचित्तं दृष्ट्वा बभाषे स्वामिन्! किं भवतां क्षुधावाधते? आमिति तेन भणितम्। सा च दासीहस्तेन पितृगेहान्मोदकानानाय्य तस्मै ददौ।

तेषु मोदकेषु भुक्तेषु पानीयं पिबता तेनेति प्रोक्तम्, अहो! ईदृशेषु सिंहकेशर-मोदकेष्वास्वादितेषु यदि उज्जयन्यांनगर्य्यां नीरं लभ्यते तर्हि भव्या तृप्तिः स्यात्, न चान्यथा। तद्वाक्यं श्रुत्वा व्याकुलमनसा राजपुत्री दध्यौ, अहो! एष अघटमानं किं प्रजल्पति।असावुज्जयनीजलस्य मिष्टत्वं कथं जानाति। अथवास्य मातृकुलं तत्र भविष्यति। तेन दृष्टपूर्व्वतया तत्स्वरूपं ज्ञातं भविष्यति। ततस्तया स्वहस्तेन पञ्च सौगन्धिकं ताम्बूलं स्वभर्त्रेमुखपाटवाय दत्तम्।

ततः क्षणान्तरेण मन्त्रिणा मानुषं प्रेष्य प्रस्तावो ज्ञापितः। तदा मङ्गलेनोक्तं, राजतनये! पुनरप्यहमधुना वहिर्गन्तुकामोऽस्मि। उदरार्त्तिरसदृशीबाधते। त्वया क्षणमेकं प्रतीक्ष्यसमागन्तव्यम्। इत्युक्त्वासौ मन्दिरान्निर्ययौ। अथासौ मन्त्रिसमीपं गत्वा पप्रच्छ, मामकीनं राजदत्तं तुरगादिवस्तु क्वास्ति। तेनोक्तं, तत् सर्व्वं उज्जयन्याः पथि संस्थापितमस्ति।

ततोऽसौ तत्र गत्वा सारतरं वस्तुजातमेकस्मिन् रथे निक्षिप्य तस्मिन् चतुरोऽश्वान्योजयित्वा पृष्ठतश्चैकमश्वं बद्धास्वदेशाभिमुखं प्रययौ। अनेन च गननसमये उज्जयन्याः पथिस्थिता ग्रामाः पृष्टाः। मन्त्रिभृत्यैश्चनामग्राहं सर्वेऽपि मार्गग्रामाः कथिताः। अथासौ मङ्गलकलसो रथारूढस्तेन पथा प्रचलन् स्तोकैरेव दिनैः स्वां नगरींप्राप।

इतश्च तत्पितरौ सर्वत्रापि तमन्विष्य बहुधा विलप्य

कियद्भिर्वासरैर्मन्दशोकौसञ्जातौ। अथैकदा मङ्गलकलसजननीगृहाभिमुखमायान्तं रथारूढ़ं तं विलोक्य अनुपलक्ष्य च ससम्भ्रमं चैवमुवाच, भो राजपुत्र! त्वया कथं गृहमध्ये रथः प्रेर्य्यते। पुरातनं पन्थानंपरित्यज्य किं नवीनं पन्थानं करोषि?

इत्थंनिवार्य्यमाणोऽपि यावत् स नावतिष्ठते तावत् श्रेष्ठिनीसमाकुलचेतसा समाहूय श्रेष्ठिनं न्यवेदयत्। श्रेष्ठीच तन्निवारणाय गृहात् यावन्निःसरति, तावत् मङ्गलकलसो रथात् समुत्तीर्य्य पितुश्चरणौ ववन्दे। ततस्ताभ्यामुपलक्ष्य सहर्षं स मङ्गलकलसो गाढ़तरमालिङ्गितः।

हर्षाश्रूणि च मुञ्चन्तौ तौ कुशलप्रश्नपूर्वकं समग्रं गमनागमनवृत्तान्तं पप्रच्छतुः। मङ्गलकलसेन तु स्वसमाचारः समग्रोऽपि पित्रोरग्रे कथितः। पितृभ्यां च हृदये चिन्तितम्, अहो! पुत्रस्य महत् सौभाग्यम्! ततोऽसो श्रेष्ठी निजगृहं प्राकारप्रावृतमकारयत्। तत्र च अश्वपञ्चकं निभृतस्थाने तिष्ठति। पुत्रप्राप्त्याच श्रेष्ठिना महोत्सवः सम्पादितः।

एकदा मङ्गलकलसः पितरं प्राह, तात! ममाद्यापि कलाभ्यासः करणीयोऽस्ति। तदाकर्ण्यं जनकेन स्वसदनान्तिके कलाचार्य्यसमीपे विद्याभ्यासायासौ नियोजितः। मङ्गलकलसश्च तत्र कलाभ्यासं कुरुते।

इतश्च तेन मन्त्रिणारात्रौ मङ्गलकलसवेशधारी वासवेश्मनि स्वसुतः प्रेषितः। त्रैलोक्यसुन्दरी च तं शय्याधिरूढ़ं दृष्ट्वा हृदि दध्यौ, कोऽयं कुष्ठाभिभूतो ममान्तिके समेतः! अथासौ राजतनया परपुरुषस्पर्शशङ्कया शयनात् समुत्थाय झटित्येव गृहात् वहिर्निर्गत्य यत्र दासीवर्गः सुप्तस्तत्रैव समियाय। कथिता च सा दासीभिः, भर्त्तृदारिके! किमिति ससम्भ्रमासि? त्रैलोक्यसुन्दरीप्रोवाच, वहिर्गतोऽधुना स देवरूपोमम पतिः क्वापि गतः। दासीभिरुक्तं, ननु इदानीमेव स त्वत्पतिर्गृहाभ्यन्तरे प्रविष्टः। राजतनया च प्रोवाच, नासौ मत्पतिः समेतः, कोऽपि कुष्ठीसमियाय। अथासौदासीभिः सह शयाना रजनीमयापयत्। प्रातः समुत्थाय च पितृगृहमगमत्।

प्रभातसमये च सचिवः सुबुद्धिः कुबुद्धिपरिचालितो महीपतेः समीपं गत्वा चिन्ताश्याममुखस्तस्थौ। भूपतिना पृंष्ट, मन्त्रिन्! कथं ते हर्षस्थाने विषादः? मन्त्रिणोक्तं, राजन्! मम कर्म्मदोषेण हर्षस्थाने विषाद एव समजनि। राज्ञा पृष्टं किं जातम्? स प्राह,

चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः।
विधिस्त्वेष महावैरी कुरुते कार्य्यमन्यथा॥

पुनरपि भूपो दुःखकारणं पप्रच्छ। सचिवोऽपि दीर्घःनिश्वस्य बभाषे; अहं दैवेन मुषितः! पूर्वं मम पुत्रो यादृशोऽभूत् तादृशो नरेन्द्रणापि दृष्टः। स च साम्प्रतं

भवत्सुतासम्पर्केण कुष्ठीजातः। किं करोमि, कस्याग्रे वा निवेदयामि। तदाकर्ण्य विषमो राजा मनसेत्थंचिन्तयति स्म, नूनं सा मम कन्या कुलक्षणा। तदङ्गस्पर्शप्रभावेणैव सचिवतनयः कुष्ठी संवृत्तः। जगति सर्वेऽपि जन्तवः स्वस्वकर्म्मफलभोक्तारः, परन्तु अन्यो निमित्तमात्रं स्यात्।

सुखदुःखानां कर्त्ता हर्त्ता न कोऽपि कस्यचित् पुंसः।
इति चिन्तय स्वबुद्ध्यापुराकृतं भुज्यते कर्म्म॥

इति विमृश्य राज्ञोक्तं, मन्त्रिन्! अहमेव तवानर्थं कृतवान्। यदि मत्सुतायाः पाणिग्रहणं नाकरिष्यत् तर्हि तव पुत्रः कुष्ठाभिभूतः कथमभविष्यत्। इत्युक्ते अमात्योब्रवीत्, स्वामिन्! हितकार्य्यं प्रकुर्वतां भवतां को दोषः। मत्कर्म्मणामेव दोषोऽयम्। अथ मन्त्री समुत्थाय स्वगृहमगात्।

त्रैलोक्यसुन्दरी तु राज्ञः परिजनस्य च प्रियापि अप्रिया जाता। न कोऽपि तामाललाप, न कोऽपि तां दृष्ट्याप्यालोकयति स्म। मातृगृहपृष्ठतः एकत्र गुप्तगेहे सा अस्थात्। इति च चिन्तयति, मया पुरा किं दुष्कर्म्मविदधे, येन मम परिणतः पतिः क्वापि नष्ट्वागतः। अन्यच्च लोकमध्ये महान् कलङ्कः समुपस्थितः। अद्याहं किं करोमि, क्वगच्छामि, कस्याग्रे वा कथयामि। महद्व्यसने पतितास्मि। इति चिन्तयन्त्यास्तस्याश्चित्ते समुत्पन्नं नूनं मे स परिणीतः पतिरुज्जयन्यां गतो भविष्यति। तेन तदा मोदकान् भक्षयता

इत्यालपितम्, एते मोदकास्तर्हिभव्या यद्यवन्तीजलमुपरि स्यात्। इत्यभिज्ञानेन स मे पतिस्तत्र सम्भाव्यते। केनाप्युपायेन यद्यहं तत्र गच्छामि तर्हि तं प्रकटीकृत्य सुखभागिनीभवामि। एवं चिन्तयन्तीस्थितास्ति।

अथान्येद्युः सा जननीं प्राह, मातः! मत्पिता वारमेकं मम वाक्यं यथा शृणोति कृपया तथा कुरु। अथ जनन्या अनादरं दृष्ट्वा सा त्रैलोक्यसुन्दरीसिंहनामकं सामन्तं प्रति तमर्थं विज्ञापयामास। सामन्तेन च हृदये विचार्य्य तस्या एवमुक्तं, वत्से! धृतिं धेहि। प्रस्तावे नृपं विज्ञाप्य ते समीहितं साधयिष्ये। इति वचसा सा नृपनन्दिनीतुष्टा।

अथ सिंहसामन्तेन तेन प्रस्तावं लब्ध्वा भव्ययुक्त्याराजानं विज्ञाप्य इत्युक्तं, भूपते! भवन्नन्दिनीवराकिका बालिका महति कष्टे पतितास्ति, अस्याःसम्मानं दूरे तिष्ठतु वाक्यश्रवणमात्रेण प्रसादोऽयं विधीयताम्। पार्थिवोऽप्यश्रुपूर्णाक्षः सिंहसामन्तंप्रत्युवाच, भोः सामन्त! अनया मत्सुतया पूर्वभवे किमपि दुष्कृतं कृतम्। तत्प्रभावादियं सकलङ्का संजाता, अस्माकमपि अनिष्टाऽभूत्। यद्यप्येवं तथाप्यसौ यत् किञ्चित् कथयितुमिच्छति तन्ममाग्रेकथयतु।

अथ सिंहसामन्तस्त्रैलोक्यसुन्दरीमाह, वत्से! स्वामिनोऽग्रे स्वाभिप्रेतं कथय। त्रैलोक्यसुन्दरीतु पितुरन्तिक

मालभ्य प्रोवाच, तात! कृपया मम कुमारोचितं वेशं देहि। तत् श्रुत्वा राजा सिंहसामन्तं प्रत्युवाच, किमियमसम्बद्धंप्रलपति वराकी? सिंहसामन्तोऽवदत्, राजन्! नानया अयुक्तमुक्तम्। पुराप्येवं क्रमोऽस्ति, राजसुता गुरुकार्य्यविशेषेण पुरुषवेशं दधते। इत्यर्थे न किमप्ययुक्तं, न चापि संशयः कार्य्यः, पुंवेशोदीयताम्। अथभूपः सिंहसामन्तोक्तमिति युक्तियुक्तं मत्वातस्यैपुंवेशं ददौ। तथा च तद्रक्षार्थंसैन्यसमेतं सिंहञ्चादिदेश। पुनः सुन्दरीप्राह। यदि तातादेशो भवेत् तर्हि महता कारणेनोज्जयनीं याभि समीहिते सिद्धेतत्कारणं कथयिष्ये। इत्युक्तेराजा प्राह, पुत्रि! यथा स्ववंशस्य दूषणं न स्यात् तथा कर्त्तव्यम्। इत्युपदिश्य महीभुजा सा विसृष्टा।

ततश्च सिंहसामन्तादि-भूरिसैन्यसमन्विता सा त्रैलाक्यसुन्दरी पुरुषवेशधारिणीअखण्डितप्रयाणैरुज्जयनीं ययौ। तदा अवन्तीशोराजा वैरिसिंहः प्रजामुखादेवं शुश्राव यथा चम्पानगर्य्यांनृपाङ्गजः समागच्छति। ततस्तेन अभिमुखयानादिना सम्मानदानपूर्वकं स्वागतप्रश्नादिपूर्वकं च पुरीं प्रवेश्य सा स्वसदने समानीता।

अथ राज्ञागमनप्रयोजनं पृष्टम्। तयोक्तम्, आश्चर्य्यपूरितां सुविख्यातामिमां नगरीमवलोकयितुंकुतूहलात् समेतोऽस्मि। नरेन्द्रेण बभाषे, राजपुत्र! मम भवनएव, भवता स्थातव्यम्। सुरसुन्दरभूपस्य मम गेहस्य च नान्तरं

चिन्त्यम्। इत्युक्तेसा नृपसुता सबलवाहना राजढौकितगेहे तस्थौ।

तत्र स्थिता सास्वपदातीन् जलाशयनिरीक्षणाय समादिदेश। तैरन्विष्योक्तं, पश्चिमस्यां दिशि महान् जलाशयोवर्तते। ततस्त्रैलोक्यसुन्दरीराजानं विज्ञाप्य जलाशयसमीपवर्त्तिनि उपवनप्रासादे वासमकल्पयत्।

अथ कदाचित् त्रैलोक्यसुन्दरीपाणीयं पिबत् पैतृकं योतकमश्वपञ्चकमपश्यत्। तत् दृष्ट्वा च सा पदातीन् व्यादिदेश, कस्य इमे अश्वाः? क्वरक्ष्यन्ते? अस्य स्वामी च किंनामधेयः कुत्र निवसति? सुगुप्तमनुसन्धीयतामिति। तैर्गूढ़मनुसन्धाय निवेदितम्, अत्रैव नगरे मङ्गलकलसनाम्नः कस्यचित् वणिक्पुत्रस्य ते अश्वाः, स च विद्याभ्यासार्थमत्रैव गुरुकुले निवसतीति।

अथैकदा त्रैलोक्यसुन्दर्य्यासच्छात्रः कलाचार्य्योनिमन्त्रितः। यथासमयं च तस्मिन् समभ्यागते च्छात्राणां मध्ये पाणिग्राहकं भर्त्तारं दृष्ट्वा सा मनसि मुमुदे। तदा च प्रमोदादात्मीयमासनं मङ्गलाय दत्वा विशेषगौरवमकरोत्। सादरं भोजनं दत्त्वा सर्वेभ्यो वस्त्राण्यदात्। मङ्गलाय स्वाङ्गलग्नंरम्यं वासोयुग्मंददे।

ततः कलाचार्य्यमित्याह, एषां छात्राणां मध्ये योऽभिज्ञः स ममाग्रेकथां कथयतु। इति निर्द्दिष्टे सर्वैरपि च्छात्रैर्मङ्गलस्य विशेषगौरवं दृष्ट्वा कोपादिति जल्पितम्, अस्माकं

मध्यात् मङ्गल एव कथांकथयिष्यति। एवं सर्वच्छात्रानुज्ञया पण्डितेन मङ्गलस्यैवादेशो दत्तः।

तदा स देवगिरा वक्तुमेवं प्रचक्रमे। भोः! कथानकं कल्पितं भूतार्थं वा कीदृशं कथयामि? इति निशम्य कुमारवेशधारिण्या नृपपुत्र्याबभाषे, अलं कल्पितेन, अनुभूतमेव ब्रूहि। इति भाषिते मङ्गलश्चिन्तयामास, सैषा त्रैलोक्यसुन्दरी भवति, इयं मया चम्पानगर्य्यंभाटकेन परिणीता, केनापि हेतुना नृवेशं धृत्वा समेतास्ति। इति विमृश्य निजस्वरूपं कथयितुमारेभे। सादिमध्यावसानं निजचरितं तावत् कथितं यावत् सुबुद्धिमन्त्रिणास्वगृहान्निर्वासितः।

अत्रान्तरे राजसुता कृत्रिमकोपंविधाय प्राह, भो भो अमुं मिथ्याभाषिणं गृह्णीत। इत्युक्ते तस्याः पत्तयस्तद्ग्रहार्थं समुद्यतास्तयैव वारिताः। परन्तु स गृहमध्ये समानीतः। अथैनमासने उपवेश्य नृपात्मजा सिंहसामन्तं प्रत्यूचे, अहं येन परिणीतास्मि, स एवायं मम प्रियो ज्ञेयः। अथात्रकिं कर्त्तुं युज्यते? एवं पृष्टेस प्रोवाच, अयं चेत् तव भर्त्ता स्यात् तर्हि त्वयाश्रयणीयः।

त्रैलोक्यसुन्दरीप्राह, भोः सामन्त! यदि तव चित्तेसंशयो भवति तर्हि गत्वा यौतकद्रव्यजातमवलोकय। एवं प्रोक्तेसामन्तः संशयं त्यक्त्वा श्रेष्ठिनं समाहूय बध्वाः स्वरूपं कथयित्वा राजपुत्रीसमीपे समेतः। ततस्तस्या-

देशेन सा स्त्रीवेशमद्भुतं कृत्वा मङ्गलस्य वल्लभा बभूव। ततस्तद्युग्मं श्रेष्ठिनः सदनं जगाम। पार्थिवोऽपि श्रेष्ठिनंसमाहूय तं वृत्तान्तं पृष्ट्वाश्रुत्वा च मनसि विस्मयं दधौ।

ततस्तत्रैव सदने राजादेशेन मङ्गलः सभार्य्यःसुखेन विललास। त्रैलोक्यसुन्दर्य्याच सिंहसामन्तः ससैन्यः प्रेषितः। तेन च समग्रेवृत्तान्तेकथिते राजा हृष्टो जजल्प, अहो मत्पुत्र्याःकलाकौशलं विलोक्यताम्, अहो अमात्यस्य पापधीः, विलोक्यताम्। अनेन मन्त्रिणा मत्पुत्रीनिर्दोषापि सदोषा कृता।

इति विचिन्त्य राजा पुनरपि सिंहसामन्तम् उज्जयन्यां प्रेष्य निजपुत्रींजामातृसहितामानाय्य यथाविधि सञ्चक्रे। ततस्तेन चामात्यो विड़म्बितः। तदीयं सर्वस्वं गृहीतं, बध्यस्थाने च बधार्थं स समर्पितः। तलारकैरासभमारोह्य त्रिकचतुष्कचञ्चरादिषु परिचामितः। मङ्गलकलसेन च गाढ़प्रार्थनया स सचिवो मोचितः।

तदा राज्ञोक्तं, रे पापचेष्टित! त्वं जामात्रनुरोधेन मुक्तोऽसि, अन्यथा न मुञ्चामि। अधुना मत्पुरान्निःसर। इत्युक्त्वासौ स्वपुरान्निष्काशितः। तदनन्तरं तेन नृपेण पुत्रविवर्जितेन स जामातैव पुत्रस्थाने स्थापितः। तन्मातापितरौ तत्रैव भूपतिना समानायितौ।

अन्येद्युः स राजा मन्त्रिसामन्ताद्यनुमतेन महोत्सव-

पुरःसरं स्वराज्ये तं मङ्गलकलसं स्थापयामास। स्वयञ्च संयममुपादाय परब्रह्मणि मनो निदधे। मङ्गलकलसस्तु धर्म्मेण प्रजाः पालयन् सर्वेषामनुरागभाजनमभूत्2

__________

द्वितीयबन्धः।

अत्रैव भारतवर्षे कनकपुरं नाम नगरमस्ति। तत्र नयविनयादिगुणालङ्कृतः कनकधरनामा नृपो बभूव। तस्य च महिषीकनकश्रीनाम्नी समभूत्। तत्र औदार्य्यादिगुणाधारो राजमान्यः श्रेष्ठीरत्नसाराभिधो बभूव। विशुद्धशीला तत्पत्नी च रत्नचूलाभिधानासीत्। तयोश्च पुत्रः सच्चरित्रः कलाकुशलो धनदनामा सञ्जातः।

तस्मिन् नगरे सिंहलनामा कश्चित् द्यूतकारः कपर्द्दकैर्नित्यं पुरदेवीप्रासादे क्रीड़ते। एकदा मन्दभाग्यतया स किमपि न जिगाय। तेन स दुष्टात्मा रुष्टो देवीमिति प्राह, अहमत्र देवकुले नित्यं तिष्ठामि। त्वत्सेवां करोमि। रे दुष्टदेवते! त्वं मम द्रव्यं कथं न ददासि? अथाद्य प्रकटीभूय किमपि देहि, अन्यथाहं तवानर्थं करिष्यामि।

इत्युक्तेदेवी प्राह, रे दुरात्मन्! त्वत्पित्रात्वया वा किं धनं मम समर्पितमस्ति? यत् सहसा याचसे। इति वाक्यं निशम्य पाषाणमुत्पाट्यस द्यूतकारो देवतां प्रोवाच, कुतोऽप्यानीय मम धनं यच्छ, नो चेत् त्वन्मूर्त्तिभङ्गं करिष्यामि। तदानीं सा देवी दध्यौ, अयं दुरात्मा स्फुटवक्ता। अस्य निष्ठुरस्याधुना विरूपं कुर्वतः को निवारको भविष्यति। इति विचिन्त्य देवी तत्काल-प्रचलित-भाषा-रचित-गाथया सहितं पत्रमेकं तस्य करे निचिक्षेप।

तदानीं स पापात्मा जजल्प, रे रण्डे! अमुना पत्रखण्डेन किं करिष्यामि? देवताब्रवीत्, त्वया चतुष्पथे गत्वा गाथेयं विक्रेतव्या। यः कोऽपि दीनारसहस्रं ददाति, तस्मै दातव्या। इति निशम्य स तां गाथापत्रिकां गृहीत्वा गाढ़स्वरेण इत्युवाच, गाथेयं विक्रीयते, गृह्यतां भोः। इत्याख्याते जनैः पृष्टं भोः! किं वस्तु विद्यते? तदा तेन गाथापत्रिका दर्शिता। तदसारं वस्तु दृष्ट्वा सकौतुकैर्जनैः मूल्यप्रश्नः कृतः। तदा स दीनारसहस्रकमिति प्रोवाच। असम्भाव्यमूल्यत्वादकिञ्चित्करतया च न केनापि गृहीतम्।

