सरल-संस्कृत-पाठावलिः

[[सरल-संस्कृत-पाठावलिः Source: EB]]

[

[TABLE]

प्रकाशक
मेहरचन्द्र लक्ष्मणदास
दरियागज, दिल्ली ।

सर्वाधिकार प्रकाशको के अधीन हैं। लेखक ने कापीराइट प्रकाशको के पास बेच दिया है।

मुद्रक
नरेन्द्र प्रिंटिंग प्रेस,
२० मॉडल बस्ती,
दिल्ली।

दो शब्द

सरल–संस्कृत–पाठावलि संस्कृत का साधारण ज्ञान प्राप्त करने की इच्छा वाले विद्यार्थियो के उपयोग के लिए लिखी गई है। इसमे हितोपदेश,पञ्चतन्त्र तथा अन्य कथा–ग्रन्थो से उपदेशात्मक कहानियो का मनोरंजक चयन किया गया है। प्रारम्भ मे बडी छोटी कथा सरल एवं शिक्षाप्रद कहानियो का समावेश किया गया है, जिससे पाठको की रुचि संस्कृत–कथा–साहित्य की ओर अधिकाधिक बढती जाय। प्रारंभिक कहानियो मे छोटे–छोटे वाक्यो का प्रयोग किया गया है, जिससे पाठक बड़े चाव से उन्हे पढ़े और सस्कृत मे लिखने पढ़ने का ज्ञान प्राप्त कर सके। आगे चलकर कहानियो का कलेवर क्रमशः बढता गया है। कई कहानियॉ ऐसी भी है, जिनके अन्तर्गत और कई कथाएँ है। प्रयत्न यह किया गया है कि पाठक प्राचीन संस्कृत-कथा-कला से परिचय प्राप्त कर सके। कुछ चमत्कारपूर्ण एवं रोचक कहानियो के भी नमूने दिये गये है। इस पुस्तक मे पाठको को केवल कहानी–साहित्य तक सीमित नही रक्खा गया प्रत्युत भास, दिङ्नाग और कालिदास की कृतियो के रोचक सुगम स्थल भी उनके लिए संकलित किये गये है।यहाॅ गद्य एव पद्य भाग को पृथक कर दिया गया है, जिससे पाठक गद्य द्वारा संस्कृत का सामान्य ज्ञान प्राप्त कर के पद्यो के अर्थ समझने मे प्रवृत्त हो। पद्यो मे कुछ सरल कथाऍ दी गई है, जो रामायण महाभारतादि से सम्बन्ध रखती है। उपयोगी पद्यो का भी संग्रह किया गया है जो सुगम रोचक और शिक्षाप्रद हैं। कुछ चित्रश्लोक भी दिये गये है, जिन्हे पढ़कर आश्चर्य एवं श्रानन्द का अनुभव होता है। भाषा की सुन्दरता तथा रोचकता का प्रदर्शन करने के लिए कुछ प्रसिद्ध लोकोक्तियों का संग्रह भी दिया गया है। मुझे विश्वास है कि इस पुस्तक के पढने से सरल तथा सुन्दर भाषा लिखने का ज्ञान प्राप्त हो सकता है। अभ्यासो मे केवल वही व्याकरणाश दिया गया है जो छात्रो के लिए सामान्य ज्ञान कराने में सहायक हो। यह प्रयास साहित्य–मर्मज्ञो के कर–कमलो मे सादर समर्पित किया जाता है। आशा है कि वे इसके लिए मेरा उत्साह बढायेगे।

संकलयिता

२० विष्णुरवामिकथा
२१ विद्याध्ययनम्
नाट्य-भाग
२२ दूतवाक्यम्
२३ सीता-परित्यागः
२४ दुष्यन्तरय रवपुत्रावाप्तिः
पद्य भाग
२५ यज्ञरक्षार्थं रामलक्ष्मण-सप्रेषणम्
२६ सीताया रामेण सह वनगमनम्
२७ रामराज्यम्
२८ दमयन्तीस्वयंवरः
२९ कपोतोपाख्यानम्
३० गीतोपदेशः
३१ यक्षयुधिष्ठिर-सवादात् प्रश्नोत्तरी
३२ मुक्तकानि
३३ चित्रश्लोकाः
३४ सूक्तयः
३५ अन्योक्तयः
शब्दार्थाः

भारत–गीतिका

( १ )

अलं भारतीया मतानां विभेदैः,
अलं देशभेदेन वैरेण चालम्।
अयं शाश्वतो धर्म एको धरायाम्,
न संभाव्यते धर्म–तत्त्वेषु भेदः॥

(२)

दया भूतसंघे मतिर्देवदेवे,
चतुर्वर्ग–चिन्ता विरोधाद् विरामः।
सदा काय–वाक्–शोधने चैव बुद्धिः,
परं धर्मतत्त्वं विरोधोऽत्र केषाम्?

(३)

नराः सर्व एवैकमीशं भजन्ते,
स ईशः परं नामभेदेन भिन्नः।
समुद्भासितो धर्म एतेन चैको,
विचिन्त्येति को वर्ततां भेदवादे॥

(४)

कलिङ्गाङ्ग–वङ्गान्ध्रक–द्राविडादी–
नुपाधीन् विहायैक्यमालम्ब्य भूयः।
अये भारतीयाः पुरेवात्मरूपं
लभध्वं यशश्चन्द्र–शुभ्रं तनुध्वम्॥

गद्य–भाग

कर्पूरपटकरजकस्य कथा

अस्ति वाराणस्यां कर्पूरपटको नाम रजकः। स चैकदा रात्रौ प्रसुप्तः। तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः।

तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरवोपविष्टोऽस्ति।

अथ गर्दभः श्वानमाह— ‘सखे, भवतस्तावदयं व्यापारः। तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि।’

कुक्कुरो ब्रूते—‘भद्र, मम नियोगस्य चर्चा त्वया न कर्तव्या। त्वमेव किं न जानासि यथाहमस्याहर्निशं गृहरक्षां करोमि। यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति। तेनाधुनापि ममाहारदाने मन्दादरः। यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति।’

गर्दभो ब्रूते—‘शृणु रे बर्बर—

याचते कार्यकाले यः स ‘किंभृत्यः’स ‘किंसुहृत्’।’

कुक्कुरो ब्रूते—‘शृणु तावत्—

भृत्यान् संभाषयेद्यस्तु कार्यकाले स ‘किप्रभुः’’॥१॥

ततो गर्दभः सकोपमाह—‘अरे दुष्टमते, पापीयॉस्त्वं यद्विपत्तौ स्वामिकार्योपेक्षां करोषि। भवतु तावत्। यथा स्वामी जागरिष्यति तन्मया कर्तव्यम्। यतः—

पृष्ठतः सेवयेदर्क जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया ॥२॥

इत्युक्त्वोच्चैश्चीत्कारशब्दं कृतवान्। ततो रजकस्तेन

चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन ताडयामास।

** सत्यम्— पराधिकारचर्चा न कर्तव्या।**

अभ्यासः

(१) नीचे लिखे शब्दो मे सन्धिच्छेद करो और नियम भी बताओः—

चैकदा,ममोपयोगम्, पापीयस्त्वम्, तन्मया, भवतस्तावदयम्,इत्युक्त्वा।

(२) नीचे लिखे समस्तपदो का विग्रह करो और समासो का नाम-निर्देश भी करो :—

अहर्निशम्, गृहरक्षाम्, मन्दादरः, रवामिकार्योपेक्षाम् चीत्कारशब्दम्।

(३) हर्तुम्, प्रविष्टः विमृश्य, कर्तव्या—इनके धातु और प्रत्यय बतायो।

(४) इस कथा को अपने शब्दो मे लिखकर बताओ कि तुम्हे इससे क्या शिक्षा मिलती है ?

वायसदम्पत्योः कथा

** कस्मिश्चित्तरौ वायसदम्पती निवसतः।
तयोश्चापत्यानि तत्कोटरावस्थितेन कृष्णसर्पेग खादितानि।
ततः पुनर्गर्भवती वायसी वायसमाह - ‘नाथ, त्यज्यतामयं तरुः। अत्र यावत्कृष्णसर्पोऽस्ति तावदावयोः संततिः कदाचिदपि न भविष्यति। यतः—**

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥१॥

वायसो ब्रूते—‘प्रिये, न भेतव्यम्। वारंवारं मयैतस्य महानपराधः सोढः। इदानीं पुनर्न क्षन्तव्यः।’

वायस्याह—‘कथमेतेन बलवता सार्धं भवान्विग्रहीतुं समर्थः?’

** वायसो ब्रूते—‘अलमनया शङ्कया। यतः—**

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
पश्य सिहो मदोन्मत्त शशकेन निपातितः’॥२॥

वायस्याह—‘कथमेतत्?’

** वायसो ब्रूते—**

[सिंहशशकयोः अवान्तरकथा]

“अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिहः। स च सर्वदा पशूनां वधं कुर्वन्नास्ते।

** ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः—‘मृगेन्द्र,किमर्थमेकदा बहुपशुघातः क्रियते। यदि प्रसादो भवति तदा वयमेव भवदाहारार्थंप्रत्यहमेकैकं पशुमुपढौकयामः।’**

** ततः सिंहेनोक्तम्—‘यद्येतदभिमतं भवतां तर्हि भवतु तत्।’**

** ततः प्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते सिंहः।**

** अथ कदाचिद् वृद्धशशकस्य कस्यचिद्वारः समायातः। **

सोऽचिन्तयत्—

‘त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चेद् गमिष्यामि कि सिंहानुनयेन मे॥३॥

तन्मन्दं मन्दं गच्छामि।’

** ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाच—‘कुतस्त्वं विलम्बादागतोऽसि?’**

** शशकोऽब्रवीत्—‘देव, नाहमपराधी। आगच्छन् पथि**

सिंहान्तरेण बलाद् धृतः। तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि।’

** सिंहः सकोपमाह—‘सत्वरं गत्वा दुरात्मानं दर्शय, क्व स दुरात्मा तिष्ठति?’**

** ततः शशकस्तं गृहीत्वा गंभीरकूपं दर्शयितुं गतः। ‘अत्रागत्य स्वयमेव पश्यतु स्वामी’इत्युक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिविम्बं दर्शितवान्।**

** ततोऽसौ सिंहः क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः।**

** अतोऽहं ब्रवीमि—‘बुद्धिर्यस्य’इत्यादि॥”**

** वायस्याह—‘श्रुतं मया सर्वम्। संप्रति यथा कर्तव्यं तद्ब्रूहि।’**

** वायसोऽवदत्—‘अत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति। स्नानसमये तदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विदधृत्यानीयास्मिन्कोटरे धारयिष्यसि।’**

** अथ कदाचित्स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्।**

** अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च।**

** सत्यम्—उपायेन सर्वं शक्यम्।**

अभ्यासः

** **(१) नीचे दिये हुए शब्दो मे सन्धिच्छेद करो—
भृत्यश्चोत्तरदायकः, मृत्युरेव, मयैतस्य, वायसो ब्रूते, मदोन्मत्तः।

(२) समस्तपदो का विग्रह करके समासो के नाम बतलाओ—

कृष्णसर्पेण, वायसदम्पती, कोटरावस्थितेन, मदोन्मत्तः।

(३) वायस–दम्पति की कथा से तुम्हे क्या शिक्षा मिलती है, सरल संस्कृत मे लिखो।

(४) नीचे लिखे पदो का विग्रह करके समासो के नाम भी बताओ :—

बहुपशुघातः, प्रत्यहम्, वृद्धशशकस्य, सकोपम्, कूपजले, तीर्थशिलानिहितम्, राजपुरुषैः।

(५) “शारीरिक बल से बुद्धिबल बडा होता है”, इस कहानी के आधारपर अपने विचार प्रकट करो।

(६) नीचे लिखे शब्दो मे प्रकृति–प्रत्यय बताओ :—
मिलित्वा, भक्षयन्, निवेदयितुम्, निक्षिप्य श्रुतम्।

शशक–गजयूथयोः कथा

** कदाचिद्वर्षास्वपि वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाह— ‘नाथ, कोऽभ्युपायोऽस्माकं जीवनाय? अस्त्यत्र क्षुद्रजन्तूनां निमज्जनस्थानम्। वयं तु निमज्जनस्थानाभावादन्घाइव। क्व यामः ? किं कुर्मः?’**

** ततो हस्तिराजो नातिदूरं गत्वा निर्मलं हृदं दर्शितवान्।**

** ततो दिनेषु गच्छत्सु तत्तीरावस्थिता गजपादाहतिभिश्चूर्णिताः क्षुद्रशशकाः।**

** अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामास—‘अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्। अतो विनश्यत्यस्मत्कुलम्।’**

** ततो विजयो नाम वृद्धशशकोऽवदत्—‘मा विषीदत। मयात्र प्रतीकारः कर्त्तव्यः।’**

** ततोऽसौ प्रतिज्ञाय चलितः। गच्छता च तेनालोचितम्—‘कथं मया गजयूथसमीपे स्थित्वा वक्तव्यम्। यतः—**

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥१॥

** अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि।’**

** तथानुष्ठिते यूथनाथ उवाच—‘कस्त्वम्? कुतः समायातः?’**

** स ब्रूते—‘शशकोऽहम्। भगवता चन्द्रेण भवदन्तिकं प्रेषितः।’**

** यूथपतिराह—‘कार्यमुच्यताम्।’**

** विजयो ब्रूते—**

‘उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा।
सदैवावध्यभावेन यथार्थस्य हि वाचकः॥२॥

** तदहं तदाज्ञया ब्रवीमि। शृणु—यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारिताः, तन्न युक्तं कृतम्। यतस्ते शशश्चिकारमस्माकं रक्षिताः। अतएव मे ‘शशाङ्क’इति प्रसिद्धिः।’**

** एवमुक्तवति दूतेयूथपतिर्भयादिदमाह – ‘इदमज्ञानतः कृतम्। पुनर्न कर्तव्यम्।’**

** दूत उवाच—‘यद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य प्रसाद्य च गच्छ।’**

** ततो रात्रौ यूथपतिं नीत्वा जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा यूथपतिः प्रणामं कारितः। उक्तं च तेन—‘देव, अज्ञानादनेनापराधः कृतः कृतः। ततः क्षम्यताम्। नैवं वारान्तरं**

विधास्यते।’ इत्युक्त्वा प्रस्थापितः।

** सत्यमेतत्—महतां व्यपदेशेनैव कार्यसिद्धिर्भवति।**

अभ्यासः

(१) नीचे लिखे शब्दो मे सन्धिच्छेद करोः—

कोऽभ्युपायोऽस्माकम्, शशकश्चिन्तयामास अतोऽहम्, कस्त्वम्, स ब्रूते, अतएव, नैवम्।

(२) निम्ननिर्दिष्ट क्रियापदो के धातु, लकार, पुरुष और वचन बतलाओ :—

यामः, विषीदत, ब्रवीमि अवदत्, सवादयामि।

(३) नीचे लिखे शब्दो के विभक्ति और वचन बतलाओ :—

जीवनाय, अनेन, असौ, तेन, क्षुद्रजन्तूनाम्, चन्द्रेण।

(४) “आपत्ति आने पर किस प्रकार अपनी रक्षा करनी चाहिए”, कथा के आधार पर अपने विचार प्रकट करो।

मन्दविषसर्पस्य कथा

अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः। सोऽतिजीर्णतयाहारमप्यन्वेष्टुमक्षमः सरस्तीरे पतित्वा स्थितः ततो दूरादेव केनचिन्मण्डूकेन दृष्टः। पृष्टश्च— ‘किमिति त्वमाहारं नान्विष्यसि ?’सर्पोऽवदत्—‘गच्छ भद्र! मम मन्दभाग्यस्य प्रश्नेन किम्?’ततः सञ्जातकौतुकः स च भेकः ‘सर्वथा कथ्यताम्’ इत्याह। सर्पोऽप्याह—‘भद्र! ब्रह्मपुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षीयः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशंसस्वभावाद्दष्टः। तं पुत्रं सुशीलनामानं मृतमालोक्य मूर्च्छितः कोण्डिन्यः पृथिव्यां लुलोठ। अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः। तथाचोक्तम्—

उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥१॥

** तत्र कपिलो नाम स्नातकोऽवदत्— ‘अरे कौण्डिन्य! मूढोऽसि येनैवं विलपसि। शृणु—**

क्व गताः पृथिवीपालाःससैन्यबलवाहनाः।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति॥२॥

**अपरञ्च— **

कायः सन्निहितापायः सम्पदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भंगुरम्॥३॥

**यतः— **

अनित्यं यौवनं रूपं जीवित द्रव्यसञ्चयः।
ऐश्वर्यं प्रियसंवासो मुह्येत्तत्र न पण्डितः॥४॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥५॥

यथाहि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति।
विश्रम्य च पुनर्गच्छेत्तद्वद्भूतसमागमः॥६॥

अन्यच्च—

पञ्चभिर्निर्मिते देहे पञ्चत्वंच पुनर्गते।
स्वां स्वां योनिमनुप्राप्ते तत्र का परिदेवना॥७॥

** ततः कौण्डिन्य उत्थायाऽब्रवीत्— ‘तदलमिदानी गृहनरकवासेन, वनमेव गच्छामि।’कपिलः पुनराह— **

‘वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पन्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम्॥८॥

**यतः— **

दुःखितोऽपि चरेद्धर्मं, यत्र कुत्राश्रमे रतः।
समः सर्वेषु भूतेषु, न लिङ्गंधर्मकारणम्॥६॥

तथा हि—

आत्मा नदी संयमपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः।
तन्त्राभिषेकं कुरु पाण्डुपुत्र!
न वारिणा शुध्यति चान्तरात्मा॥१०॥

विशेषश्च—

जन्म–मृत्यु–जरा–व्याधि–वेदनाभिरुपद्रुतम्।
संसारमिममुत्पन्नमसारं त्यजतः सुखम्॥११॥

यतः—

दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते’॥१२॥

** कौण्डिन्यो ब्रूते—‘एवमेव’। ततोऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तः — ‘यदद्यारभ्य मण्डूकानां वाहनं भविष्यसि’इति। कपिलो ब्रूते—‘सम्प्रत्युपदेशासहिष्णुर्भवान्। शोकाविष्टं ते हृदयम्। तथापि कार्यं शृणु—**

सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम्॥१३॥

** एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान्। अतो ब्राह्मणशापान्मण्डूकान् वोढुमत्र तिष्ठामि’। अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोऽग्रे तत्कथितम्। ततोऽसावागत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठमारूढवान्। स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम। परेद्युश्चलितुमसमर्थ तं मण्डूकनाथोऽवदत्—‘किमद्य भवान्मन्दगतिः?’सर्पो ब्रूते— ‘देव! आहारविरहादसमर्थोऽस्मि। मण्डूकनाथोऽवदत्— ‘अस्मदाज्ञया मण्डूकान्भक्षय।’ततः ‘गृहीतोऽयं महाप्रसादः’ इत्युक्त्वा क्रमशो मण्डूकान्खादितवान्। अतो निर्मण्डूकं सरो**

विलोक्य मण्डूकनाथोऽपि तेन खादितः।

** सत्यमुक्तम्— ‘स्कन्धेनापि वहेच्छत्रुंकालमासाद्य बुद्धिमान्।’**

अभ्यासः

( १ ) इस कथा में बान्धव किसे बतलाया है?

(२) कपिल के उपदेश का साराश लिखो।

(३) नीचे लिखे शब्दो का अर्थ लिखो

श्रोत्रियस्य, वियोगसाक्षिणी, सन्निहितापायः, महोदधौ, परिदेवना,पञ्चेन्द्रियनिग्रह।

(४) रिक्त स्थानो की पूर्ति करो :—

गच्छ भद्र! मम मन्दभाग्यस्य……..“अरे कौण्डिन्य मूढोऽसि तदलमिदानो………शोकाविष्टं ते हृदय तथापि ……………

(५) निम्नलिखित शब्दो मे सन्धि करो—

जीर्ण+उद्याने, दूरात्+एव, स्नातकः+अवदत्, मूढः+असि, सम्प्रति+उपदेश+असहिष्णुः।

(६) समस्तपद बनायो, समासो के नाम भी लिखो :—

मन्दं विप्रं यस्य सः, ब्रह्मपुरस्य वासिनः, राज्ञः द्वारे, शोकेन आविष्टम्,दुःखेन आर्तरय।

कंकणलोभि–पथिकस्य कथा

** ‘अहमेकदा दक्षिणारण्ये चरन्नपश्यम्—**

** एको वृद्धव्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते—**

** ‘भो भोः पान्था ! इदं सुवर्णकंकणं गृह्यताम्।’**

** ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्—‘भाग्येनैतत्संभवति। किंत्वस्मिन्नात्मसंदेहे प्रवृत्तिर्न विधेया। यतः—**

अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विपसंसर्गोऽमृतं तदपि मृत्यवे॥१॥

** किंतु सर्वत्रार्थार्जने प्रवृत्तिः संदेह एव। तथा चोक्तम्—**

न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥२॥

** तन्निरूपयामि तावत्।’**

** प्रकाशं ब्रूते— ‘कुत्र तव कंकणम्?’**

** व्याघ्रो हस्तं प्रसार्य दर्शयति।**

** पान्थोऽवदत्— ‘कथं मारात्मके त्वयि विश्वासः।’**

** व्याघ्र उवाच— ‘शृणु रे पान्थ, प्रागेव यौवनदशायामतिदुर्वृत्त आसम्।**

** अनेकगोमानुषाणां वधान्मे पुत्रा मृता दाराश्च। वंशहीनश्चाहम्।ततः केनचिद्धार्मिकेणाहमादिष्टः— दानधर्मादिकं चरतु भवान्।**

** तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तो न कथं विश्वासभूमिः। यतः—**

इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥३॥

तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते।
उत्तरस्तु चतुवर्गो महात्मन्येव तिष्ठति॥४॥

** मम चैतावॉल्लोभविरहो येन स्वहस्तस्थमपि सुवर्णकंकणं कस्मैचिद्दातुमिच्छामि। तथापि ‘व्याघ्रो मानुषं खादति’इति लोकप्रवादो दुर्निवारः।**

** मया च धर्मशास्त्राण्यधीतानि। शृणु—**

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन!॥५॥

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधव॥६॥

प्रत्याख्याने च दाने सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥७॥

** त्वं चातीव दुर्गतः तेन तत्तुभ्यं दातुं सयत्नोऽहम्। तथा चोक्तम्—**

दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥८॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः॥९॥

** तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण।’**

** ततो यावदसौ तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविशति तावन्महापंके निमग्नः पलायितुमक्षमः।**

** पंके पतितं दृष्ट्वा व्याघ्रोऽवदत्—‘अहह, महापंके पतितोसि। अतस्त्वामहमुत्थापयामि’इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत्— **

‘न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः॥१०॥

** तन्मया भद्रं न कृतं यदत्र मारात्मके विश्वासः कृतः। तथाह्युक्तम्—**

नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥११॥

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान्सर्वान् स्वभावो मूर्ध्नि वर्तते॥१२॥

स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमधिललाटे प्रोज्झितुं कः समर्थः?॥१३॥

इति चिन्तयन्नेवासौ व्याघ्रेण व्यापादितः खादितश्च

**सत्यमुक्तम् — ‘लोभः पापस्य कारणम्।’ **

अभ्यासः

(१) इस कथा का संक्षेप अपने शब्दो मे लिखो।

(२) नीचे लिखो मे धातु और प्रत्यय का विवेचन करो :-गृह्यताम्, आदिष्टः कृतः।

(३) नीचे लिखी क्रियात्रो को बहुवचन मे बदलो :- ब्रूते, आसम्, शृणु, गृहाण, अचिन्तयत्।

(४) नीचे लिखे वाक्यो को शुद्ध करो और अशुद्धि का कारण भी बतलाओ :-

अहं आत्मसन्देहे प्रवृत्तिर्न विधेया। व्याघ्रो हस्तं प्रसारयित्वा दर्शयति। भवान् दानधर्म्मादिकं वर। तेन त्वा दातुं समर्थोऽहम्। लोभात् सरं स्नातुं प्रविशति। तन्मया भद्रं न कृतवान्।

जरद्गवगृध्रस्य कथा

अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः। तस्य कोटरे दैवदुर्विपाकाद् गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति। अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात् किंचित् किंचिदुद्धृत्य ददति। तेनासौ जीवति, पक्षिशावकानां रक्षणं च करोति।

** अथ कदाचिद्दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः। ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैःकोलाहलः कृतः।**

**तच्छ्रुत्वा जरद्गवेनोक्तम्— ‘कोऽयमायाति?’ **

** दीर्घकर्णी गृध्रमवलोक्य सभयमाह— ‘हा हतोऽस्मि। अधुनाऽस्य संनिधाने पलायितुमक्षमः, तद्यथा भवितव्यं तद्भवतु।**

** तावद्विश्वासमुत्पाद्यास्य समीपमुपगच्छामि। यतः—**

तावद्भयस्य भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्यनरः कुर्याद्यथोचितम्॥१॥

इत्यालोच्योपसृत्याब्रवीत्— ‘आर्य, त्वामभिवन्दे।’

** गृध्रोऽवदत्— ‘कस्त्वम्?’**

** सोऽवदत्— ‘मार्जारोऽहम्।’**

** गृध्रो ब्रूते— ‘दूरमपसर। नोचेद् हन्तव्योऽसि मया।’**

** मार्जारोऽवदत्— ‘श्रूयतां तावदस्मद्वचनम्। ततो यद्यहं वध्यस्तदा हन्तव्यः। यतः—**

जातिमात्रेण किं कचिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत्’॥२॥

गृध्रो ब्रूते — ‘ब्रूहि किमर्थमागतोऽसि?’

** सोऽवदत्— ‘अहमत्र गङ्गातीरे नित्यस्नायी निरामिषो ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि। ‘यूयं धर्मज्ञानरताः’इति विश्वासभूमयः पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति। अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमहमिहागतः। भवन्तश्चैतादृशा धर्मज्ञा यन्मामतिथिं हन्तुमुद्यताः। गृहस्थधर्मश्चैषः—**

अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः॥३॥

** यदि चान्नं नास्ति तदा प्रीतिवचसाप्यतिथिः पूज्य एव। यतः—**

तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥४॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति॥५॥

उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः॥६॥

गृध्रोऽवदत्— ‘मार्जारो हि मांसरुचिः। पक्षिशावकाश्चात्र निवसन्ति। तेनाहमेवं ब्रवीमि।’

** तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति। ब्रूते च— मया धर्मशास्त्रं श्रुत्वा वीतरागेणेदं दुष्करं व्रतं चान्द्रायरणमध्यवसितम्। यतः परस्परं विवदमानानामपि धर्मशास्त्राणाम् ‘अहिंसा परमो धर्मः’इत्यत्रैकमत्यम्। यतः—**

सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥७॥

योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥८॥

** शृणु पुनः—**

स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दुग्धोदरस्यार्थे कः कुर्यात्पातकं महत्॥९॥

** एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः।**

** ततो दिनेषु गच्छत्सु पक्षिशावकानाक्रम्य कोटरमानीय प्रत्यहं खादति।**

** येषामपत्यानि खादितानि तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा।**

** तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः।**

** पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकास्थीनि प्राप्तानि। अनन्तरम् ‘अनेनैव जरद्गवेनास्माकं शावकाः खादिता’इति सर्वेः पक्षिभिर्निश्चित्य गृध्रो व्यापादितः।’**

** अतएवोच्यते—**

** ‘अज्ञातकुलशीलस्य वासो देयो न कस्यचित्।’**

अभ्यासः

(१) गृहस्थ का क्या कर्तव्य है?— कथा के आधार पर अपने विचार प्रकट करो।

(२) नीचे लिखे शब्दो का विग्रह करके समासो के नाम बतलाओ— गलितनखनयनः, तज्जीवनाय, गङ्गातीरे, भग्नाशः, यथायोग्यम्, मासरुचिः पक्षिशावकान्, शोकार्तैः।

(३) सन्धि करो और नियम बतलाकर संधि का नाम भी बतलाओ :— स्व+आहारात्, तत्+श्रुत्वा, कः+अयम्, यथा+उचितम्, न+उपसंहरते, तेन+ग्रहम्।

(४) नीचे लिखी क्रियाओ के लकार, पुरुष, वचन और वाच्य बतलाओ :— ददति, आह, अभिवन्दे, अपसर, तिष्ठामि, उपसंहरते, ब्रवीमि, विमुच्यते।

वीरवरस्य कथा

** कश्चिद् वीरवरो नाम राजपुत्रः कुतश्विद्देशादागत्य राज्ञः**

** शूद्रकस्य द्वारमुपगम्य प्रतीहारमुवाच—‘अहं तावद्वर्तनार्थीराजपुत्रः। मां राजदर्शनं कारय।’**

** ततस्तेनासौ राजदर्शनं कारितो ब्रूते— ‘देव, यदि मया सेवकेन प्रयोजनमस्ति तदाऽस्मद्वर्तनं क्रियताम्।’**

** शूद्रक उवाच—‘किं ते वर्तनम्?’
वीरवरो ब्रूते— ‘प्रत्यहं सुवर्णशतचतुष्टयम्।’
राजा— ‘का ते सामग्री?’
वीरवरो ब्रूते— ‘द्वौ बाहू, तृतीयश्च खङ्गः।’
राजा— ‘नैतच्छक्यम्।
तच्छ्रुत्वा वीरवरः प्रणम्य चलितः।**

** अथ मन्त्रिभिरुक्तम्— ‘देव, दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायतामस्य स्वरूपम्—किमुपयुक्तोऽयमेतावद्वर्तनं गृह्णाति, अनुपयुक्तो वा इति।’**

** ततो मन्त्रिवचनादाहूय वीरवराय ताम्बूलं दत्त्वा सुवर्णशतचतुष्टयं दत्तम्।**

** तद्विनियोगश्च राज्ञा सुनिभृतं निरूपितः— ‘तदर्ध वीरवरेणदेवेभ्यो ब्राह्मणेभ्यश्च दत्तम्। स्थितस्यार्ध दुःखितेभ्यः, तदवशिष्टं भोज्यव्ययविलासव्ययेन।’**

** एतत् सर्वं नित्यकृत्यं कृत्वा राजद्वारमहर्निशं खङ्गपाणिःसेवते। यदा च राजा स्वयं समादिशति तदा स्वगृहमपि याति।**

** अथ चतुर्थ्या रात्रौ राजा सकरुणं क्रन्दनध्वनि शुश्राव।**

** शूद्रक उवाच — ‘कः कोऽत्र द्वारि?’**

** तेनोक्तम्— ‘देव, अहं वीरवरः।’**

** राजोवाच— ‘क्रन्दनानुसरणं क्रियताम्।’**

** वीरवरः ‘यथाज्ञापयति देवः’इत्युक्त्वा चलितः।**

** राज्ञा च चिन्तितम्— ‘नैतदुचितम्। अयमेकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रेषितः। तदहमपि गत्वा ‘किमेतत्’ इति निरूपयामि।’**

** ततो राजापि खङ्गमादाय तदनुसररणक्रमेण नगराद्बहिर्निर्जगाम।’**

** गत्वा च वीरवरेण सा रुदती रूपयौवनसंपन्ना सर्वालङ्कारभूषिता काचित्स्त्री दृष्टा पृष्टा च- ‘का त्वम्? किमर्थं रोदिषीति?’**

** स्त्रियोक्तम्— ‘अहमेतस्य शूद्रकस्य राज्ञो लक्ष्मीः। चिरादेतस्य भुजच्छायायां महता सुखेन विश्रान्ता। इदानीमन्यत्र गमिष्यामि।’**

** वीरवरो ब्रूते— ‘यत्रापायः संभवति तत्रोपायोऽप्यस्ति। तत्कथं स्यात्पुनरिहावासो भगवत्याः?’**

** लक्ष्मीरुवाच— ‘यदि त्वमात्मनः पुत्रं शक्तिधरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि तदाहं पुनरत्र सुचिरं सुखं निवसामि’इत्युक्त्वादृश्याभवत्।**

** ततो वीरवरेण स्वगृहं गत्वा निद्राणा स्ववधूः प्रबोधिता पुत्रश्च।**

** तौ निद्रां परित्यज्योत्यायोपविष्टौ।**

** वीरवरस्तत्सर्वं लक्ष्मीवचनमुक्तवान्।**

** तच्छ्रुत्वा सानन्दः शक्तिधरो ब्रूते— ‘धन्योऽहमेवंभूतः स्वामिराज्यरक्षार्थ यस्योपयोगः। तत्तात, कोऽधुना विलम्बस्य हेतुः। कदापि तावदेवंविध एव कर्मण्येतस्य देहस्य विनियोगः श्लाघ्यः। यतः—**

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तं वरं त्यागो विनाशे नियते सति’॥१॥

** शक्तिधरमातोवाच— ‘यद्येतन्न कर्त्तव्यं तत्केनान्येन कर्मणा मुख्यस्य महावर्तनस्य निष्क्रयो भविष्यति?’**

** इत्यालोच्य सर्वमङ्गलायाः स्थानं गताः।**

** तत्र सर्वमङ्गलां संपूज्य वीरवरो ब्रूते—‘देवि, प्रसीद। विजयतां विजयतां शूद्रको महाराजः। गृह्यतामयमुपहारः’इत्युक्त्वा पुत्रस्य शिरश्चिच्छेद।**

** ततो वीरवरश्चिन्तयामास— ‘गृहीतराजवर्तनस्य तावन्निस्तारः कृतः। अधुना निष्पुत्रस्य मे जीवनं विडम्बनम्।’इत्यालोच्यात्मनः शिरश्छिन्नवान्।**

** ततः स्त्रियापि स्वामिनः पुत्रस्य च शोकार्तया तदनुष्ठितम्। एतत्सर्व श्रुत्वा दृष्ट्वा च स राजा साश्चर्य चिन्तयामास—**

‘जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
अनेन सदृशो लोके न भूतो न भविष्यति॥२॥

** तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम्?’**

** ततः स्वशिरश्छेत्तुमुल्लासितः खङ्गः शूद्रकेणापि।**

** अथ भगवत्या सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते धृतःउक्तश्च— ‘पुत्र, प्रसन्नास्मि ते। एतावता साहसेनालम्। जीवनान्तेऽपि तव राजभङ्गो नास्ति।’**

** राजा च साष्टाङ्गपात प्रणम्योवाच— ‘देवि, कि मे राज्येन? जीवितेन वा किं प्रयोजनम् ? यद्यहमनुकम्पनीयस्तदा ममायुःशेषेणायं सदारपुत्रो वीरवरो जीवतु अन्यथाहं यथाप्राप्तां गतिं गच्छामि।’**

** भगवत्युवाच—‘पुत्र, अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा सतुष्टास्मि। गच्छ विजयी भव। अयमपि सपरिवारो राजपुत्रो जीवतु।’ इत्युक्त्वा देव्यदृश्याभवत्।**

** ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं गतः।**

** राजापि तैरलक्षितः सत्वरं प्रासादगर्भ गत्वा तत्रैव सुप्तः।**

** अथ वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्नुवाच— ‘देव, सा रुदती स्त्री मामवलोक्यादृश्याभवत्। न काप्यन्या वार्ता विद्यते।’**

** तद्वचनमाकर्ण्य संतुष्टो राजा साश्चर्यमचिन्तयत्— ‘कथमयं श्लाघ्यो महासत्त्वः।’**

** ततः स राजा प्रातः शिष्टसभां कृत्वा सर्ववृत्तान्तं प्रस्तुत्य प्रसादात्तस्मै करर्णाटकराज्यं ददौ।**

अभ्यासः

(१) वीरवर मे क्या विशेषता थी जिससे राजा ने उसे अपनाया?

