संक्षिप्तरामायणम्

[[संक्षिप्तरामायणम् Source: EB]]

[

<MISSING_FIG href="../books_images/U-IMG-1699601538i7.png"/>

[TABLE]

[TABLE]

॥श्रीः॥

श्रीमुद्दुसुब्बकविविरचितम्

॥संक्षिप्तरामायणम्॥

<MISSING_FIG href="../books_images/U-IMG-1699602737i9.png"/>

ससीतालक्ष्मणं वन्दे रामं राजीवलोचनम्।
यन्नामकीर्तनाल्लोको मुच्यते भवबन्धनात्॥१॥
संक्षिप्ताच्च क्रमेणार्यैः संक्षिप्याद्य मया स्तुतः।
स्वदेत रामवृत्तान्तो न किं संशृतदुग्धवत्॥२॥
अस्त्ययोध्येति विख्याता वैकर्तनमहीभुजाम्।
राजधानी स्वया लक्ष्म्या हसन्तीवामरावतीम्॥३॥
आसीद्दशरथो नाम तस्यां नृपतिसत्तमः।
सर्वे च वश्या यस्यासन्बलिनो नयचक्षुषः॥४॥
सोऽनपत्योऽपत्यकृतं पूर्णत्वं शास्त्रवित्स्मरन्।
अदूयतापूर्णमानी शक्रतुल्यर्द्धिभागपि॥९॥
तेनानुयुक्तः पुत्रार्थंचिरेण तपता भृशम्।
प्रत्यग्दृशां प्रवेकोऽथ ब्रह्मसूनुरभाषत॥६॥
आहरन्नेव पुत्रीयमृश्यशृङ्गर्त्विजं मुखम्।
लप्स्यसे कामनासिद्धिं त्रिवर्गलघुपद्धतिम्॥७॥
इत्युक्ते गुरुणा भूपेऽमात्या लालाटिकाः प्रभोः।
जम्मुस्तमानिनीषन्तोमुनिंवैभण्डकिं क्षणात्॥८॥
यदा विधिवदानीय शान्तेशो मुनिरर्चितः।
तदैव शान्ततापोऽभूत्पुत्रंलब्ध्वेवभूपतिः॥९॥

ततस्तदुपदिष्टेन विधिन्म स यथाविधि।
सप्ततन्तुं करोति स्म पुत्रीयं सरयूतटे॥१०॥
रावणोपप्लवक्लान्तानथ सेन्द्रान्सुपर्वणः।
आदाय प्रययौ वेधा हरिं क्षीराब्धिशायिनम्॥११॥
अद्राक्षुः कलशाम्भोधेरात्तवेला दिवौकसः।
भुजङ्गराजशयनमजं गरुडवाहनम्॥१२॥
गतागतेषु संभ्रान्ताद्वर्षर्तुनवनीरदात्।
प्रभ्रष्टमिव तच्छावं नीलाङ्गरुचिमेदुरम्॥१३॥
स्पृष्टोऽथ कमलाजानेर्विधातापाङ्गधारया।
सहस्रकृत्वः प्राणंसीत्कार्ये चास्मै व्यजिज्ञपत्॥१४॥
निध्याय रक्षोदुर्वृत्तं निर्जराणां च दुर्दशाम्।
स बभाषे शरच्चन्द्रचन्द्रिकासुन्दरस्मितः॥१५॥
मा भैष्ट देवाः शोकेन कृतं भीर्व्येतु रावणात्।
तं हनिष्यामि झटिति नीहारमिव भानुमान्॥१६॥
किंतु वंशे रघोराजेः पुत्रत्वं मे गमिष्यतः।
साहाय्यार्थेजनयत तनयान् कीशयोनिषु॥१७॥
इत्थमुक्त्वा रमानाथे व्रजत्यक्ष्णोरगोचरम्।
करिष्यन्तस्तदादेशं देवा जग्मुर्यथागतम्॥१८॥
प्रादुर्भूतमभौमान्नं दत्त्वा स्त्रीभ्यस्ततोऽध्वरे।
उपजग्मेपुरी राज्ञा कृतावभृथकर्मणा॥१९॥
अथ कालेन तत्पत्न्यो गर्मेण चिरकांक्षिताम्।
प्राप्य श्रद्धालुतां सद्यो जहुरन्यत्र तांदृढाम्॥२०॥

कौसल्या सुषुवे रामं कैकेयी भरतं सुतम्।
यमौ लक्ष्मणशत्रुघ्नौ सुमित्रापि गुणाकरौ॥२१॥
प्रसेदुरापो जज्वाल भास्वान्मन्दं ववौ मरुत्।
तदा जगति सर्वेषां समं समभवन्महः॥२२॥
क्रमाद्दधुः कुमारास्ते निःशेषामुक्तशैशवाः।
कङ्कपक्षादिकं बाह्वोःकाकपक्षं च मूर्धनि॥२३॥
अथ जातुचिदागत्यराज्ञा विधिवदर्चितः।
कौशिको यज्ञरक्षार्थमर्थयामास राघवम्॥२४॥
वसिष्ठवाक्यापगतराक्षसातङ्कमन्युना।
कुमारद्वयमस्पर्शिकौशिकाय महीभुजा॥२९॥
गुरुं तमनुगच्छन्ताविन्द्रोपेन्द्राविवाध्वनि।
काश्चिद्विद्याः कथाश्चास्माल्लेभाते रामलक्ष्मणौ॥२६॥
ततः कृशाश्वोपज्ञानि जृम्भकास्त्राणि राघवः।
आददे ताटकामाथे पारितोषिकदान्मुनेः॥२७॥
अथारब्धमखे तस्मिन् जीवायुक्तंधनुः परम्।
स चकाराशरान्नाजावहंपूर्विकयागतान्॥२८॥
समाप्तदीक्षः स्वस्थेव जनकस्य ऋतावपि।
श्रियं ग्राहयितुं रामं विश्वामित्रो व्यचिन्तयत्॥२९॥
अपूर्वविषयालोकसुखिभ्याममरापगा।
सहैव रघुबालाभ्यामुत्तीर्णा गाधिसूनुना॥३०॥
मध्येवर्त्म चिराद्भ्रष्टामग्निमत्तां तु गौतमे।
पुनः संधापयामासुरस्य मृद्वङ्ध्रिरेणवः॥३१॥

वैदेहोमुनिमायान्तमर्हयित्वार्हतां वरम्।
अविघ्नं तपसोऽपृच्छद्राज्यस्यानामयं स च॥३२॥
परस्परेण स्तुवतोर्गाधिगौतमपुत्रयोः।
राजा सानुनयं वाक्यमाह सीरध्वजोऽन्तरे॥३३॥
जिज्ञासे काविमौ ब्रह्मन्नपि पार्थिवलक्षणौ।
लावण्यामृतधाराभिर्ममाङ्क इव चक्षुषी॥३४॥
अनयोर्जन्मना को वा राजन्यो धन्यतां गतः।
इत्युक्तवन्तं राजानं प्रत्याह कुशिकात्मजः॥३५॥
इमौ दाशरथी राजन्भ्रातरौ रामलक्ष्मणौ।
आनीतौमखरक्षार्थ मया दशरथान्तिकात्॥३६॥
एष रामोऽग्रजोऽनेन यज्ञविघ्नकरा हताः।
इतश्चायं पुण्यजनान् सर्वान् संस्थापयिष्यति॥३७॥
एवं फ्लाशिनां प्राणैः सर्ग निर्वर्तिते क्रतौ।
प्रसङ्गादजनिष्ठास्य भवत्पादसिसेविषा॥३८॥
आरोप्यान्यैर्दुरारोपमेष कन्यापणं धनुः।
त्वामद्यकुर्यान्निस्तीर्णप्रतिज्ञं यदि मन्थसे॥३९॥
तमन्वजानान्नृपतिः स्वाधीनेऽस्मिन् जनेऽन्यवत्।
किं विकल्पेन भगवन्यथेष्टं क्रियतामिति॥४०॥
अथ तेन कुमारेणाटन्या घटयता गुणम्।
भज्यते स्म धनुर्दण्डो मानेन सह धन्विनाम्॥४१॥
प्रहृष्यादिशतस्तावज्जनकस्य पुरोधसा।
प्रेषिता कोसलेन्द्राय सीताकल्याणपत्रिका॥४२॥

संमर्दजनिता धूलिर्नृणां दिग्भ्यः समेयुषाम्।
साकेतमिथिंलापत्योः प्रशेसेमुत्पयोझरैः॥४३॥
लक्ष्मणायोर्मिला देयेत्याजेराशां स पूरयन्।
कुशध्वजसुते च स्तामन्ययोरिति चाब्रवीत्॥४४॥
परिष्कृतं कुमारास्ते स्थितमत्युपमे पदे।
मण्डपं शोमयांचक्रुः कृतकौतुकमङ्गलाः॥४५॥
तदा दुन्दुभिनिर्घोषीब्रह्मघेाषैर्दिवं ययौ।
पुष्पवृष्टिस्तु देवानां पौरानन्दजलैर्भुवम्॥४६॥
ते चत्वारश्चतमृणां जगत्पीडापहं क्रमात्।
कुमारा राजपुत्रीणां व्यदधुः पाणिपीडनम्॥४७॥
सीतया जनकादात्तानेकयौतकसंपदा।
सानुगोऽथ समं रामः प्रतस्थे स्वां पुरीं प्रति॥४८॥
रुरोध क्षत्रसंवर्तकुठारक्रूरदर्शनः।
भार्गवो मुनिरध्वानं राघवस्य जिगीषया॥४९॥
दृप्यता मुनिना दत्तं धनुरेव न राघवः।
नम्रीचकार तं चायं प्राणच्युतिमयार्दितम्॥५०॥
मूर्ध्न्याशिषं भृगुसुतेन दधद्वितीर्णा-
ध्वंसे च तद्विजयि तस्य महाधनुश्च।
साकेतमेत्य नयवित्सकलप्रजाना-
माह्लादको विधुरिवाजनि रामचन्द्रः॥५१॥

इति श्रीमुद्दुसुब्बकविविरचिते संक्षिप्तररामायणे
॥बालकाण्डः॥

अयोध्याकाण्डः

गच्छ मातुलकुले स्वबान्धवान्प्रीणयन्वस चिरोत्सुकानिति।
आज्ञया पितुरमुक्तसोदरस्तज्जगाम भरतो महामतिः॥१॥
एकदा स चकमे जरन्नृपो दुर्भरं चिरधृतं भुवो भरम्।
आत्मजेलघयितुं दमोज्ज्वले सर्वसंवननसद्गुणाकरे॥२॥
तद्विभेदयितुकामयेरिता केकयी हितगिरेव कुब्जया।
इत्यशिश्रवत भृभुजेवरौ देहि मे युधि पुरा प्रतिश्रुतौ॥३॥
तत्र शास्तु भरतो वसुंधरामेक एवमपरो वरस्तु मे।
राम आश्रितमुनिव्रतो वने संचरत्विति समाश्चतुर्दश॥४॥
वज्रपातपरुषं निशम्य तत्सत्यवाञ्श्रवणदारणं वचः।
कृत्तमूल इव भूरुहस्तदा राम हेति निपपात भूपतिः॥५॥
निर्दयत्वमुपदर्श्य यावतीरुज्जगार रुशतीः स योषिति।
सापि भूभुजि निरूप्य दुर्मतिस्तावतीस्थ मृषार्थवादिताम्॥६॥
राघवाय पितरं शुचातुरं वीक्ष्य शङ्कितधिये त्वतद्विदे।
बद्धकौतुककराय पृच्छते तन्निदानमपभोरुवाच सा॥७॥
त्वं तपस्य विपिने तवानुजः पालयत्ववनिमस्य शोचने।
हेतुरेष इति मातुराददे शासनेन सह सोऽपि वल्कलम्॥८॥
रुद्धयापि रचितानुयात्रया सीतयेव सह पौरचेतसा।
आरुरोह स सुमन्त्रयन्त्रितं स्यन्दनं रघुपतिः सलक्ष्मणः॥९॥
भिल्लभूभृदुपनीतनौसमुत्तीर्णनिर्जरतरङ्गिणीजलः।
संचचार स सदारसोदरो नव्यकल्पितजटस्तपोवने॥१०॥