अथ तेन तस्य श्रेष्ठितनयस्य धनदनाम्नो हट्टके क्रमेण गत्वा सा गाथा-पत्रिका तस्मै दर्शिता, मूल्यमप्याख्यातम्। श्रेष्ठिपुत्रस्तत् पत्रकं गृहीत्वा वाचयामास।

जिं चियविहिणा लिहियं तंचिय परिणमद्वसयल-लोयस्य।
इयजाने विणुधीरा विहुरेबि न कायरा हुति॥

इदं वाचयित्वा धनदो दध्यौ। नेयं गाथा लक्षेणापि लभ्यते, दीनारसहस्रेण समर्प्याचेत् तर्हि गृह्यते। इति विचिन्त्य तत्प्रार्थितं मूल्यं तस्मै दत्त्वा तद्गाथापत्रकं गृहीत्वा वारंवारं वाचयामास।

अत्रान्तरे तत्पिता रत्नसारः श्रेष्ठी तत्रागत्य पुत्रं बभाषे, भोः पुत्र! त्वयाद्य किमपि व्यवहृतं वा न? तत् कथ्यताम्। इत्युक्ते प्रत्यासन्नवणिक्पुत्रैः सहासैरिति प्रोक्तं, श्रेष्ठिन्! भवत्सुतेनाद्य महती व्यवहृतिः कृतास्ति। दीनारसहस्रेण गाथैका गृहीता। नूनमनया वाणिज्यकलया असौ युष्मत्सुतः श्रियं वर्द्धयिष्यति। ईदृशमुपहासं श्रुत्वा श्रेष्ठीक्रुद्धः पुत्रं प्राह, रे दुष्ट! त्वमितो याहि। मुखं मा दर्शय। गृहं शून्यं श्रेयो, न पुनर्दुष्टतस्करपूरितम्। त्वया पुत्रेण सतापि किम्? इत्यपमानेन धनदस्तदापणात्गाथार्द्धंचिन्तयन्निर्ययौ।

स च पुरात् निःसृत्य दिवावसानसमये उत्तरस्यां दिशि समीपवर्त्ति-वनमध्ये गतः। तत्र प्रवरं तड़ागमेकं विमलजलपूर्णमपश्यत्। तस्मिन् स्नात्वा च पानीयं पीत्वा आसन्न-न्यग्रोधतरोस्तले तदीयपत्रसंस्तरे रात्रौ सुष्वाप।

अथ दैवयोगतस्तत्र धनुर्धरो व्याध एको जलपानार्थमागतान् वने-चरान् हन्तुं समाययौ। तदा निद्रितेन

तेन पार्श्वं परिवर्त्तितम्। तेन च शुष्कपत्राणां रवः सञ्जातः। व्याधेन च चिन्तितं, कोऽपि वनेचरोऽत्रविचरति, इति विमृष्य व्याधस्तद्बधार्थं शब्दानुसारेण शरं मुमोच। तेन शरेण सुप्तोऽसौ श्रेष्ठिपुत्रश्चरणे विद्धः।

ततो वेध्यं विद्धंविज्ञाय विलोकनाय व्याधो यावत् समीपमुपसर्पति, तावत् धनदोऽपि भृशं प्रहारार्त्तस्तां गाथां पठितुं प्रवृत्तः। इतश्च लुब्धकेन ध्यातं, हा मया मूढ़चेतसा कोऽपि निर्विणः पथिकः सुप्तो बाणेन विद्धःइति चिन्तयित्वा तेन पृष्टं, भो भद्र! मया त्वम् अजानता क्वविद्धोऽसि? इत्युक्त्वा स तत्पादात् सायकं कर्षति स्म। ततश्च तस्मिन् व्रणे पट्टबन्धनं कुर्वाणः स श्रेष्ठिसुतेन तेन वारितः, प्रोक्तश्च त्वं निजस्थानं याहि। इत्युक्त्वाधनदेन विसृष्टः स स्वस्थानं गतः।

अथ श्रेष्ठिपुत्रस्य व्रणात् रक्तेनिर्गच्छति, प्रातःसमये जाते तं निश्चेष्टं पतितं दृष्ट्वा मृतबुद्ध्या भारण्डपक्षी समादाय समुड्डीनो वारिधि-मध्यद्वीपे मुमोच। ततो यावत् स तं भक्षयितुं समीहते, तावत् केनापि चिह्नेनजीवितं ज्ञात्वा तत्र परित्यज्य समुड्डीय अन्यत्र गतः। अथ स शीतवातैः सचेतनः समुत्थाय दिशो विलोकयन् मानुषोज्झितामदृष्टपूर्वांमहाटवीं ददर्श। तदा विस्मितेन तेन चिन्तितं, क्व तत् पुरं क्व चेयमटवी भीषणाकारा। अथवा अलमनया चिन्तया, दैवमेव बलीयः।

इति विचिन्तयन् स क्षुत्तृषापीड़ितो यावत् तस्मिन् शून्यद्वीपे फलजलाशया पर्य्यटति, तावत् निपतितगृहप्राकारं पुरमेकं शून्यमद्राक्षीत्। तदा च विस्मितेन तेन तत्र परिभ्रमता कूपमेकं निरीक्ष्य कष्टेन तत्पयः आकृष्य पीत्वा तृषा निवारिता। अथासौ कदल्यादिफलैः प्राणवृत्तिंविधाय भयेन पुरात् दूरत एव स्थितः। अत्रान्तरे रविरस्तं गतः, तमसा विश्वं व्याप्तम्। तदा धनदेन गिरेः कस्यापि उपत्यकायांदारुणा दारुणं वह्निमुत्पाद्य शीतपीड़ां निवार्य्यरात्रिर्व्यतिक्रान्ता। ततः प्रातःसमये वह्निप्रदेशभूमिं सुवर्णमयीं जातां दृष्ट्वा श्रेष्ठिसुतः चिन्तयामास, नूनं सुवर्णद्वीपोऽयम्, अतः कारणात् भूमिरियमनलदग्धा सद्य एव हेममयी जाता।

ततः प्रमुदितेन तेन चिन्तितं, तर्हि हिरण्यरेतसा हिरण्यराशिमहं सम्पादयामि। इति ध्यात्वा तेन इष्टकानां सुसंघाटाः कृताः। अग्नितापितास्ते सर्वेऽपि इष्टकासंघाटाः स्वर्णीभूताः।अन्येद्युः स कुत्रचित् गिरिनिकुजञ्जेभ्रमन् बहुमूल्यमुज्ज्वलं रत्नसमुच्चयमद्राक्षीत्। ततस्तान्यपि रत्नानि सुवर्णराशिसमीपे समानिनाय। एवं तत्र तेन सुवर्णेष्टकानां रत्नानाञ्च गरीयान् राशिः कृतः। स च कदल्यादिफलैरन्वहं प्राणवृत्तिं चक्रे।

एकदा तस्मिन् प्रदेशे सुदत्तनामा सार्थवाहः समाययौ। तस्य याने पूर्वसञ्चितं जलेन्धनं निःशेषमभूत्। तदा

सुदत्त-सार्थवाहेन तं द्वीपं दृष्ट्वा जलेन्धनार्थं स्वपुरुषाः प्रेषिताः। ते च धनदं दृष्ट्वा पप्रच्छुः, भोः कस्त्वं? धनदेनोक्तं, वनचरोऽहं वर्त्ते। तैरूचे, तर्हि किमपि पानीयस्थानमस्माकं दर्शय। ततस्तेन तेषां स कूपो दर्शितः। तदा यत्तेन पुरासञ्चितमस्ति तैः सार्थेशसेवकैः कूपसमीपे तत् सुवर्णादि ददृशे। तत् वीक्ष्य तैः पृष्टं, भो वनचारिन्! कस्येदं सुवर्णरत्नादि? तेन प्रोक्तं, मामकीनं धनमिदम्। तथाय एतत् धनं मम जन्मस्थानं नेष्यति तस्य चतुर्थांशं दास्यामि। इति कथयति तस्मिन् सार्थेशोऽपि तत्र समागात्। धनदश्च प्रणामादिना विनयवृत्तिंविदधे। सार्थवाहस्तं समालिङ्ग्य कुशलवार्त्तांपृष्ट्वा सुवर्णरत्नानां संप्रापणं प्रतिपन्नवान्। स्वभृत्यैस्तत् कनकरत्नादिकञ्च वस्तु निजप्रवहणे निनाय। धनदेनापि तानि स्वर्णेष्टकारत्नानि तेषां गणयित्वा प्रददे।

ततः तद्धनं प्रचुरं दृष्ट्वा सार्थेशो द्रोहबुद्ध्यास्वानुचरानित्यादिदेश, अयं कूपे क्षेप्यः। इति स्वामिवचः श्रुत्वा तैः पुरुषैः धनदः कथितः, भो उपकारिन्! कूपजलाकर्षणेवयं न जानीमः। कूपजलाकर्षणे तव पुराप्यभ्यासोऽस्ति। इत्युक्तेयावदसौ दाक्षिण्येन जलाकर्षणं कर्त्तुमुद्यतस्तावदेव तैर्निष्ठुरैः सार्थेशसेवकैः कूपे निक्षिप्तः। तदानीं दैवयोगात् पर्णसङ्कुलायां कूपमेखलायां स पतितः। परन्तु भाग्ययोगात् स्वल्पाप्यङ्गपीड़ा तस्य नाभूत्।

अथ धनदस्तां गाथां चिन्तयन् कूपपार्श्वानि विलोकयितुं लग्नः। अथैकस्मिन् प्रदेशे विवरं दृष्ट्वा कौतुकात् तन्मध्ये प्रविष्टः। ततोऽसौ सोपानपङ्क्त्या किञ्चिदधस्तलं गत्वा पुनः सरलमार्गेण गच्छन् बहूनाश्चर्य्यपदार्थानवलोकयन् पुरस्तात् सुदूरं प्रयातः। तत्र देवकुलमेकं ददर्श। तन्मध्ये सिंहारूढां देवीं भगवतीं वीक्ष्य परया भक्त्या नमस्कृत्य शिरस्यञ्जलिं विधाय तुष्टाव।

अथ भक्तिवचांसि श्रुत्वा देवी तुष्टा प्रोवाच, भो वत्स! तवाग्रे गतस्य सर्वं भव्यं भविष्यति। तथाच किमपि मत्समीपे प्रार्थय। धनदेनोक्तं, भगवत्याश्चरणदर्शनेन मया सर्वमपि फलं प्राप्तम्। अन्यत् किं याचे? इत्युदिते तुष्टया देव्या महाप्रभावं रत्नपञ्चकं तत्करे प्रदत्तम्। रत्नप्रभावोऽप्येवं निगदितः; यथा रत्नमेकं सौभाग्यसम्पादकं, द्वितीयं लक्ष्मीप्रदं, तृतीयं रोगहरं, चतुर्थं विषनाशनं, पञ्चमं कष्टनिवारकम्। ईदृशं रत्नगुणं कथयित्वा रत्नानि च पृथक् प्रदर्श्य देवी अन्तर्दधे। धनदोऽपि रत्नगुणं चित्ते अवधार्य्य अग्रतो गच्छन्नेव व्रणसंरोहणीं महौषधिमपश्यत्। तदा तेन महौषधिर्जगृहे; तथा जङ्घांविदार्य्यरत्नपञ्चकं मध्ये क्षिप्त्वाव्रणसंरोहिण्या महौषध्या व्रणं रोधयामास।

तदनन्तरमग्रे गच्छता तेन पातालपुरमेकं ददृशे। तत्र च भक्ष्यभोज्यसमाकुला मनुष्यपरिवर्ज्जिता मन्दिर-

श्रेणी दृष्टा। अथासौ एकत्र महत्तरं गवाक्षप्राकारप्रतोलीपरिशोभितं राजनिकेतनमपश्यत्। तत्र च प्रविश्य सप्तमभूमिकां गत्वा बालिकामेकां दृष्ट्वा यावत् सविस्मयो बभूव, तावत् सा कन्या तं बभाषे, भोः सत्पुरुष! त्वं कुत आगतः? शृणु भो भद्र! इहागतस्य ते प्राणसंशयो वर्त्तते। अतो यदि जीवितेच्छास्ति तदा शीघ्रमन्यत्र गच्छ। इत्युक्तेधनदः प्राह, भद्रे! उद्वेगं मा कुरु, समग्रवृत्तान्तं मम कथय। किमिदं नगरं शून्यम्? कुतः का च त्वम्? इति पृष्टे सा कुमारी तस्य रूपधैर्य्याभ्यां विस्मिता पुनराह, तव चेत् कौतुकमस्ति तर्हि श्रूयताम्।

कुमारिकाख्यद्वीपे श्रीतिलकं नाम पुरमस्ति। तत्र महेन्द्रराजनामा नृपोऽभूत्। एकदा स राजा विपक्षभूपैः पराभूतः। इतश्च कश्चिद्व्यन्तरः समागत्य सस्नेहं तम् अभाषत, भो राजन्! त्वंमम पूर्वभवमित्रं, ततः किमपि प्रयोजनं कथय किं करोमि। इति गदिते राजा प्राह, मम विपक्षविनाशने साहाय्यं कुरु। पुनरपि, व्यन्तरोऽवदत्, एते तव शत्रवो मया हन्तुं न शक्याः, यतो मदधिकैर्व्यन्तरैरेते अधिष्ठिताः सन्ति, तथाप्यहं किमपि साहाय्यं तव करोमि, इत्युक्त्वा तेन व्यन्तरेण मत्पिता सपरिवारोऽप्यत्र समानीतः। तेनेदं पातालपुरनामकं पुरं निर्म्मितम्। अस्य प्रवेशनिर्गममार्गौ कूपमध्ये विहितौ। तथा कूपरक्षार्थं द्वितीयं पुरं चक्रे। ततः प्रवहणैः श्रीतिलकपुरादिह सर्वं

वस्तु समानीतम्। अनया युक्त्या सर्वो जनः सुखेन तिष्ठति।

अथैकदा कश्वित्पलादः अत्र समाययौ। स दुरात्मा मांसलुब्धः पुरवासिनो जनान् खादितुं प्रवृत्तः। कियद्भिर्दिनैस्तेन पुरमिदं निर्मानुषं विदधे। तदनन्तरं यदा वहिःपुरनिवासी जनोऽपि तेन खादितुमारब्धः, तदा स जनः प्रवहणमारुह्य अन्यत्र कुत्रापि गतः। इत्थं सा नगरद्वयीतेन राक्षसेन शून्या विदधे। भोः साहसिन्! तेन दुरात्मना केवलमहं परिणेतुं रक्षितास्मि। इतोऽतीते सप्तमे दिने तेन ममाग्रे इत्युक्तं, भद्रे! अहं प्रचण्डराक्षसः। मनुष्यामिषलुब्धेन मया अत्र समागत्य समग्रोऽपि पुरजनो निपातितः। त्वं केनापि कारणेन रक्षितासि।

इत्युक्तेमया पृष्टं, किं तत् कारणम्? तदा तेनोक्तम् इतः सप्तमदिने शुभग्रहनिरीक्षितं लग्नमस्ति। तस्मिन् दिने त्वामहं परिणीय स्वां गेहिनीं करिष्ये। भोः! अद्य तत् सप्तमं दिनं वर्त्तते। तस्य च पलादस्य समागमनसमयःसञ्जातः। यावदसौ नायाति तावत्त्वं त्वरितमपसर। एतदाकर्ण्य धनदः प्राह, मुग्धे! माभैषीः। स पापात्मा मत्करेण मरिष्यति। इति प्रोक्तेसा कन्या प्रोवाच, तर्हि तव तदीयमृत्युसमयं कथयामि। विद्यापूजनकाल एव स त्वया नूनं हन्तव्यः। तस्मिन् समये तु असौ न जल्पति, नोत्तिष्ठति। तथा च मत्पितुरयं खड़्गस्तदात्वया ग्राह्यः।

अथ तयोरित्थंवार्त्तांप्रकुर्वतोरेव स निशाचरः करेनृशवं गृहीत्वा समागतः। तत्रोपविष्टं धनदं विलोक्य स रात्रिचरः सहास्यमिति प्राह, अहो आश्चर्य्यम्! अद्य स्वयमेव भक्ष्यमायातम्। इत्यवज्ञया जल्पित्वा तत्र मृतकं विमुच्य विद्यां पूजयितुं प्रवृत्तः। धनदेन च आपदुद्धारकं मणिं स्मृत्वा खड़्गमाकृष्य प्रोक्तम्, अरे पापात्मन्! साम्प्रतमहं त्वां हनिष्यामि। इति श्रुत्वा राक्षसोऽप्यवज्ञया जहास। अथ स पूजां कुर्वन् तेन खड्गेनाहत्य यमसदनं नीतः।

ततस्तया च विवाहसामग्र्यास धनदः शुभवेलायां सुरूपां तिलकसुन्दरीं कन्यां परिणीतवान्। तदनन्तरं स तया सार्द्धं भोगान् भुञ्जन् कियन्ति वासराणि तत्रैव यापयामास। ततः परं तां तिलकसुन्दरीं तथा समग्रं रत्नसुवर्णपट्टदुकूलादि सारतरं वस्तु, चादाय तत्रैव कूपके समेतः। तत्रागत्य पुनरपि प्रत्यावृत्य मनःप्रियं यत्किञ्चित् अभूत्, तदपि गृहीत्वा भक्तिपूर्वं देवीं सिंहवाहिनीं पुनः प्रणिपत्य कूपमेखलायां समागात्।

तत्कालमेव तद्द्वीपसन्निधौ प्रवहणमेकं समियाय। प्रवहणस्थिता जनास्तत्रैव कूपे नीरार्थमायाताः। कूपमध्ये तैः रज्जुः क्षिप्ता। धनदस्तां धृत्वा बभाषे, भो जनाः! अहं कूपे पतितोऽस्मि मामुत्तारयत। इति श्रुत्वा तैः स्वस्वामिने देवदत्त-सार्थेशाय निगदितम्। सोऽपि सत्वरं कौतुकेन तत्रागात्। तेनागत्य वरत्रया बद्ध्वाकूपे मञ्जिका

क्षिप्ता। ततस्तामारुह्य धनदः कूपात् वहिर्निःसृतः।

ततः सार्थेशस्तं सुन्दराकारं वस्त्राभरणभूषितं दृष्ट्वा सविस्मयः पप्रच्छ, भद्र! त्वं कः; कुत आयातः, कथमत्र कूपे निपतितः? इति पृष्टे सोऽवदत्, भोः सार्थवाह! मत्पत्नी चात्र कूपे पतितास्ति, तां वहिर्निष्काश्य तथा देवतादत्तंमम रत्नालङ्कारादि वस्तु यद् यद् अस्ति, तदपि निष्काश्य पश्चात् मदीयं समस्तं स्वरूपं भवतां कथयिष्ये।

तेनेत्युक्तेसार्थवाहः प्राह, भोःपत्नीं तथा स्वकीयं वस्तु निष्काशय। ततो धनदेन तथा कृतम्। सार्थवाहस्तु तां तिलकसुन्दरींनिरीक्ष्य विस्मितः, भूयोऽपि पप्रच्छ। अथ धनदः स्ववृत्तान्तं, समाख्यातुं प्रवृत्तः। भोः सार्थपते! अहं भारतवर्षवासी जात्या वणिक्। परन्तु धनार्ज्जनाय सस्त्रीकः कटाहद्वीपंप्रवहणेन चलितः। दैवयोगात् वारिधौप्रवहणं भग्नम्।ततः कलत्रान्वितोऽहमत्रागतः। तदनन्तरं मम भार्य्यातृषाक्रान्ता नीरं विलोकयन्ती कूपेऽपतत्। अहमप्यस्याः स्नेहवशात् कूपे निपतितः। भाग्ययोगेन च कूपमेखलायामेव आवां स्थितौ, न नीरमध्ये निपतितौ। अत्र च जलदेवता तुष्टा रत्नालङ्कारादिकं ददौ। तथा देवतया तया इत्युक्तं, यत् प्रवहणं समेष्यति तत्रारुह्य त्वं सुखेन निजस्थानं गच्छेः।

भोः सार्थवाह! मद्वार्त्ता मया कथिता, भवानप्यात्मवृत्तान्तं कथयतु। तेन च आवयोः प्रीतिर्वृद्धिमतीभविष्यति।

देवदत्तोऽवदत्। अहो! अहमपि भारतक्षेत्रात् कटाहद्वीपं गत्वा स्वगृहं प्रतिगच्छामि। हे भद्र! त्वमपि समागच्छ। यथा सममेव आवां यावः। निजं वस्तु तथा भार्य्यां मम याने समारोपय। सार्थवाहेनेत्युक्तेधनदः प्राह, एवं क्रियताम्। गृहं गतोऽहं वस्तुजातस्य षष्ठांशं तव दास्यामि। तत् श्रुत्वा सार्थवाहोऽवदत् भोः! असारेणधनेन किं भवादृशानां गौरवं क्रियते? इति प्रजल्पता सार्थपतिना तदीयं द्रव्यजातं याने समारोपितम्।

इत्येवं समागच्छतस्तस्य दुरात्मनः सार्थवाहस्य चित्तं, स्त्रियं धनञ्च निरीक्ष्य विचचाल। तदानीं स द्रोहं कर्त्तुमुद्यतः। अथैकदा रात्रौ सर्वेषु जनेषु प्रसुप्तेषु यदा धनदो यानपार्श्वं गतस्तदा सार्थवाहः प्रच्छन्नतया समुत्थाय तं सहसा समुद्रे निचिक्षेप। ततस्तेन यानपतिना पुनः शयानेन इति प्रोक्तं, भोः! मम प्राणप्रियो धनदो मञ्चिकायां गतोऽभूत्, सोऽद्यापि नायाति। तर्हि नूनं वारिधौ पतितो भविष्यति। इति कथयन् कृत्रिमं दुःखं कुर्वन् सुचिरं स्वैश्चरैरन्वेषयामास। धनदस्तु कुत्रापि न लब्धः। ततः परं प्रियभाषणैः स तत्पत्नीमाश्वासयामास।

ततः एकदा सार्थपतिस्तां तिलकसुन्दरीं सादरमूचे, भद्रे! दैवयोगात् तव पतिर्विपन्नः। तदद्य त्वं मम पत्नीभव। इति श्रुत्वा सा बुद्धिमतीमनसाचिन्तयत्, नूनं मत्पतिरनेन दुरात्मना मदीयाङ्गलुब्धेन व्यापादितः।

अद्यैषबलादपि मम शीलविध्वंसं विधास्यति। अधुना केनाप्युपायेन कालक्षेपः करणीयः, कालविलम्बेन सर्वं भविष्यति, यतः उक्तम्।