(२) निम्ननिर्दिष्ट शब्दो के अर्थ लिखो :—

वर्तनार्थी, क्रन्दनध्वनिः, भुजच्छायाम्, खड्गपाणिः, विनियोगः, उपहारः, सदारपुत्रः, महासत्त्वः, शिष्टसभाम्।

(३) द्वितीय प्रश्न मे दिये हुए १, २, ३, ४, ७, ८ और नवे शब्दो का विग्रह करके समासो का नाम बतलाओ।

(४) धातु तथा प्रत्यय बताओ—

शक्यम्, उपयुक्तः, दत्तम्, चलितः, पृष्टा।

(५) रिक्त स्थानो की पूर्ति करो :—

यदि मया सेवकेन प्रयोजनमस्ति तदा….यदा राजा स्वयं समादिशति तदा……का त्वं किमर्थं…अधुना निष्पुत्रस्य मे जीवनं विडम्बनं इत्यालोच्य अयमपि सपरिवारो राजपुत्रो जीवतु, इत्युक्त्वा…..।

ब्राह्मणसुत–नकुलकथा

** कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म। तस्य भार्या प्रसूता सुतमजनयत्। तस्मिन्नेव दिने नकुली नकुलं प्रसूय मृता। अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्यङ्गमर्दनादिभिः पुपोष। परं तस्मिन्न विश्वसिति यत्कदाचिदेष स्वजातिदोषवशादस्य दारकस्य विरुद्धमाचरिष्यतीति। एवं जानाति स्वचित्ते । उक्तं च—**

सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम्॥१॥

** अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जलकुम्भमादाय पतिमुवाच—‘ब्राह्मण! जलार्थमहं तडागे यास्यामि त्वया पुत्रोऽयं नकुलाद्रक्षरणीयः।’ अथ तस्यां गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः। अत्रान्तरे दैववशात्कृष्णसर्पो बिलान्निष्क्रान्तः। नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातू रक्षणार्थ सर्पेण सह युद्ध्वा सर्प खण्डशः कृतवान्। ततो रुधिराप्लावितवदनः सानन्दं स्वव्यापार–प्रकाशनार्थं मातुः सम्मुखो गतः। मातापि तं रुधिरक्लिन्नमुखमवलोक्य शङ्कितचित्ता**

‘यदनेन दुरात्मना दारको भक्षितः’इति विचिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप। येन स मृतः। एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहम् आगच्छति तावत्सुतस्तथैव सुप्तस्तिष्ठति, समीपे कृष्णसर्प खण्डशः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा।

** अतः— अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम्।**

अभ्यासः

(१) इस कथा का सार लिखो।

(२) निम्ननिर्दिष्ट मे प्रकृति–प्रत्यय बतलाओ :—

शामयित्वा आदाय, रक्षणीयः, निर्गतः, प्रलपन्ती।

(३) नीचे लिखे शब्दो मे लिङ्ग, विभक्ति, वचन बतलाओ :—

तस्मिन्, बिलात्, सर्पेण, दुरात्मना, लोभात्मन्, वचः।

(४) नीचे लिखे शब्दो को वाक्यों में प्रयुक्त करो :—

अङ्गमर्दनादिभिः, तड़ागे, नकुलम्, दैववशात्, गृहीतनिर्वाणः, शोकाभितप्ता, लोभाभिभूतेन।

त्रयाणां धूर्तानां ब्राह्मणस्य च कथा

‘कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिग्रहः प्रतिवसति स्म। तेन कदाचिन्माघमासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने, मन्दं-मन्दं प्रवर्षति पर्जन्ये, पशुप्रार्थनाय कञ्चिद्ग्रामान्तरं गत्वा कश्चिद्यजमानो याचितः— ‘भो यजमान! आगामिन्याममावस्यायामहं यक्ष्यामि यज्ञम्, तद्देहि मे पशुमेकम्।’ अथ तेन तस्य शास्त्रोक्तः पीवरः पशुः प्रदत्तः। सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं

स्वपुराभिमुखः प्रतस्थे।अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः। तैश्चतादृशं पीवरपशुं स्कन्ध आरूढमवलोक्य मिथोऽभिहितम्— ‘अहो, अस्य पशोर्भक्षणाद्यतनीयो हिमपातो व्यर्थतां नीयते। तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः। अथ तेषामेकतमो वेषपरिवर्तनं विधाय संमुखो भूत्वापमार्गेण तमाहिताग्निमूचे— ‘भो भो, अग्निहोत्रिन्! किमेवं जनविरुद्धं हास्यकार्यमनुष्ठीयते यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते? उक्तं च यतः—

श्वान–कुक्कुट–चाण्डालाः समस्पर्शाः प्रकीर्तिताः।
रासभोष्ट्रौविशेषेण, तस्मात्तान्नैव संस्पृशेत्’॥१॥

ततश्च तेन कोपाभिभूतेनाभिहितम्— ‘अहो, किमन्धो भवान्? यत्पशुं सारमेयं प्रतिपादयसि?’सोऽब्रवीत्— ‘ब्रह्मन्! कोपस्त्वया न कार्यः, यथेच्छ्या गम्यताम्’इति। अथ यावत्किञ्चिदध्वनोऽन्तरं गच्छति, तावद्द्वितीयो धूर्तः संमुखे समुपेत्य तमुवाच— ‘भो ब्रह्मन्! कष्टं कष्टम्; यद्यपि वल्लभोऽयं ते मृतवत्सः, तथाऽपि स्कन्धमारोपयितुमयुक्तम्। उक्तं च यतः—

तिर्यञ्चंमानुषं वापि यो मृतं संस्पृशेत्कुधीः।
पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा’॥२॥

अथासौ सकोपमिदमाह—“भोः! किमन्धो भवान् यत्पशुं मृतवत्सं वदसि? सोऽब्रवीत्— ‘भगवन्! मा कोपं कुरु, अज्ञानान्मयाभिहितम्, तत्त्वमात्मरुचिं समाचर’इति। अथ यावत्स्तोकमध्वान्तरं गच्छति तावत्तृतीयोऽन्यवेषधारी धूर्तः संमुखः समुपेत्य तमुवाच— ‘भोः! अयुक्तमेतत्—यत्त्वं रासभं स्कन्धाधिरूढं नयसि। तत्त्यज्यतामेषः। उक्तं च—

यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा।
सचैलं स्नानमुद्दिष्टंतस्य पापप्रशान्तये॥३॥

** तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति’। अथासौ तं पशुं रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य प्रपलायितः। ततस्ते त्रयोऽपि मिलित्वा तं पशुमादाय यथेच्छं भक्षितुमारब्धा।**

** अतः—धूर्तवाक्येषु कदापि न विश्वसनीयम्।**

अभ्यासः

(१) इस कथा से तुम्हे क्या शिक्षा मिलती है?

(२) निम्नलिखित वाक्याशो को पूर्ण करो—

कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम …. ….
….

अहो, अस्य पशोर्भक्षणादद्यतनीयो …. …. …..

भो भो, अग्निहोत्रिन्! किमेवं जनविरुद्ध …. …..
….

किमन्धो भवान् यत्पशुं …. …..
….

ततस्ते त्रयोऽपि मिलित्वा …. ….
….

(३) सन्धिच्छेद करो :—

सौम्यानिले, तद्देहि, सोऽपि, तैश्च, सोऽब्रवीत्, अयुक्तमेतत्।

(४)समस्तपदों का विग्रह करके समासो के नाम बतलाओ :—

माघमासे, शास्त्रोक्तः, शीतत्राणम्, हास्यकार्यम्, आत्मरुचिम् स्कन्धाधिरूढम्।

मण्डूकराज-सर्पकथा

** कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म। स कदाचिद्दायादैरुद्वेजितोऽरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम्— ‘यत्कथं तेषां दायादानां मया प्रत्युपकारः कर्तव्यः?’**

** एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत्। तं दृष्ट्वा**

भूयोऽप्यचिन्तयत्—‘यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि। उक्तं च—

शत्रुभिर्योजयेच्छन्नुंबलिना बलवत्तरम्।
स्वकार्याय यतो न स्यात् काचित्पीडान्नतत्क्षये॥१॥

एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान्— ‘एह्येहि प्रियदर्शन! एहि।’ तच्छ्रुत्वा सर्पश्चिन्तयामास— ‘य एष मामाह्वयति स स्वजातीयो न भवति। यतो नैषा सर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति। तदत्रैव दुर्गे स्थितस्तावद्वेद्मि— कोऽयं भविष्यति। उक्तं च—

यस्य न ज्ञायते शीलं न कुलं न च संश्रयः।
न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः॥२॥

कदाचित् कोऽपि मन्त्रवाद्योषधिचतुरो वा मामाहूय बन्धने क्षिपति। अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षरणार्थे मामाह्वयति।’आह च— ‘भोः! को भवान्?’स आह— ‘अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमभ्यागतः।’तच्छ्रुत्वा सर्प आह— ‘भोः! अश्रद्धेयमेतत्— यत्तृणानां वह्निनासंगमः।’

** गङ्गदत्त आह— ‘भोः! सत्यमेतत्। स्वभाववैरी त्वमस्माकम्, परं परपरिभवात्प्राप्तोऽहं ते सकाशम्। उक्तं च—**

सर्वनाशे च संजाते प्राणानामपि संशये।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च‘॥३॥

सर्प आह— ‘कथय कस्मात्ते परिभवः?’स आह— ‘दायादेभ्यः।’सोऽप्याह—‘क्व त आश्रयो वाप्यां कूपे तडागे हृदे

वा? तत्कथय स्वाश्रयम्।’ तेनोक्तम्— ‘पाषाणचयनिबद्धे कूपे।’सर्प आह— ‘अहो, अपदा वयम्, तन्नास्ति तत्र मे प्रवेशः; प्रविष्टस्य च स्थानं नास्ति, यत्र स्थितस्तव दायादान् व्यापादयामि, तद्गम्यताम्।’

** गङ्गदत्त आह— ‘भोः ! समागच्छ त्वम्। अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति। तत्र स्थितस्त्वं लीलया दायादान् व्यापादयिष्यसि।’ तच्छ्रुत्वा सर्पो व्यचिन्तयत्— ‘अहं तावत्परिणतवयाः कदाचित्कथंचिन्मूषकमेकं प्राप्नोमि तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण मे दर्शितः; तद्गत्वा तान्मण्डूकान्भक्षयामि’ इति। अथवा साध्विदमुच्यते—**

यो हि प्राणपरिक्षीणः सहायपरिवर्जितः।
स हि सर्व सुखोपायां वृत्तिमारचयेद् बुधः’॥४॥

** एवं विचिन्त्य तमाह— ‘भो गङ्गदत्त! यद्येवं तदग्रे भव, येन तत्र गच्छावः।’ गङ्गदत्त आह— ‘भोः प्रियदर्शन! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि; परं त्वयाऽस्मत्परिजनो रक्षणीयः, केवलं यानहं तव दर्शयिष्यामि, त एव भक्षणीयाः’इति। सर्प आह— ‘सांप्रतं त्वं मे मित्रं जातम्, तन्न भेतव्यम्। तव वचनेन भक्षणीयास्ते दायादाः।’ एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः। अथ कूपमासाद्य अरघट्टघटिकामार्गेण सर्पस्तेनात्मना सह स्वालयं नीतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैःशनैर्भक्षिताः।**

अथ मण्डूकाभावे सर्पेणाभिहितम्—‘भद्र! निःशेषितास्ते रिपवः। तत्प्रयच्छान्यन्मे किंचिद्भोजनम्, यतोऽहं त्वयाऽत्रानीतः।’ गङ्गदत्त आह—‘भद्र! कृतं त्वया मित्रकृत्यम्, तत्सांप्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम्’इति। सर्प आह—‘भो गङ्गदत्त! न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि? मदीयबिलदुर्गमन्येन रुद्ध भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ; नोचेत्सर्वानपि भक्षयिष्यामि’ इति। तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत्—‘अहो! किमेतन्मया कृतं सर्पमानयता! तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति। अथवा युक्तमुच्यते—

योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः।
स करोति न संदेहः स्वयं हि विषभक्षणम्॥५॥

** तत्प्रयच्छाम्यस्यैकैकं प्रतिदिनं सुहृदम्।**

** एवं निश्चित्य नित्यमेकैकं तमादिशति। सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति।**

** अथान्यदिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्तसुतो यमुनादत्तो भक्षितः। तं भक्षितं ज्ञात्वा गङ्गदत्तस्तारस्वरेण धिग्धिगिति प्रलापपरः कथंचिदपि न विरराम।**

** अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम्। केवलमेको गङ्गदत्तस्तिष्ठति। ततः प्रियदर्शनेन भणितम्—‘भो गङ्गदत्त! बुभुक्षितोऽहम्। निःशेषिताः सर्वे मण्डूकाः, तद्दीयतां मे किंचिद्भोजनं यतोऽहं त्वयाऽत्रानीतः।’ स आह—‘भो मित्र! न त्वयाऽत्र विषये मय्यवस्थिते कापि चिन्ता कार्या।**

तद्यदि मां प्रेषयसि ततोऽन्यकूपस्थानपि मण्डूकान् विश्वास्यात्रानयामि।’स आह— ‘मम तावत्त्वमभक्ष्यो भ्रातृस्थाने, तद्यद्येवं करोषि तत्सांप्रतं पितृस्थाने भवसि तदेवं क्रियताम्’इति। सोऽपि तदाकर्ण्य कूपाद्विनिष्क्रान्तः। प्रियदर्शनोऽपि तदागमनकाङ्क्षया तत्रस्थःप्रतीक्षमाणस्तिष्ठति। अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाच— ‘भद्रे! क्रियतां स्तोकं साहाय्यम्। यतश्चिरपरिचितस्ते गङ्गदत्तः, तद्गत्वा तत्सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम संदेशं कथय। येनागम्यतामेकाकिनापि भवता द्रुततरम्, यद्यन्ये मण्डूका नागच्छन्ति। अहं त्वया विना नात्र वस्तुं शक्नोमि। तथा यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम्।’ गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह— ‘भद्र गङ्गदत्त! स तव सुहृत्प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति, तच्छीघ्रमागम्यतामिति। अपरं च— तेन तव विरुद्धकरणे सुकृतमन्तरे धृतम्। तन्निःशङ्केन मनसा समागम्यताम्।‘ तदाकर्ण्य गङ्गदत्त आह—

‘बुभुक्षितः किं न करोति पापं?
क्षीणा नरा निष्करुणा भवन्ति।
आख्याहि भद्रे! प्रियदर्शनस्य,
न गङ्गदत्तः पुनरेति कूपम्’॥१६॥

अभ्यासः

(१) ‘न गङ्गदत्तः पुनरेति कूपम्’इस पद्यांश का क्या अभिप्राय है?इस कथा को सरल संस्कृत मे लिखो।

(२) नीचे लिखे अव्ययो को संस्कृत वाक्यो से प्रयुक्त करो :—

अथ, कथम्, च, एवं, न, सह, अपि, अथवा, भोः, क्व, अहो, यत्र, तावत्, तत्र, नित्यम्, यतः, स्तोकम्।

(३) वाच्य–परिवर्तन करो :—

तेनोक्तम्, निःशेषितास्ते रिपवः, ते च तेन शनैः शनैः भक्षिताः, न सम्यगभिहितं त्वया, अन्यानपि भक्षयति, ततः प्रियदर्शनेन भणितम्, अहं त्वयात्रानीतः।

(४) नीचे लिखे शब्दों का अर्थ लिखो :—

दायादाः, प्रत्युपकारः, उच्छेदम्, विभाव्य, संधानम्, दुर्गे, परिभवात् वाप्याम्, सुखावहः, मण्डूकान्।

टिट्टिभ–समुद्रकथा

** कस्मिंश्चित्समुद्रतीरैकदेशे टिट्टिभदम्पती प्रतिवसतः स्म। ततो गच्छति काले ऋतुसमयमासाद्य टिट्टिभी गर्भमाधत्त। अथासन्नप्रसवा सती सा टिट्टिभमूचे — ‘भो कान्त! मम प्रसवसमयो वर्तते। तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानम्, येन तत्राहमण्डकविमोक्षणं करोमि।’ टिट्टिभः प्राह — ‘भद्रे!रम्योऽयं समुद्रप्रदेशः, तदत्रैव प्रसवः कार्यः।’ साऽऽह—‘अत्र पूर्णिमादिने समुद्रवेला चरति। सा मत्तगजेन्द्रानपि समाकर्षति। तद्दूरमन्यत्र किचित्स्थानमन्विष्यताम्।’तच्छ्रुत्वा विहस्य टिट्टिभः प्राह— ‘भद्रे! युक्तमुक्तं भवत्या। का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम्। तस्माद्विश्रब्धात्रैव गर्भ मुञ्च। उक्तं च—**

यः पराभवसंत्रस्तः स्वस्थानं संत्यजेन्नरः।
तेन चेत्पुत्रिणी माता, तद्वन्ध्या केन कथ्यते?’॥१॥

** तच्छ्रुत्वा समुद्रश्चिन्तयामास— ‘अहो गर्वः पक्षिकीटस्यास्य; तन्मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम्। किं ममैषोऽण्डापहारे कृते करिष्यति?’इति चिन्तयित्वा स्थितः।अथ प्रसवानन्तरं गतायाष्टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्यपजहार।अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे— ‘भो मूर्ख! कथितमासीन्मया ते यत्समुद्रवेलयाऽण्डानां विनाशो भविष्यति, तद्दूरतरं व्रजावः; परं मूढतयाऽहंकारमाश्रित्य मम वचनं न करोषि। अथवा साध्विदमुच्यते—**

सहृदां हितकामानां न करोतीह यो वचः।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति’॥२॥

** टिट्टिभ ग्रह— ‘कथमेतत्?’साऽब्रवीत्—**

[सुहृद्वाक्याश्रवणे काष्ठपतितकच्छपकथा]

** ‘अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः। तस्य च संकटविकटनाम्नी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वाऽस्तमयवेलायां स्वनीडसंश्रयं कुरुतः। अथ गच्छता कालेनानावृष्टिवशात् सरः शनैः शनैः शोषमगमत्। ततस्तद्दुःखदुःखितौ तावूचतुः—‘भो मित्र! जम्बालशेषमेतत्सरः सजातम्। तत्कथं भवान्भविष्यतीति व्याकुलत्वं नो हृदि वर्तते।’तच्छ्रुत्वा कम्बुग्रीव आह— ‘भोः! सांप्रतं नास्त्यस्माकं जीवितव्यं जलाभावात्। तथाऽप्युपायश्चिन्त्यतामिति। उक्तं च—**

त्याज्यं न धैर्यं विधुरेऽपि काले
धैर्यात् कदाचिद्गतिमाप्नुयात् सः।
यथा समुद्रेऽपि च पोतभंगे
सांयान्निको वाञ्छति तर्तुमेव॥३॥

** तदानीयतां काचिद्दृढरज्जुर्लघु काष्ठं वा; अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं संगृह्य तत्सरो नयथः।’ तावूचतुः—‘भो मित्र! एवं करिष्यावः परं भवता मौनव्रतेन स्थातव्यम्; नोचेत्तव काष्ठात्पातो भविष्यति।’ तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभागव्यवस्थितं किंचित्पुरमालोकितम्। तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः — ‘अहो, चक्राकारं किमपि पक्षिभ्यां नीयते। पश्यत पश्यत।’ अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह— ‘भोः, किमेष कोलाहलः?’इति वक्तुमना अर्धोक्तिपतितः पौरेः खण्डशः कृतश्च। अतोऽहं ब्रवीमि — “सुहृदां हितकामानाम्”इति॥ तथा च—**

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति’॥४॥

टिट्टिभ आह— ‘कथमेतत्।’साब्रवीत् —

[सुहृद्वाक्याश्रवणे मत्स्यत्रयकथा]

** ‘कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति त्रयो मत्स्याः प्रतिवसन्ति स्म। अथ कदाचित्तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तम्— ‘यदहो! बहुमत्स्योऽयं हृदः कदाचिदपि नास्माभिरन्वेषितः तदद्य तावदाहारवृत्तिः**

संजाता; संध्यासमयश्च संवृत्तः। ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः।’ अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान् मत्स्यानाहयेदमूचे— ‘अहो! श्रुतं भवद्भिर्यन्मत्स्यजीविभिरभिहितम्? तद्रात्रावपि गम्यतां किंचिन्निकटं सरः।

** उक्तं च—**

अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम्।
संश्रितव्योऽथवा दुर्गोनान्या तेषांगतिर्भवेत्॥५॥

** तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति। एतन्मम मनसि वर्तते। तन्न युक्तं सांप्रतं क्षणमप्यत्रावस्थातुम्। उक्तं च—**

विद्यमाना गतिर्येषामन्यत्रापि सुखावहा।
ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम्’॥६॥

** तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह— ‘अहो! सत्यमभिहितं भवता। ममाप्यभीष्टमेतत्, तदन्यत्र गम्यतामिति। उक्तं च—**

परदेशभयाद्भीता बहुमाया नपुंसकाः।
स्वदेशे निधनं यान्ति काका कापुरुषा मृगाः’॥७॥

** अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच — अहो! न भवद्भ्यां मन्त्रितं सम्यगेतदिति; यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते? यद्यायुःक्षयोऽस्ति, तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव। तदहं न यास्यामि; भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम्।’ अथ तस्य तं निश्चयं ज्ञात्वाऽनागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्तौ सह परिजनेन। अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम्। अतोऽहं ब्रवीमि— ‘अनागत-**

विधाता च”इति॥ तच्छ्रुत्वा टिट्टिभ आह— ‘भद्रे! किं मां यद्भविष्यसदृशं संभावयसि? तत्पश्य मे बुद्धिप्रभावं यावदेनं दुष्टसमुद्रं स्वचञ्च्वा शोषयिष्यामि। टिट्टिभ्याह—‘अहो! कस्ते समुद्रेण सह विग्रहः? तन्न युक्तमस्योपरि कोपं कर्तुम्।’

** टिट्टिभ आह—‘प्रिये! मा मैवं वद;येषामुत्साहशक्तिर्भवति, ते स्वल्पा अपि गुरून् विक्रमन्ते। तदनया चञ्चवाऽस्य सकलं तोयं शुष्कस्थलतां नयामि।’**

** टिट्टिभ्याह—‘भोः कान्त! यत्र जाह्नवी नवनदीशतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च तत्कथं त्वमष्टादशनदीशतैः पूर्यमाणं त विप्रुषवाहिन्या चञ्च्वा शोषयिष्यसि? तत्किमश्रद्धेयेनोक्तेन?’टिट्टिभ आह— ‘प्रिये!**

अनिर्वेदः श्रियो मूलं, चंचूर्मेलोहसंनिभा।
अहोरात्राणि दीर्घाणि, समुद्रःकि न शुष्यति?॥८॥

** टिट्टिभ्याह—‘यदि त्वयाऽवश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम्, तदन्यानपि विहङ्गमानाहूय सुहृज्जनसहित एव समाचर। उक्तं च—**

बहूनामप्यसाराणां समवायो हि दुर्जयः।
तृणैरावेष्ट्यते रज्जुर्येन नागोऽपि बद्ध्यते’॥९॥

** टिट्टिभ आह— भद्रे! एव भवतु। सुहृद्वर्गसमुदायेन समुद्रं शोषयिष्यामि।’इति निश्चित्य वकसारसमयूरादीन् समाहूय प्रोवाच—‘भोः! पराभूतोऽहं समुद्रेणाण्डकापहारेण; तच्चिन्त्यतामस्य शोषगोपायः। ते संमन्त्र्य प्रोचुः—‘अशक्ता वयं समुद्रशोषणे, तत्किं वृथाप्रयासेन? तदस्माकं स्वामी वैनतेयोऽस्ति,**

तत्तस्मै सर्वमेतत्परिभवस्थानं निवेद्यताम्, येन स्वजातिपरिभवकुपितो वैरानृण्यं गच्छति। अथवाऽत्रावलेपं करिष्यति तथापि नास्ति वो दुःखम्। तद्यामो वैनतेयसकाशं यतोऽसावस्माकं स्वामी।’

** तथानुष्ठिते सर्वे ते पक्षिरणो विषण्णवदना बाष्पपूरितदृशो वैनतेयसकाशमासाद्य करुणस्वरेण फूत्कर्तुमारब्धाः—‘अहो, अब्रह्मण्यमब्रह्मण्यम्। अधुना सदाचारस्य टिट्टिभस्य भवति नाथेसति समुद्रेणाण्डान्यपहृतानि; तत्प्रणष्टमधुना पक्षिकुलम्। अन्येऽपि स्वेच्छया समुद्रेण व्यापादयिष्यन्ते। उक्तं च—**

एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम्।
गतानुगतिको लोको न लोकः पारमार्थिकः॥१०॥

** अथैवं गरुडः समाकर्ण्य तद्दुःखदुःखितः कोपाविष्टश्च व्यचिन्तयत्—‘अहो, सत्यमुक्तमेतैः पक्षिभिः, तदद्य गत्वा तं समुद्रं शोषयामः।’ एवं चिन्तयतस्तस्य विष्णुदूतः समागत्याह—‘भो गरुत्मन्! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः। देवकार्याय भगवानमरावत्यां यास्यतीति तत्सत्वरमागम्यताम्।’ तच्छ्रुत्वा गरुडः साभिमानं प्राह—‘भो दूत! कि मया कुभृत्येन भगवान् करिष्यति? तद्गत्वा तं वद यदन्यो भृत्यो वाहनायास्मत्स्थाने क्रियताम्। मदीयो नमस्कारो वाच्यो भगवतः।’**

** दूत आह— ‘भो वैनतेय! कदाचिदपि भगवन्तं प्रति त्वया नाभिहितमीदृक्। तत्कथय किं ते भगवतापमानस्थानं कृतम्।’ गरुड आह—‘भगवदाश्रयभूतेन समुद्रेरणास्मट्टिट्टिभाण्डान्यपहृतानि तद्यदि तस्य निग्रहं न करोति तदहं भगवतो न भृत्य**

इत्येष निश्चयस्त्वया वाच्यः। तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम्।’अथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवांश्चिन्तयामास — ‘अहो, स्थाने कोपो वैनतेयस्य। तत्स्वयमेव गत्वा संमानपुरःसरं तमानयामि। उक्तं च—

भक्तं शक्तं कुलीनं च न भृत्यमपमानयेत्।
पुत्रवल्लालयेन्नित्यं य इच्छेच्छयमात्मनः॥११॥

** अन्यच्च—**

राजा तुष्टोऽपि भृत्यानामर्थमात्रं प्रयच्छति।
ते तु संमानितास्तस्य प्राणैरप्युपकुर्वते’॥१२॥

** इत्येवं संप्रधार्य रुक्मपुरे वैनतेयसकाशं सत्वरमगमत्। वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाधोमुखः प्रणम्योवाच— ‘भगवन्! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यस्याण्डान्यपहृत्य ममावमाननं विहितम्। परं भगवल्लज्जया मया विलम्बितम्, नोचेदेनमहं स्थलत्वमद्यैव नयामि। यतः स्वामिभयाच्छुनोऽपि प्रहारो न दीयते। उक्तं च—**

येन स्याल्लघुता वाऽथ पीडाचित्ते प्रभोः क्वचित्।
प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः’॥१३॥

** तच्छ्रुत्वा भगवानाह—‘भो वैनतेय! सत्यमभिहितं भवता। तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं संभावयावः, अमरावतीं च गच्छावः। तथाऽनुष्ठिते समुद्रो भगवता निर्भत्यग्नेयं शरं संधायाभिहितः—‘भो दुरात्मन्! दीयन्तां टिट्टिभाण्डानि, नोचेत्स्थलतां त्वां नयामि। ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि। टिट्टिभेनापि भार्यायै समर्पितानि।**

अभ्यास

(१) इस कथा के अन्तर्गत कितनी कथाऍ है? उन सबका सार लिखो।

(२) टिट्टिभ–सर्पकथा से आपको क्या उपदेश मिलता है?

(३) त्याज्य न धैर्यं विधुरेऽपि काले, क्या तुम इससे सहमत हो, यदि हो तो क्यो?