आवहञ्शिरसि भूषणं मुनेराङ्घिरेणुमनुजेन निर्मिते।
चित्रकूटभुवि पर्णमन्दिरे सीतया सुखमुवास राघवः॥११॥
सारथिस्तु पुनरागमे विभोराशयादिव मनोरथं रथम्।
संनिवर्त्य सुरनिम्नगातटादार्त आर्च्छदयथापुरं पुरम्॥१२॥
रामशून्यरथदर्शनात्परं पौरमुन्न विरराम केवलम्।
पुत्रशोकदवदग्धचेतसः प्राणवायुरखिलोऽपि भूपतेः॥१३॥
भूपविक्रमकथानुरोधनै रामसद्गुणचरित्रवर्णनैः।
केकयाधिपसुताविगर्हणैः पूरपूर्यखिलपौररोदनैः॥१४॥
देशिकस्य भरतः सुधीस्तु संदेशतस्तदनु मातुलालयात्।
मुक्तरश्मितुरगः सहानुजः पूर्गतं निजमनोऽन्वधावत॥१५॥
शङ्कितं पुरमवेक्ष्य पादयोरानतं भरतमम्ब मे गुरुः।
कुत्र वेति पितृदर्शनोत्सुकं त्वप्रियं प्रियमिवाह केकयी॥१६॥
त्वत्कृते शिथिलितं नृपादृतं वत्स राममकुटाभिषेचनम्।
द्रावितश्च वनमेव राघवः सीतया विधृतवल्कलाजिनः॥१७॥
तातमात्मजवियोगशोकतः संस्कुरुष्व विधिवन्मृतं ततः।
पौरवृद्धकृतमौलिसेचनो निःसपत्नमनुभुङ्क्ष्वचावनिम्॥१८॥
इत्युषर्बुधसखी यदा हि गीरस्य कर्णमविशत्स्वमातृतः।
सद्य एव हृदयं तदाजहाच्चेतना परमसह्यवेदनम्॥१९॥
लब्धसंज्ञ उरु भर्त्सयन्प्रसूंधिग्धिगित्यधिकरूक्षया गिरा।
तद्गृहात्स ससहोदरः शचा तप्यमानहृदयो विनिर्ययौ॥२०॥
संस्क्रियां तु पितुरौर्ध्वदैहिकीमाहिवाग्निविधिना विधाय सः।
प्रार्थितोऽथ मकुटाय मन्त्रिभिःप्रत्यभाषत पुरःसरः सताम्॥२१॥

धारयेय मकुटं तदा ह्ययं दण्डकासुन लभेयचेद्द्वयम्।
आश्रमं तपसितुं तथा जटासंयमाय च वटस्रुतं पयः॥२२॥
इत्युदीर्य कृतिनं कृतोद्यमं दण्डकावननिषेवणाय तम्।
आशिशुस्थविरमन्वगुर्जना राघवाख्यममृतं पिपासवः॥२३॥
धूलिभिर्निजपदोत्थिताभिरुत्पादितामरघुनीकलङ्कया।
सेनया स चतुरङ्गयाभवन्मातृभिश्चपथिकः पुरोधसा॥२४॥
राममेति भरतोऽभिषेणकः किं द्विषन्निति वितर्कयन्गुहः।
शुद्धमस्य विमृशंस्तदाशयं तं मुदा सुरनदीमतीतरत्॥२५॥
आतिथेयविधिसत्कृतं भरद्वाज आर्यपदसेवयोत्सुकम्।
तन्निवासकथया व्यशिश्रमद्दीनदीनमथ तं मुनिव्रतम्॥२६॥
तं विलोक्य विजिगीषयोद्यतं लक्ष्मणं विनयति स्म राघवः।
वत्स नैवमपदे पदं कृथा अर्हतां हि भरतोऽग्रणीरिति॥२७॥
तत्र पर्णकुटिकाग्रसीमनि स्थण्डिलेऽजिनसमावृते स्थितम्।
चीरिणं जटिनमावृतं मृगैः सेव्यमानमनुजेन च स्त्रिया॥२८॥
वीक्ष्य रामगतदर्हदुर्दशंदुर्निवारतरशोकवेगितः।
मत्कृते व्यसनमीदृशं विभोर्मा धिगित्यनुपदं विगर्हयन्॥२९॥
प्राप्य साधुरमिशस्ततामिवस्वात्मनात्मनिविशन्निवह्रिया।
पादमूलमनवाप्य विह्वलस्त्वार्य हेति भरतोऽपतद्भुवि॥३०॥
तं तथा पतितमाकुलं समाश्वास्य सम्यगितरांश्चपूजयन्।
राघवः चितुरवेत्य तां गतिं तात हेति विललाप दुःखितः॥३१॥
वृत्तवानतिवयाश्च ते पिता नैव शोच्य इति वृद्धबोधितः।
लक्ष्मणेन सह पारलौकिकीश्चक्रिवान् रघुपतिः पितुः क्रियाः॥३२॥

तं समाप्य विधिमागतं पुनः संप्रणम्य पदयोर्मुहुर्मुहुः।
संप्रसादयितुकाम ऊचिवान् साञ्जलिर्भरत आर्यमार्यधीः॥३३॥
आर्यसोन्नतिजुषां सतां गणैः संयुतापि भृशभासुरात्मनाम्।
राजनि त्वयिवनं गते पुरी शर्वरीव न विराजतेतराम्॥३४॥
लोकनाथ किमनाथवत्त्वया नाथवत्यपि विषीदति प्रजाः।
तावकींवह जहीहि वा धुरं सर्वथापि खलु दुर्वहां मया॥३५॥
इत्यकेतवमनोरमामसौभारतीमथ निशम्य भारतीम्।
राघवो मुदितमानसोऽप्युपच्छन्दयन्निजगिरा तमब्रवीत्॥३६॥
वत्स किं पितृनिदेशवर्तनादन्यदस्ति करणीयमुत्तमम्।
श्रूयते हि विनिमित्य वार्धकंयोऽददात्स्वगुरवे निजं वयः॥३७॥
तेन तातवचनं तदावयोः पाल्यमित्युपदिशन रघूद्वहः।
याद्रुके प्रतिभुवाविषात्मनो न्यासयन् स भरतं न्यवीवृतत्॥३८॥
प्रत्यावृत्तः कथमपि ततःपादुके सोऽभिषिञ्च-
न्नन्दिग्रामे दिवसगणनातत्पसे भ्रातुरास्त।
रामस्त्वर्द्रिजनपरिचयात्तापसानां च भावा-
न्मुञ्चन्नत्रेरपि बहुमतः प्राविशद्दण्डकायाम्॥३९॥

इति श्रीमुद्दुसुब्बकविविरचिते संक्षिप्तरामायणे
अयोध्याकाण्डः

आरण्यकाण्डः

प्रविश्य रामो विषिनं सलक्ष्मणः प्रतप्तजाम्बूनदवर्णया स्त्रिया।
चचार धन्वी गगने मरुत्सालः सहेन्द्रचापस्तडितोयतोयदः॥१॥

विराधनामाथ निशाचरस्तयोर्निरुध्य मार्गं वरदानदर्पितः।
स्त्रियं प्रसह्यापहरन्रघुद्वहप्रतापवह्नौशलभत्वमीयिवान्॥२॥
उपस्थितं शक्रमपि प्रयापयन् प्रियातिथिं राघवमर्चयन्मुनिः।
समक्षमस्यैव तनुं त्यजन्दिवं सुरार्चितोऽगाच्छरभङ्ग आत्मवान्॥३॥
ततः सुतीक्ष्णाश्रममेत्य तत्रते सुसत्कृतास्तेन फलादिभिस्त्रयः।
सुखेन तां न्युष्य निशां परेद्यवि प्रणम्य तेनानुमताः प्रतस्थिरे॥४॥
समुद्रविन्ध्यावगते गभीरिमोन्नती विरुद्धे अपि यत्र सुस्थिते।
तमाश्रमस्थं मुनिमेत्य भक्तितो ननाम रामो निजनाम कीर्तयन्॥५॥
विलोक्य देवायतनानि विस्मितं हुताग्निरेनं विधिवत्समर्चयन्।
ददावगस्त्योऽमितदीप्ति वैष्णवं धनुः स तस्मै सनिषङ्गसायकम्॥६॥
तदाश्रमात्पञ्चवटींद्वियोजनां तदाज्ञया दाशरथिर्व्रजन्पथि।
समेत्य गृध्राधिपतिं जटायुषं पितुः सखायं पितृवन्ममान सः॥७॥
सहैव तेनैत्य विवक्षितं स्थलं समे प्रदेशे सहजेन निर्मिताम्।
स पर्णशालां सुखमावसत्समं विदेहपुत्र्यात्रिदिवं यथामरः॥८॥
शरत्सु बह्वीषु गतासु हैमने वगाहनायापररात्र उत्थितः।
गोदावरीं स प्रियया सह व्रजन्नूचेऽनुजेनानुगतेन राघवः॥९॥
हिमागमेऽस्मिन् जडवातदुःसहे दुःस्पर्शतोये भरतो भवानिव।
सर्वात्मनानुव्रत आर्यमार्यधीर्ध्रुवं जलं सारवमद्य गाहते॥१०॥
किं त्वस्य माता दयिता पितुश्च नः कथं न्वनार्यैवमभूदितीरिते।
न मातरं गर्हय तं तु तोष्टुहि त्वमित्यशात्तं प्रियबान्धवोऽनुजम् ११
अथाश्रमे राममुपस्थिताशरी सुदुर्भगा वै सुभगेव कामुकी।
जिहीर्षुरार्यावितथे मनोरथेनिराकृता विग्रयतानुजन्मना॥१२॥

नरार्भकात्तत्स्वसृवैकृतं विदन् रुषा जनस्थानचरोनिशाचरः।
बलं समस्तं तरसाभिसारयन् खरो रणायाभिससार राघवम्॥१३॥
ध्वनिं ध्वजिन्या रजनीचरेशितुर्द्रवन्तमाशाध्वनि साध्वसाद्रिपुम्।
तदानुमायेव हठादवप्लुतो रुरोध तं रामशरासनध्वनिः॥१४॥
घ्नतोऽपि रक्षांस्यनयो न हि प्रभोर्यद्रक्तरूपा विविधास्तदुत्थिताः।
युताः सुरीभिश्च पयोधिभिः प्रियाः सर्वं हितायैव महत्समीहितम् १५
बलं निरीक्ष्य स्वभुजावशेषितं खरस्तदा रोषकषायितेक्षणः।
शरैरभाङ्क्षीद्रघुनाथकार्मुकं पुनस्तथान्यैश्च तनुत्रमच्छिदत्॥१६॥
रामो गृहीत्वा कवची शरासनं स वैष्णवं ज्यामधिरोपयन् क्षणात्।
उद्वोषयन्कुण्डलयांबभूव तत्तदा खरस्याप्यभितो लिपिं विधिः॥१७॥
दृष्ट्वा जनस्थानमकण्टकीकृतं रक्षोघ्नमन्त्रं युधि वीरराघवम्।
अतीव हृष्टा ववृषुस्तथा सुरा यथावचीयेत सुमं सुरद्रुमे॥१८॥
निशम्य वृत्तं निखिलं स्वसुर्मुखान्निशाचराणामधिपोऽथ रावणः।
निजघ्नुषः स्वान्सुहृदः प्रतिक्रियां तदीयभार्याहरणं स्म मन्यते १९
मारीचमासाद्य तदर्थमेककस्तपस्यता तेन यथार्हमर्हितः।
निवेदिताभ्यागमहेतुना भृशं तप्तेन पथ्यार्थमबोधि रावणः॥२०॥
जिजीविषा चेज्जननीव जानकी संमाननीया दयिता खरद्विषः।
तथानुभूतं हि मयैव तद्बलं बिभेमि रेफादिपदश्रुतेर्यथा॥२१॥
तन्मा कृथा दुर्मतिमन्यथा पुनर्न त्वं न चाहं न च रक्षसां कुलम्।
इत्यादिकं बीजमिवोप्तमूषरे व्यर्थ विदन्हेममृगो बभूव सः॥२२॥
अवेत्य तस्मिन्हरिणेहिरण्मये प्रियाभिलाषं रघुनायको यदा।
तमन्वधावीदिषुचापभृत्तदा स्वयं च लब्धावसरः परेतराट्॥२३॥