क्षणेन लभ्यते यामी यामेन लभ्यते दिनम्।
दिनेन लभ्यने कालः कालः काली भविष्यति॥

इत्थं विमृश्य सार्थपतिं प्रत्युवाच, भोः सार्थपते! तव पुरं संप्राप्तस्य महीपतेरनुज्ञया गृहिणी भविष्यामि। इत्युक्ते स प्रमुदितस्तदीयवचनमनुमेने। तथा मनस्येवंचिन्तयति स्म, पुरं गतो द्रव्यप्रदानेन नृपं तोषयित्वा स्वसमीहितं साधयिष्ये।

इतश्च स धनदस्तेन जलधेर्जले निक्षिप्तः सन् विधिवशात् पूर्वभग्नस्य यानस्य फलकमेकं लेभे। तत् फलकं गाढ़तरमुरसा संश्लिष्यं कल्लोलैश्चाल्यमानः पञ्चभिर्वासरैः स्वपुरासन्नतटं प्राप्तः। तदासौ हृष्टचित्तः स्वपुरमूर्ध्वमुखीभूय विलोकयन्नेव फलकेन सह महता मत्स्येनोदरस्थः कृतः, तदा स धनदो नरकोपमे मत्स्यजठरे पतितो दध्यौ, एतत् सर्वं दैवदोषेण सञ्जायते। अथासौ गाथां पठित्वा यावत् तन्निवारकं मणिं सस्मार, तावत् तत्प्रभावेण मत्स्यस्तत्र धीवरैर्गृहीतः उपकण्ठे नीतञ्च।

अथ मत्स्यस्य जठरे पाटिते तन्मध्ये तैर्धीवरैः सविस्मयैरसौ पुमान् दृष्टः। तैश्चतदा निष्काश्य महीपतेर्विज्ञप्तम्। ततो राजापि सविस्मयस्तं स्वसमीपमानाय्य पप्रच्छ,

भो भद्र! कथमेतद्घटितं? तथा त्वं कः? कथञ्च मत्स्यजठरे निक्षिप्तः? सर्वं सत्यं कथय, यतोऽत्र मम महत् कौतूहलमस्ति।

धनदः प्राह, अहं तावत् जात्या वणिक्। याने भग्नेफलकं संप्राप्य अत्रसमागतस्तटसन्निधौ समेत्य यावत् नगरं निरीक्षमाण आसं, तावता मत्स्येनाहं भक्षितः। सच मीनो धीवरैर्गृहीतः। तस्योदरे विदारिते तन्मध्येऽहं दृष्टः। तैर्विस्मयपरैरहं भवत्पार्श्वे समानीतः। राजन्! इयं मम कथा।

अथ भूपतिः स्वर्णप्रक्षालननीरेण तं धनदं संस्नाप्य स्वसन्निधौ स्थापयामास। मत्स्योदर इति तस्य यथार्थं नाम चक्रे। तत्प्रार्थनया च राज्ञास ताम्बूलवाही कृतः। इत्थमसौ स्वस्वरूपमकथयन् दिवसान् निनाय।

अन्येद्युस्तस्य धनदस्य प्रथमद्रोहकारी सुदत्तनामा सार्थवाहः पवनप्रेरित-प्रवहणेन तत्र समाययौ। स च प्राभृतं गृहीत्वा प्रतीहारिणा निवेदितः सन् भूपतिसमीपे समागत्य प्रणामादिना विनयवृत्तिंविधाय चोपविष्टः। राज्ञाचप्रियालापैस्तस्य कुशलादि-समाचारः पृष्टः। तथा च ताम्बूलधरकरेण तस्य ताम्बूलं प्रदत्तम्। तदा धनदेन च स सार्थपतिः प्रत्यभिज्ञातः। सुदत्तोऽपि धनदं दृष्ट्वा सविस्मयो बभूव। हृदि चिन्तयामास च, पुरा यो मया सुवर्णेष्टिका-रत्नादिकं गृहीत्वा शून्यद्वीपेकूपमध्ये क्षिप्तोऽभूत्,

नूनमयं तत्सदृश एवदृश्यते! अत्र स कथमायातः! इति विस्मयापन्नोराजानं प्रणम्य यदा समुत्थितस्तदा नृपेण सन्तुष्टेन तस्य शुल्कार्द्धंमुक्तम्। तदानींस महाप्रसाद इत्युक्त्वास्वस्थानं जगाम।

अन्यदा स सार्थवाहःकमपि पुरवासिनं जनं पप्रच्छ, भो भद्र! राज्ञोऽयं स्थगीधरः किं कुतोऽपि समागतः?उत क्रमागतः? इति पृष्टेतेन तस्य स्वरूपं यथायथं समाख्यातम्। तन्निशम्य सुदत्तस्य मनसि निश्चयो जातः।

अत्रान्तरे राजमान्यो गीतरतिनामा मातङ्ग-गायनः तस्य सार्थपतेः समीपे समागतः, निजवृन्दसमन्वितो गातुं प्रवृत्तश्च। तद्गीतकलया सार्थपतिरपि रञ्जितः। ततो धनदानेन तोषयित्वा सार्थेशस्तं गायनं प्रत्युवाच, भो यदि त्वं मामकं कार्य्यमेकं करोषि तर्हि तव प्रचुरं धनं यच्छामि। सोऽवदत्, यत्किञ्चित् कार्य्यंभवति तत् ममाग्रे कथय, समग्रमप्यहं करिष्ये। इति निगदिते सार्थवाहेनोक्तं, तर्हि त्वया एकान्ते भूभुजं प्रति एवं वाच्यं यथा मत्स्योदरो मम बान्धवः।

अथ यदा तेनेति प्रतिपन्नं, तदा तुष्टेन सार्थवाहेन तस्मै मातङ्गाय सुवर्णेष्टिकासङ्घाटचतुष्टयं प्रददे। तद्गृहीत्वा स मातङ्ग-गायनः सभास्थितस्य राज्ञः समीपमागत्य गातुं प्रावर्त्तत। ततस्तद्गीतरञ्जितो राजा स्थगीधरमुवाच, एतस्मैगान्धर्ववराय ताम्बूलं देहि। नृपेणेत्युक्तेसधनदो

यावत् ताम्बूलं दातुं प्रवृत्तस्तावत् सङ्गीतरतिनामा मलिनगायनस्तस्य धनदस्य कण्ठे विलग्य, हे भ्रातश्चिरेण दृष्टोऽसि।इति प्रजल्पन् गाढ़ं रुरोद। तदीयं रोदनं श्रुत्वा राज्ञाप्रोक्तं; भो मत्स्योदर! किमसौ कथयति? तदा धनदः कमप्युपायं मनसा विचिन्त्य प्राह, राजन्! सत्यमेवेदम्। नृपेणोक्तं, कथं सत्यम्? धनदः स्वधिया बभाषे।

राजन्! अस्मिन्नगरे पूर्वम् आवयोः पिता मातङ्गो गीतक्रियानिपुणः प्रभूणां प्रसादपात्रं बभूव।तस्य द्वे भार्य्येअभूताम्। तयोरावां सुतौ जातौ। मम माता मनागनिष्टा, तस्मादहमपि पितुरनिष्ट एव। अस्य माता नितरां वल्लभा तेन वल्लभश्चायम्। तेनास्मज्जनकेन बहु विमृष्य मम जङ्घायां पञ्च रत्नानि निक्षिप्तानि। ओषधिबलेन वेदना चतिरोहिता। पित्राममेति भणितं; वत्स! विषमवेलायाम् एतानि रत्नानि भक्षयेः। इत्युक्त्वाहं तोषितः। अस्य विशेषबल्लभपुत्रस्य समग्रमपि शरीरं विशेषतः स्थूलमेतदुदरं रत्नपरिपूर्णमेवास्ति। एतेनैवाधिनाहं गृहवासमत्यजम्।

एतत्प्रत्ययार्थंधनदः स्वां जङ्घां विदार्य्य पूर्वसञ्चितरत्नपञ्चकं भूपाय दर्शितवान्। बहुमूल्यं रत्नपञ्चकं दृष्ट्वा राजा चमत्कृतः। तदा राज्ञा स्वपदातीनां प्रोक्तम्, अस्य गीतरतेरुदरं विदार्य्यरत्नसमुच्चयं प्रकटीकुर्वन्तु भवन्तः। इत्युक्तेगीतरतिः प्राह, भो राजन्! नायं मद्भ्राता।नाहमस्योपलक्षितः। ममाङ्गमध्ये रत्नानि न सन्ति। इति

प्रजल्पति वराके नृपभृत्यैर्यदास्य शरीरं विदारयितुमारब्धंतदा तेनोक्तं, मया मिथ्या जल्पितं, सुदत्त-व्यवहारिणा सुवर्णेष्टिकाप्रदानात् अहं पापकर्म्मं कारितः। देव! यदि मद्गिरा तव प्रतीतिर्नभवति तर्हि मद्गृहात् सुवर्णसङ्घाटान् समानीयताम्।

इति प्रोक्तेराज्ञामत्स्योदरमुखं वीक्षितम्। तदा तेनोक्तं, प्रभो! इदमेव सत्यम्। पुनर्भूपालेनोक्तं, भोः! सत्यार्थं स्वरूपं कथय। इत्युदिते मत्स्योदरः प्राह, महाराज! अस्य वणिजो याने मम सपादाष्टशतसङ्घ्य सुवर्णसङ्घाटा विद्यन्ते, तथा पञ्चदशसहस्राणि निर्म्मलरत्नानि सन्ति। तथा ते स्वर्णसङ्कटाः सर्वेऽपि मन्नामाङ्किताः, इत्यभिज्ञानं ज्ञेयम्। तथा नृपाग्रेसर्वं स्वकीयं नामादि स्वरूपमनेन निगदितम्। तदा राज्ञा मातङ्गगृहात् चत्वारोऽपि हेमसङ्घाटाः समानायिताः।

अनन्तरं तेषु सङ्घाटेषु द्विधाकृतेषु तन्मध्ये धनदस्यनाम दृष्ट्वा राजा क्रुद्धः सन् तौ मातङ्गवणिजौ बधार्थं बध्यस्थानं नेतुं समादिदेश। ततो मत्स्योदरेणैव कृपालुतया तौ द्वावपि हन्यमानौ मोचितौ। वणिङ्मातङ्गसमीपे यत् वित्तमभूत् तत् सर्वं गृहीत्वा तयोर्युक्तशिक्षांविधाय धनदः श्रिया धनदसमो जातः। पुनरपि भूभुजा पृष्टं, भोः! सत्यं स्वरूपं ब्रूहि। तदा धनदः समस्तमप्यात्मचरितमेवं भूपतये प्रोक्तवान्।

राजन्! अहमेतद्विषयवासी रत्नसारनामकश्रेष्ठिपुत्रः। एकदा दीनारसहस्रेणैका गाथा मया गृहीता। ततः कारणात् पित्रा निर्वासितोऽहं देशान्तरं गतः। इत्यादिसकलां वार्त्तांकथयित्वा भूपं प्रति बभाषे स्वामिन्!नूनमहद्यापि कस्याप्यग्रे न प्रकाश्यः। यतो मम वित्तकलत्रापहारी देवदत्तः सार्थवाही यदि कदाचिदत्र समायाति, तर्हि भव्यं भवति। इत्युक्त्वा नृपप्रसादमासाद्य स तत्र सुखेन तस्थौ।

अथ तस्य भाग्ययोगतःकियद्भिर्वासरैः सोऽपि देवदत्तः सार्थवाहस्तत्र समायातः। ततः सोऽपि उपायनं गृहीत्वा तिलकसुन्दर्य्या सह राजसभायां नृपान्तिकमाययौ। राज्ञाप्युपलक्षितः। मत्स्योदरोऽपि तं सार्थवाहं तां तिलकसुन्दरीं दृष्ट्वा चोपलक्ष्य तदभिप्रायं ज्ञातुमिच्छन् गुप्तवृत्त्या स्थितः। भूपालस्तु ससम्भ्रमः सन् सार्थपतिं पप्रच्छ, भो भद्र! त्वं कुत आयातः? इयमपि बाला का? सोऽवदत्, राजन्! कटाहद्वीपादिह समेतोऽहम्। इयं बाला जलधिमध्यद्वीपे एकाकिनीमया लब्धा, सुवस्त्राहार-ताम्बूलालङ्कारादिभिः सत्कृता, परन्तु यदि भवदनुमतं भवति तर्हि मम पत्नी स्यात्।

इति वचो निशम्य राजा तां कन्यां पप्रच्छ वत्से! तव किमसौ वरो रोचते? अथवा अयं बलेन त्वां ग्रहीतुमिच्छति? तिलकसुन्दरी प्राह, अस्य पापात्मनो नामापि

को गृह्णाति। येनानेन गुणमाणिक्यनिधिर्मम भर्त्ता वारिधौ क्षिप्तः। अनेन दुरात्मना विवाहार्थम् अहं प्रार्थिता। परन्तु मया शीलरक्षार्थमयमुपायः कृतः। कथितञ्च मया राजादेशेन तव भार्य्या भविष्यामि। अनेनप्रपञ्चेन एतावत्कालं मया शीलं रक्षितम्। अधुना तु वह्निप्रवेशं करिष्यामि।

भूभुजा भणितं, भद्रे! मृत्युसाहसं मा कार्षीः, यतोऽहं तव परिणीतपतिं दर्शयिष्यामि। तिलकसुन्दरी प्रोवाच, राजन्! परिहासो न युक्तः। स मत्पतिः कुतः समेष्यति! योऽसौ सार्थेशेन वारिधौ क्षीप्तः। तदनन्तरं राजा ताम्बूलदानार्थं धनदमाहूय प्रोचे, भद्रे! त्वंस्वभर्त्तारं दृष्ट्या विलोकय, इति गदिते यावत् सा तिलकसुन्दरी तं धनदं समालोक्य असम्भाव्य-समागमात् सविस्मया बभूव, तावत् धनदः प्राह, स्वामिन्! अस्याः स पतिर्भविष्यति, यः शून्यागारे कुतोऽप्यागतः, अनया च राक्षसविघाताय यस्य पुरुषस्य हस्ते खङ्गः समर्पितः, तथा येन राक्षसो हतः, ततश्च तस्मिन्नेव लग्ने स्नेहवती त्वियं बाला येन परिणीता।

इत्यादि-समग्रवृत्तान्ते मूलतःकथिते सा सहर्षा बभूव। अथ नृपादेशेन सा मत्स्योदरस्यैव जाया जाता। सार्थेशोऽपि राज्ञा मार्य्यमाणः कृपालुतया धनदेन मोचितः। स च सर्वमप्यलङ्करणादि वस्तु वणिजा नीतं भूपतेर्द्दशयामास।

अथान्येद्युर्धनदो वसुधाधिपमनुज्ञाप्य बहुना परिवारेण परिवृतः पितृमन्दिरं ययौ। तदा रत्नसारः श्रेष्ठीतं राजमान्यं स्वगृहे समागतं वीक्ष्य प्रत्युत्थानादिना सम्मानं विधाय व्याजहार, अहं धन्यः, अद्य मामकीनं गृहमपि धन्यं, यतो भवान् नृपवल्लभो मम गृहे समेतः। अधुना यत् किञ्चित् करणीयमस्ति तत् कथय, मम गृहे सर्वमपि भवदीयमेव। इत्युक्तेधनदेनोक्तं, तात। सर्वमेतत् सत्यमेव वदसि, परन्तु यदहं पृच्छामि तत् कथय। श्रेष्ठिन्! यत्ते धनदनामा पुत्रोऽभूत् साम्प्रतं स क्व गतः? असौ क्वापि विद्यते न वा? रत्नसारस्तस्य तत् वचः श्रुत्वा तं सुतसदृशमेव विलोक्य सन्दिग्धहृदयः पुत्रवृत्तान्तमेवं निवेदितवान्।

एकदा सुतेन तेन दीनारसहस्रेणैका गाथा क्रीता। तदा मया रोषात् किमपि कठोरं वचःप्रोक्तम्। तदा स तेन वचसा दूनोऽभिमानवशात् गृहान्निःसृत्य क्वापि गतः। अधुना बहुतरः कालोऽतीतः। वार्त्ता तस्य क्वापि नलब्धा। अहमेवं मन्ये, आकृत्या वचसा च त्वं स एव भवसि। परन्तु मम मनसि महान् संशयो जायते। भूतले सदृशावयवा बहवो लोका भवन्ति। अतस्त्वमपि मत्पुत्रसदृशोभविष्यसि। इत्युदिते धनदः प्राह, तात! स एवाहं त्वत्पुत्रः। तदा श्रेष्ठिनापि दक्षिणे चरणे चिह्नं निरीक्ष्य नितरां समुपलक्षितः।

ततश्च स विनयवान् पितुः पादौ ननाम। सोऽपि श्रेष्ठीतं पुत्रवात्सल्यात् गाढ़तरमालिङ्ग्य हर्षाश्रुपूरितेक्षणः सगद्गदं प्रोवाच, पुत्र! त्वया अत्रागतेनापि एतावत्कालमात्मा न प्रकटितः! किन्तेबहुभिर्वासरैरपि पित्रोर्म्मिलनाय समुत्कण्ठा नाभूत्? वत्स! त्वमेतावद्दीर्घकालं क्व स्थितः? देशान्तरं गतेन च त्वया किं किं सुखं दुःखं वानुभूतम्? जनकेनेति पृष्टे धनदः सास्रलोचनः संक्षेपतः स्ववृत्तान्तंसर्वं निवेदयामास। रत्नसारोऽपि पुत्रप्राप्त्या परमहर्षेण महोत्सवं विधाय शुभलग्ने महासमारोहेण पुत्रं पुत्रबधूं च गृहे समानिनाय। अथासौ प्रीतः पुत्रेसंसारभारमारोप्य कृतकृत्यो वीतरागः परमात्मनि मनो निदधे।3

_________

तृतीयबन्धः।

“सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।”

चतुःकुमारचरितम्।

अस्ति मालवदेशे उज्जयनी नाम प्रसिद्धा पुरी। तत्र जितशत्रुनामा नृपतिरभूत्, तन्महिषी च विजयश्रीनाम्नी। एकदा स राजा सुखेन राज्यं पालयन् सभायामुपवि-

ष्टोऽस्ति तादृशसमये प्रतीहारेणागत्य निवेदितं, राजन्! चत्वारः पुरुषाः श्रिया रूपेण च राजसुतसमाना भवद्दर्शनार्थिनो द्वारि तिष्ठन्ति। राजा प्राह, अविलम्बितं प्रवेशय।

अथ प्रतीहारेणानुगम्यमानास्ते चत्वारोऽपि राजसुताः सभायां समागत्य प्रणामादिना विनयवृत्तिं विधायातिष्ठन्। राजापि आसनदानायानुज्ञाप्य तेषां मुखं निरीक्ष्यतर्कयामास, नूनमेते सद्वंशसम्भूताः। इति विमृश्य ताम्बूलादिप्रदानेन तान् सम्मान्य पप्रच्छ, भोः! यूयं कुतः समागताः? किं वागमनकारणं भवताम्? इति पृष्टेकनिष्ठः प्रोवाच।

राजन्! उत्तरापथे सुवर्णतिलकं नाम पुरमस्ति। तत्र वैरमर्द्दनो नाम राजासीत्। तस्य च महिषी निरुपमरूपवती रूपवतीनाम। तत्कुक्षिसम्भवाः क्रमेण चत्वारस्तनयाः सञ्जाताः। तेषामिमानि नामानि। — प्रथमो देवराजः, द्वितीयो वत्सराजः, तृतीयो दुर्लभराजः, चतुर्थःकीर्त्तिराजः इति।

ते चत्वारोऽपि पित्रा कलाभ्यासं कारिताः, क्रमात्तारुण्यं वयः प्राप्ताः, ततश्चानुरूपाः कन्या विवाहिताः। एकदा स राजा विषमरोगार्द्दितो बभूव। तदा ज्येष्ठं सुतं देवराजं राज्येसंनिवेश्य यथोचितं हितमुपदिश्य परलोकमापन्नः। देवराजोऽपि पैतृकं राज्यं कियत्कालं

सुखेन पालयामास। अथ दायादैरेकत्र सम्भूय बलात्कारेण देवराजस्य राज्यं गृहीतम्। तथासौ सबान्धवोऽपि देशान्निष्काशितः। देव! सोऽयं देवराजोऽनुजगणपरिवृतो युष्मत्समीपे सेवां कर्त्तुं समाययौ।

इति निशम्य प्रहर्षितो राजा प्राह, मम पार्श्वे समागतैर्भवह्निर्भव्यं कृतं, यतः सतां सन्त एव शरणम्। इति निगद्य प्रतीहारं समादिश्य राज्ञागृहोपकरणसमन्वितं प्रवरं वासभवनं तेषां निवासाय समर्पितम्। अनन्तरं ते चत्वारोऽपि सुसेवकाः स्वामिभक्तिपरायणाः प्रसादपूर्वकं राज्ञा स्वाङ्गरक्षकाः कृताः। विशेषेण रात्रौ ते चत्वारोऽपि प्रतिप्रहरं पर्य्यायेण गृहीतायुधाः सन्तः प्रसुप्तस्य नृपस्य शरीररक्षां कुर्वन्ति।

एकदा ग्रीष्मकाले देवराजो नृपतिं समनुज्ञाप्य केनापि कार्य्येण क्वापि समीपवर्त्तिनि ग्रामे गतः। अथ प्रत्यावर्त्तनसमये मध्याह्न एव पथि महारौद्रः प्रबलो वातावर्त्तः समुत्थितः। प्रचण्डपवनप्रेरितं धूलिपटलमुञ्चलितम्। पत्रतृणानि च व्योम्नि समुड्डीनानि। घनघटा घनघनं गर्ज्जन्तीवर्षन्तीच विद्युद्विलासिनी गगनेऽधावत्।

देवराजस्तु तदा वटपादपं समाश्रित्य तस्थौ। तत्र स्थितेन तेन वटोपरि किमपि रहः संलपितं श्रुतम्। तदा तेन हृदि चिन्तितं, किमिदं, को जल्पति! इति विचिन्त्य सावधानो भूत्वा भाषाविशारदः स ईदृशं पैशाचिकं वचः शुश्राव, यथा

‘फो फी जाणसि किं वा? सो भणदि णफो कहहि महकिं तं।
जंपइइमो विश्वज्जम् मलिहीए सो णलिंदत्ति॥
बीएणतउप्रुद्धोकेण णिमित्तेणकोइवेलाए।
सो जंपइसप्पाउ पड़मेपहलंमिलन्तीए॥’

एकेन वृद्धपिशाचेन भणितं भोः भोः! त्वं किंचिद्जानासि? अपरेणोक्तं, नाहं जाने, त्वं मम कथय। वृद्धपिशाचः प्राह, अद्य उज्जयनी-नरेन्द्रो मरिष्यति। द्वितीयेन पृष्टं, केन निमित्तेन? कस्मिन् समये नृपो मरिष्यति? स प्राह, यामिन्याः प्रथमे यामे, सर्पकान्नृपमरणं भविष्यति।