(४) नीचे लिखे शब्दो का अर्थ लिखकर उन्हे संस्कृत वाक्यो मे प्रयुक्त करो :—

समुद्रवेला प्रमाणम्, हितकामानाम्, हृदि, वक्तुमनाः, तोयम्, वृथाप्रयासेन, समाकर्ण्य, स्वयमेव।

(५) प्रकृति–प्रत्यय बतलाओ— दृष्ट्वा, हसजातीये, सजातम्, जीवितव्यम्, उक्तम्।

ऐन्द्रजालिक–कौतुकम्

** एकदा कश्चनैन्द्रजालिको महाराज विक्रम–समीपमागत्य सप्ररणाममवदत्—‘देव! त्वं सकलकलाभिज्ञः भवतः समीपमागत्यानेकैः महेन्द्रजालिकैः स्व-स्व-लाघवानि दर्शितानि। अद्य
ममाप्येकं लाघवं निरीक्षरणीयम्।’**

** राज्ञोक्तम्— ‘नेदानीमवसरोऽस्माकम् प्रभाते द्रक्ष्यामः।’ ततः प्रभाते कश्चित् महाकायः विपुलकन्धरः पुरुषः आत्मनः स्त्रिया युक्तः समागत्य सभायां राजानं प्रणतवान्, उवाच च—‘देव! अहं महेन्द्रस्य सेवकः। कदाचित् स्वामिना शप्तोऽधुना भूमण्डले तिष्ठामि। इयं मम भार्या। अद्यैव देवासुराणां महद् युद्धं प्रारब्धम्। अहमपि स्वभार्या भवतः पार्श्वे निक्षिप्य युद्धार्थं गमिष्यामि।’**

** एवमुक्त्वा भार्या च राज्ञः समीपे निक्षिप्य गगन उत्पतितः।**

क्षणेनैवाकाशे महान् भीषणरवो जातः—‘रे रे मारय, घातय इति।’सभायाम् उपविष्टाः सर्वेऽपि लोका ऊर्ध्वमुखाः सकौतुकं यावत् पश्यन्ति स्म तावद् गगनात् खड्गो रक्त–लिप्तः तथैको बाहुः पतितः। एवं सर्वैरवलोक्य भरिणतम्— ‘अहो! एतस्याः स्त्रिया वीरः पतिः संग्रामे प्रतिभटैर्हतः, तस्यैको बाहुः खड्गश्च पतितः। एवं वदत्सु एव तेषु पुनः शिरश्च पतितम्, ततः कबन्धोऽपि पतितः।

** एतत् सर्व दृष्ट्वा सा स्त्री रोदितुमारब्धा उवाच च— ‘देव, मम भर्ता रणाङ्गणे युध्यमानः शत्रुभिनिहतः। तस्येदं शिरः, सखङ्गो बाहुः, कबन्धश्च प्रमाणानि। इदानीम् एतच्छरीरं कस्य कृते रक्षामि। तद्देहि भर्त्रा सहाग्नि–प्रवेशाभ्यनुज्ञाम्। यतः**

शशिना सह याति कौमुदी,
सह मेघेन तडित् प्रलीयते।
प्रमदा पति–मार्गगा इति,
प्रतिपन्नं हि विचेतनैरपि॥१॥

मृते भर्तरि या नारी समारोहेद् हुताशनम्।
साऽरुन्धतीव पूज्या स्यात् स्वर्ग–लोके निरन्तरम्॥२॥’

** तस्यास्तद् वचनं श्रुत्वा राजा श्रीखण्डादिभिः चितां विरचय्य तस्यै अनुज्ञां ददौ। स चानुज्ञाता भर्तुः शरीरेण समम् अग्निं विवेश। ततः सूर्योऽस्तमगात्।**

** प्रभाते राज्ञि विक्रमे सिहासनमलङ्कुर्वति स एव पुरुषः पूर्ववत् खड्ग-हस्तः समागत्य राज्ञः कण्ठे कल्पतरु-कुसुम-ग्रथितां मालां निधाय तस्मै नानाविध-युद्ध-गोष्ठीः वक्तुं प्रवृत्तः। तं समागतं दृष्ट्वा सर्वाऽपि सभा विस्मयं गता। पुनश्च तेन**

भणितं—’राजन्, मयि अस्मात् स्थानात् स्वर्ग गते, तत्र महेन्द्रस्य दैत्यानाञ्च महान् संग्रामोऽभूत्। तस्मिन् बहवो राक्षसा दैत्याश्च हता, अन्ये पलायिताः। युद्धावसाने देवेन्द्रेण भणितम्— भो नायक! त्वया अद्य भूतले न गन्तव्यम्, तव शापस्यावसानं जातम्। तवाहं प्रसन्नोऽस्मि।’

** देवेन्द्र-वचनं श्रुत्वा मयोक्तम्— ‘देवराज! भवदाज्ञा शिरोधार्य्या। परमत्र आगमनसमये मया भार्या विक्रमादित्यसमीपे निक्षिप्ता। ता गृहीत्वा झटिति पुनरागमिष्यामि इति पुरन्दरम् उक्त्वा समागतोऽस्मि। अधुना सा मम भार्या सत्वरं दातव्या येन मे स्वर्ग-गमने विलम्बो न भवेद्’इति।**

** तद्वचनं श्रुत्वा राजा पर विस्मितः तूष्णी स्थितः। पुनस्तेन गदितम्— ‘राजन्! किं जोषम् आस्यते?’**

** राज्ञः समीपस्थैः भणितम्— ‘तव भार्याग्निं प्रविष्टा।’**

** तेनोक्तम्— ‘किमर्थम्?’**

** ते तु सर्वे निरुत्तरीभूता आसन्।**

** पुनरुक्तं तेन— ‘विक्रम भूमिपाल! पर-नारी-सहोदर! किमिदम् अकार्यं क्रियते? देहि मे मत्पत्नीम्।’**

** ततो राज्ञोक्तम्— ‘भद्र! भवतः खङ्गं, बाहुं, शिरः, कबन्धं च क्रमेण पतितं दृष्ट्वा भवन्तं युद्धनिहतं मत्वा तव पत्नी ममानुमत्या अनलं प्रविष्टवती।’**

** तेन पुरुषेणोक्तम्— ‘राजन्, नैतद् विश्वसिमि। सुरूपा युवतिश्च मे पत्नी भवता निजगृहे गोपायिता।’**

** ततः सकलसभासद्भिरुक्तम्—‘भो नायक! अस्माकं समक्षं सा अनलं प्रविष्टा।’**

** ततः ‘नहि नहि’इत्युक्त्वा नायकः त्वरितमुत्थाय, सिंहासन–पश्चाद्वर्ति–गृहाभ्यन्तरात् तामेव भार्या करे गृहीत्वा राज–सभा–मध्यमानीय तद्वक्त्रावरणश्च उन्मोच्य प्रदर्शितवान्। ततः सर्वे लज्जावनत–मुखाः परं विस्मयं जग्मुः।**

** अथ स सहासं राजानम् उक्तवान्—‘महाराज! ब्रह्मायुर्भव, अहं स महैन्द्रजालिकः। तव पुरतः मया इन्द्र जाल–विद्या–लाघवं दर्शितम्।’ तदा प्रसन्नेन राज्ञा बहुपारितोषिकं दत्त्वा बहुमानपुरस्सरं प्रस्थापितः स्वगृहं जगाम।**

अभ्यासः

(१) ऐन्द्रजालिक ने क्या कौतुक दिखाया, जिसने सब को मुग्ध कर दिया।

(२) समासो का नाम बतलाते हुए विग्रह करो—

देवासुराः, भूमण्डलम्, ऊर्ध्वमुखाः सप्रमाणम्, स्वर्गलोके, युद्धावसाने, युद्धनिहतम्, गृहाभ्यन्तरात्।

(३) नीचे लिखे शब्दो के सबविभक्तियों के एकवचन और बहुवचन मे रूप लिखो—

देव, इदम् (स्त्रीलि० ) भार्या, बाहु, तत् (पुं० ) शिरस्, कौमुदी, राजन्, एतत्, युस्मद्।

(४) दृश्, स्था, दा, धातुृओ के लङ्उत्तम पुरुष बहुवचन में रूप लिखो—

(५) इस कथा से क्तान्त और क्त्वान्त के तीन–तीन उदाहरण दो।

सुमति–सचिव–कथा

** कस्मिंश्चिद्देशे शूरसेनो नाम राजाऽऽसीत्। स सुत-निर्विशेषं प्रजाः पालयन् सुखेन कालं निनाय। सुमतिर्नाम तस्य मन्त्री। नरपतिस्तस्मिन्नत्यर्थ प्रीतिमानासीत्। तस्य मन्त्रिणः भगवति परमा प्रीतिर्बभूव। ‘जगतीह नक्तन्दिवं यत् किञ्चित् घटते तत् सर्वमेव शुभाय’इत्येवं तस्य बुद्धिरासीत्। शुभं वाप्यशुभं किञ्चित् धीरस्यास्य चित्तं विकलयितुं न प्रभवति स्म। विधात्रा विहितं सर्व स कल्याणाय एव मन्यते स्म। ‘भगवता विधात्रा यदेव विधीयते तत् सर्वमेव शुभाय’इति सः सर्वदैवाकथयत्।**

** नृपतिरपि तस्य मुखादनिशम् एवमाकर्णयन् कदाचिदचिन्तयत्— ‘अहो! किमप्येनं वीतधैर्य्यंकर्तुं नालम्। भवतु तावत् अहमस्य धैर्य्यं परीक्षिष्ये।’**

** अथ दैवेन नृपतेरङ्गुल्यां स्फोटकः सञ्जातः। तेन सोऽत्यर्थ क्लिश्यमानो ‘मन्त्रिणमेवं विज्ञापय’इति आदिश्य कञ्चित् दूतं प्रेरितवान्।**

** सचिवस्तस्य मुखतः प्रवृत्तिम् एतामासाद्य स्वभावधीरतया ‘भगवता विधात्रा यदेव विधीयते तदेव शुभाय’इति प्रतिभाषणं प्रेषयामास।**

** नृपतिस्तदवगमात् कोपस्फुटितलोचनोऽवदत्— ‘अहो धिगिमं जाल्मम्। यत् क्लिष्टमपि मां नानुकम्पते। तस्येदमौदासीन्यं न मया कदापि सोढव्यम्।’**

** अथ कदाचित् पीडयास्याङ्गुलिः स्खलिता बभूव। राजा च भूयसा क्लेशेन संशयितजीवितोऽभवत्।**

** “मन्त्रिणं ज्ञापय”इत्यादिश्य भूयः कञ्चित् दूतं प्रेरितवांश्च। सचिवोऽपि निशम्यैतत् “भगवता विधात्रा यदेव विधीयते तदेव शुभाय”इति प्रतिवचनं ददौ। नृपतिरपि श्रुत्वैतत् अचिन्तयत्—“स्वस्थश्चेत् नूनमेनं हनिष्यामि।”**

** अथदिष्ट्या स रोगात् निर्मुक्तो बभूव। गतेषु दिनेषु असौ सदः समेत्य प्रजानामानन्दं वर्धयामास। सचिवोऽपि राजसकाशमागत्य यथाविधि तमभिननन्द।नृपतिस्तु मधुरवाचा तं पुनः न सम्भाषयामास।**

** अथैकदा राजा मृगयायै यातुकामो मन्त्रिणं प्राह—“भो मन्त्रिन्! यथारीति मृगया-गमनोद्योगं विधेहि।”**

** सोऽपि च ‘देव-पादा यथाज्ञापयन्ति’ इत्युक्त्वा सर्वमेवानुष्ठितवान्।**

** ततः स नृपतिरश्वमारुह्य बहुभिर्लोकैरनुगम्यमानो मन्त्रिणा सह प्रतस्थे। निविड़काननाभ्यन्तरमासाद्य अनुचरान् सर्वानादिदेश—“युष्माकं दूरमनुसरणेनालम्। मन्त्रिणानुगतोऽहं दूरतर-वन-मध्यमवगाहिष्ये। भवन्तश्च सायं यावत् मे प्रत्यावर्तनमपेक्ष्य गृहं प्रतिनिवर्तन्ताम्।”**

** ततो राजा मन्त्री च अश्वमारुह्य द्रुतं गम्भीर-वनमध्यं प्रविवेश।**

** सहसा कूपमेकमालोक्य नृपतिरचिन्तयत्— ‘अवसरोऽयं सम्यगस्माकं सङ्कल्पसिद्धेः। तृषा-व्याजम् अवलम्ब्य जलानयनार्थं**

मन्त्रिणमादिशामि। कूप-सन्निहितं चैनं कूपमध्ये पातयामि’ इत्यवधार्य्यमन्त्रिणं प्राह— “सुमते! महती मे पिपासा जाता। नाहं दूरतरं गन्तुं शक्नोमि। कूपोऽयमारात् दृश्यते। पश्य, तत्र जलमस्ति न वा।”

** सचिवो नृपस्याज्ञया कूप-समीपं गत्वा नत-तुण्डो यावत् जलं निरीक्षते तावद् राजा झटिति पृष्ठतस्तं कूपे चिक्षेप। **

** सचिवोऽपि पतन्नेव “भगवता विधात्रा यदेव विधीयते तदेव शुभाय”इत्युक्त्वा कूप-मध्ये पपात।**

** राजाऽपि विवृतवदनस्तूर्ण ततः प्रतस्थे तदा सन्ध्या समागताऽऽसीत्। भगवान् काश्यपेयः स्वीय–मयूखान् संहृत्य अस्ताचल–शिखरारोहणोन्मुखो बभूव। दिनकर–विरहेण सन्तापितचित्ता धरणी तमोवसनं पिनह्येव वयसां रुतव्याजेन मानसीं व्यथां प्रकटयामास।**

** श्वापदाः सर्वे प्रहृष्टमनसो विवरात् निष्क्रम्य समन्तात् परिधावितुमारेभिरे।**

** नृपतिः कथञ्चित् वन-पथात् बहिरायातुमसमर्थः सन्निहितं वृक्षमेकमारुह्य अवतस्थे।अश्वोऽपि तदधस्तात्तस्थौ।**

** अथ निशीथ–समयः सम्भूतः। सहसा वन–भागं प्रकम्पयन्निव तत्रैव महान् कोलाहलः समुत्थितः।**

** नर–पतिस्तु ‘कश्चिदतर्कितो विपत्पात आपतितोऽयम्’इति मत्वा यावत् पश्यति तावदारात् समागच्छतो बहून् लोकानवलोकयामास।**

** तेऽपि शनैः शनैः वृक्षाभ्याशमेत्य सज्जित–तुरङ्गमेकमालोक्य**

परस्परं कथयामासुः— ‘सिद्धमेव साम्प्रतमस्माकमभिलषितम् इति। तुरङ्गमेन मानव-समागमोऽत्र इति संसूच्यते। इदानीमेनमनुसन्धाय राजसकाशं नेष्यामः। अस्माकं नृपतिरपि श्वः प्रातश्चामुण्डायै बलिमुपहारीकृत्य सिद्धकामो भविष्यति।’

** इत्याकर्ण्य नृपतिर्वृक्षारूढः संज्ञाहीन इव पत्रान्तरालमध्यवर्ती तस्थौ।**

** सहसा तेषामेकतमो ‘वृक्षेऽस्मिन् मानवो दृश्यते, मानवो दृश्यते’इत्युच्चैरपरान् ज्ञापयामास।**

** तत्कालमेव कश्चिद् वृक्षमारुह्य राजानं बद्ध्वा वृक्षात् तस्मादवतारयामास।**

** अथैनमश्वमारोप्य विजय–गीतिं गायन्तः सर्वे यथागतं चलिताः।**

** राजा च ‘आत्म–कर्म्म–फलानुरूपमेतद्’इति विज्ञाय स्थाणुवत् तस्थौ।**

** ते च स्वं नृपतिमुपागम्य ‘आसादितोऽयं बलिः’इति निवेदयामासुः।**

** राजा च ‘एनं कारागृहे स्थापय’इति आदिश्य चामुण्डामन्दिर ययौ।**

** अथ क्रमेण निशावसानमभूत्। ढक्का–दुन्दुभि–पटहनिनादैर्नृपभवनमचिरेण पूर्णमभवत्। समीरणैः समन्ततः सञ्चाल्यमानैः रक्त-ध्वजैः उपशोभितं देवी–मन्दिरं बभूव। राजा च परिधृत–रक्त–वसनो रक्त–चन्दनानुलिप्तो रक्तमाल्योपशोभितो ‘मातश्चामुण्डे! प्रसीद बलिमिमं गृहाण’इति कथयन्**

यावत् देव्याः पुरतो वन्दिनं राजानं संस्थाप्य तस्यावयवं निरीक्षाञ्चक्रे तावत् तमंगुष्ठेन हीनमालोक्य ‘आः पाप! किमिदम्, होनांगुष्ठं नरमिमं कथं बलिरूपेण चामुण्डायै दास्यामि’इति कथयित्वा तं दूरीचकार। पूर्णावयवमन्यमेकमानेतुमादिदेश।

** नृपतिरयं दिष्ट्या प्राणान् प्राप्य पलायाञ्चक्रे, अथ स काननमासाद्य चिन्तयामास— ‘अहो! यदेव सचिवेनोक्तं सत्यमेव तावत् सर्वम्। ‘भगवता विधात्रा यदेव विधीयते तदेव शुभाय’इति मयाद्य सम्यक् परीक्षितम्। अंगुष्ठहीनं नूनमद्य स मां नावधीत्।**

** अहो, कुत्र स मे मन्त्री, कुत्र स मे भगवत्परायणो धार्मिककुलशेखरो विवेकचूडामणिर्ममैकबन्धुः? धिड् मां यदहं कारणं विना तं हतवान्। किमद्यापि स जीवति? भवतु गत्वा तत्र द्रक्ष्यामि।’**

** तावदवधार्य्यस लघु–पदं तत् कूपसन्निधावागत्य, ‘धार्म्मिक–प्रवर! सुमते! ममैकप्रियबन्धो! सचिवराज! किमद्यापि जीवसि? देहि मे प्रतिवचनम्’इत्युच्चैस्तमाजुहाव।**

** नृपतेर्वचः श्रुत्वा मन्त्री कूपादतीवार्तस्वरेण प्रोवाच—‘महाराज! मृतकल्पोऽत्र तिष्ठामि, यदीच्छसि मामुद्धर’। ततो नृपतिस्तूर्णं तं कूपादुज्जहार। बहुशश्चात्मदोषं स्वीकृत्य क्षमस्वेति भूयो भूयश्चानुनीय मन्त्रिणं प्रसादयामास।**

** मन्त्रिणोक्तम्—‘महाराज! किमिदम्। किमेवं कथयसि। किमापतितं देव-पादानाम्। कथमीदृशीमवस्थामापन्नोऽसि, कथं हि ते दृष्टिरियं सकातरा वर्तते?’**

** ततो राजा प्राह—‘मन्त्रिन्! सत्यमुक्तं भवता। ‘भगवता विधाता यदेव विधीयते तदेव शुभाय’इत्यत्र नास्ति मे कश्चित् सन्देहः’इत्युक्त्वा तस्यादितो यत् वृत्तं तत् सर्वं कथयामास।**

** तच्छ्रुत्वा मन्त्री किञ्चित् विहस्य प्रोवाच—‘महाराज! ममापि कुपे निक्षेपो भगवता अनुमोदित एव। हीनाङ्गस्य भवतो मुक्तिश्चेदपि त्वत्सङ्गिनः पूर्णावयवस्य ममैव परित्राणं न कथमप्यभविष्यत्। अतो ज्ञायतामेतत् देवपादैर्यद् भगवता विधात्रा विधीयते तदेव शुभाय।’**

** ततस्तौ परस्परं प्रीतौ स्वराज्यं प्रतिनिवृत्तौ।**

** सत्यम्—‘ईश्वर-विश्वासी कदापि नावसीदति।’**

अभ्यासः

(१) राजा शूरसेन ने अपने मन्त्री से बुरा व्यवहार क्यों किया?

(२) ‘यद् भगवता विधात्रा विधीयते तदेव शुभाय’इस उक्ति से आप कहाँ तक सहमत है, अपने स्वतन्त्र विचार प्रकट करो।

(३) नीचे लिखे शब्दो के रूप विभक्ति और वचन लिखो—

प्रजाः, शुभाय, विधात्रा, अङ्गुल्याम्, भगवता, वाचा, सर्वान्, संकल्पसिद्धेः, रुतव्याजेन, युष्माकम्।

(४) काल, पुरुष और वचन बतलाकर इन्हे अपने वाक्यो मे प्रयुक्त करो—

आसीत्, अकथयत्, परीक्षिष्ये, हनिष्यामि, शक्नोमि, भविष्यति, दास्यामि, द्रक्ष्यामि।

(५) निम्नलिखित शब्दो मे केवल समासो के नाम बतलाओ—

नर-पतिः, सशयित-जीवितः मधुर-वाचा, शिखरारोहणोन्मुखः, तमो-वसनम्, दिनकर-विरहेण।

अकवरो वीरवलश्च

** एकदा सम्राड् अकबरः मन्त्रिणा वीरवलेन कस्याम् अपि राज्य–समस्यायां परामृशन् समाधानं न अलभत। स व्यङ्ग्यरूपेण वीरवलं प्राह—‘भो वीरवल! मम एकस्य प्रश्नस्य उत्तरं देहि।’वीरवलः प्रत्युवाच— ‘कः प्रश्नः महाराजस्य?’अकबरः प्राह— “एष प्रश्नः—‘मूर्खेण जाते सम्पर्के कर्तव्यं कि मनीषिणा’?” इति। वीरवलः ‘मत्परम् अत्र महाराजस्य व्यङ्ग्यम्’इति मनसि किमपि दुःखितः प्रत्यवदत्— ‘कठिनः खलु एष महाराजस्य प्रश्नः, अतः विचार्य श्वः उत्तरं दास्ये’इति। ‘तथा कुरु’— एवम् उक्तः वीरवलः राजगृहात् स्वगृहं गतः।**

** अथ पथि गच्छन् वीरवलः एकं वाहीकम् अपश्यत्। तं सम्बोध्य स स्वसमीपम् आकारयत्, अकथयत् च—‘भो वाहीक! त्वं दरिद्रः असि। श्वः मया सह राजगृहं चल, अहं ते भूरि धनं दापयिष्यामि’। ततः गृहम् आनीतः वाहीकः रात्रौ तत्र प्रसुप्य प्रातः स्नात्वा शुचिः भूतः कृतपण्डितोचितवेशः वीरवलेन उक्तः— ‘वाहीक! राजसभायां महाराजेन किम् अपि पृष्टः प्रतिवचनं मा देहि, मौनी एव च तिष्ठ’इति। ततः तौ राजगृहं गतौ।**

** अथ राजसभां प्राप्तः एव वीरवलः अकबरेण पुनः पृष्टः—‘वीरवल! देहि मे ह्यस्तनस्य प्रश्नस्य उत्तरम्, तद् यथा— ‘मूर्खेणजाते सम्पर्के कर्तव्यं कि मनीषिणा’?’इति। वीरवलः ब्रूते— ‘महाराज! एष मे जातिभ्राता महापण्डितः वर्तते, अत एष महाराजस्य प्रश्नस्य उत्तरं दास्यति।’ ततः**

सम्राट् तं महापण्डितं पृच्छति—‘भो महापण्डित! देहि उत्तरम्।’वाहीकस्तु किमपि न ब्रूते। महाराजः पुनः तं पृच्छति, स च पुनरपि मौनी एव तिष्ठति। ततः मनसि किमपि विस्मितः रुष्टः च अकबरः बीरबलं पृच्छति— ‘भोः मन्त्रिवर! एष तव भ्राता तु न किमपि उत्तरं ददाति, मौनी एव तिष्ठति। किं कारणम्?’बीरबलः समुत्थाय निवेदयति— ‘महाराज! एष तु मौनी स्थित्वा एव महाराजस्य प्रश्नस्य उत्तरं ददाति, तद् यथा्— ‘मूर्खेणजाते सम्पर्के मौनं कार्य मनीषिणा’इति।

** अकबरः ‘बीरबलेन अहम् एव मूर्खेषु गणितः’इति बुद्ध्वा किमपि लज्जितः मनसा बीरबलस्य बुद्धिप्रकर्ष प्रशशंस।**

अभ्यासः

(१) राजा के व्यङ्ग्य— वचनो का बीरबल पर क्या प्रभाव पड़ा?

(२) शब्द, विभक्ति और वचन बतलाओ—

मन्त्रिणा, मनीषिणा, महाराजस्य, प्रश्नस्य, मनसि।

(३) ‘मूर्खेण जाते सम्पर्के मौन कार्य मनीषिणा’इसका क्या अभिप्राय है? कथा के आधार पर स्पष्ट करो।

(४) सन्धि करो और नियम भी बतलाओ—

एषः+मे, खलु+एषः, प्रश्नस्य+उत्तरम्।

(५) समास करो—मम एकस्य प्रश्नस्य उत्तरम्, कृतः पण्डितस्य उचितः वेशः येन सः, राज्यस्य समस्यायाम्, बुद्धेः प्रकर्षम्।

(६) प्रकृति प्रत्यय बतलाओ—

दुःखितः, आनीतः, प्रसुप्य, स्नात्वा, समुत्थाय।

भोजराजस्य गदः

** एकदा राजा भोजः नगरात् बहिः निर्गतः। क्वचित् नूतनेन तडागाम्भसा कपाल-शोधनादि चकार। तन्मूलेन कश्चन शफर–शावः कपालं प्रविष्टः। ततः राजा स्वपुरीम् अवाप। तदारभ्य राज्ञः कपाले वेदना जाता। ततः तत्रत्यैः भिषग्वरैः सम्यक् चिकित्सिता अपि न शान्ता। एवम् अमानुषविदितेन महारोगेण अहर्निशं नितराम् अस्वस्थे राज्ञि संवत्सरः अतीतः किन्तु तद्गदः न केन अपि निवारितः।**

** अथ श्रीभोजः नानाविध–समानौषध–ग्रसनरोग–दुःखितः समीपस्थं शोकसागरनिमग्नम् अमात्यं बुद्धिसागरं कथम् अपि प्रोवाच—‘बुद्धिसागर! इतः परम् अस्मद्–विषये न कश्चित् अपि भिषग्वरः वसतिम् आतनोतु निखिलान् भेषज–कोशान् स्रोतसि निरस्य आगच्छ, मम देवसमागमसमयः समागतः’इति। तत् श्रुत्वा सर्वे अपि पौरजनाः, कवयः, अवरोधसमाजाश्च विगलदश्रुनयनाः बभूवुः।**

** ततः कदाचित् देवसभायां पुरन्दरः सकल–मुनिवृन्द–मध्यस्थं वीणामुनिम् आह—‘मुने! इदानीं भूलोके का नाम वार्त्ता?’ इति। ततः नारदः प्राह—‘सुरनाथ! न किम् अपि आश्चर्यं, किन्तु धारानगरवासी श्रीभोज-भूपालः रोग-पीडितः नितराम् अस्वस्थः वर्तते। तस्य रोगः केन अपि न निवारितः, तत् अनेन भोजनृपालेन भिषग्वराः अपि स्वदेशात् निष्कासिताः। वैद्यशास्त्रम् अपि अनृतम् इति निरस्तम्’इति। एतत् आकर्ण्य पुरुहूतः समीपस्थौ अश्विनौ इदम् आह—‘भोः! स्वर्वैद्यौ!**

कथम् अनृतं धन्वन्तरीयं शास्त्रम्?‘। तदा तौ आहतुः— ‘अमरेश ! न व्यलीकम् इदं शास्त्रम्, किन्तु अमरविदितेन रोगेण बाध्यते असौ भोजः।’इन्द्रः प्राह— ‘कः असौ अवार्यरोगः ? किं भवतोः विदितः?’। ततः तौ ऊचतुः— ‘देव! कपालशोधने कृते भोजेन तदा प्रविष्टः पाठीनः, तन्मूलः अयं रोगः’इति। तदा इन्द्रः स्मयमान–मुखः प्राह— ‘तत् इदानीम् एव युवाभ्यां गन्तव्यम्, नोचेत् इतः परं भूलोके भिषक्–शास्त्रस्य असिद्धिः भवेत्।’

** ततः सुरेन्द्रादेशेन तौ उभौ अपि धृत–द्विज–वेषौ धारानगरं प्राप्य द्वारस्थं प्राहतुः— ‘भोः द्वारस्थ! आवां भिषजौ काशीदेशात् आगतौ इति अीभोजाय विज्ञापय। यतः तेन ‘अनृतम्’इति अङ्गीकृतं वैद्यशास्त्रम्— इति श्रुत्वा तत्प्रतिष्ठापनाय तद्रोग–निवारणाय च समागतौ‘ इति। ततः द्वारस्थः प्राह— ‘भो विप्रौ! न कश्चित् अपि भिषक्प्रवरः प्रवेष्टव्यः’इति राज्ञा उक्तम् अस्ति। राजा तु केवलम् अस्वस्थः, तत् न अयम् अवसरः विज्ञापनस्य’इति। तस्मिन् क्षणे कार्यवशात् बहिः निर्गतः बुद्धिसागरः तौ दृष्ट्वा ‘कौ भवन्तौ ?’इति अपृच्छत्। ततः तौ यथागतम् ऊचतुः। बुद्धिसागरेण तौ राज्ञः समीपं नीतौ।**

** अथ राजा तौ अवलोक्य मुख-श्रिया ‘अमानुषौ’इति बुद्ध्वा ‘आभ्यां शक्यते अयं रोगः निवारयितुम्’इति निश्चित्य तौ बहु मानितवान्। ततः तौ ऊचतुः— राजन्! न भेतव्यम्, रोगः निर्गतः, किन्तु कुत्रचित् एकान्ते त्वया भवितव्यम्’इति। ततः राज्ञा अपि तथा कृतम्। अथ तौ अपि राजानं मोहचूर्णेन**

मोहयित्वा शिरःकपालम् आदाय तत्र स्थितं शफर–कुलं गृहीत्वा कस्मिंश्चित् भाजने निक्षिप्य संधान–कारिण्या कपालं यथावत् आरचय्य संजीविन्या च तं जीवयित्वा तस्मै तत् अदर्शयताम्। तदा तत् दृष्ट्वा राजा विस्मितः ‘किम् एतत्’इति तौ पृष्टवान्। तदा तौ ऊचतुः—‘राजन्! त्वया कपाल–शोधनतः संप्राप्तम्’इति। ततः राजा तौ अश्विनौ मत्वा निश्चेतुम् अपृच्छत्—‘किम् अस्माकं पथ्यम्?’इति। ततः तौ ऊचतुः—

अशीतेनाम्भसा स्नानम्, पयःपानम्, परिश्रमः।
एतद् वो मानुषाः ! पथ्यम्’, . … … … ..

** अत्रान्तरे राजा ‘मध्ये मानुषाः!’इति सम्बोधनं श्रुत्वा ‘वयं चेत् मानुषाः, कौ युवाम्?’इति तयोः हस्तौ झटिति स्वहस्ताभ्याम् अग्रहीत्। ततः तत्क्षणे एव तौ अन्तरधत्तां ब्रुवन्तौ एव—‘कालिदासेन पूरणीयं तुरीय–चरणम्’ इति।**

** ततः राजा विस्मितः सर्वान्आहूय तत् वृत्तम् अब्रवीत्। तत् श्रुत्वा सर्वे अपि चमत्कृताः विस्मिताः च बभूवुः। कालिदासेन च तुरीयं चरणं पूरितम्—**

.. …. …… ‘स्निग्धमुष्णं च भोजनम्।’

** ततः भोजः अपि कालिदासं लीलामानुषं मत्वा परं सम्मानितवान्। भोजनृपालः अपि प्रतिदिनं संजात-बलकान्तिः ववृधे धाराधीशः कृष्णेतर–पक्षे चन्द्र इव।**

अभ्यासः

(१) इस कथा का संक्षेप लिखो।

(२) विग्रह करके समासो के नाम बतलाओ।

शोकसागर-निमग्नम्, अश्रुनयनाः, कपालशोधने, भूलोके, धृतद्विजवेषौ, लीलामानुषम्।

(३) रिक्त स्थानों की पूर्ति करो—

मुने। इदानी … राजन्। न भेतव्यम्… तदा तत् दृष्ट्वा राजा विस्मितः… कालिदासेन पूरणीयं….. एतत् वो मानुषाः ! पथ्यम्…….