रामास्रवःपुण्यजनो भवन्नयं त्वाक्रन्द्य हा जानकि लक्ष्मणेति च।
कुरङ्गमो विष्णुपदं गतोऽपि सन्नहो जगत्यां पतितस्तदाभवत् २४
तदार्तशब्दाकुलयार्ययेरिते गते सुमित्राभुवि राघवान्तिकम्।
जहार सीतां विजने स रावणो हठाज्जिगीषोरसुभिर्जटायुषः॥२५॥
अथान्यमाक्रन्दमविन्दतींभिया चोक्रुश्यमानां पतिमात्मदैवतम्।
अतर्किते शोकमहीदधौ प्लुतामशोकमेनामनयोऽनयत्स्वयम्॥२६॥
सलक्ष्मणस्त्वाश्रममेत्य राघवो विलोक्य शून्यं दयितां तवस्ततः।
विचित्यविक्रुश्य विलप्य चासकृन्मुमोह कुत्राप्यनवाप्यतद्गतिम् २७
स लब्धसंज्ञः सहलक्ष्मणो वने चरन्जटायोर्देशया व्रणे हतः।
तमुत्तमां संस्क्रियया गतिं नयन् कृतानुकारी तदृणादमुच्यत २८
विदेहपुत्र्या विचिचीषया पुनः प्रतस्थुषोः दक्षिणकाननं तयोः।
निरुध्य मार्गंनिशिचर्ययोमुखी विरूपणाच्छूर्पणखा सखीकृता २९
भुजौ कबन्धस्य निकृत्य हिंसकौ तदीयदेहं प्रदरे दहन्विभुः।
विधूयशापंदिवमारुरुक्षता तेनोपदिष्टां पदचीमशिश्रियत्॥३०॥
सपर्यांस्वीकुर्वन्नथ पथि शबर्या विरचितां
ससोदर्यो भार्याविरहभृशपर्याकुलमतिः।
अतीव स्वच्छाम्भःसुरभिवनवातं पिकरवैः
सरः पष्पाभिख्यंविरहिजनकम्पावहमगात्॥३१॥

इतिश्रीमुद्दुसुब्बकविविरचिते संक्षिप्तरामायणे
॥आरण्यकाण्डः॥

किष्किन्धाकाण्डः

स तां मनोज्ञां सरसीं विलोक्य वसन्तलक्ष्म्या च विशेषरम्याम्।
प्रियावियोगार्तिमतिप्रवृद्धां सोढुं नशक्तः करुणं व्यलापीत्॥१॥
प्रियाणि मे यानि पुरा तयासंस्तान्येव जातान्यधुनाप्रियाणि।
इदं सरोरत्नमिमे वनान्ता अयं च कालः क्व गतासिसीते॥२॥
निर्विष्टवाल्लँक्ष्मण माधवोऽयं ध्रुवं कणेहत्य वनालिकान्ताम्।
कुतोऽन्यथास्या नखरक्षतानि ममापि तत्स्याद्यदि सा प्रिया स्यात्
न तापयेदन्यमिति श्रुतं ते नास्तीति मन्ये कलहंस यत्त्वम्।
प्रियां तवालिङ्ग्य ममाग्रतो मां तद्दुःखदीनं कलुषीकरोषि॥४॥
नाहं विषीदामि तथा हृतां त्वामयं तु बाले मम शोकहेतुः।
विचिन्य नित्यं वयसोऽध्रुवत्वं कालं च भोगेन विनैव यान्तम्॥५
विनष्टबन्धुं विलयोन्मुखं मां वामः प्रहृत्यापि न हन्ति कामः।
मुह्यन्मुहुर्जानकि जानकीति शश्वत्समाश्वास्यत लक्ष्मणेन॥६॥
तौ वीक्ष्य वालिप्रहिताविमावित्यातङ्किना सूर्यभुवा निसृष्टः।
कपिर्हनूमानिति बुद्धिवित्तः पुरस्तयोराह वहन्वटुत्वम्॥७॥
नर्षी पुराणौसशरौ न चेन्द्रोपेन्द्रौ च भूस्पर्शिपदौ युवां स्थः।
तपस्ययौत्पत्तिकसंपदोर्वो चित्रीयते साध्यविमर्शिचेतः॥८॥
शोकं महान्तं हृदि लक्षये वां नाल्पेन तप्येत हि रूपमीदृक्।
सुग्रीव आकाङ्क्षति वानरेन्द्रः सख्यं भवद्भ्यांयदि रोचते वाम्॥
इत्थं यथावत्स्वकथांनिवेद्य तदाकृतिप्रत्यवितोहनूमान्।
सौमित्रिणाख्याततदीपवृप्तः प्लवङ्गरान्तसमदीधपत्तौ॥१०॥

उभौ च तुल्यव्यसनाभिभूतौ तादृश्यमूके नरवानरेन्द्रौ।
वह्निंपुरोधाय मिथो व्यधत्तां मैत्रीं प्रतीकारकृते कृतान्ताम्॥११
देव्यापविद्धान्यपहारकाले सुग्रीवलब्धान्यधुनार्पितानि।
दृष्ट्वानुभूताभरणानि रामंसौमित्रिराश्वासयदार्तरूपम्॥१२॥
वृत्रारिसूनोरथ दुर्जयत्वं मित्रस्य सूनौकथयत्यशेषात्।
सप्तैकबाणेन तरून्विभिद्य प्रत्याययामास रघूद्वहस्तम्॥१३॥
ततः प्रतीतस्तपनस्य पुत्रः सहैव ताभ्यां स्वपरीमुपेत्य।
आह्वास्त सभ्रातरमाहवाय जम्भारिसूनुं जगदेकवीरम्॥१४॥
प्रघर्षणां वाल्यपितामपूर्वाममृष्यमाणस्तरसाभिपत्य।
उत्सैकभाजा युयुधेऽनुजेन गन्धद्विपेनेव गजेन्द्रशत्रुः॥१५॥
आकारचेष्टादिभिरेकरूप्यात्तौयुध्यमानावविविच्य रामे
निरुद्यमेऽदुद्रवदद्रिपार्किर्बलीयसा द्रागरिणाभिपन्नः॥१६॥
रामस्त्वपध्यातधिया विहस्तं तूष्णीकमासीनमधोमुखं तम्।
विश्वास्य तत्त्वोक्तिभिङ्कवित्वा बल्यानियोढुं प्रजिघाय भूयः १७
तस्याभियोगात्पुनराहतः संस्तेजोऽपहारादिव हेममाली।
निवर्त्य तारामपि सान्त्ववन्तीमयुद्ध दिष्टस्य बलेन कृष्टः॥१८॥
वक्षस्यकस्माद्विशताशरेण पतन्पृथिव्यां रुधिराक्तगात्रः।
प्रशान्ततेजाः प्लवगेश्वरोऽमादस्तोन्मुखो भानुरिवोपरक्तः॥१९॥
क्षणात्स दृष्ट्वा पुरुषं सचाकंमहानुभसूर्यसुतानुमाशम्।
अयं प्रहर्तेत्यवधार्य समं कवचाधिचिक्षेप बलात्सशल्यः॥२०॥
न नाम ते राम ग्रञ्च गृहीण चान्नं सधर्मणमनन्तरं च
सास्रंव्यजेष्ठाःस्वयमन्याभिश्चो रुदनेषु चैकं बृगवारसज्ञः॥२१॥

उक्ताऽथ रामेण मयाद्य दण्डो भ्रातृद्रुहस्से विहितो हिताय।
स्वर्याह्यपापस्त्वमिति व्यरंसीत्पारुष्यवादादिव जीविताच्च॥२२
आश्वास्य तारामथ वीरपत्नीं संस्कार्य तं तज्जनुषाङ्गदेन।
तं यौवराज्ये न्यदधात्कपीनां राज्ये च सुग्रीवममोघसंवित्॥२३
लब्धास्पदे प्रत्युपकारकालं वर्षान्तमाश्रुत्य गते वयस्ये।
रामो गिरौ प्रस्रवणेन्यवात्सीत्सहानुजस्तत्समयप्रतीक्षः॥२४॥
सविद्युतो व्योमनि वारिवाहान्दृष्ट्वा भृशोद्दीपितकामवह्निः।
चचाल धीरोऽप्यचलस्थितोऽपि विमुक्तकण्ठोऽथस रोदिति स्म २५
पर्जन्यघोषेण तु यत्र भीरुर्मुहुर्मुहुर्मोपरिषस्वजे सा
स एव कालो मम वल्लभोऽपि नष्टप्रियस्याक्षिगतोऽद्य जातः॥२६
चन्द्रानने हंसगतेऽम्बुजाक्षि तोयोत्थितोद्भासिनितम्बबिम्बे।
हा हा जडात्मा समयो मयीत्थं विनोदमात्रेऽपि तवात्यमर्षी॥२७
एवं विलापिरबाह्य वर्षाःकांडे व्यतीतेबहुशी निराशः।
स लक्ष्मणं प्रेषयति स्म वत्स कपिंकृतघ्नं द्रुतमाहरेति॥२८॥
तस्मिन्नसह्यप्रतिषे तथैत्य पुरान्तिकं किंचिदुदाच्चितज्ये।
क्षुभ्यत्कपीन्द्रप्रहिताथ तारा सौमित्रिमूचे मदलोलतारा॥२९॥
त्वमेव कामव्यसनानि वेत्सि चत्वारि वा कष्टतमानि तेषु।
चिरात्तदासाद्य तव प्रसादात्तत्र प्रसक्तो न पुनः प्रमत्तः॥३०॥
स चाद्य सर्वैः सह यूथनाथैः प्रतीक्षते त्वामिति सान्त्वितेन।
सौमित्रिणा प्राप्य विभुं कपीन्द्रः सर्वोधर्मस्मै स्वबलस्य चख्यौ।
तस्यानुमत्या प्लवगास्तदोग्रंसुग्रीवसंदेशमयावहन्तः।
आशान्तमेत्वाप्यनवाप्य सीतामायानवाची गतसैन्यवर्षम्॥३२॥

