[[संग्रहरामायणम् Source: EB]]
[
[TABLE]
மதிப்புறை
மகா-ற–ஸ்ரீ ஸ்ரீமான் P. V. சுப்பிரமணிய அய்யர் அவர்கள் தாம் செய்துள்ள ஸம்க்ஷேப ராமாயணம் " என்ற சிறந்ததொரு நூலிற்கு என்னை மதிப்புறை எழுத
வேண்டுமென்று கேட்டது எனது பாக்யமென்றே நினைக் கிறேன். இந்த கிரந்தத்தில் அவர்கள் சகாயபூதமான மஹான்கள் ன்கள் மூலமாக மூலமாக ஸ்ரீமத் வால்மீகி ராமாயணத்தி னின்றும் அபூர்வமான ஸ்லோகங்களைத் தேர்ந்தெடுத்
திருப்பதை படித்த பின்பு அம்மஹான்களுக்குள்ள வித்வத் சக்தியைக் கண்டு மிகுந்த ஆச்சரிய மடைந்தேன். லௌகீக வாழ்க்கையில் உன்னதமான ஸ்தானத்தை அடைந்த அவருக்கு இவ்விதமான சிறந்த நூலை பிரசாரம் செய்ய
முயன்றதின் காரணம், ஸர்வலோக சரண்யனான ஸ்ரீ சந்திரமூர்த்தியினிடம் அவர்களுக்குள்ள த்ருடமான பக்தியைத் தவிற வேறொன்றுமிருக்க நியாயமில்லை. இராமயணத்திற்கு சமானமான பிரபந்தமே வேறில்லை என்பது ஸர்வஜன பிரசித்தமானது. அதைப் பாராயணம் செய்து வந்தால் இகத்திலும் பரத்திலும் ஸமஸ்தமான ஸ்ரேயஸ்ஸையும் அனாயாஸமாக அனாயாஸமாக அடையலாம். அந்த
இராமாயண பாராயணத்தை “தீர்க்க சரணாகதி” என்றும் சொல்லப்பட்டிருக்கிறது. தற்கால நாகரீகத்தில் ஈடு பட்டிருக்கும் ஜனங்களுக்கோ அடிக்கடி அதை ஸம்பூர்ண மாக பாராயணம் செய்வது துஸ்ஸாத்யமாகும். இந்த தூ கலைப்போல் சகல தத்துவங்களையும் அடக்கி பிரகாசப் படுத்துகிற ஸங்கிரஹ ராமாயணம் யாருக்கும் சுலபமாக அடிக்கடி பாராயணம் செய்து ஸ்ரீராமனுடைய பிர
ஸாதத்தை அடைய அந்தரங்க உபாயமாகும். வால்மீகி இயற்றிய ராமாயணமோ—
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।
என்ற வாக்கியப்படி பெரிய கடலைப் கடலில் உட்பிரவேசித்து, அதில் அடங்கிய இரத்தினங்களை கைப்பற்றுவது யாராலும் சாத்தியமில்லை. அப்படி கைப் பற்றினவர்களை தைவாம்சம் பொருந்தியவர்கள் என்றே தீர்மானிக்க வேண்டும். சமுத்திரம்போல் கம்பீரமாயும், அபாரமாயுமுள்ள இந்த ராமாயணத்திற்குள் நுழைந்து, அபூர்வமான ஸ்லோகங்களைக் கண்டு பிடித்து கோர்வையாக சேர்த்திருக்கும் அழகை எவ்விதம் தான் வர்ணிக்கக்கூடு மென்று என் மனதிற்குப் புலப்படவில்லை. தாரக பிரம்மத்தினிடத்தில் பக்தியுள்ள சகலரும் இந்த ஸம்க்ஷேப ராமாயணத்தை பிரதிதினம் பாராயணம் செய்து வந்தால் சம்பூர்ண ராமாயண பாராயண பலம் சித்திக்கும் என்பதில் ஐயமில்லை என்று நினைக்கிறேன். இந்த அபூர்வமான க்ருதியை நமக்கு வழங்கியுள்ள ஸ்ரீமான் P. V. சுப்பிரமணிய அய்யர் அவர்களுக்கு மேன்மேலும் சகல சௌபாக்கியங்களும் ஸ்ரீராமாநுக்ரஹத்தால் ஏற்பட வேண்டுமென்று பிரார்த்திக்கிறேன்.
தேதியூர் சுப்பிரமணிய சாஸ்திரிகள்
சாஸ்த்ர ரத்னம், வேதமூர்த்தி, கவிகுஞ்சரம்,
வித்யாவாகப்தி, வேதாந்தததவ மஹோபதேசிகர்,etc.
“ஸ்ரீவித்யா,’’
அபிராமபுரம், சென்னை,
22-2-1948.
श्रीः
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रपरब्रह्मणेनमः।
संग्रह रामायणम्
अथ अरण्यकाण्डः
नत्वा सीतापतिं रामं रामायणमहोदधेः।
सारं सर्वोपयोगाय श्रीनिवासः समुद्धरे॥
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्॥ १ ॥
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः ।
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्॥ २ ॥
तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ।
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः॥ ३ ॥
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृहन् दृढव्रताः॥ ४ ॥
मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ।
निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्॥ ५॥
“ धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः ।
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः॥ ६॥
ते वयं भवता रक्ष्या भवद्विषयवासिनः ।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ ७॥
न्यस्तदण्डा वयं राजन् ! जितक्रोधा जितेन्द्रियाः ।
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः”॥ ८॥
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् ।
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ ९ ॥\
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ।
आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत॥ १० ॥
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते ।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्॥ ११ ॥
गम्भीराक्षं महावत्कं विकटं विषमोदरम् ।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्॥ १२ ॥
स रामं लक्ष्मणं चैव सीतां दृष्ट्वाऽथ मैथिलीम् ।
अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः॥ १३ ॥
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्।
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्॥ १४ ॥
“अहं वनमिदं दुर्गं विराधो नाम राक्षसः ।
चरामि सायुधो नित्यमृषिमांसानि भक्षयन्॥ १५ ॥
इयं नारी वरारोहा मम भार्या भविष्यति ।
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे “॥ १६ ॥
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ।
सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा॥ १७ ॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।
तमुवाच ततो रामो राक्षसं ज्वलिताननम्॥ १८ ॥
क्षुद्र ! धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।
रणे संप्राप्यसे तिष्ठ न मे जीवन् गमिष्यसि॥ १९ ॥
ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान् ।
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह॥ २० ॥
स विद्धोन्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।
अभ्यद्रवत्सुसंक्रुद्धः तदा रामं सलक्ष्मणम्॥ २१ ॥
तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ।
द्वाभ्यां चिच्छेद वाणाभ्यां रामः शस्त्रभृतां वरः॥ २२ ॥
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि ।
पपाताशनिना छिन्नं मेरोरिव शिलातलम्॥ २३ ॥
तौ खड्गौक्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।
तूर्णमापततस्तस्य तदा प्राहरतां बलात्॥ २४ ॥
स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ ।
अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत॥ २५॥
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।
“वहत्वयमलं तावत् पथाऽनेन तु राक्षसः”॥ २६ ॥
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ।
विराधो निनदन् घोरं जगामाभिमुखो वनम्॥ २७ ॥
यमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
उच्चैः खरेण चुक्रोश प्रगृह्य सुभुजा भुजौ॥ २८ ॥
“एष दाशरथी रामः सत्यवाञ्शीलवाञ्शुचिः ।
रक्षसा रौद्ररूपेण ह्रियते सह लक्ष्मणः॥ २९ ॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम !"॥ ३० ॥
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः॥ ३१ ॥
तस्य रौद्रस्य सौमित्रिर्बाहु सव्यं बभञ्ज ह ।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥ ३२॥
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः ।
धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः॥ ३३ ॥
स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः॥ ३४ ॥
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् ।
भयेष्वभयदः श्रीमानिदं वचनमब्रवीत्॥ ३५ ॥
“तपसा पुरुषव्याघ्र ! राक्षसोऽयं न शक्यते ।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे “॥ ३६ ॥
इत्युक्त्वा लक्ष्मणं रामः “प्रदरः खन्यता " मिति ।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥ ३७॥
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः ।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्॥ ३८ ॥
" हतोऽहं पुरुषव्याघ्र ! शक्रतुल्यवलेन वै ।
मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ !॥ ३९ ॥
कौसल्या सुप्रजा तात ! रामस्त्वं विदितो मया ।
वैदेही च महाभागा लक्ष्मणश्च महायशाः॥ ४० ॥
अमिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह॥ ४१ ॥
तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात् ।
भुवनं खंगमिष्यामि स्वस्ति वोऽस्तु परंतप !॥ ४२ ॥
अवटे चापि मां राम ! प्रक्षिप्य कुशली व्रज।
रक्षसां गतसत्वानामेष धर्मः सनातनः “॥ ४३ ॥
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ।
बभूव स्वर्गतिं प्राप्तो न्यस्तदेहो महाबलः॥ ४४ ॥
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् ।
अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः॥ ४५ ॥
तं मुक्तकण्ठं निष्पिष्य शङ्ककर्णं महाखनम् ।
विराधं प्राक्षिपच्छवाभ्रे नदन्तं भैरवस्वनम्॥ ४६ ॥
हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ ४७ ॥
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।
निषेदुः समनुज्ञाता लब्धवासा निमन्त्रिताः॥ ४८ ॥
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगाः समाहिताः ।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥ ४९ ॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्।
ऊचुः परमधर्मज्ञमृषिसङ्घाः समाहिताः॥ ५० ॥
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ !
प्रधानश्चासि नाथश्च देवानां मघवानिव॥ ५१ ॥
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः॥ ५२ ॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
अर्थित्वान्नाथ ! वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ ५३ ॥
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्।
त्वन्नाथोऽनाथवद्राम ! राक्षसैर्वध्यते भृशम्॥ ५४॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने॥ ५५ ॥
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः।
परिपालय नो राम ! वध्यमानान्निशाचरैः”॥ ५६ ॥
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपखिनाम्।
इदं प्रोवाच धर्मात्मा सर्वानेव तपखिनः॥ ५७ ॥
“नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपखिनाम्।
भवतामर्थसिध्यर्थमागतोऽहं यदृच्छया॥ ५८ ॥
तस्य मेऽयं वने वासो भविष्यति महाफलः ।
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्”॥ ५९॥
दत्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन ।
तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ ६० ॥
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ ६१॥
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्॥ ६२ ॥
“त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत।
मिथ्यावाक्यं परमकं तस्माद्गुरुतरावुभौ।
परदाराभिगमनं विना वैरं च रौद्रता॥ ६३ ॥
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव !
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ?॥ ६४ ॥
धर्मिष्ठः सत्यसन्धश्च पितुर्निर्देशकारकः ।
त्वयिसत्यं च धर्मश्च त्वयिसर्वं प्रतिष्ठितम्॥ ६५ ॥
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्।
निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्॥ ६६ ॥
प्रतिज्ञातस्त्वया वीर ! दण्डकारण्यवासिनाम् ।
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्॥ ६७ ॥
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।
प्रस्थितस्त्वं सह भ्रात्रा धृतवाणशरासनः॥ ६८ ॥
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।
अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते॥ ६९ ॥
न कथंचन सा कार्या गृहीतधनुषा त्वया ।
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्॥ ७० ॥
क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् ।
धनुषा कार्यमेतावदार्तानामभिरक्षणम्॥ ७१ ॥
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्॥ ७२ ॥
तदार्य ! कलुषा बुद्धिर्जायते शस्त्रसेवनात् ।
पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि॥ ७३ ॥
अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम ।
यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः॥ ७४ ॥
धर्मादर्थः प्रभवते धर्मात्प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत्॥ ७५ ॥
आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम्॥ ७६ ॥
नित्यं शुचिमतिः सौम्य ! चर धर्मं तपोवने ।
सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः॥ ७७ ॥
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तवकः समर्थः।
विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण”॥ ७८ ॥
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्॥ ७९ ॥
“हितमुक्तं त्वया देवि ! स्निग्धयासदृशं वचः।
कुलं व्यपदिशन्त्या च धर्मज्ञे ! जनकात्मजे !॥ ८० ॥
किं तु वक्ष्याम्यहं देवि ! त्वयैवोक्तमिदं वचः।
क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ८१ ॥
मां सीते स्वयमागम्य शरण्याः शरणं गताः ।
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः॥ ८२ ॥
वसन्तो धर्मनिरता वने मूलफलाशनाः ।
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः॥ ८३ ॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ।
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः॥ ८४ ॥
“राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।
अर्दिताः स्म भृशं राम ! भवान्नस्त्रातुमर्हति “॥ ८५ ॥
मया चैतद्वचः श्रुत्वा कार्त्स्न्येनपरिपालनम् ।
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे॥ ८६ ॥
संश्रुत्य च न शैक्ष्यामि जीवमानः प्रतिश्रवम् ।
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा॥ ८७ ॥
अप्यहं जीवितं जह्यां त्वां वा सीते ! सलक्ष्मणाम्।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः॥ ८८ ॥
तदवश्यं मया कार्यमृषीणां परिपालनम्” ।
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ ८९ ॥
क्वचित्परिदशान् मासानेकंसंवत्सरं क्वचित् ।
क्वचिच्चचतुरो मासान् पञ्च षट् चापरान् क्वचित्॥ ९० ॥
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ।
त्रीन् मासानष्टमासांश्च राघवो न्यवसत्सुखम्॥ ९१ ॥
एवं संवसतस्तस्य मुनीनामाश्रमेषु वै ।
रमतश्चानुकूल्येन ययुः संवत्सरा दश॥ ९२ ॥
परिवृत्य च धर्मज्ञो राघवः सह सीतया।
सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह॥ ९३ ॥
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः।
तत्रापि न्यवसद्रामः किंचित्कालमरिन्दमः॥ ९४ ॥
अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ।
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्॥ ९५ ॥
“अस्मिन्नरण्ये भगवन् ! अगस्त्यो मुनिसत्तमः ।
वसतीति मया नित्यं कथाः कथयतां श्रुतम्॥ ९६ ॥
न तु जानामि तं देशं वनस्यास्य महत्तया ।
कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः॥ ९७ ॥
प्रसादात्तत्रभवतः सानुजः सीतया सह ।
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्”॥ ९८ ॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्॥ ९९ ॥
“योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः ।
दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः॥ १०० ॥
तत्रैकां रजनीं व्युष्य प्रभाते राम ! गम्यताम् ।
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः॥ १॥
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।
रमणीये वनोद्देशे बहुपादपसंवृते “॥ २॥
इति रामो प्रुनेः श्रुत्वा सह भ्रात्राभिवाद्य च।
प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह॥ ३ ॥
पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ।
सरांसि सरितश्चैव पथि मार्गवशानुगाः॥ ४॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथासुखम् ।
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्॥ ५ ॥
“गतिं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्धते॥ ६ ॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।
अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः॥ ७ ॥
एष लोकार्चितः साधुर्हिते नित्यरतः सताम् ।
अस्मानभिगतानेष श्रेयसा योजयिष्यति॥ ८ ॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।
शेषं च वनवासस्य सौम्य ! वत्स्याम्यहं प्रभो !॥ ९॥
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अगस्त्यंनियताहारं सततं पर्युपासते॥ १० ॥
नात्र जीवेन्मृषावादी क्रूरो वा यदिवा शठः ।
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः॥ ११ ॥
यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः॥ १२ ॥
प्रविवेश ततो रामः सीतया सहलक्ष्मणः ।
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्॥ १३ ॥
ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्॥ १४ ॥
“एष लक्ष्मण ! निष्क्रामत्यगस्त्यो भगवानृषिः ।
औदार्येणावगच्छामि निधानं तपसामिमम् “॥ १५ ॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ।
जग्राह परमप्रीतस्तस्य पादौ परंतपः॥ १६ ॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ।
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः॥ १७ ॥
प्रतिजग्राह काकुत्स्थमर्चयित्वाऽऽसनोदकैः ।
कुशलप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत्॥ १८ ॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः ।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ १९ ॥
“राजा सर्वस्य लोकस्य धर्मचारी महारथः ।
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः”॥ २०॥
‘एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् ।
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्॥ २१ ॥
“इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।
वैष्णवं पुरुषव्याघ्र ! निर्मितं विश्वकर्मणा॥ २२ ॥
अमोघः सूर्यसंकाशो बह्मदत्तः शरोत्तमः ।
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ॥ २३ ॥
संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः ।
महारजतकोशोऽयमसिर्हेम विभूषितः॥ २४ ॥
अनेन धनुषा राम ! हत्वा संख्ये महासुरान् ।
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥ २५ ॥
तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद !
जयाय प्रतिगृण्हीष्ववज्रं वज्रधरो यथा “॥ २६ ॥
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् ।
दत्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥ २७ ॥
“यथैषा रमते राम इह सीता तथा कुरु ।
दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ २८ ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन !
समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च॥ २९ ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः॥ ३० ॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती “॥ ३१ ॥
एवमुक्तः स मुनिना राघवः संयताञ्जलिः ।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्॥ ३२ ॥
“धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ।
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति॥ ३३ ॥
किं तु व्यादिश मे देशं सोदकं बहुकाननम् ।
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ३४ ॥
ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः॥ ३५ ॥
“इतो द्वियोजने तात ! बहुमूलफलोदकः ।
देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ ३६ ॥
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।
रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् “॥ ३७ ॥
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्॥ ३८ ॥
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ।
आससाद महाकायं गृध्रंभीमपराक्रमम्॥ ३९ ॥
स तं पितृसखं बुध्वा पूजयामास राघवः ।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥ ४० ॥
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ।
आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च॥ ४१ ॥
ततः पञ्चवटींगत्वा नानाद्विजमृगायुताम् ।
उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम्॥ ४२ ॥
“आगताः स्म यथोद्दिष्टं यं देशं मुनिरब्रवीत् ।
अयं पञ्चवटीदेशः सौम्य ! पुष्पितपादपः॥ ४३ ॥
इहाश्रमपदं सौम्य ! यथावत्कर्तुमर्हसि “॥ ४४ ॥
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः॥ ४५ ॥
पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम् ।
समीकृततलां रम्यां चकार लघुविक्रमः॥ ४६॥
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ।
राघवः पर्णशालायां हर्षमाहरयत् भृशम्॥ ४७ ॥
कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।
अन्वास्यमानो न्यवसत्स्वर्गलोके यथाऽमरः॥ ४८ ॥
तं देशं राक्षसी काचिदाजगाम यदृच्छया॥ ४९ ॥
सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।
सुकुमारं महासत्वं पार्थिवव्यञ्जनान्वितम्॥ ५० ॥
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता॥ ५१ ॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा॥ ५२ ॥
प्रीतिरूपं विरूपा सा सुखरं भैरवस्वरा ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी॥ ५३ ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत्॥ ५४ ॥
“जटी तापसरूपेण सभार्यः शरचापधृत् ।
आगतस्त्वमिमं देशं कथं राक्षससेवितम्”॥ ५५ ॥
एवमुक्तस्तु राक्षस्या शूर्पनख्या परंतपः ।
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे॥ ५६ ॥
अनृतं न हि रामस्य कदाचिदपि संमतम् ।
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च॥ ५७ ॥
“आसीद्दशरथो नाम राजा त्रिदशविक्रमः ।
तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः॥ ५८ ॥
भ्राताऽयं लक्ष्मणो नाम यवीयान् मामनुव्रतः ।
इयं भार्या च वैदेही मम सीतेति विश्रुता॥ ५९ ॥
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः॥ ६० ॥
त्वां तु वेदितुमिच्छामि कथ्यतां काऽसि कस्य वा ।
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः”॥ ६१ ॥
साऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता ।
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम॥ ६२ ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
अरण्यं विचरामीदमेका सर्वभयङ्करा॥ ६३ ॥
रावणो नाम मे भ्राता बलीयान् राक्षसेश्वर ।
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः॥ ६४ ॥
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टित॥ ६५ ॥
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ।
तानहं समतिक्रान्ता राम ! त्वाऽपूर्वदर्शनात्॥ ६६ ॥
समुपेताऽस्मि भावेन भर्तारं पुरुषोत्तमम् ।
अहं प्रभावसंपन्ना स्वच्छन्दबलगामिनी॥ ६७ ॥
चिराय भव मे भर्ता सीतया किं करिष्यसि ।
विकृता च विरूपाच न चेयं सदृशी तव।
अहमेवानुरूपा ते भार्यारूपेण पश्य माम्॥ ६८ ॥
इमां विरूपामसतीं करालां निर्णतोदरीम् ।
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्॥ ६९ ॥
ततः पर्वतशृङ्गाणि वनानि विविधानि च ।
पश्यन् सह मया कान्त ! दण्डकान् विचरिष्यसि”॥ ७०॥
इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा।
अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमित्र॥ ७१ ॥
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ।
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ ७२ ॥
‘इमां विरूपामसतीमतिमत्तां महोदरीम् ।
राक्षसीं पुरुषव्याघ्र ! विरूपयितुमर्हसि ”॥ ७३ ॥
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः ।
उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः॥ ७४ ॥
निकृत्तकर्णनासा तु विखरं सा विनद्य च ।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ ७५ ॥
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता ।
उपेत्य तं भ्रातरमुग्रदर्शन पपात भूमौ गगनाद्यथाऽशनिः ॥ ७६ ॥
तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसीम्॥ ७७ ॥
“उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह॥ ७८ ॥
न हि पश्याम्यहं लोके य कुर्यान्मम विप्रियम् \।
अन्तरेण सहस्राक्ष महेन्द्रं पाकशासनम्॥ ७९ ॥
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ ८०॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
मयाऽपकृष्टं कृपणं शक्तास्त्रातुमिहाहवे “॥ ८१ ॥
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यं सबाप्पमिदमब्रवीत्॥ ८२ ॥
" तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ ८३ ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ ८४ ॥
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे॥ ८५ ॥
तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥८६॥
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताऽहं यथाऽनाथाऽसती तथा॥ ८७ ॥
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि”॥ ८८ ॥
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ ८९ ॥
“मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह॥ ९० ॥
तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति “॥ ९१ ॥
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश।
तत्र जग्मुस्तया सार्धं घना बातेरिता यथा॥ ९२ ॥
ततः शूर्पणखा घोरा राघवाश्रममागता ।
राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया॥ ९३ ॥
तान् दृष्ट्वा राघवः श्रीमानागतांस्तां च राक्षसीम् ।
अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥ ९४ ॥
“मुहूर्तं भव सौमित्रे ! सीतायाः प्रत्यनन्तरः ।
इमानस्या वधिष्यामि पदवीमागतानिह”॥ ९५ ॥
वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः ।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्॥ ९६ ॥
राघवोऽपि महच्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ९७॥
“युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे।
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः॥ ९८ ॥
तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।
यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः॥ ९९॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश।
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥ 2००॥
“क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि॥ १ ॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।
अस्माकमग्रतः स्थातुं किं पुनर्योद्भुमाहवे”॥ २ ॥
इत्येवमुक्त्वा संक्रुद्धा राक्षसास्ते चुतुर्दश ।
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः॥ ३ ॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः॥ ४ ॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।
निपेतुः शोणितार्द्राङ्गाविकृता विगतासवः॥ ५॥
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता ।
विमृज्य नयने सास्रेखरं भ्रातरमब्रवीत्॥ ६॥
“प्रेषिताश्च त्वया वीर ! राक्षसास्ते चतुर्दश ।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ७ ॥
तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान् ।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ ८॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर !
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ ९॥
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा॥ १० ॥
बुध्याऽहमनुपश्यामि न त्वं रामस्य संयुगे ।
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे॥ ११ ॥
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ॥ १२ ॥
रामेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर !
दण्डकारण्यनिलयं जहि तं कुलपांसन !”॥ १३॥
एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।
उवाच रक्षसां मध्ये खरः खरतरं वचः॥ १४ ॥
“बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् ।
अहं रामं सह भ्रात्रा नयामि यमसादनम्॥ १५ ॥
परश्वधहतस्याद्य मन्दप्राणस्य संयुगे ।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि !"॥ १६॥
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् ।
प्रशशंस पुनर्मौर्ख्याद्भ्रातरंरक्षसां वरम्॥ १७ ॥
तया परुषितः पूर्वं पुनरेव प्रशंसित ।
अब्रवीद्दूषणं नाम खरः सेनापतिं तदा॥ १८ ॥
“उपस्थापय मे क्षिप्रं रथं सौम्य ! धनूंषि च ।
शरांश्चित्रांश्च खड्गांश्च शक्तीश्च विविधाः शिताः”॥१९॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।
सदश्वैःशबलैर्युक्तमाचचक्षेऽथ दूषणः॥ २० ॥
ध्वजनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम् ।
सदश्वयुक्तं सोऽमर्षादारुरोह खरो रथम्॥ २१ ॥
निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः ।
तस्थुः सम्परिवार्यैनं दूषणं च महाबलम्॥ २२ ॥
खरस्तु तान् महेश्वासान् घोरवर्मायुधध्वजान् ।
निर्यातेत्यब्रवीद्धृष्टो रथस्थः सर्वराक्षान्॥ २३ ॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।
निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम्॥ २४ ॥
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् ।
खरस्यापि रथः किंचिज्जगाम तदनन्तरम्॥ २५॥
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ।
तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्॥ २६ ॥
तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः।
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन्॥ २७ ॥
तत्त्वनीकं महावेगं रामं समुपसर्पत ।
तनानाप्रहरणं गम्भीरं सागरोपमम्”॥ २८ ॥
रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्॥ २९ ॥
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्॥ ३० ॥
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।
ददर्शाश्रममागम्य खरः सह पुरस्सरैः॥ ३१ ॥
ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः॥ ३२ ॥
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥ ३३ ॥
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।
रामः प्रदीप्तैर्बहुभिर्वज्रैरिवमहाचलः॥ ३४ ॥
विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः।
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्॥ ३५ ॥
ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः ।
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः॥ ३६ ॥
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।
आददू रक्षसां प्राणान् पाशाः कालकृता इव॥ ३७॥
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचरा ।
खरमेवाभ्यवावन्त शरणार्थं शरार्दिताः॥ ३८ ॥
तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ।
अभ्यधावत काकुत्स्थं क्रुद्धोरुद्रमिवान्तकः॥ ३९ ॥
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।
राममेवाभ्यधावन्त सालतालशिलायुधाः॥ ४० ॥
रामः क्रोधं परं भेजे बधार्थं सर्वरक्षसाम् ।
ततः क्रोधसमाविष्टः प्रदीप्त इव पावकः ।
शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम्॥ ४१ ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः॥ ४२ ॥
तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ ४३ ॥
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनखीव महागजः॥ ४४ ॥
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधु साध्विति काकुत्स्थं सर्वभूतांन्यपूजयन्॥ ४५ ॥
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः॥ ४६ ॥
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
धनुषा प्रतिजग्राह विधून्वन् सायकाञ्शितान्॥ ४७ ॥
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।
बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः॥ ४८ ॥
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ।
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः॥ ४९ ॥
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।
न्यपतत्पतितैः पूर्वं खशिरोभिर्निशाचरः॥ ५० ॥
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्याप्यभवत्त्त्रासो दृष्ट्वा रामस्य विक्रमम्॥ ५१ ॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः ।
हतमेकेन रामेण त्रिशिरोदूषणावपि॥ ५२ ॥
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् ।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ५३ ॥
स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः ।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ ५४ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।
मुमोच परमेश्वासः षट् शरानभिलक्षितान्॥ ५५॥
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे॥ ५६॥
तोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः संख्ये खरस्य रथसारथेः॥ ५७॥
त्रिभित्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य सशरं धनु॥ ५८॥
छित्वा वज्रनिकाशेन राघवः प्रहसन्निव।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ ५९॥
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः।
गदापणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ ६० ॥
खरं तु विरथं रामो गदापाणिमवस्थितम् ।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ ६१॥
“गजाश्वरथसंबाधेबले महति तिष्ठता ।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्॥ ६२॥
वसतो दण्डकारण्ये तापसान् धर्मचारिणः ।
किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस !॥ ६३॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमा॥ ६४ ॥
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमः पुष्पमिवार्तबम्॥ ६५ ॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर !॥ ६६॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।
तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि॥ ६७॥
अद्य त्वां विहतं बाणैः पश्यन्तु परमर्षयः ।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा॥ ६८ ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधन !
अद्य ते पातयिष्यामि शिरस्तालफलं यथा”॥ ६९ ॥
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ।
प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्छितः॥ ७० ॥
“प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज !
आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ ७१ ॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव ।
त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ ७२ ॥
चतुर्दशसहस्राणि राक्षसानां हतानि ते ।
त्वद्विनाशात्करोम्येव तेषामास्रप्रमार्जनम्”॥ ७३ ॥
इत्युक्त्वा परमक्रुद्धः तां गदां परमाङ्गदः ।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥ ७४ ॥
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् ।
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः॥ ७५ ॥
ततः पावकसंकाशं वधाय समरे शरम् ।
खरस्य रामो जग्राह ब्रह्मदण्डभिवापरम्॥ ७६ ॥
स तं दत्तं मघवता सुरराजेन धीमता ।
सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति॥ ७७ ॥
स विमुक्तो महाबाणो निर्धातसमनिस्वनः ।
रामेण धनुरायम्य खरस्योपरि चापतत्॥ ७८ ॥
स पपात खरो भूमौ दह्यमानः शराग्निना ।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथाऽन्तकः॥ ७९ ॥
ततो राजर्षयः सर्वे संगताः परमर्षयः ।
सभाज्य मुदिता राममिदं वचनमब्रुवन्॥ ८० ॥
“ आनीतस्त्वभिमं देशमुपायेन महर्षिभिः ।
एषां वधार्थं क्रूराणां रक्षमां पापकर्मणाम्॥ ८१ ॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज !
सुखं धर्मंचरिष्यन्ति दण्डकेषु महर्षयः॥ ८२ ॥
एतस्मिन्नन्तरे देवाश्चारणैः सह सगताः ।
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः
रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा॥ ८३ ॥
“अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्॥ ८४॥
-खरदूषणमुख्यानां निहतानि महाहवे ।
अहो बत महत्कर्म रामस्य विदितात्मनः॥ ८५ ॥
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते”।
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्॥ ८६ ॥
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः॥ ८७ ॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे॥ ८८ ॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् ।
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा॥ ८९॥
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ ९० ॥
“ जनस्थानस्थिता राजन् ! राक्षसा बहवो हताः ।
खरश्च निहतः संख्ये कथंचिदहमागतः॥ ९१॥
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः॥ ९२ ॥
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सहदूषणः॥ ९३ ॥
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिखनः ।
कनीयाल्ँलक्ष्मणो नाम भ्राता शशिनिभाननः॥ ९४ ॥
स तेन सह संयुक्तः पावकेनानिलो यथा ।
श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ ९५ ॥
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ।
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्॥ ९६ ॥
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ।
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्॥ ९७ ॥
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
“जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम्”॥ ९८॥
अथैवमुक्तेवचने प्रोवाचेदमकम्पनः ।
“शृणु राजन्! यथावृत्तं रामस्य बलपौरुषम्॥ ९९ ॥
असाध्यः कुपितो रामो विक्रमेण महायशाः
सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत्॥ ३०० ॥
भित्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ १ ॥
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः ।
शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः॥ २ ॥
न हि रामो दशग्रीव ! शक्यो जेतुं त्वया युधि ।
रक्षसां वाऽपि लोकेन स्वर्गः पापजनैरिव॥ ३ ॥
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।
अयं तस्य वधोपायस्तं ममैकमनाः शृणु॥ ४॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ ५ ॥
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी ।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ?॥ ६॥
तस्यापहर भार्या त्वं प्रमथ्य तु महावने”।
स तया रहितः कामी रामो हास्यति जीवितम्॥ ७ ॥
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः॥ ८ ॥
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ ९॥
दूषणं च खरं चैव हतं त्रिशिरसा तथा ।\।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ १०॥
ततः शूर्पणखा दीना रावणं लोकरावणम् ।
अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ ११ ॥
“प्रमत्तः कामभोगेषु खैरवृत्तो निरङ्कुशः ।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे॥ १२॥
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।
स्वजनं तु जनस्थानं हतं यो नावबुध्यसे॥ १३॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतान्येकेन रामेण खरश्च सहदूषणः ।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ १४ ॥
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण !
विषये खेसमुत्पन्नं भयं यो नावबुध्यसे”॥ १५ ॥
ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः ।
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ १६॥
“कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः ।
किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम्॥ १७ ॥
आयुधं किंच रामस्य निहता येन राक्षसाः ।
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा॥ १८ ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ।
ततो रामं यथातत्वमाख्यातुमुपचक्रमे॥ १९ ॥
“दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।
कन्दर्पसमरूपश्च रामो दशरथात्मजः॥ २० ॥
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्॥ २१ ॥
नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् ।
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ।
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः॥ २२ ॥
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना॥ २३ ॥
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ २४ ॥
एका कथञ्चिन्मुक्ताहं परिभूय महात्मना ।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना॥ २५ ॥
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्॥ २६ ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः॥ २७॥
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता॥ २८ ॥
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी ।
देवतेव वनस्यास्य राजते श्रीरिवापरा॥ २९ ॥
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।
सीता नाम वरारोहा वैदेही तनुमध्यमा॥ ३० ॥
नैव देवी न गन्धर्वी न यक्षी न च किंनरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले॥ ३१ ॥
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।
अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात्॥ ३२ ॥
तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम् ।
भार्यार्थे च तवानेतुमुद्यताऽहं वराननाम् ।
विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज !॥ ३३ ॥
तां तु दृष्ट्वाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि॥ ३४ ॥
यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः॥ ३५॥
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।
सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर !”॥ ३६॥
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह॥ ३७॥
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्॥ ३८ ॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे॥ ३९ ॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसम्॥ ४० ॥
रावणस्तं समागम्य विधिवत्तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः॥ ४१ ॥
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।
अर्थोपहितया वाचा मरीचो वाक्यमब्रवीत् ।
‘कच्चित्सुकुशलं राजन् ! लङ्कायां राक्षसेश्वर!"॥ ४२ ॥
एवमुक्तो महातेजा मारीचेन स रावणः ।
तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः॥ ४३॥
“मारीच ! श्रूयतां तात ! वचनं मम भाषतः ।
आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः॥ ४४ ॥
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना॥ ४५ ॥
खरश्च निहतः संख्ये दूषणश्च निपातितः ।
हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः॥ ४६ ॥
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः॥ ४७ ॥
दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ।
त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः॥ ४८ ॥
येन वैरं विनाऽरण्ये सत्वमाश्रित्य केवलम् ।
कर्णनासापहरणात् भगिनी मे विरूपिता॥ ४९॥
तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम् ।
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव॥ ५० ॥
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ।
उपायज्ञो महाञ्शूरः महामायाविशारदः॥ ५१ ॥
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ! ।
श्रृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम॥ ५२ ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ ५३॥
त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् ।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ ५४ ॥
ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।
निराबाधोहरिष्यामि राहुश्चन्द्रप्रभामिव॥ ५५॥
ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ।
विस्रब्धःप्रहरिष्यामि कृतार्थेनान्तरात्मना”॥ ५६॥
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्॥ ५७ ॥
“सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ ५८॥
न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्॥ ५९ ॥
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन ।
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः॥ ६०॥
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः॥ ६१ ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्॥ ६२ ॥
न रामः कर्कशस्तात ! नाविद्वान्नाजितेन्द्रियः ।
अनृतं दुश्रुतं चैव नैव त्वं वक्तुमर्हसि॥ ६३ ॥
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव॥ ६४ ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः॥ ६५ ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने॥ ६६ ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता॥ ६७ ॥
न सा घर्षयितुं शक्या मैथिल्योजखिनः प्रिया ।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा॥ ६८ ॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप !
दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम्॥ ६९ ॥
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ ७० ॥
परदाराभिमर्शात्तु नान्यत्पापतरं महत् ।
भव खदारनिरतः खकुलं रक्ष राक्षस॥ ७१ ॥
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।
बलिं वा नमुर्चि वाऽपि हन्याद्धि रघुनन्दनः॥ ७२ ॥
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टाः सपरिच्छदाः ।
सोऽहं तवापराधेन विनश्येयं निशाचर॥ ७३ ॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा।
अत्र ब्रूहि यथा तत्वं को रामस्य व्यतिक्रमः”॥ ७४ ॥
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥ ७५ ॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः॥ ७६ ॥
“दुष्कुल ! एतदयुक्तार्थं मारचि मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे॥ ७७ ॥
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः॥ ७८ ॥
अवश्यं तु मया तस्य संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ॥ ७९ ॥
एवं मे निश्चिता बुद्धिर्हृदि मारीच ! वर्तते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ८० ॥
वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः॥ ८१ ॥
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौरात्म्यात्पुरुषं वदसीदृशम्॥ ८२ ॥
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस !
मयोक्तं तत्र चैतावत्संप्रत्यमितविक्रम !॥ ८३ ॥
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।
श्रृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम॥ ८४ ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतविन्दुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ ८५ ॥
त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥ ८६ ॥
अपक्रान्ते तु काकुत्स्थे दूरं गत्वाप्युदाहर ।
‘हा सीते ! लक्ष्मणे’त्येवं रामवाक्यानुरूपकम्॥ ८७ ॥
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्॥ ८८ ॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव॥ ८९ ॥
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस !
राज्यस्यार्धं प्रदास्यामि मारीच ! तव सुव्रत! ॥ ९० ॥
न चेत्करोषि मारीच हन्मि ! त्वामहमद्य वै ।
एतत्कार्यमवश्यं मे बलादपि करिष्यसि”॥ ९१ ॥
ज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् ।
गच्छावेत्यब्रवीद्दीनो भयाद्वात्रिंचरप्रभोः॥ ९२ ॥
प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः ।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ९३ ॥
“ इदानीमसि मारीचः पूर्वमन्यो निशाचरः।
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः॥ ९४ ॥
ततो रावणमारीचौ विमानमित्र तं रथम् ।
आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्॥ ९५ ॥
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।
ददर्श सहमारीचो रावणो राक्षसाधिपः॥ ९६ ॥
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् ।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्॥ ९७ ॥
“एतद्रामाश्रमपदं दृश्यते कदलीवनम् ।
क्रियतां तत्सखे ! शीघ्रं यदर्थं वयमागताः”॥ ९८ ॥
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह॥ ९९ ॥
मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।
विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः॥ ४०० ॥
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ।
विस्मयं परमं सीता जगाम जनकात्मजा॥ १॥
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
“तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्”॥ २ ॥
एवं ब्रुवाणं सौमित्रिं प्रतिचार्य शुचिस्मिता !
उवाच सीता संहृष्टा चर्मणा हृतचेतना॥ ३ ॥
“आर्यपुत्र ! अभिरामोऽसौ मृगो हरति मे मनः ।
आनयैनं महाबाहो ! क्रीडार्थं नो भविष्यति॥ ४ ॥
न चास्य सदृशो राजन् ! दृष्टपूर्वी मृगः पुरा ।
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः॥५॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति॥ ६॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः
अन्तःपुरविभूषार्थो मृग एष भविष्यति॥ ७॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं नरशार्दूल ! रुचिरं मे भविष्यति॥ ८ ॥
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्॥ ९ ॥
वपुषा त्वस्य सत्वस्य विस्मयो जनितो मम”॥ १० ॥
एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् ।
बभूव राघवस्यापि मनो विस्मयमागतम्॥ ११ ॥
लोभितस्तेन रूपेण सीतया च प्रचोदितः ।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः॥ १२ ॥
“न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।
कुतः पृथिव्यां सौमित्रे ! योऽस्य कश्चित्समो मृगः॥ १३ ॥
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम् ।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ?॥ १४ ॥
एतस्य मृगरत्नस्य परार्ध्येकाञ्चनत्वचि।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ १५ ॥
इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् ।
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्॥ १६ ॥
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ।
हत्त्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ! “॥ १७ ॥
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः॥ १८ ॥
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ १९ ॥
दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् ।
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ २०॥
स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतो वन्यैरदूरात्प्रव्यदृश्यत॥ २१ ॥
ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत ।
तत्क्षणादेव सन्त्रासात्पुनरन्तर्हितोऽभवत्॥ २२ ॥
पुनरेव ततो दूराद्वृक्षषण्डाद्विनिस्सृतम् ।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ २३ ॥
सन्धाय सुदृढे चापे विकृष्य बलवद्वली ।
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्॥ २४ ॥
स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः॥ २५ ॥
तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः ।
विनदन् भैरवं नादं धरण्यामल्पजीवितः॥ २६ ॥
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।
सदृशं राघवस्यैव“हा सीते लक्ष्मणेति”च॥ २७ ॥
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्॥ २८ ॥
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता “ गच्छ जानीहि राघवम्॥ २९ ॥
न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठते ।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्॥ ३० ॥
आक्रन्दमानन्तु वने भ्रातरं त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्”॥ ३१ ॥
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ।
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव॥ ३२ ॥
“पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ।
अशक्यस्तव वैदेहि ! भर्ता जेतुं न संशयः॥ ३३ ॥
देवि ! देवमनुष्येषु गन्धर्वेषु पतत्रिषु ।
राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च॥ ३४ ॥
दानवेषु च घोरेषु न स विद्येत शोभने ।
यो रामं प्रतियुध्येत समरे वासवोपमम्॥ ३५ ॥
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।
त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः॥ ३६॥
हृदयं निवृतं तेऽस्तु सन्तापस्त्यज्यतामयम् ।
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्॥ ३७॥
न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः॥ ३८ ॥
न्यासभूताऽसि वैदेहि ! न्यस्ता मयि महात्मना ।
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे॥ ३९ ॥
राक्षसा विविधा वाचो विसृजन्ति महावने ।
हिंसाविहारा वैदेहि ! न चिन्तयितुमर्हसि”॥ ४० ॥
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ।
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्॥ ४१ ॥
“अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे॥ ४२ ॥
समक्षं तव सौमित्रे ! प्राणांस्त्यक्ष्ये न संशयः ।
रामं विना क्षणमपि न हि जीवामि भूतले”॥ ४३ ॥
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः॥ ४४ ॥
न सहे हीदृशं वाक्यं वैदेहि ! जनकात्मजे !
श्रोत्रयोंरुभयोर्मेऽद्य तप्तनाराचसन्निभम्॥ ४५ ॥
गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने !
रक्षन्तु त्वां विशालाक्षि ! समग्रा वनदेवताः॥ ४६ ॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान्॥४७॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
अभिचक्राम वैदेहीं परिव्राजकरूपधृत्॥ ४८ ॥
तामपश्यत्ततो बालां रामपत्नीं यशखिनीम् ।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ ४९ ॥
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्।
अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः॥ ५० ॥
का त्वं काञ्चनवर्णाभे ! पीतकौशेयवासिनि !
कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ?॥ ५१ ॥
चारुस्मिते ! चारुदति ! चारुनेत्रे ! विलासिनि !
मनो हरसि मे कान्ते ! नदी कूलमिवाम्भसा॥ ५२ ॥
नैव देवी न गन्धर्वी न यक्षी न च किंनरी ।
नैवरूपा मया नारी दृष्टपूर्वा महीतले॥ ५३ ॥
रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते ।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे॥ ५४ ॥
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।
राक्षसानामयं वासो घोराणां कामरूपिणाम्॥ ५५ ॥
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न विभ्यसि?॥५६॥
काऽसि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् ।
एका चरसि कल्याणि! घोरान् राक्षससेवितान्?”॥५७॥
रावणेन तु वैदेही तथा पृष्टा जिहीर्षता ।
परिव्राजकलिङ्गेन शशसात्मानमङ्गना॥ ५८ ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तन्तु सीता वचनमब्रवीत्॥ ५९ ॥
“दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नाऽस्मि भद्रं ते रामस्य महिषी प्रिया॥ ६० ॥
उषित्वा द्वादशान् मासान् इक्ष्वाकूणां निवेशने ।
भुञ्जाना मनुषान् भोगान् सर्वकामसमृद्धिनी॥ ६१ ॥
ततस्त्रयोदशे वर्षे राजामन्त्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः॥ ६२ ॥
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्॥ ६३ ॥
कामार्तस्तु महातेजाः पिता दशरथः स्वयम्।
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्॥ ६४ ॥
अभिषेकाय तु पितुः समीपं राममागतम्।
कैकेयी मम भर्तारमित्युवाच धृतं वचः॥ ६५ ॥
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव !
भरताय प्रदातव्यमिदं राज्यमकण्टकम्॥ ६६॥
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ।
वने प्रव्रज काकुत्स्थ ! पितरं मोचयानृतात्॥ ६७ ॥
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ।
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः॥ ६८ ॥
दद्यान्न प्रतिगृण्हीयात् सत्यं ब्रूयान्न चानृतम् ।
एतद्ब्राह्मण ! रामस्य व्रतं धृतमनुत्तमम्॥ ६९ ॥
तस्य भ्राता तु द्वैमात्रो लक्षमणो नाम वीर्यवान् ।
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा॥ ७० ॥
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह॥ ७१ ॥
जटी तापसरूपेण मया सह सहानुजः ।
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः॥ ७२ ॥
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ।
विचराम द्विजश्रेष्ठ ! वनं गम्भीरमोजसा॥ ७३ ॥
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ।
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्
॥ ७४ ॥
स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः ।
एकश्च दण्डकारण्यं किमर्थं चरसि द्विज ?”॥ ७५ ॥
एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः॥ ७६ ॥
“येन वित्रासिता लोकाः सदेवासुरमानुषाः।
अहं स रावणो नाम सीते ! रक्षोगणेश्वरः॥ ७७ ॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते !॥ ७८ ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव॥ ७९ ॥
लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि॥ ८० ॥
तत्र सीते ! मया सार्धं वनेषु विहरिष्यसि ।
न चास्य वनवासस्य स्पृहयिष्यसि भामिनि !॥ ८१ ॥
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः ।
सीते ! परिचरिष्यन्ति भार्या भवसि मे यदि”॥ ८२ ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्॥ ८३ ॥
“महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता॥ ८४ ॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।
नृसिंहं सिंहसंकाशमहं राममनुव्रता॥ ८५ ॥
त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा॥ ८६ ॥
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ।
राघवस्य प्रियां भार्या योऽधिगन्तुं त्वमिच्छसि॥ ८७ ॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि॥ ८८ ॥
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ।
कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि॥ ८९ ॥
अयोमुखानां शूलानां मध्ये चरितुमिच्छसि ।
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि॥ ९० ॥
यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः
सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च॥९१॥
यदन्तरं वायसवैनतेययोः यदन्तरं मद्गुमयूरयोरपि ।
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च”॥ ९२ ॥
एवं ब्रुवन्त्यां सीतायां संरब्धं परुषं वचः
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह॥ ९३ ॥
“भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि ! ।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ ९४ ॥
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ।
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः॥ ९५ ॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।
तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः॥ ९६ ॥
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च॥ ९७ ॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।
सम्पूर्णा राक्षसैर्घेारैर्यथेन्द्रस्यामरावती॥ १८ ॥
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ।
सर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता॥ ९९ ॥
तत्र त्वं वसती सीते ! राजपुत्रि ! मया सह ।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ ५०० ॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।
करिष्यसि विशालाक्षि ! तापसेन तपस्विना॥ १ ॥
सर्वराक्षसभर्तारं कामय स्वयमागतम् ।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥ २ ॥
अङ्गल्या न समो रामो मम युद्धे स मानुषः ।
तव भाग्येन संप्राप्तं भजस्व वरवर्णिनि !”॥ ३ ॥
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना ।
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्॥ ४ ॥
“कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ ५ ॥
अवश्यं विनशिष्यन्ति सर्वे रावण ! राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ ६ ॥
अपहृत्य शचीं भार्या शक्यमिन्द्रस्य जीवितुम् ।
न च रामस्य भार्या मामपनीयास्ति जीवितम्”॥ ७ ॥
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः॥ ८ ॥
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
दशास्यो विंशतिभुजो बभूव क्षणदाचरः॥ ९॥
“त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि
मामाश्रय वरारोहे ! तवाहं स दृशः पतिः॥ १० ॥
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
कैर्गुणैरनुरक्तासि मूढे ! पण्डितमानिनि !”॥ ११ ॥
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ।
जग्राह रावणः सीतां बुधः खे रोहिणीमिव॥ १२ ॥
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ।
अङ्केनादाय वैदेहीं रथमारोपयत्तदा॥ १३ ॥
सा गृहीता विचुक्रोश रावणेन यशस्विनी ।
रामेति सीता दुःखार्ता रामं दूरगतं वने॥ १४ ॥
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।
विवेष्टमानामादाय उत्पपाताथ रावणः॥ १५ ॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा॥ १६ ॥
“हा लक्ष्मण ! महाबाहो ! गुरुचित्तप्रसादकः !
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा॥ १७ ॥
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ।
ह्रियमाणामधर्मेण मां राघव ! न पश्यसि॥ १८॥
ननु नामाविनीतानां विनेताऽसि परन्तप ! ।
कथमेवंविधं पापं न त्वं शाधि हि रावणम्”॥ १९ ॥
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः॥ २० ॥
दैवतानि च यान्यस्मिन् वने विविधपादपे ।
नमस्करोम्यहं तेभ्यो भर्तुशंसत मां हृताम्॥ २१ ॥
सा तदा करुणा वाचो विलपन्ती सुदुःखिता ।
वनस्पतिगतं गृध्रंददर्शायतलोचना॥ २२ ॥
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ।
समाक्रन्दद्भयपरा दुःखोपहतया गिरा॥ २३ ॥
“जटायो ! पश्य मामार्य ! ह्रियमाणामनाथवत् ।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा”॥ २४ ॥
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ २५ ॥
ततः पर्वतकूटाभः तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥ २६ ॥
“दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः ।
भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्॥ २७ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
लोकानां च हिते युक्तो रामो दशरथात्मजः॥ २८ ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशखिनी ।
सीता नाम वरारोहा यां त्वां हर्तुमिहेच्छसि॥ २९ ॥
कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
रक्षणीया विशेषेण राजदारा महाबल !॥ ३०॥
निवर्तय मतिं नीचां परदाराभिमर्शनात् ।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥ ३१ ॥
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते॥ ३२ ॥
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ।
दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा॥ ३३ ॥
सर्पमाशीविषं बद्धा वस्त्रान्ते नावबुध्यसे ।
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि॥ ३४ ॥
स भारः सौम्य ! भर्तव्यो यो नरं नावसादयेत् ।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥ ३५ ॥
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ।
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव॥ ३६॥
युध्यस्य यदि शूरोऽसि मुहूर्तं तिष्ठ रावण !
शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा॥ ३७ ॥
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ।
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्॥ ३८ ॥
तिष्ठ तिष्ठ दशग्रीव ! मुहूर्तं पश्य रावण !
वृन्तादिव फलं त्वां तु पातयामि रथोत्तमात्॥ ३९ ॥
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण !
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ ४० ॥
न हि जातु दुराधर्षौकाकुत्स्थौ तव रावण !
घर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ॥ ४१ ॥
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ।
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्”॥ ४२ ॥
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षस ।
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्॥ ४३ ॥
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः ।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥ ४४ ॥
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ।
तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः॥ ४५ ॥
ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः ।
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च॥४६ ॥
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ।
पक्षौ पार्श्वौच पादौ च खड्गमुद्धृत्य सोऽच्छिनत्॥ ४७ ॥
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।
निपपात हतो गृध्रो धरण्यामल्पजीवितः॥ ४८ ॥
तं दृष्ट्वा पतितं भूमौ क्षतजाद्रं जटायुषम् ।
विललाप सुदुःखार्ता सीता शशिनिभानना॥ ४९ ॥
“अयं हि कृपया राम ! मां त्रातुमभिसंगतः ।
शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः॥ ५० ॥
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथागताम् ।
जहारात्मविनाशाय दशग्रीवो मनस्विनीम्॥ ५१ ॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।
रुदती करुणं सीता ह्रियमाणेदमब्रवीत्॥ ५२ ॥
“न व्यपत्रपसे नीच ! कर्मणाऽनेन रावण !
ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे॥ ५३ ॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।
स्त्रियाश्च हरणं नीच ! रहिते तु परस्य च॥ ५४ ॥
धिक् ते शौर्यं च सत्वं च यत्त्वं कथितवान् तदा ।
मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि॥ ५५ ॥
न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्॥ ५६ ॥
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण !
क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः॥ ५७॥
निमेषान्तरमात्रेण विना भ्रातरमाहवे ।
राक्षसा निहता येन सहस्राणि चतुर्दश॥ ५८ ॥
स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्”॥ ५९ ॥
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।
भयशोकसमाविष्टा करुणं विललाप ह॥ ६० ॥
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती ।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुंगवान्॥ ६१ ॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीयं वरारोहा शुभान्याभरणानि च ।
मुमोच यदि रामाय शंसेयुरिति मैथिली॥ ६२ ॥
संभ्रमात्तु दशग्रीवः तत्कर्म न स बुद्धवान्॥ ६३ ॥
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ।
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः॥ ६४ ॥
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।
संरूढकक्ष्याबहुलं स्वमन्तः पुरमाविशत्॥ ६५॥
तत्र तामसितापाङ्गीं शोकमोहपरायणाम् ।
निदधे रावणः सीतां मयो मायामिव स्त्रियम्॥ ६६ ॥
निष्क्रम्यान्तः पुरात्तस्मात्किं कृत्यमिति चिन्तयन् ।
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्॥ ६७ ॥
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः ।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥ ६८ ॥
“नानाप्रहरणाःक्षिप्रमितो गच्छत सत्वराः ।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥ ६९ ॥
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।
सदूषणखरं युद्धे हतं रामेण सायकैः॥ ७० ॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ ७१ ॥
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता ।
प्रवृत्तिरुपनेतव्या किंकरोतीति तत्त्वतः ।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति”॥ ७२ ॥
सन्दिश्य राक्षसान् घोरान् रावणोष्टौ महाबलान् ।
आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत॥ ७३ ॥
स चिन्तयानो वैदेहीं कामबाणप्रपीडितः ।
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्॥ ७४ ॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।
उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया॥ ७५ ॥
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः ।
तेषां प्रभुरहं सीते ! सर्वेषां भीमकर्मणाम्॥ ७६ ॥
यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।
जीवितं च विशालाक्षि ! त्वं मे प्राणैर्गरीयसी॥ ७७ ॥
बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः ।
तासां त्वमीश्वरी सीते ! मम भार्या भव प्रिये !॥ ७८ ॥
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना ।
नेयं धर्षयितुं शक्या सेन्द्रेरपि सुरासुरैः॥ ७९ ॥
राज्यभ्रष्टेन दीनेन तापसेन पदातिना ।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा॥ ८० ॥
भजस्व सीते ! मामेव भर्ताऽहं सदृशस्तव ।
यौवनं ह्यध्रुवं भीरु ! रमखेह मया सह॥ ८१ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने !
काऽस्य शक्तिरिहागन्तुमपि सीते ! मनोरथैः॥ ८२ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने !
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्॥ ८३ ॥
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ।
यश्च ते सुकृतो धर्मः तस्येह फलमाप्नुहि”॥ ८४ ॥
एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना।
पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत्॥ ८५ ॥
ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ।
उवाच वचनं पापो रावणो राक्षसेश्वरः॥ ८६ ॥
“अलं व्रीडेन वैदेहि ! धर्मलोपकृतेन ते ।
आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति॥ ८७ ॥
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ।
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते”॥ ८८ ॥
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ ८९ ॥
“रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।
दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम॥ ९० ॥
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ ९१ ॥
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण !
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे॥ ९२ ॥
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ।
सागरं शोषयेद्वाऽपि न सीतां मोचयेदिह ?॥ ९३ ॥
न ते पापमिदं कर्म सुखोदर्कं भविष्यति ।
याऽहं नीता विनाभावं पतिपार्श्वात्त्वया बलात्॥ ९४ ॥
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता ।
द्विजातिमन्त्रसंपूता चाण्डालेनावमर्दितुम्॥ ९५ ॥
तथाऽहं धर्मनित्यस्य धर्मपत्नी पतिव्रता ।
त्वया स्प्रष्टुं न शक्याऽस्मि राक्षसाधम ! पापिना॥९६ ॥
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा ।
हंसी सा तृणषण्डस्थं कथं पश्येत मद्गुकम्॥ ९७ ॥
इदं शरीरं निसज्ञं बन्धं वा खादयख वा ।
न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः”॥ ९८ ॥
सीताया वचनं श्रुत्वा पुरुषं रोमहर्षणम् ।
प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः॥ ९९ ॥
“शृणु मैथिलि ! मद्वाक्यं मासान् द्वादश भामिनि !
कालेनानेन नाभ्येषि यदि मां चारुहासिनि !
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः”॥ ६०० ॥
इत्युक्त्वा पुरुषं वाक्यं रावणः शत्रुरावणः।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ १ ॥
“शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः ।
दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः॥ २ ॥
अशोकवनिकामध्ये मैथिली नीयतामियम् ।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ ३ ॥
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ।
आनयध्वं वशं सर्वा वन्यां गजवधूमिव”॥ ४ ॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।
अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु॥ ५॥
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता ।
पतिं स्मरन्ती दयितं च दैवतं विचेतनाभूद्भयशोकपीडिता ॥ ६ ॥
राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।
निहत्य रामो मारीचं तूर्णं पथि निवर्तते॥ ७॥
“मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् ।
आक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ८॥
अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां मया वने ।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ।
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च”॥९॥
इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिस्वनम् ।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १० ॥
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।
विहाय सीतां विजने वने राक्षससेविते॥ ११ ॥
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ।
उवाच मधुरोदर्कमिदं वचनमार्तवत्॥ १२ ॥
“अहो लक्ष्मण ! गर्ह्यं ते कृतं यस्त्वं विहाय ताम् ।
सीतामिहागतः सौम्य ! कच्चित्स्वस्ति भवेदिह॥ १३ ॥
विनष्टा भक्षिता वाऽपि राक्षसैर्वनचारिभिः ।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ १४ ॥
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।
सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण !॥१५॥
ब्रूहि लक्ष्मण ! वैदेही यदि जीवति वा नवा ।
स्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ १६ ॥
श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम ।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः॥ १७॥
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्॥ १८॥
अहोऽस्मिन् व्यसने मग्नः सर्वथा शत्रुसूदन !