(४) सन्धि करो—

केन+अपि, नितराम्+अव्यवस्थे, अस्मद्+विषये, तत्+श्रुत्वा, तत्+ अनेन, ततः+तौ।

युद्धवीरकथा
(१)

कातर शूरतां याति क्रियावानलसो भवेत्।
युद्धवीरकथां श्रुत्वा जयमाप्नोति साम्प्रतम्॥१॥

आसीन् मिथिलायां नान्यदेवनाम्नो राज्ञः पुत्रो मल्लदेवनामधेयः कुमारः। स चिन्तयामास—‘देव यदह युवराजोऽपि पितुरुपार्जितराज्ये सुखमनुभवामीति न मम पौरुषम्।’

सिंहःसत्पुरुषाश्चैव निजदर्पोपजीविनः।
पराश्रयेण जीवन्ति कातराःशिशवः स्त्रियः॥२॥

ततः क्वापि भुजबलेन पौरुषमर्जयामीति परामृश्य स कुमारः कान्यकुब्जं नाम जनपदं जगाम। तत्र च श्रीचन्द्रदत्तनाम्नो राज्ञः काशीश्वरस्य सभां प्राप्तः। राजा तच्छौर्य्याकृष्टः तमात्मसहचरमकरोत्। कुमारोऽपि तत्सेवायां प्रवृत्तः।

** अथ काले याते तेनालोचितम्—‘यन्नृपतिस्तं न पूर्ववद् आदरदृष्ट्या अवलोकयति।’**

** एवमवधार्य तेनैकदा महाराज उक्तः—‘देव! भवतः प्रभुधर्म श्रुत्वाऽहमिहागतोऽस्मि, साम्प्रतमन्यत्र यास्यामि।’**

** राजोवाच—‘कुमार! किं तवोद्वेगे कारणं येनान्यत्र यासि?’**

** मल्लदेव उवाच— ‘देव! भवतः समादरः क्रमेण शिथिलो भवति— इत्याशंक्याहमितोऽन्यत्र गच्छामि।’**

** राजोवाच—‘कथमवगतमिदम्?’**

** कुमार उवाच—‘शौर्यमूलको मादृशा समादरो भवति, शौर्यन्तु वाग्युद्धेन केवलं ख्यापयितुमशक्यम्। अद्य युद्धं तु भवतो राज्ये न दृश्यते।’**

** राजोवाच ‘आसमुद्र–कर–ग्राहिणो मम युद्धे परिपन्थी कोऽपि नास्ति, तत्केन समं युद्धं भविष्यति?’**

** कुमार उवाच—‘देव! राज्यस्य फलं विजय–सुखम्। विना युद्धेन कुतो विजयः कुतो वा सुखम्! यदि देवो मन्यते तदाहमितो गच्छामि। यस्य च राज्यमह गमिष्यामि स एव देवस्य युद्धपरिपन्थी भविष्यति।**

** राजा सक्रोधमाह—‘रे कुमार! कस्त्व कुमारः! केन वा दर्पेणैवं भाषसे? गच्छ तावद् यत्र गच्छसि। यत्र त्वं यास्यसि तत्रैवाहं प्रयाणं करिष्यामि।’**

** मल्लदेव उवाच—‘अयमहं गच्छामि।’**

(२)

** ततः कुमारः चीत्कारनाम्नो राज्ञो राज्यं जगाम। ततस्तं तत्रगतं श्रुत्वा काशीश्वरस्तुरग–बल–सहितः चीत्कार–देशम् आक्रान्तवान्।**

** कियतापि कालेन तं सन्निधानमागतं श्रुत्वा चीत्कारः स्वमन्त्रिभिः समं मन्त्रयामास। मन्त्रिण ऊचुः— ‘देव! भवतः परिमितबलस्य तेन महाबलेन युद्धं नोचितम्। तदिदानीं पलायनेनात्मरक्षरणमेवोचितम्।’**

** ततः पलायितुमुद्यतं चोत्कारराज दृष्ट्वा मल्लदेवोऽब्रवीत्— ‘राजन्, किमिति पलायसे? भवन्तमुद्दिश्य काशीश्वरोन कदाप्यागतो नवाग्रेऽप्यागमिष्यति। भवता न भेतव्यम्।’**

** चीत्कार उवाच— किं तन्निमित्तम्?’**

** मल्लदेवो पूर्वकथां कथयामास।**

** चीत्कारोऽवदत्— ‘तर्हि किमुचितम्?’**

** मल्लदेवोऽनवीत्— ‘स यतो मामेवोद्दिश्य समायाति ततो भवता न पलायितव्यम्। किं च मयैकेन समं बहूनां तत्सुभटानां संग्रामे कुतूहलं द्रष्टव्यम्।’**

** चीत्कार उवाच—‘कुमार! तेन महाराजेनानन्तबलेन समम् एकाकिनस्तव न समुचितं युद्धम्। रीतिविरुद्धमेतत्।’**

** कुमार उवाच—‘शूरः स्वकर्मणि परामर्श न सहते।’**

** चीत्कार उवाच—‘कुमार! अविमृश्यकारिणः विपदं लभन्ते !’**

** कुमार उवाच—‘देव, अलममुना विवादेन।**

स्वयं करिष्ये यत् कर्म भोक्ष्येतस्य स्वयं फलम्।
स्वापराधविपन्नां विपत्तिः केन शोच्यते॥२॥

चीत्कार उवाच—

‘युक्तं तुल्यबलं युद्धं यत्रास्ति जयसंशयः।
प्रबलेऽरिवले वह्नौ के पतन्ति पतङ्गवत्’॥३॥

कुमार उवाच—

‘प्राण–त्राणाय संग्रामात् पलायन्ते हि ये नराः।
मृत्युरावश्यकस्तेषां कार्पण्यमतिरिच्यते’॥४॥

** चीत्कार उवाच—‘कुमार, भवान् महावीरः, काशीश्वरो महाराजस्ततो युवयोः संग्रामोऽस्माभिः श्रोतुमपि न शक्यते, कि पुनर्द्रष्टुम्।’**

** कुमार उवाच—‘यदि भवतो युद्धस्य दर्शनमप्यनभिमतं तदा भवान् गच्छतु क्वापि यमपुरुषानिरीक्ष्यमाणं स्थानम्, गत्वा च भवत्वमरः। मया शून्यस्यापि भवतो नगरस्यावेक्षा कर्तव्या।’**

( ३ )

** चीत्कारःनगरात् पलायितः। तदग्रिम–प्रभातेऽसंख्य–बल–सहितो महाराजो जयचन्द्रस्तन्नगर–सन्निधानमाजगाम। मल्लदेवः तमागतं ज्ञात्वा परिगृहीतास्त्रः गजारूढः पुरो गत्वा राजानं ददर्श।**

** राजोवाच—‘कस्त्वं रे कुञ्जरारूढ! संधानार्थिनश्चीत्कारस्य दूतो वा युद्धार्थिनो मल्लदेवस्य वा?’**

** मल्लदेव उवाच—‘देव, नहि दूतो, न संधानार्थी, किन्तु तव प्रतियुद्धार्थी मल्लदेवोऽस्मि!’**

** राजा विहस्याह—‘भद्र, मम प्रतिमल्लता सिद्धैव। त्वमिदानीमनुसर माम्।**

** मल्लदेव उवाच—‘त्वमेव कि न मामनुसरसि? संप्रति त्वं तुरगारूढोऽसि, अहं गजारूढोऽस्मि। त्वमप्यस्त्राणि धारयसि,**

** अहमप्यस्त्राणि धारयामि। तदिदानींप्रहारसमये क्व वचनवैचित्र्यावकाशः।’**

** राजा साश्चर्य सैनिकान् आह—‘रे रे सुभटाः! मल्लदेवं धृत्वा मे दत्त।’ते च सर्वे तमाक्राम्यन्।**

** ततो निरोद्धुकामान् परितो भटान् बहून् मल्लदेवः खङ्गप्रहारैर्यमसदनं प्रहितवान्।**

** तेन विनिहतान् निज–प्रिय–सुभटान् भूमौ पतितान् दृष्ट्वा जयचन्द्रः सैनिकानादिदेश— ‘रे वीराः, यद्येनं मुमूर्षुमवरोद्धुंन शक्नुथ तदा शरासारैः स्नपयत।’ ततस्तां प्रभोराज्ञामासाद्य सुभटास्तं मल्लदेवं युगपदेव शरासारैरभ्यषिञ्चन्। शर–शकलित–शरीरः स कुञ्जराद् भूमौ पपात।**

अशीति–वर्ष–देशीयश्चीत्कारःप्रपलायितः।
षोडशाब्दः कुमारस्तु सम्मुखः पतितो रणे॥५॥

** तं च संग्राम–भूमौ पतितं दृष्ट्वा राजोवाच— ‘कुमार! जीविष्यसि?’**

** मल्लदेवः—‘आवयोः केन जितं युद्धम्?’**

** राजोवाच—‘भवता जितम्।’**

** मल्लदेवोऽवदत्— ‘कथमिदानीमवधाररणीयम्।’**

राजोवाच—

‘अस्माभिः कृतसंग्रामो यदेको बहुभिर्हतः।
जिगीषसि तथाप्यस्मान् कथं न विजयी भवान्’॥६॥

** ततस्तेन राज्ञः प्रशंसावचनेन पुलकितगात्रो मल्लदेवोऽब्रवीत्— ‘देव! जीविष्यामि।’**

** तदनन्तरं तच्छौर्यपरितुष्टेन जयचन्द्रेण राज्ञा स कुमारःशरान् उद्धृत्य स्वस्थानं नीतः पुत्रप्रेम्णा परिपाल्य, क्षतेषु निर्वाणषु, प्रतिनिधिः कृतश्च।**

अभ्यासः

(१) मल्लदेव विजेता क्यो माना गया? काशीश्वर से अनबन होने पर मल्लदेव कहाँ गया? उसने वहाँ जाकर क्या किया?

(२) नीचे लिखे शब्दो का अर्थ लिखकर उन्हें अपने वाक्यों में प्रयुक्त करो—

क्रियावान्, पराश्रयेण तवोद्वेगे, परिपन्थी, परिमितबलस्य, पलायनेन, कार्पण्यम्, अखिले।

(३) नीचे लिखे शब्दों के सब विभक्तियों और वचनो मे रूप लिखो—

शूरता, अस्मद्, दर्प, भवत्, एक, कर्मन्, किम् (पु०)।

(४) समस्तपदो का विग्रह करते हुए समासो का नाम निर्देश करो—

युद्धवीर–कथाम्, पराश्रयेण युद्धपरिपन्थी, महाबलेन, आत्मरक्षणम्,यम–पुरुषानिरीक्ष्यमाणम्, शौर्य–परितुष्टेन।

(५) समस्तपद बनाओ—

काशीश्वरस्य सभाम्, राज्यस्य फलम्, सुभटाना सग्रामे, नगरस्यावेक्षा, प्रभोराज्ञाम्, बहुभिर्हतः।

(६) उपसर्ग और प्रत्यय पृथक् पृथक करके लिखो—

आसमुद्रकरग्राहिणः, प्रयाणम् आक्रान्तवान्, उद्दिश्य, परिगृहीतास्त्राः,सधानार्थिनः।

कविसम्राट् कालिदासः

** संस्कृतम् अधीयानाः सर्वे एव कालिदासस्य नाम जानन्ति। एतस्य खलु महाभागस्य अद्भुता कल्पनाशक्तिः, सर्वतोमुखी प्रतिभा, उत्कृष्टं नाटकनिर्माण**–कौशलं चासीत्। कथ्यते

यत् असौ साक्षात् वाग्देव्या अवतारोऽभूत् अत एव प्राचीनकालात् स कविशिरोमणिः, ‘कवि–कुलगुरुः’इत्यादिभिः विविधविरुदैर्भूषितो भूत्वा सर्वेषाम् एव विदुषाम् आदरपात्रम् अभूत्, तस्य ग्रन्थानाम् अनुवादं पठित्वा काव्यामृतरसेन आनन्दमुग्धाः पाश्चात्त्य–विद्वांसोऽपि तम् ‘भारतस्य शेक्सपीयरः’इति पदव्या सम्मानयन्ति। जर्मनदेशस्य प्रसिद्ध–कविः गेटे–महोदयस्तु कालिदासस्य शकुन्तला–नाटकं पठित्वा एवम् आनन्दविह्वलो जातः, यत् स सर्वान् एव संसारस्य मानवान् समबोधयत्—‘भो मानवाः! यदि यूयं यथार्थ मनसो रसायनम्, सन्तर्पणम्, मोहनम्, भूलोक–स्वर्लोकयोः एकीभूतम् अद्भुतम् ऐश्वर्य च वाञ्छ्थ, तर्हि कालिदासस्य शाकुन्तलं सेव्यताम्”इति।

** कालिदासेन बहवो ग्रन्था रचिताः, ये इदानी परमप्रसिद्धिं गताः। ‘कुमारसम्भवम्’, ‘रघुवंशम्’इति द्वे महाकाव्ये; ऋतुसंहारः, मेघदूतम् इति द्वे गीतिकाव्ये; ‘मालविकाग्निमित्रम्’, ‘विक्रमोर्वशीयम्’, ‘अभिज्ञानशाकुन्तलम्’ एतानि त्रीणि नाटकानि च सन्ति। एतेषु सर्वेषु ग्रन्थेषु अस्माकं कलाकारःमानवस्वभावस्य, विशेषतः भारतीयादर्शजीवनस्य परममनोरमं चित्रणम् अकरोत्।**

** ‘कालिदासः कदा कुत्र च जन्म लेभे’इत्यादि–विषयेषु विद्वांसो नैकमताः सन्ति। एष खलु कविसम्राट् एवं निरभिमानोऽभूत् यत् तेन स्वग्रन्थेषु स्वव्यक्तिगत–जीवनविषये स्वयं कुत्रापि किमपि वृत्तं संकेतो वा न दत्तः। एतस्य ग्रन्थेभ्यः केवलम् इदम् एव उपलभामहे यत् असौ कस्यापि विक्रमादित्य-**

भूपतेः राजसभायाः कविः आसीत्। एष विक्रमादित्यः कः?’ इत्यत्रापि विद्वांसो विविधं विवदन्ते।

** कालिदासस्य जीवन–वृत्तम् अधिकृत्य सर्वत्र प्रचलिता दन्तकथा एवम् अस्ति—**

** कालिदासः प्रथमं महामूर्खोऽभूत्। तस्य विद्योत्तमा–नाम्न्याएकया राजकन्यया सह एवं विवाहः संजातः। विद्योत्तमा परम–विदुषी आसीत्। तया सर्वत्र राज्ये एतत् घोषितम्— ‘योमां शास्त्रविवादे पराजेष्यते, तेनैव सह अहं विवाहं करिष्ये”इति। तच्छ्रुत्वा विवाहाभिलाषिणः अनेके राजपुत्राः विद्वांसश्च समागताः, किन्तु सा तान् सर्वान् शास्त्रार्थेषु पराजितान् अकरोत्। ततः अपमान–लज्जितैः विद्वद्भिः मन्त्रिभिश्च तत्प्रतीकाराय तथा अध्यवसितम् यथा विद्योत्तमायाः केनापि वज्रमूर्खेण सह विवाहः सम्पन्नः स्यात्। ततः तदन्वेषणाय तैः दिक्षु दूताः प्रेषिताः।**

** अथ महामूर्खान्वेषणाय गता दूताः क्वचित् वने वृक्षस्य शाखाया उपरितने भागे स्वयं स्थित्वा अधस्तात् तां कुठारेणछिन्दन्तं कमपि पुरुषम् अपश्यन्। “एष खलु परमो मूर्खः, य एतावत् अपि न जानाति यत् अधस्तात् छिन्नया शाखया सह अहमपि भूमौ पतिष्यामि’ इति निश्चित्य ते तं सम्बोध्य, “राजपुत्र्या सह तव विवाहं करिष्यामो वयम्”इति प्रलोभ्य च नगरम् आनिन्युः। ततः स्नात्वा शुचिर्भूतः कृतपण्डितोचितवेषश्च स पण्डितैः उक्तः— ‘भो पण्डितायमान! त्वं राजसभायां मौनी एव तिष्ठ।’ततस्तं राजभवने नीत्वा राजकुमारी अपि तैः एवं बोधिता यत् “असौ महापण्डितः एतेषु दिवसेषु मौनव्रत चरति’**

इति। अथ सभायां मूर्खम् अभिलक्ष्य विद्योत्तमा एकाम् अंगुलीम् उत्थाप्य स्वाभिप्रायम् प्राकटयत् यत् ‘जगति केवलम् ईश्वर एव एकं तत्त्वम्’इति। मूर्खस्तु तत्संकेतेन ‘एषा ममैकं चक्षुः स्फोटयितुम्इच्छति”इति ज्ञात्वा कुपितः सन् ‘अहं तव द्वे एव चक्षुषी स्फोटयिष्यामि”इत्यभिप्रायेण अङ्गुलीद्वयम् उत्थापयामास। पण्डितास्तु विद्योत्तमाया अग्रे मूर्खकृतसंकेतस्य एवं व्याख्याम् अकुर्वन् यत् “केवलम् ईश्वर एव न अपितु ईश्वरः प्रकृतिश्चेति द्वे तत्त्वे स्तः”इति। सन्तुष्टा विद्योत्तमा पुनः अंगुलीत्रयम् उत्थाप्य एतत् अभिप्रेतवती यत् “प्रकृति–स्त्रिगुणात्मिका” इति। मूर्खस्तु तत्संकेतस्य ‘अहम् अंगुलीप्रहारं करिष्यामि इति तात्पर्यं बुद्ध्वा ‘अहं चपेटं दास्यामि’ इत्यभिप्रायेण पञ्चैव अंगुलीः उत्थाप्य चपेटमुद्राम् अदर्शयत्। विद्योत्तमया च एवं ज्ञातम् यत् ‘त्रिभिः गुणैः न, अपि तु पञ्चभिः तत्त्वैः पृथिवी-जल-तेजो वाय्वाकाशैः सृष्टिः जाता’ इति, पुनश्च स्वयमपि पञ्चैव अंगुल्यो दर्शिताः। मूर्खेण तु “असौ चपेटस्य बिभीषिकां ददाति” इति ज्ञात्वा मुष्टिः बद्धा यत् अहं चपेटस्य स्थाने मुष्टि-प्रहारं करिष्यामि” इति। राजकुमारी ज्ञातवती—“पञ्चेन्द्रियाणां मुष्टौ बन्धनेन अर्थात् संयमेन एव मानवः यथार्थरूपेण मानवतां लभते, अन्यथा पशुः एव” इति। अथ वराकी राजपुत्री आत्मानं पराजितां मत्वा निजघोषणानुसारेण मूर्खेण सह पारिण-ग्रहणम् अकरोत्।

** अथ रात्रौएकान्तस्थितयोः दम्पत्योः कुतश्चित् कोऽपि शब्दः कर्णयोः अपतत्। किमपि भीता विद्योत्तमा स्वपति-**

माह— “कस्य अयं शब्दः?” इति। मूर्खो बहिर्गत्वा, नातिदूरे उष्ट्रं दृष्ट्वा निवृत्य च स्खलद्–वाचा प्रोवाच— “ऊ . ऊ .ऊ ट्ट् रः रौ रौ. ति” इति। तच्छ्रुत्वा। राजकुमारी— “अहो! एष मे पतिस्तु वज्रमूर्खः, यः ‘उष्टः रौति’इति सम्यक् उच्चारयितुम् अपि न शक्नोति। नूनं पण्डितानाम् एष महाकूटः, यत एतेन निरक्षर–भट्टाचार्येण सह मम विवाहो जातः” इति कुपिता सती अर्धचन्द्रं दत्त्वा स्वपित तदानीम् एव गृहात् निष्कासितवती।

** अथ पत्नीतोऽपमानं प्राप्य मूर्खः परमदुःखितोऽभूत्। ‘इदानीं कथं मया अस्यापमानस्य प्रतिकारः कर्तव्यः’इति चिन्तयन् स वाराणसी गतः। तत्र च महता परिश्रमेण श्रद्धया च विविधा विद्या अध्येतुम् आरेभे। समये समये च स कालीस्वरूपायाः भगवत्याः सरस्वत्या मन्दिरे गत्वा उपासनाम् अपि करोति स्म। एतस्मात् एव कारणात् पश्चात् स ‘कालिदास’ इति नाम्ना प्रथितोऽभूत्। कियता कालेन असौ सर्वा विद्या अधीतवान् पश्चात् च महाविद्वान् भूत्वा पुनः स्वपत्न्या विद्योत्तमायाः पार्श्वे जगाम। गृहे द्वारम् आवृत–कपाटं दृष्ट्वा खट्–खटात्–कृत्य उच्चैः उवाच— “प्रियतमे! अनावृतकपाटं द्वारं देहि” इति। तच्छ्रुत्वा विद्योत्तमा परमविस्मिता ‘अस्ति कश्चिद् वाग्विशेषः’इत्युक्त्वा कपाटम् उद्घाट्य पतिं गृहाभ्यन्तरे निनाय तस्य वैदुष्येण च परम–प्रीता जीवनशेषं तेनैव सह अत्यवायत्।**

** अथ कालिदासः स्वपत्न्याः— ‘अस्ति कश्चिद् वाग्विशेषः’**

इति त्रिपदात्मक–वाक्यस्य प्रत्येकं पदमादाय त्रीणि काव्यानि रचितवान् तद् यथा— ‘अस्ति’–पदेन ‘अस्त्युत्तरस्यां दिशि देवतात्मा’इति कुमारसम्भवम्, ‘कश्चित्’–पदेन ‘कश्चित्कान्ताविरहगुरुणा’इति मेघदूतम् ‘वाग्विशेषः’इति पदेन च ‘वागर्थाविव संपृक्तौ’इति रघुवंशम् प्रारब्धम् इति।

** एषा दन्तकथा सत्या वा स्यात् मिथ्या वा स्यात्, इदन्तु सत्यमेव यत् परिश्रमेण दृढाध्यवसायेन च सर्वमेव भवितुं शक्नोति।**

अभ्यासः

(१) निम्नाङ्कितो मे विभक्ति और वचन छॉटो :—

बहवः, त्रीणि, विद्वांसः, एकया, चक्षुषी, अङ्गुलीः, एतेन, गृहात्, भगवत्याः कियता, वागर्थौ।

(२) सन्धि करो :—

महाभागस्य+अद्भुतः, जीवनवृत्तम्+अधिकृत्य, कविः+आसीत्, मौनी+एव, नत्+अहम्, राजपुत्री+आत्मानम्, विद्याम्+अव्येतुम्, पश्चात्+च।

(३) कालिदास कैसे महान् कवि हुआ, इसके सम्बन्ध मे अपने विचार प्रकटकरो।

(४) अस्ति कश्चिद् वाग्विशेषःः’ इस वाक्य की व्याख्या करो :—

(५) नीचे लिखे शब्दों के अर्थ लिखो :—

विविधविरुद्धैःआनन्दमुग्धाः, संकेतः, दन्तकथा, शुचिः, विभीषिका, मुष्टिप्रहारःप्रथितः, उद्घाट्य, वैदुष्येण, दृढाध्यवसायेन।

भोजकुमारस्य राज्यप्राप्तिः

** पुरा धाराराज्ये सिन्धुलसंज्ञो राजा चिरं प्रजाः पर्य्यपालयत्। वृद्धावस्थायां तस्य भोज इति पुत्रोऽजायत। स यदा पञ्चहायनः, तदा पिता ह्यात्मनो जरां विज्ञाय मुख्यामात्यानाहूय अनुजं मुञ्जं महाबलमालोक्य पुत्रञ्च बालं निरीक्ष्य विचारयामास—‘यद्यहं राजलक्ष्मीभारधारणसमर्थं सोदरं मुंजपमपहाय राज्यं पुत्राय प्रयच्छामि, तदा लोकापवादः। अथवा बालं मे पुत्रं मुञ्जो राज्यलोभाद् विषादिना मारयिष्यति, तदा दत्तमपि राज्यं वृथा। पुत्रहानिर्वशोच्छेदश्च।**

“मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम्।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम्”॥१॥

** इति विचार्य्यं राज्यं मुञ्जय दत्त्वा तदुत्सङ्गे भोजमात्मजं मुमोच।**

** ततःक्रमाद् राज्ञि परलोकं प्रस्थिते सम्प्राप्तराज्यसम्पत्तिर्मुञ्जो मुख्यामात्यं बुद्धिसागरनामानं व्यापार-व्याजेन दूरीकृत्य तत्पदेऽन्यं नियोजयामास। ततो गुरुभिः क्षितिपालपुत्रं पाठयति।**

** अथैकदा सभायां ज्योतिःशास्त्रे प्रवीणः सकलविद्यापारङ्गतः कश्चिद्ब्राह्मणः समागतः। राज्ञे ‘स्वस्ति’इत्युक्त्वोपविष्टः, राजानमवदच्च— ‘देव! लोकोऽयं मां सर्वज्ञं’ कथयति, तत् किमपि मां पृच्छतु भवान्।’राजाऽपि विप्रस्याहंभावमाकर्ण्य— ‘जन्मारभ्यैतत्क्षणपर्यन्तं यद्यन्मयाऽऽचरितं तत्सर्वं वदतु यदि भवान् सर्वज्ञ एव’इत्युवाच।**

** ततो ब्राह्मणोऽपि राज्ञा यद्यत्कृतं तत्सर्वमुवाच गूढ-व्यापार-**

मपि। ततः सभायामासीनो बुद्धिसागरो राजानं प्राह—‘देव, भोजस्य जन्म-पत्रिकां ब्राह्मणं पृच्छ’इति। तदाकर्ण्य मुञ्जो ब्राह्मणमुवाच—‘भोजस्य जन्मपत्रिकां विधेहि’इति।

** ततोऽसौ ब्राह्मणः प्रत्यभाषत— ‘अध्ययनशालाया भोज आनेतव्यः’इति।**

** मुञ्जोऽपि ततः कौतुकादध्ययनशालामलङ्कुर्वाणं भोजं भटैरानाययामास। ततः साक्षात् पितरमिव राजानं प्रणम्य सविनयं बालकस्तस्थौ।**

** मूर्तिमत्सौभाग्यमिव भोजं निरीक्ष्य राजानं प्राह दैवज्ञः— ‘राजन्! भोजस्य भाग्योदयं वक्तुं विरञ्चिरपि नालम्। तथापि कथयामि स्वमत्यनुसारम्। भोजमध्ययनशालां प्रेषय’इति। ततो राजादेशेन भोजेऽध्ययनशालां गते विप्रः प्राह—**

“पञ्चाशत् पञ्चवर्षाणि सप्तमासदिनत्रयम्।
भोजराजेन भोक्तव्यः सगौडोदक्षिणापथः”॥२॥ इति

** तदाकर्ण्य राजा विच्छाय वदनोऽभूत्। दैवज्ञं च सम्प्रेष्य निशीथे शयनमासाद्य व्यचिन्तयत्—‘यदि राजलक्ष्मीर्भोजकुमारं गमिष्यति, तदाहं जीवन्नपि मृतकल्पः।**

जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत्।
अतिपुष्टाङ्ग–युक्तोऽपि स पश्चात्तेन हन्यते॥३॥

** इति विमृश्य बङ्गदेशाधीश्वरस्य महाबलस्याकारणाय स्वमङ्गरक्षक प्राहिणोत्।**

** ततः रथमारुह्य समागतः सपरिवारः वत्सराजः रथादवतीर्य्य राजानमवलोक्य प्रणिपत्योपविष्टः। राजा चैकान्ते वत्स-**

राजं प्राह— “त्वया निशीथे भोजो भुवनेश्वरोविपिने हन्तव्यः, शिरश्चान्तःपुरमानेतव्यम्’इति। स चोत्थाय नृपं नत्वाह— ‘देवादेशः प्रमाणम्, तथापि भवदाज्ञया किमपि वक्तुकामोऽस्मि, सापराधमपि मे वचः क्षन्तव्यम्।

भोजे द्रव्यं न सेना वा परिवारो बलान्वितः।
परं पोत इवास्तेऽद्य स हन्तव्यः कथं प्रभो”॥४॥

** ततो राजा प्रातः सभायां प्रवृत्तं सर्वं वृत्तमकथयत्। स च श्रुत्वा हसन्नाह—**

“उचितमनुचितं वा कुर्वता कार्य्यजातं,
परिणतिरवधार्य्यायत्नतः पण्डितेन।
अतिरभसकृतानां कर्म्मणामाविपत्ते-
र्भवति हृदयदाही शल्यतुल्यो विपाकः॥२॥

** हतेऽस्मिन् बृहद्बलस्य राज्ञः सिन्धुलस्य ये परमसुहृदो महावीरास्ते त्वन्नगरमुल्लोलकल्लोलाः पयोधय इव प्लावयिष्यन्ति। चिराद् बद्धमूलेऽपि त्वयि प्रायः पौरा भोजं भुवो भर्तारं भावयन्ति। देव! पुत्रवधः क्वापि न हिताय”इत्युक्तं वत्सराजवचनमाकर्ण्य राजा कुपितः प्राह—“त्वमेव राज्याधिपो न तु सेवकः?” इति।**

** ततो वत्सराजः ‘साम्प्रतं मौनाश्रयणमेवोचितम्’इति मत्वा तूष्णीं बभूव।**

** ततः स्वसेवकान् स्वागारपरित्राणार्थं सम्प्रेष्य रथं भुवनेश्वरी–भवनाभिमुखं विधाय भोजकुमाराकारणाय प्राहिणोदेकं वत्सराजः।**

** सेवकाद् विदितवृत्तान्तो भोजः कुपितो ज्वलन्निव शोणितेक्षणः समेत्य प्राह— ‘आः पाप! राज्ञो मुख्य–कुमारमेकाकिनं मां राजभवनाद् बहिरानेतुं तव का नाम शक्तिः’इति।**

** वत्सराजः प्राह— ‘भोज! न वयमपराधिनः। राजादेश एवात्र कारणम्’इत्यभिधाय बालं रथे निवेश्य जगामाशु महामाया–भवनम्। ततो वधार्थ नीते भोजे लोकाः कोलाहलं चक्रुः। हुंभावश्च प्रवृत्तः।**

** ततः सावित्री–सज्ञा भोजस्य जननी विश्वजननीव स्थिता दासी–मुखात् स्वपुत्र–स्थितिमाकर्ण्य कराभ्यां नेत्रे पिधाय रुदती प्राह— ‘पुत्र! निरनुक्रोशेन पितृव्येन कां दशां नीतोऽसि? ये मया नियमा उपवासाश्च त्वत्कृते कृताः तेऽद्य मे व्यर्थतामवाप्ताः। पुत्र! एनं दासीवर्ग सहसा विच्छिन्न–शिरसं पश्य’इत्युक्त्वा भूमावपतत्।**

** ततोऽस्तङ्गते सूर्य्ये महामाया–भवनमासाद्य प्राह भोजं वत्सराजः— ‘कुमार! ज्योतिःशास्त्रज्ञेन केनचिद्विदुषा तव राज्यप्राप्तावुदीरितायां राज्ञा भवद्वधो व्यादिष्टः’इति।**

** वत्सराजतोऽभिज्ञाय सर्व भोजः प्राह—**

‘रामप्रव्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं,
वृष्णीनां निधनं नलस्य नृपतेः राज्यात् परिभ्रंशनम्।
कारागारनिषेवणञ्च मरणं सञ्चिन्त्य लङ्केश्वरे,
सर्वः कालवशेन नश्यति नरः को वा परित्रायते’॥६॥

** ततो जङ्घां छुरिकया छित्त्वा तद्रक्तेन पत्र एकस्मिन् कञ्चन श्लोकं लिखित्वा वत्सराजं प्राह—‘महाभाग! एतत् पत्रं नृपाय दातव्यम् त्वमपि राजाज्ञां विधेहि’इति।**

** ततो वत्सराजस्यानुजो भ्राता भोजस्य प्राणपरित्यागसमये दीप्यमान–मुख–श्रियमवलोक्य प्राह—**

‘तुल्यजातिवयोरूपान् हृतान् पश्यसि मृत्युना।
नहि तत्रास्ति ते त्रासः वज्रवद् हृदयं तव”॥७॥

** ततो वैराग्यमापन्नो वत्सराजः भोजं ‘क्षमस्व’इत्युक्त्वा तञ्च रथे निवेश्य गाढेऽन्धकारे गृहं नीतवान्। भूमि–गृहान्तरे निक्षिप्य भोजं ररक्ष च।**

** स्वयमपि कृत्रिमविद्याविद्भिः सकुण्डलं निमीलितनेत्रं भोजकुमार–मस्तकं कारयित्वा तच्चादाय राज–भवनं गत्वा राजानं नत्वा प्राह—‘श्रीमता यदादिष्ट तत् साधितम्’इति।**

** ततो राजा पुत्रवधं विज्ञाय तमाह—‘वत्सराज! प्राण–प्रयाण–समये पुत्रेण किं व्याहृतम्’इति।**

** वत्सराजस्तत्पत्रमदात्।राजा तानि पत्राक्षराणि वाचयति—**

‘मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः,
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः?
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते!
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति’॥८॥

** राजा च तदर्थं विज्ञाय शय्यातो भूमौ पपात। पुत्रघातिनमात्मानं बहुशो निनिन्द च।**

** ततो द्वारपालानाहूय पुत्र–वधप्रायश्चित्तविज्ञानार्थं धर्म्माचार्य्यानानेतुमादिदेश।**

** ततः स्वादेशेन समागतान् धर्माचार्य्यान् सत्कृत्य सादरं**

नृपः प्राह— ‘मया पुत्रो हतः, तस्य प्रायश्चित्तं ब्रूत’इति। पश्चात्तापं विदधानं ते तमूचुः— ‘राजन्! सहसा वह्निमाविश’इति।

** ततो रात्रावेव वह्निप्रवेशनं निश्चितवति राज्ञि ‘पुत्रं हत्वा पाप–भयाद् भीतो नृपो वह्निं प्रविशति’इति किंवदन्ती सर्वत्र प्रसरतामवाप्ता।**

** ततो राजमरणवार्तामाकर्ण्य वत्सराजो गृहमागत्य बुद्धिसागरं नत्वा शनैः तस्य कर्णे किमपि कथयित्वा निष्क्रान्तः।**

** ततो मुहूर्तेन कोऽपि विरचितप्रत्यग्र–जटा–कलापः कौशेयकौपीनः कापालिकः सभां समागतः।**

** तं निरीक्ष्य बुद्धिसागरः प्राह—‘योगीन्द्र! कुत अगम्यते? कुत्र ते निवेशश्च? कापालिके त्वयि यश्चमत्कारो कलाविशेष औषधविशेषो वास्ति तत् कथय’। इति। योगी प्राह—**

‘ग्रामे ग्रामे कुटी रम्या, निर्झरे निर्झरे जलम्।
भिक्षायां सुलभं चान्नं, विभवैः किं प्रयोजनम्॥९॥

** देव! अस्माकं नैको देशः सकल–भूमण्डलं भ्रमामः, गुरूपदेशे तिष्ठामः, निखिलं भुवनतलं करतलामलकवत् पश्यामः, नानाविध–रोग–ग्रस्तं विगत–सकल–व्याधिसञ्चयं कुर्मः’इति।**

** राजाऽपि श्रुतसकलवृत्तान्तः सभामागतः। कापालिकं दण्डवत् प्रणम्य ‘योगीन्द्र! महापापिना मया हतस्य पुत्रस्य प्राणदानेन मां रक्ष’इत्याह।**

** अथ कापालिकोऽपि ‘राजन्! मा भैषीः,पुत्रस्ते न मरिष्यति, शिवप्रसादेन गृहमेष्यति, परं श्माशानभूमौ बुद्धिसागरेण**

सह होमद्रव्याणि प्रेषय’इत्यवोचत्। ततो राज्ञि कापालिकेन यदुक्तं तत्सर्वं तथा कुर्वति बुद्धिसागरः गतः। रात्रौ गूढरूपेण भोजोऽपि तत्र नदीपुलिने नीतः। योगिना ‘भोजो जीवितः’ इति सर्वत्र प्रथा च समभूत्। ततो गजेन्द्रारूढो बन्दिभिः स्तूयमानो भोजराजो राजभवनमगात्।

** राजा च तमालिङ्ग्य रोदिति।**

** भोजोऽपि रुदन्तं मुञ्जं निवार्य्यास्तौषीत्। ततः संतुष्टो राजा निजसिंहासने भोजं निवेश्य छत्रचामराभ्यां भूषयित्वा राज्यं ददौ। निजपुत्रेभ्यः प्रत्येकमेकैकं ग्रामं दत्वा परमप्रेमास्पदं जयन्तं भोजनिकाशे निवेशयामास।**

** ततः परलोकपथिको मुञ्जो निजपट्टराज्ञीभिः सह तपोवनभूमिं गत्वा तपस्तेपे।**

** भोजभूपालश्च देवब्राह्मणप्रसादाद् राज्यं पालयामास। राज्ञो भोजस्य यशः सर्वत्र प्रसृतमासीत्। तदीयं राज्यञ्च सुखेन समृद्ध्या विद्यया च पूर्णमासीत्**

अभ्यासः

(१) मुञ्ज ने भोज को मारने की आज्ञा क्यों दी ? भोज की रक्षा कैसे हुई? कथा पढकर इन दोनो प्रश्नो का संगत उत्तर दो।

(२) रेखाकितो मे विग्रह दिखलाते हुए समास का नाम बतलाओ और जहाँ सन्धि नहीं हुई वहॉ सन्धि करो :—