तां दक्षिणस्यां दिशि तत्र तत्र विचित्य दैवान्निबिडान्धकारे।
बिले पतित्वा भ्रमतः कपीन्द्रान्स्वयंप्रमाश्वास्य निनाय वर्त्म॥३३
तान्मर्तुकामान्समयातिपातात्प्रसङ्गविज्ञातजटायुवृत्तः।
निर्दिश्य पारेऽब्ध्यतिदूरदृक्तां संपातिरुज्जीवयति स्म गृध्रः॥३४॥
दुष्पारपारं तरितुं गभीरं भग्नोद्यमेष्वम्बुनिधिं बलेषु।
ऋक्षाधिपो धीसचिवश्चिरायुरेकान्तसंस्थं हनुमन्तमूचे॥३५॥
कस्मादिमामात्यायिकींदशां नः पश्यन्नुदास्से जगदेकमल्ल।
त्वं सूर्यबिम्बं फलधीर्जिघृक्षुर्वज्राहतोऽद्रौ निपतन्हनूमान्॥३६॥
त्वं वायुमूस्तत्सदृशश्चकस्मान्नबुध्यसे कुंभजपीतशेषम्।
तत्सागरं गोव्वदवत्क्रमस्य सर्वाश्चनः पाहि यशो क्षमस्व॥३७॥
स्तुत्यैवं वर्धमानस्वतनुरथ बलिध्वंसिरूपानुकारी
कुर्वन्भीमाट्टहासं कुपित नरहरिध्वानवत्तारतारम्
वाराहं स्पर्धमानो वपुरिव मुहुरुत्पुच्छ्य धीमान्हनूष्ठान्
पारावारं स रेजे प्रलयचर महामत्स्यवत्पारयिष्यन् ३८

इति श्रीमुद्दुसुब्बकविविरचिते संक्षिप्तरामायणे
॥किष्किन्धाकाण्डः समाप्तः॥

सुन्दरकाण्डः

ततो महेन्द्राज्जलधिंतितीर्षुः संस्तभ्य बाहू चरणौ निपीड्य।
उदग्रकण्ठो हृदि रुद्धवायुः स उत्पपातोर्ध्वमुदीक्षमाणः॥
प्रचण्डवेगाहतवृक्षदण्डः प्रसारितोच्चण्डभुजप्रकाण्डः।
अव्याहतस्वैरगतिर्जगाम घनुश्च्युतो रामशरो यथाजौ॥२॥

आपृच्छ्यसान्त्वेवहिरण्यनाभं ह्रस्वोऽतिवृद्धां सुरसामतीत्य।
छायाकृषं रात्रिचरीं प्रमथ्य सुखं ययौ दक्षिणमब्धिक्षीरम्॥२॥
विशन्निशादौ पुरदेवतां स विधाय भृत्योः प्रथमोपहारम्।
चन्द्रोज्ज्वलायां निशि तत्र तत्र भूत्वाल्पकायो विचिकाय सीताम् ४
शुद्धान्तगाः राक्षसराजकान्ता दृष्ट्वापि निद्राविवशा निशीये।
न वैकृतं किंचिदवाप देव्या अदर्शनात्तु व्यथितोमहत्सः॥५॥
यदृच्छयाशोकवनींप्रविश्य प्रसार्य सर्वत्र दृशं तरुस्थः।
ददर्श सीतां मलिनैकवस्त्रां तपस्विनींपङ्कविदिग्धगात्राम्॥६॥
ऊष्मायमाणश्वसितोपरक्तां बाष्पायमाणाविलविह्वलाक्षीम्।
महोपवासव्रतकर्शितासुंरामास्थया केवलमप्रणष्टाम्॥७॥
तामेकपत्नीं जनकात्मजेति प्रसन्नधीर्हेतुभिरूहमामः।
रामो विनेमामपि जीवतीति सुदुष्करं वा इदमित्यमेस्त॥८॥
अत्रान्तरे राणमापतन्तं स्मरातुरं संवृतमङ्गणाधिः।
विलोक्य भीता कदलीव दाते दुःखासिकामास्तविदेहपुत्री॥९॥
तस्याः समक्षं पतिदेवतायाः स क्षुदबुद्धिः प्रललाप पापः।
दृष्ट्वैव किं मां त्वयि सानुरागंबिभेषिजिह्वेषि विलीयसेऽङ्गे॥१०
न तेऽस्ति शोकावसरोऽद्य भीरु सर्वेश्वरे मय्यपिदासयूते।
यातं नचाथास्पतियौवनं ते स्नेहानुवृत्तिर्विहिताच प्रत्यौ॥११॥
स तापसस्त्वद्विरहाद्वनान्ते मृतोहतो वा युधियातुश्वानैः।
समुद्रमासाद्य च किं करोतु प्रसीद शुष्काद्विरमाभिलाषात्॥१२॥
प्रिये त्यजेयं मम जिवितान्तं सर्वेत्वदर्थ यदि मध्यसेत्वम्।
इत्याद्यनार्थ प्रलपन्तमग्रे तृणंविनिक्षिप्य जयाद साध्वी॥१३॥

कुलं च शीलं च कलङ्कवान्दवं न लज्जसे त्वं परदारचोर।
स्मृत्वा जन्मनतान्तान्स्वांकधूनद्यैव मामर्षय लोकनाथे॥१४॥
स हि प्रपन्नेशरणं शरण्यः प्रसस्स्वति त्वंऽवपि दीनबन्धुः।
त्वरस्व तावद्रघुनाथबाणाः कुले कुले तंन चरन्ति यावत्॥१५॥
पथ्यावसतकृत्यतदुक्तिमेनां वश्यां कुरुध्वं सकलैरुपायैः।
इति क्रुधादिश्य निशाचरीः यथावनर्थेऽर्थवतिर्निशान्ते॥१६
ततो भृशं तर्जनभर्त्सनाद्यैस्तां क्लेशयन्ती रजनीचरीस्ताः।
रक्षः कुलानर्मदमात्मद्वष्टं दुःस्वप्नमुक्त्वात्रिजटा रुरोध॥१७॥
सा सान्त्विभप्युत्कटमन्युरात्मत्यागाय बालाकृतनिश्चयाथ।
दृष्ट्वा निमित्तानिशुभानिपूर्व सिद्धानि किंचिद्धृषितावतस्थे॥१८॥
तस्मिन्क्षणे कीर्तितसूर्यवंशः शनैः शनैः प्रत्ययितां स देवीं।
प्रणम्य वृत्तंनिखिलं निवेद्य समर्पयामास च राममुद्राम्॥१९॥
तां हृष्टरूपां कपिरानवामि रामन्तिकं त्वामिति वर्धयित्वा।
वाचं शरीरं चतदाज्ञवज्ञो द्वयंचसंकोच्य पुनर्श्वमाये॥२०॥
स्थाने तवेदं रघुवीरपन्निकर्ता प्रियंते प्रभुरेश्वसैन्यैः।
त्वद्देव्यभिज्ञानमवाप्य किंचिद्रामान्तिकाय त्वरते मनो मे॥२१॥
चूडामणिंप्राप्य हृतो हनूमान्वाराश्वरानुग्रहवाचिकं च।
देवीमनुज्ञाप्य विविक्तसेवी व्याचिन्तयत्संस्कृतधीःकृतार्थः॥२२॥
दृष्टाद्य देवी न पुमारिपोस्तद्बलाद्यवश्यं विजिगीषुवेद्यम्।
तत्साधनं तुर्यमुपायमत्र मन्ये प्रमथानिवनं तदेतत्॥२३॥
एवं विनिश्चित्य वर्म प्रभञ्जन्प्राभञ्जनीराक्षसराजमुक्तान्।
निजघ्निवान्किंकस्जाश्वुमालिसेनाधिपांस्तत्तनयं च सोऽक्षम् २४॥

अन्तर्हिते शक्रजिता प्रयुक्ते क्रैतामहासेशणसूप्रकषैः।
रक्षोमिराकृष्य स नीवमानोददर्श त्वं राक्षसस्सर्वभौमम्॥२५॥
दशाननं विंशतिबाहुभीमं चतुष्पदंमाषचयातिनीलम्।
सुराङ्गनाचामरवीज्यमानं वहासनस्थंसुरलोकशत्रुम्॥२६॥
तं तेजसा दीप्तप्रवेश्यमेने न चेत्स्वृदोदत्र महानधर्मः।
अयं स ईष्टे ससुरासुरस्य सवज्रवाजेर्जगतोऽपि चेति॥२७॥
सोऽपि प्लवङ्गं द्रुतहेमवर्णं पिङ्गेक्षणं विद्रुमपाटलास्थम्।
महाहनुं वज्रतनुं प्रगल्भंदृष्ट्वाशशङ्के चविसिष्मये च॥२८॥
पृष्टः प्रहस्तेन ततो हनूमानकातरं प्राह वचोहितं च।
मां विद्धि दूतं रघुनायकस्य वालिद्विषां हैहयशत्रुजेतुः॥२९॥
रामस्य मित्रंकपिचक्रवर्ती त्वां शास्ति रक्षोऽधिपमन्मुखेन।
स्त्रीचोर सोप्त्रस्वमयातयित्वा स्थितिर्जगत्वांतवदुर्लभेति॥३०॥
क्रुधावधायाप्रियवादिनोऽस्य समुद्यतंरावणमग्रजातम्।
न क्वापि दूतो वधमर्हतीति विभीषणो धर्म्यमतिर्न्यषेधीत्॥३१॥
ततो निवृत्तः सच वानराणां प्रियं हि पुच्छं तदयं दुरात्मा।
कृशानुना तत्र विरूप्यतामित्यादिश्यरक्षांसि तथा चकार॥३२॥
मित्रस्य पुत्रं दहनोऽपि वाले रत्नायमानः सुहृवत्पुपोष।
पितुः सखायं पितृवद्रिपूणांसोऽपि प्रवीरः सदनैस्तार्पीत्॥३३॥
तदग्निसात्कृत्य पुरं समस्तं बलैकदेशं च रिपोः प्रमथ्य।
देवीमनुज्ञाप्य पुनश्च वीरः प्रतिप्रतिष्ठासुरभूत्कृतार्थः॥३४॥
आयान्तमाक्रम्य दिवं च सिन्धुं महौजसं वेननिरस्तमेघम्।
तं रत्नसानुप्रतिमं निरीक्ष्यप्रजाइवार्क कवचोऽभ्यनन्दन्॥३५॥

कुलं च शीलं चकलङ्कवान्दवं न लज्जसेत्वंपरदारचोर।
स्मृत्वा जनर्सकलसीतान्स्वांकधूनद्यैव मामर्षय लोकनाथे॥१४॥
स हि प्रपन्नेशरणं शरण्यःप्रसस्स्वति त्वऽयपि दीनबन्धुः।
त्वरस्वतावद्रघुनाथवाप्पाःकुले कुले तेन चरन्तियावत्॥१५॥
पथ्यायसत्कृत्यतदुक्तिमेनां वश्यां कुरुध्वं सकलैरुपायैः।
इति क्रुधादिश्य निशाचरीःस यथावनर्थेऽर्थवतिर्निशान्ते॥१६
ततो भृशं तर्जनभर्त्सनाद्यैस्तां क्लेशयन्ती रजनीचरीस्ताः।
रक्षः कुलानर्थदमात्महृष्टं दुःस्वप्नमुक्त्वात्रिजटा रुरोध॥१७॥
सा सान्त्विञ्जप्युत्कटमन्युरात्मत्यागाय बाला कृतनिश्चयाय।
दृष्ट्वा निमित्तानिशुभानि पूर्व सिद्धानिकिंचिद्धृषितावस्थे॥१८॥
तस्मिन्क्षणे कीर्तितसूर्यवंशः शनैः शनैः प्रत्यग्रितां स देवीं।
प्रणम्य वृत्तंनिखिलं निवेद्य समर्पयामास च राममुद्राम्॥१९॥
तां हृष्टरूपां कपिरानवामि रामान्तिकांस्यामिति वर्धयित्वा।
वाचं शरीरं च तदाज्ञवज्ञो द्वयंच संकोच्य पुनर्श्वमाये॥२०॥
स्थाने तवेदं रघुवीरपत्नि कर्ता प्रियंते प्रभुरेवसैन्यैः।
स्वद्देव्यभिज्ञानमवाप्य किंचिद्रामान्तिकायत्वरते मनो मे॥२१॥
चूडामणिंप्राप्य ततो हनूमानवाराश्वरानुग्रहवाधिकं च।
देवीमनुज्ञाप्य विविक्तसेवीव्याचिन्तयत्संस्कृतधीःकृतार्थः॥२२॥
दृष्टाद्य देवी न पुमा रिपोस्तद्बलाद्यवश्यं विजिगीषुवेद्यम्।
तत्साधनं तुर्यमुपायमात्रमन्ये प्रमथ्नानिवनं तदेतत्॥२३॥
एवं विनिश्चित्य वनंप्रभञ्जनप्राभञ्जनीराक्षसराजमुक्तान्।
निजघ्निवान् किंकरजम्बुमालिसेनाधिपांस्तत्तनयं च सोऽक्षम् २४॥