किंन्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्”॥ १९ ॥
इति सीतां वरारोहां चिन्तयन्नेव राघवः ।
आजगाम जनस्थानं त्वरया सहलक्ष्मणः॥ २० ॥
ददर्श पर्णशालां च रहितां सीतया तदा ।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव
॥ २१ ॥
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः ।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २२ ॥
“क्वनु लक्ष्मण ! वैदेही कं वा देशमितो गता ।
केनाहृता वा सौमित्रे ! भक्षिता केन वा प्रिया ।
सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण !॥ २३ ॥
मृतं शोकेन महतां सीताहरणजेन माम् ।
परलोके महाराजो नूनं द्रक्ष्यति मे पिता॥ २४ ॥
कथं प्रतिज्ञां संश्रुत्वमया त्वमभियोजितः ।
अपूरयित्वा तं कालं मत्सकाशमिहागतः॥ २५ ॥
कामवृत्तमनार्यं मां मृषावादिनमेव च ।
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता॥ २६ ॥
सीतया सह निर्यातो विना सीतामुपागतः ।
कथं नाम प्रवेक्ष्यामि शून्यमन्तः पुरं पुनः॥ २७॥
निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ।
कातरत्वं प्रकाशं हि सीतापनयनेन मे॥ २८ ॥
निवृत्तवनवासश्च जनकं मिथिलाधिपम् ।
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्॥ २९ ॥
मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ।
न त्वहं तां विना सीतां जीवेयं हि कथंचन॥ ३० ॥
गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया ।
अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम्॥ ३१ ॥
तं तथा शोकसन्तप्तं विलपन्तमनाथवत् ।
मोहेन महताऽऽविष्टं परिद्यूनमचेतनम्”॥ ३२ ॥
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।
रामं संबोधयामास चरणौ चाभिपीडयन्॥ ३३ ॥
“यदि दुखमिदं प्राप्तं काकुत्स्थ ! न सहिष्यसे ।
प्राकृतश्चाल्पसत्वश्च इतरः कः सहिष्यते॥ ३४ ॥
तत्त्वतो हि नरश्रेष्ठ ! बुध्या समनुचिन्तय।
बुध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥ ३५ ॥
त्वमेव हि पुरा राम ! मामेवं बहुशोन्वशाः ।
अनुशिष्याद्धि को नु त्वामपि साक्षागृहस्पतिः॥ ३६ ॥
बुद्धिश्च ते महाप्राज्ञ ! देवैरपि दुरन्वया ।
शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम्॥ ३७ ॥
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ।
राक्षसैः बहुभिः कीर्णं नानाद्रुमलतायुतम्॥ ३८॥
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च।
गुहाश्च विविधा घोराः नानामृगगणाकुलाः॥ ३९ ॥
आवासाः किंनराणां च गन्धर्वभवनानि च ।
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि॥ ४० ॥
त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभाः ।
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः”॥ ४१ ॥
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ।
क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम्॥ ४२ ॥
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।
ददर्श पतितं भूमौ क्षत्रजाद्रं जटायुषम्॥ ४३ ॥
तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम्॥ ४४ ॥
“यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ ४५ ॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ! ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ ४६ ॥
अयमस्य रणे राम ! भग्नः सांग्रामिको रथः ।
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि॥ ४७ ॥
परिश्रान्तस्य मे पक्षौ छित्वा खड्गेन रावणः ।
सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्॥ ४८ ॥
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव ! ।”
इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ ४९ ॥
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ।
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्॥ ५० ॥
तं गृध्रंप्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ।
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ ५१ ॥
“अनेकवार्षिको यस्तु चिरकालसमुत्थितः ।
पश्य लक्ष्मण ! गृध्रोऽयमुपकारी हतश्च मे॥ ५२ ॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।
शूराः शरण्याः सौमित्रे ! तिर्यग्योनिगतेष्वपि॥ ५३ ॥
सीताहरणजं दुःखं न मे सौम्य ! तथागतम् ।
यथा विनाशे गृध्रस्य मत्कृते च परन्तप !॥ ५४ ॥
राजा दशरथः श्रीमान् यथा मम महायशाः ।
पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः
॥ ५५ ॥
सौमित्रे ! हर काष्ठानि निर्मथिष्यामि पावकम् ।
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्”॥ ५६ ॥
“या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ।
अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ ५७ ॥
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।
गृध्रराज ! महासत्व ! संस्कृतश्च मया व्रज”॥ ५८ ॥
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ५९ ॥
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ।
स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा॥ ६० ॥
कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ ।
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्॥ ६१ ॥
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः ।
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्॥ ६२॥
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।
जग्राह सहितावेव राघवौ पीडयन् बलात्॥ ६३ ॥
खड्गिनौ दृढधन्वानौ निग्मतेजोवपुर्धरौ ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥ ६४ ॥
तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे ।
बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे॥ ६५ ॥
“पश्य मां वीर ! विवशं राक्षसस्य वशं गतम् ।
मथैकेन विनिर्युक्तः परिमुञ्चख राघव !॥ ६६॥
मां हि भूतबलिं दत्वा पलायख यथासुखम् ।
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः”॥ ६७ ॥
लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ।
“मा स्म त्रासं कृथा वीर ! न हि त्वादृग्विषीदति”॥ ६८ ॥
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्॥ ६९ ॥
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।
आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ”॥ ७० ॥
तछ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचार्तिं समापन्नो विक्रमे कृतनिश्चयः॥ ७१ ॥
“त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू”॥ ७२ ॥
एतत्संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्॥ ७३ ॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांशदेशतः॥ ७४ ॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयञ्जलदो यथा॥ ७५ ॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ “कौयुवामिति” दानवः॥ ७६ ॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।
शशंस राघवं तस्य कबन्धस्य महाबलः॥ ७७ ॥
“अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्॥ ७८ ॥
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम् ।
मया सह चरत्येष भार्यया च महद्वनम्॥ ७९ ॥
अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसाऽपहृता भार्या यामिच्छन्ताविहागतौ॥ ८० ॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजङ्घोविवेष्टसे”॥ ८१ ॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन्॥ ८२ ॥
“स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् ।
दिष्ट्याचे मौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ॥ ८३ ॥
पुरा राम ! महाबाहो ! महाबलपराक्रमम् ।
रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्॥ ८४ ॥
ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।
संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः॥ ८५ ॥
तेनाहमुक्तः प्रैक्ष्यैवं घोरशापाभिधायिना ।
एतदेव नृशंसं ते रूपमस्तु विगर्हितम्॥ ८६ ॥
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।
अभिशापकृतस्येति तेनेदं भाषितं वचः॥ ८७ ॥
‘यदा च्छित्वा भुजौ रामस्त्वां दहेद्विजने वने ।
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्’॥ ८८ ॥
श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण !॥ ८९ ॥
स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव !
शक्यो हन्तुं यथातत्वमेवमुक्तं महर्षिणा”॥ ९० ॥
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ।
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः॥ ९१ ॥
“रावणेन हृता भार्या मम सीता यशस्विनी ।
निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथा सुखम्॥ ९२ ॥
नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।
निवासं वा प्रभावं वा वयं तस्य न विद्महे॥ ९३ ॥
धक्ष्यामस्त्वां वयं वीर ! श्वभ्रे महति कल्पिते ।
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः॥ ९४ ॥
एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ।
प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्॥ ९५ ॥
“दिव्यमस्ति न मे ज्ञानं नामिजानामि मैथिलीम् ।
यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः”॥९६॥
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः॥ ९७ ॥
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः ।
चितामादीपयामास सा प्रजज्वाल सर्वतः॥ ९८ ॥
ततश्चिताया वेगेन भास्वरो विमलाम्बरः ।
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥ ९९ ॥
प्रभया च महातेजा दिशो दश विराजयन् ।
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्॥ ७०० ॥
“श्रूयतां राम ! वक्ष्यामि सुग्रीवो नाम वानरः ।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥ १ ॥
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।
निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः॥ २ ॥
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः ।
सत्यसन्धो विनीतश्च धृतिमान् मतिमान् महान्॥ ३ ॥
स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
भविष्यति हि हे राम ! मा च शोके मनः कृथाः॥ ४॥
गच्छ शीघ्रमितो राम ! सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव !॥ ५॥
स हि स्थानानि सर्वाणि कार्त्स्येन कपिकुञ्जरः ।
नरमांसाशिनां लोके नैपुण्यादधिगच्छति॥ ६॥
न तस्याविदितं लोके किंचिदस्ति हि राघव !
यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम !॥ ७ ॥
स नदीविपुलाञ्शैलान् गिरिदुर्गाणि कन्दरान् ।
अन्वेष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति॥ ८ ॥
एष राम ! शिवः पन्थाः यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः”॥ ९॥
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ।
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्॥१० ॥
तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ।
प्रस्थितौ “त्वं व्रजखेति वाक्यमूचतुरन्तिके॥ ११ ॥
गम्यतां कार्यसिध्यर्थमिति”तावब्रवीत्स च ।
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥ १२ ॥
तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् ।
बीक्षन्तौ जग्मतुर्द्रष्टुंसुग्रीवं रामलक्ष्मणौ॥ १३ ॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्॥ १४ ॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ १५ ॥
तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ।
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः॥ १६ ॥
पाद्य प्राप्ता तपः सिद्धिस्तव सन्दर्शनान्मया ।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः॥ १७ ॥
चक्षुषा तव सौम्येन पूताऽस्मि रघुनन्दन ! ।
गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम !"॥ १८ ॥
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ।
अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम्”॥१९॥
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा ।
तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती॥ २० ॥
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा॥ २१ ॥
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ।
विराजयन्ती तं देशं विद्युत्सौदामनी यथा॥ २२ ॥
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा ।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २३ ॥
हृदये हि नरव्याघ्र ! शुभमाविर्भविष्यति ।
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ २४ ॥
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।
तदधीनं हि मे सौम्य ! सीतायाः परिमार्गणम् ॥ २५ ॥
एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ।
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः॥ २६ ॥
ततो महद्वर्त्म सुदूरसंक्रमः क्रमेण गत्वा प्रतिकूलधन्वनम्।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम्॥२७॥
इति श्रीमदात्रेयतिरुनारणार्यतनूजश्रीनिवासदासेन संघटिते श्रीमत्संग्रहरामायणे अरण्यकाण्डः संपूर्णः
श्रीरामायणखनितो राघव ! संगृह्य पद्यरत्नानि ।
भक्तिवशात्सङ्घटितां संग्रहमालां समर्पये तुभ्यम्॥
अथ किष्किन्धाकाण्डः
नत्वा सीतापतिं रामं रामायणमहोदधेः ।
सारं सर्वोपयोगाय श्रीनिवासः समुद्धरे ॥
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः॥ १ ॥
“पश्य शीतजलां चेमां सौमित्रे ! पुष्करायुताम् ।
चक्रवाकानुचरितां कारण्डवनिषेविताम्॥ २ ॥
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।
मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम्॥ ३ ॥
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते ।
पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम॥ ४ ॥
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ।
कथं धारयति प्राणान् विवशा जनकात्मजा॥ ५॥
किं नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।
सीताया जनकं पृष्टः कुशलं जनसंसदि॥ ६॥
तया विहीनः कृपणः कथं लक्ष्मण ! धारये ।
या मामनुगता राज्याद्भ्रष्टं विगतचेतसम्॥ ७ ॥
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् ।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण !॥ ८ ॥
किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज !
क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम्॥ ९॥
गच्छ लक्ष्मण ! पश्य त्वं भरतं भ्रातृवत्सलम् ।
न ह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्”॥ १० ॥
इति राम महात्मानं विलपन्तमनाथवत् ।
उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्॥ ११ ॥
“संस्तम्भ राम ! भद्रं ते मा शुचः पुरुषोत्तम !