इति पिशाचवचः श्रुत्वा सत्यमेव मत्वा देवराजश्चित्तेपरिपीड़ितो दध्यौ। अहो! किं दुर्दैवमुपस्थितम्! अधुना यथा नृपतेरनिष्टापातो निवर्त्तते तथाहं यतिष्ये। इति विचिन्त्य स शोघ्रमेव नृपान्तिकमाययौ।

राजा च प्रदोषसमये सभासदो विसृज्य वासवेश्मनि प्रविश्य देव्या सह सुखशय्यायां सुप्तः। यामिन्याः प्रथमे यामे देवराज एवासीत् प्रतीहारी, अतोऽसौ तस्यां रात्रौ विशेषेण सशङ्को भूपस्य शयनमन्दिराभ्यन्तरे प्रविश्य उपर्य्यधः पार्श्वेषु पर्य्यवेक्ष्य खड्गंसमाकृष्य दीपच्छायामाश्रितो विलोकयन्नतिष्ठत्।

अथासौ चन्द्रपटैकदेशे प्रलम्बितं कृष्णसर्पं दृष्ट्वा निःशङ्कतया तत्क्षणमेव तन्मुखं करेणैकेन गृहीत्वा खड्गयुक्तेनद्वितीयपाणिना तं द्विधा कृत्वा तत्खण्डद्वयम्

एकत्र भूमिमध्ये निचखान। अथ पुनरपि तत्रागत्य सावधानतया रक्षकत्वेन स्थितेन तेन सर्पस्य रक्तविन्दवो देव्या उरसि दृष्टाः। ते च विषसंक्रमण्भयान्निजहस्तेन तेन अपनीताः।

अत्रान्तरे सहसा जाग्रता नृपेण स देव्याः शरीरे करस्पर्शं कुर्वन् दृष्टः। राजा च सकोपश्चिन्तयामास, अमुमधुनैव मारयामि, अथवा सबलोऽयमेकाकिना मयामारयितुं कथं शक्यते। अतः केनाप्युपायेन वञ्चकमेनं मारयिष्यामि। शास्त्रेचाप्युक्तमस्ति।

**आयुषीराजचित्तस्य धनस्य च घनस्य च।
तथा स्नेहस्य देहस्य नास्ति कालोविकुर्वतः॥ **

अतः स राजा सकोपः पुनरपि निद्रावस्थायामेव स्थितः। अथ घटिकागृहेरजन्याः प्रथमः प्रहरो वादितः। देवराजोऽपि वत्सराजं तत्र संस्थाप्य स्ववेश्मनि गतः। तदा राजा प्राह, भोः साम्प्रतमत्र कः प्राहरिकोऽस्ति? सोऽवदत्, देव! तव सेवको वत्सराजनामा यामिकोऽस्मि। पुनरपि राज्ञोक्तम्। भो वत्सराज! एकं मम समादेशं परिपालयिष्यसि? तेन गदितं, स्वामिन्! शीघ्रमेव समादिश। यदादिशसि तदविचारितमेव करोमि। इति श्रुत्वा राजा प्रोवाच। भोः! यद्येवं, तर्हि त्वद्भ्रातुर्देवरास्य शीर्षं छित्त्वा समानय।

इति श्रुत्वातथेति प्रतिपद्य नृपमन्दिरान्निर्गत्य वत्स-

राजश्चिन्तयामास, नूनं केनापि कारणेन राजा देवराजस्य भृशं कुपितोऽस्ति। नूनं तनुदारधनद्रोहैर्विना नैवंविधः कोपः सम्भवति, परन्तु तादृशं द्रोहकारित्वंमम भ्रातुर्नसम्भाव्यते। यत उक्तमस्ति।

योभवत्युत्तमो लोके स्वप्रकृत्यैव स ध्रुवम्।
अप्यङ्गीकुरुते मृत्युं सदाचारी न चोत्पथम्॥
भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः।
अकार्य्यंनैव कुर्वन्ति ते महामुनयो यथा॥

इति विमृश्य वत्सराजेन ध्यातं, कथमहमीदृशमकृत्यं करोमि! नृपादेशोऽपि दुर्लङ्घ्यएव। अधुना कथमपि कालविलम्बो विधीयताम्। बुधैः कालक्षेपोऽप्यशुभनिवारकतया प्रोक्तः। इति चिन्तयित्वा भूपसमीपे समागत्य स प्राह, स्वामिन्! देवराजोऽद्यापि जागर्त्ति। जाग्रदसौ न केनापि हन्तुं शक्यते। निद्राभरे समागते तमहं घातयिष्यामि। इत्युक्तेराज्ञा तद्वचः प्रतिपन्नम्। वत्सराजेनोक्तं, प्रभो! समयातिपातहेतवे यूयं कथामेकां कथयत, अथवा मत्तः शृणुत। इति निर्द्दिष्टे भूपेनोक्तं, भो भद्र! त्वमेवाख्यानं समाख्याहि। इत्येवमादेशं प्राप्य वत्सराजः कथां कथयितुमारेभे।

————

अमृतफलोपाख्यानम्।

इहैव भरतक्षेत्रे पाटलीपुरनामकं पुरमस्ति। तत्र प्रतापवान् नयविनयादिगुणसमलङ्कृतः पृथ्वीराजनामा नृपो बभूव। तस्य च महिषीमन्मयमञ्जरी नाम। तस्मिन्नगरे निर्म्मलाचारःसुविचारःकृपाधारः श्रेष्ठी रत्नसाराभिध आसीत्। तस्य च पुत्रः पवित्रचारित्रो धनदत्तनामाभूत्।एकदा स श्रेष्ठिसुतः शैशवमतिक्रान्तः कृतविद्यो मित्रबान्धवपरिवृतो मन्दिरान्निर्गत्य केनाप्यर्थेन पथि गन्तुं प्रवृत्तः। तं दृष्ट्वा केनापि प्रोक्तम्, अयं श्रेष्ठी धनदत्तो धन्यः; य एष एवं सुखेन स्वेच्छया विलसति।इत्युक्तेअन्येन भणितं, मूढ़! किमस्य प्रशंसा क्रियते? यः पुमान् जनकोपार्जितां लक्ष्मीं भुङ्क्ते स कापुरुष एव, स न प्रशस्यते। यो निजभुजोपात्तंवित्तं भुङ्क्ते ददाति च, तस्य एव प्रशंसा कर्त्तव्या, अन्यथा का प्रशंसा। यत उक्तम्।

मातुः स्तन्यं पितुर्वित्तं परेभ्यः प्रार्थितं धनम्।
पातुं भोक्तुं ग्रहीतुञ्चबाल्य एवोचितं यतः॥

इति श्रुत्वा श्रेष्ठिसतो मनसा चिन्तयामास। अनेन ईर्ष्यापरेण जल्पितं, परं मम हितं चैतत्। ततोऽहं देशान्तरं गत्वा यदि धनमुपार्जयामि, तर्हि सत्पुरुषो भवामि, नान्यथा। इति विचिन्तयता तेन स्वविमर्शकारणं मित्रवर्गस्याग्रे निगदितम्। तदासौ मित्रैरपि प्रशंसितः।

अथ धनदत्तः पितुः पादौ प्रणिपत्य महताग्रहेण जगाद; तात! मया त्वदादेशेन देशान्तरं धनोपार्जनाय गन्तव्यम्। इति श्रुत्वा स श्रेष्ठी वज्राहत इव बभूव। तदा तेन च निगदितं वत्स! पूर्वं सञ्चितं बहुलं धनं विद्यते। वर्षसहस्रेणापि न तत् क्षयमुपयास्यति। त्वं स्वेच्छया देहि, भुङ्क्ष, किमुपार्जनप्रयासेन? देशान्तरे यथाकालं भोजनं न लभ्यते। क्वापि जलमपि न प्राप्यते, तादृशं सुखशयनादिकं न भवति। त्वंतु सुकुमारशरीरः। इति पितृवचः श्रुत्वा पुनः पुत्रः प्राह, तात! युष्मदुपार्जिता लक्ष्मीः मम जननीसमा। शैशवं विना भोक्तुंन युज्यते। इत्येवं महताग्रहेण स श्रेष्ठिसुतः पितुरादेशंप्राप्य क्रयणकानि गृहीत्वा सुसार्थसहाययुक्तः श्रेष्ठिदत्तां शिक्षां चित्तेऽवधार्य्य शुभवासरे प्रयाणं चक्रे।

अथ अविच्छिन्नप्रयाणैः श्रेष्ठिसुतः ससार्थोऽपि कियद्दिनैः श्रीपुरं नाम नगरं प्राप्तः। तत्र सरोवरसमोपे सार्थः संनिविष्टः। सार्थेशोऽपि पटगृहे तस्थौ। तस्मिन्नवसरे प्रकम्पमानशरीरो भयभ्रान्तलोचनः कश्चित् पुमान् श्रेष्ठिसुतस्य तस्य शरणमापन्नः। तेनोक्तं, माभैषीः। परं कथय, कीदृशमपराधं कृत्वा मत्समीपे समागतोऽसि।

इति पृच्छत्येव तस्मिन् हत हतेति वदन्स आयुधं दधाना रक्षकपुरुषास्तत्रागत्य सार्थवाहमिति वदन्ति स्म।

भोः! भूपतेर्दासोऽयमुत्तमं नृपाभरणमपहृत्य द्यूतकारसन्निधौ हारयामास। ततस्तदाभरणस्वरूपं निरूप्यअस्माभिर्नृपाग्रे विज्ञप्तम्। तदा राज्ञाद्यूतकारसकाशात् तद्विभूषणं स्वीकृत्य इति प्रोक्तम्, अस्य चौरस्य निग्रहो विधीयताम्। एष नृपद्रोहकारीन मोक्ष्यः। इत्युक्तेऽपि दयामपणेन मन्त्रिणाराज्ञइति विज्ञापितम्, असौआभरणचौरस्तावत् कारागृहे तिष्ठतु। राज्ञातद्वचनंश्रत्वायं कारागृहे निक्षिप्तः।

एकदा एष चौरो निशाया अन्तिमे यामे तत् कारास्थानं भङ्क्त्वाआरक्षकं हत्वा ततो विनिर्गत्य यदा नष्टस्तदा वयं शीघ्रमेव पृष्ठे धाविताः। एवंसमये एष चौरो नष्ट्वाऽस्य सरसः प्रत्यासन्ने गूढ़वने प्रविष्टः। साम्प्रतं ततो विनिर्गत्य भो व्यवहारिन्! त्वच्छरणे प्रविष्टः। तस्मादयं नृपद्वैष्यो न रक्षणीयः।

इत्यारक्षकवचः श्रुत्वा सार्थेशः प्राह; हंहो राजपुरुषाः! यद्यप्येवमस्ति तथापि सत्पुरुषैः शरणागतो न प्रार्थ्यते। आरक्षकैरुक्तं, वयं नृपादेशकराः, अस्माभिरन्यथा कर्त्तुं न शक्यते। पुनः सार्थपतिना प्रोक्तं; तर्हि राजानमहं विज्ञापयिष्यामि। इत्युक्त्वाबहुमूल्यां चैकां रत्नावलीमन्यदुपायनञ्च दत्त्वा भूपं विज्ञापयामास। तदानीं राज्ञाबहुमानपुरःसरं पृष्टं, भोः सार्थप! त्वं कुतः समागतः? तेन स्ववृत्तान्तो नृपाग्रे कथितः, इति

च प्रोक्तं, महाराज! यद्याभरणं लब्धं तर्हि मम शरणागतस्तस्करोऽयं कृपया मुच्यताम्। राजा प्राह, लब्धेऽपि भूषणे एष राजस्वापहारी बधार्हएव। परन्तु भोः सार्थेश! तवैवाभ्यर्थनया मयायं मुक्तः।

ततो महाप्रसाद इत्युक्त्वानृपं नत्वा स सार्थपश्चीरसहितः स्वस्थानं गतः। आरक्षकनरास्ते राजदूतेन निवारिताः। श्रेष्ठिसुतेन चौरोऽपि सहभोजनादिना परितोषितः कथितश्च, भोः! अतःपरं भवता चोरकर्म्म न कर्त्तव्यम्। इत्युक्तेन तेन चौर्य्यवृत्ति-निवृत्तिमङ्गीकृत्य निगदितम्; अथाहं त्वत्प्रसादेन किञ्चित् परलोकहितं व्रतं साधयिष्ये। परन्तु मत्समीपे साधुदत्तः सप्रत्ययो भूतनिग्रहकारी मन्त्रोऽस्ति। तं मन्त्रंत्वमधुना गृहाण। मम प्रार्थनाभङ्गो न विधेयः। इत्युक्तेसार्थपतिःपरोपकारकं मन्त्रं विज्ञाय जग्राह। ततस्तस्करोऽपि तं प्रणम्य स्वस्थानं ययौ।

अथासौ धनदत्तस्ततः स्थानात् प्रयाय क्रमेण कादम्बरीमटवीं प्राप। तत्र एकस्या महानद्यास्तटे सार्थं समावासयामास। सर्वेऽपि जना भोजनादिसामग्रीं समाहर्त्तुं समारेभिरे। सार्थेशस्तु एकत्र उपविष्टः कृष्णवर्णंरक्तलोचनं धनुर्बाणव्यग्रकरं सारमेयसमायुक्तंरुदन्तं सुदुःखितं व्याधमेकं ददर्श। तदानींसार्थेशेन सविस्मयेन चिन्तितं, किमेतद्घटते? ततश्च विमृश्य साग्रहं तेनासौ पृष्टः, भोः!

कथं रोदिषि? दुःखकारणं कथय। व्याधेनोक्तं, भो भद्र! मद्दुःखकारणं शृणु।

इहैव पर्वते गिरिकुण्डला नाम पल्ली विद्यते। तत्र च पल्लीपतिः शूरतया ख्यातः सिंहचन्द्राभिधो वर्त्तते। तस्य सिंहवती नाम रूपवती भार्य्यास्ति। सा च भूतग्रहपीड़यासाम्प्रतं प्राणसंशये पतिता। नूनमस्मत्स्वामी पल्लीनाथोऽपि तस्या वियोगदुःखेन प्राणांस्त्यक्ष्यति। उपायशतसहस्रैरपि तस्याः शरीरे समाधिर्न जायते। अहो सार्थपते! तेन कारणेनाहं रोदिमि।

इत्याकर्ण्य सार्थपतिः प्राह, भो व्याध! तामेकवारमहमवलोकयितुमिच्छामि, मत्समीपे मन्त्र एकोऽस्ति। कदापि तेन गुणो भवति। इति निशम्य स भिल्लःसत्वरं गत्वा स्वामिने तन्निवेदयामास। पल्लोपतिस्तु तत्क्षणमेव तां भार्य्यां स्वयं समादाय सार्थेशसन्निधौ समाजगाम। तदा तेन सार्थनाथेन विलोक्य मन्त्रजापविधानेन सा निर्दोषा कृता। तेन च तस्या जीवनदानं कृतम्।

ततः पल्लीनायको हृष्टः सार्थेशेन विसृष्टः स्वस्थानं समगमत्। धनदत्तोऽपि सार्थसमन्वितस्ततः स्थानात् प्रस्थाय शनैः शनैः समुद्रोपकण्ठ-संस्थितं गम्भीराख्यंप्रवरं पुरं प्राप। तत्र स्थितस्यापि तस्य यदा मनोवाञ्छितलाभो नाभवत् तदासौ बहुविधद्रव्येण प्रवहणमेकं पूर्णं विधाय विधानतः समुद्रपूजां कृत्वा द्वीपान्तरयोग्यं

सर्वमपि भाण्डं तत्र समारोप्य वेलावसानसमये स्वयं तत्र समारुरोह।

तदनु अनुकूलपवनयोगेन वेगेन महासमुद्रमध्ये प्रवहणे प्रचलति श्रेष्ठिसुतो व्योममार्गे समागच्छन्तं वक्त्रगृहीताम्रफलमेकं सुन्दरं शुकराजं ददर्श। तदा परिश्रमवशादवशंसमुद्रजले पतन्तंपतत्रिणं तं वीक्ष्यअधः पटींविस्तार्य्य सोऽनुचरैः स्वसमीपे समानिनाय। जलप्रदानेन व्यजनादिना च स कीरः स्वस्थीकृतः। अथासौ मुखात् फलं विमुच्य मनुष्यबाण्या प्रजल्पितुमारेभे।

भोः सार्थनाथ! भोः परोपकारपर! परोपकारः परः पृथिव्यामपरो जीवनदानन्नदृश्यते। साम्प्रतं दयावता भवता मम जीवनदानं कृतम्। मम जीवितं च ददता त्वया वृद्धौदृष्टिहीनौ मदीयौ मातापितरावपि आसन्नमृत्युमुखात् रक्षितौ। अतः कारणान्महोपकारकस्य तवाहं कीदृशमुपकृत्य कृतकृत्यो भवामि। तथापि मया समानीतं चूतफलमिदं त्वया गृह्यताम्।

तदा सार्थपतिः प्राह, भोःशुकराज! अहमेतेनाम्रफलेन किं करोमि? त्वमेव भक्षय। अन्यदपि तव शर्करा दाड़िम्बद्राक्षादिकं भक्ष्यंयच्छामि। शुकेन पुनः प्रोक्तं, भोः सार्थाधीश! एतत् फलम् अनेकगुणाकरं दुष्प्रापञ्च। एतत्फलस्य एतत्फलस्य च अधिगमं शृणु।

अस्ति भारतवर्षे विन्ध्यनामा महागिरिः। तत्-

समीपे जगत्प्रसिद्धा विन्ध्याटवी वर्त्तते। तत्रैकस्मिन् द्रुमे कीरमिथुनं तिष्ठति। तत्पुत्रोऽहम्। तौ मत्पितरौ यदा क्रमेण वृद्धभावेन जराक्रान्तौ लोचनाभ्यां न पश्यतः, तदा अहमेव भक्ष्यमानीय तयोर्ददामि। एकदा तस्यामेवाटव्यां चूतवृक्षशाखायामहम् उपविष्टोऽस्मि, तावत्तत्र मुनिद्वन्द्वंसमागतम्। तेन साधुयुग्मेन दिशो विलोक्य निर्ज्जनत्वादेवं समालपितं, समुद्रमध्ये कपिशैलस्य शृङ्गे सदाफलः सहकारद्रुमोऽस्ति। तस्यैकमपि फलं यो भक्षयति, तदङ्गतः सर्वेऽपि व्याधयो नश्यन्ति। अकालमरणं जराजीर्णत्वं तस्य न भवति। सौभाग्यं तथा प्रवरं रूपं शुभा कान्तिस्तस्य च जायते।

इति वचः समाकर्ण्य मया चिन्तितं, सिद्धतापसभाषितं कदाप्यसत्यं न भवति। अहमपि तत् फलं समानीय मम मातापित्रोर्यदि ददामि, तर्हि तौ तारुण्यावस्थौसुलोचनौ भवतः। भोः सार्थवाह। इति चिन्तयता मया तत्र गत्वा तदेतत् फलं समानीतम्। त्वमिदं गृहाण। अहमन्यत् फलं समानीय पित्रोर्दास्ये ।

तदानीं श्रेष्ठिना शुकाग्रहेण तत्फलं समाददे। शुकः पक्षीच पुनर्नभस्तले उत्पपात। श्रेष्ठिना चिन्तितम्, एतत् फलं यदि कस्मैचिन्नरेन्द्राय प्रदीयते तर्हि बहूनामुपकारो भवेत्। किं मया भक्षितेनाभक्षितेन वा। इति ध्यात्वा तेन तदाम्रफलं भव्यस्थाने गोपितम्।

ततः कियद्भिर्वासरैस्तत् प्रवहणं परकूलं संप्राप्तम्। श्रेष्ठिनन्दनोऽपि प्रवहणादुत्तीर्य्य उपायनं गृहीत्वा भूपतेः समीपं ययौ। तेनोपायनं ढौकितं, तत्कीरदत्तंसहकारफलमपि राज्ञः करे समर्पितम्। राज्ञा सविस्मयेन पृष्टं, भो व्यवहारिन्! किमेतत् फलम्? तदा सार्थपेन नृपाग्रे फलस्य परमार्थः कथितः। राजा च भृशं सन्तुष्टः समस्तमपि तस्य शुल्कं मुमोच। श्रेष्ठो महाप्रसाद इति निगद्य स्वस्थानं गत्वा प्रवहणस्थं प्रयाणकं विक्रीय अपरं भाण्डं गृहीत्वा गम्भीराख्यंपुरं समागत्य पुनरपि तामेव कादम्बरीं महाटवींसमाजगाम। तत्र चावासं कल्पयित्वा स सार्थेशः सानुचरस्तस्थौ।

अथ रात्रौ तत्र सार्थलोकेषु भाण्डसमूहं परितः प्रसुप्तेषु, यामिकेषु जाग्रत्सु हत हतेति शब्दमुच्चारयन्ती अकस्माद्भिल्लधाटी प्रकटीबभूव। सार्थवाहोऽपि संनह्य सुभटपरिवतस्तया सह योद्धुंप्रवृत्तः। सार्थेशवन्दी च एवं पपाठ; भोः स्थिरचित्त! धनदत्त! त्वं जय। तदा धाटीस्वामिना पल्लीशेन पूर्वोपकारिणो धनदत्तस्याभिधानं भट्टमुखात् श्रुत्वा सशङ्कितेन युद्धप्रवृत्ताः स्वप्रत्तयो निवारिताः।

तदनन्तरं स स्वयं शस्त्रविरहितस्तस्य सार्थपतेः सम्मुखमाययौ। तथा धनदत्तोऽपि तं परिज्ञाय ससम्भ्रमः प्रोवाच, अहो! कृतज्ञ-शिरोमणे! तव कुशलम्? इत्युक्त्वेतौ परस्परमालिङ्ग्य एकत्रासने उपविष्टौ। सार्थ-

पतिस्तं ताम्बूलादिकं प्रददे। ततः पल्लीशः क्षेमवार्त्तांपृष्ट्वा सार्थेशाग्रे आत्मानमेवं निनिन्द। हा हा! मया अज्ञानत्वेन कीदृशीअयुक्तिः कर्त्तुं समारब्धा! अधुना ममापराधं क्षमस्व, प्रसादं कृत्वा मम पल्लीमध्ये समागच्छ। इत्युक्त्वा महाग्रहं कृत्वा पल्लीशेन स व्यवहारी सार्थसहितोऽपि स्वपल्लीमध्ये समानीतः। ततोऽपि स्वगृहे नीत्वा स्नानभोजनवस्त्राद्यैस्तं सम्मान्य मुक्ताफलगजदन्तादिभिः सत्कृतवान्।