अन्तर्हिते शक्रजिता प्रयुक्ते क्रैतामहासेशणसूप्रकषैः।
रक्षोमिराकृष्य स नीवमानोददर्श त्वं राक्षसस्सर्वभौमम्॥२५॥
दशाननं विंशतिबाहुभीमं चतुष्पदंमाषचयातिनीलम्।
सुराङ्गनाचामरवीज्यमानं वहासनस्थंसुरलोकशत्रुम्॥२६॥
तं तेजसा दीप्तप्रवेश्यमेने न चेत्स्वृदोदत्र महानधर्मः।
अयं स ईष्टे ससुरासुरस्य सवज्रवाजेर्जगतोऽपि चेति॥२७॥
सोऽपि प्लवङ्गं द्रुतहेमवर्णं पिङ्गेक्षणं विद्रुमपाटलास्थम्।
महाहनुं वज्रतनुं प्रगल्भंदृष्ट्वाशशङ्के चविसिष्मये च॥२८॥
पृष्टः प्रहस्तेन ततो हनूमानकातरं प्राह वचोहितं च।
मां विद्धि दूतं रघुनायकस्य वालिद्विषां हैहयशत्रुजेतुः॥२९॥
रामस्य मित्रंकपिचक्रवर्ती त्वां शास्ति रक्षोऽधिपमन्मुखेन।
स्त्रीचोर सोप्त्रस्वमयातयित्वा स्थितिर्जगत्वांतवदुर्लभेति॥३०॥
क्रुधावधायाप्रियवादिनोऽस्य समुद्यतंरावणमग्रजातम्।
न क्वापि दूतो वधमर्हतीति विभीषणो धर्म्यमतिर्न्यषेधीत्॥३१॥
ततो निवृत्तः सच वानराणां प्रियं हि पुच्छं तदयं दुरात्मा।
कृशानुना तत्र विरूप्यतामित्यादिश्यरक्षांसि तथा चकार॥३२॥
मित्रस्य पुत्रं दहनोऽपि वाले रत्नायमानः सुहृवत्पुपोष।
पितुः सखायं पितृवद्रिपूणांसोऽपि प्रवीरः सदनैस्तार्पीत्॥३३॥
तदग्निसात्कृत्य पुरं समस्तं बलैकदेशं च रिपोः प्रमथ्य।
देवीमनुज्ञाप्य पुनश्च वीरः प्रतिप्रतिष्ठासुरभूत्कृतार्थः॥३४॥
आयान्तमाक्रम्य दिवं च सिन्धुं महौजसं वेननिरस्तमेघम्।
तं रत्नसानुप्रतिमं निरीक्ष्यप्रजाइवार्क कवचोऽभ्यनन्दन्॥३५॥

दृष्टा मया राघवधर्मपत्नीस्युद्धुष्यमन्द्रेहनुमत्युपोढे।
उत्प्लुत्य चोत्प्लुत्य मुदा कवीन्द्राआस्फोट्यपुच्छं च मुन्नुश्चुचुम्बुः
संप्रस्थिता वर्त्मनि राजकीयंवनंहनूमद्वचणात्प्रधर्ष्य।
स्वैरं पिबन्तो मधु ते प्रसह्य तद्रक्षकान्विष्मकृतोनिमघ्मुः॥३७॥
अतिक्रमे तैः कथितेऽथतेषांसिद्धार्थतां सोऽप्यनुमायधीमान्।
तैरेव सर्वानपि वानरेन्द्र भानयथामास कवीन्दिदृक्षुः॥३८॥
सर्वैर्हनूमान् कपियूथनाथैरनुद्रुतोऽभ्येत्यविभुं प्रणम्य।
दृष्टा मया सेति निवेद्य चूडामणिंच दत्त्वा पुनराबभाषेः॥३९॥
त्वत्प्राणां त्वन्मनस्कांतवहि भुजबलप्रत्ययादप्रणष्टां
क्षामक्षामाङ्ग्यष्टिंनिशिचरपतिना क्लिश्यमानां दुरुक्तैः।
रक्षःस्त्रीबाध्यमानां तनुपरिहरणेऽप्युद्यतां मुद्रया ते
प्रत्याश्वस्तां कथंचिद्रघुवर दधितामीप्स मासवतीक्षाम् ४०

इति श्रीमुद्दुसुब्बकविविरचिते संक्षिप्तरामायणे
॥सुन्दरकाण्डः॥

युद्धकाण्डः

श्रुत्वा प्रियाप्रियतरं चरितं प्रियाया
दण्डैकसाध्यमवगत्य रिपुं च रुष्टः।
षाड्गुण्यविद्रघुपतिर्विजिगीषमाणः
संपूर्णशक्तिरभिषेणयितुं प्रतस्थे॥१॥
आरुह्य वायुसुतमङ्कदमष्यवाच्यां
बह्वीःककुत्स्वतनयावटवीरतीत्य।

आसाद्य सिन्धुमुपशान्तजवां निवेश्य
सेनां च तत्र वसतः स्म कवीश्वरेण॥२॥
ज्ञात्वा द्वितीयमिव सागरमम्बुराशेः
पारे प्लवङ्गमचलं कृतसंनिवेशम्।
दिक्पालदर्पनिकषायितविक्रमोऽपि
रक्षः पतिर्भयदवेन भृशं दिदीपे॥३॥
आमन्त्र्य सोऽथ सचिवांश्चकितः प्रहस्त-
मुख्यान्मिथः सबहुमानामिदंबभाषे।
राजावरोप्य सन्निधेस्वश्चुरमिदास्ते
व्यायामवायुपुष्णिवोऽस्यहि तम्सखेदः॥४॥
तस्मान्न मेऽर्पितनरस्यभवत्सुचिन्ता
मन्त्रं तथापिसमये कुरुतात्मनीमन्
न स्याद्यथापरिभङ्गोच्यवानरेभ्यः
क्षुद्रोऽपि शत्रुसपदन्ननुपेक्षणीयः॥५॥
प्रत्यब्रुवंस्तत्रपि तेयदि भीस्तंवापि
कैलासमुद्धृतमतो जगतां विश्चेतुः।
को वाभयोऽस्त्वपि च तच्चमनुष्यकीटा-
द्भक्ष्यादपूर्वदशया तवविस्मयो नः॥६॥
यच्चापि मर्कटविचेष्टितमत्र तत्तु
नोत्प्रेक्ष्यमस्मदवहेलनमूलकत्वात्।
तस्मान्नियुज्य तवशत्रुनिवर्हणेऽस्मान्
स्वैरं रमस्व रमणीमणिना तथेति॥७॥

दुर्मन्त्रितं तदहितं हितवास्वबुद्धि-
संवादि राक्षसपतावनुमोदमाने।
आन्वीक्षकीकृतमतिर्नयविद्धितैषी
भ्राता विभीषण इदं समुदाजहार॥८॥

नार्हन्त्यमी अकुशलास्तव मन्त्रगोष्ठीं
कुर्यान्नवापि मतिमान्गुरुलाघवज्ञः।
किं वा भवेल्लघुतरं परदारचौर्या-
त्किंवा स्वदारपरिरक्षणतोः गहीयः॥९॥

शूरः स्वयं नृपसुतः खरद्यलिहन्ता
सानुजश्च हरिभिश्चिरदृष्टवीर्यैणा
स्थातुं त्वया रणमुखेऽस्य पुरो न स्वयं
प्रत्यर्प्य तां जनकसुतां वल्लेर्हिवैसत्॥१०॥

इत्थं निवेद्य कुपितेन तदाभजेन
निष्कासितोऽम्बुधिमतीत्य ततोऽपरक्तः।
आक्रन्दति स्म सचिवैः सदिविष्ठ उच्चै-
रापन्नबन्धुमभयाय रघुवीरम्॥११॥

आकर्ण्य तत्करुणदेवितमार्तबन्धुः
शङ्काकुलेऽपि मतिर्विक्रमवान्कपीन्द्रे।
पर्यग्रहीत्स्वजनवाद्रिपुसोदरं स
नोच्चेर्हृदां स्वपरधीः शरणं प्रपन्ने॥१२॥

लङ्काधिपत्यमधिगत्यततः कनीयान्
रक्षोधिपोरिपुबलं निखिलंनिवेद्य।

आराधनाय वरुणस्य तरीतुमब्धिं
रामस्यदर्भशयनीयमकल्पयत्सः॥१३॥

तत्र त्रिरात्रमधिपेप्रतिपाल्य बाणै-
स्तम्बत्यनादररूषाकथितं पयोधिम्।
अभ्याजगाम वरुणः शरणं शरण्यं
दण्डो हि साधकतमः स्तिमितान्विनेतुम्॥१४॥

तस्मिन्प्रसाद्य कुपितं गमनेऽप्युपाय-
मुक्त्वा प्रचेतसिगतेऽथ कपिर्नलाख्यः।
सेतुं बबन्ध जलधौ प्लवगोपनीतैः
पारिप्लवैर्वरबलेन नगैर्विशालम्॥१५॥

तद्वर्त्मनाद्भुततमेवविभुः समुद्रं
तीर्त्वा सुवेलकटके बहुपानभोज्ये।
सेनां निवेश्य महतीं स यथोपनोष-
मासांबभूव दिविषद्रणगीतकीर्तिः॥१६॥

जिज्ञासया परवलस्य दशास्यमुक्ता-
वादाय वानरतनुं शिबिरेचरन्तौ।
मायाचणौ निशिचरौ सचिवैर्निगृह्य
रामान्तिकं स तु विभीषण आनिनाय॥१७॥

तावाशरौ कपिकुलैर्भृशमर्द्यमाना-
वुन्मुच्य दर्शितबलौ विभुना विमुक्तौ।
स्वस्वामिनो धुरि शशंसतुरानृशंस्यं
रामस्य दुःसहतरं कपिविक्रमं च॥१८॥

चारौ परस्तवपरौ शुकसरिणौतौ
निर्भर्त्स्यराक्षसपतिस्त्ववरुह्य सौघात्।
मायाविनां प्रथममादिशति स्म विद्यु-
ज्जिह्वंशठश्छलयितुं जनकेन्द्रपुत्रीम्॥१९॥
सोऽपीन्दुवक्त्रमरुणान्तकटाक्षमीष-
च्चूडामणिप्रवरशोभिशिखाकलापम्।
मायी विलूनमिव रामशिरः प्रदर्श्य
देवीममूमुहदनन्यगतिं भृशार्ताम्॥२०॥
शोकाप्लुता सरमया हितयाप्तसख्या
मायेयमाशरकृतेत्युपपादयन्त्या।
सा जानकी स्वयमभूदपनीततापा
वृष्ट्या यथा वसुमती मिहिराभितप्ता॥२१॥
मातामहः पलभुजां हितकृन्मनीषी
तं माल्यवान् रहसि रावणमाह वृद्धः।
यः संधिविग्रहविधिं विधिवद्विधित्ते
शास्ति स्वयं वसुमतींस महेन्द्रधर्मा॥२२॥
क्वेमौ नरौ क्व कपयः क्व पुनः पुरीयं
दग्धैकमर्कटकणेन सुतो हतस्ते।
भ्राता च तेऽतिबलवान्परपक्षसेवी
क्षिप्ताः शिलाश्चहरिभिर्जलधौ प्लवन्ते॥२३॥
मन्ये तदद्यनियतिस्त्वयि तात वामा
नालं सुरैरपि बलादतिवर्तितुं सा।