वृद्वावस्थायाम्, सर्वज्ञः एव, भाग्योदयं वक्तु, रिपवः अपि, न अलम्, महावीराः ते, त्वत् नगरम्, उल्लोल-कल्लोला पयोधयः इव प्लावयिष्यन्ति।

(३) कृदन्त प्रत्यय छॉट कर, उनका नाम भी बतायो :—

आकर्ण्य, हन्तव्यः, हसन्, विधाय, आनेतुम्, आवाप्ताः, लिखित्वा, आदिष्टम्, विदधानम्, स्तूयमानः, प्रसृतम्।

(४) रिक्त स्थानो की पूर्ति करो :—

(१) तदाहं जीवन्नपि…..। (२) सिन्धुलाख्यो नृपः प्रजा …..। (३) मा भैषीः पुत्रस्ते न मरिष्यति’……। (४) भोजोऽपि रुदन्तं मुंजम्…..। (५) भिक्षाया सुलभं चान्नम्……।

विशाखोपाख्यानम्
( १ )

** आसीत् पृथुर्नाम राजा। स चैकदा सुलोचनया नाम प्रियया सह मृगया–दर्शन–कौतुकेन रथमारुह्य पुरान्निश्चक्राम। ततो वनं प्राप्य सर्वस्मिन् सैन्ये इतस्ततो मृगान्वेषणाय निर्गते, राजा मनुष्यबालकमेकं शुभलक्षणं दिव्याम्बरखण्डोपरि शयितं ददर्श। दृष्ट्वा च महिषीम् अभाषत—‘प्रिये, पश्याश्चर्यम्, कुतोऽत्रारण्ये सिंह–व्याकुले मनुष्य–बालक–प्रचारः?**

** देव्युवाच—‘पूर्णचन्द्रमिव सुमुखं बालकमिमं दृष्ट्वा मम हृदयं करुणार्द्र जायते। यदि प्रभोराज्ञा भवति तदेनं बालकं गृहीत्वा पुत्रप्रेम्णा परिपालयामि।**

** राजा सरोषमाह— ‘कथमेनम् अज्ञात–माता–पितृकं क्रोडे करिष्यसि? एवं कृते लोकनिन्दा दुर्निवारा। देव्युवाच—‘देव! पुरुषो निन्द्यो न भवति। तथा च—**

दशा विनिन्द्या पुरुषो न निन्द्यो
रत्नप्रसूः पुत्रगुणेन नारी।
न ज्ञायते कस्य ललाट पट्टे
विराजते किं लिखितं विधात्रा॥१॥

** न चोच्चकुलाद् अन्यत्र जातस्य कान्तिरीदृशी सम्भवति। स्वभावाद् आज्ञाभङ्गासहा एव राजानः, महिष्यश्च सौभाग्य–मद–गर्विता भवन्ति। ततः परस्परं कलहे सति राजा तां प्रति चुकोप। रथाच्चावतारयामास। सैन्यं चादिदेश—यः कश्चन मन्दभाग्यां नीचानुरागिणीम् एनाम् अनुसरिष्यति यं चैषानुयास्यति तस्याहं रिपोरिव शिरश्छेद विधास्यामि।**

( २ )

** ततः सकल–सैन्य–सहिते तस्मिन् भूपाले परावृत्य दूरं गते, सा राज्ञी तं बालकं शयनीयवस्त्रसमेतं क्रोडे कृत्वा स्वभूषणान्यवतार्य काञ्चित् दिशमुद्दिश्य चलितवती। अनतिदूरमेव सा ब्रह्मपुरं प्राप्य तत्र चैका करुणावती धार्मिकस्वभावां ब्राह्मणी दृष्ट्वा प्रणम्योवाच—‘भगवति! दरिद्रवधूरहं सपत्न्या खेदिता त्वामाश्रित्य जीवितुम् इच्छामि।’**

** ब्राह्मण्युवाच—‘न त्वं दरिद्रवधूः, किन्तु लक्षणैःराजपत्नी प्रतीयसे।**

** ततस्ताम् आश्रित्य तं बालकं पुपोष, यथाविधि विशाख इति च नाम चकार। विशाखस्तु तया पोष्यमाणः क्रमेण यौवनदशां प्राप। स चैकदा देवीं पप्रच्छ—मातः! किं मम पितुर्नाम!’**

देव्युवाच—‘नाहं जानामि।’

** विशाखोऽब्रवीत्— त्वं मम माता, त्वमपि मम पितुर्नाम न जानासि तदा सार्थनामैवाह विशाखः। किं करिष्याम्यविज्ञातपितृकः? किमर्थमहं जीविष्यामि? यतः पुत्रे जाते पिता**

नन्दति, मम जाते को नन्देत्? पुत्रो जातः पितरं तर्पयति, अहं जातः कं तर्पयामि? तदफलं मम जीवितम्’ इति विलपन् मुक्तकण्ठं रुरोद।

तम् रुदन्तमवलोक्य करुणार्द्र-हृदया महिषी सर्वपूर्ववृत्तान्तम् कथयामास। उवाच च— ‘पुत्र! अयं मम वृत्तान्तः।’

विशाख उवाच— ‘मातः! कथमहमेव तव दुर्दशायाः कारणम्? महती प्रत्याशा तव विद्यते मयि। तदिमांस्त्यागार्हानपि प्राणान् न परित्यक्ष्यामि। तव प्रत्याशापूरणाय जीविष्यामि। तन्निरूपयामि कुतो मम जन्म।

(३)

ततस्तया देव्या नीयमानस्तत्र गत्वा तदरण्यं सकलं बभ्राम। भ्रमंश्च तत्र सरोवरोपकण्ठे सुखासीनं तपःशीलनामानमृषिं ददर्श। तमुपगम्य प्रणम्य च कुमारः तं स्वप्राप्तिवृत्तं कथयामास।

ऋषिरुवाच — ‘कुमार! यदि तत्समय-शयनीय-वस्त्र-खण्डंत्वया प्राप्यते, तदा तव पिता माता च ज्ञायते।’

ततो देव्याः सकाशादानीय तद् वस्त्रखण्डं दर्शितवान्। उभे अपि निरूप्यमाणे एकस्यैव वस्त्रस्य खण्डे निश्चित्य मुनिः सलज्जम् अवोचत् — ‘शृणु कुमार! वृत्तान्तम्। मया महत् तपः कर्तुप्रारब्धम्। तेन तपसा शक्रः शङ्काकुलितो बभूव —यदयम् ऐन्द्रपदं ग्रहीष्यतीति। ततो मम तपोभङ्गनिमित्तं तिलोत्तमानाम्नींविद्याधरीप्रस्थापयामास। त्वं च तस्यां मम पुत्रः। तिलोत्तमा मम तपोभङ्गेन कृतार्था स्वीय-परिधान-वस्त्रं

द्विधा कृत्वा प्रत्यभिज्ञानार्थम् अर्धम् इदं मह्यं दत्तवती। द्वितीयमर्धम् इदं शय्यां कृत्वा तत्र च त्वां शाययित्वा वस्त्रान्तरं परिधाय स्वर्गं जगाम।’

कुमारस्तु श्रुत्वेमं वृत्तान्तं देवकन्याया मुनेश्च पुत्रोऽहमिति परमहर्षितो बभूव।

मुनिरपि तुष्टस्तस्मै वरं ददौ — ‘त्वं प्रतिभया प्रगल्भो भव, यत् करिष्यसि तत्सर्वेऽङ्गीकरिष्यन्ति इति।’

वरमेतम् आसाद्य तेनैव पथा सुलोचनया सह पृथोर्नगरम् आजगाम। तत्र स कस्यापि गृहे सुलोचनां गुप्ताम् अवस्थाप्य स्वयं सेवकभूषया राजानमुपगम्य तस्य सेवापरायणो बभूव। क्रमेण स स्वप्रतिभावशात् पृथोः प्रतिहारो बभूव। प्रतिहारपदव्यां वर्तमानः प्रभावेणोपकारेण, दानेन च सकलमपि राज्य-सुभट-चक्रं वशमानीय सुलोचनां बभाषे — ‘मातः! कथय किं मनोरथं ते करवाणि?’

देव्युवाच— ‘पुत्र! यदि शक्नोषि तदा पृथुराजं शृङ्खलाभिः संयम्य मे देहि।’

विशाल उवाच — ‘मम लीलासाध्यम् एवेदं कर्म।’

(४)

ततः प्रभाते त्रिचतुरैः निजानुरक्तैःपुरुषैः शृङ्खलाहस्तैः सह खड्गहस्तः पृथोः सभावसरे सर्वान् प्रत्याह— ‘रे रे सभासदः! वः सर्वान् विज्ञापयामि— सर्वे यूयं मया सह कृतसन्धाना एव। युष्माकम् एक एव पुरुषो न हितः, स चात्मानं परिचिनोत्येव। स यदि हस्तपादं चालयिष्यति तदा

मयानेन खड्गेनाविलम्बितमेव हन्तव्यः। साम्प्रतमहं राजानं बध्नामि। ततः शृङ्खलया राजानं संयम्य सिंहासनाद् अवतारयामास। सभासदस्तु स्वस्वातिरिक्तान् परस्परं कृतसन्धानान् अवगत्य केऽपि शस्त्राणि न व्यापारयामासुः। वस्तुतस्तु सर्वेऽकृतसन्धाना एव। एवं विशाखो राजा बभूव।’

तदनन्तरं संयतं पृथुं स सुलोचनायाः पुरो निनाय। तं दृष्ट्वा परमहृष्टा सुलोचनोवाच —‘कच्चिन्मां परिचिनोति देवः?’

राजोवाच —‘परिचिनोमि त्वां निजपत्नीम्।’

सुलोचनोवाच —‘विशाखः परिचीयते देवेन?’

राजोवाच —‘विशाखं नैव जानामि।’

देव्युवाच —‘यमुद्दिश्य पठितम् —

दशा विनिन्द्या पुरुषो न निन्द्यो
रत्नप्रसूः पुत्रगुणेन नारी।
न ज्ञायते कस्य ललाटपट्टे
विराजते किलिखितं विधात्रा॥

स एवायं शिशुरिदानीमेतावती पुरुषतां प्राप्तो येन देवोऽपि बद्धोऽस्ति। इत्यभिधाय स राजा तया महिष्या प्रणिपत्य तस्मिन्नेव राज्ये राजा कृतः। विशाखस्तु तस्मिन्नेव राज्ञि दर्शितभक्तिस्तस्य युवराजो बभूव।

स एवायं विशाखः यस्य कृतिः मुद्राराक्षसं नाम नाटकम् अधुनापि प्रचरति धरणीतले।

अभ्यासः

(१) कथा को संक्षिप्त शब्दों मे लिखो।

(२) नीचे लिखे वाक्यों में क्रियाएँढूँढो और क्रिया के लकार वचन और

पुरुष बतलाओः—

दृष्ट्वा च महिषीम् अभाषत, य चैषानुयास्यति तस्याह रिपोरिव शिरश्छेदं विधास्यामि, न त्वं दरिद्रवधूः, किन्तु लक्षणैः राजपत्नी प्रतीयसे, मयि जाते को नन्देत्, तन्निरूपयामि कुतो मम जन्म, यदयम् ऐन्द्रपदं ग्रहीष्यति, कथय किं मनोरथं ते करवाणि, यदि शक्नोषितदा पृथुराजं शृखलाभिः संयम्य मे देहि।

(३) नीचे लिखी धातुओ के क्तान्त, क्तवत्वन्त, तुमुन्नन्त और शत्रन्त रूप लिखोः—

दा, शक्, भू, कथ्, कृ, दृश्, वच्, ज्ञा, जीव्।

(४) धातुओं के लकार, पुरुष और वचन बतलाओः—

ज्ञायते, ग्रहीष्यति, शक्नोषि, देहि, परिचिनोति, प्रचरति।

विष्णुस्वामिकथा

(१)

आसीत् पुरा अस्मिन् वसुमतीतले कुसुमपुरेश्वरो धरणीवराहो नाम धराधिपः। तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधोऽग्रहार आसीत्। तत्र विष्णुस्वामी नाम द्विजः प्रतिवसति स्म।आसीच्च तस्य अनुरूपा भार्या। तस्याञ्च तस्य क्रमाच्चत्वारस्तनयाः समुत्पन्नाः।अधीतवेदेषु अतीतशैशवेषु च तेषु च विष्णुस्वामी दिवङ्गतः, तदीया भार्या च तमनुजगाम। ततः सर्वेऽपि ते अनाथा दुःस्थिताश्च अभूवन्। तेषां सर्वस्वच गोत्रजैः अपहृतम्। तदा ते मिथः मन्त्रयाञ्चक्रुः — ‛इह अस्माकं कापि गतिर्नास्ति। तस्मात् इतः नातिदूरे यज्ञस्थलाभिधाने ग्रामे मातामहगृहं किं न ब्रजाम?’एवं निश्चित्य भैक्ष्येण अवलम्बितजीवनास्ते चत्वारोऽपि प्रस्थिताः। बहुभिर्वासरैः

प्रापुस्ते मातामहस्य गृहम्। तत्र च मातामहस्य प्रभावात् मातुलैः दत्ताश्रयाः तद्गृहे भुञ्जानाः स्वाध्यायपरा न्यवसन्। परन्तु अकिञ्चनास्ते कालक्रमेण मातुलानामवज्ञापात्राणि बभूवुः।

**(२) **

ततः स्वजनैः कृतेन अपमानेन ते खिन्नाः चिन्तातुराश्च सञ्जाताः। तदानीतेषु ज्येष्ठो भ्राता रहसि इतरान् अगदत् — “भ्रातरः! किं क्रियते, सर्वविधिरेव आचेष्टते। पुरुषेण इह क्वचित् किञ्चिदपि कर्त्तुं न शक्यम्। शृणु अद्य उद्वेगतः भ्राम्यन् पितृकाननमहं गतः। तत्र च शिथिलाङ्गविपन्नं पुरुषमेकं भुवि व्यलोकयम्। तं दृष्ट्वा तां गतिमेव लिप्सुरहमचिन्तयम् — ‘अहो धन्योऽयं जनः, य एवं दुःखभारं विमुच्य विश्राममलभत।’ एवं विचार्य तत्कालमेव मरणस्य निश्चयं कृत्वा वृक्षाग्रे लग्नेन पाशेन आत्मानमलम्बयमहम्। तथा कृते यावत् विसंज्ञस्य मे असवः निर्यान्ति तावत् त्रुटितपाशोऽहं महीतले प्रापतम्। यावदहं संज्ञां लभे तावदेव केनापि कृपालुना पुरुषेण पटमारुतैः आश्वास्यमानम् आत्मानमपश्यम्। प्रोक्तश्चाहं तेन — ‘भद्र! कथय, सुधीरपि त्वमेवं कथं खिद्यसे? सुकृतात् सुखं दुष्कृतादेव च दुःखं नान्यतः। दुःखाद् यदि तव उद्वेगस्तदा सुकृतं समाचर। कथमात्मघातेन नारकं दुःखं कामयसे?” इत्येवं मां समाश्वास्य क्वाप्यन्तर्दधौ स महानुभावः।

**(३) **

तस्य उपदेशमुरसि निधाय मरणप्रयत्नमहमत्यजम् अत्र

चागमम् एवं मयानुभूतं यद् विधौ नेच्छति मरणमपि न लभ्यते। इदानीञ्च तीर्थे तपसा तनुं तापयामि येन पुनः दारिद्र्यस्य दुःखं न भजेयम्। इत्युक्तवन्तम् ते ज्येष्ठमनुजन्मानोऽकथयन्— ‘आर्य! अर्थाभावमुद्दिश्य कथं प्राज्ञोऽपि भवान् क्लेशैर्बाध्यते। किन्न वेत्ति यदर्थानां शरन्मेघानामिव चञ्चला गतिः।आहृत्य यत्नेन रक्ष्यमाणापि श्रीः अन्तर्विरागिणी असतां मैत्रीव कस्य कदा वा स्थिरा? तनमनस्विना मानवेन स गुणः कथमपि उद्योगेन अर्जनीयः येन हठाद् बद्धः अर्थः हरिण इव समाकृष्येत।’ इत्येवं सोदर्यः प्रबोधितोऽग्रजः धैर्यं धृत्वा प्रत्युवाच — ‘कस्तावद् गुणः अस्माभिः सम्पादनीयो भवेत्’ इति। ततस्ते सर्वे विचिन्त्य परस्परमब्रुवन् ‘पृथ्वीं विचित्य किञ्चिद् विज्ञानं वयं शिक्षामहे यतः प्रभूतं वित्तं लभेमहि। एवं निर्धार्य पुनः सम्मेलनाय सङ्केतस्थलं निश्चित्य एकैकशस्ते चत्वारः सहोदराः चतसृषु दिक्षु प्रययुः।

**(४) **

अथ केनचित्कालेन ते पुनः निर्धारितं स्थानमागत्य मिलिताः। किं केन शिक्षितमिति ते अन्योन्यमपृच्छन्। तेषु एकः प्राह — ‘मया ईदृग् विज्ञानं शिक्षितं येन यस्य कस्यचिदपि प्राणिनः अस्थिशकलमवाप्य क्षणात् तदुचितं मांसं तस्मिन् उत्पादयामि।’ तस्य तद्वचो निशम्य द्वितीयोऽभाषत — ‘तत्रैव मांसपिण्डे तस्यैव प्राणिनः लोमानि त्वचं चाहं जनयितुं जाने।’ तृतीयोऽब्रूत — एतादृग्, विज्ञानं मयाधिगतं यत्तादृशे जीवे मया तदवयवाःस्रष्टुं शक्यन्ते।’ ततश्चरमोऽवादीत् — ‘उत्पन्नावयवे

प्राणिनि प्राणसञ्चारं कर्त्तुमहमवैमि।’ एवं मिथः परामृश्य ते चत्वारोऽपि भ्रातरः स्वस्व विज्ञानस्य परीक्षणाय अस्थिखण्डान् अन्वेष्टुम् अटव्यामाटन्। विधिवशात् ते तत्र सिहस्यास्थिखण्डंलब्ध्वा कस्येदम् अस्थि इति अपरिचित्यैव तदेवागृह्णन्। ततः एकः सर्वाणि अस्थीन्ययोजयत्।अपरस्त्वचं लोमान्यजनयत्। तृतीयः तत्समग्रैरङ्गैरपूरयत्। चतुर्थस्तु सिंहीभूते तस्मिन् यावदसून् सञ्चारयति तावदेव विकरालवदनः खरतरनखरः केशरी उदतिष्ठत्। स च झटित्येव स्वस्योत्पादकांस्तान् चतुरोऽपि सोदरानवधीत् तृप्तश्च वनमविशत्। एवं ते सर्वेऽपि वैज्ञानिका द्विजा सिंहनिर्माणविज्ञानेन प्रणष्टाः।

दुष्टं हि जन्तुमुत्पाद्य कस्यात्मनि सुखं स्यात्! इत्थं यत्नाल्लब्धोऽपि गुणः विधौ वामे सति न सम्पत्तये परं विपत्तये एव प्रभवति। मूले दैवे अविकृते, प्रज्ञानवारिणा च सिक्ते, नयालबालःपौरुषपादपः प्रायः फलति।

अभ्यासः

(१) विष्णु स्वामी के पुत्र यज्ञस्थल में क्यो गये?

(२) ‘मूले दैवे अविकृते, प्रज्ञानवारिणा च सिक्ते, नयालबालःपौरुषपादपः प्रायः फलति’ —इस कथन पर तुम कहाँ तक सहमत हो? अपने विचार प्रकट करो।

(३) वाच्यपरिवर्तन करोः—

भ्रातरः!किं क्रियते, सर्वं विधिरेवाचेष्टते। य एव दुःखभारं विमुच्य विश्राममलभत। सुधीरपि त्वमेव कथं खिद्यसे? कथं आत्मघातेन नारकं दुःखं कामयसे? किं केन शिक्षितमिति ते अन्योऽन्यममपृच्छन्। तृप्तश्च वनमविशत्। पौरुष-पादपः प्रायःफलति।

(४) नीचे लिखे अव्ययो का अर्थ लिख कर उनका वाक्यों में प्रयोग करोः—

पुरा, तत्र, तदा, परन्तु, ततः, तदानीम्, तथा, कथम्, इत्येवम्, यदि, इदानीम्, मिथः, हि, इत्थम्।

विद्याध्ययनम्

(१)

अतुलपराक्रमे विक्रमे राज्यं कुर्वति भट्टिर्मन्त्री अभूत्, उपमन्त्री गोविन्दः, चन्द्रशेखरः सेनापतिः, त्रिविक्रमश्च पुरोहितः। त्रिविक्रमस्यासीत् पुत्रः कमलाकरः। स पितुः प्रसादात् घृतौदनं भुक्त्वा वस्त्राभरणताम्बूलादिना परिपुष्टगात्रोविविधसुखमनुभवन् तिष्ठति स्म।

एकदा जनकेनोक्तम् — ‘भोः पुत्र! पण्डितकुले जन्म लब्ध्वा त्वया कथं स्वेच्छाचरणं क्रियते! इदं मानवं जन्म महता पुण्येनावाप्यते, तत्प्राप्य कथं त्वमेव वृथा विहरसि? सर्वदा बहिरेव वससि, भोजनवेलायां गृहमायासि, त्वया एतदनुचितं क्रियते।अयन्ते विद्याध्ययनकालः, समयं व्यर्थगमयसि चेत् यौवनं जरायां वा महान् मनःसन्तापो भविष्यति। यतः—

ये बालभावे न पठन्ति विद्यां
क्रीडातुराः खेलनमग्नचित्ताः।
ते वृद्धकाले परिभूयमाना
नश्यन्ति नूनं शिशिरेऽपवस्त्रा॥१॥

विद्यया विहीना नरा भुवि केवलं भारभूता भवन्ति। उक्तञ्च—

येषां न विद्या न तपो न दानं
न चापि शीलं न गुणो न धर्मः।

ते मर्त्यलोके खलु भारभूता
मनुष्यरूपेणमृगाश्चरन्ति॥२॥

(२)

अस्मिन् संसारे पुरुषस्य कृते विद्यां विहायान्यद् भूषणं नास्ति। पश्य—

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं,
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं,
विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः॥

अतः हे पुत्र! यावदहं जीवामि तावत्त्वया विद्योपार्जनं करणीयम्। इदानीमभ्यस्ता विद्या तव सकलमपि बन्धुकृत्यं करिष्यति। स्मर तावदेतद्वचनम् —

मातेव रक्षति पितेव हिते नियुङ्क्ते
क्रीडेव चाभिरमयत्यपनीय खेदम्।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं
किं किं न साधयति कल्पलतेव विद्या॥

एतादृशं पितुर्वचनं श्रुत्वा पश्चात्तापपूर्णः कमलाकरः ‘यदाऽहं सर्वज्ञो भविष्यामि तदैव पितरं स्वमुखं दर्शयिष्यामि’ इति प्रतिज्ञाय काश्मीरदेशं प्रति प्रस्थितः।

**(३) **

तत्र समस्तविद्यापारङ्गतं चन्द्रमौलिमुपाध्यायमुपेत्य दण्डवत् प्रणम्य उक्तवान् — ‘भोः स्वामिचरणाः! मूर्खोऽहं, श्रीमतां नामधेयं गुणगौरवं च निशम्य विद्याभ्यासं कर्तुं भव-

दन्तिकं समायातः। मयि कृपां विधाय यथा मे विद्या भवेत् तथा कृत्वा अनुगृहीतव्योऽयं वशंवदः’ इति पुनर्दण्डवत् प्रणाममकरोत्। ततः गुरुचरणैरङ्गीकृतः सः अहर्निशं तेषां शुश्रूषामकरोत्। कुतः —

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा।
अथवा विद्यया विद्या नान्यथा सोपपद्यते॥

एवं शुश्रूषाम् अनवरतं कुर्वतो महान् कालो गतः। एकस्मिन् पुण्ये पर्वणि उपाध्यायः परमया करुणया तं सिद्धसारस्वतमन्त्रमुपादिशत्। तत्प्रभावेण सकलाः कलाः अनवद्यां विद्यां च समग्रां बुद्ध्वा सर्वज्ञः कमलाकरः सम्पन्नः। एवं उपाध्यायस्य प्रसादं प्राप्य, अनुज्ञां च गृहीत्वा स्वनगरं प्रत्यागतः। भृशं प्रमुदितेन पित्रा अभिनन्दितः स विद्याकरः कमलाकरः क्रमेण राजसभायां बहुमानेन सम्भावितः विविधान् भोगान् उपभुञ्जानः शेषं वयः गौरवेणायापयत्।

अभ्यासः

(१) कमलाकर के पिता ने उसे क्या उपदेश दिया? उसका कमलाकर पर क्या प्रभाव पडा?

(२) वाच्यपरिवर्तन करो :—

इदं मानवं जन्म महता पुण्येनावाप्यते, तत् प्राप्य कथं त्वमेव वृथा विहरसि, सर्वदा बहिरेव वससि, भोजनवेलायां गृहमायासि, त्वया एतत् अनुचितं क्रियते?

(३) उक्त वाक्य के संधियुक्त शब्दों मे सन्धिच्छेद करो और रेखाङ्कितोमे समस्त पद का विग्रह करो और असमस्त पद को समस्त बनायो।

(४) सुभाषित की महिमा बतलाओ।

(५) नीचे लिखे शब्दों के रूप लिखोः—
महत्, मनस्, जन्मन्, पितृ, सेनापति, विद्या, गुरु।

(६) विद्या-महिमविषयक पद्यो के अर्थ लिखो।

_____________________________

नाट्य भाग

दूत-वाक्यम्

(१)

(सूत्रधारः प्रविशति)

(नेपथ्ये)

भो भोः प्रतिहाराऽधिकृताः! महाराजो दुर्योधनः समाज्ञापयति।

सूत्रधारः — भवतु, विज्ञातम्।

उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह।
मन्त्र-शालां रचयति भृत्यो दुर्योधनाऽऽज्ञया॥१॥

(निष्क्रान्त)

(ततः प्रविशति काञ्चुकीय)

काञ्चुकीयः — ‘भो भोः प्रतिहाराऽधिकृताः! महाराजो दुर्योधनः समाज्ञापयति—अद्य सर्व-पार्थिवैः सह मन्त्रयितुम् इच्छामि। तद् आहूयन्तां सर्वे राजान इति।

(परिक्रम्यावलोक्य च)

अये! अयं महाराजो दुर्योधन इत एवाऽभिवर्तते।

(ततः प्रविशति दुर्योधन)

काञ्चुकीयः — जयतु महाराजः। महाराजशासनात् समानीतं राजमण्डलम्।

दुर्योधनः — सम्यक् कृतम्। प्रविश त्वम् अवरोधनम्।

काञ्चुकीयः — यद् आज्ञापयति महाराजः।

(निष्क्रान्तः)

दुर्योधनः — प्राय वैकर्णवर्षदेवौ! उच्यताम् — अस्ति ममैकादशाऽक्षौहिणी बलसमुदायः। अस्य कः सेनापतिर्भवितुम् अर्हति! किम् आहतुर्भवन्तौ—अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिः भवितुम् अर्हति, इति। भवतु, पितामह एव भवतु।

**(२) **

काञ्चुकीयः — जयतु महाराजः। एष खलु पाण्डवानां स्कन्धावाराद् दौत्येनाऽऽगतः पुरुषोत्तमो नारायणः।

दुर्योधनः — मा तावद् भो बादरायण! किं किं कंसभृत्यो दामोदरः तव पुरुषोत्तमः? स गोपालकः तव पुरुषोत्तमः? आः, अपध्वंस।

काञ्चुकीयः — प्रसीदतु प्रसीदतु महाराजः। दूतः प्राप्तः केशवः।

दुर्योधनः — केशव इति भोः, सम्यग् उक्तम् इदानीम्। भो भो राजानः! योऽत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादश सुवर्ण-भारेण दण्ड्यः, भो बादरायण! आनीयतां स विहग-वाहन-मात्र-विस्मितो गतः।

काञ्चुकीयः — यद् आज्ञापयति महाराजः। (निष्क्रान्तः )

दुर्योधनः — वयस्य कर्ण!

प्राप्तः किलाऽद्य वचनाद् इह पाण्डवानां
दौत्येन भृत्य इव कृष्ण-मतिः स कृष्णः।

श्रोतुं सखे त्वमपि सज्जय कर्ण कर्णौ
नारी-मृदूनि वचनानि युधिष्ठिरस्य॥२॥

(ततः प्रविशति वासुदेवःकाञ्चुकीयश्च)

वासुदेवः — (ततः प्रविश्य, स्वगतम्) कथं कथं मां दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः। (प्रकाशम्) अलम् अलं संभ्रमेण। स्वैरम् आसतां भवन्तः।

दुर्योधनः — (स्वगतम्) कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः। अलम् अलं संभ्रमेण। स्मरणीयः पूर्वम् आश्रावितो दण्डः। (वासुदेवं प्रति) भो दूत! एतद् आसनम् आस्यताम्।

**वासुदेवः —**आचार्य! आस्यताम्। गाङ्गेय-प्रमुखा राजानः! स्वैरम् आसतां भवन्तः। वयम् अप्युपविशामः।

(उपविशन्ति सर्वे)

(३)

दुर्योधनः — भो दूत!

धर्माऽऽत्मजो वायु-सुतश्च भीमो
भ्राताऽर्जुनो मे त्रिदशेन्द्र-सूनुः।
यमौ च तावश्वि-सुतौ विनीतौ
सर्वे सभृत्याः कुशलोपपन्नाः॥३॥

वासुदेवः — सदृशम् एतद् गान्धारी-पुत्रस्य। कुशलिनः सर्वे। भवतो राज्ये शरीरे च कुशलम् अनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिराऽऽदयः पाण्डवाः।

अनुभूतं महद् दुःखं संपूर्णः समयः स च।
अस्माकम् अपि धर्म्यं यद् दायाद्यं तद् विभज्यताम्॥४॥

दुर्योधनः — कथं कथं दायाद्यम् इति। देवाऽऽत्मजास्ते नैवाऽर्हन्ति दायाद्यम्।

वासुदेवः—राजन्! मा मैवम्।

एवं परस्पर विरोध-विवर्धनेन
शीघ्रं भवेत् कुरु कुलं नृप! नाम-शेषम्।
तत् कर्तुमर्हति भवानपकृष्य रोषं
यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति॥२॥

कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतरा।
संबन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि॥६॥

दुर्योधनः —

देवाऽऽत्मजैर्मनुष्याणां कथं वा बन्धुता भवेत्।
पिष्ट-पेषणमेतावत् पर्याप्तं, छिद्यतां कथा॥७॥

वासुदेवः—भो दुर्योधन! न जानीषेऽर्जुनस्य पराक्रमम् ?

(४)

दातुमर्हसि मद्-वाक्याद् राज्याऽर्धंधृतराष्ट्रज!
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः॥९॥

दुर्योधनः —कथं कथं हरिष्यन्ति हि पाण्डवाः?