सार्थोऽपि प्रणयवाक्यैस्तंतोषयित्वा तद्दत्तं कियद्वस्तु गृहीत्वा तमनुज्ञाप्य प्रतस्थे। ततः कियद्भिरहोभिर्निजं नगरं क्षेमेण प्राप्य महोत्सवपुरःसरं पुरप्रवेशं विधाय स्वभुजोपात्तवित्तेन सत्पात्रेषु दानं, दीनोद्धारं, प्राचीनपुण्यकीर्त्तिरक्षणं, धर्म्मशास्त्रप्रचारं विद्यावितरणोत्साहादिकञ्च विधाय सुकृतशतानि समुपार्ज्यसमग्राण्यपि निर्मलसौख्यानि मनोऽभीष्टानि बुभुजे।

इतः स नरपतिराम्रफलं करे कृत्वा दध्यौ;एतेन फलेन स्वयं भक्षितेन को लाभः। यद्यहमेतद्वीजवपनेन सहकारफलानि बहूनि समुत्पाद्य बहुलोकानामुपकारं करोमि, तर्हि महान् लाभः स्यात्। इति विमृश्य भूपतिः स्वान् पुरुषान् इत्यादिदेश, भो! यत्नवद्भिर्भवद्भिरेतत् शुभस्थाने वाप्यं, तथा निरन्तरं प्रयतितव्यञ्च यथा महान् सहकारो भवति।

अनन्तरं तैः पुंभिर्म्मनोरमे उद्याने गत्वा तथा विहितम्। अस्य च परित आलबालं विधाय नित्यं जलं पाय्यते, मृत्सारोऽपि प्रदीयते। इत्थं कियद्भिर्दिनैस्तस्याङ्कुरोद्गमवार्तां राज्ञा श्रुता। तदा स राजा रक्षकेभ्यः पारितोषिकं दत्त्वा इति बभाषे, अयं यत्नतो रक्षणीयः। इति नृपवचः श्रुत्वा ते रक्षकनरा रात्रिन्दिवं तत्रैव तिष्ठन्ति।

एकदा दैववशतो रात्रौ स्वयमेव त्रुटित्वा फलमेकं भूमौ निपतितम्। तदा प्रभाते रक्षकनरैस्तत् फलं परिपक्वंपतितं दृष्ट्वा प्रहृष्टैः शीघ्रमेव नृपाय दत्तम्। तदा नृपेणापि विचिन्तितम् एतन्नूतनं फलं पूर्वं कस्मैचित् सत्पात्राय प्रदीयताम्। इति विमृश्य चतुर्वेदधरं देवशर्म्माणं द्विजं समाकार्य्य भक्तिपूर्वकं तदमृतफलंराजा तस्मै प्रददौ। सोऽपि विप्रस्तदा तदाम्रफलं नृपदत्तंगृहीत्वा प्रहृष्टः स्वभवनं गत्वा देवार्चनं समाधाय भक्षयन्नेव पञ्चत्वं प्राप।

तदा च केनचिन्नृपाग्रे निगदितं, राजन्! देवशर्म्माद्विजस्तदमृतफलं भक्षयन् तत्क्षणमेव विपन्नः। तत् श्रुत्वा राजा सखेदः प्राह, अहो! मया धर्म्मभ्रान्त्या महत्तरं ब्रह्महत्यापातकं समुपार्जितम्! नूनमेष विषवृक्ष एव। केनाप्यरिणा एतत्प्रपञ्चं विधाय मम विनाशाय फलं प्रेषितम्। तर्हि अयं स्वहस्तेनोप्तोऽपि प्रयत्नतः पालितोऽपि बहुप्राणक्षयकारित्वात् विषपादपः शीघ्रमेव च्छिद्यताम्। इत्युक्ते

तत्क्षणमेव नृपादिष्टनरैस्तीक्ष्णकुठारधारिभिरसौ वृक्षो मूलादपि च्छित्त्वा भूमौ पातितः।

तदा च कुष्ठरोगार्द्दिता जीवितनिर्विणाःकेचित् तद्विषवृक्षच्छेदनमाकर्ण्य मुखमृत्यवे तत्राजग्मुः। तेषां च मध्ये केनचित् तस्य द्रुमस्य पक्वंफलं, केनचिदपक्वंफलं, केनचिदर्द्धपक्वंफलं, केनचित् मुकुलं, केनचित् पल्लवं केनचित् पत्रमपि मरणकामेन भक्षितम्। अथ ते सर्व्वेऽपि नीरोगा अपूर्वरूपलावण्यसम्पन्ना अपि बभूवुः।

राजा च तान् कुष्ठाभिभूतान् दिव्यरूपधारिणो वीक्ष्यविस्मितश्चिन्तयामास, अहो! अस्य सहकारफलस्य कथमेषा विपरीता स्थितिः। यतोऽनेन वेदवेदाङ्ग-विचक्षणो विप्रो विपन्नः, इतरजनेशष्वस्य महान् गुणो दर्शितः। इति विचिन्त्यराजा रक्षकानाहूय पप्रच्छ, भोः! भवद्भिः सहकारफलं तत् पातितं पतितं वा गृहीत्वानीतम्? तैरुक्तं, राजन्! स्वयं पतितमेव फलमस्माभिर्गृहीतम्। तदा राज्ञाविमृष्टं, नूनं तत् फलंसर्पादिविषेण दूषितमासीत्; तेन स द्विजोत्तमो विपन्नः। परन्तु एष वृक्षःपीयूषमय एव। अहो! मया सहसा अविचार्य्यअकार्य्यंकृतम्। यदसौ रोषतोमहोपकारी सारद्रुमच्छेदितः। शास्त्रेऽपि कथितमस्ति।

सगुणमपगुणं वा कुर्वताकार्य्यजातं
परिणतिरवधार्य्यां यत्नतः पण्डितेन।

अतिरभसकृतानांकर्म्मणामाविपत्ते-
र्भवति हृदयदाही शल्यतुल्योविपाकः।

इति विचिन्तयन्नेव स राजा यावज्जीवं वाढ़ं शुशोच। यथा तेनासमीक्ष्यकारिणा नृपेण अपरीक्ष्यकार्य्यं कृतं, तथापरेण न कर्त्तव्यम्। ईदृशींकथां कथयित्वा द्वितीयप्रहरे व्यतीते स वत्सराजो गतः। तदा तृतीयभ्राता दुर्लभराजः समाययौ।

तदा राजाचिन्तयत्। वत्सराजेनापूर्वमुपाख्यानमुपाख्यातं, परन्तु मत्कार्य्यं न कृतम्। ततो दुर्लभराजं यामिकत्वेसमागतं विज्ञाय राज्ञाजिज्ञासितं,भो दुर्लभराज! मम कार्य्यमेकंसाधयिष्यसि? तेनोक्तम्, अवश्यमेव साधयिष्ये। राजा प्राह, त्वद्भ्रातरं देवराजं हत्वा सत्वरं शिरः समानय।

इत्युक्तः सोऽपि तथेति प्रतिपन्नः सविस्मयो वहिर्गत्वा क्षणान्तरेण पुनः प्रत्यावृत्य भूपालमिति बभाषे, साम्प्रतं द्वावपि ममाग्रजौ विनिद्रौ स्तः। क्षणं विलम्ब्यभवत्समीहितं साधयिष्ये। स्वामिन्! समयातिपाताय तावदुपाख्यानमेकं कथयन्तु भवन्तः शृण्वन्तु वा। भूपालेन भणितं, त्वमेव कथय। दुर्लभराजः कथयति।

______

**वटुकोपाख्यानम्। **

अस्ति वङ्गदेशे मुरादिपुरं नाम पुरम्। तत्र हरिश्चन्द्रनामा नृपतिरभूत्। अहल्या नाम तस्याग्रमहिषीबभूव। एकदा सभास्थितस्य तस्य सन्निधौ शिवशर्म्मनामा वटुरेकः प्रतीहारनिवेदितः समाययौ। स च राज्ञो विषयान्तरव्यापृतचित्ततया अनुपलक्षित एव समुपविश्य स्थितः। अथ यथासमयं नृपः सभां विसृज्य श्रमापहम् अभ्यङ्गस्नानादिकं समाधाय देवपूजार्थं देवमन्दिरे समुपविष्टः। शिवशर्म्माच तदा देवार्चनाय कुसुमानि तत्समीपे समर्पयामास।

राज्ञापृष्टं, भो भद्र! कस्त्वं? कुतः समागतः? शिवशर्म्माब्रवीत् राजन्! विष्णुपुरवासिनो गणितशास्त्रविशारदद्विजस्य शुभङ्करस्य पुत्रोऽहं शिवशर्म्मानाम। देशान्तरेकौतुकविलोकनकौतूहलेनाहं परिभ्रमन् भवत्समोपे समेतोऽस्मि। इत्याकर्ण्य राजा तं सत्कुलजातं। प्रकृत्या विनीतं मधुरभाषिणं स्वभावसुन्दरं विज्ञाय स्वसन्निधौ स्थापयामास। स च निश्चिन्तस्तत्र तस्थौ। यतः—

शूरस्त्यागी प्रियालापी कृतज्ञोदृढ़सौहृदः।
विज्ञानीस्वामिभक्तश्चस सर्वगुणमन्दिरम्॥

अथासौ शिवशर्म्मा नृपगौरवात् अन्तःपुरादिष्वपि अप्रतिहतगतिर्बभूव। एकदा तन्नगरोपान्तेसिंह एकः समा-

ययौ। नागराश्च नृपति समेत्य तन्निवेदयामासुः। नृपोऽपि चतुरङ्गबलसमन्वितः प्रियतमसहचरेण शिवशर्म्मणा सह मृगेन्द्रवधार्थं नगरात् विनिष्क्रम्य नागरिकदर्शितोद्यानं परितः सेनाः संस्थापयामास।

ततोऽसौ स्वयं कुञ्जरमेकमारुह्य शिवशर्म्माणंपुरस्कृत्य केशरिणः सन्निधौ ययौ। सिंहोऽपि समेत्य सम्मुखं मुखं व्यादाय क्रमितुं क्रमं बबन्ध, पार्थिवोपरि परिपतनाय च नभसि उत्पपात। शिवशर्म्मा तु स्वामिनो विपदमवश्यम्भाविनीं सम्भाव्य निपततः पशुपतेर्विवृतमुखे बहुबलेनाङ्कुशमाशु प्रक्षिप्य तं जघान।

नृपतिना चोक्तं, शिवशर्म्मन्! भवता भव्यं न कृतम्। मया चिन्तितं, मदुपरि परिपतन्तममुं पारीन्द्रं परिघप्रहारेण परिहृत्य निपात्य व यशोभाजनं भविष्यामि। त्वया तु चापल्यादयमन्तरा हतः। अरे! अद्य त्वया न केवलमयं मृगेन्द्रो निहतः, नरेन्द्राणां सर्वेषां मध्ये मम यशोऽपि निहतम्।

एतदाकर्ण्यशिवशर्म्माप्राह, देव! भवदनिष्टापातशङ्कया मयायं केशरी निपातितः। न तु ममात्र स्वगौरवमभिप्रेतम्। तथा च यदयं केशरी निहतः, तत्रापि स्वामिनःप्रभाव एव प्रभवति, अन्यथा एतदङ्कुशप्रहारमात्रेण कथमसौ केशरी व्यापन्नः। तथा च सैनिकानामग्रेएवमेवाहं कथयिष्ये, यदयं मृगेन्द्रो नृपेणैव निहतः।

स्वामिन्! एवं मयि कोपं वृथा मा कृथाः। इदं कार्य्यमावयोरेव प्रत्यक्षं नत्वन्यस्य कस्यापि। चतुःकर्णस्य मन्त्रस्य कथं भेदो भविष्यति। यत उक्तम् —

**षट्कर्णो भिद्यते मन्त्रश्चतुःकर्णो न भिद्यते।
द्विकर्णस्य च मन्त्रस्य ब्रह्माप्यन्तं न गच्छति॥ **

राजा प्राह, भद्र! यदि केनापि ज्ञायते तर्हि लोकमध्ये मम अलीकवादिता-कलङ्को भविष्यति। शिवशर्म्माप्रोचे, प्रभो! भवता किमेतन्नश्रुतम्?

साधौ समर्पितं गुह्यंसह तेनैव दह्यते।
खलेसमर्पितं गुह्यं जले तैलमिवाचरेत्॥

इति निगदिते राज्ञश्चित्तेविश्वासोऽभूत्। अथ तौ केशरिणं समादाय सैन्यमध्ये समेतौ। शिवशर्म्मा तु सैनिकानामग्रे प्रभुप्रतापमेवं व्यावर्णयामास, यस्य गर्ज्जनमात्रेण मत्तद्विपा अपि पलायन्ते, सोऽयं पशुराजो वङ्गराजेन लीलयैव निपातितः। इत्युक्तेसर्वेऽपि सविस्मयाःप्रहृष्टा राजानं प्रशशंसुः। नगरमध्ये चतूर्य्यनिर्घोषपूर्वकं महतोत्सवेन नृपतेः प्रवेशो बभूव। स्थाने स्थाने नागरिकाःपरस्परं समेत्य नृपस्य पौरुषं वर्णन्ति स्म।

तस्मिन् महोत्सवमये दिने शीघ्रमेव व्यतीते राजा सभासदो विसृज्य देव्याः सदनं समाययौ। देवी पप्रच्छ, राजन्! कथमद्यं पुरे महोत्सवः संजायते? कथं वा तूर्य्यनिर्घोषोऽतीव श्रूयते? राजा प्राह, मयाद्य महान् केशरी

निपातितः, तेनैव कारणेन पौरैर्वर्द्धापनमहोत्सवो विहितः।

इति श्रुत्वा देवी बभाषे, स्वामिन्! सुवंशसम्भवस्य भवतः किमेत् वृथा प्रशंसनं युज्यते? भूपेनोक्तं, वृथा कथम्? देवी पुनरप्याह, स्वामिन्! शिवशर्म्मासिंहं जघान, संवर्द्धनमहोत्सवः प्रभुणा कार्य्यते, किमेतत्? एतदाकर्ण्य राजा कुपित एवं दध्यौ, तेन दुरात्मना ममाग्रे इत्थमुक्तं, गुह्यं कस्यापि पुरतो न कथयिष्ये, अधुना तेनैव देव्याः पुरः स्वोत्कर्षःप्रकाशितः। तर्हि मर्म्मघातकोऽयमद्यैव प्रच्छन्नतया घातनीय एव।

इति विचिन्तयता भूपालेन कोऽप्यारक्षको रहस्तद्वधाय समाप्तः। अथासौ नृपादेशात् तत्क्षणमेव तं हत्वा निवेदयामास, राजन् ! भवदादेशात् स वटुर्व्यापादितः। तत् श्रुत्वा राजापि प्रमुदितः।

अन्येद्युर्देवी पप्रच्छ राजन् ! शिवशर्म्मान दृश्यते, साम्प्रतं स क्वगतः? भूपतिराह, देवि ! तस्य दुरात्मनो नामापि न ग्राह्यम्। देवी प्राह, स्वामिन्! स गुणवान् कौतुको विश्वस्तः प्रभुभक्तश्च। तेन तव किमत्याचारितम्? राजा प्रोवाच, तेन दुरात्मना रहस्यभेदात् विश्वासघातकता कृता, अहमपि लोके मिथ्यावादी कृतः। अतो मयैवास्य प्राणदण्डः कृतः।

देव्यानिगदितं, स्वामिन्! इदं सिंहमारणं शिवशर्म्मणा न ममाग्रे समाख्यातं, परन्तु मयैव कौतूहलेन

सप्तभूमिके प्रासादे समारूढ़या स्वयमेव दृष्टम्। अत्र तस्य कोऽपि दोषो नास्ति। ततः पुनरपि देव्या पृष्टं राजन्! सत्यं कथय, अधुना स जीवति न वा?

राजा सशोकः प्राह, देवि! मयाद्य महत्तरमकार्य्यं कृतम्। अद्य मया सर्वगुणरत्नमहोदधिस्तपस्वी ब्राह्मणोऽसौ व्यापादितः। एवमसौ राजा यथा शोकार्त्तोयावज्जीवमनुतापभाजनमभूत्, तथान्योऽपि अविमृष्यकारी पातकं लोकापवादमनुतापं च लभते।

एवं कथां कथयित्वा दुर्लभराजे विरते तृतीयः प्रहरो व्यतीतः। तदा दुर्लभराजोऽपि समुत्थाय वासभवनं ययौ। चतुर्थःकीर्त्तिराजश्चसमागतः। राजा तं प्राह, कीर्त्तिराज! मामकीनं कार्य्यमेकं करिष्यसि न वा? स प्रोवाच, राजन्! यद्यहं भवत्कार्य्यंन साधयिष्यामि, तर्हि तव सेवां कथं करिष्यामि। इति भणिते भूपतिरुवाच भोः कीर्त्तिराज! यदि त्वंप्रियसेवकस्तर्हि तवाग्रजस्य देवराजस्य शिरश्छित्त्वा सत्वरं समानय।

इत्युक्तेस धीमान् तथेति प्रतिपद्य नृपमन्दिरात् वहिर्विनिर्गत्य कालविलम्बं विधाय पश्चादागत्य नृपं प्रोचे, राजन्। शर्व्वरीशेषात् सर्वेऽपि यामिकास्त्रयो मे भ्रातरोऽपि जागरूकाः सन्ति। अतो भवदादेशः समयेऽन्यस्मिन् पालनीयः, इत्युक्त्वासमयातिपाताय तथैव नृपादेशं लब्ध्वास कीर्त्तिराजः कथां कथयति स्म।

____________

**विहङ्गमोपाख्यानम्। **

महापुरनगरे शत्रुञ्जयो नाम नृपतिरासीत्। एकदा कश्चित् तुरुष्कदेशीयः पुमान् जातिविशुद्धं घोटकमेकं समादाय तदन्तिकं समाययौ। राज्ञा चिन्तितं, रूपश्रियायं तुरङ्गमः प्रशस्यतमो दृश्यते, परन्तु गतिरस्य परीक्षणीया। यत उक्तम्,

**जवो हि सप्तेःपरमं विभूषणं, अपाङ्गनायाःकृशता तपस्विनः।
द्विजस्य विद्यैवमुनेरपि क्षमा, पराक्रमः शस्त्रवलोपजीविनाम्॥ **

ततस्तस्य तुरङ्गस्य पृष्ठे पर्य्याणमारोप्य तत्रारुह्य गतिविज्ञानाय यदा नृपस्तं वाहयामास,तदा पवनवेगःस तुरङ्गमस्तथा वेगेन प्रचलितोयथा सर्वमपि सैन्यं पश्चात् पतितम्। राजा तु एकाकी हयमारूढोऽदृष्टो बभूव। तदा च तुरङ्गमस्वामी वणिक् राजपुरुषान् इत्थमाचख्यौ, तुरङ्गमोऽसौ विपरीतशिक्षः, पूर्वं विस्मृतिवशात् राज्ञेन निवेदितम्। इत्युक्तेनृपसेवकाः सवेगतुरगानारुह्य भक्ष्यपेयादिकमादाय नृपस्य पृष्ठत एव जग्मुः।

इतश्चराजा हयस्य सवेगतामभिज्ञाय तन्निरोधाय यथा यथा बलामाकर्षति, तथा तथा स हयोऽतीव महता वेगेन धावति। इत्थमनेन विपरीतशिक्षेण तुरगेण सुदूरमतिक्रान्तम्। बलाकर्षणेन नृपकराभ्यां रक्तस्रावो बभूव। अश्वस्तु समधिकवेगेन धावत्येव।

अथ यदा श्रान्तेन तेन भूपतिना वल्गा शिथिलीकृता

मुक्त्वाच, तदा हयस्तत्रैव स्थितः। राज्ञा च विपरीतशिक्षोऽसौ प्रत्यभिज्ञातः। ततोसौ तुरगात् समुत्तीर्य्य पर्य्याणमपनिनाय। तुरगस्तु धर्म्माक्तकलेवरस्तत्क्षणमेव पृथिव्यां पतितो मृतः। तस्याञ्चभीमाटव्यां क्षुत्क्षामस्तृषाकुलो भूपतिरेकाकीबभ्राम। अथ श्रान्तः क्लान्तश्चासौ सुदीर्घशाखं विस्तीर्णं वटमेकं विलोक्य तच्छायायामुपविष्ट उपर्य्यधो निरीक्षमाणस्तस्यैव विटपिनो विटपमूलात् पततो जलविन्दून् ददर्श।

राज्ञा चिन्तितं वर्षासम्भवमिदं सलिलमियत्कालं शाखारन्ध्रेसंञ्चितमासीत्, साम्प्रतं तत् पतति। इति विमृश्य तृषाक्रान्तेन तेन पलासभाजनं निर्म्माय तत्र निवेशितम्। क्रमेण च नीलकलुषाम्बुना तत् पूरितम्।राजा तद्गृहीत्वायावत् पातुमुपक्रमते, तावत् कश्चित् विहङ्गमो वटपादपादुत्तीर्य्य वेगेन तज्जलपात्रंनृपकरात् पातयित्वा पुनस्तत्-शाखायामुपविष्टः। पुनरपि विलक्षेण राज्ञा तथैव जलपात्रं प्रपूर्य्य यावत् पातुं समारब्धं, तावत् पुनरपि तेन पक्षिणा तथा कृतम्।

अथ राजा कोपाकुलितो दध्यौ, यद्ययं दुरात्मा विहगः पुनरपि समायास्यति, तर्हि हनिष्यामि। इति विचिन्त्य राजा करेणैकेन शाखां गृहीत्वा द्वितीयेन पत्रपुटंजलार्धंस्थापयामास। पक्षी व्यचिन्तयत् कुपितोऽयं महीपतिः। यदि पत्रपुटं पातयिष्यामि, तर्हि नूनमेष मां हनि-

ष्यति। यदि न पातयामि, तर्हि अस्मिन् विषजले पीते अयमवश्यं मरिष्यति। वरं मम मरणमस्तु तथापि यदि भूपालो जीवति, सर्व्वेषामेव भव्यं भवति। इति विमृश्य विहङ्गमेन पुनरपि नरपतिकरात् तत् पत्रपुटं पातितम्। कुपितेन च तेन राज्ञा शाखाप्रहारेण स पक्षी व्यापादितः।

ततः प्रहृष्टचित्तेन तेन पानीयार्थं पुनरपि पत्रपुटं तत्र स्थापितं, सन्दिहानेन च चिन्तितं,कथं वर्षापगमेऽपि जलं न विशुष्कम्, एवं नियतपतनेनापि कथञ्च न निःशेषमभूत्! ततः सविस्मयो भूपतिः समुत्थाय वृक्षशाखामारुह्य तरुकोटरे महान्तमेकमजगरं ददर्श। तं वीक्ष्यराज्ञानिर्णीतं, तज्जलं प्रसुप्तस्यास्य मुखात् पतितं गरलमेव। यदि मया पीतमभविष्यत्, तर्हि निश्चयेन मम मरणमभविष्यत्। अहो! तेन पक्षिणा मम वारंवारं निवारणं कृतं, परन्तु मया न ज्ञातम्। अहो! मूर्खत्वेन स परोपकारी बिहङ्गमः परमार्थमजानता मया निपातितः! अहो! कृतघ्नस्य मे कीदृशीगतिर्भविष्यति!!