नारी परत्रहृदया च नपुष्कलोऽर्थो
विद्राव्य तां सुखय वत्स चिरायुरस्मान्॥२४॥
वृद्धप्रलाप इति तन्मतिमप्यपास्य
लङ्केश्वरः पुरि चतुर्ष्वपि गोपुरेषु।
रक्षां विधाय महता बलवद्लेन
प्राजागरीत्कलुषितो बलिनोऽभियोगात्॥२५॥
व्यूढां सुवेलकटके पृतनां प्रधानै-
र्गुप्तां दृढंविदधता कपिपुङ्गवेन
रामोऽधिरुह्य शिखरं रिपुराजधानी-
मैक्षिष्ट चाक्षुषमहोदयराजधानीम्॥२६॥
उद्वीक्ष्य गोपुरगतं कपिराङ्दशास्यं
दिष्ट्यासि धूर्त मम दृक्पथ आततायिन्।
आः पातकिंस्तव पिनष्म्यधुनेति चेतः
संपातवानपतदस्य शिरः स्वमर्षात्॥२७॥
अन्योन्यघट्टनविकर्षणमुष्टिकुट्ट-
प्रोत्क्षेपभञ्जनचपेटतलप्रहारैः।
भूमौ निपात्य सहसाङ्घ्र्यपहारकौतौ
द्वन्द्वं वितेनतरुभौ कपिराक्षसेन्द्रौ॥२८॥
तं रामवध्यमवधार्य वञ्चविस्वा
प्रत्यागतः कपिवरो विभुनानुशिष्टः।
नैतत्समञ्जसमितश्च तथा न कार्य
मित्र त्वया न किमपि त्वदृते ममेति॥२९॥
जिज्ञासुना रिपुमतं रघुनायकेन
मुक्तोऽथ वालितनयः प्रविलङ्घ्यसालम्।

आसाद्य रावणमकार्यनिविष्टबुद्धिं
प्राज्ञो गभीरमवदद्धितमप्रियं च॥३०॥
चीर्ण तपश्चिरतरं चरिताश्च धर्मा
विद्याः कृता अधिगतं महदीश्वरत्वम्।
नीचाशयो निखिलमेकपदे निहंसि
क्लेशाय केवलममीषु परिश्रमस्ते॥३१॥
मन्येऽनुभोक्ष्यस इमां रघुराजपत्नीं
सिंहीमलर्क इववच्मि वयस्यभावात्।
तामर्पयाशु तव मूर्धसुकङ्कपत्री
ज्यामण्डकान्मुखरितान्निपतेन्नयावत्॥३२॥
अग्निर्दहेदृरुपसर्पिणमेवसा तु
सर्वात्मनेत्युपदिशन्कुपितस्य तस्य।
योधान्स्वनिग्रहपरान्स निनाय देवं
वैवस्वमं पितृपतिं च मतिंपितृव्यम्॥३३॥
संग्रामप्रमदजुषामथोभयेषां
संनाहोद्भटमटकोष्ठिहन्यमानाः।
स्वच्छन्दं पटुपटहा हरिन्सुसुप्तान्
हर्यक्षानपि लघु बोधयांबभूवुः॥३४॥
आधून्वत्पटरथकेतुदण्डदम्भा-
दाहूताःसमरभुवा करैरिव स्वैः।
आतङ्काद्भुतभयकौतुकप्रमोदै-
रातेनुर्दिनि निबिडस्थितिंनिलिम्पाः॥३५॥
क्षुन्दानाः खरनखदन्तकुन्तमुष्टि-
प्रासादिप्रहरणभिन्नमूलदेशान्।

प्राकारान् गिरितरुभिश्च पूरयस्तो
दुर्गाणि प्रविविशुरोजसा कपीत्राः॥३६॥
क्षोणीध्रान्क्षिपत रथान्प्रभङ्क्त पङ्क्ता-
वश्वानां प्रहरत हास्तिकस्य पिंष्ठ।
योधांश्च क्षपयत वानरप्रवीराः
स्वच्छन्दं निशिचरवाहिनीं चबन्धुः॥३७॥
भग्नं स्वं बलमखिलं प्रहस्तनुन्नं
विज्ञाय प्रकुपित इन्द्रजिन्निशीथे।
आसारैर्द्रुततरमाशरः शराणा-
मातेने कपिकुलमाकुलं सनीलम्॥३८॥
उत्पाट्यक्षितिरुहमुन्नतं कराभ्यां
विक्रम्यानिलगतिरङ्गदःप्रहृत्य।
प्रध्वस्तप्रधियुगकूबराक्षयुग्यं
संक्षुण्णं व्यतभुतशात्रवं शतङ्गम्॥३९॥
उज्झित्वा रथमथ माययों विलीक्षे
मेघेषु प्रथितबलः स मेघनादः।
कीशौघंभुवि निखिलेन शाययित्वा
नागास्त्रैर्दशरथनन्दनावभान्सीत्॥४०॥
तौ बद्धौ भुजगशरैर्दृढंविचेष्टौ
निःसंंज्ञौ भुवि पतितो यदा तदेदम्।
त्रैलोक्यं व्यथितमपेतसत्वमासी-
त्क्षेत्रज्ञव्यपगमने यथैव चैत्यम्॥४५॥
संत्रस्ता रणभुवमेत्य तत्र सीता
संहृष्टाशरपतिनीतपुष्पकेण।

तौ दृष्ट्वा स्वयमपि दुर्मनायमाना
मोहाब्धावहह मुहुर्मुहुर्ममज्ज॥४२॥
सौवर्णाचलरुचिरप्रभः सुपर्ण-
स्त्रय्यात्मात्रिदशवरध्वजोऽहिशत्रुः।
विस्तारस्थगितदिगन्तपक्षवात-
व्याधूताद्विरसनबन्ध आविरासीत्॥४३॥
पाणिभ्यां वपुषि परामृशञ्शिवाभ्यां
संरूढव्रणसुदृढाङ्गकौविधाय।
आश्वास्य प्रियवचनैर्नरेन्द्रपुत्रौ
तार्क्ष्योऽगात्पुनरपि नित्यमङ्गलात्मा॥४४॥
विध्वस्ते विषधरशस्त्रजोपसर्गे
वैदेह्या अशुभमुचा शुचा सहैव।
उत्तस्थुः पुनरपि वानराः प्रहर्तुं
शत्रूणां हृदयविकम्पनेर्निनादैः॥४५॥
संमर्दे दिनकरपुत्रयोधवर्गैः
संचूर्णीकृततनवो निशाटवीराः।
सूर्यस्य प्रतिकृतिकाम्ययेव बिम्बं
मिन्दाना दिवमय सङ्घशः प्रयाताः॥४६॥
धूम्राक्षं कपिभिरकम्पनप्रहस्तौ
द्वाः स्थास्तान्बुधि निहतान्सवज्रदंष्ट्रान्।
आकर्ण्य क्षुभितमतिः स्वयं महत्या
बाहिन्या समरमवाप राक्षसेन्द्रः॥४७॥
आगच्छन्दशवदनः स्ववक्त्रसंख्या-
संघर्षादिव पिदधद्दिशो दशास्त्रैः।

मन्थानाचल इव सागरं कपीनां
संक्रुद्धो बलमतिविह्वलं व्यतामीत्॥४८॥
सुग्रीवाङ्गदनलनीलमुख्यवीरान्
कृत्वासौ निशितशरैः स्वतूणभूतान्।
संघट्टे दृढतरमुष्टिरक्षशत्रुं
संरब्धोव्यतनुत पूर्णमानमङ्गैः॥४९॥
सौमित्रिं निजशितशक्तिवेधमूढं
नोद्धर्तुं धृतगिरिरप्यसौ शशाक।
तां विश्वंभरभरधारणेऽप्यखीद
द्रोगां स्वां प्रकृतिमुपेयिवांसमन्तः॥५०॥
आश्वस्य श्वसनसुतेन वज्रकल्पं
मुष्टिं वै विरचयता हतः स्तमान्ते।
स्रोतोभी रुधिरमसृक्पसार्वभौमः
सिन्दूरद्रवमिव धातुमानवर्षीत्॥५१॥
अस्वस्थं स्वयमपनीय जन्यभूमे-
राप्तानां लघमथ लक्ष्मणं हनूमान्।
उल्लाघंसपदि विधाय तं युयुत्सो
रामस्य द्रुततरमन्तिकं बभाज॥५२॥
सोऽप्येवंतरलितकीशयूथनाथं
विश्रान्तं पुनरभियान्तमाहवाय।
संक्रुद्धः पवनसुतं रथं वितन्व-
न्नूजेस्वी प्रतियुयुधे रिपुं तरस्वी॥५३॥
तौ दृष्ट्वा दृढतरकार्मुको कृतास्त्रौ
सामर्षौशरनिकरान्मिथः किरन्तौ।

आक्रन्दक्षमभुजविक्रमौ त्रिलोक्या
द्वैधोढं हृदयमभूदवेक्षकाणाम्॥५४॥
अस्त्राणि प्रतिरथसंहितानि सद्यः
प्रत्यस्त्रैःसमुपशमय्य लाघवेन।
विध्यन्तौ स्वयमरिमन्तरान्तरा ता-
वन्योन्याद्भुततममाहवं व्यधत्ताम्॥५५॥
नाराचैरथ रथसूतवाहतूणी-
चापोरश्छदमकुटान्यरेर्विमिन्दन्।
ऐक्ष्वाको निजभुजशेषमात्तगन्धं
मन्दाक्षव्यतिकरविह्वलाक्षमूचे॥५६॥
मा भैषीनिशिचर विकृचंविशस्त्रं
नो हन्यां यदपि भवादृगाशु वध्यः।
श्वस्त्वायन्नुपकरणैः पुनः समग्रो
द्रष्टासि त्वदरिबलं युयुत्ससे चेत्॥५७॥
सावज्ञं बलवदरातिनैवमुक्त्वा
निर्मुक्तो मृगपतिनेवगन्धहस्ती।
रक्षोराड्भवनगतो दुरन्तचिन्ता-
संतानव्यथितमना न शर्म लेभे॥५८॥
संदशार्पितमिव रामकामबाण-
व्यालोलान्तरममुमजुवन्नमात्याः।
प्रागग्र्यंशमयतु देव कुम्भकर्णो
बाधं साचरममुपस्थिता स्वयं त्वाम्॥५९॥
मत्वा तद्धितमनुजं महान्धकारे
निद्राख्ये पतितमबोधयद्भटैः सः।

उद्बुद्धः स च नितरामनर्थमूले
कामाख्ये दशमुखमग्रजं हितोक्त्या॥६०॥
प्रक्रम्य प्रसभमवीक्ष्य चानुबन्धं
पश्चाद्योविमृशति तत्फले प्रसक्ते।
मन्दात्मा स्वकृतमवाप्य जीवनाशं
नश्येद्वै सपदि स कर्कटीव गर्भात्॥६१॥
शीलस्थां परगृहिणीं हरन्नकामां
स्वायत्तं हितमनुजं प्रियं निरस्यन्।
त्वन्नाथं बलमुपहारयंश्च मृत्योः
प्राज्ञस्त्वं किमिति न बुद्ध्यसेऽपनीतिम्॥६२॥
न श्रेयः कथमपि पारदारिकाणा-
मित्यत्र त्वमिह निदर्शनाय मा भूः।
उक्त्वैवं कुपितमवेक्ष्य राक्षसेन्द्रं
सर्व ते हतमिति जन्यमाविवेश॥६३॥
तेनैके युधि निहताश्च पादघातं
विष्पिष्टाः कतिचन तत्र चूर्णपेषम्।
संभग्नाः क्वचिदपरे मृणालभञ्जं
शेषाश्चाप्यपगमितास्ततः कपीन्द्राः॥६४॥
धावन्तो दिशि दिशि तत्र वीक्ष्य शैलान्
भीतास्ते भृशमिव कुम्भकर्णबुद्ध्या।
व्यावृत्ताः पुनरपि तं विलोक्य साक्षा-
ड्डोलास्था इव कपयश्चिरं विचेलुः॥६५॥
तैर्भूयोऽङ्गदवचसोद्यता गिरीन्द्राः
संघट्टंतदुरसि वज्रसार एत्य।