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्॥ १२ ॥
स्वास्थ्यं भद्रं भजस्वार्य ! त्यज्यतां कृपणा मतिः ।
अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते॥ १३॥
उत्साहो बलवानार्य ! नास्त्युत्साहात्परं बलम् ।
सोत्साहस्यास्ति लोकेऽस्मिन्न किंञ्चिदपि दुर्लभम्॥१४॥
उत्साहवन्तः पुरुषा नावसदिन्ति कर्मसु ।
उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि॥ १५॥
त्यज्यतां कामवृत्तत्त्वं शोकं सन्यस्य पृष्ठतः ।
महात्मानं कृतात्मानमात्मानं नावबुध्यसे”॥ १६॥
एवं सम्बोधितस्तत्र शोकोपहतचेतनः ।
न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत्॥ १७॥
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरांश्च ।
उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे॥ १८ ॥
तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ।
शाखामृगाणामधिपस्तरखी वितत्रसे नैव चिचेष्ट किञ्चित् ॥ १९ ॥
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ २० ॥
“एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।
छद्मना चीरवसनौ प्रचरन्ताविहागतौ’’॥२१॥
ततस्तं भयसंविग्नं वालिकिल्बिषशङ्किंतम्।
उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥२२॥
“सम्भ्रमस्त्यज्यतामेषः सर्वैर्वालिकृते महान्।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥२३॥
यस्मात्तव भयं सौम्य! पूर्वजात्पापकर्मणः।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्”॥२४॥
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः।
ततः शुभतरं वाक्यं हनूमन्तमुवाच ह॥२५॥
“दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ॥२६॥
वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥२७॥
तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम!।
इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥२८॥
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव!।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम”॥२९॥
इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ॥३०॥
विनीतबदुपागम्य राघवौ प्रणिपत्य च।
आबभाषेऽथ तौ वीरौ यथावत्प्रशशंस च॥३१॥
“राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ।
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ॥३२॥
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ।
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥३३॥
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ।
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ॥३४॥
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुन्धराम्।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ॥३५॥
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्॥३६॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः॥३७॥
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना।
राज्ञा वानरमुख्यानां हनूमान्नाम वानरः॥३८॥
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम्”॥३९॥
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्।
प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥४०॥
“सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः।
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः॥४१॥
अभिभाषस्व सौमित्रे! सुग्रीवसचिवं कपिम्\।
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम॥४२॥
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः।
नासामवेदविदुषः शक्यमेवं प्रभाषितुम्॥४३॥
नूनं व्याकरणं कृस्नमनेन बहुधा श्रुतम्।
बहुव्याहरताऽनेन न किञ्चिदपशब्दितम्॥४४॥
संस्कारक्रमसंपन्नामद्रुतामविलम्बिनीम्।
उच्चारयति कल्याणीं वाचं हृदयहारिणीम्॥४५॥
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥४६॥
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः।
तस्य सिध्यन्ति सर्वार्था दुतवाक्यप्रचोदिताः”॥४७॥
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥४८॥
“विदिता नौ गुणा विद्वन्! सुग्रीवस्य महात्मनः।
तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥४९॥
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत्॥५०॥
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः।
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः॥५१॥
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः।
भार्यया च महातेजाः सीतयाऽनुगतो वशी॥५२॥
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः॥५३॥
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः।
रक्षसाऽपहृता भार्या रहिते कामरूपिणा॥५४॥
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता।
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः॥५५॥
पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः॥५६॥
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः॥५७॥
शोकाभिभूते रामे तु शोकार्ते शरणं गते।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः”॥५८॥
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम्।
हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥५९॥
“ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः॥६०॥
स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम्॥६१॥
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे॥६२॥
इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा\।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः॥६३॥
आचचक्षे तदा वीरौ कपिराजाय राघवौ।
“अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥६४॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः।
धर्मे च निरतश्चैव पितुनिर्देशपालकः॥६५॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ
प्रतिगृह्यार्चयखैतौ पूजनीयतमावुभौ”॥६६॥
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्॥६७॥
“भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः।
आख्याता वायुपुत्रेण तत्वतो मे भवद्गुणाः॥६८॥
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो!।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह॥६९॥
रोचते यदि वा सख्यं वाहुरेष प्रसारितः।
गृह्मतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा”॥७०॥
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम्।
स प्रहृष्टमना हस्तं पीडयामास पाणिना॥७१॥
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ॥७२॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा।
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः॥७३॥
“अहं विनिकृतो राम! चरामीह भयार्दितः
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः॥७४॥
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव!।
वालिनो मे महाभाग भयार्तस्याभयं कुरु”॥७५॥
एवमुक्तस्तु तेजखी धर्मज्ञो धर्मवत्सलः।
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव॥७६॥
“उपकारफलं मित्रं विदितं मे महाकपे!।
वालिनं तं वधिष्यामि तव भार्यापहारिणम्”॥७७॥
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥७८॥
“अयमाख्याति मे राम! सचिवोमन्त्रिसत्तमः।
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः॥७९॥
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव।
रक्षसाऽपहृता भार्या मैथिली जनकात्मजा॥८०\।\।
भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे।
अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा॥८१॥
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्थले।
अहमानीय दास्यामि तव भार्यामरिन्दम॥८२॥
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः।
त्यज शोकं महाबाहो! तां कान्तामानयामि ते॥८३॥
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा।
कोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्॥८४॥
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्।
उत्तरीयं तयात्यक्तं शुभान्याभरणानि च॥८५॥
तान्यस्माभिर्गृहीतानि निहितानि च राघव।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि “॥८६॥
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम्
“आनयस्व सखे! शीघ्रं किमर्थं प्रविलम्बसे”॥८७॥
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्।
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया॥८८॥
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च।
“इदं पश्ये” ति रामाय दर्शयामास वानरः॥८९॥
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च।
परिदेवयितुं दीनं रामः समुपचक्रमे॥९०॥
“पश्य लक्ष्मण! वैदेह्या संत्यक्तं ह्रियमाणया।
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च “॥९१॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्।
“नाहं जानामि केयूरे नाहं जानामि कुण्डले।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ’’॥९२॥
ततः स राघवो दीनः सुग्रीवमिदमब्रवीत्।
“ब्रूहि सुग्रीव! कं देशं ह्रियन्ती लक्षिता त्वया।
क्व वा वसति तद्रक्षो महद्व्यसनदं मम”॥९३॥
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः।
अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः॥९४॥
“न जाने निलयं तस्य सर्वथा पापरक्षसः।
सामर्थ्यं विक्रमं वाऽपि दौष्कुलेयस्य वा कुलम्॥९५॥
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम!।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥९६॥
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर।
त्वद्विधानामसदृशमीदृशं विद्धि लाघवम्॥९७॥
मयाऽपि व्यसनं प्राप्तं भार्याहरणजं महत्।
न चाहमेवं शोचामि न च धैर्यं परित्यजे॥९८॥
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि।
मर्यादां सत्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥९९॥
व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितान्तके\।
विमृशन् वै स्वया बुध्या धृतिमान् नावसीदति॥१००॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये।
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥१॥
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्।
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥२॥
हितं वयस्यभावेन ब्रूमि नोपदिशामि ते।
वयस्यतां पूजयन् मे न त्वं शोचितुमर्हसि”॥३॥
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः।
संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥४॥
“एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे!।
दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥५॥
किन्तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥६॥
मयाच यदनुष्ठेयं विस्रब्धेन तदुच्यताम्।
वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते मयि॥७॥
मया च यदिदं वाक्यमभिमानात्समीरितम्।
तत्त्वया हरिशार्दूल! तत्त्वमित्युपधार्यताम्॥८॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।
एतत्ते प्रतिजानामि सत्येनैव शपामि ते”॥९॥
परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः।
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत्॥१०॥
“शक्यं खलु भवेद्राम! सहायेन तवानघ।
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो!॥११॥
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः।
ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥१२॥
वालिनो मे भयार्तस्य सर्वलोकाभयंकर!।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि॥१३॥
वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम्।
दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः॥१४॥
पुराऽहं वालिना राम! राज्यात्स्वादवरोपितः।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा॥१५॥
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी।
सुहृदश्च मदीया ये संयता बन्धनेषु ते॥१६॥
केवलं हि सहाया मे हनूमत्प्रमुखास्त्विमे।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्॥१७॥
संक्षेपस्त्वेष ते राम! किमुक्त्वा विस्तरं हि ते।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः॥१८॥
तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम्।
सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्॥१९॥
एष मे राम शोकान्तः शोकार्तेन निवेदितः।
दुःखितः सुखितो वाऽपि सख्युर्नित्यं सखा गतिः”॥२०॥
श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत्।
“बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्।
वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः॥२१॥
अमोघाः सूर्यसंकाशा ममैते निशिताः शराः।
तस्मिन् बालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥२२॥
यावत्तं नाभिपश्यामि तव भार्यापहारिणम्।
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः “॥२३॥
तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥२४॥
“असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः।
त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः॥२५॥
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।
तन्ममैकमनाः श्रुत्वा विवत्स्वयदनन्तरम्॥२६॥
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥२७॥
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।
ऊर्ध्वमुत्पात्य तरसा प्रतिगृण्हाति वीर्यवान्॥२८॥
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।
बलं नागसहस्रस्य धारयामास वीर्यवान्॥२९॥
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः।
जगाम सुमहाकायः समुद्रं सरितां पतिम्॥३०॥
ऊर्मिमन्तमभिक्रम्य सागरं रत्नसंचयम्।
मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम्॥३१॥
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः।
अब्रवीदुचनं राजन्नसुरं कालचोदितम्॥३२॥
“समर्थो नास्मि ते दातुं युद्धं युद्धविशारद!।
शैलराजो महारण्ये तपस्विशरणं परम्।
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे॥३३॥
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः।
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः॥३४॥
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाःशिलाः\।
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥३५॥
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः॥३६॥
“क्लेष्टुमर्हसि मां न त्वं दुन्दुभे! धर्मवत्सला!।
रणकर्मस्वकुशलः तपस्विशरणं ह्यहम्॥३७॥
वाली नाम महाप्राज्ञः शत्रुतुल्यपराक्रमः।
अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्॥३८॥
स समर्थो महाप्राज्ञस्तव युद्धविशारदः।
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः॥३९॥
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः।
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा॥४०॥
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।
ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥४१॥
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।
निष्पपात सह स्त्रीभिस्तारभिरिव चन्द्रमाः॥४२॥
मितं व्यक्ताश्चरपदं तमुवाचाथ दुन्दुभिम्॥४३॥
“किमर्थं नगरद्वारमिदं रुध्वा विनर्दसि।
दुन्दुभे! विदितो मेऽसि रक्ष प्राणान् महाबल!॥४४॥
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।
उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः॥४५॥
न त्वं स्त्रीसन्निधौ वीर! वचनं वक्तुमर्हसि।
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते वलम्॥४६॥
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्।
आविध्यत तदा वाली विनदन् कपिकुञ्जरः॥४७\।\।
तयोस्तु क्रोधसरम्भात्परस्परजयैषिणोः।
युद्धं समभवद्धोरं दुन्दुभेर्वानरस्य च॥४८॥
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा।
पपात च महाकायः क्षितौ पञ्चत्वमागतः॥४९॥
तं तोलयित्वा बाहुभ्यां गतसत्वमचेतनम्।
चिक्षेप बलवान् वाली वेगेनैकेन योजनम्॥५०॥
एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते ।
वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान्॥५१॥
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः।
यत्रैकं घटते वाली निष्प्रत्रयितुमोजसा॥५२॥
एतदस्यासमं वीर्यं मया राम ! प्रकीर्तितम्।
कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप!॥५३॥
न खल्वहं त्वां तुलये नावमन्ये न भीषये।
कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम”॥५४॥
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।
स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः॥५५॥
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर!।
प्रत्ययं समरे श्लाघ्यमह मुत्पादयामि ते”॥५६॥
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः।
राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया।
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्॥५७॥
असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्।
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्॥५८॥
“आद्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे!।
लघुः संप्रति निर्मांसस्तृणभूतश्च राघव!"॥५९॥
स गृहीत्वा धनुर्धोरं शरमेकं च मानदः।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः॥६०॥
स विसृष्टो वलवता बाणः स्वर्णपरिष्कृतः।
भित्वासालान् गिरिप्रस्थं सप्तभूमिं विवेश ह॥६१॥
प्रविष्टश्च मुहूर्तेन धरां भित्वा महाजवः।
निष्पत्य च पुनस्तूर्णं स्वतूणीं पुनराविशत्॥६२॥
तान् दृष्ट्वा सप्तनिर्भिन्नान् सालान् वानरपुङ्गवः\।
रामस्य शरवेगेन विस्मयं परमं गतः॥६३॥
स मूर्ध्ना न्यपतद्भूमा प्रलम्बकृितभूषणः।
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः॥६४॥
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्॥६५॥
“सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ!।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो!॥६६॥
येन सप्त महासाला गिरिर्भूमिश्च दारिताः।
बाणेनैकेन काकुत्स्थ! स्थाता ते को रणाग्रतः॥६७॥
अद्य मे विगतः शोकः प्रीतिरद्य परा मम।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥६८॥
तमद्यैवप्रियार्थं मे वैरिणं भ्रातृरूपिणम्।
वालिनं जहि काकुत्स्थ! मया बद्धोऽयमञ्जलिः”॥६९॥
ततो रामः परिष्वज्य सुग्रीवंप्रियदर्शनम्।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः॥७०॥
“अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः।
गत्वा चाह्वयसुग्रीव! वालिनं भ्रातृगन्धिनम्”॥७१॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने बने॥७२॥
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा।
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्॥७३॥
“हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्।
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्॥७४॥
प्रतिज्ञा या त्वया वीर! कृता वालिवधे पुरा।
सफलां तां कुरु क्षिप्रं लतां काल इवागतः”॥७५॥
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः।
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः॥७६॥
“अनृतं नोक्तपूर्वं मे वीर! कृच्छ्रेपि तिष्ठता।
धर्मलोभपरीतेन न च वक्ष्ये कथंचन।
सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम्॥७७॥
तदाह्वाननिमित्त त्वं वालिनो हेममालिनः।
सुग्रीव! कुरु तं शब्दं निष्पतेद्येन वानरः॥७८॥
निष्पतिष्षत्यसङ्गेन वाली स प्रियसंयुगः।
रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे”॥७९॥
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्॥८०॥
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः।
शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः॥८१॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्॥८२॥
तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा।
त्रस्ता प्रोवाच सम्भ्रान्ता हितोदर्कमिदं वचः॥८३॥
“कल्यमेतेन संग्रामं करिष्यसि हरीश्वर!।
वीर! ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥८४॥
सहसा तव निष्क्रामो मम तावन्न रोचते।
श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे॥८५॥
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः।
निनादस्य च संरम्भो नैतदल्पं हि कारणम्॥८६॥
“नासहायमहं मन्ये सुग्रीवं तमिहागतम्।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥८७॥
पूर्वमेव मया वीर! श्रुतं कथयतो वचः।
अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः॥८८॥
अयोध्याधिपतेः पुत्रौ शूरोसमरदुर्जयौ।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ।
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ॥८९॥
तब भ्रातुर्हि विख्यातः सहायो रणकर्कशः
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः॥९०॥
निवासवृक्षः साधूनामापन्नानां परा गतिः।
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्॥९१॥
ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः।
धातूनामिव शैलेन्द्रो गुणानामाकरो महान्॥९२॥
तत्क्षमो न विरोधस्ते सह तेन महात्मना।
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु॥९३॥
शुर! वक्ष्यामि ते किञ्चिन्नचेच्छाम्यभ्यसूयितुम्।
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्॥९४॥
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय\।
विग्रहं मा कृथा वीर भ्रात्रा राजन्! यवीयसा॥९५॥
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्।
सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः॥९६॥
लालनीयो हि ते भ्राता यवीयानेष वानरः।
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते॥९७॥
न हि तेन समं बन्धुं भुवि पश्यामि कंचन।
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्॥९८॥
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे”॥९९॥
तमेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥१००॥
गर्जतोऽस्य ससंरम्भं भ्रातुः शत्रोर्विशेषतः
मर्षयिप्याम्यहं केन कारणेन वरानने॥१॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्।
धर्षणामर्षणं भीरु! मरणादतिरिच्यते॥२॥
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः॥३॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥४॥
शापिताऽसि मम प्राणैर्निवर्तस्व जनेन च।
अहं जित्वानिवर्तिष्ये तमहं भ्रातरं रणे”॥५॥
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥६॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्।
नगरान्निर्ययौ क्रुद्धो महासर्प इवश्वसन्॥७॥
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्खया।
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्॥८॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥९॥
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः।
सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम्॥१०॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्।
आपतन्तं महावेगमिदं वचनमब्रवीत्।॥११॥
“एष मुष्टिर्भया बद्धो गाढःसन्निहिताङ्गुलिः।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति”॥१२॥
एवमुक्तस्तु सुग्रीवः क्रुद्धोवालिनमब्रवीत्।
“तत्र चैवहरन् प्राणात् मुष्टिः पततु मूर्धनि”॥१३॥
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः।
तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव॥१४॥
हीयमानमथापश्यत्सुग्रीवं वानरेश्वरम्।
प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥१५॥
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्।
शरं च वीक्षते वीरो वालिनो वधकारणात्॥१६॥
ततो धनुषि सन्धाय शरमाशीविषोपमम्।
पूरयामास तच्चापं कालचक्रमिवान्तकः॥१७॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः।
राघवेण महाबाणो वालिवक्षसि पातितः॥१८॥
ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः।
वेगेनाभिहतो वाली निपपात महीतले॥१९॥
भूमौ निपतितस्यापि तस्य देहं महात्मनः।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥२०॥
शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता।
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥२१॥
तं तथा पतितं संख्ये गतार्चिषभिवानलम्।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च॥२२॥
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्।
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्॥२३॥
“त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः।
कुलीनः सत्वसंपन्नस्तेजस्वीचरितव्रतः॥२४॥
पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः।
यदहं युद्धसंरब्धः शरेणोरसि ताडितः॥२५॥
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः।
पार्थिवानां गुणा राजन्! दण्डश्चाप्यपराधिषु॥२६॥
तान् गुणान् संप्रधार्याहमग्र्यं चाभिजनं तव।
तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः॥२७॥
नत्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्।
जाने पापसमाचारं तृणैः कूपमिवावृतम्॥२८॥
सतां वेषधरं पापं प्रच्छन्नमिव पावकम्।
नाहं त्वमभिजानामि धर्मच्छद्माभिसंवृतम्॥२९॥
विषये वा पुरे वा ते यदा नापकरोम्यहम्।
न च त्वामवजानेऽहं कस्मान्मां हंस्यकिल्बिषम्॥३०॥
कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः।
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्॥३१॥
राम! राजकुले जातो धर्मवानिति विश्रुतः।
अभव्यो भव्यरूपेण किमर्थं परिधावसि॥३२॥
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि।
राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥३३॥
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः।
राजवृत्तैरसंकीर्णः शरासनपरायणः॥३४॥
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता।
इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर!॥३५॥
हत्वा बाणेन काकुत्स्थ! मामिहानपराधिनम्।
किं वक्ष्यसि सतां मध्ये कृत्वा कर्म जुगुप्सितम्॥३६॥
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥३७॥
त्वया नाथेन काकुत्स्थ! न सनाथा वसुन्धरा\।
प्रमदा शीलसंपन्ना धूर्तेन पतिना यथा॥३८॥
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
कथं दशरथेन त्वं जातः पापो महात्मना”॥३९॥
धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्॥४०॥
“धर्ममर्थं च कामं च समयं चापि लौकिकम्
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥४१॥
अस्पृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसंमतान्।
सौम्य! वानरचापल्यात्त्वं मां वत्कुमिहेच्छसि॥४२॥
इक्ष्वाकूणामियं भूमिःसशौलवनकानना
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि॥४३॥
तां पालयति धर्मात्मा भरतः सत्यवानृजुः।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥४४॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः\।
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः॥४५॥
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले।
पालयत्यखिलां भूमिं कश्चरेद्वर्मनिग्रहम्॥४६॥
ते वयं धर्मविभ्रष्टं स्वधर्मेपरमे स्थिताः।
भरताज्ञां पुरस्कृत्य निगृण्हीमो यथा विधि॥४७॥
त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥४८॥
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति।
त्रयस्ते पितरो ज्ञेया धर्मे वर्त्मनि वर्तिनः॥४९॥
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्॥५०॥
सूक्ष्मःपरमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम!\।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥५१॥
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम्॥५२॥
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते।
न हि मां केवलं रोषात्त्वंविगर्हितुमर्हसि॥५३॥
तदेतत्कारणं पश्य यदर्थं त्वं मया हतः।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥५४॥
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः।
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्॥५५॥
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर!।
भ्रातृभार्यावमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥५६॥
न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप!॥५७॥
औरसीं भगिनीं वाऽपि भार्यां वाप्त्यनुजस्य यः।
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः॥५८॥
भरतस्तु महीपालो वयं चादेशवर्तिनः।
त्वं तु धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्॥५९॥
वयं तु भरतादेशं विधिं कृत्वा हरीश्वर!\।
त्वद्विधान् भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः॥६०॥
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।
दारराज्यनिमित्तं च निश्रेयसि रतः स मे॥६१॥
प्रतिज्ञाच मया दत्ता तदा पावकसन्निधौ।
प्रतिज्ञाय कथं शक्यं मद्विधेनानवेक्षितुम्॥६२॥
तदेभिःकारणैः सर्वैर्महद्भिर्धर्मसंहितैः।
शासनं तवयद्युक्तं तद्भवाननुमन्यताम्॥६३॥
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं मया॥६४॥
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति संन्तः सुकृतिनो यथा॥६५॥
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।
राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्॥६६॥
तदलं परितापेन धर्मतः परिकल्पितः।
वधो वानरशार्दूल! न वयं स्ववशे स्थिताः॥६७॥
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः।
प्रदूषयसि मां धर्मेपितृपैतामहे स्थितम्”॥६८॥
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्।
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः॥६९॥
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः।
“यत्वमात्थ नरश्रेष्ठ!तदेवं नात्र संशयः॥७०॥
यदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम्।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव!॥७१॥
त्वं हि दृष्टार्थतत्वज्ञः प्रजानां च हिते रतः।
कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया॥७२॥
मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम्।
धर्मसंहितया वाचा धर्मज्ञ! परिपालय॥७३॥
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः।
तारेयो राम! भवता रक्षणीयो महाबल!॥७४॥
त्वत्तोऽहं वधमाकाङ्क्षन् वार्यमाणोऽपि तारया।
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः”॥७५॥
इत्युक्त्वा संनतो रामं विरराम हरीश्वरः॥७६॥
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्।
रामबाणेन च क्लान्तो जीवितान्ते मुमोह सः॥७७॥
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्॥७८॥
सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्।
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी॥७९॥
“पुत्रेण मम किं कार्यं किं राज्येन किमात्मना।
कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति॥८०॥
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः”॥८१॥
एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता।
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती॥८२॥
आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि।
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्॥८३॥
समीक्ष्य व्यथिता भूमौसम्भ्रान्ता निपपात ह।
इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥८४॥
ततो निपतितां तारां च्युतां तारामिवाम्बरात्।
शनैराश्वासयामास हनुमान् हरियूथपः॥८५॥
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम्।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥८६॥
शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे।
कस्य कोवा नु शोच्योऽस्ति देहेऽस्मिन् बुद्बुदोषभे॥८७॥
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय॥८८॥
यदयं न्यायदृष्टार्थः सामदानक्षमापरः।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि॥८९॥
ततो विचु क्रुशुस्तत्र वानरा हतयूथपाः।
परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः॥९०॥
“अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम्।
प्राप्तोऽस्मि पाप्मानमिमं वयस्य! भ्रातुर्वधात्वाष्टवधादिवेन्द्रः॥९१॥
महाबलानां हरियूथपानामिदं कुलं राघव! मन्निमित्तम्।
अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये॥९२॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन्।
इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः”॥९३॥
इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य।
सञ्जातबाष्पः परवीरहन्ता रामोमुहूर्तं विमना बभूव॥९४॥
सुग्रीवं चैवतारां च साङ्गदां सहलक्ष्मणः।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्॥९५॥
“न शोकपरितापेन श्रेयसा युज्यते मृतः।
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ॥९६॥
लोकवृत्तमनुष्ठेयं कृतं वो वाष्पमोक्षणम्।
न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम्॥९७॥
नियतिः कारणं लोके नियतिः कर्मसाधनम्।
नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥९८॥
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः।
स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥९९॥
न कालः कालमत्येति न कालः परिहीयते।
स्वभावं च समासाद्य न कश्चिदतिवर्तते॥३००॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः॥१॥
किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता\।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिता॥२॥
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् \।
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः॥३॥
स्वधर्मस्य च संयोगज्जितस्तेन महात्मना।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता।
तदलं परितापेन प्राप्तकालमुपास्यताम्”॥४॥
बचनान्ते तु रामस्य लक्ष्मणः परवीरहा।
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥५॥
“कुरु त्वमस्य सुग्रीव! प्रेतकार्यमनन्तरम्।
ताराङ्गदाम्यां सहितो वालिनो दहनं प्रति”॥६॥
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः।
समानशोकः काकुत्स्थः प्रेतकार्यण्यकारयत्॥७॥
ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम्।
शाखामृगमहामात्राः परिवार्योपतास्थिरे॥८॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्।
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान् मारुतात्मजः॥९॥
“भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो॥१०॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम्।
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः॥११॥
स्नातोऽयं विविधैर्गन्धैरोषधैश्च यथाविधि\।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः॥१२॥
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि।
कुरुष्व स्वाभिसम्बन्धं वानरान् संप्रहर्षयन्”॥१३
एवमुक्तो हनुमता राघवः परवीरहा ।
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः॥१४॥
“चतुर्दश समाः सौम्य! ग्रामं वा यदि वा पुरम्।
न प्रवेक्ष्यामि हनुमन्! पितुर्निर्देशपालकः॥१५॥
सुसमृद्धो गुहां रम्यां सुग्रीवो वानरर्षभः
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्”॥१६॥
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्।
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्॥१७॥
“इममप्यङ्गदं वीर! यौवराज्येऽभिषेचय।
ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते॥१८॥
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमःः
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्॥१९॥
अस्मिन् वत्स्याम्यहं सौम्य! पर्वते सहलक्ष्मणः।
कार्तिके समनुप्राप्ते त्वं रावणवधे यत॥२०॥
एष नः समयः सौम्य! प्रविश त्वं स्वमालयम्\।
अभिषिञ्चस्वराज्ये च सुहृदः संप्रहर्षय”॥२१॥
इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः।
प्रविवेश पुरीं रम्यां किष्किन्वां वालिपालिताम्॥२२॥
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्।
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः॥२३॥
ततो हैमप्रतिष्ठाने वरास्तरणसंवृते।
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने॥२४॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः॥२५॥
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना\।
सलिलेन सहस्राक्षं वसवो वासवं यथा॥२६॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः॥२७॥
रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः।
अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्॥२८॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः।
साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्॥२९॥
रामं चैवमहत्मानं लक्ष्मणं च पुनः पुनः।
प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥३०॥
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥३१॥
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्।
नानागुल्मलतागूढं बहुपादपसंकुलम्॥३२॥
तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
प्रत्यगृण्हत वासार्थं रामः सौमित्रिणा सह॥३३॥
वसतस्तस्य रामस्य रतिरल्पाऽपि नाभवत् ।
हृतां हि भार्यांस्मरतः प्राणेभ्योऽपि गरीयसीम्॥ ३४ ॥
पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
मनस्थामपि वैदेहीं चिन्तयामास राघवः॥३५॥
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥३६॥
“चत्वारो वार्षिका मासा गता वर्षशतोपमाः।
मम शोकाभिभूतस्य सौम्य! सीतामपश्यतः॥३७॥
प्रियाविहीने दुःखार्ते हतराज्ये विवासिते।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण!॥३८॥
स कालं परिसंख्याय सीतायाः परिमार्गणे॥
कृतार्थः समयं कृत्वा दुर्मतिनावबुध्यते॥३९॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।
आज्ञां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥४०॥
शुभं वा यदि वा पापं योऽहि वाक्यमुदीरितम्\।
सत्येन परिगृण्हाति स वीरः पुरुषोत्तमः॥४१॥
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।
तान् मृतानपि क्रव्यादाः क्रतनान्नोपमुञ्जते॥४२
यदर्थमयमारम्भः कृतः परपुरञ्जय!\।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥४३॥
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः।
व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते॥४४॥
तदेवं विहिते कार्ये यद्भितं पुरुषर्षभ!।
वक्तुमर्हसि सुग्रीवं व्यतितं कालपर्यये”॥४५॥
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥४६॥
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥४७॥
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।
महान् महेन्द्रस्य यथा खलङ्कृत इव ध्वजः॥४८॥
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥४९॥
“सत्वभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः।
कृतज्ञः सत्यवादी च राजा लोके महीयते॥५०॥
यस्तु राजा स्थितो धर्मे मित्राणामुपकारिणाम्।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥५१॥
शतमश्वानृते हन्ति सहस्रं तु गवानृते।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥५२॥
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर!॥५३॥
ब्रह्मघ्रे च सुरापे च गोघ्ने भग्नव्रते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः।५४
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर!