इत्थं पश्चात्तापं कुर्वतस्तस्य सैनिकास्तत्र समाग्मुः। ते च तत्र राजानं दृष्ट्वा प्रमुदिताः। राजा च जलपानादिना स्वस्थीभूय तं मृतपक्षिणं समादाय स्वपुरं ययौ। ततश्च गङ्गातीरवर्त्तिनि पुरोद्याने स्थित्वा चन्दनकाष्ठैस्तस्य अन्त्यसंस्कारं सम्पाद्य जलाञ्जलिं दत्त्वा स्वसदनं समासाद्य शोकातुर एवोपविष्टः।

सचिवसामन्ताद्यैःपृष्टं, नाथ! किमितिभवता पक्षिणः प्रेतकार्य्यंकृतं, कथं च भवान् महति शोकसागरे निमग्नः? इति पृष्टेन राज्ञासमग्रोऽपि वृतान्तःसर्व्वाग्रेकथितः। तत् श्रुत्वा सर्वेऽपि विस्मयमापन्नाः। राजा प्राह, यावज्जीवमहं महोपकारिणं तं विहङ्गमं न विस्मरिष्यामि। सचिवसामन्ताद्यैरुक्तं, गते शोको न कर्त्तव्यः, इत्येवं विविधप्रबोधवाक्यैर्बोधितोऽपि राजा न विषादं तत्याज। यथा अविमृश्य कार्य्यकरणात् स भूपतिः पश्चात्तापमापन्नःतथान्योऽपि यः सहसा परमार्थमविज्ञाय किमप्यकार्य्यंकुरुते, स इहलोके परलोके च पराभवमाप्नोति। अतः परिणामदर्शिभिः कार्य्यंसुविचार्य्य कर्त्तव्यम्। तथाचोक्तम्।

सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम्।
वृणते हिविमृश्यकारिणंगुणलुब्धाः स्वयमेव सम्पदः॥

एवमभिधाय कीर्त्तिराजे तूष्णीम्भूते प्रातस्तूर्य्यरवो जज्ञे। वन्दिवृन्दैर्मङ्गलपाठः कृतः। कीर्त्तिराजोऽपि ततः समुत्थाय स्वस्थानं ययौ। राज्ञा च विचिन्तितं, नूनमेते सर्वेऽप्येकचित्ताः तेन मम समीहितं न सिद्धम्। इति विमृश्य दास्यानीतजलेन मुखं प्रक्ष्यल्यसुवेषं परिधाय यावदास्थाने उपविशति, तावदेव देवराजोऽञ्जलिं बद्ध्वाप्रसन्नवचसा विज्ञापयामास, देव! भवता अविदितं किञ्चित्निवेदयामि।क्रूद्धेनापि राज्ञासौ भ्रूसंज्ञयानुज्ञातः।

ततः स देवराजः पिशाचवचनश्रवणादिकां समग्रामपि कथां भयविस्मयकारिणणींनृपाग्रे प्रोवाच। वासभवनात् तत् सर्पस्य खण्डद्वयं समाकृष्य प्रतीतिनिमित्तंप्रत्यक्षमेव नृपं दर्शयामास। तदानींदेवराजोपरि राज्ञश्चित्तविद्वेषोऽपगतः। राजा च मनसा चिन्तयामास, अहो! अनेन महात्मना मम जीवितरक्षणाय कीदृशमसाध्यसाधनं कृतम्। मया तु पापात्मना असमीक्ष्यकारिणा महोपकारिणामहापुरुषस्यास्य प्राणदण्डेअध्यवसायः कृतः। विचक्षणैरस्यानुजैस्तुकौशलेनास्य प्राणाः परिरक्षिताः।

अथ राज्ञा सर्वसमक्षमभिहितम्, अपुत्रस्य मे कुल देवतया सर्वगुणाकरा एते चत्वारः पुत्राः प्रदत्ताः।अतोऽहं देवराजं राज्ये निवेश्य वत्सराजं युवराजपदे संस्थाप्य संसारविरतो वनं गत्वा परात्परपरमात्मध्यानपरो भविष्यामीति। ततः शुभदिने शुभलग्नेराजा देवराजं राज्येऽभिच्यभोगपराङ्मुखो वनं गत्वाश्रवणमनननिदिध्यासनादिभिरदृष्टक्षयेण परमपदं मोक्षमवाप।

समाप्तोऽयं गद्यबन्धः।
—_(°)—

पद्यबन्धः।

<MISSING_FIG href="../books_images/U-IMG-1735316846Screenshot2024-12-27215603.png"/>

प्रथमबन्धः।

**जयति पराशरसूनुः
सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्य कमलगलितं
वाङ्मयममृतं जगत् पिबति॥ **

मतिमुन्थानुमाविश्य येनासौ श्रुतिसागरात्।
जगद्धिताय जनितो महाभारतचन्द्रमाः॥

सर्वस्तरतु दुर्गाणि सर्व्वे भद्राणि पश्यतु।
इत्युक्त्वासर्ववेदार्था भारते तेन दर्शिताः॥

सारान् श्लोकान् समुद्धर्तुं कः कृत्स्नाद्भारतात् क्षमः।
योग्यः कः सर्वरत्नानि समुद्धर्तुं महार्णवात्॥

—_(°)—

कस्यचिद्द्विजमुख्यस्य कल्याणी धेनुरुत्तमा।
हृष्टा पुष्टा सुपुत्रा च बहुला नाम नामतः॥ १॥

रोहितो नाम तत्रापि पर्वतो यमुनातटे।
अनेककन्दुरदुरी-गुहानिर्झरशोभितः॥ २॥

अथ यूथात् परिभ्रष्टा बहुला तृणलिप्सया।
व्याघ्रस्य पुरतः सा गौश्चरन्ती समुपस्थिता॥३॥

अभिद्रवंस्तु तां व्याघ्रस्तिष्ठ तिष्ठेति चाब्रवीत्॥४॥

**व्याघ्र उवाच। **

त्वमद्य विहितो भक्ष्यः स्वयं प्राप्तासि धेनुके।
तिष्ठ तिष्ठ भयं त्यक्त्वा किं भीताद्य करिष्यसि॥५॥

**भीष्म उवाच। **

व्याघ्रस्य वचनं श्रुत्वा निष्ठुरं रोमहर्षणम्॥६॥

वत्संस्मरति सा धेनुः स्नेहार्त्ता भृशदुःखिता॥७॥

ददाह पुत्रशोकेन बहुला पुत्रवत्सला।
रुदन्ती करुणं दीना निराशा पुत्रदर्शने॥८॥

दृष्ट्वा तु बहुलां व्याघ्रः क्रन्दमानां सुदुःखिताम्।
उवाच वचनं घोरं बहुले किं प्ररुद्यते॥९॥

पप्रच्छ च पुनर्व्याघ्रः किमर्थं रुदितं त्वया।
कौतूहलं मे सञ्जातमशेषं कथयस्व मे॥१०॥

व्याघ्रस्य वचनं श्रुत्वा बहुला वाक्यमब्रवीत्।
क्षन्तुमर्हसि मे नाथ कामरूपिन्! नमोऽस्तु ते॥११॥

त्वां समासाद्य लोकस्य परित्राणंन विद्यते।
जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया॥१२॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्य्येऽर्थे न शोचामि मृगाधिप॥१३॥

देवैरपि सदासर्वैर्म्मर्त्तव्यमवशैर्ध्रुवम्।
तस्मान्नाहमिहैकैव व्याघ्र शोचामि जीवितुम्॥१४॥

किं तु स्नेहवशात् व्याघ्र सुदुःखाद्रुदितं मया।
अस्ति मे हृदि सन्तापस्तं सम्यक् श्रोतुमर्हसि॥१५॥

अग्रे वयसि वर्त्तन्तो प्रसूताहं मृगाधिप।
इष्टः प्रथमजातश्च सुतश्च मम बालिशः॥१६॥

क्षीरपः स च मे पुत्रस्तृणं नाद्यापि जिघ्रति।
सचास्तेगोव्रजे बद्धः क्षुधार्त्ता मामवेक्षते॥१७॥

इति मत्वानुशोचामि कथं जीवति मे सुतः।
तस्येच्छामि स्तनं दातु पुत्रस्नेहवशंगता॥१८॥

पाययित्वा तु तं वत्समवलिह्य च मूर्द्धनि।
सखीनामर्पयित्वा तं सन्दिश्य च हिताहितम्॥१९॥

पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि।
यद्यहं नागमिष्यामि पुनर्व्याघ्र तवालयम्।
क्षत्रियाणां गतिं यास्ये संग्रामेषु पलायिनाम्॥२०॥

व्याघ्र उवाच।

किं ते पुत्रेण कर्त्तव्यं मरणं नावबुध्यसे।
त्रस्यन्ति सर्वभूतानि म्रियन्ते मां निरीक्ष्यच॥२१॥

त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे।
न मन्त्रो न तपो दानं न माता न पिता सुतः।
शक्नुवन्ति परित्रातुमागतं मत्समीपतः॥२२॥

गत्वा निकेतनं रम्यं मातरं भ्रातरं सुतम्।
दृष्ट्वा सखीजनं भूयः कथं प्रत्यागमिष्यसि॥२३॥

पञ्चभूतानि मे भद्रे पिबन्तु रुधिरं तव।
न निराशानि भूतानि वाङ्मात्रेण करोम्यहम्॥२४॥

बहुलोवाच।

प्रथमं दृष्टवत्साहं मृगेन्द्र शृणु मे वचः।
दृष्ट्वा सखीजनं बालं गोपांश्च परिपालकान्॥२५॥

गोपीजनमुपामन्त्र्यजननींच विशेषतः।
शपथैरागमिष्यामि मन्यसे यदि मुञ्चमाम्॥२६॥

द्विभार्य्यःपुरुषो यस्तु द्वेषादेकां परित्यजेत्।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥२७॥

सकृद्दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥२८॥

कथायां क्रियमाणायां श्रवणे विघ्नकारकः।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥२९॥

गृहं यस्यागतो विद्वान् निराशः प्रतिगच्छति।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥३०॥

विद्यादातुस्तथा पित्रोर्न शुश्रूषां करोति यः।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥३१॥

एकाकी मिष्टमश्नाति यः कश्चित् पुरुषाधमः।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥३२॥

उद्दिष्टश्चैव यः साक्षीह्यनृतं भाषते यदि।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥३३॥

निःक्षेपं हरते यस्तु विश्वासात् किल्विषी नरः।
तेन पापेन लिप्यामि नागच्छेयं पुनर्यदि॥३४॥

**व्याघ्र उवाच। **

संयातः प्रत्ययोऽस्माकं बहुले शपथैस्तव।
कदाचिन्मन्यसे गत्वा मूर्खोऽयं वञ्चितो मया॥३५॥

अद्यापि केचिद्ब्रुवते शपथैर्नास्ति पातकम्।
प्राणनाशे समुत्पन्ने श्रद्धातव्यं न तत् त्वया॥३६॥

लोकेऽस्मिन्नास्तिकाः केचिन्मूर्खाः पण्डितमानिनः।
भ्रामयिष्यन्ति ते बुद्धिं चक्री चक्रमृदं यथा॥३७॥

हेतुवच्चैव दृष्टान्तैरज्ञानावृतचेतसः।
भ्रामयन्ति नरा मूढाः कुत्सितागमदर्शकाः॥३८॥

अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः।
समे निम्नोन्नतानीव चित्रकर्म्मविदो जनाः॥३९॥

प्रायः कृतार्थो लोकोऽयं मन्यते नोपकारिणम्।
काय्यार्थी भजते लोके न कश्चित् कस्यचित् प्रियः॥४०॥

वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्।
न तं पश्यामि लोकेऽस्मिन् कृते प्रतिकरोति यः॥४१॥

सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्त्तते।
ऋषिदेवासुरनरैः शपथाः कार्य्यसिद्धये॥४३॥

**बहुलोवाच। **

एवमेव महाव्याघ्र कस्त्वांवञ्चयितुं क्षमः।
आत्मैव वञ्चितस्तेन यः परं वञ्चयिष्यति॥४३॥

नास्ति भूमिसमं दानं नास्ति दानसमो निधिः।
नास्ति सत्यसमो धर्म्मोनानृतात्मातकं परम्॥४४॥

अपवादो भवेद्येन येन चाप्रत्ययो भवेत्।
नरकं गम्यते येन न तत्कर्म्म समाचरेत्॥४५॥

**व्याघ्र उवाच। **

बहुले गच्छ पश्य त्वं पुत्रकं पुत्रवत्सलम्।
पाययित्वा तु तं वत्समवलिह्य च मूर्द्धनि॥४६॥

मातरं भ्रातरं दृष्ट्वा सखीं स्वजनबान्धवान्।
सत्यमेवाग्रतः कृत्वाशीघ्रमागनं कुरु॥४७॥

**भीष्म उवाच। **

एवं संप्रत्ययं कृत्वा बहुला सत्यवादिनी।
अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रकं प्रति॥४८॥

अश्रुपूर्णेक्षणा दीना वेपमाना सुदुःखिता।
कुररीवश्वसन्ती सा पतिता शोकसागरे॥४९॥

करिणीपङ्कलग्नेव विजने वनगोचरे।
अशक्तात्मपरित्राणे विलपन्ती मुहुर्मुहुः॥५०॥

अथ सा गोकुलं गत्वा बहुला हृतमानसा।
स्वीयं तु वत्सं क्रोशन्तं सम्मुखीत्वरितं ययौ॥५१॥

क्रन्दमानस्त्वसौ वत्सो मातुः पार्श्वंसमागतः।
संप्राप्य मातरं वत्सः शङ्कितःपरिपृच्छति॥५२॥

वत्स उवाच।

शोचन्ती दृश्यसे मातर्भृशं किमिति दुर्म्मनाः।
न ते पश्यामि सौम्यत्वं दुःखितेवाथ लक्ष्यसे॥५३॥

बहुलोवाच।

पिब पुत्र स्तनं मेऽद्य कारणं यदि पृच्छसि।
आगताहं तव स्नेहात् कुरु तृप्तिं यथेप्सिताम्॥५४॥

अपश्चिममिदं वत्स दुर्लभं मम दर्शनम्।
स्तनं पिब यथेष्टंमे प्रत्यूषे किं नु पास्यसि॥५५॥

मया पुनश्च गन्तव्यं शपथैरागता ह्यहम् \।
व्याघ्रस्य कामरूपस्य दातव्यंत्वात्मजीवितम्॥५६॥

बहुलाया वचः श्रुत्वा वत्सो मातरमब्रवीत्।
अहं तत्र गमिष्यामि यत्र त्वं गन्तुमर्हसि॥५७॥

श्लाघ्यं ममापि मरणं त्वया सह न संशयः।
एकाकिनापि मर्तव्यं मया मातस्त्वया विना॥५८॥

यदि मां सहितं मात्रा वने व्याघ्रो बधिष्यति।
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति॥५९॥

तस्मादवश्यं यास्यामि त्वया सह न संशयः।
अथवा तिष्ठ मातस्त्वं शपथाः सन्तु ते मम॥६०॥

जनन्या विप्रमुक्तस्य जीवितैः किं प्रयोजनम्।
अनाथस्य वने नित्यं को मे नाथो भविष्यति॥६१॥

नास्ति मातृसमो बन्धुर्बालानां स्तन्यपायिनाम्।
नास्ति मातृसमोनाथो विषमे समुपस्थिते॥६२॥

नास्ति मातृसमः स्नेहो विकलस्य विशेषतः।
नास्ति मातृसमो देव इह लोके परत्रच॥६३॥

शतं पितॄणां हित्वापि मात्रा जीवन्ति जन्तवः।
नतु मातृविहीनानां जीवनंह्युपपद्यते॥६४॥

एष नः परमो धर्म्मःप्रजापतिविनिर्म्मितः।
अनुगच्छन्ति ये मातुस्ते यान्ति परमां गतिम्॥६५॥

प्राणैरपि प्रियान् वत्सान् मन्यते सुतवत्सला।
कस्तां तु निष्कृतिं दातुंशक्तो वर्षशतैरपि॥६६॥

**बहुलोवाच। **

ममैव विहितो मृत्युर्न त्वमागन्तुमर्हसि।
नचायमन्यजीवानां मृत्युः स्यादन्यमृत्युना॥६७॥

अपश्चिममिमं पुत्र मातृसन्देशमुत्तमम्।
अनुतिष्ठस्वमद्वाक्यमेतत् शुश्रूषणं परम्॥६८॥

जले स्थले वा विचरन् प्रमादं न करिष्यसि।
प्रमादात्सर्वभूतानि विनश्यन्ति न संशयः॥६९॥

न च लोभो हि कर्त्तव्यो विषमस्थतृणे क्वचित्।
लोभादिनाशः सर्वेषामिह लोके परत्र च॥७०॥

समुद्रमटवीं दुर्गंविशन्ते लोभमोहिताः।
लोभादकार्य्यमत्युग्रं विद्वानपि समाचरेत्॥७१॥

लोभात् प्रमादाद्विस्रन्मात्रिभिर्वै बध्यते नरः।
तस्माल्लोभं न कुर्व्वीत न प्रमादं न विश्वसेत्॥७२॥

आत्मा वै सततं पुत्र रक्षितव्यः प्रयत्नतः।
सर्पेभ्यः श्वापदेभ्यश्च म्लेच्छचौरादिसङ्कटात्॥७३॥

नखिनाञ्चनदीनाञ्चशृङ्गिणां शस्त्रधारिणाम्।
न विश्वासस्त्वया कार्य्यःस्त्रीणां प्रेष्यजनस्य च॥७४॥

न विश्वसेदविश्वस्तं विश्वस्ते नापि विश्वसेत्।
विश्वासाद्भयमुत्पन्नंमूलादपि निकृन्तति॥७५॥

ज्ञातुं गन्धेन सततमाघ्रातव्यं प्रयत्नतः।
गावः पश्यन्ति गन्धेन राजानश्चारचक्षुषा॥७६॥

शास्त्रेण पण्डिताः सर्वे ज्ञानेनैव तु योगिनः।
नैकस्तिष्ठेद्वने घोरे धर्म्ममेवं विचिन्तयेत्॥७७॥

नचोद्वेगस्त्वया कार्य्यःसर्वत्र मरणं ध्रुवम्।
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत्तद्वद्भूतसमागमः॥७८॥

यत्रानित्यं जगत् सर्वं तत्रैकः शोचते कथम्।
वत्स त्वं शोकमुत्सृज्य मद्वाक्यमनुपालय॥७९॥

एवमाघ्राय तं पुत्रमवलिह्य च मूर्द्धनि।
शोकेन महताविष्टा बाष्पव्याकुललोचना॥८०॥

निःश्वसन्ती च नागीव दीर्घमुष्णंमुहुर्मुहुः।
पुत्रहीनं गृहं शून्यं पश्यन्त्यन्धेव साभवत्॥८१॥

महापङ्कनिमग्नेवतिष्ठन्त्येवावसीदति।
अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेण किम्॥८२॥

**पुत्रेण जीयते लोकः श्रुतिरेषा सनातनी। **

विलप्य बहुला पुत्रमुवाचेदं पुनर्वचः॥८३॥
नास्ति पुत्रसमो हर्षोनास्ति पुत्रसमं सुखम्।

नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा धृतिः॥८४॥
विलप्य बहुला पुत्रमिति स्नेहात् पुनर्वदेत्।

अनृतं वक्ति लोकोऽयं चन्दनं किल शीतलम्।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः॥८५॥

इति पुत्रगुणानुक्त्वा तं निरीक्ष्य मुहुर्मुहुः।
स्वमातरं सखीर्गोपान् त्वरमाणा तु पृच्छति॥८६॥

ज्ञानतोऽज्ञानतो वापि यदुक्तं किञ्चिदप्रियम्।
तत् क्षमध्वं महाभागा यच्चान्यच्चकृतं मया॥८७॥

सर्व्वाःसर्वप्रदा नित्यं रक्षध्वं मम बालकम्।
अनाथं विकलं दीनं कृपणं मम पुत्रकम्॥८८॥

चरन्तं विषमे स्थाने गच्छन्तं परगोकुलम्।
अकार्य्येवर्त्तमानञ्च सख्यस्तं वारयिष्यथ॥८९॥

परपुत्रात्मपुत्रेषु यासां चित्तं समं भवेत्।
ता धन्यास्ताः कृतार्थाश्च ताः स्त्रियो लोकमातरः॥९०॥

मोदन्ते देवलोकेषु ताः सुपुण्यकृतां वराः।
याः पालयन्त्यनाथांश्च परपुत्रान् स्वपुत्रवत्॥९१॥

तस्मादनाथं मत्पुत्रं पुत्रवत् पालयिष्यथ।
क्षमध्वं हि महाभागा यास्यामि वनगोचरम्॥९२॥

श्रुत्वैतद्बहुलावाक्यंमाता सख्यश्च विह्वलाः।
विषादं परमं जग्मुरिदमूचुश्च विह्वलाः॥९३॥

बहुले नैव गन्तव्यं धर्म्मोऽयं कतमस्तव।
येन बालं सुतं त्यक्त्वा सत्यलोभेन गम्यते॥९४॥

तत्र गाथाःपुरा गीता ऋषिभिः सत्यवादिभिः।
प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकम्॥९५॥

उक्तेऽनृते भवेद्यत्र प्राणिनां प्राणरक्षणम्।
अमृतं तत्र सत्यं स्यात् सत्यमप्यनृतं भवेत्॥९६॥

यद्भूतहितमत्यन्तं तत् सत्यमितरन्मृषा।
कामिनीनां विवाहेषु गवां भुक्तेतथैव च॥९७॥

ब्राह्मणस्य विपत्तौ च शपथैर्नास्ति पातकम्।
सर्वस्वहरणे हास्ये वेश्यायां प्राणसंशये।
गोहितार्थे विवाहेषु शपथैर्नास्ति पातकम्॥९९॥

बहुलोवाच।

परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः।
नात्मार्थमुत्सहे वक्तुं स्वल्पमप्यनृतं क्वचित्॥९९॥

एकःप्रलीयते जन्तुरेक एव विलीयते।
एकोऽनुभुङ्क्तेसुकृतमेकश्चाप्नोति दुष्कृतम्॥१००॥

वदन्ति मुनयः सर्वे नानृतात् पातकं परम्।
सत्यात् परतरं नास्ति तस्मात् सत्यं वदाम्यहम्॥१०१॥

सत्ये प्रतिष्ठिता लोकाः सत्ये धर्म्मः प्रतिष्ठितः।
उदधिः सत्यवाक्येन मर्य्यादां न विलङ्घयेत्॥१०२॥