चूर्णत्वं सपदि गता बलाधिकेन
व्यावृण्वन् किल सहयध्वनो विपत्तिम्॥६६॥
आच्छिद्य ग्रहणगते गते स्वनासां
सुग्रीवे रघुपतिना चिरं स युद्ध्वा
तां निद्रामतिदयितां सुदीर्घदीर्घां
दुर्बोधांपुनरयति स्म कुम्भकर्णः॥६७॥
तद्विज्ञाय व्यथितमनसो राक्षसेन्द्रस्य पुत्रा
वीर्योत्सिक्ताः समरसरणिं प्राप्य देवान्तकाद्याः।
चत्वारस्ते पवनजमुखैः स्थानमक्षस्य नीता
भ्रातृस्नेहादिव विरहितांपञ्चतामञ्जसेयुः॥६८॥
आश्वास्यार्तपितरमनलं तर्षयित्वाभिचारे
लीनो मेघे कपिपरिबृढाञ्शातयन्बाणवर्षैः।
ब्रह्मास्त्रेण त्रिजगदगदंकारवीर्यौविहिंसन्
काकुत्स्थौ च स्वपुरमगमद्धृष्टधीर्मेघनादः॥६९॥
ओषध्यद्रौ पवनजहृते वानराणां हतानां
नाजीवन्कोऽप्यथ पलभुजां तत्र नैकोऽपि जीवन्।
ते यत्क्षिप्ताः सपदि जलधौये हता यातृधामा
भाग्यायत्ता ह्यपि मतिमतां धीरुदर्कानुरूपा॥७०॥
स्वस्थैः पश्चान्निशिकपिभटैरुल्कयोद्दीप्य लङ्कां
नीतेष्वद्धा पितृपतिपुरं षट्सु कुम्भादिकेषु।
रामश्चक्रेयुधि खरसुतं तत्समीपोषयातं
विद्वान्को वान्यथयति पितापुत्रविश्लेषदुःखम्॥७१॥
भूयश्छन्ने व्यथयति रिपौ लक्ष्मणोऽथ त्रिलोकीं
नीरक्षस्कां कलयितुमना राघवेण न्यषेधि।

इत्येकस्मिन्नधिनि बहवोऽनागसो नैव वध्या
जातो किं धीर्गुणविगुणगा सज्जते सज्जनानाम्॥७२
सोऽपक्रान्तो धुरि हनुमतो मायया दर्शयित्वा
मूर्ध्निछिन्नामिव जनकजां मोहयित्वा च सर्वान्।
प्रक्रम्येष्टिं जगदघकरीं तां पितृव्योपरुद्धां
मुक्त्वायोढुं रणभुवमगादिन्द्रजिल्लक्ष्मणेन॥७३॥
शस्त्राशस्त्रिप्रथमतुमुले संप्रहारेऽथ तस्मिं-
स्तावस्यन्तौ निशितनिशितैराशुगैराशु नुन्नैः।
दृष्ट्वा दृष्ट्वा दिवि दिविषदः स्वात्मनोऽभूतपूर्वे
चापाम्नाये चंतुरवयवेमेनिरेऽम्यासलामम्॥७४॥
मन्त्रैरन्यैः शमयितुमरिंलक्ष्मणोऽशक्नुवन्सन्
प्रायुङ्कास्त्रं सह रघुपतेर्नाममन्त्रेण बर्हि।
तर्ह्येवाभूच्छतमखरिपुनर्नाममात्रावशेषो
मन्त्रोऽयं हि श्रुतिशतमहामन्त्रराट्सार्वभौमः॥७५॥
तादृक्पुत्रव्यसनकलुषं विह्वलं राक्षसेन्द्रं
क्रोधावेशाज्जनकतनयां तन्निदानंजिधांसुम्।
सर्वार्थानां वरमपगमो नाथ लब्धप्रणाशा-
दित्युक्त्या तं प्रकृतिमनयत्तस्य मन्त्री सुषार्श्वः॥७६
सर्व मौलं बलमुपहरन्नाहवायावशेषं
गेहे गेहे क्लिपनमिरा राक्षसीनां वितुन्नः।
रक्षोराजो युधि रिपुमदानक्षताम्वीक्ष्य रुष्टः
कीशाधीशानतनुत शरासारवर्षी भृशार्तान्॥७७॥
शक्त्याविद्धंनिशिचरपतिक्षिप्तयावज्रमूर्च्छ
सौमित्रिं द्रागनिलतनयो यान्सुषेणोपदेशात्।

आनीयाद्रिं पुनरपि निधिं सिद्धदिघ्यौषधीनां
स्वस्थं चक्रे बलमपि मुदाश्लिष्टमश्लिष्टकर्णा॥७८॥
साहाय्यार्थं त्रिदशपतिना प्रेषिते मातलीर्ये
पूर्णे सर्वैस्तदुपकरणैर्दीप्यमानं शताङ्गे।
रामं दृष्ट्वा समरदयितंकङ्कटामुक्तदेहं
देवाः साक्षादमृतकलहे दैत्यशत्रोरधीयुः॥७९॥
तावारूढौ रथमतिरथौ मण्डलानि भ्रमन्तौ
स्पर्धायोगेऽप्यतिशयितया शिक्षयादोष्यतोऽरेः।
धन्यंमन्यौबहुमतवधूहारपुत्रल्यपाग्रा-
वातेनाते रणममुषमं राघवो रावणश्च॥८०॥
नावाद्वायुस्तरणिरघृणिर्निह्नुतो वह्निरासी-
च्छक्रश्चक्रभ्रममुपगतो वीतकृत्यश्च मृत्युः।
विष्टब्धोऽभूद्विधिरवमृशन्विष्टपस्य प्रतिष्ठां
सर्वंत्रस्तं समजनि तयोः संपराये प्रवृद्धे॥८१॥
शस्त्राघाते तरलितमतिर्वाहितोऽन्यत्र यन्त्रा
लब्धाश्वासो यदपसरणं कारितं मे त्वयाद्य।
अन्याय्यं वै तदिति समधिक्षिप्य तेनानुनवः
क्रुद्धोन्मत्तो निशिचरपतिर्भूय एवाजिमापत्॥८२॥
तत्रागस्त्यः समरशिरसि श्रान्तिचिन्तोपगूढं
दृष्ट्वा रामं पुनरपि युधे रावणं चाफ्वन्तम्।
अभ्येत्यास्मै सवितृहृदयं सिद्धिदं सद्य एव
श्रुत्या गीतं विधिषददिशत्पावनंदिव्यमन्त्रम्॥८३
तल्लाभेन ज्वलितवपुषंद्विह्विरामं चरामं
हेलानात्रत्रिदशपरिषद्रावणं रावणं च।

तौ संरब्धौ चकितचकितं वीक्ष्य कीशाः पलाशाः
सर्वेऽप्यासन्गलितमनसो देहमात्रेण शेषाः॥८४॥
यद्यच्छिन्नंदशमुखशिरः संगरे दृष्टवीर्यै-
र्बाणैस्तत्तत्सदृशमपरं तत्क्षणेन प्ररूढम्।
एवं चैकोत्तरशतमधः पातयित्वा शिरांसि
श्रान्तो नान्तं यदयमगमद्राघवो नाप्युपायम्॥८५॥
सूतेनाथो निपुणमतिना स्मारितो ब्राह्ममस्त्रं
गृहंश्चापे समधित विभुः प्रागगस्त्येन दत्तम्।
वाजे वायुर्वसति च फले यस्य भास्वत्कृशानू
यद्वैपूर्वंभुवनगुरुणा निर्मितं वासवार्थम्॥८६॥
तत्संधाने व्यचलदचला साटवी साचला च
ज्योतिश्चक्रं सह वसतिमिर्धिष्ण्यपानामफालीत्।
वारां राशिः क्वथितसलिलो वाहिनीभिर्व्यशुष्य-
द्धूमोष्मभ्यां विततमचिरादस्तमागात्समस्तम्॥८७॥
उद्घुष्योच्चैरशनिसदृशं तन्निसृष्टं महास्त्रं
द्यावाभूमी अविरलतया व्याप्य वेगेन गत्वा।
आशासाने सुरमुनिगणे स्वस्ति गोब्राह्मणेभ्यो
वक्षः शत्रोरदयमभिदत्पापसंकल्पदुष्टम्॥८८॥
भित्त्वा चास्मिन्प्रविशति पुनः स्वीयतूणीनिवासं
मुक्तारावे त्रिभुवनरिपौ वीरशय्यां प्रपन्ने।
धीरोदात्तः किमपि सुमहत्कर्म कृत्वा सुराणां
रेजेधन्वी समिति विजयश्रीसखो वीररामः॥८९॥
चक्रे दिव्या रघुपतिवपुर्वासितं पुष्पवृष्टिः
कीर्तिस्तस्य त्वखिलभुवनं वासितं पावितं च।

आशीस्तस्मिन्कृतिनि मरुतां पौनरुक्त्यं मतासी
द्वैराज्यान्तावितरतितरामाशिवोयत्प्रसादः॥९०॥
शान्तं शय्यामथ शरमयी प्रापितं वीक्ष्य शूरं
भ्रातृस्नेहाद्व्यलपदनुजो रावणस्याकुलाक्षः।
मन्ये भ्रातर्विधिरतितरां सर्वतो वैबलीया-
न्कः श्रद्दध्यात्तव गतिमिमां शौर्यराशेऽन्यथा चेत् ९१
धातुर्वश्यो धनदसहजः शासिता देवतानां
लङ्काध्यक्षः श्रुतिषु कुशलस्तापसश्चासि धीमन्।
तादृक्त्वं चेत्स्वयमगणयन्गृघ्नुरन्यस्य द्वारा-
न्दैवादन्यं कमिह भुवने किं नु वोपालभेय॥९२॥
स ह्येको नः सहज सहजस्नेहवान्कुम्भकर्णो
यन्नात्याक्षीदहमिव झटित्युत्पथस्थं भवन्तम्।
नाप्यद्राक्षीद्विपदमपदे कारितां वा तवैमां
धिङ्गामात्मंभरिमपनयं दुःखमूलं कुलस्य॥९३॥
आक्रुश्यैवं बहु स विभुनाश्वासितो नैव शोच्या
वीरश्रेष्ठा इति तदनृतत्संस्क्रियां याचमानः।
लेभेऽनुज्ञांन खलु मरणादूर्ध्वमप्यास्तिवैरं
कुर्वन्त्येष्टिं निशिचरपतैरग्रजम्येति तस्मात्॥९४॥
ज्येष्ठा भर्तुर्विदितनिधना राक्षसेन्द्रस्य भार्या
स्त्रीणां सङ्घैःसह रणमहीमेत्य मन्दोदरीति।
भिन्नोरस्कं भुवि ततभुजं तं समाश्लिप्यगाढं
दुःखौत्कट्यात्कृपणकरुणं वीरपत्नीव्यलापीत्॥९५
शेषे वश्यां श्रियमपि कथं मामिवोपेक्षमाणः
किं न त्याज्यं व्यवसितमिति प्रत्यमीकं गतोऽसि।