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥५५॥
महाभागेन रामेण पापः करुणवेदिना।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥५६॥
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥५७॥
न च संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव! मा वालिपथमन्वगाः”॥५८॥
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥५९॥
“नैवं लक्ष्मण! वक्तव्यो नायं परुषमर्हति।
हरीणामीश्वरः श्रोतुं तव वक्ताद्विशेषतः॥६०॥
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।
नैवानृतकथो वीर! न जिह्मश्च कपीश्वरः॥६१॥
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।
रामेण वीर! सुग्रीवो यदन्यैर्दुष्करं रणे॥६२॥
न च रोषवशं तात! गन्तुमर्हसि लक्ष्मण।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥६३॥
प्रसादये त्वां धर्मज्ञ! सुग्रीवार्थे समाहिता।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥६४॥
रुमां मां कपिराज्यं च धनधान्यवसूनि च।
रामप्रियार्थंसुप्रीवस्त्यजेदिति मतिर्मम॥६५॥
समानेष्यति सुग्रीवः सीतया सह राघवम्।
शशाङ्कमिवरोहिण्या निहत्वा रावणं रणे॥६६॥
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः।
आनेतुं वानरान् युद्धे सुबहून् हरियूथपान्॥६७॥
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्।
राघवस्यार्थसिध्यर्थं न निर्याति हरीश्वरः॥६८॥
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम!।
कोट्योऽनेकास्तु काकुत्स्थ! कपीनां दीप्ततेजसाम्”॥६९॥
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥७०॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन्॥७१॥
“प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
रामप्रसादात्सैमित्रे! पुनः प्राप्तमिदं मया॥७२॥
कः शक्तस्तस्य देवस्य विख्यातस्य स्वकर्मणा।
तादृशं विक्रमं वीर! प्रतिकर्तुमरिन्दम!॥७३॥
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्\।
सहायमात्रेण मया राघवः स्वेन तेजसा॥७४॥
यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति”॥७५॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैनमुवाच ह॥७६॥
“सहायेन च सुग्रीव! त्वया रामः प्रतापवान्।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः॥७७॥
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः।
उपपन्नं च युक्तंच सुग्रीव! तव भाषितम्॥७८॥
किंतु शीघ्रमितो वीर! निष्क्राम त्वं मया सह।
सान्त्वयस्व वयस्यं त्वं भार्याहरणकर्शितम्॥७९॥
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि”॥८०॥
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत्॥८१॥
“शतान्यथ सहस्राणां कोट्यश्च मम शासनात्।
प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः॥८२॥
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः।
आनयन्तु हरीन् सर्वास्त्वरिताः शासनान्मम”॥८३॥
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥८४॥
ते समुद्रेषु गिरिषु वनेषु च सरःसु च।
वानरा बानरान् सर्वान् रामहेतोरचोदयन्॥८५॥
मृत्युकालोपमस्याज्ञां कपिराजस्य वानराः।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः॥८६॥
बनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महौजसः।
आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्॥८७॥
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः।
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्॥८८॥
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्।
अवातरन्महातेजाः शिविकायाः सलक्ष्मणः॥८९॥
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥९०॥
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्।
प्रेम्णा च बहुमानाञ्च राघवः परिषस्वजे॥९१॥
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्।
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः॥९२॥
“धर्ममर्थं च कामं च काले यस्तु निषेवते
विभज्य सततं वीर! स राजा हरिसत्तम!॥९३॥
अमित्राणां बधे युक्तो मित्राणां संग्रहे रतः।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते॥९४॥
उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन!\।
संचिन्त्यतां हि पिङ्गेश! हरिभिः सह मन्त्रिभिः”॥९५॥
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्।
“प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
त्वत्प्रसादान्महाबाहो! पुनः प्राप्तमिदं मया॥९६॥
तव देव प्रसादाच्च भ्रातुश्च जयतां वर।
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः॥९७॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः।
स्वैःस्वैःपरिवृताः सैन्यैर्वर्तन्ते पथि राघव!॥९८॥
आगमिष्यन्ति ते राजन्! महेन्द्रसमविक्रमाः।
मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः॥९९॥
ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्।
निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम्”॥४००॥
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः।
बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥१॥
“त्वत्सनाथः सखे! संख्ये जेताऽस्मि सकलानरीन्।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥२॥
न चिरात्तं हनिष्यामि रावणं निशितैः शरैः।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे”॥३॥
एतस्मिन्नन्तरे चैव रजः समभिवर्तत।
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्॥४॥
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रेर्महाबलैः।
कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवगमैः॥५॥
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः।
शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥६॥
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्।
सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा॥७॥
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥८॥
“आगता वानरा घोरा दैत्यदानवसंन्निभाः।
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः॥९॥
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः।
पृथिव्यम्बुचरा राम! नानानगनिवासिनः॥१०॥
निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम!॥११॥
यन्मन्यसे नरव्याघ्र! प्राप्तकालं तदुच्यताम्”॥१२॥
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः।
बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्॥१३॥
“ज्ञायतां मम वैदेही यदि जीवति वा न वा।
स च देशो महाप्राज्ञ! यस्मिन् वसति रावणः॥१४॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च।
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया॥१५॥
नाहमस्मिन् प्रभुः कार्ये वानरेश! न लक्ष्मणः।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर!॥१६॥
त्वमेवाज्ञापय विभो! मम कार्यविनिश्चयम्।
भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः”॥१७॥
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः॥१८॥
“वृतः शतसहस्रेण वानराणां तरस्विनाम्।
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्॥१९॥
तत्र सीतां च वैदेहीं निलयं रावणस्य च।
मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च॥२०॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥२१॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम।
सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्”॥२२॥
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।
अब्रवीन्मेघसंकाशं सुषेणं नाम यूथपम्॥२३॥
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्।
बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम्॥२४॥
“गिरिजालावृतां दुर्गां मार्गध्वं पश्चिमां दिशम्।
अधिगम्य तु वैदेहीं निलयं रावणस्य च॥२५॥
अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत।
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम॥२६॥
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा”॥२७॥
ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्।
चीरं शतबलिं नाम वानरं वानरर्षभम्।
उवाच राजा धर्मज्ञः सर्ववानरसत्तमम्॥२८॥
“वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्।
वैवस्वतसुतैः सार्धं प्रतिष्ठस्वस्वमन्त्रिभिः॥२९॥
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्॥३०॥
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥३१॥
कृतं हि प्रियमस्माकं राघवेण महात्मना।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥३२॥
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः”॥३३॥
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्।
सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥३४॥
“न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये।
नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव!॥३५॥
सासुराः सहगन्धर्वा सनागनरदेवताः।
विदिताः सर्वलोकास्ते ससागरधराधराः॥३६॥
गतिर्वेगश्च तेजश्च लाघवं च महाकपे!।
पितुस्ते सदृशं वीर! मारुतस्य महात्मनः॥३७॥
तेजसा वाऽपि ते भूतं समं भुवि न विद्यते।
तद्यथा लभ्यते सीता तावमेवोपपादय॥३८॥
त्वय्येव हनुमन्! अस्ति बलं बुद्धिः पराक्रमः।
देशकालानुवृत्तिश्च नयश्च नयपण्डित!”॥३९॥
ततः कार्यसमासङ्गमवगम्य हनूमति।
विदित्वा हनुमन्तं च चिन्तयामास राघवः॥४०॥
“सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः।
भत्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः”॥४१॥
ददौ तस्मै ततः प्रीतः स्वनामाङ्कोपशोभितम्।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः॥४२॥
स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः॥४३॥
ताराङ्गदादिसहितः प्लवगः पवनात्मजः\।
अगस्त्यचरितामाशां दक्षिणां हरियूथपः॥४४॥
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः॥
स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे॥४५॥
आनयिष्यामहे सीतांहनिष्यामश्च रावणम्।
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः॥४६॥
सुग्रीवेण समादिष्टाः सर्वे वानरयूथपाः।
तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥४७॥
विचित्य तु दिशं पूर्वांयथोक्तां सचिवैः सह।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥४८॥
उत्तरां च दिशं सर्वां विचित्य स महाकपिः।
आगतः सहसैन्येन वीरः शतबलिस्तदा॥४९॥
सुषेणः पश्चिमामाशां विचित्य सह वानरैः।
समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे॥५०॥
हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः।
विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः॥५१॥
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च॥५२॥
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्।
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्॥५३॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः।
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्॥५४॥
ते प्रविष्टास्तु वेगेन तद्विलं कपिकुञ्जराः।
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम्॥५५॥
हैमराजतभौमानि वैदूर्यमणिमन्ति च।
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः॥५६॥
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।
महार्हाणि च पानानि मधूनि रसवन्ति च॥५७॥
तत्र तत्र विचिन्वन्तो बिले तस्मिन् महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः॥५८॥
तापसीं नियताहारां ज्वलन्तीमिवतेजसा।
पप्रच्छ हनूमांस्तत्र “काऽसि त्वं कस्य वा बिलम्॥५९॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः”॥६०॥
एवमुक्ता हनुमता तापसी धर्मचारिणी।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता॥६१॥
“पुरा दानवमुख्यानां विश्वकर्मा बभूव ह।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्॥६२॥
“तमप्सरसि हेमायां सक्तं दानवपुंगवम्।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः॥६३॥
इदं च ब्राह्मणा दत्तं हेमायै वनमुत्तमम्।
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम्॥६४॥
दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा।
इदं रक्षामि भवनं हेमाया वानरोत्तम!॥६५॥
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्॥६६॥
इमान्यभ्यवहार्याणि मूलानि च फलानि च।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ”॥६७॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः।
आर्जवेन यथातत्वमाख्यातुमुपचक्रमे॥६८॥
“राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥६९॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात्॥७०॥
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥७१॥
‘रावणं सहिताः सर्वे राक्षसं कामरूपिणम्\।
सीतया सह वैदेह्या मार्गध्व’मिति चोदिताः॥७२॥
विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्।
बभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः॥७३॥
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्।
लतापादपसंछन्नं तिमेरेण समावृतम्॥७४॥
ततो गाढं निपतिता गृह्य हस्तौ परस्परम्।
इदं प्रविष्टा सहसा बिलं तिमिरसंवृतम्॥७५॥
आतिथ्यधर्मदत्तानि मूलानि च फलानि च।
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥७६॥
शरणं त्वां प्रपन्नाः स्मो सर्वे वै धर्मचारिणि!।
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना॥७७॥
स च कालो ह्यतिक्रान्तो बिले नः परिवर्तताम्।
सा त्वमस्माद्विलाद्धोरादुत्तारयितुमर्हसि”॥७८॥
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्।
“जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्॥७९॥
तपसस्तु प्रभावेण नियमोपार्जितेन च।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्॥८०॥
निमीलयत चक्षूंषि सर्वे वानरपुंगवाः।
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः”॥८१॥
ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षिणः॥८२॥
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया॥८३॥
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥८४॥
ततस्तान् कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥८५॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥८६॥
“वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः।
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥८७॥
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः।
हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत्?॥८८॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः।
न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥८९॥
तस्मात्क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्”॥९०॥
एतावदुत्क्कावचनं वृद्धास्ता नभिवाद्य च।
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः॥९१॥
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्\।
परिवार्याङ्गदं सर्वे व्यवास्यन् प्रायमासितुम्॥९२॥
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः।
उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन्॥९३॥
संपातिर्नाम नाम्ना तु चिरजीवी विहंङ्गमः।
भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः॥९४॥
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः।
उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥९५॥
विधिः किल नरं लोके विधानेनानुवर्तते।
यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥९६॥
परंपराणां भक्षिष्ये वानराणां मृतं मृतम्”॥९७॥
तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः
अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत्॥९८॥
“पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः।
इमं देशमनुप्राप्तो वानराणां विपत्तये॥९९॥
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्।
हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥५००॥
स सुखी गृध्रराजस्तु रावणेन हतो रणे।
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्”॥१॥
तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥२॥
“कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥३॥
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः।
अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात्॥४॥
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः।
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः॥५॥
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्।
इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः!”॥६॥
अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा।
“राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।
पितुर्निदेशनिरतों धर्म्यं पन्थानमाश्रितः॥८॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात्॥९॥
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्।
ददर्श सीतां वैदेहीं हियमाणां विहायसा॥१०॥
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥११॥
एवं गृध्रो हतस्तेन रावणेन बलीयसा।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्॥१२॥
ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत्पितरं मम॥१३॥
स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः।
राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥१४॥
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥१५॥
जटायुषो यदि भ्राता श्रुतं ते गदितं मया।
आख्याहि यदि जानासि निलयं तस्य रक्षसः॥१६॥
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम्।
अन्तिके यदि वा दूरे यदि जानासि शंस नः”॥१७॥
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः।
आत्मानुरूपं वचनं वानरान् संप्रहर्षयन्॥१८॥
“निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः।
बाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥१९॥
तरुणी रूपसंपन्ना सर्वाभरणभूषिता।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥२०॥
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी।
भूषणान्यपविध्यन्ती गात्राणि च विधून्वती॥२१॥
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः॥२२॥
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः॥२३॥
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने।
तस्मिल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥२४॥
तस्यां वसति वैदेही दीना कौशेयवासिनी।
राक्णान्तः पुरे रुद्धा राक्षसीभिः समावृता॥२५॥
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्।
लङ्कायामथ गुप्तायां सागरेण समन्ततः॥२६॥
संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम्।
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्॥२७॥
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ”॥२८॥
तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥२९॥
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम्।
हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः॥३०॥
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः।
विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन्॥३१॥
तान् विषादेन महता विषण्णान् वानरर्षभान्।
उवाच मतिमान् काले वालिसूनुर्महाबलः॥३२॥
“न विषादे मनः कार्यं विषादो दोषवत्तमः।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥३३॥
विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते।
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति॥३४॥
क इदानीं महातेजा लङ्घयिष्यति सागरम्।
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम्॥३५॥
कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि च।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्॥३६॥
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्।
अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम्॥३७॥
यदि कश्चित्समर्थो वः सागरप्लवने हरिः।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्”॥३८॥
अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत्।
स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी॥३९॥
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्\।
जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत्॥४०॥
“वीर! वानरलोकस्य सर्वशास्त्रविशारद!\।
तूष्णीमेकान्तमाश्रित्य हनुमन्! किं न जल्पसि?॥४१॥
बलं बुद्धिश्च तेजक्ष सत्वं च हरिपुंगव!\।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे॥४२॥
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः।
कार्यं चालोकसामान्यं कर्तुं शक्तस्त्वमेव हि॥४३॥
भवाञ्जीवातवेऽस्माकमञ्जनागर्भसम्भव!।
उत्तिष्ठ हरिशार्दूल! लङ्घयस्व महार्णवम्॥४४॥
विषण्णा हरयः सर्वे हनूमन्! किमुपेक्षसे।
विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव”॥४५॥
संस्तूयमानो हनुमान् व्यवर्धत महाबलः।
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान्॥४६॥
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमाः॥४७॥
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः।
विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम्॥४८॥
ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥४९॥
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता।
मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनखी॥५०॥
इति श्रीमदात्रेयतिरुनारणार्यतनूजश्रीनिवासदासेन संघटिते
श्रीमत्संग्रहरामायणे किष्किन्धाकाण्डः संपूर्णः
श्रीरामायणखनितो राघव! संगृह पद्यरत्नानि।
भक्तिवशात्सङ्घटितां संग्रहमालां समर्पये तुभ्यम्\।\।
\।\।शुभम्\।\।
————————————————————————————————————
२-१९४८ बेङ्गलूरुनगरस्थ बेङ्गलूरुप्रेस्सवेक्षकैः जि. श्रीनिवासरायमहोदयैः
मुद्रापितम्।
श्रीः
श्रीमत्सुन्दरकाण्डान्तर्गतगायत्रीरामायणम्
————
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।
इयेष पदमन्वेष्टुं चारणाचरिते पथि॥१॥
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्।
विक्रमेण महातेजा हनुमान् कपिसत्तमः॥२॥
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः।
निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्॥३॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥४॥
वचोमिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः।
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे॥५॥
रक्षिता स्वस्य वृत्तस्य स्वजनस्य च रक्षिता।
रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥६॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती॥७॥
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः।
धनुर्वेदच वेदेषु वेदाङ्गेषु च निष्ठितः॥८॥
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः।
अनुरागेण रूपेण गुणैश्चैव तथाविधः॥९॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्।
भर्तारमिव संप्राप्ता जानकी सुदिता भवेत्॥१०॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवः सत्वसम्पन्नस्तवार्थे कृतनिश्चयः॥११॥
वनं भग्नं मया चैत्यप्रासादो न विनाशितः।
तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्॥१२॥
समुद्रं लंघयित्वैव तां दिदृक्षुरिहागतः।
भ्रमता च मया दृष्टा गृहे ते जनकात्मजा॥१३॥
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः।
परावरज्ञो भूतानां त्वमेव परमार्थवित्॥१४॥
मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्॥१५॥
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः॥१६॥
धन्यास्ते पुरुषश्रेष्ठा ये बुध्या कोपमुत्थितम्।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥१७॥
यस्समुत्पतितं क्रोधं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥१८॥
यदि त्वं मन्यसे तात वसैकाहमरिंदम।
क्वचित्सुसंवृते देशे विश्रान्तः श्वो गमिष्यसि॥१९॥
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे।
यज्ञीयस्सत्यवादी च रणश्लाघी च राघवः॥२०॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।
अलमेषा परित्रातुं राक्षस्यो महतो भयात्॥२१॥
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः
उवाच कश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान॥२२॥
दृष्टा सीता महाबाहो सौमित्रे पश्य तत्वतः।
अभिगम्य तथा सर्वे पिबन्ति मधु वानराः॥२३॥
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।
प्रीतिसंजननं तस्य प्रदातुं त्वमिहार्हसि॥२४॥
N.B.-Srimad Sundara Kanda Sangraham is under print
and when ready, will be notified.
ಏ. ಶ್ರೀಮತ್ಸುಂದರಕಾಂಡ ಸಂಗ್ರಹವು ಮುದ್ರಣದಲ್ಲಿದೆ ;
ಸಿದ್ಧವಾದಕೂಡಲೆ ತಿಳಿಯ ಪಡಿಸಲಾಗುತ್ತೆ.
——————————
२-१९४८. बेंगलोर प्रेस.
]