विदित्वा विष्णुमायान्तं स्वराज्यहरणोद्यतम्।
गां दत्त्वा रक्षितस्तस्मै बलिः सत्यप्रतिज्ञया॥१०३॥

प्रवर्द्धमानशैलेन्द्रः शतशृङ्गसमन्वितः।
सत्येन संस्थितो विन्ध्यो वर्द्धन्नपिन वर्द्धते॥१०४॥

स्वर्गापवर्गनरकाः सर्वे वाचा प्रतिष्ठिताः।
यस्तां लोपयते वाचमशेषं तेन लोपितम्॥१०५॥

योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते।
किं तेन न कृतं पापं चौरेणात्मापहारिणा॥१०६॥

तस्मान्नैवाहमात्मानमात्मनैव विलोपये।
यास्यामि नरकं घोरं विलोम्यात्मानमात्मना॥१०७॥

अगाधे विमले शुद्धेसत्यतीर्थे क्षमाह्रदे।
स्नात्वा पापमलैर्मुक्त्वायास्यामि परमां गतिम्॥१०८॥

अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम्।
अश्वमेधसहस्रस्य सत्यमेवातिरिच्यते॥१०९॥

सत्यं साधु तपः, श्रुतं च परमं क्लेशादिभिर्वर्जितं,
स्वाधीनं च सुदुर्लभं च, जगतः साधारणं भूषणम्।
साधूनां निकषः सतां कुलधनं सर्वाश्रमाणां वरम्
यः को वाप्यभिधाय गच्छति दिवं सत्यं न तिष्ठेत् कथम्॥ ११०॥

सख्युवाच।

बहुले त्वं नमस्कार्य्या सर्वैरपि सुरासुरैः।
या त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान्॥१११॥

ब्रूमः किमन्यत् कल्पाणि या त्वं धर्म्मधुरन्धरा।
त्यागेनानेन नाप्राप्यं त्रैलोक्येकिञ्चिदस्ति ते॥११२॥

अवियोगञ्च पश्यामि त्यागादस्मात् सुतेन ते।
न हि कल्याणचित्तानामापदः सन्ति कुत्रचित्॥११३॥

एवं सन्दिश्य बहुला पुत्रशोकवशं गता।
शोकाग्निनाभिसन्तप्ता भग्नाशा पुत्रदर्शने॥११४॥

वियुक्ता चक्रवाकीव लतेव पतिता तरोः।
अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे॥११५॥

गता हि सा पुनस्तत्र यत्रासौ पिशिताशनः।
आस्ते विघूर्णितनख-स्तीक्षणदष्ट्रो भयावहः।
व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत्॥११६॥

बहुलोवाच।

आगताहं महाभाग सत्यधर्म्मेव्यवस्थिता।
कुरु तृप्तिं यथाकामं मम मांसेन साम्प्रतम्।
तर्पयस्व च भूतानि पञ्चाद्य मम शोणितैः॥११७॥

व्याघ्र उवाच।

स्वागतं तव कल्याणि बहुले सत्यवादिनि।
न हि सत्यवतां किञ्चिदशुभं विद्यते क्वचित्॥११८॥

त्वयोक्तंबहुले पूर्वमागमिष्यामि सत्यतः।
तेन मे कौतुकं जातं प्राप्तागच्छेत् कथं पुनः॥११९॥

तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः।
अन्यथा मां समासाद्य जीवन्तीयासि वा कथम्॥१२०॥

अपूर्वं कौतुकं तत्र दृष्टंसत्यं गवां मया।
तस्मादनेन सत्येन विमुक्तासि मयाऽधुना॥१२१॥

सत्येप्रतिष्ठिता लोकाः स्वर्गः सत्ये प्रतिष्ठितः।
सत्येप्रतिष्ठितं ज्ञानं सर्वं सत्ये प्रतिष्ठितम्॥१२२॥

सत्येन देवास्तुष्यन्ति सत्येन पितरस्तथा।
सत्येन ऋषयः सिद्धाः सर्वे सत्ये प्रतिष्ठिताः॥१२३॥

धन्या गावः क्षितिर्द्धन्या धन्या त्वमसि सुव्रते।
धन्यः स राजा यस्य त्वं स्वराष्ट्रेनिवसेः शुभे॥१२४॥

प्रत्यादेशोऽयमस्माकं सत्यं दैवेन दर्शितम्।
अन्यथा व्याघ्रनिर्मुक्तः पुनरेतीत्यसाम्प्रतम्॥१२५॥

सत्यं दृष्ट्वा गवामद्य नाहं शोचामि जीवितुम्।
तत् करिष्याम्यहं कर्म्मयेन मुञ्चामि किल्विषात्॥१२६॥

मया जीवसहस्राणि भक्षितानि हतानि च।
कांस्तुलोकान् गमिष्यामि कृत्वैतत् कर्म्मदारुणम्॥१२७॥

गमिष्ये पुण्यतीर्थानि करिष्ये कायशोधनम्।
पतिष्येगिरिमारुह्य प्रवेक्ष्येच हुताशनम्।
शोषयिष्ये निजं देहं ग्रीष्मेभानुर्ह्रदं यथा॥१२८॥

बहुले यन्मया कार्य्यं तपः पापविशुद्धये।
तदादिशस्व संक्षेपात् न कालो विस्तरस्य मे॥१२९॥

बहुलोवाच।

तपः कृते प्रशंसन्ति त्रेतायां ज्ञानमुत्तमम्।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे॥१३०॥

सर्वेषामेव दानानामिदमेकमनुत्तमम्।
अभयं सर्व्वभूतानां मनोवाक्कायकर्म्मभिः॥१३१॥

चराणामचराणां वाप्यभयं यः प्रयच्छति।
स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति॥१३२॥

नास्त्यहिंसासमं पुण्यं नास्त्यहिंसासमं सुखम्।
नास्त्यहिंसासमो धर्म्मोन भूतो न भविष्यति॥१३३॥

नास्त्यहिंसासमं ज्ञानं नास्त्यहिंसासमं सुखम्।
नास्त्यहिंसासमो धर्म्मोनास्त्यहिंसासमं तपः॥१३४॥

नास्त्यहिंसासमो धर्म्मोन भूतो न भविष्यति।
नास्त्यहिंसासमं ज्ञानं नास्त्यहिंसासमो दमः॥१३५॥

योगवृक्षस्य या शाखा आतपत्रसमस्य च।
निधिः स्यात् पुण्यपुष्पस्य मूलं मोक्षफलस्य च॥१३६॥

बहुले परितुष्टोऽस्मि पुत्रेण सहिता भव।
त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिम्॥१३७॥

ततो योगं समाश्रित्य व्याघ्रस्तद्गतमानसः।
प्राणापानैः स्वकं देहं परित्यज्य दिवं गतः॥१३८॥

—:_(°):—

** द्वितीयबन्धः।**

** वैशम्पायन उवाच।**

यदृच्छया कदाचिच्चखड्गबाणधनुर्द्धरः।
चचार मृगयामेको वने तस्मिन् वृकोदरः॥१॥

सशैलशिखराकारं कस्मिंश्चिङ्गिरिगह्वरे।
ददर्शाजगरग्राहं मूर्त्तिमन्तमिवान्तकम्॥२॥

स तत्र भीममभ्येत्य भुजगो दैवनोदितः।
वेष्टयामास कायेन निश्चेष्टमकरोद्बली॥३॥

एतस्मिन्नेव काले तु धर्म्मराजस्य धीमतः।
घोररूपा महोत्पाताः समुत्तस्थुः समन्ततः॥४॥

तान् दृष्ट्वा समहोत्पातानुत्थितान् भयशंसिनः।
भ्रातॄन् विलोकयामास नचापश्यद् वृकोदरम्॥५॥

ततोऽर्ज्जुनं समादिश्य द्रौपदीरक्षणं प्रति।
नकुलं सहदेवञ्चप्रतस्थे च युधिष्ठिरः॥६॥

गत्वा तु राजन् राजेन्द्रो ददर्श गिरिकन्दरे।
भ्रातरं भुजगेन्द्रेण महता परिवेष्टितम्॥७॥

ततः सशोकदुःखार्त्तो भीमं पप्रच्छ पाण्डवः।
कथमेतत्त्वया प्राप्तंको वायं भुजगोत्तमः॥८॥

एवं दुःखपरीतेन भ्रात्रा पृष्टो वृकोदरः।
यथावत्तस्य तत् सर्वं कथयामास चेष्टितम्॥९॥

तच्छ्रुत्वा धर्म्मराजस्तु भीमसेनस्य भाषितम्।
पप्रच्छाजगरं साम्ना कौतूहलसमन्वितः॥१०॥

देवो वा दानवो वापि कस्त्वं कथय पन्नग।
किमर्थञ्च गृहीतस्ते भ्रातायमनुजो मम॥११॥

पन्नग उवाच।

नहुषो नाम राजाहं पूर्वेषां तव पूर्वजः।

प्रथितः पञ्चमः सोमो यदोवंशकरः सुतः॥१२॥

तपोभिः क्रतुभिश्चापि विद्ययाऽभिजनेन च।
त्रैलोक्यैश्वर्य्यमतुलं प्राप्तं मे विक्रमेण च॥१३॥

अथ सर्वनृपोन्मादो मदो मां समुपाविशत्।
सहस्रं मुनिमुख्यानामुवाह शिविकां मम॥१४॥

प्रसङ्गात् कुपितो राजन् मम दोषे गरीयसि।
अगस्त्यो लोकविख्यातः प्रदीप्त इव पावकः॥१५॥

तेन विभ्रंशितश्चाहमगस्त्येन महात्मना।
इत्थं प्रापयतोऽवस्थां पश्य दैवविधेर्बलम्॥१६॥

न दैवं प्रज्ञया तात न बलोत्साहशक्तिभिः।
न सहायबलैर्वापि कश्चिदप्यतिवर्त्तते॥१७॥

न दैवस्यातिभारोऽस्ति सुखदुःखोपपादने।
यदहं देवराजत्वात् क्षणेनीरगतां गतः॥१८॥

यदि ज्ञानञ्चशौर्य्यञ्च सम्पदः कारणं भवेत्।
प्रज्ञावतां हि शूराणां न कदाचिदसम्पदः॥१९॥

यतः प्राज्ञाश्च शूराश्च दृश्यन्तेदुःखजीविनः।
भीरुर्मूर्खाश्च सुखिनस्तस्माद्दैवंहि कारणम्॥२०॥

पतता च विमानाग्रान् मया च मुनिसत्तम्।
कुरु शापान्तमित्युक्तः प्रोवाचेदं दयान्वितः॥२१॥

यस्तु ते व्याहृतान् प्रश्नान् प्रतिवक्ष्यति धर्म्मवित्।
स त्वां मोक्षयिता शापात् कस्मिंश्चित् कालपर्य्यये॥२२॥

न च ते मत्प्रसादेन स्मृतिभ्रंशो भविष्यति।

बलमप्यपरिक्षीणं भुजगत्वेऽपि पूर्ववत्॥२३॥

बलवानपि शत्रुश्च गृहीतो वशमेष्यति।
इत्येवंवदतस्तस्य महर्षेर्भावितात्मनः॥२४॥

आकाशात्पतितो भूमौ भुजगत्वमुपाविशम्।
त्वां यदि व्याहृतान् प्रश्नान् मया कथयसे नृप।
तदा भ्रातवरमेनं ते मोचयिष्यामि नान्यथा॥२५॥

युधिष्ठिर उवाच।

ब्रूहि ब्रूहि यथा कामं त्वं प्रश्नान् मा चिरं कृथाः।
यथा ज्ञानमहं तत्ते प्रतिवक्ष्यामि शंसिताम्॥२६॥

नहुष उवाच।

धर्म्मंसर्वे प्रशंसन्ति देवा ब्रह्मर्षयस्तथा।
तस्मात् समासतो धर्म्मं कथयस्व ममानघ॥२८॥

युधि। सत्यं दमस्तपः शौचं सन्तोषो ह्रीःक्षमार्जवम्।
ज्ञानं शमो दया दानमेष धर्म्मःसनातनः॥२९॥

नहु। किं सत्यं प्रोच्यते राजन् को दमश्च प्रकीर्त्तितः।
तपः किं लक्षणं प्रोक्तंकिं तच्छौचमुदाहृतम्॥३०॥

युधि। सत्यं भूतहितं प्रोक्तंमनसो दमनं दमः।
तपः स्वधर्म्मर्त्तित्वं शौचं सङ्करवर्जितम्॥३१॥

नहु। सन्तोषः कः परः प्रोक्तः का च ह्रीःपरिकीर्त्तिता।
क्षमा च का परा प्रोक्ता किमार्जवमुदाहृतम्॥३२॥

युधि। सन्तोषो विषयत्यागो ह्रीरकार्य्यनिवर्त्तनम्।
क्षमा द्वन्द्वसहिष्णुत्वमार्जवं समचित्तता॥३३॥

नहु। किं ज्ञानं प्रोच्यते राजन् कः शमः परिकीर्त्तितः।
दया च का परा प्रोक्ता किं च ध्यानमुदाहृतम्॥३४॥

युधि। ज्ञानं तत्त्वार्थसंबोधःशमश्चित्तप्रशान्तता।
दया सर्वसुखैकत्वं ध्यानं निर्विषयं मनः॥३५॥

नहु। कः शत्रुर्दुर्ज्जयः प्रोक्तः कश्चव्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः॥३६॥

युधि। क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः।
सर्वभूतङ्कितः साधुरसाधुर्निर्दयः स्मृतः॥३७॥

नहु। को मोहः प्रोच्यते राजन् कश्चमानः प्रकीर्त्तितः।
किमालस्यञ्च विज्ञेयं कश्च शोक इहोच्यते॥३८॥

युधि। मोहोहि धर्म्ममूढत्वं मानश्चात्माभिमानता।
धर्मेऽनिश्चयमालस्यं शोकस्त्वज्ञानमुच्यते॥३९॥

नहु।किं स्थैर्य्यमृषिभिः प्रोक्तं किं तद्धैर्य्यमुदाहृतम्।
स्नानञ्च किं परं प्रोक्तंकिं तद्दानमिहोच्यते॥४०॥

युधि।स्वधर्म्मस्थिरता स्थैर्य्यंधैर्य्यमिन्द्रियनिग्रहः।
स्नानं मनोमलत्यागो दानश्चाभयदक्षिणा॥४१॥

नहु। कोऽसौ वैवस्वतो राजा केयं वैतरणी नदी।
का सा कामदुघा धेनुः किं तत् स्यान्नन्दनं वनम्॥४२॥

युधि। क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी।
विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम्॥४३॥

नहु। कः पण्डितः पुमान् ज्ञेयः कश्चमूर्खो जनेश्वर।
संसारहेतुः कश्च स्याद्धृत्तापः कश्च संस्मृतः॥४४॥

युधि। धर्म्मज्ञःपण्डितः प्रोक्तोनास्तिको मूर्ख एव च।
कामः संसारहेतुश्च हृत्तापोमत्सरः स्मृतः॥४५॥

नहु। कोऽहङ्कार इति प्रोक्तः कश्चदम्भःप्रकीर्त्तितः।
अभ्यसूया च का प्रोक्ता किं तत् पैशुन्यमुच्यते॥४६॥

युधि। मोहाज्ञानमहङ्कारो दम्भो धर्म्मध्वजोच्छ्रयः।
गुणद्वेषोऽभ्यसूया च पैशुन्यंपरदूषणम्॥४७॥

नहु। कः शूरश्च पुमान् विज्ञः पण्डितः को नृपोत्तम।
वक्त्वाच कीदृशः प्रोक्तो दाता तद्वदिहास्ति कः॥४८॥

युधि। न रणे निर्ज्जितः शूरो निन्द्यमानो न पण्डितः।
सत्यवादी भवेद्वक्ता दाता भूतहिते रतः॥४९॥

नहु। धर्म्मश्चार्थश्च कामश्चपरस्परविरोधिनः।
तेषां नित्यविरोधित्वात् कथं स्यात् सङ्गमः सदा॥५०॥

युधि। यदा भर्त्ता च भार्य्या च परस्परवशानुगौ।
तदा धम्मार्थकामानां त्रयाणामेव सङ्गमः॥५१॥

नहु। अक्षयो नरकः केन प्रोच्यते भरतर्षभ।
एतन्मे पृच्छतः प्रश्नं यथावद्वक्तुमर्हसि॥५१॥

युधि। उद्दिष्टश्चैव साक्ष्येयो ह्यनृतं मानवो वदेत्।
स्नेहेन लोभमोहाभ्यां सोऽक्षयं नरकं व्रजेत्॥५२॥

** अध्वश्रान्तमविज्ञातमतिथिं क्षुत्पिपासितम्।
यो न पूजयते भक्त्यासोऽक्षयं नरकं व्रजेत्॥५३॥**

** छिद्रान्वेषी च यो नित्यं सर्वेषां मूढ़मानसः।
परेणोत्साहयोगेन सोऽक्षयं नरकं व्रजेत्॥५४॥**

विद्यमाने धने यस्तु प्रतिग्रहरुचिर्द्विजः।
रौरवं नरकं प्राप्य तत्रैव परिपच्यते॥५५॥

पिशुनो यस्तु विप्राणां रन्ध्रान्वेषणतत्परः।
तं दृष्ट्वा पुरुषव्याघ्र सचेलो जलमाविशेत्॥५६॥

वञ्चयित्वा पतिं पुत्रं रसनेन्द्रियमोहिता।
मिष्टमश्नाति या चैका साऽक्षयं नरकं व्रजेत्॥५७॥

अतिथिं कालसंप्राप्तमभ्यागतमथापि वा।
अवमानपरा या च साऽक्षयं नरकं व्रजेत्॥५८॥

** नहु। अक्षयं स्वर्गमाप्नोति कर्म्मणा येन मानवः।
सर्वज्ञं त्वामहं मन्ये तद्वदस्यममानघ॥५९॥**

** युधि। गृहे यस्यागतो विद्वान् ब्राह्मणो नैव गच्छति।
निराशी राजशार्द्दूल सोऽक्षयं स्वर्गमश्नुते॥६०॥**

दोषान् विज्ञाय राजेन्द्र गुणान्वेषणतत्परः।
परेषां सततं यश्च सोऽयं स्वर्गमश्रुते॥६१॥

याचितो यश्चहृष्येत दत्त्वा च मृदुवाग्भवेत्।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा नरः स्वर्गमवाप्नुयात्॥६२॥

पतिव्रता च या नारी मनोवाक्कायकर्म्मभिः।
भर्त्रुःशुश्रूषणरता साक्षयं स्वर्गमश्नुते॥६३॥

यौवने सति राजेन्द्र रूपे द्रव्ये तथैव च।
यो वै जितेन्द्रियो धीरः सोऽक्षयं स्वर्गमश्नुते॥६४॥

** नहु।जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च।
ब्राह्मण्यं केन भवति एतद् ब्रूहि सुनिश्चितम्॥६५॥**

युधि।न जातिर्नकुलं तात न स्वाध्यायो न च श्रुतम्।
कारणानि द्विजत्वस्य वृत्तमेवात्र कारणम्॥६६॥

अनेके मुनयस्तात तिर्य्यग्योनिषु सम्भवाः।
स्वधर्म्माचारनिरता ब्रह्मलोकमितो गताः॥६७॥

बहुना किमधीतेन नटस्येव दुरात्मनः।
तेनाधीतं श्रुतं तेन यो वृत्तमनुतिष्ठति॥६८॥

कपालस्थेयथा तोयं श्वट्टतौ च यथा पयः।
दुष्टं स्यात् स्थानदोषेण वृत्तहीने तथा श्रुतम्॥६९॥

वृत्तं यत्नेन संरक्ष्यं वृत्तं श्रेष्ठं च जातितः।
प्रक्षीणो वृत्ततः क्षीणो वृत्ततस्तुहतो हतः॥७०॥

किं कुलेनोपदिष्टेन विपुलेन तथात्मनः।
कृमयः किन्न जायन्ते कुसुमेषु सुगन्धिषु॥७१॥

पाठकः पठकश्चैव ये चान्ये शास्त्रचिन्तकाः।
सर्वे व्यसनिनो राजन् क्रियावान् स च पण्डितः॥७२॥

तस्माद्विद्धिमहाराज वृत्तं ब्राह्मणलक्षणम्।
चतुर्वेदोऽपि दुर्वृत्तःशूद्रात् परतरः स्मृतः॥७३॥

योऽग्निहोत्रपरोदान्तः सन्तोषनिरतः शुचिः।
तपःस्वाध्यायशीलश्च तं देवा ब्राह्मणं विदुः॥७४॥

सर्वद्वन्द्वन्दुसहो धीरः दोषसङ्गविवर्ज्जितः।
सर्वभूतहितोऽजस्रं तं देवा ब्राह्मणं विदुः॥७५॥

सत्यं दमस्तपो दानमहिंसेन्द्रियनिग्रहः।
दृश्यते यत्र राजेन्द्र स ब्राह्मण इति स्मृतः॥७६॥

शूद्रे चैव भवेद्वृत्तंब्राह्मणे च न विद्यते।
शूद्रोऽपि ब्राह्मणो ज्ञेयो ब्राह्मणः शूद्र एव सः॥७७॥

कामक्रोधानृतद्रोह-लोभमोहबधादयः।
न सन्ति यस्मिन् राजेन्द्र तं देवा ब्राह्मणं विदुः ॥७८॥

अदैवं दैवतं कुर्य्याद्दैवतं चाप्यदैवतम् ।
शूद्रोऽपि विप्रो मन्तव्यः शूद्रो विप्रो विनिष्क्रियः ॥७९॥

न जातिः कारणं तात गुणाः कल्याणहेतवः।
वृत्तस्थोऽपि हि चाण्डालः सोऽपि सद्गतिमाप्नुयात्॥८०॥

कैवर्त्त्यऽजनयद्व्यासमृष्यशृङ्गंमृगोतथा।
कुम्भादगस्त्यस्ते सर्वे स्वर्याताः स्वतपोबलात्॥८१॥

क्षत्रियाणां कुले जातो विश्वामित्रो महामुनिः।
तस्मान्नाध्ययनं नापि यजनं विप्रलक्षणम् ॥८२॥

अग्निहोत्रञ्च वेदाश्च राक्षसानां गृहे गृहे।
सद्वृत्तञ्चैव शौचञ्च राक्षसेषु न दृश्यते॥८३ ॥

शिल्पमध्ययनं नाम वृत्तंं ब्राह्मणलक्षणम् ॥८४॥

नहु। प्रियवचनवदः किं लभते विमृतिकार्य्यकरः किं लभते।
बहुमित्रकरः किं लभते तपोधर्म्मकरः किं लभते॥८५॥

युधि। प्रियवचनवदः प्रियो भवति
विमृशितकार्य्यकरस्तापं न याति।
बहुमित्रकरः सुखं लभते
तपोधर्म्मकरो गतिं लभते॥८६ ॥