प्रहरति यदि युद्धे मारुतो भीम-रूपः
प्रहरति यदि साक्षात् पार्थ-रूपेण शक्रः।
परुष-वचन-दक्ष! त्वद् वचोभिर्न दास्ये
तृणमपि पितृ-भुक्ते वीर्य-गुप्ते स्वराज्ये॥१०॥

वासुदेवः — एवम् एवाऽस्तु। न वयम् अनुक्त-संदेशा गन्तुम् इच्छामः। तद् आकर्ण्यतां युधिष्ठिरस्य संदेशः—

शठ! बान्धव-निःस्नेह! काक! केकर! पिङ्गल!
त्वदर्थे कुरु-वंशोऽयमचिराद् नाशमेष्यति॥११॥

भो भो राजानः! गच्छामस्तावत्।

**दुर्योधनः —**कथं यास्यति किल केशवः। दुःशासन! दुर्धषण! दुर्मुख! दुर्बुद्धे! दुष्टेश्वर! केशवो बध्यताम्। कथम् अशक्ताः? दुःशासन! न समर्थः खल्वसि? मातुल! त्वयैव बध्यतां केशवः। न कोऽपि शक्तः। भवतु, अहम् एव बध्नामि। (पाशम् उद्यम्योपसर्पति)

वासुदेवः— कथं कथं बद्धुकामो मांकिल दुर्योधनः?भवतु अस्य सामर्थ्यं पश्यामि।(विश्व-रूपम् आस्थितः)

(५)

**दुर्योधनः —**भो दूत!

सृजसि यदि समन्ताद् देवमायाः स्व-मायाः
प्रहरसि यदि वा त्वं दुर्निवारैः सुराऽस्त्रैः।
हय-गज-वृषभाणां पातनाज् जात-दर्पो
नरपति-गण-मध्ये बध्यसे त्वं मयाऽद्य॥१२॥

आः,तिष्ठेदानीम्। कथं न दृष्टः केशवः?अयं केशवः। अहो ह्रस्वत्वं केशवस्य। आः, तिष्ठेदानीम्। कथं न दृष्टः केशवः? अयं केशवः।अहो

दीर्घत्वं केशवस्य! कथं न दृष्टः केशवः?अयं केशवः (सर्वत्र मन्त्रशालायां केशवा भ्रमन्ति)। किम् इदानींकरिष्ये। भवतु, दृष्टम्। भो भो राजानः!एकेनैकः केशवो बध्यताम्। कथं कथं स्वयम् एव पाशैर्बद्धाः पतन्ति राजानः, साधु भो जम्भक! साधु।

मत्-कार्मुकोदर-विनिःसृत-बाण-जालैर्
विद्धक्षरत्-क्षतज-रञ्जित-सर्व-गात्रम्।
पश्यन्तु पाण्डु-तनयाः शिविरोपनीत
त्वां बाष्प-रुद्ध-नयनाः परिनिःश्वसन्तः॥१२॥

(निष्क्रान्तः)

वासुदेवः — यावद् अहम् अपि पाण्डव-शिविरम् एव यास्यामि।

(इति निष्क्रान्तः)

अभ्यासः

(१) दूत-वाक्य का सार अपने शब्दो मे लिखो।

(२) नीचे लिखे पारिभाषिक शब्दों की व्याख्या करोः—
सूत्रधारः, नेपथ्यम्, निष्क्रान्तः, स्वगतम्, प्रकाशम्, काञ्चुकीयः, प्रतिहारः।

(३) नीचे लिखे पदो के सब विभक्तियों के एकवचन मे रूप लिखोः—
स्त्री, एकाकिनी, अन्य, अशनि, रघु, वत्सा, पाण्डव।

(४) नीचे लिखे पदो में धातु और प्रत्यय बतलाओः—
अनुगृहीतुं, निर्वासिता, बद्धा, श्रोतुम्, अधिकृताः, मन्त्रयितुम्, कर्तुम्, संभ्रान्ताः, पृष्ट्वा, विनीतौ।

(५) समस्त पदो का विग्रह करो—

दुर्योधनाज्ञया, प्रतिहाराधिकृताः, महाराजः, आर्यौ वैकर्णवर्षदेवौ, सेनापतिः, पुरुषोत्तमः।

सीता-परित्यागः

(१)

इत इतोऽवतरत्वार्या।

सूत्रधारः — को न्वयम्? कष्टं भोः!अतिकरुणं वर्तते—

लङ्केश्वरस्य भवने सुचिरं स्थितेति
रामेण लोक-परिवाद-भयाऽऽकुलेन।
निर्वासितां जन-पदादपि गर्भ-गुर्वी
सीतां वनाय परिकर्षति लक्ष्मणोऽयम्॥१॥

(इति निष्क्रान्त)

(ततः प्रविशति रथाऽधिरूढा सीता सारथिर्लक्ष्मणश्च)

लक्ष्मणः — एष स्थितो रथः, तद् अवतरतु देवी।

सीता — (अवतीर्य परिक्रामति)

लक्ष्मणः — सुमन्त्र! दीर्घ-मार्गे परिश्रान्ता एते तुरङ्गमाः। तद् विश्रामय एतान्।

सुमन्त्रः — यद् आज्ञापयति देवः। (इति रथम् अधिरुह्य निष्क्रान्तः)

लक्ष्मणः — (आत्मगतम्) समादिष्टोऽहम् आर्येण— ‘लक्ष्मण! सीतां देवीं रथम् आरोप्य कस्मिंश्चिद् वनोद्देशे परित्यज्य निवर्तस्व’ इति। तद् अहम् अपि देवींवनम् उपनयामि।

सीता — वत्स लक्ष्मण! कियद् दूरं भगवती भागीरथी वर्तते?

लक्ष्मणः— आर्ये! आसन्नैव भगवती भागीरथी। संप्राप्ता एव वयम्। शनैः शनैर्मुहूर्तमेत्वार्या।

सीता — वत्स! सुष्ठु परिश्रान्ताऽस्मि। एतस्यां पादपच्छायायां मुहूर्तम् उपविश्य विश्रमिष्यामि।

लक्ष्मणः — यद् अभिरुचितं देव्यै।

सीता — (उपविश्य विश्रान्तिं नाटयति)

लक्ष्मणः — (आत्मगतम्) एषा विश्रान्ता सुखोपविष्टा च देवी। तद् अयम् एवाऽवसरो यथा-स्थितं व्यवसितुम्। (सहसा पादयोर्निपत्य, प्रकाशम्) एष मन्दभागी लक्ष्मणो वि

ज्ञापयति — स्थिरीक्रियतां हृदयम्।

सीता — (स-संभ्रमम्) अपि कुशलम् आर्य-पुत्रस्य? अम्बया कैकेय्या पुनरपि समादिष्टो वनवासः?

लक्ष्मणः — समादिष्टो वन-वासः, न पुनरम्बया।

सीता — केन पुनः समादिष्टः?

लक्ष्मणः— आर्येण।

सीता — किंन्विदं वत्स? परिस्फुटं कथय।

लक्ष्मणः — किम् अपरं कथयामि मन्द-भाग्यः।

त्यक्ताकिल त्वमार्येण चारित्र-गुण-शालिना।
मयाऽपि किल गन्तव्यं त्यक्त्वा त्वामिह कानने॥२॥

सीता — हा हन्त! (मोहं गच्छति, प्रत्यागम्य) वत्स लक्ष्मण! किम् उपालभ्याऽस्मि परित्यक्ता?

लक्ष्मणः — कीदृशो देव्या उपालम्भः?

सीता — अहो मेऽधन्यत्वम्। किम् उपालम्भ-मात्रेण विना निगृहीताऽस्मि। किमस्ति, किमपि तेन संदिष्टम्?

**लक्ष्मणः —**अस्ति।

सीता — कथय कथय।

**लक्ष्मणः —**अयम् आर्यस्य संदेशः।

**तुल्याऽन्वयेत्यनुगुणेति गुणोन्नतेति
दुःखे सुखे च सुचिरं सहवासिनीति।
जानामि केवलमहं जन-वाद-भीत्या
सीते! त्यजामि भवतीं न तु भाव-दोषात्॥३॥ **

सीता — कथं जनापवाद-भयेनेति? किम् अपि वचनीयं मेऽस्ति?

लक्ष्मणः — कीदृशम् आर्याया वचनीयम्?

ऋषीणां लोक-पालानाम् आर्यस्य मम चाऽग्रतः।
अग्नौ शुद्धिं गता देवी किन्तु…………

(लज्जा नाटयति)

सीता — कथय किन्तु —

लक्ष्मणः—

लोको निरङ्कुशः॥४॥

कः प्रतिसंदेशः?

सीता — कस्य?

**लक्ष्मणः—**आर्यस्य।

सीता — एवं गतेऽपि प्रतिसंदेशः। मम वचनाद् आर्यपुत्रं विज्ञापय, यन् मन्दभागिनों माम् अनुशोचन् आत्मानं न बाधय, सद्-धर्मे स्व-शरीरे च साऽवधानो भवेति।

अपि च, एषा तपो-वन-वासिनी, निर्गुणाऽपि चिरपरिचितेति वा, अनाथेति वा, सीतेति वा, स्मरणमात्रेणाऽनुग्रहीतव्या।

लक्ष्मणः—

इमं संदेशमाकर्ण्य क्षते क्षारमिवाऽऽहितम्।
दशामसह्यां शोकस्य व्यक्तम् आर्यो गमिष्यति॥५॥

सीता— वत्स लक्ष्मण! आसन्नाऽस्तमयः सूर्यः। उड्डीनाः पक्षिणः। संचरन्ति श्वापदाः। गच्छ न युक्तं परिलम्बितुम्।

लक्ष्मणः — (सोद्वेगम्)

आर्यां स्व-हस्तेन वने चिमोक्तुं
श्रोतुं च तस्याः परिदेवितानि।
सुखेन लङ्का-समरे हतं माम्
आजीवयन् मारुतिरात्त-वैरः॥६॥

(परितो विलोक्य)

एते रुदन्ति हरिणा हरितं विमुच्य
हंसाश्च शोक-विधुराः करुणं रुदन्ति।
नृत्तं त्यजन्ति शिखिनोऽपि विलोक्य देवीं
तिर्यग्-गता वरममी न परं मनुष्याः॥७॥

अञ्जलिं बद्ध्वा, देवि! सर्व-पश्चिमोऽयं लक्ष्मणस्य प्रणामाऽञ्जलिः। विज्ञापयामि देवीम्—

आर्यं मित्रं बान्धवान् वा स्मरन्त्या
शोकाद् आत्मा मृत्यवेनोपनेयः।
इक्ष्वाकूणां सन्ततिर्गर्भ-संस्था
सेयं देव्या यत्नतो रक्षणीया॥८॥

अपरं च—

ज्येष्ठस्य भ्रातुरादेशाद् आनीय विजने वने।
परित्यक्ताऽसि देवि! त्वं दोषमेकं क्षमस्व मे॥९॥

(दिशोऽवलोक्य) भो भो लोकपालाः! शृण्वन्तु भवन्तः—

एषावधूर्दशरथस्य महारथस्य
रामाऽऽह्वयस्य गृहिणी मधुसूदनस्य।
निर्वासिता पति-गृहाद् विजने वनेऽस्मिन्
एकाकिनी वसति रक्षत रक्षतैनाम्॥१०॥

एनाम् अपि रघु-कुल-देवतां भगवती भागीरथीम् आर्यायाः कृते विज्ञापयामि —

देवी यदैव सवनाय विगाहते त्वां
भागीरथि! प्रशमय क्षणमम्बु-वेगम्।
भूयो-भूयो याचते लक्ष्मणोऽयं
यत्नाद् रक्ष्याराज-पुत्री, गतोऽहम्॥११॥

(प्रणम्य निष्क्रान्त)

(२)

सीता — कथं सत्यम् एव मामेकाकिनी परित्यज्य गतो लक्ष्मणः? (विलोक्य) हा धिक्! हा धिक्! अस्तम् इतः सूर्यः। स्वरेणाऽपि लक्ष्मणो न दृश्यते। हरिणा अपि स्वं स्वम् आवासम् आयान्ति। निर्मानुष महाऽरण्यम्। किं करोमि मन्द-भाग्या (इति मोहं गच्छति)।

(ततःप्रविशति वाल्मीकिः)

वाल्मीकिः — (स-संभ्रमम्)

आकर्ण्य जह्नु-तनयासमुपागतेभ्यः
सन्ध्याऽभिषेक-विधये मुनि-दारकेभ्यः।
एकाकिनीमशरणां रुदतीमरण्ये
गर्भाऽऽतुरां स्त्रियमिति त्वरयाऽऽगतोऽस्मि॥१॥

तद् यावत् ताम् एव अन्वेषयामि। अन्धकारेण रुध्यते दृष्टिरिति सा न दृश्यते। अतः शब्दापयिष्ये। अहम् अहं भोः!

सीता — (प्रत्यागम्य) क एष मां शब्दापयते? (सहर्षम्) वत्स लक्ष्मण! प्रतिनिवृत्तोऽसि?

वाल्मीकिः— नाऽहं लक्ष्मणः।

सीता — (आत्मगतम्) अत्याहितम्! अन्य एष को वा पुरुषः? कथम् इदानीं वारयिष्यामि महाऽहितम्। (प्रकाशम्) स्त्री अहम् एकाकिनी च।

**वाल्मीकिः—**एष स्थितोऽस्मि। वत्से! तवाऽप्यलं परपुरुष-शङ्कया। मुनि-दारकेभ्यस्त्वद्-वृत्तान्तम् उपलभ्य तपोधनोऽहं त्वाम् एवाऽनुग्रहीतुम् उपागतः पृच्छामि चाऽत्रभवतीम्।

धर्मेण जित-सग्रामे रामे शासति मेदिनीम्।
कथ्यतां कथ्यतां वत्से! विपदेषा कुतस्तव॥२॥

सीता — तत एव पूर्ण-चन्द्रान्मेऽशनि-निपातः।

वाल्मीकिः— कथं रामाद् एव हि विपत्तिम् उपागता?

सीता — अथ किम्!

वाल्मीकिः — यदि त्वं वर्णाऽऽश्रम-व्यवस्थाभूतेन महाराजेन निर्वासिता, ततः स्वस्ति भवत्यै, गच्छाम्यहम्।

(परिभ्राम्यति)

**सीता —**अथ भगवन्! विज्ञापयामि किंचित्।

वाल्मीकिः — कथय कथय, सज्जोऽस्मि श्रोतुम्।

सीता — यदि रघुवरेण निर्वासितेति भवता नाऽनुकम्पनीया, एषा पुनर्गर्भ-गता रघु सगर-दिलीप-दशरथ-प्रभृतीनां संततिरितीदानीं प्रतिपालनीया।

वाल्मीकिः — (प्रतिनिवृत्य) कथम् इक्ष्वाकु-वंशम् उदाहरति? तद् अनुयोक्ष्ये, वत्से! किं च दशरथस्य वधूः?

सीता — यद् भगवान् आज्ञापयति।

वाल्मीकिः — कि च विदेहाऽधिपतेर्जनकस्य दुहिता?

**सीता —**अथ किम्!

वाल्मीकिः— किं च सीता?

सीता — नहि सीता, भगवन्! मन्द-भागिनी।

वाल्मीकिः— हा हतोऽस्मि मन्द-भाग्यः। किंकृतेऽयम् अत्र भवत्याः प्रासाद-तलाद् अधोऽवतारः?

सीता — (लज्जां नाटयति)

वाल्मीकिः— कथं लज्जते। भवतु, योग-चक्षुषाऽहम् एवाऽवलोकयामि। (ध्यानम् अभिनीय) आं ज्ञातम्, जनाऽपवादभीरुणा रामेण केवलं परित्यक्ताऽसि न तु हृदयेन। निरपराधा त्वम् अस्माभिरपरित्याज्यैव, एह्याश्रमपदं गच्छावः।

सीता — को नु भवान्?

वाल्मीकिः— श्रूयताम्।

सोऽहं चिरन्तन-सखा जनकस्य राज्ञः
तातस्य ते दशरथस्य च बाल-मित्रम्।
वाल्मीकिरस्मि विसृजाऽन्य-जनाऽभिशङ्कां
नाऽन्यस्तवायमबले श्वशुरः पिता च॥३॥

सीता — भगवन्! वन्दे।

**वाल्मीकिः—**वीर-प्रसवा भव, भर्तुश्च पुनर्दर्शनम् आप्नुहि।

सीता — भगवन्! त्वं लोकस्य वाल्मीकिः, मम पुनस्तात एव। तद् गच्छावः स्वाऽऽश्रम-पदम्।

(इति निष्क्रान्तौ)

अभ्यासः

(१) राम ने सीता को क्यो छोडा? सीता परित्याग का संक्षेप लिखो।

(२) नीचे लिखे पदो में शब्द, विभक्ति और वचन बतलाओ।

पादपच्छायायाम्, अम्बया, आर्यस्य, जनवादभीत्या, भावदोषात्, यत्नतः, मृत्यवे, इक्ष्वाकूणाम्, भागीरथि, एनाम्, स्त्रियम्, माम्, अधिपतेः, भगवन्।

(३) नीचे लिखे वाक्यो मे कर्ता और क्रिया ढूँढो, यदि कर्ता अध्याहार्य हो तो अपनी ओर से बतलाओ—

मम वचनात् आर्यपुत्रं विज्ञापय, मन्दभागिनी माम् अनुशोचन् आत्मानं न बाधयसंचरन्ति श्वापदाः। गच्छ, न युक्तं परिलम्बितुम्। तद्यावत् तामेव अन्वेषयामि। स्वस्ति भवत्यै गच्छाम्यहम्। योगचक्षुषाहमेवालोकयामि। तद् गच्छावः स्वाश्रम-पदम्।

(४) ऊपर दी हुई रेखाङ्कित क्रियाओ को भूतकाल मे बदलो।

(५) नीचे लिखे पदो के धातु और प्रत्यय बतलाओः—
अनुग्रहीतव्या, परिलम्बितुम्, रक्षणीया, स्थितः, श्रोतुम्, बद्ध्वा,

दुष्यन्तस्य स्वपुत्रावाप्तिः

(नेपथ्ये)

मा खलु चापलं कुरु, कथं गत एवात्मनः प्रकृतिम्।

राजा — (कर्णंदत्वा) अभूमिरियमविनयस्य, को नु खल्वेष निषिध्यते (शब्दानुसारेणावलोक्य, सविस्मयम्) अये! को नु खल्वयमनुवध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः?

अर्धपीतस्तनं मातुरामर्दकिष्टकेसरम्।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति॥१॥

(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)

**बालः —**जृम्भस्व सिंह, दन्तास्ते गणयिष्ये।

प्रथमा तपस्विनी — अविनीत! किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि। हन्त, वर्द्धते तव सरम्भः स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि।

राजा — किन्नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः। नूनमनपत्यता मां वत्सलयति।

द्वितीया तपस्विनी — एषा खलु केसरिणी त्वां लंघयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि।

**बालः —**अहो बलीयः खलु भीतोऽस्मि (इत्यधरं दर्शयति)।

** राजा— **

महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुलिङ्गावस्थया बह्निरेधापेक्ष इव स्थितः॥२॥

प्रथमा तपस्विनी — वत्स! एनं बालमृगेन्द्रं मुञ्च, अपरं ते क्रीडनकं दास्यामि।

**बालः —**कुत्र, देह्येतत् (हस्तं प्रसारयति)।

द्वितीया तपस्विनी— सुव्रते! न शक्य एष वाचामात्रेण विरमयितुम्। गच्छ, त्वम्। मदीयोटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति तमस्योपहर।

प्रथमा तपस्विनी — तथा (इति निष्क्रान्ता)।

बालः — अनेनैव तावत् क्रीडिष्यामि (तापसी विलोक्य हसति)।

**तापसी —**भवतु न मामयं गणयति। (पार्श्वमवलोकयति) कोऽत्र ऋषिकुमाराणाम्? (राजानमवलोक्य) भद्रमुख! एहि तावत् मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम्।

राजा — (उपगम्य, सस्मितम्) अयि भो महर्षिपुत्र!

एवमाश्रमविरुद्धवृत्तिना
संयमः किमिति व्यज्यते त्वया।
सत्त्वसंश्रयसुखोऽपि दूष्यते,
कृष्णसर्पशिशुनेव चन्दनम्॥३॥

तापसी — भद्रमुख! न खल्वयमृषिकुमारः।

राजा — आकारसदृशं चेष्टितमेवास्य कथयति, स्थानप्रत्ययात्तु वयमेवं तर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य आत्मगतम्) —

अनेन कस्यापि कुलांकुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम्।
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः॥४॥

**तापसी —**आश्चर्यमाश्चर्यम्!

राजा — आर्ये, किमिव?

**तापसी —**अस्य बालस्य तेऽपि च संवादिन्याकृतिरिति विस्मापितास्मि अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति।

राजा — (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः।

तापसी — पुरुवंशः।

राजा — (आत्मगतम्) कथमेकान्वयो मम?अतः खलु मदनुकारिणमेनमत्रभवती मन्यते। (प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः।

तापसी — यथा भद्रमुखोभणत्यप्सरसः सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता।

राजा — (अपवार्य) हन्त द्वितीयमिदमाशाजननम्।

(ततः प्रविशति मृण्मयूरहस्ता द्वितीया तपस्विनी)

तापसी — सर्वदमन! शकुन्तलावण्यं प्रेक्षस्व।

बालः — कुत्र वा मम माता?

उभे — नामसादृश्येन वञ्चितो मातृवत्सलः।

द्वितीया तपस्विनी — वत्स! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।

राजा — (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या? सन्ति पुनर्नामधेयसादृश्यानि, अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते।

बालः — मातः एष भद्रमयूरो मे रोचते (क्रीडनकमादत्ते)

प्रथमा तपस्विनी — (विलोक्य, सोद्वेगम्)अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।

राजा — अलमलमावेगेन। नन्विदमस्य सिंहशावविमर्दात् परिभ्रष्टम् (इत्यादातुमिच्छति)।

उभे — मा खल्विदमवलम्बय। कथं गृहीतमनेन? (विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)।

राजा — किमर्थं प्रतिषिद्धाः स्मः?

प्रथमा — शृणोतु महाराजः, एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानञ्च वर्जयित्वा परो भूमिपतितां न गृह्णाति।

**राजा —**अथ गृह्णाति?

प्रथमा — ततस्तं सर्पो भूत्वा दशति।

राजा — भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया?

उभे — अनेकशः।

राजा — (सहर्षम् आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि (इति गाढं परिष्वजते)।

अभ्यासः

(१) बालक की वीरता का दुष्यन्त के हृदय पर क्या प्रभाव पडा?

(२) भावार्थलिखोः—

अभूमिरियमविनयस्य। स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः। स्थानप्रत्ययात्तु वयमेवं तर्किणः। सर्वदमन! शकुन्तलावण्यं प्रेक्षस्व। कथमिव सम्पूर्णमपि मे मनोरथ नाभिनन्दामि।

(३) अपराजिता ओषधि पर संक्षिप्त टिप्पणी लिखो।

(४) सन्धि-विच्छेद करो और समस्त शब्दों का विग्रह करो—
मृत्तिका मयूरस्तिष्ठति, बालमृगेन्द्रम्, पुनरात्मगत्या, देवगुरोस्तपोवने, विस्मयादुरोनिहितहस्ते।

(५) नीचे लिखी क्रियाओके भूतकाल के प्रथम पुरुष का एकवचन और बहुवचन लिखोः—
कुरु, गणयिष्ये, अनुभवसि, दास्यामि, जृम्भस्व, तिष्ठति, हसति, कथयति, कल्पते, दशति, परिष्वजते।

________________________

रामायणम्

आदौ रामतपोवनादिगमनं मायामृगोन्माथनम्
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।
बालिप्रोन्मथनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननं ह्येतद्धि रामायणम्॥१॥

महाभारतम्

आदौ पाण्डवधार्त्तराष्ट्रजननं लाक्षागृहे दाहनं
द्यूतश्रीहरणं वने विचरणं मत्स्यालये बर्द्धनम्।
लीलागोग्रहणं रणेऽवतरणं सन्धिक्रियावर्द्धनं
पश्चाद्भीष्मककौरवादिहननञ्चैतन्महाभारतम्॥२॥

भागवतम्

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्द्धनं
मायापूतनजीवितापहरणं गोबर्द्धनोद्धारणम्।
कंसच्छेदनकौरवादिहननं कुन्तीसुतापालनं
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम्॥३॥

अभ्यासः

(१) स्वर्ण मृग का हनन, पूतनावध की कथाओका दिग्दर्शन कराओ।
सन्धि-विच्छेद करो और समस्त पदों का विग्रह भी करोः—

रामतपोवनादिगमनम्, रावणकुम्भकर्णहननम्,लीलागोग्रहणम्, कुन्तीसुताणलनम्।

यज्ञरक्षार्थंरामलक्ष्मण-सम्प्रेषणम्

अथ राजा दशरथस्तेषांदारक्रियां प्रति।
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः॥१॥

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः।
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः॥२॥

अथ हृष्टमना राजा विश्वामित्रं महामुनिम्।
उवाच परमोदारोहृष्टस्तमभिपूजयन्॥३॥

यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके।
वृद्धावस्थस्य च यथा पुत्रजन्माप्रजस्य च॥४॥

प्रणष्टस्य यथा लाभो यथा हर्षो महोदये।
तथैवागमनं मन्ये स्वागतं ते महामुने॥५॥

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति।
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये॥६॥

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत॥७॥

सदृशं राजशार्दूल! तवैतद् भुवि नान्यथा।
महावंश-प्रसूतस्य वशिष्ठस्यानुवर्तिनः॥८॥

यत्तु ते हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्।
कुरुष्व राजशार्दूल, भव सत्यप्रतिश्रवः॥९॥

मयाऽऽरब्धे महायज्ञे राक्षसौ विघ्नकारिणौ।
मारीचश्च सुबाहुश्चवीर्यवन्तौ सुशिक्षितौ॥१०॥

नृपः प्रोवाच गोप्ताऽहं स्वयं समरमूर्धनि।
यावत् प्राणान् धरिष्यामि तावद्योत्स्येनिशाचरैः॥११॥

न रामो रक्षसां योग्यः कूटयुद्ध-हितेध्रुवम्।
विप्रयुक्तो हि रामेण मुहूर्तमपिनोत्सहे॥१२॥

ज्येष्ठं धर्मप्रधानं च न रामंनेतुमर्हसि।
किं वीर्याः राक्षसास्ते च कस्य पुत्राश्चके च ते?॥१३॥

कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव!
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्?॥१४॥

स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः।
तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत॥१५॥

पुलस्त्य-वंश-प्रभवो रावणो नाम राक्षसः।
स ब्रह्मणा दत्तवरः त्रैलोक्यं बाधते भृशम्॥१६॥

महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः।
श्रूयते हि महावीर्यो रावणो राक्षसाधिपः॥१७॥

साक्षाद्वैश्रवण-भ्राता पुत्रो विश्रवसो मुनेः।
यदा स्वयं न यज्ञस्यविघ्नकर्त्ता महाबलः॥१८॥

तेन संप्रेरितौ द्वौ तु राक्षसौ सुमहाबलौ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥१९॥

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥२०॥

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके।
मम चैवाल्पभागस्य दैवतं हि भवान् गुरुः॥२१॥

देव-दानव-गन्धर्वा यक्षाःकिन्नर-पन्नगाः।
न शक्ताः रावणं सोढुं कि पुनर्मानवा युधि॥२२॥

स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः।
तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः।
सबलो वा मुनिश्रेष्ठ! सहितो वा ममात्मजैः॥२३॥

कथमप्यमर-प्रख्यं संग्रामाणामकोविदम्।
बालं मे तनयं ब्रह्मन्! नैव दास्यामि पुत्रकम्॥२४॥

तच्छ्रुत्वा वचनं तस्य स्नेह-पर्याकुलाक्षरम्।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्॥२५॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि।
राघवाणामयुक्तोऽयं कुलस्यास्यविपर्ययः॥२६॥

यदिदं तेऽक्षमं राजन्! गमिष्यामि यथागतम्।
मिथ्याप्रतिज्ञ! काकुत्स्थ! सुखी भव सबान्धवः॥२७॥

त्रस्त-रूपं तु विज्ञाय भूपतिं तं महानृषिः।
नृपतिं सुव्रतो धीरो वशिष्ठोवाक्यमब्रवीत्॥२८॥

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः।
धृतिमान् सुव्रतः श्रीमान्न धर्मं हातुमर्हसि॥२९॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इतिराघव!
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥३०॥

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव!
इष्टापूर्त-वधः भूयात्तस्माद् रामं विसर्जय॥३१॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्तिराक्षसाः।
गुप्तं कुशिक-पुत्रेण ज्वलनेनामृतं यथा॥३२॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः।
एषबुद्ध्यधिको लोके तपसश्चपरायणः॥३३॥

एतस्य मुनिमुख्यस्य सर्वज्ञस्यमहात्मनः।
न किञ्चिदप्यविदितं भूतं भव्यञ्चराघव!॥३४॥

एवं वीर्यो महातेजा विश्वामित्रोमहातपाः।
न राम-गमने राजन्! संशयं कर्तुमर्हसि॥३५॥

तेषां निग्रहणे शक्तः स्वयं हि कुशिकात्मजः।
तव पुत्र-हितार्थाय त्वामुपेत्याभियाचते॥३६॥

तथा वशिष्ठे ब्रुवति राजा दशरथः सुतम्।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्॥३७॥

कृत-स्वस्त्ययनं मात्रा पित्रा दशरथेन च।
पुरोधसा वशिष्ठेन मङ्गलैरभिमन्त्रितम्॥३८॥

तं रामं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम्।
ददौ कुशिक-पुत्राय सुप्रीतेनान्तरात्मना॥३९॥

अभ्यासः

(१) राजा ने मुनि का स्वागत किन शब्दो मे किया? उनका भावार्थ लिखो। राजा और मुनि के सम्वाद का सक्षेप करो :—

(२) परस्मैपदीतथा आत्मनेपदी क्रियाओको पहचानो।
मन्ये, नोत्सहे, बाधते, दास्यामि, अर्हसि, शक्ष्यन्ति, विसर्जय, अभियाचते।

(३) क्तान्त और शत्रन्त ढूंढो :— क्तान्त और तुमुन्नन्त भी ढूंढो।
अभिपूजयन्, श्रुत्वा, सोढुम्, संयोद्धुम्, प्रतिश्रुत्य, हातुम्, वोढुम्, उपाघ्राय।

(४) विग्रह करके समास का नाम बतलाओ—

दारक्रियाम्, सबान्धवः, महातेजाः, पुलस्त्यवंशप्रभवः, महावीर्यः, विघ्नकर्ता, महाबलः, सुबाहुः, मुनिश्रेष्ठः, अकोविदम्, देवकिन्नरगन्धर्वाः।

(५) समास करो :—

वशिष्ठस्यानुवर्तिनः, रक्षसा योग्यः, ब्रह्मणा दत्तवरः, मारीचश्च सुबाहुश्च, राघवाणाम् अयुक्तः।

(६) लिङ्गपरिवर्तन करो :—

अभिपूजयन्, पुत्र, वीर्यवन्तौ, राक्षसाः, ब्रह्मन्, श्रीमान्, कुर्वाणः, सर्वज्ञः, त्राता, महातपाः।

सीताया रामेण सह वनगमनम्

अभिवाद्य तु कौसल्यां, रामः संप्रस्थितो वनम्।
कृत-स्वस्त्ययनो मात्रा, धर्मिष्ठे वर्त्मनि स्थितः॥१॥

विराजयन् राजसुतो, राज-मार्गं नरैर्वृतम्।
हृदयान्याममन्थेव, जनानांगुणवत्तया॥२॥

वैदेही चापि तत्सर्वं, न शुश्राव तपस्विनी।
तदेव हृदि तस्याश्च, यौवराज्याभिषेचनम्॥३॥

देवकार्यस्म सा कृत्वा कृतज्ञा हृष्टचेतना।
अभिज्ञा सर्व-धर्माणां, राजपुत्री प्रतीक्षते॥४॥

प्रविवेशाथ रामस्तु, स्ववेश्म सुविभूषितम्।
प्रहृष्ट-जन-सम्पूर्णं,ह्विया किञ्चिदवाङ्मुखः॥५॥

अथ सीता समुत्पत्य, वेपमाना च तं पतिम्।
अपश्यच्छोकसन्तप्तं, चिन्ताव्याकुलितेन्द्रियम्॥६॥

तां दृष्ट्वा स हि धर्मात्मा, न शशाक मनोगतम्।
तं शोकं राघवः सोढुं, ततो विवृततांगतः॥७॥

“सीते! तत्रभवाँस्तातः, प्रब्राजयति मांवनम्।
शृणु जानकि! येनेदं, क्रमेणाद्यागतंमम॥८॥

राज्ञा सत्य-प्रतिज्ञेन,पित्रा दशरथेन वै।
कैकय्यै मम मात्रे तु, पुरा दत्तौ महावरौ॥९॥

तयाऽद्य मम सज्जेऽस्मिन्, अभिषेके नृपोद्यते।
अपेक्षितः स समयो, धर्मेण प्रतिनिर्जितः॥१०॥

चतुर्दश हि वर्षाणि, वस्तव्यंदण्डके मया।
पित्रा मे भरतश्चापि, यौवराज्येनियोजितः॥११॥

अहं चापि प्रतिज्ञां तां, गुरोःसमनुपालयन्।
वनमद्यैव यास्यामि, स्थिरीभव मनस्विनि!॥१२॥

याते च मयि कल्याणि, वनं मुनि-निषेवितम्।
व्रतोपवास-परया, भवितव्यं त्वयाऽनघे!"॥१३॥

एवमुक्त्वा तु वैदेही, प्रियार्हाप्रियवादिनी।
प्रणयादेव संक्रुद्धा, भर्तारमिदमब्रवीत्॥१४॥

“आर्यपुत्र! पिता माता, भ्राता पुत्रस्तथा स्नुषा।
स्वानि पुण्यानि भुञ्जानाः,स्वं स्वं भाग्यमुपासते॥१५॥

भर्तुर्भाग्यं तु नार्येका, प्राप्नोति पुरुषर्षभ!।
अतश्चैवाहमादिष्टा, वने वस्तव्यमित्यपि॥१६॥

यदि त्वं ग्रस्थितो दुर्गं, वनमद्यैव राघव!।
अग्रतस्ते गमिष्यामि मृद्गन्ती कुशकण्टकान्॥१७॥

प्रासादाग्रे विमानैर्वा, वैहायस-गतेन वा।
सर्वावस्थागता भर्तुः, पादच्छाया विशिष्यते॥१८॥

अहं दुर्गं गमिष्यामि, वनं पुरुष-वर्जितम्।
नानामृगगणाकीर्णं, शार्दूल-गण-सेवितम्॥१९॥

सुखं वने निवत्स्यामि, यथैव भवने पितुः।
अचिन्तयन्ती त्रीन् लोकान्, चिन्तयन्ती पतिव्रतम्॥२०॥

स्वर्गेऽपि च विना वासो, भविता यदि राघव!।
त्वया विना नरव्याघ्र!, नाहं तदपि रोचये”॥२१॥

स एवं ब्रुवतीं सीतां, धर्मज्ञां धर्मवत्सलः।
न नेतुं कुरुते बुद्धिं, वने दुःखानि चिन्तयन्॥२२॥

सान्त्वयित्वा ततस्तां तु, वाष्पदूषितलोचनाम्।
निवर्तनार्थे धर्मात्मा, वाक्यमेतदुवाच ह॥२३॥

“सीते! महाकुलीनासि, धर्मे च निरता सदा।
इहाचरस्व धर्म त्वं, यथा मे मनसः सुखम्॥२४॥

सीते! यथा त्वां वक्ष्यामि, तथा कार्यत्वयाऽबले!
वने हि दोषा बहवो, वसतस्तान्निबोध मे॥२५॥