यद्भूपुत्रीं क्षितिपदयितां काङ्क्षितामप्यविन्द-
न्गाढाश्लिष्टः प्रसभमवनिंतत्प्रसूंतत्प्रियां च॥९६॥
यत्प्राणेतोरजतगिरिधृद्यत्सुतः शक्रजेता
यत्सौन्दर्य भुवनतिलकं पुष्पकं यद्विहारः।
सा चेदेवं गतिमुपगतासर्वशोच्यामकस्मा-
त्तुच्छैरन्यैः किमिह विभवैर्यत्रमुह्यन्ति च्छुधाः॥९७॥
धर्मे स्थित्वा मृतिरपि वरं नान्वथासर्वसिद्धि-
र्नैवंवादी तव हिततमः सा तु दक्षा स्वसैका।
यस्या नीतिः सपदि फलिता मथ्वशेषेण यद्वा
हेतुर्विग्रा भिषति विषमे मत्कृतान्ते दुरन्ते॥९८॥
न त्वं नष्टो यदयि सकलं सैम्यमुन्मुल्य शत्रो-
र्वीरश्लाघ्यांव्रजसि पदवी न्यस्तदण्डैकसाध्याम्।
नष्टैकाहंहतपतिसुता सर्वनाशं प्रपन्ना
हा हा भिङ्मांकिमिह करवैहा प्रियेत्यापः मूर्च्छाम् ९९
आश्वास्यैनां तदनु विधिवत्तंच संस्कृत्यवह्नौ
लङ्काराज्ये विभुवचनतो लक्ष्मणेनाभिषिक्तः।
आप्तेर्मित्रैः सह परिजनैराक्षसेन्द्रः कनीयान्
भक्त्या नीचैरनमदधिमंसत्यसंघं कृतज्ञः॥१००॥
शुद्धां देवीं चिरविरहितां दर्शनौरसुकवव्रूर्णां
रक्षः स्त्रीभिर्दशमुखगृहात्सोपचारंप्रणीताम्।
संवर्तोद्यद्दहनसदृशा निर्दिवक्षन्निवाक्ष्णा
प्रेक्ष्यैक्ष्वाकःसदप्ति महति व्याचचक्षेऽतिरूक्षम् १०१
नार्थः कश्चिज्जनकतनये विद्यते मे भवत्या
गृह्णीयात्कः परगृहगतां कामदग्धोऽपि भार्याम्।

यत्नस्त्वीदृग्रिपुपरिभवोच्छित्तये न त्वदर्थ
भद्रे रामस्त्वयि तु विमुखो याहि यत्राभिलाषः १०२
श्रुत्वा सा चाश्रुतचरमिदं भर्तृवाक्यं विरूपं
प्रस्विन्नाङ्गीमुकुलितमुखी साश्रुदृग्रुद्धकण्ठा।
संस्तभ्यान्तः कथमपि शुचं प्राह किं नार्यपुत्रो
जानीतेमां स्वपदगतिकां सर्वभावेन शुद्धाम् १०३
गात्रस्पर्शःप्रसभहरणे राक्षसेन्द्रस्य योऽभू-
त्तत्रोपायं कलयत्तु जनो दुर्बलःकिं नु वायम्।
इत्युक्त्वा सा स्वपतिहृदयं वीक्ष्य वह्नौविशोध्य
स्वं चारित्रं प्रथयितुमनाः प्राविशद्धव्यदाहम्॥१०४
तत्रायाता विधिहरमुखा अस्तुवन्निर्जरास्त्वं
प्राहुर्हेतुंयमखिलजगज्जन्मभङ्गस्थितीमनाम्।
स त्वं विष्णुर्दशरथसुतो भूभरध्वस्तयेऽभूः
सीता लक्ष्मीर्नवहसिशुभां किं न्वविद्वानिवेति १०५
पातिव्रत्यज्वलितवपूषं तां समर्प्याथतस्मा
इत्यूचेऽग्रिस्तव दयितया सर्वभुक् शोधितोऽस्मि।
पित्राश्लिष्टो हरिहयवरान्सर्वमुज्जीव्य सैन्यं
सीतारामः स्वपुरमनुगैः पुष्पकेण प्रतस्थे॥१०६॥
गच्छन् रामः समरपदवीं साभरं सेतुबन्धं
किष्किन्धादीमपि च विवयान्दर्शयित्वा प्रियायै।
भारद्वाजाश्रमपदगतो याह्ययोध्यां हनूमन्
पूर्णः कालो व्यथितमनुजं जीवयेत्यादिदेश॥१०७॥
भ्रातुर्भक्त्या व्रतकृशतनुश्चीरवासा जटालो
वारं वारं मनसि भरतश्चिन्तयंस्ताहिनानि।

प्रत्यासन्नेऽहनि हनुमता श्राविते तस्य वृत्ते
ब्रह्मानन्दादयमविकलं संमदं संप्रपेदे॥१०८॥
भूयः श्रुत्वा विपिनचरितं विस्तरेणातितुष्टः
सर्व भृत्यैर्झटिति नगरं कारयित्वोत्सवाढ्यम्।
सोत्कण्ठाभिः प्रकृविभिरयं ज्येष्ठसंदर्शनार्थी
नन्दिग्रामादभिमुखमगाद्यत्र रामस्य पन्थाः॥१०९॥
औत्सुक्यादनिमेषपुल्लनयनेप्रोद्यन्मुखाम्भोरुहे
कृत्स्ने प्राञ्जलिमुर्ध्निनागहजने सालोककोलाहले।
रामः पुष्पकतोऽवरुह्य भरतंचालिङ्यलेभे मुदं
यां नास्याः कलया पुनर्जनकजालाभोद्भवासीत्समा ११०
अन्योन्यं च यथोपचारमखिलेष्वभ्यर्चितेषु क्रमा-
द्याने वैश्रवणस्य वासभवनं प्रस्थापिते पुष्पके।
आराद्विष्टरभाजमार्यमसकृन्नत्वाप्रसाद्यादरा-
त्कैकेयीतनयो न्यवेदधदिदं सर्वेषु शुश्रूषुषु॥१११॥
माता मेऽग्रज पूजिता तवगिरा गुर्व्या धुरोर्व्या भृशं
भुग्नग्रीवमिमं न पश्यसि जनं न्यासं प्रतीच्छाधुना।
नो चेश्वज्जनने पितुश्च विद्यतं व्यर्थः प्रयासो भवे-
दित्युक्तस्तव पूरयाम्यभिमतं वत्सेति रामोऽब्रवीत् ११२
संशोध्याय जटा महार्हवसनो राजोपबर्होज्ज्वलः
प्राप्य स्वं नगरं महोत्सवयुतं संसेव्यमानोऽनुजैः।
इक्ष्वाकुप्रमुखैर्महेन्द्रसदृशैरध्यासितं राजभिः
प्रत्युप्तं मणिकाञ्चनादिभिरलंचक्रे स सिंहासनम् ११३
तीर्थैः पुण्यतमैर्वलीमुखहृतैः सर्वौषधीनां रसैः
संपृक्तैश्च सुवर्णकुम्भभरितैर्मन्त्रोत्तमैः संस्कृतैः।

ऋत्विग्भिर्भगवान्समेत्य सचिवैश्चान्यैर्वसिष्ठो मुनिः
श्रीरामं सहसीतमासनगतं राज्येऽभ्यषिश्चद्विभुम्११४
दृष्ट्वा रत्नकिरीटशोभितमुखं श्वेतातपत्रादिकै-
रैन्द्र्याचामिलनीतयातिरुचिरं तं वैजयन्त्या स्रजा।
देव्यालंकृतवामपार्श्वमधिपं देदीप्यमानं श्रिया
चक्षुष्मत्वफलं समग्रमधुमा लब्धं प्रजा मेनिरे॥११५॥
गन्धर्वामुदिता जगुः प्रमनृतुः स्वर्वारनारीजनाः
सिद्धाः साध्यगणैः समं मुखख्यामासृस्तदातोद्यकम्।
अस्वप्नाववृषुःसुमानि परया भवत्यर्षयस्तुष्टुवु-
र्लोकानन्दकरेशिवाच्छिवतमे रामाभिषेक़ोत्सवे ११६
सुग्रीवे चविभीषणे च विधिवत्संमान्य निर्मुक्तवो-
र्वातेष्वप्युपचारपूर्वमितरेष्वभ्यागतेषु क्रमात्।
श्रीरामः स्वयमाचरन्स्रविहितान्याचास्यंश्चापरा-
न्सर्वयालयति स्म भूपभिषतो धर्मप्रतिष्ठापकः॥११७॥
आदित्यानलविप्रवृद्धविदुषः प्रातः भुञ्जिसेवते
मध्याह्नेसचिवैःसमेत्य कुरुते सम्यक् प्रजानां हितम्
वैदेहीकुचकुम्भसंभ्रमशरीरम्भंनिशास्वीहते
सर्वत्रैव हि धर्ममेव मनुते मूलं फलं चप्रभुः॥११८॥
न व्याधिर्नजराभयं न पलितंप्राकालमृत्त्वोर्धेयं
नव्यालीयमयं न चेतिजमयं न क्षुत्पिपासाभयम्।
नान्यस्माच्च भयं बभूव महतः क्षुद्राश्च वा भाक्तः
सर्वंनिर्मयमेव नित्यमुदितं रामे नगन्नायके॥११९॥
न स्वैरी भुवनत्रयेऽपि च कुतः स्थात्स्वैरिणीनां कथा
न स्तनो न च कूटवाङ्ग च शठो नानाहिताग्निर्जनः।

निष्कामा अभवन्स्वधर्मनिरताः सर्वे चवर्णाश्रमाः
पातिव्रत्यपराः स्त्रियश्चसुभगाः सीतायशःकामुकाः॥
काले वर्षति वासवः क्रतुभुजो नित्यं हविर्भागिनो
भूमिः सर्वसमृद्धिभाग्द्विजवरा ब्राह्म्याश्रिया भास्वराः।
गावः कामदुघानृपा नयपरा रत्नाकरो वारिधिः
सर्वंचर्घतमं बभूव भुवने रामे जगन्नायके॥१२१॥
शास्त्रे धर्मविनिश्चये वितरणे सत्ये क्षमायां शुचौ
कारुण्ये विनये नये च धनुषि प्रागल्भ्यगाम्भीर्ययोः
अन्यस्मिन्नपि यत्र कुत्र च गुणाख्याने हिसर्वात्मना
रामो राम इति श्रुतिः क्षितितले सार्वत्रिकी पप्रथे १२२
क्रीडाताडितताटकःशिवधनुर्भङ्क्तामुनेः शासिता
भ्रात्रे न्यासितपादुकः खररिपुर्वाल्यन्तकः सेतुकृत्।
संख्ये रावणकुम्भकर्णनिधनप्रोच्चण्डदोर्विक्रमो
रामो दाशरथिर्जगत्त्रयपतिः सीतापतिर्मेगतिः १२३
लीलामानुषविग्रहे परतरे रामाभिधे श्रीपतौ
चेतोवृत्त्यनुवृत्तये कृतमिदं संक्षिप्तरामायणम्।
आचन्द्रार्कमियं कृतिर्विजयतां सीतापतेराज्ञया
तन्नामस्मरणं हि सर्वजगतां सद्यः परं मङ्गलम्१२४

इति श्रीमुद्दुसुब्बकविविरचिते संक्षिप्तरामायणे
युद्धकाण्डः
समाप्तश्चायं ग्रन्थः
ॐ तत्सत्

<MISSING_FIG href="../books_images/U-IMG-1700734223i7.png"/>

]