उक्तास्तेसर्वशस्तात प्रश्नाः प्रश्नविदां वर।

इदानीमेव मुञ्चस्व भ्रातरं मे वृकोदरम्॥८७॥

श्रुत्वा तु नहुषः प्रश्नान् धर्म्मराजेन कीर्त्तितान्।
विस्मयं परमापन्नःप्रसन्नात्माब्रवीदिदम्॥८८॥

उक्तास्ते सर्वशस्तात प्रश्नाः प्रश्नविदां वर।
इदानीमेव मुञ्चामि भ्रातरं ते वृकोदरम्॥८९॥

नहुषेण ततो मुक्तंभीममाश्लिष्य सादरम्।
युधिष्ठिरोऽपि धर्म्मात्मा नहुषं प्रत्यपूजयत्॥९०॥

नहुषोऽपि मुनेः शापाद्विमुक्तः प्रीतमानसः।
दिव्यरूपधरः श्रीन् प्रत्युवाच युधिष्ठिरम्॥९१॥

सम्भाष्यं साधुभिः पुण्यमिति सत्यवती श्रुतिः।
सर्पत्वात् पश्य मुक्तोऽहं त्वया सम्भाष्य साधुना॥९२॥

श्रुता दृष्टाश्च बहवो नरा धर्म्मपरायणाः।
न श्रुतोन च दृष्टो मे धर्म्मज्ञस्त्वादृशो नृपः॥९३॥

युधि। सम्भाष्योऽहं महाराज यस्य तुष्टो भवान् गुणैः।
महाभाग्यस्य तुष्यन्ति देवकल्पा भवादृशाः॥९४॥

किन्तु कौतूहलं किञ्चिन्मम पार्थिवसत्तम।
अतः पृच्छामि सौहार्द्द्यात् त्वामहं नाभ्यसूयया॥९५॥

सर्व्वं शास्त्रार्थतत्त्वज्ञंत्रैलोक्यैश्वर्य्यपूजितम्।
कथं त्वामाविशन्मोहः प्राकृतं पुरुषं यथा॥९६॥

नहु। श्रुतशीलादिभिर्य्युक्तं धार्म्मिकं तपसि स्थितम्।
सुप्रज्ञमपि कौन्तेय ऋद्धिर्मोहयते नरम्॥९७॥

दुर्ज्जयः सहजः शत्रुर्म्मदोराज्ञांसुदारुणः।

तेनाभिभूता दृश्यन्ते राज्यात् स्वर्गाच्च पातिताः॥९८॥

यथाग्नौ ध्रुवमुष्णत्वमनिले चलनं यथा।
यथा शशिनि शीतत्वं तथैश्वर्य्येध्रुवो मदः॥९९॥

वारुणीपानमत्तस्तु पतित्वैव च बुध्यते।
ऐश्वर्य्यमदमत्तस्तु पतित्वापि न बुध्यते॥१००॥

ऐश्वर्य्यतिमिरं चक्षुर्न च पश्यति निर्म्मलम्।
पश्चाद्विमलतां याति विनिपाताञ्जनाञ्जितम्॥१०१॥

सोऽहमैश्वर्य्यतिमिरो मदान्धीकृतलोचनः।
पतितः प्रागसम्बुद्धः साम्प्रतं बोधितस्त्वया॥१०२॥

लोकद्वयहितं वक्तुं ज्ञातुं को वा न पण्डितः।
तत्क्रियानुविधाने तु मुनयोऽपि न पण्डिताः॥१०३॥

पण्डितोऽपि सुरूपोऽपि सुसहायोऽपि पार्थिव।
मदेन ग्रस्यतेऽवश्यं राहुणेव दिवाकरः॥१०४॥

तस्माल्लोकद्वयध्वंसी न कार्य्यो भवता मदः।
प्रत्यक्षमेव दृष्टं ते यदाप्तं श्रीमता मया॥१०५॥

एवमुक्त्वातु नहुषो धर्म्मपुत्रंदिवं गतः।
युधिष्ठिरोऽपि भीमेन सहितः स्वाश्रमं ययौ॥१०६॥

—_(°)—

तृतीयबन्धः।

कृतोदकन्तु राजानं धर्म्मपुत्रं युधिष्ठिरम्।
पुण्ये भागीरथीतीरे सूपविष्टं महाभुजम्॥१॥

निःश्वसन्तं महाभागमधोवदनमातुरम्।
अभिजग्मुर्म्महात्मानं पुण्या ब्रह्मर्षिसत्तमाः॥२॥

तान् प्रणम्य यथान्यायं सर्वैस्तैश्चाभिनन्दितः।
प्रोवाचेदं ततो राजा बाष्पव्याकुललोचनः॥३॥

घातयित्वा प्रियान् बन्धून् पुत्रान् भ्रातॄन् पितॄंस्तथा।
जयोऽयमजयाकारो मुनयः प्रतिभाति मे॥४॥

अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च।
तथान्येषु नरेन्द्रेषु सुहृत्सम्बन्धिबन्धुषु॥५॥

न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् \।
राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम्॥६॥

येन सम्बर्द्धिता बाल्ये येनास्मः परिरक्षिताः।
अल्पकालस्य राज्यस्य कृतेऽसौ घातितो मया॥७॥

तन्मे दहति चाङ्गानि यन्मां गुरुरभाषत।
सत्यं कथय राजेन्द्र यदि जीवति मे सुतः॥८॥

स मयातिनृशंसेन पापेन गुरुघातिना।
सत्यं कञ्चुकमुत्सृज्य व्याजेन वञ्चितो गुरुः॥९॥

अश्वत्थामा हतः सत्यमित्युक्ताः कुञ्जरे हते।
लोकान् वै कान् गमिष्यामि कृत्वैतत् कर्म्म दारुणम्॥१०॥

अघातयञ्च यत् कर्णंसर्वशस्त्रभृतां वरम्।
ज्येष्ठं भ्रातरमत्युग्रंको मत्तः पापकृत्तमः॥११॥

अभिमन्युंतथा बालं सुप्तसिंहमिवाद्रिषु।
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्॥१२॥

द्रौपदीञ्च प्रियैः पुत्रैःपञ्चभिर्विप्रयोजिताम्।
दुःखाद्दुखमनुप्राप्तां दृष्ट्वा मे दह्यते मनः॥१३॥

सोऽहमन्तकरः पापः पृथिवीक्षयकारकः।
शोषयिष्ये प्रियान् प्राणानिहस्थो मुनिसत्तमाः॥१४॥

तमेवं वादिनं दीनं बन्धुशोकेन विह्वलम्।
परापरज्ञोभूतानां व्यासो वचनमब्रवीत्॥१५॥

मा कृथाः पुरुषव्याघ्र त्वं शोकं गात्रशोषणम्।
न हि ते सुलभा राजन् हता येऽस्मिन् रणाजिरे॥१६॥

व्यसनेषु न शोचन्ति न हृष्यन्त्युदयेषु च।
ज्ञानवन्तो महात्मानस्त्वद्विधाः पाण्डुनन्दन॥१७॥

ग्रस्यन्ते यदि शोकेन त्वादृशा ये विपश्चितः।
कुतः शास्त्रविपश्चित्त्वं श्रमायैव हि केवलम्॥१८॥

शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥१९॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि॥२०॥

अवश्यम्भाविनो येऽर्थाः स्वकर्म्मफलहेतवः।
न तान् सन्तोऽनुशोचन्ति शास्त्रतत्त्वार्थवेदिनः॥५१॥

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन दुःखमाप्नोति द्वावनर्थौप्रपद्यते॥२२॥

न स कश्चिदुपायोऽस्ति दैवो वा मानुषोऽपि वा।
येन मृत्युवशं प्राप्तो जन्तुः पुनरिहाव्रजेत्॥२३॥

बान्धवैः पुत्रदारैश्चवियुक्तस्य धनेन वा।
मग्नस्य व्यसने घोरेधृतिः पार्थ परायणम्॥२४॥

श्रुतं धर्म्मंबलं धैर्य्यं सुखमुत्साहमेव च।
सर्वमेतत् कुरुश्रेष्ठ शोको हरति देहिनाम्॥२५॥

बालांश्च यौवनस्थांश्चावृद्धान् गर्भगतानपि।
सर्व्वानाविशते मृत्युरेवम्भूतमिदं जगत्॥२६॥

एवम्भूतेषु भूतेषु सर्वावस्थाविनाशिषु।
को हृष्येत्तत्र जातेषु शोकं कुर्य्यान् मृतेषु च॥२७॥

नातीतमनुशोचन्ति नष्टेकुर्वन्ति न स्पृहाम्।
वर्त्तमानेन वर्त्तन्तेलोकतत्त्वविदो बुधाः॥२८॥

त्वं चैवाहं च ये चान्ये राजानस्त्वामुपासते।
सर्व एव मरिष्यामस्तत्रका परिदेवना॥२९॥

नायमत्यन्तसंवासः कस्यचित् केनचित् सह।
अपि स्वेन शरीरेण किमुतान्यैःपृथग् जनैः॥३०॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव तत्र का परिदेवना॥३१॥

क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहाः।
न त्वंपश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च॥३२॥

संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम्।
वुद्वुदा इव तोयेषु भवन्ति न भवन्ति च॥३३॥

क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥३४॥

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः।
आरोग्यं प्रियसंवासो मुह्यन्त्येषु न पण्डिताः॥३५॥

पण्डिते चैव मूर्खे च बलवत्यथ दुर्बले।
ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता॥३६॥

तुल्यकाले प्रसूतस्य सहस्रस्यापि पार्थिव।
नराःशतायुषः पञ्च भवन्ति न भवन्ति च॥३७॥

तस्माद्धि सर्वमेवेदमनित्यंयोऽनुपश्यति।
सोऽनित्यताकृतमतिर्ज्ञानवान् नानुशोचति॥३८॥

यथा हि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत्।
विश्रम्य च पुनर्गच्छेत् तद्वद्भूतसमागमः॥३९॥

यथा काष्ठञ्च काष्ठञ्च समेयातां महोदधौ।
समेत्य च पुनर्याति तद्वद्भूतसमागमः॥४०॥

समागमाः सापगमा विषया विषसन्निभाः।
कायः सन्निहितापायः सम्पदः पदमापदाम्॥४१॥

सम्पदो हि मनुष्याणां गन्धर्वनगरोपमाः।
दृश्यमानाः क्षणेनैव भवन्ति न भवन्ति च॥४२॥

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौप्रपद्यते॥४३॥

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्त्यते।
चिन्त्यमानं हि नोपैति भूयश्चापि विवर्द्धते॥४३॥

अतीतं नानुशोचन्ति न कुवन्ति मनोरथम्।
नोत्सृजन्तेन शुष्यन्ते ह्यगाधाः पण्डितह्नदाः॥४४॥

एवं कालकृतं ज्ञात्वा त्वमिमं पृथिवीक्षयम्।
ज्ञातिबन्धु बधोद्भूतं त्यज शोकं जनेश्वर॥४५॥

** ————**

** चतुर्थबन्धः।**

ये न हिंसन्ति भूतानि कर्म्मणा मनसा गिरा।
आनृशंस्यतात्मानो दुर्गाण्यतितरन्ति ते॥१॥

ये न मानमभीप्सन्ति मानयन्ति च ये परान्।
व्यथन्ते नावमानेन दुर्गाण्यतितरन्ति ते॥२॥

मातृवत् स्वसृवञ्चैव तथा दुहितृवच्च ये।
परदारेषु वर्त्तन्ते दुर्गाण्यतितरन्ति ते॥३॥

येऽधिक्षिप्ता न कुप्यन्ति न च हिंसन्ति हिंसिताः।
सर्वभूतहिता दान्ता दुर्गाण्यतितरन्ति ते॥४॥

ये च संशान्तमनसो धर्म्मेबुद्धिकृतस्तथा।
सत्ये स्थिता महाभागा दुर्गाण्यतितरन्ति ते॥५॥

कृच्छेण वर्त्तमानाश्चये न याचन्ति किञ्चन।
सन्तोषाभिरता धीरा दुर्गाण्यतितरन्ति ते॥६॥

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते॥७॥

ये तपांसि प्रतप्यन्त कौमारब्रह्मचारिणः।
जितेन्द्रिया जितात्मानो दुर्गाण्यतितरन्ति ते॥८॥

येभ्यो न केचित् त्रस्यन्ति त्रस्यन्ति न कुतश्च ये।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥९॥

ये पापानि न कुर्वन्ति कर्म्मणामनसा गिरा।
परश्रिया न तप्यन्ति दुर्गाण्यतितरन्ति ते॥१०॥

ये निवृत्ताश्च मांसेभ्यो मत्स्यामद्येभ्य एव च।
तारयन्त्येव पुरुषान् विष्णुलोके प्रयान्ति ते॥११॥

ये वदन्तीह सत्यानि प्राणत्यागेऽपुत्रपस्थिते।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते॥१२॥

दुर्बलार्थं बलं येषामर्थो दानार्थ एव च।
प्रवृत्त्यर्थमधीतं च दुर्गाण्यतितरन्ति ते॥१३॥

अनादिनिधने देवे जगतः प्रभवाप्यये।
भक्ता महेश्वरे देवे दुर्गाण्यतितरन्ति ते॥१४॥

त्यजतः सञ्चयान् सर्व्वान्यान्ति नाशमुपद्रवाः।
नहि सञ्चयवान् कश्चिद्दृश्यते निरुपद्रवः॥१५॥

यथा यथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहान्।
तथा तथास्य सन्तोषाद् बाह्मं तेजो विवर्द्धते॥१६॥

अकिञ्चनत्वं राज्यञ्च तुलया समतोलयत्।
अकिञ्चनत्वमधिकं राज्यादपि जितात्मनः॥१७॥

यस्य धर्म्मार्थमर्थेहा तस्येहा नैव शोभना।
प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वरम्॥१८॥

जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः।
चक्षुःश्रोत्रे च जीर्य्येते तृष्णैका निरुपद्रवाः॥१९॥

सूच्यासुत्रंयथा वस्त्रे सञ्चारयति सूचिकः।
तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते॥२०॥

यथा शृङ्गं रुरोः काले वर्द् मानस्य वर्द्धते।
तथैव तृष्णा चित्तेन वर्द्धमानेन वर्द्धते॥२१॥

अनन्तपारा दुःपूरा तृष्णा दुःखशतावहा।
अधर्म्मबहुला चैव तस्मात् तां परिवर्जयेत्॥२२॥

सन्तुष्टः को न शक्नोति फलमूलैश्च वर्त्तितुम्।
इन्द्रियाणां तु लौल्येन सङ्कटान्यवगाहते॥२३॥

सर्वत्र सम्पदस्तस्य सन्तुष्टं यस्य मानसम्।
उपानद्गूढ़पादस्य ननु चर्म्मावृतेव भूः॥२४॥

सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्चधावताम्॥२५॥

असन्तोषः परं दुःखं सन्तोषः परमं सुखम्।
तस्मात् सुखार्थी पुरुषः सन्तुष्टः सततं भवेत्॥२६॥

कामं कामयमानस्य यदि कामः स सिद्ध्यति।
अथैनमपरं कामं भूयो विन्दति मानवः॥२७॥

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते॥२८॥

कामानभिलषन्मोहान्-न ततः सुखमेधते।
श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः॥२९॥

प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्।
य एव ददतां धर्म्मः स एवाप्रतिगृह्णताम्॥३०॥

विसतन्तुर्यथा नित्यमन्तस्थः सततं विसे।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतो नृणाम्॥३१॥

या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः।
यासौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥३२॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्॥३३॥

लोभःप्रतिष्ठा पापस्य प्रभूतिर्लोभ एव च।
तत्र ते संशयो मा भूल्लोभः पापस्य कारणम्॥३४॥

लोभात् क्रोधः प्रभवति लोभाद्द्रोहःप्रवर्त्तते।
लोभान्-मोहश्च माया च मानो मत्सर एव च॥३५॥

नार्थैःपूरयितुं शक्यो लोभो बहुविधैरपि।
नित्यं गम्भीरतोयाभिरापगाभिरिवार्णवः॥३६॥

सर्वभूतेष्वविश्वस्तः सर्वभूतेषु हिंसकः।
सर्वभूतेषु जिह्मश्चलुब्धो भवति भारत॥३७॥

सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयानाञ्च लोभग्रस्ता व्रजन्त्यधः॥३८॥

लोभक्षये क्षयं यान्ति सर्वपापानि देहिनाम्।
लोभवृद्धौ प्रवर्द्धन्ते नृपते नात्र संशयः॥३९॥

यदा लोभाः क्षयं यान्ति यान्ति नाशमुपद्रवाः।
तदा वै जायते पुंसां धर्मे बुद्धिः सुदुर्लभा॥४०॥

धर्म्मार्थकाममोक्षाणां चतुर्णामिह साधनम्।
धर्म्ममेवपरं प्राहुर्मुनयस्तत्त्वदर्शिनः॥४१॥

न चास्ति धर्मे सम्बन्धो लोभाक्रान्तस्य देहिनः।
स एव धर्म्मविध्वंसी लोभः परमदारुणः॥४२॥

तस्मात् सर्वप्रयत्नेन त्यज लोभं युधिष्ठिर।
यदीच्छसि महाराज शाश्वतींगतिमात्मनः॥४३॥

विनष्टलोभा विषयेषु निःस्पृहाः
प्रशान्तचित्ताः परिहीनमत्सराः।
व्रजन्ति विष्णोः परमेव तत् पदं
सनातनं यत् प्रवन्ति योगिनः॥४४॥

अधोधः पश्यतः कस्य महिमा नोपजायते।
उपर्य्युपरि पश्यन्तः सर्व एव दरिद्रति॥४५॥

** तुलाधार उवाच।**

न मेऽधीतानि शास्त्राणि नोपायाश्चापि मे द्विज।
पूर्वाभ्यासादयं विप्र धर्म्मः प्रादुरभून्-मम॥४६॥

कर्म्मणा मनसा वाचा यन्नित्यं सेवते नरः।
तदभ्यासो भवेन्नित्यं मा ते भूदत्र संशयः॥४७॥

यो दुःखितानि भूतानि दृष्ट्वा भवति दुःखितः।
सुखितानि सुखी चापि स धर्म्मंवेद नैष्ठिकम्॥४८॥

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः।
या वृत्तिः स परोधर्म्मस्तेनजीवामि जाजले !॥४९॥

सर्वेषाञ्च सुहृन्नित्यं सर्वेषाञ्च हिते रतः ।
कर्म्मणा मनसा वाचा स धर्म्मं वेद जाजले !॥५०॥

नाहं परेषां कर्म्माणि स्तौमि निन्दामि वा द्विज।
समोऽस्मि सर्वभूतानां पश्य मे जाजले व्रतम्॥५१॥

यथा वृद्धातुरकृशा निःस्पृहा विषयान् प्रति।
तथैव कामलोभेषु ममापि विगता स्पृहा॥५२॥

तुल्यो मित्रारिपक्षस्य तुल्यो निन्दाप्रशंसिनः।
तुल्यता सर्वभूतेषु मम निष्ठास्ति जाजले॥५३॥

यदानुकुरुते भावं सर्वभूतेष्वपातकम्।
कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥५४॥

यः स्तौति यश्चमां द्वेष्टि तावुभावपि मे समौ।
रागद्वेषविहीनस्य न च मेऽस्ति प्रियाप्रिये॥५५॥

अशान्तमनसः पुंसः सर्वमेतदनर्थकम्।
रागद्वेषानृतक्रोधलोभमोहमदादिभिः॥५६॥

सर्वदोषैर्हि निर्मुक्तो यः स शान्त इति स्मृतः।
शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः॥५७॥

वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्म्मणि यः प्रवर्त्तते निवृत्तरागस्य गृहं तपोवनम्॥५८॥

व्रतघ्नेच सुरापे च चौरे भग्नव्रते तथा।
निष्कृतिर्विहिता सद्भिःकृतघ्नेनास्ति निष्कृतिः॥५९॥

कीर्त्तनं दर्शनं स्पर्शो भाषणं स्मरणं तथा।
कृतघ्नस्य न कार्य्याणि श्वपाकसदृशो हि सः॥६०॥

विद्या तपो धनं शौर्य्यं कुलीनत्वमरोग्यता।
राज्यं स्वर्गश्च मोक्षश्च सर्वं धर्म्मादवाप्यते॥६१॥

नातः क्रोधान्-न चाक्रोधान्-न स्नेहान्-न च मत्सरात्।
न कामान् न भयान्नापि धर्म्मं प्राज्ञः परित्यजेत्॥६२॥

यस्तु धर्म्मं परित्यज्य लोभाद्धनमभीप्सते।
स हेमराशिमुत्सृज्य पांशुराशिं जिघृक्षति॥६३॥

अनादृत्य तु यो धर्म्ममर्थार्थं क्लिश्यते नरः।
कल्पवृक्षं परित्यज्य धावत्येष वराटिकाम्॥६४॥

धनं वा पुरुषो ब्रह्मन् पुरुषं धनमेव च।
अवश्यमेकं त्यजति तस्मात् किं धनतृष्णया॥६५॥

धनेषु त्यक्तसङ्गानां यत् सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥६६॥

राजतः सलिलादग्नेश्चौरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥६७॥

यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥६८॥

दरिद्रः प्रार्थयत्यर्थमर्थवान् राज्यमिच्छति।
राजा च पृथिवीशत्वं पृथ्वीशश्चक्रवर्त्तिताम्॥६९॥

सुमहद्भिरपि प्राप्तैर्द्धनतृष्णा न शाम्यति।
संप्रज्वलति सा भूयः समिद्भिरिव पावकः॥७०॥

स्वप्नलब्धा यथा लाभाः क्षणमेव सुखावहाः।
तद्विधा हि द्विज श्रेष्ठ नराणामर्थसम्पदः॥७१॥

पद्यबन्धः समाप्तः।

——_(॰)——

सम्पूर्णोऽयं चतुर्थभागः।

—_(॰ ॰)—

]


  1. “देहचिन्तार्थं देहसंस्कारार्थं शरीरशोधनार्थं कायस्य निर्म्मलता सम्पादनाय इति यावत्।”

     ↩︎
  2. “अस्योपाख्यानस्य शेषांशः अनुपयोगितया परित्यक्तः। कपिलस्य तत्पत्न्याश्च पुनर्भवादिविवरणं नास्मिन् बन्धे परिगृहीतम्।” ↩︎

  3. “अस्योपाख्यानस्य शिष्टाऽंशःविस्तीर्णतया तादृशचमत्कारिताविरहेण च परित्यक्तः। रत्नपञ्चकस्य गुणपरीक्षणं राजकुमारस्य जीवनदानं धनदस्य पूर्वजन्मविवरणञ्च नास्मिन् बन्धे परिगृहीतम्।” ↩︎