सीते! विमुच्यतामेषा, वनवासकृता मतिः।
बहुदोषं हि कान्तारं, वनमित्यभिधीयते॥२६॥

हित-बुद्ध्या खलु वचो, मयैतदभिधीयते।
सदा सुखं न जानामि, दुःखमेव सदा वनम्॥२७॥

लता-कण्टक-संकीर्णाः, कृकवाकूपनादिताः।
निरपाश्च सुदुःखाश्च, मार्गा दुःखमतोवनम्॥२८॥

सुप्यते पर्ण-शय्यासु, स्वयंभग्नासु भूतले।
रात्रिषु श्रम-खिन्नेन, तस्माद् दुःखमतोवनम्॥२९॥

अहोरात्रं च सन्तोषः, कर्तव्यो नियतात्मना।
फलैर्वृक्षावपतितैः सीते! दुःखमतो वनम्॥३०॥

काय-क्लेशाश्च बहवो, भयानि विविधानि च।
अरण्य-वासे वसतो, दुःखमेवसदा वनम्”॥३१॥

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ताश्रुमुखी मन्दम्, इदं वचनमब्रवीत्॥३२॥

“ये त्वया कीर्तिता दोषाः, वने वस्तव्यतां प्रति।
गुणा इत्येव तान् विद्धि, तव स्नेह-पुरस्कृतान्॥३३॥

न च मे भविता तत्र, कश्चित् पथि परिश्रमः।
पृष्ठतस्तव गच्छन्त्या, विहार-शयनेष्विव॥३४॥

कुश-काश-शरेपीकाः, ये च कण्टकिनो द्रुमाः।
तूलाजिन-सम-स्पर्शाः मार्गे मम त्वया सह॥३५॥

पत्रं मूलं फलं यत्तु, अल्पं वा यदि वा बहु।
दास्यसे स्वयमाहृत्य,तन्मेऽमृतरसोपमम्॥३६॥

यस्त्वया सह स स्वर्गः, निरयो यस्त्वया विना।
इति जानन् परां प्रीतिम्, गच्छ राम! मया सह॥३७॥

पश्चादपि हि दुःखेन, मम नैवास्तिजीवितम्।
उज्झितायास्त्वया नाथ !, तदैव मरणं वरम्॥३८॥

इयं हि सहितुं शोकं, मुहूर्तमपि नोत्सहे।
किं पुनर्दश वर्षाणि, त्रीणि चैकं च दुःखिता”॥३९॥

इति सा शोकसन्तप्ता, विलप्य करुणं बहु।
चुक्रोश पतिमायस्ता, भृशमालिङ्ग्यसस्वरम्॥४०॥

तस्याः स्फटिक-संकाशं, वारि सन्ताप-संभवम्।
नेत्राभ्यां परिसुस्राव, पंकजाभ्यामिवोदकम्॥४१॥

तां परिष्वज्य बाहुभ्याम्, विसंज्ञामिव दुःखिताम्।
उवाच वचनं रामः, परिविश्वासयंस्तदा॥४२॥

“न देवि ! तव दुःखेन, स्वर्गमप्यभिरोचये।
न हि मेऽस्मिन् भयं किञ्चित्, स्वयम्भोरिव सर्वतः॥४३॥

तव सर्वमभिप्रायम्, अविज्ञाय शुभानने!
वासं न रोचयेऽरण्ये, शक्तिमानपि रक्षणे॥४४॥

यत् सृष्टाऽसि मया सार्धम्, वनवासाय मैथिलि!
न विहातुं मया शक्या, प्रीतिरात्मवता यथा॥४५॥

आरभस्व शुभश्रोणि, वनवासक्षमाः क्रियाः।
नेदानीं त्वदृते! सीते स्वर्गोऽपि मम रोचते”॥४६॥

अभ्यासः

(१) इस प्रकरण का संक्षिप्त सार लिखो।

(२) साधारण क्रिया और ण्यन्तक्रिया (प्रेरणार्थक) चुनोऔर उनके काल पुरुष और वचन बतलाओ।
अपश्यत्, प्रव्राजयति, यास्यामि, सान्त्वयति, चिन्तयति, जानामि, परिविश्वासयति, आरभस्व।

(३) कर्तृवाच्य और कर्मवाच्य की क्रियाएँ चुनकर वाच्य परिवर्तन करो।
प्रतीक्षते, उपासते, विशिष्यते, वक्ष्यामि, अभिधीयते, जानामि, अभिरोचये, दास्यसे।

(४) निम्ननिर्दिष्ट पद्यांशो की व्याख्या करो।

(१) सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते।

(२) सदा सुखं न जानामि, दुःखमेव सदा वनम्।

(३) नहि मेऽस्ति भयं किञ्चित् स्वयम्भोरिव सर्वतः।

(४) नहि हातुं मया शक्या, प्रीतिरात्मवता यथा।

(५) यस्त्वया सह स स्वर्गः निरयो यस्त्वया विना।

रामराज्यम्

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः॥१॥

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः।
भरतस्यान्तिके रामो हनुमन्तं व्यसर्जयत्॥२॥

पुनराख्यायिकां जल्पन्सुग्रीवसहितस्तदा।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा॥३॥

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥४॥

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः॥५॥

न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित्।
नार्य्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥६॥

न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः।
न वातजं भयं किञ्चिन्नापि वा ज्वरतस्तथा॥७॥

न चापि क्षुद्भयं तत्र न तस्करभयन्तथा।
नगराणि च राष्ट्राणि धनधान्ययुतानि च॥८॥

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥९॥

गवां कोट्ययुतं दत्त्वाविद्वद्भ्यो विधिपूर्वकम्।
असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥१०॥

राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः।
चातुवर्ण्यञ्चलोकेऽस्मिन्स्वे स्वे धर्म्मेनियोक्ष्यति॥११॥

दशवर्षसहस्राणि दशवर्षशतानि च।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥१२॥

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मतम्।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते॥१३॥

एतदाख्यानमायुष्यं पठन् रामायणं नरः।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते॥१४॥

अभ्यासः

(१) वाल्मीकि द्वारा बतलाये हुए रामायण माहात्म्य का विशेष वर्णन करो।

(२) पद-परिचय दोः—
प्राप्य, प्रस्थितः, व्यसर्जयत्, तुष्टः, अनघः, प्रमुच्यते, नियोक्ष्यति, पठन्, सगणः, प्रेत्य, महीयते।

(३) समस्त पदो का विग्रह करके समासो के नाम भी बतलाओः—
भरद्वाजाश्रमः, प्रहृष्टमुदितः, अविधवा, अश्वमेधशतैः, राजवंशान्, शतगुणान्, सर्वपापैः, रामचरितम्, रामायणम्।

(४) शब्द, लिङ्ग, विभक्ति और वचन लिखोः—
देवताभ्यः, वानरान्,भ्रातृभिः, पतिव्रता, जन्तवः, महायशाः, वेदैः, स्वर्गे, सर्वपापैः, दशवर्षशतानि।

(५) वाच्य परिवर्तन करोः—

रामो हनुमन्तं व्यसर्जयद्। अप्सु मज्जन्ति जन्तवः।

चातुर्वर्ण्यंच लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति।

सर्वपापैः प्रमुच्यते।

करुणावान् राजा शिविः

करुणावान् परप्राणान् स्वप्राणैः त्रातुमीहते।
मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिविः॥१॥

उशीनरेषु राजाभूत् धार्मिकः करुणापरः।
दाता धीरः शिविर्नाम सर्वसत्त्वभयप्रदः॥२॥

परीक्षितुं तस्य धर्ममिन्द्रः श्येनवपुर्धरः।
मायाकपोतवपुषम् अग्निम् अन्वपतत् द्रुतम्॥३॥

श्येनभीतः कपोतश्च शिवेरङ्कं समाश्रयत्।
मनुष्यवाचा श्येनोऽथ राजानं शिविमब्रवीत्॥४॥

राजन्! भक्ष्यमिमं मुञ्च कपोतं क्षुधितस्य मे।
अन्यथा मां मृतं विद्धि कस्तेधर्मस्ततो भवेत्॥५॥

इत्युक्तः श्येन-राजेन महाकारुणिकः शिविः।
अमुमुक्षन् कपोतं तं श्येन-राजमथाब्रवीत्॥६॥

श्येनराज! भवद्भीत्या मामेष शरणं गतः।
न त्याज्यः तद्ददाम्यन्यद् मांसमेतत्समं तव॥७॥

एवं महीपतेस्तस्य वाचं श्रुत्वा विहङ्गमः।
प्रत्युवाच महीपालं जिज्ञासुस्तस्य मानसम्॥८॥

यद्येवं तत्समं राजन्! आत्ममांसं प्रयच्छ मे।
भक्षयित्वा यथातृप्ति गमिष्यामि स्वमालयम्॥९॥

अथ राजा तथेत्युक्त्वा खड्गमादाय सादरम्।
आत्ममांसं समुत्कृत्य तुलामारोपयत् स्वयम्॥१०॥

यथा यथा स्वकं मांसमुत्कृत्यारोपयन्नृपः।
तथा तथा तुलायां स कपोतोऽभ्यधिकोऽभवत्॥११॥

असकृन्मांसमुत्कृत्य निर्मासोऽभूद् यदा नृपः।
तदा श्येनस्य तृप्त्यै स आरुरोह स्वयं तुलाम्॥१२॥

आश्चर्यमेतत् नेत्राभ्यां दृष्ट्वाऽनिमिषचक्षुषः।
मंदारपारिजाताद्यैः पुष्पैः भूपमवाकिरन्॥१३॥

तौ चेन्द्राग्नी ततः त्यक्त्वा रूपं श्येनकपोतयोः।
तुष्टावक्षतदेहं तं राजानं चक्रतुः शिविम्॥१४॥

दत्वा तस्मै वरानन्यान् बहून् परमदुर्लभान्।
तत्क्षणादेव तौ प्रीतौ अन्तर्धानमवापतुः॥१५॥

अभ्यासः

(१) करुणावान् शिवि ने किस प्रकार विजय प्राप्त की, इसका विशद रूप से वर्णन करो।

(२) सन्धि करोः—
वपुषम् + अग्निम् + अन्वपतत् + द्रुतम्। ददामि + अन्यत्। मासम् + उत्कृत्य + आरोपयत्। सः + आरुरोह। प्रीतौ + अन्तर्धानम् + अवापतुः।

(३) सन्धिच्छेद करोः—
श्येनोऽथ, धर्मस्ततो भवेत्, भवद्भीत्या, चेन्द्राग्नी।

(४) विग्रह करके समासो के नाम बतलाओं —
वपुर्धरः, महीपालम्, इन्द्राग्नी, आत्ममासम्।

(५) क्रियाओंके लकार, वचन और पुरुष बतलाओः—
ईहते, अन्वपतत्, अब्रवीत्, ददामि, गमिष्यामि, आरोपयत्, अवाकिरन्।

दमयन्ती-स्वयंवरः

आसीद् राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टैः रूपवानश्वकोविदः॥१॥

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः।
सत्यप्रियः सत्यवादी धीरः सर्वगुणैर्युतः॥२॥

तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः।
प्रजानां रञ्जने युक्तो धनुर्विद्या-विशारदः॥३॥

दमयन्ती च तत्कन्या रूपेण तेजसा श्रिया।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥४॥

न देवेषु न यक्षेषु तादृग् रूपवती क्वचित्।
मानुपेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता॥५॥

नलोऽपि नरशार्दूलो लोकेष्वप्रतिमो भुवि।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥६॥

एकदा च वने दृष्ट्वा स्वर्णदेहं मरालकम्।
वर्णरूपसमाकृष्टो नलो जग्राह पक्षिणम्॥७॥

ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा।
हन्तव्योऽस्मि न ते राजन् करिष्यामि तव प्रियम्॥८॥

दमयन्ती सकाशे त्वां कथयिष्यामि नैषध!
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥९॥

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः।
असौ हंसः समुत्पत्यविदर्भानगमत्ततः॥१०॥

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।
न्यपतत्सुन्दरः पक्षी सा ददर्श च तं स्वगम्॥११॥

दृष्ट्वा भीमसुता हंसं समुपाधावदन्तिके।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥१२॥

“दमयन्ति, नलो नाम निषधेषु महीपतिः।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥१३॥

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि!
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे॥१४॥

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्”॥१५॥

एवमुक्ता तु हंसेन दमयन्ती सुलोचना।
अब्रवीत्तत्र तं हंसं, “त्वमप्येवं नले वद”॥१६॥

तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य सुभाषिणीम्।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥१७॥

अथ भीमः समीक्ष्य स्वां सुतां संप्राप्तयौवनाम्।
तस्याः स्वयंवरं चक्रे सूचयित्वाऽखिलान्नृपान्॥१९॥

तच्छ्रुत्वा पृथिवीपालाः सर्वे तद्रूपमोहिताः।
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः।
कनकस्तम्भरुचिरं तोरणेन विराजितम्॥२०॥

विवशुस्ते नृपा रङ्गं महासिंहा इवाचलम्।
दमयन्ती ततो रङ्गं प्रविवेश शुभानना॥२१॥

नलं दृष्ट्वा च हृष्टा सा लज्जमानायतेक्षणा।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम्॥२२॥

अभ्यासः

(१) दमयन्ती स्वयंवर का सार लिखो।

(२) ‘विशिष्टाया विशिष्टेन सगमो गुणवान् भवेत्’ इसकी व्याख्या करो।

(३) प्रकृति प्रत्यय बतलाकर नीचे लिखे शब्दो को वाक्यों में प्रयुक्त करोः—
उपपन्नः, प्रश्रुता, समाकृष्टः, समुत्पत्य, कृत्वा, गुणवान्, समीक्ष्य, श्रुत्वा, हृष्टा।

(४) असमस्त शब्दो को समस्त बनाओ और समस्त शब्दो का विग्रह करो।
प्रजानां रञ्जने, रूपेण तेजसा श्रिया, स्वर्णदेहम्, भीमसुता, निषधेषु महीपतिः, तस्य भार्या, पृथिवीपालाः, रूपमोहिताः।

(५) सन्धिच्छेद करोः—
गुणैरिष्टै रूपवानश्वकोविदः, मानुषेष्वपि, एवमुक्तस्ततोहंसः, दमयन्त्यास्तदान्तिके, अथाब्रवीत्, शुभानना, स्कन्धदेशेऽसृजत्तस्य।

(६) शब्द, विभक्ति, वचन और लिंग बतलाओः—
लोकेषु, भुवि, पक्षिणम्, गिरम्, दमयन्ति, वरवर्णिनि, सुमध्यमे।

कपोतोपाख्यानम्

कश्चित् क्षुद्रसमाचारः प्राणिनां कालसन्निभः।
विचचार महारण्ये घोरः शकुनि-लुब्धकः॥१॥

स पंजरकमादाय पाशं च लगुडं तथा।
नित्यमेव वनं याति सर्व-प्राणि-विहिंसकः॥२॥

अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका।
जाता हस्तगता तां स प्राक्षिपत् पंजरान्तरे॥३॥

अथ कृष्णा दिशाः सर्वा वनस्थस्याभवन् घनैः।
वातवृष्टिश्च महती क्षयकाल इवाभवत्॥४॥

प्राप्य वृक्षं वदत्येवं योऽत्र तिष्ठति कश्चन।
तस्याहं शरणं प्राप्तः स परित्रातु मामिति॥५॥

अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः।
भार्याविरहितस्तिष्ठन् विललाप सुदुःखितः॥६॥

वातवर्षो महानासीत् न चागच्छति मे प्रिया।
तया विरहितं ह्येतच्छून्यमद्य गृहं मम॥७॥

पतिव्रता पतिप्राणा पत्युः प्रियहिते रता।
यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि॥८॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
गृहं हि गृहिणीहीनम् अरण्यसदृशं मतम्॥९॥

पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः।
कपोतिका सुसन्तुष्टा वाक्यं चेदमुवाच सा॥१०॥

न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः॥११॥

मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजयेत्॥१२॥

पुनश्चाब्रवीत्—

शृणुष्वावहितः कान्त! यत्ते वक्ष्याम्यहं हितम्।
प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः॥१३॥

एषशाकुनिकः शेते तवावासं समाश्रितः।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर॥१४॥

मा चास्मै त्वं कृथा द्वेष बद्धाऽनेनेति मत्प्रिया।
स्वकृतैरेव बद्धाहं प्राक्तनैः कर्मबन्धनैः॥१५॥

तस्यास्तद् वचनं श्रुत्वा धर्म-युक्ति-समन्वितम्।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम्॥१६॥

भद्र, सुस्वागतं तेऽस्तु ब्रूहि किकरवाणि ते।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्॥१७॥

तस्य तद् वचनं श्रुत्वा प्रत्युवाच विहंगमम्।
कपोत! खलु शीतं मे हिमत्राणं विधीयताम्॥१८॥

ततः कपोतको गत्वा कुतोऽप्यानीय पावकम्।
सन्दीप्य शुष्कपर्णेषु तमाह शरणागतम्॥१९॥

सन्तापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः।
न चास्ति विभवः कश्चित् नाशये येन ते क्षुधाम्॥२०॥

तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम्।
यथा भूयो न वक्ष्यामि नास्तीत्यर्थि-समागमे॥२१॥

स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय॥२२॥

एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना।
तमग्निसंपरिक्रम्य प्रविवेश स्ववेश्मवत्॥२३॥

ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम्।
कपोतमग्नौपतितं वाक्यमेतदभाषत॥२४॥

यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः।
आत्मना हि कृतं पापमात्मनैव हि भुज्यते॥२५॥

अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम्।
तोयं स्वल्पं यथा ग्रीष्मे शोषयिष्याम्यहं पुनः॥२६॥

ततो यष्टिं शलाकां च जालकं पञ्जरं तथा।
बभञ्ज लुब्धको दीनां कपोतीं च मुमोच ताम्॥२७॥

लुब्धकेन सती मुक्ता दृष्ट्वाग्नौ पतितं पतिम्।
कपोती विललापार्ता शोक-संतप्त-मानसा॥२८॥

न कार्यमद्य मे नाथ! जीवितेन त्वया विना।
दीनायाः पतिहीनायाः किन्नार्या जीविते फलम्॥२९॥

एवं विलप्य बहुशः कपोती भृशदुःखिता।
पतिव्रता सुसंदीप्तं तमेवाग्निंविवेश सा॥३०॥

दृष्ट्वैतत् सकलं व्याधो विवेश च वनं घनम्।
प्राणिहिंसां परित्यज्य बहुनिर्वेदवान् भृशम्॥३१॥

तत्र दावानलं दृष्ट्वाविवेश विरताशयः।
निर्दग्धकल्मषोभूत्वा स्वर्गसौख्यमवाप्तवान्॥३२॥

अभ्यासः

(१) व्याध के जीवन मे कैसे परिवर्तन आया। कपोतोपाख्यान के आधार पर इसका वर्णन करो।

(२) पद-परिचय दोः—
कपोतिका, वातवृष्टिः, तिष्ठति, जाता, पत्युः, पञ्जरस्था, तुष्टाः, दातारम्, शेते।

(३) ‘तुष्टे भर्तरि नारीणा तुष्टाः स्युः सर्वदेवताः’ इसकी व्याख्या करो।

(४) विशेषण और संज्ञा चुनकर उनके वचन, विभक्ति और लिङ्ग लिखो।
घोरः शकुनिलुब्धकः, वृष्टे भर्तरि, शाकुनिकः शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर। शरीरदुःखजीवितम्। दीनायाः पतिहीनायाः किंनार्याः जीविते फलम्।

गीतोपदेशः

संजय उवाच—

**तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदंवाक्यमुवाचमधुसूदनः॥१॥ **

**श्रीभगवानुवाच— **

क्लैब्यंमा स्म गमः पार्थ नैतत् त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप॥२॥

अर्जुन उवाच—

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥३॥

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुंभैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥४॥

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥५॥

संजय उवाच—

एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥६॥

तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥७॥

श्रीभगवानुवाच—

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासुंश्च नानुशोचन्ति पण्डिता॥८॥

नत्वेवाहं जातु नासं न त्वं नेमेजनाधिपः।
न चैव न भविष्यामः सर्वे वयमतः परम्॥९॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥१०॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥११॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत!॥१२॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१३॥

न जायते वा म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे॥१४॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ! कं घातयति हन्ति कम्॥१५॥

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही॥१६॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥१७॥

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥१८॥

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो! नैनं शोचितुमर्हसि॥१९॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादऽपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥२०॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत!
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥२१॥

स्वधर्ममपि चावेक्ष्यन विकम्पितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते॥२२॥

अथ चेत्त्वमिमं धर्म्यसंग्रामं न करिष्यसि।
ततः स्वधर्मकीर्तिं च हित्वा पापमवाप्स्यसि॥२३॥

अकीर्तिचापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
संभावितस्यचाकीर्तिर्मरणादतिरिच्यते॥२४॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ! कौन्तेय युद्धाय कृतनिश्चयः॥२५॥

सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥२६॥

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन!
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥२७॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥२८॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय!
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥२९॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।
जन्म-बन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥३०॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीत-रागभयक्रोधः स्थितधीर्मुनिरुच्यते॥३१॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥३२॥

यततो ह्यपि कौन्तेय! पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥३३॥

तानि सर्वाणि संयम्य युक्त आसीत् मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥३४॥

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते।
संङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते॥३५॥

क्रोधाद्भवति संमोहः समोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥३६॥

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥३७॥

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥३८॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥३९॥

आपूर्यमाणमचल-प्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत्कामा यं प्रविशन्ति सर्वे
न शान्तिमाप्नोति न कामकामी॥४०॥

विहाय कामान् यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारः स शान्तिमधिगच्छति॥४१॥

एषाब्राह्मी स्थितिः पार्थ! नैनां प्राप्य विमुह्यति।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥४२॥

(१) अर्जुन के घबरा जाने पर भगवान् कृष्ण ने उसे क्या उपदेश दिया,उसका सार लिखो।

(२) गीता का प्रारम्भ ‘अशोच्यानन्वशोचस्त्वम्’ से होता है। इस पद्य की व्याख्या करो।

(३) आत्मा अमर है, इस पर गीता सम्बन्धी विचार क्रमशः लिखो।

(४) निम्ननिर्दिष्ट पद्य को कर्मवाच्य मे बदलो :—

नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥

(५) निम्न निर्दिष्ट पद्याशो की व्याख्या करो :—

(१) शिष्यस्तेऽहं शाधि मा त्वां प्रपन्नम्।

(२) तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।

(३) तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।

(४) ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।

(५) वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।

यक्ष-युधिष्ठिर संवादात्

प्रश्नोत्तरी

प्रश्नः -केनस्विच्छ्रोत्रियो भवति, केनस्विद् विन्दते महत्।
केनस्विद् द्वितीयवान्भवति राजन्, केन च बुद्धिमान्॥१॥

उत्तरः -श्रुतेन श्रोत्रियो भवति, तपसा विन्दते महत्।
धृत्या द्वितीयवान् भवति, बुद्धिमान् वृद्धसेवया॥२॥

प्र०- इन्द्रियार्थाननुभवन् बुद्धिमांल्लोकपूजितः।
संमतः सर्वभूतानाम् उच्छ्वसन् को न जीवति॥२३॥

उ०- देवतातिथिभृत्यानां पितृणामात्मनश्च यः।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति॥४॥

प्र०- किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्॥५॥

उ०- माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच् चिन्ता बहुतरी तृणात्॥६॥

प्र०- किंस्वित् प्रवसतो मित्रं किंस्विन् मित्रं गृहे सतः।
आतुरस्य च किं मित्रं किंस्विन् मित्रं मरिष्यतः॥७॥

उ०- विद्या प्रवसतो मित्रं भार्या मित्रंगृहे सतः।
आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतःll८ll

प्र०- धान्यानाम् उत्तमं किंस्विद् धनानां स्यात् किमुत्तमम्।
लाभानाम् उत्तमं किं स्यात् सुखानां स्यात् किमुत्तमम्॥९॥

उ०- धान्यानाम् उत्तमं दाक्ष्यंधनानाम् उत्तमं श्रुतम्।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा॥१०॥

प्र०- मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत्।
श्राद्धंमृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत्॥११॥

उ०- मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥१२॥

प्र०- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः॥१३॥

उ०- क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः॥१४॥

प्र०- कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते।
को मूर्खः कश्चकामः स्यात् को मत्सर इति स्मृतः॥१५॥

उ०- धर्मज्ञः पण्डितो ज्ञेयः नास्तिको मूर्ख उच्यते।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः॥१६॥

प्र० - राजन्, कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम्॥१७॥

उ०- शृणु यक्ष, कुलं तात न स्वाध्यायो न च श्रुतम्।
कारणं हि द्विजत्वे स्याद् वृत्तमेव न संशयः॥१८॥

वृत्तं यत्नेन संरक्ष्यंब्राह्मणेन विशेषतः।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः॥१९॥

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः।
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः॥२०॥

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः॥२१॥

प्र०- का च वार्ताकिमाश्चर्यं कः पन्थाः कश्च मोदते।
ब्रूहि मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः॥२२॥

उ०- अस्मिन् महामोहमये कटाहे,
सूर्याग्निना रात्रिदिवेन्धनेन।
मासर्तुदर्वी-परिघट्टनेन,
भूतानि कालः पचतीति वार्ता॥२३॥

अहन्यहनि भूतानि गच्छन्ति यम-मन्दिरम्।
शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमतः परम्॥२४॥

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः,
नैको मुनिर्यस्य मतं प्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां,
महाजनो येन गतः स पन्थाः॥२५॥

पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे।
अनृणी चाप्रवासी च स वारिचर! मोदते॥२६॥

अभ्यासः

(१) नीचे लिखे प्रश्नो का उत्तर दो।

(१) सॉस लेता हुआ भी कौन नही जीता?

(२) संसार में मरे हुए कौन है?

(३) बात कौन-सी है? आश्चर्य क्या है? मार्ग कौन-सा है? प्रसन्न कौन है? इन चार प्रश्नो का उत्तर दो।

(२) प्रत्येक वाक्य में क्रिया का प्रयोग करते हुए पद्य को गद्य मे बदलो।

मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्।
मृतमश्रोत्रियं श्राद्धं, मृतो यज्ञस्त्वदक्षिणः।

(३) इस प्रश्नोत्तरी में तुम्हे किन-किन प्रश्नोके उत्तर रोचक प्रतीत हुए, उन्हें लिखकर दिखलाओ।

(४) पद परिचय दो :—

मृता जीवन्तु बान्धवाः, नास्तिको मूर्ख उच्यते।

अनृणी चा प्रवासी च स वारिचर मोदते।

आतुरस्य भिषङ्मित्रं, मित्रं दानं मरिष्यतः।

(५) विग्रह करके समासोके नाम बतलाओ—

सर्वभूतानाम्, देवतातिथिभृत्यानाम्, महाजनः अनृणी, अप्रवासी, वारिचरः।

मुक्तकानि

कनक-भूषण-संग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता॥१॥

निस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः,
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति।
चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः॥२॥

उदयति यदि भानुः पश्चिमे दिग्विभागे,
विकसति यदि पद्मं पर्वतानां शिखाग्रे।
प्रचलति यदि मेरुः शीततां याति वह्निः
न चलति खलु वाक्यं सज्जनानां कदाचित्॥३॥

पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किं?
नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्।

धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्।
यत्पूर्वं विधिना ललाट-लिखितं तन्मार्जितुं कः क्षमः॥४॥

क्वचिद् वीणा वाद्यं क्वचिदपि च हाहेति रुदितम्
क्वचिद् विद्वद्गोष्ठी क्वचिदपि सुरा-पात्र-कलहः!
क्वचिद्दारा रम्याः क्वचिदपि जरा-जर्जर-तनुः,
न जाने संसारे किममृतमथ किं वा विषमयम्॥५॥

निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥६॥

अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः।
लोकः प्रयागवासी कूपस्नानं सदाचरति॥७॥

नीचो वदति न कुरुते
न वदति सुजनः करोत्येव।
शरदि न वर्षति गर्जति
वर्षति वर्षासु निस्वनो मेघः॥८॥

बोधितोऽपि बहु-सूक्ति-विस्तरैः
किं खलो जगति सज्जनो भवेत्।
स्नापितोऽपि बहुशो नदीजलै-
र्गर्दभः किमु हयो भवेत् क्वचित्॥९॥

यः परस्य विषमं विचिन्तयेत्
प्राप्नुयात् स कुमतिः स्वयं हि तत्।
पूतना हरिवधार्थमाययौ
प्राप सैव वधमात्मनस्ततः॥१०॥

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नाऽवसीदति॥११॥

बलवानपि निस्तेजाः कस्य नाभिभवास्पदम्।
निःशंकं दीयते लोकैः पश्य भस्मचये पदम्॥१२॥

लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम्।
शेषे धराभरक्लान्ते शेते नारायणः सुखम्॥१३॥

उपकर्तु यथा स्वल्पः समर्थो न तथा महान्।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः॥१४॥

चित्र-श्लोकाः

कस्तूरी जायते कस्मात्? को हन्ति करिणां कुलम्?
किं कुर्यात् कातरो युद्धे? मृगात् सिंहः पलायनम्॥१॥

(मृगात्, सिंहः, पलायनम् — क्रमशः जोड़िये)

अस्ति कुक्षिः शिरो नास्ति, बाहुरस्ति, निरंगुलिः।
अपदो नरभक्षी च, यो जानाति स पण्डितः॥२॥

(कंचुकः — चोगा)

अपदो दूरगामी च, साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥३॥

(पत्रम्)

वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च धत्ते न घटो न मेघः॥४॥

(नारिकेलः—नारियल**) **

कं संजघान कृष्णः? का शीतलवाहिनी गङ्गा?
के दारपोषणरताः? कं बलवन्तं न बाधते शीतम्॥५॥

(कं संजघान=कंसम्, काशीतल, के दार=केदार, कं बलवन्तम्=कंबलवन्तम्)

तातेन कथितं पुत्र, लेखमेकं लिखाधुना।
न तेन लिखितो लेखः पितुराज्ञा न लङ्घिता॥६॥

(नतेन — नम्र हुए)

कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी।
पञ्चभर्त्री न पाञ्चाली यो जानाति स पण्डितः॥७॥

(लेखनी — कलम)

सूक्तयः

** (१) शठे शाठ्यंसमाचरेत्। **

** (२) विद्या धर्मेण शोभते। **

** (३) विनाशकाले विपरीत-बुद्धिः। **

** (४) छिद्रेष्वनर्था बहुलीभवन्ति। **

** (५) अति सर्वत्र वर्जयेत्। **

** (६) अविवेकः परमापदां पदम्। **

** (७) शरीरमाद्यंखलु धर्म-साधनम्। **

** (८) हितं मनोहारि च दुर्लभं वचः। **

** (९) न धर्म-वृद्धेषु वयः समीक्ष्यते। **

** (१०) संघे शक्तिः कलौ युगे। **

** (११) युक्तिः शक्तेर्गरीयसी।**

** (१२) उद्यमे सिद्धिः प्रतिवसति। **

** (१३) पदं हि सर्वत्र गुणैर्निधीयते। **

** (१४) भिन्नरुचिर्हि लोकः।**

** (१५) आज्ञा गुरूणां ह्यविचारणीया।**

** (१६) न रत्नमन्विष्यति मृग्यते हि तत्। **

** (१७) प्रकृत्यमित्राणि सतामसाधवः। **

** (१८) महीयांसः प्रकृत्या मितभाषिणः। **

** (१९) सर्वः स्वार्थं समीहते।**

** (२०) महान्महत्येव करोति विक्रमम्। **

** (२१) रूपमन्ने छविर्वस्त्रे।**

** (२२) मौनं सर्वार्थसाधनम्।**

** (२३) मनोरथानामगतिर्न विद्यते। **

** (२४) बुभुक्षितः किं न करोति पापम्।**

** (२५) अर्धो घटो घोषमुपैति नूनम्।**

** (२६) पुराणमित्येव न साधु सर्वम्।**

** (२७) जलबिंदुनिपातेन क्रमशः पूर्यते घटः। **

** (२८) कृशे कस्यास्ति सौहृदम्। **

** (२९) याच्ञामोघा वरमधिगुणे नाधमे लब्धकामा। **

** (३०) निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।**

** (३१) भवितव्यानां द्वाराणि भवन्ति सर्वत्र।**

** (३२) सहसा विदधीत न क्रियाम्। **

** (३३) सदाभिमानैकधना हि मानिनः।**

** (३४) लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।**

** (३५) वरं भिक्षाशित्वं न च परधनास्वादनसुखम्।**

** (३६) प्रक्षालनाद् हि पङ्कस्य दूराद् अस्पर्शनं वरम्। **

** (३७) अजीर्णे भोजनं विषम्। **

** (३८) पापैः सह न संदध्यात्।**

** (३९) दीर्घसूत्री विनश्यति।**

** (४०) किमिव हि मधुराणां मण्डनं नाकृतीनाम्। **

** (४१) प्रत्यक्षे किं प्रमाणम्।**

** (४२) हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा।**

** (४३) विना पुरुषकारेण दैवमत्र न सिद्ध्यति।**

** (४४) सत्यमेव जयति नानृतम्। **

अन्योक्तयः

मेघः

जलधर! जलभरनिकरैरपहर परितापमुद्धतं जगतः।
नोचेदपसर दूरं हिमकरकरदर्शनंवितर॥१॥

अयि जलद! यदि न दास्यसि,
कतिचित्त्वं चातकाय जलकणिकाः।
तदयमचिरेण भविता,
सलिलाञ्जलिदानयोग्यस्ते॥२॥

वितर वारिद! वारि दवातुरे,
चिरपिपासित-चातक-पोतके।
प्रचलिते मरुति क्षणमन्यथा,
क्व नु भवान् क्व पयः क्व च चातकः॥३॥

नदी

यास्यति जलधर समयः,
तव च समृद्धिर्लघीयसी भविता।
तटिनि! तटद्रुमपातन-
पातकभारः चिरस्थायी॥४॥

हंसः

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्।
रमते न मरालस्य मानसं मानसं विना॥५॥

हंसः श्वेतो वकः श्वेतः को भेदो वकहंसयोः।
नीरक्षीरविवेके तु हंसो हंसो वको वकः॥६॥

कोकिलः

कोकिल! कलमालापैरलमलमालोकसे रसालं किम्।
शरनिकरभरित-शरधिः शबरःसरतीह परिसरे सधनुः॥७॥

काकः

विधिरेव विशेष-गर्हणीयः करट! त्वं रट कस्तवापराधः।
सहकारतरौ चकार यस्ते वसतिं सरलेन कोकिलेन॥८॥

वानरः

हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम्॥९॥

यास्यति जलधर समयः,
तव च समृद्धिर्लघीयसी भविता।
तटिनि! तटद्रुमपातन-
पातकभारः चिरस्थायी॥४॥

हंसः** **

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्।
रमते न मरालस्य मानसं मानसं विना॥५॥

हंसः श्वेतो वकः श्वेतः को भेदो वकहंसयोः।
नीरक्षीरविवेके तु हंसो हंसो वको वकः॥६॥

कोकिलः

कोकिल! कलमालापैरलमलमालोकसे रसालं किम्।
शरनिकरभरित-शरधिः शबरः सरतीह परिसरे सधनुः॥७॥

काकः

विधिरेव विशेष-गर्हणीयः करट! त्वं रट कस्तवापराधः।
सहकारतरौ चकार यस्ते वसतिं सरलेन कोकिलेन॥८॥

वानरः

हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम्॥९॥

शब्दार्थाः

भारत-गीतिका

** भूत-संघे —** प्राणिसमूह में

** कायवाक्-शोधने —** शरीर और वाणी के शुद्ध करने में

** समुद्भासितः—** भली भान्ति प्रकाशमान (भास् धातु के साथ क्त (त) प्रत्यय लगा हुआ है। यहाँ सम् और उत् उपसर्ग है।)

** विहाय —** छोडकर (हा धातु का अर्थ छोडना है ‘वि’ उपसर्ग लगने से यहाँ ‘क्त्वा’ के स्थान पर ‘ल्यप्’ प्रत्यय हो गया।)

** चन्द्र-शुभ्रम् —** चन्द्रमा के समान सफेद

** कर्पूर-पटक-रजक-कथा**

** अहर्निशम् —** दिन-रात

** विधुरदर्शनम् —** आपत्ति का देखना

** किंसुहृद्—** दुष्ट मित्र (कुत्सित्सुहृद् इति किंसुहृद्)

** उपेक्षा —**वेपरवाही (उप+ईक्षा)

** अर्कः —** सूर्य

** हुताशनम् —** अग्नि को (हुतम् अश्नाति, इति हुताशनस्य हुताशनम्)

वायसदम्पत्योः कथा

** दम्पती —** पति पत्नी (जोडा)

** अपत्यानि —** सन्तान, (न पतति नरके यस्मात् तत् अपत्यम्, जिसके पैदा होने से माता-पिता नरकगामी नही होते। यहाँ अपत्यानि बहुवचन है।)

** उत्तरदायकः —** सामने बोलने वाला

** विग्रहीतुम् —** लडने के लिए (‘वि’ उपसर्ग के साथ यह ग्रह धातु का तुमुन्नन्त रूप है ग्रह के साथ ‘वि’ उपसर्ग लगाने से इसका अर्थ युद्ध करना हो जाता है। (उपसर्गेण धात्वर्थो बलादन्यत्र नीयते)

सिंहशशकयोः कथा

** उपकल्पित —** नियत

** पंचत्वं गमिष्यामि —** मर जाऊँगा

** कोपात्तम्—** क्रोध से उसको

** शपथम्—** सौगन्द को

प्रतिबिम्बिम्— परछाई को

दर्पात्— घमण्ड से

निक्षिप्य— फेक कर

** उपढौकयामः —** भेट करे

** क्रोधाध्मातः —** क्रोध से भडका हुआ

शशक-गजयूथयोः कथा

** तृषार्तः —** प्यास से पीडित

** निमज्जनस्थानम् —** स्नान करने का स्थान

** ह्रदम् —** तालाब को

** पिपासाकुलितेन —** प्यास से व्याकुले हुए ने

** जिघ्रन् —** सूँघता हुआ (शत्रन्त घ्रा धातु से)

मन्द-विषसर्पस्य कथा

** अक्षमः —** असमर्थ

** अतिजीर्णतया —** बहुत बूढा होने के कारण (तीसरी विभक्ति का एकवचन)

भेकः — मेढक

श्रोत्रियस्य — वेदपाठी के

** सापगमाः —** (वियोगवान्) स, अप, गमा

** परिदेवना —** विलाप

** जरा (स्त्री०) —** बुढापा (इसके रूप लता के समान है)

** असहिष्णु —** असहनशील

** परेद्युः —** दूसरे दिन

** राष्ट्रविप्लवे —** राज्य-क्रान्ति होने पर

** उपद्रुतम् —** भरा हुआ, पूर्ण, उप+द्र (भ्वादिगण)

** शप्तः —** शाप दिया हुआ (क्त प्रत्यय का रूप है)

** दण्डग्रहणं —** सन्यास

** वोढुम् —** उठाने के लिए (वह् का तुमुन्नन्त रूप है)

** संधेयः —** सन्धि के योग्य

** स्वगतम् —** मन ही मन मे

** उरगः —** साँप (उरसा गच्छति, इति उरग, छाती से चलने वाला)

कंकणलोभि-पथिकस्य कथा

** कुशहस्तः —** कुशा हाथ में लिये हुए

** लोभाकृष्टेन —** लोभ से खिंचे हुए ने

** इज्या — यज्ञ**

** चतुर्वर्गः —** धर्म, अर्थ, काम और मोक्ष

** विषसंसर्गः —** जहर की मिलावट, (विषस्य संसर्गः प० त० समास)

** दर्शयति —** दिखलाता है (दृश् णिजन्त लट् लकार, अन्य पुरुष का एकवचन)

** मारात्मके —** मारने वाले मे,

** अनारुह्य —** विना चढे़ हुए, न चढ़ कर आ+रुह् (ल्यप् प्रत्यय का रूप)

**अतिरिच्यते —**बढ़कर है

शस्त्रपाणीनाम् — शस्त्र हाथ मे रखने

वालो का (शस्त्राणि पाणिषु येषां ते शस्त्रपाणयः, तेषां शस्त्रपाणीनाम्, बहुव्रीहिः)

** विधुः —** चन्द्रमा

** ग्रस्यते —** ग्रसा जाता है (ग्रस् धातु की कर्मवाच्य क्रिया है)

** पर्कटीवृक्षः —** पाकर का पेड

** उद्धृत्य —** निकाल कर (उत् उपसर्ग के साथ हृ धातु का ल्यप् में प्रयोग है)

** चान्द्रायणव्रतम् —** इस व्रत में चन्द्रमा की एक एक कला के बढने पर एक एक ग्रास बढाया जाता है उसी प्रकार कला के क्षीण होने पर एक एक ग्रास घटाया जाता है। अमावस्या को निराहार रहना पडता है। यह कठिन व्रत है।

** मार्जारः —** बिल्ला

** प्रतिनिवर्तते —** लौट जाता है

** उदकम् —** जल

** अध्यवसितम् —** निश्चय किया

** स्वच्छन्दम् —** अपने आप

** इतस्ततः —** इधर उधर

** व्यापादितः —** मार दिया

वीरवरस्य कथा

** प्रतीहारम् —** द्वारपाल को

** वर्तनार्थी —** वेतन (तनख्वाह) चाहने वाला

** सुवर्णशतचतुष्टयम् —** ४०० अशर्फियाँ

** विनियोगः —** उपयोग

** क्रन्दनानुसारणं —** चीख के पीछे

** सूचीभेद्ये तमसि —** घोर अन्धकार मे

** अपायः —** विघ्न

** साष्टाङ्गपातम् —** दण्डवत्

** सपुत्रदारः —** स्त्री पुत्र के साथ

** महासत्त्वः —** बडा प्राणी

** प्रसादात् —** प्रसन्नता से

ब्राह्मणसुत-नकुल-कथा

** अधिष्ठाने —** स्थान पर

** नकुलः —** नेवला

** स्तन्यम् —** दूध (स्तनयो भव स्तन्यम्)

द्वारक— वच्चा

** रुधिरक्लिन्नमुखम्—** खून से भीगे मुह वाले को

** व्यापाद्य—** मारकर

** गगने —** आकाश में

** पीवरः —** मोटा

** प्रतस्थे —** चल दिया

** मिथोऽभिहितम् —** आपस में कहा

** वचयित्वा —** ठग कर

** अनुष्ठीयते —** किया जाता है

** रासभः —** गधा

** उष्ट्र —** ऊँट

** सारमेयम् —** कुत्ते को

** प्रतिपादयसि —** तू कहता है

** समुपेत्य —** पास आकर

** प्रपलायितः —** दौड गया

मण्डूकराजसर्पकथा

** मण्डूकराजः —** मेढको का राजा

** उद्वेजितः —** घवराया हुआ

** दायादः —** हिस्सेदार (पैतृक सम्पत्ति का)

** आह्वयति —** बुलाता है

** मर्त्यलोके —** संसार में

** वेद्मि —** जानता हूँ

** दुर्गे —** किले में

** अश्रद्धेयम् —** विश्वास नही किया जा सकता

** पाषाणचयनिबद्धे —** पत्थरो के ढेर से बने हुए मे

** परिणतवयाः —** पकी हुई उमर वाला (परिणतं वयः यस्य न परिणतवयाः, बहु० समास)

** बुधः —** बुद्धिमान्

** निःशेषिताः** — समाप्त कर दिये

** साम्प्रतम्** — अब

** परोक्षे —** आँखो की ओठमें

** तारस्वरेण —** ऊँची आबाज से

** विरराम —** हट गया

** बुभुक्षितः —** भूखा

** स्तोकम् —** योडा

** द्रुततर —** जल्दी

** निष्करुणाः —** निर्दय

** आख्याहि —** कह दे

टिट्टिभ-समुद्र-कथा

** समुद्रवेला —** समुद्र की तूफानी लहर

** समाकर्षति —**खीच लेती है

** हितकामानाम् —** भलाई चाहने वालो का

** जलाशये —** तालाव मे

** संजातम्** — हो गया

** अन्विष्यताम् —** ढूढना चाहिए

** प्रभूत-जलसनाथं —** बहुत जल वाला

** विधुरेऽपि काले —** आपत्तिकाल मे भी

** पोतभङ्गे —** जहाज टूटने पर

** खण्डशः —** टुकडे-टुकडे

** कुलिशपातोपमं —** वज्रपात के समान

** कापुरुषाः —** कायर मनुष्य

** शोषयामि —** सुखा देता हूँ

** विप्रुषवाहिन्या —** एक बूंद पानी उठाने वाली से

** विहङ्गमान् —** पक्षियो को (विहायसा गच्छति, इति विहङ्गमः, तान्) आकाश में उडने वाले

** विषण्ण-वदनाः** — दुःखित (विषण्णानि, वदनानि येषां ते विषण्णवदनाः)

** वैनतेयः —**गरुड (विनताया अपत्यं पुमान् इति वैनतेय)

** कुलीनः —** अच्छे कुल में उत्पन्न

ऐन्द्रजालिक-कौतुकम्

** ऐन्द्रजालिकः —** इन्द्रजाल विद्या को जानने वाला (मदारी)

** कलाभिज्ञः —** कला को पूर्ण रूप से जानने वाला

** लाघवम् —** चतुराई

** विपुलकन्धरः —** मोटी गर्दन माला

** रक्तलिप्तः —** खून से लथपथ (रक्तेन लिप्त, तृ० तत्पुरुष समास)

** कबन्धः —** धड

** विचेतनैः — **जड पदार्थो ने

** विलीयते** — लीन हो जाती है

** अरुन्धती —** वशिष्ठ की पत्नी

** श्रीखण्डादिभिः —** चन्दन आदि से

** युद्धावसाने —** युद्ध की समाप्ति पर

** सहोदर —** सगा भाई

** लज्जावनतमुखाः —** लज्जा से झुके हुए मुख वाले

** प्रस्थापितः —** भेज दिया

सुमति-सचिव-कथा

** सुतनिर्विशेषः —** पुत्र के समान

** विधीयते —** किया जाता है

** क्लिश्यमानः —** दुखी हुआ

** निशम्य —** सुनकर

** सचिवः —** मन्त्री

** मृगयायै —** शिकार के लिए

** विज्ञापय —** तू बतला दे, ज्ञा धातु के ण्यन्त प्रक्रिया मे लोट् लकार के मध्यम पुरुष का एकवचन है, यहाँ ‘वि’ उपसर्ग लगा हुआ है)

** विधेहि —** कर (वि उपसर्ग के साथ ‘धा’ धातु का अर्थ ‘करना’ हो जाता है)

** कुप-सन्निहितं —** कूएँ के समीप

** तूर्णं —** जल्दी

** वयसाम् —** पक्षियो के

** पिनह्य —** ओढकर

** वृक्षाभ्याशम् —** वृक्ष के समीप

** पलायाञ्चक्रे —** दौड गया

** लघुपदम् —** जल्दी-जल्दी

** परित्राणम् —** रक्षा

** प्रतिनिवृत्तौ —** दोनो लौट गये

अकबरो बीरबलश्च

** व्यङ्ग्यरूपेण —** ताने के रूप मे

** वाहीकः —** गँवार

** प्रसुप्य —** सोकर

** श्वः —** आने वाला कल

** प्रतिवचनम् —** उत्तर

** अकारयत् —** करवाया

** भूरि —** बहुत

** दापयिष्यामि —** दिलाऊँगा (दा धातु के लृट् लकार के उत्तम पुरुष के एकवचन का णिजन्त रूप)

** मनीषिणा — **बुद्धिमान् के द्वारा

** बुद्धिप्रकर्षम्** — बुद्धि की अधिकता को

भोजराजस्य गदः

** गदः —** व्याधि

** कपाल-शोधनादि —** यह एक यौगिक क्रिया है जिसमे नाक से जल चढा कर कपाल की शुद्धि की जाती है।

** शफर-शावः —** मछली का बच्चा (शफरस्य शावः, ष० तत्पुरुष स०)

** विषये —** देश मे

** भेषजकोशान् —** दवाइयो के खजानो की

** देव-समागमसमयः —** परमात्मा से मिलने का समय (मृत्युसमय)

** पुरुहूतः —** इन्द्र

** पाठीनः —** एक प्रकार की मछली

** द्विजन्मा —** ब्राह्मण, क्षत्रिय और वैश्य को कहते हैं। यहाँ इसके अर्थ ब्राह्मण है।

** मोह-चूर्णेन —** बेहोश करने वाली दवाई से

** सन्धानकारिण्या —** जोड देने वाली दवाई से

** संजीवन्या —** फिर जीवित करनेवाली बूटी से

** तुरीयचरणम् —** श्लोक का चौथा पाद

** कृष्णेतरपक्षे —** कृष्ण पक्ष से दूसरा अर्थात् शुक्ल पक्ष मे

युद्धवीर-कथा

** निजदर्पोपजीविनः —** अपने घमण्ड पर जीने वाले

** अर्जयामि —** कमाता हूँ

** शौर्याकृष्ट —** शूरवीरता से खिचा हुआ, शौर्येण आकृष्ट (तृ० तत्पुरुष समास)

** मादृशाम् —** मेरे जैसो का

** युद्धपरिपन्थी —** युद्ध में मुकावला करने वाला

** तुरगबलसहितः —** घोडो की सेना के साथ

** कुतूहलम् —** आश्चर्य

** अविमृश्यकारिणा —** विचार के विना काम करने वाले से

** पतंगवत् —** परवाने की भाँति

** कार्पण्यम् —** कायरता

** परिगृहीतास्त्रः —** हथियार पकडकर (परिगृहीतानि अस्त्राणि येन स, बहु० समास)

** कुञ्जरारूढ—** हाथी पर सवार

** सधानार्थिन—** सन्धि चाहने वाले का

** निरोद्धुकामान् —** रोकने की इच्छा करने वालो को

** अशीतिवर्षदेशीयः —** ८० वर्ष का

** षोडशाब्द —** सोलह वर्ष का

** जिगीषसि —** जीतना चाहता है

** पुलकितगात्रः —** (पुलकितानि गात्राणि यस्य स, बहु० समास) रोमांचित अङ्गवाला

** क्षतेषु निर्बाणेषु —** जखमो के ठीक होने पर

कविसम्राट् कालिदासः

** अधीयानाः —** पढने वाले

** विरुदैः —** उपाधियो से

** रसायनम् —** पौष्टिक औषध

** तत्प्रतिकाराय —** उसका वदला चुका देने के लिए, तस्य प्रतिकाराय, (प० तत्पुरुष समास)

** अध्यवसितं —** निश्चित किया

** वज्रमूर्ख —** पक्का मूर्ख

** बिभीषिका —** भय

** स्खलद्वाचा —** हकलाती हुई वाणी

** निरक्षरभट्टाचार्यः —** जिसके लिए काला अक्षर भैस बराबर हो, जो लिखना पढना बिल्कुल न जानता हो

** अर्धचन्द्रं दत्त्वा —** धक्का देकर

भोजकुमारस्य राज्यप्राप्तिः

** पर्यपालयत् —** रक्षा की (परि+अपालयत्)

** अनुजम् —** छोटे भाई को

** सुहृत्तमम् —** सबसे उत्तम मित्र को

** परलोक प्रस्थिते —** परलोक चले जाने पर अर्थात् मर जाने पर

** व्यापारव्याजेन —** किसी काम के बहाने से

** आसीनः —** बैठा हुआ

** दैवज्ञम् —** ज्योतिषी को (दैव जानाति, इति दैवज्ञः) भाग्य को जानने वाला

** अतिरभसकृतानाम्** — बडी शीघ्रता से

किये हुओ का

** विपाकः —** परिणाम

** उल्लोलकल्लोलाः —** ऊपर को उठी हुई लहरो वाले

** पयोधयः —** समुद्र

** निरनुक्रोशेन —** निर्दय ने

** पितृव्येन —** पिता के भाई ने अर्थात् चाचा ने

** कारागार-निषेवणम् —** कैद मे रहना

** निमीलितनेत्रम् —** बन्द की हुई आँखो वाले को

** कृतयुगालंकार भूतः —** सतयुग का गहना

** दशास्यान्तकः —** रावण को मारने वाला राम (दश आस्यानि यस्य स दशास्यं, दशास्यस्य अन्तक इति दशास्यान्तक (बहु० और तत्पुरुष समास) दस सिरो वाले रावण को मारने वाला

** वसुमती —** पृथ्वी

विशाखोपाख्यानम्

** मृगयादर्शनकौतुकेन —** शिकार देखने के शौक से

** करुणार्द्रः —** दया से पसीजा हुआ

** सरोषम् —** क्रोध के साथ

** क्रोडे —** गोद मे

** अविज्ञातपितृकः —** पिता को न जानता हुआ

** विलपन् —** विलाप करता हुआ (‘वि’ उपसर्ग के साथ लप् धातु का शत्रन्त रूप)

** महिषी —** रानी

** त्यागार्हान् —** त्याग के योग्यो को

** निरूपयामि** — बतलाता हूँ

** सरोवरोपकण्ठे —** तालाबके समीप

** उपगम्य —** पास जाकर

** संयम्य —** बाँधकर

** परिचिनोति —** पहचानता है

विद्याध्ययनम्

** अपवस्त्राः —** नगे (अपगतानि दूरीभूतानि वस्त्राणि यस्य सोऽपवस्त्र, बहुवचने अपवस्त्रा, बहु० समास)

** मृगाः —** पशु

** प्रच्छन्नगुप्तम् —** बहुत छुपा हुआ

** नियुंक्ते —** लगाती है (युज् धातु का ‘नि’ उपसर्ग के साथ लट् लकार के अन्य पुरुष का एक वचन)

** भवदन्तिकं —** आपके साथ

** अनवद्यां —** प्रशंसनीय को

** प्रमुदितेन —** प्रसन्न हुए ने

** सम्मानित —** मान किया

दूतवाक्यम्

नेपथ्ये– परदे के पीछे स्थान में, जहाँ पात्र वस्त्रादि पहनते और बदलते हैं

प्रतिहाराधिकृता– दरवाजे पर नियुक्त किये गये

**धार्तराष्ट्राणां–**धृतराष्ट्र के पुत्रो का

परिक्रम्य– परिक्रमा करके अर्थात्चक्कर लगाकर

अक्षौहिणी– इससेना मे २१८७० रथ २१८७० हाथी ६५६१० घोडे और १०९३५० पैदल चलने वाले होते हैं

कृष्णमतिः– कालीं बुद्धिवाला (कृष्णा मतिः यस्य स कृष्णमतिः, बहु० समास)

नारीमृदूनि– स्त्री के समान कोमल या स्त्री के वचनो के समान कोमल

सम्भ्रान्ताः– घबरा गये

आश्रावितः– भली भान्ति सुनाया हुआ

गाङ्गेयप्रमुखाः– गाङ्गेय, गङ्गा का पुत्र, भीष्म (गाङ्गेय प्रमुख येपुते गाङ्गेयप्रमुखा )

धर्मात्मजः– धर्मपुत्र युधिष्ठिर

दायाद्यं– पैतृक सम्पत्ति का भाग

नामशेषम्– केवल नाम ही वाकी रह जायगा, अर्थात् नष्ट हो जायगा

अपकृष्य– दूर करके (कृप् धातु का उपसर्ग से सम्बन्ध होने के कारणक्त्वा को ल्यप् हो गया)

गाम्– पृथिवी को

शक्रः– इन्द्र

वीर्यगुप्ते– बल से रक्षा किये हुए मे

केकर– भेगा

पिंगल– भूरी आखो वाला

**बाष्परूद्धनयनाः–**आसुओ से रुकी हुई आखो वाले (वाष्पै रुद्धानि नयनानि येषा ते वाष्परुद्धनयना बहु० )

**परिनिःश्वसन्तः–**लम्बा–लम्बा सास लेते हुए (यहा ‘परि’ और ‘नि’ दो उपसर्ग हैं, शतृ प्रत्यय की पहिली विभक्ति का बहुवचन है)

सूत्रधार– नाटक के सूत्र को धारण करनेवाला रंगमञ्च का प्रबन्धक (stage manager)

काञ्चुकीय– वृद्धपुरुष, जो रनिवास की रक्षा के लिए नियुक्त किया जाता है (chamber lain )

स्वगतम्– मन ही मन मे

प्रकाशम्– सबको सुनाकर जो बात कही जाय

सीता परित्यागः

** अवतरतु—**आइये

** लोक–परिवाद–भयाकुलेन—** लोगो द्वारा की जानेवाली निन्दा के भय से व्याकुल हुए ने

** गर्भगुर्वीम्—** गर्भवती को

** दीर्घ-मार्ग-परिश्रान्ताः—** लम्बे मार्ग मे चलने के कारण थके हुए

** भागीरथी—** गङ्गा, यह भगीरथ द्वारा स्वर्ग से लाई गई थी

** तुल्यान्वया—** एक समान कुल वाली

** व्यवसितुम्—** करने के लिए

** अनुगुणा**— समान गुण वाली (अनुगता गुणा यस्या सा, बहु० समास )

** निगृहीतास्मि—** दण्डित हुई है

**निरङ्कुशः—**अकुश रहित, मनचाहा काम करने वाला

शिखिन— मयूर (मोर), शिखिन् शब्द की प्र० का बहुवचन)

** तिर्यग्गता—**पक्षी

** सवनाय—** स्नान के लिए

** विगाहते-** प्रविष्ट हो

** मुनिदारकेभ्य-**मुनियो के बच्चो से

** जह्नुतनयाम्—** गंगा को

मेदिनीम्— पृथिवी को

निर्वासिता— निकाल दी गई

**चिरन्तन-सखा—**बचपन का मित्र

** विसृज—** छोड दे, (सृज् धातु के साथ ‘वि’ उपसर्ग लगने से इसका अर्थ छोड देना हो जाता है । ‘विसृज’ लोट् लकार के मध्यम पुरुष का एकवचन है ।

दुष्यन्तस्य स्वपुत्रावाप्तिः

** चापलम्—** चपलता को

** अभूमिः**-स्थान नही है

** अविनयस्य-** धृष्टता का

** जृम्भस्व—** जम्हाई ले, अर्थात् मुह खोल (जृम्भ आत्मनेपदी धातु के लोट् लकार के मध्य पु. ए)

** स्फुलिङ्गावस्थया—** चिगारीकी अवस्था से

** दुर्मोकहस्तग्रहेण—** कठिनता से हाथ न छुडाये जाने से

** संवादिन्याकृतिः—** एक समान शकल है

शकुन्तलावण्यम्— पक्षी की सुन्दरता को

** अपवार्य—** हटकर (एक ओर होकर )

** मृगतृष्णिका—** मृगमरीचिका, झूठमूठ हिरण रेत में पानी के भ्रम से प्यास बुझाने के लिए दौडा जाता है, पर वहाँ पानी नही होता

** रक्षाकरण्डकम्—** रक्षासूत्र

** उरोनिहितहस्ते-** दोनो हाथ छाती पर रख कर

** आदातुम्—** ग्रहण करने के लिए (दा धातु के पहले ‘आ’ उपसर्ग आजाने से इसका अर्थ ग्रहण करना हो जाता हे)

ग्रन्थसाराः

** वैदेहीहरणम्—** सीता का हरा जाना, वैदेह्या हरणम्, यहाँ प तत्पुरुष समास है।

** निग्रहणं—** दण्ड देना, ग्रह् के साथ ‘नि’ उपसर्ग लग जाने से इसका अर्थ मारा जाना हो जाता है।

** गोपीगृहे—** गोपियो के घर मे, गोपीना गृहे, गोपी-गृहे प तत्पुरुषसमास

यज्ञरक्षार्थं रामलक्ष्मणयोः सम्प्रेषणम्

** हृष्टमनाः-** प्रसन्न मन वाला (हृष्ट मन यस्य स, बहु० समास)

** विमर्शम्—** विचार को

** राजशार्दूल—** राजाओ मे सिंह

** गोप्ता—** रक्षा करनेवाला

** पुलस्त्य-वंशप्रभवः—** पुलस्त्य के वश मे उत्पन्न हुआ

** अकोविदम्—**न जानने वाले को

** विपर्ययः—**विरुद्ध

** उपाघ्राय—**सूघ कर

सीताया रामेण सह वनगमनम्

** कृतस्वस्त्यनम्**— जिसकेलिए भलाई की कामना की गई हो (कृत स्वस्त्ययन यस्मै स कृतस्वस्त्ययनः, बहु० समास)

** अभिज्ञा—**सबप्रकार से जानने वाली

** ह्रिया-**लज्जा से

** अवाङ्मुखः—** नीचे की ओर मुख कियेहुए

** विवृतता गत-** प्रकट हो गया

** प्रव्राजयति-**भेजता है (व्रज सातत्यगम ने से रिणजन्त के लट् लकार के प्रथम पुरुष के एकवचन मे यह रूप बनता है, यहा ‘प्र’ उपसर्ग लगा हुआ है)

** अनघे-**पाप रहित

** भुञ्जानाः—**भोगती हुई, (भुज् धातु आत्मनेपदी हैं, प्रत यह शानच् प्रत्यय का रूप है)

** स्नुषा—** पुत्र की पत्नी

** मृद्नन्ती—** कुचलती हुई

** कृकवाकु—** सरठ, गिरगिट

** निरपः—**जल रहित

** अजिनम्—** मृगछाल

** विसंज्ञा—** मूर्च्छित हुई को

** अभिवाद्य-**प्रणाम करके

** उज्झितायाः—**छोडी हुई का

रामराज्यम्

** सुहृद्वृतः—** मित्रो से घिरा हुआ, सुहृद्भि वृत, तृतीया तत्पुरुषसमास

** मज्जन्ति—** डूबते है

** चातुर्वर्ण्यम्—** ब्राह्मण, क्षत्रिय, वैश्य और शूद्रो को

** आयुष्यम्—** आयु (उमर) बढाने वाला

** प्रेत्य—** मरकर

करुणावान् शिविः

** त्रातुमीहते—** त्रातुम्+ईहते, रक्षा करना चाहता है (‘त्रा’ धातु का तुमुन् प्रत्यय का रूप है)

** ददौ—** दे दिया

** अंकम्—** गोद

** इत्युक्तः—** इस प्रकार कहा हुआ (इति + उक्त, उक्त वच् धातु का क्तान्त रूप है

** अमुमुक्षन्—** न छोडने की इच्छा करता हुना

** जिज्ञासुः—** जानने की इच्छा वाला

** समुत्कृत्य—** सम् + उत्कृत्य, काटकर

** आरुरोह—** चढ गया

** पारिजातः—** कल्पवृक्ष ( यह काल्पनिक वृक्ष स्वर्ग मे मिलता है, यह पत्र की इच्छाओं को पूर्ण करता है

** अन्तर्धानमवापतु—** छिप गये

दमयन्ती— स्वयंवरः

** अश्वकोविदः—** घोडो की विद्या का पण्डित

** अप्रतिमः—** समानता न रखने वाला लासानी

** मरालकम्—** हस को

** जग्राह—** पकड लिया

** व्याजहार—** कहने लगा

** कर्हिचित्—**कभी भी

** समुत्पत्य—** उड़कर, (सम्, उत्, पत्य)

** अभीप्सव—** चाहने वाले

** स्त्रजम्—** माला को

कपोतोपाख्यानम्

** कालसन्निभ—** यमराज के समान

** शकुनिलुब्धक—** पक्षियो का लोभी

** पञ्जरान्तरे—** पिजरे के अन्दर

** क्षयकाल—** प्रलयकाल

** गृहिणी-**घर वाली (पत्नी)

** मितम्—** अन्दाजे का

** अवहित—** सावधान होकर

** शाकुनिक—**पक्षियो को मारने वाला, शिकारी

** अधृष्टः—**नम्र

** शुष्क-पर्णेषु—**सूखे पत्तो पर

** प्रतिपालय—** प्रतीक्षा कर

** संपरिक्रम्य—**परिक्रमा करके, चक्करलगाकर

** आर्ता—** पीडित

** दावानलम्—** वन की आग

** निर्दग्धकल्मषः**—सव पापो को भस्मीभूत करके (निर्, नितरा, दग्धानि कत्मपाणि पापानि येन स बहु समास )

गीतोपदेशः

** विषीदन्तम्-** दुखी होते हुए को,

** मधुसूदनः—** मधु राक्षस को मारनेवाला, कृष्ण

** परंतप—** शत्रु को तपाने वाला

** इषुभिः-**बाणो से

** रुधिर-प्रदिग्धान्—** खून से लिथेहुआ को

** प्रपन्नम्—** शरणागत को

** हृषीकेशम्—** कृष्ण को, हृषीकाणा, इन्द्रियाणाम् ईशम्, इन्द्रियो पर वशित्व प्राप्त करने वाले को

** गुड़ाकेशः—**अर्जुन, ( गुडाका=नीद ) गुडाकाया ईशःगुडाकेशः नीद पर काबू पाने वाला

** गोविन्दम्—** कृष्ण को

** पुरुषर्षभम्—** पुरुषोमें श्रेष्ठ, पुरुषेषु ऋषभ, ( स तत्पुरुष समास )

शरीरी— आत्मा, ( शरीर का स्वामी)

वेद— जानता है

** पावकः—**अग्नि

नित्यजातम्— नित्य पैदा होने वाले को

**ध्रुवः—**अटल

** अपरिहार्येर्थे—**अवश्य होने वाली बात में

** सम्भावितस्य—** प्रतिष्ठित का

** अतिरिच्यते—**बढकर हे

** धनजयः—** अर्जुन

कर्मः— कछुवा

** प्रण—**प्रतिज्ञा

** अंभसि—** जल मे

** जाग्रति—** जागते हैं

** निःस्पृह—** निष्काम होकर

अधिगच्छति— प्राप्त करता है

** पार्थ—** अर्जुन

** निर्वारणम्—**मुक्ति को

प्रश्नोत्तरी

** केनचित्—** किसी से

** उच्छ्वसन्—** सास लेता हुआ

प्रवसतः— परदेश मे गये हुए का

** दाक्ष्यम्—** चतुरता

अराजकम्— विना राजा के

** पुंसाम्—** पुरुषोका

** सर्वभूतहितः—** सब प्राणियो की भलाई करने वाला

** स्वाध्यायः—** प्रतिदिन वेदो का अध्ययन

** अक्षीणवृत्तः—** जिसका चालचलननष्ट नही हुआ

मोदते— प्रसन्न होता है

कटाहे— कडाहे मे

** दर्वी—** कडछी

** अहन्यहनि—** प्रतिदिन

** श्रुतयः—** वेद

** शाकम्—** साग

** अनृणी—** ऋणरहित

]