रामेण लिङ्गपूजा?

लिङ्ग-पूजा-पक्षः

रामेण रामेश्वर-सेतु-स्थले लिङ्ग-पूजा कृतेति,
तत्-कारणं रावण-वध-रूप-ब्रह्म-हत्या-निवृत्तिर्
अथवा सेतुनिर्माण-विघ्न-व्यपोहनं तत इति च केचित्।

सेतुनिर्माणात् पश्चात्

कूर्मपुराणे

सपत्नीकं च ससुतं
सभ्रातृकम् अरिन्दमः ।
आनयामास तां सीतां
वायुपुत्रसहायवान् ॥ ४६ ॥

सेतुमध्ये महादेवम्
ईशानं कृत्तिवाससम् ।
स्थापयामास लिङ्गस्थं
पूजयामास राघवः ॥ ४७ ॥

यत् त्वया स्थापितं लिङ्गं
द्रक्ष्यन्तीह द्विजातयः ।
महापातकसंयुक्तास्
तेषां पापं विनश्यतु ॥ ४९ ॥

तिलककारः -

अत्र पूर्वमिति । अत्र सेतुमूले। पूर्व सेतुबन्धनात्पूर्वं विभुर् महादेवो
मम रामस्य प्रसादम् अकरोन् मत्स्थापितः तत्त्वेनात्र स्थितोऽभूत् ।
सेतोर्निर्विघ्नतासिद्ध्यै समुद्र-प्रसादानन्तरं शिवस्थापनं रामेण कृतमिति गम्यते ।
अत्र स्थळे महात्मनः सागरस्य तीर्थे
सेतुनिर्माणमूलप्रदेशत्वात् सेतुबन्ध इति ख्यातं भविष्यतीति शेषः ।
तथा त्रैलोक्येन पूजितं च भविष्यति ॥ २० ॥
एतत्पवित्रं दर्शनात्सर्वपापविशोधनं विशिष्य महापातकस्यापि नाशनम् ।

‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’ इति स्मृतेः ।
कूर्मपुराणे रामचरिते त्वत्र स्थाने स्पष्टमेव तु लिङ्गस्थापनमुक्तम् ।
त्वत्-स्थापित-लिङ्गदर्शनेन ब्रह्महत्यादिपापक्षयो भविष्यतीति
महादेववरदानं च स्पष्टम् एवोक्तम् ।
तत एवाचवायें पूर्वं महादेवः प्रसादमकरोत्
ततः सेतुबन्धनं जातम् इत्यक्षरार्थः ॥ २१ ॥

पाद्म-पुराणे

कोत्र मे नियमो देव किन्नु कार्यं मया विभो
श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्१३०
कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्
त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्१३१
छित्वा तु योजनं चैकमेकं खण्डत्रयं कृतम्
वेलावनं समासाद्य रामः पूजां रमापतेः१३२
कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं
अभिषिच्याथ सङ्गृह्य वामनं रघुनन्दनः१३३
रुद्र उवाच
भो भो रामास्तु भद्रं ते स्थितोऽहमिह साम्प्रतम्
यावज्जगदिदं राम यावदेषा धरा स्थिता१३५

अत्र केचिद् (arch) “रमापतेः” इत्य् अस्य स्थाने “उमापतेर्” इति पठन्ति।
सन्देहास्पदम् इदम् - जनार्दनः, वामनः इति वर्तते खलु।
रुद्रस्याविर्भावः सेतुक्षेत्रान् निर्गमात् परम् एव।

सेतुनिर्माणात् प्राक्

रामेश्वरस्य प्रतिष्ठा सेतुबन्धात् पूर्वमेव भवितव्या ।
रामेण रावण-हननान्तरं झटिति लंकया निर्गमनात् ।
भरतेन रामस्य १४ वर्षानन्तरमनागमने वह्निप्रवेशशपथः कृतः।
अन्तिमदिने मध्याह्ने रावणवधः।
ततः सीतया आत्मनः शुद्धता-प्रकटनम् ।
सायं सूर्यास्तात् पूर्वं अयोध्यां प्रति आगन्तव्यमिति ततः प्रस्थानम् ।
एवं कथा ।
अत्रान्तरे प्रतिष्ठायाः समयः नास्ति ।

लङ्का-विजयानन्तरं प्रतिष्ठा +इति पौराणिकवचनस्य योजना त्व् इत्थम् ।
पुराणेषु पूर्वकथाः परं वर्ण्यन्ते । पराः पूर्वं च ।
इयं पुराणानां इतिहासस्य च रीतिः।
एवं महाभारतेप्य् अस्तीति सप्रमाणं भागवत-दशम-स्कन्ध-व्याख्याने द्वैताचार्यैः श्रीमध्वाचार्यैरुक्तम् ।
तथाहि तद्वचनम्-

‘पूर्वाः कथाः परं ब्रूयुः
पराः पूर्वं तथैैव च ॥
मोहनार्थाय दुष्टानां
सर्वं व्यत्यासयिष्यते ।
विस्तारे तु यदुक्तं स्यात्
तद्-ग्राह्यम् अविरोधतः ।
संक्षेपोक्त-विरोधे तु
गुणोक्तिश्च सतां यथा’’॥

इति शब्दनिर्णये।
तेन कूर्मपुराणवचनं पाद्मवचनानुसारेण योजनीयम् ।

इति प्रदीपसिंहः।

प्रामाण्य-विचारः

All these are authoritative Arsha sources of the Rama-katha, which have been widely quoted by writers across sampradayas: The Ramayana of Valmiki, Yoga-Vasishtha, Agastya-Ramayana, Adhyatma-Ramayana, the Rama-katha in the Padma-Purana, Bhushundi-Ramayana, the Rama-katha in Skanda-Purana, Adbhuta-Ramayana, Ramopakhyana of the Mahabharata, and Ananda Ramayana. This set of Sanskrit Ramayana is sufficient to resolve all questions about the Rama-katha, without reference to vernacular authors such as Tulsi, Kamban etc.

देवतान्तर-पूजौचित्यम्

SVs don’t have a problem with Rama or Krishna worshipping any deity. Krishna says in Mbh that Vishnu’s head bows down only to Vishnu & it is taken by the Vaishnavas to mean that when He appears to be worshipping other deities, He is worshipping the antaryamin i.e. Himself. Rama has worshipped several devas in the VR and SVs don’t deny it. - रविलोचनः

अपूजा-पक्षः

प्रामाण्य-विचारः

अत्रेक्षताम्

अध्यात्मरामायणोक्ता माया-सीता वाल्मीक्य्-उक्ति-विरुद्धं न - तथापि “वाल्मीकेस् तादृशो ऽभिप्रायो ऽवर्तत, किञ्च नोक्तम्” इति कल्पना हास्यास्पदम्। 😀

पूजा समुद्रस्य

And VR records that Rama worshipped samudra before crossing the seas.

कूर्मपुराणेन लङ्काविजयानन्तरं सेतुबन्धे श्रीरामेण शिवलिङ्गस्थापनं ज्ञायते। तिलकटीकाकृत् पौर्वापर्यव्यत्यासेन समादधाति।

‘पूर्वाः कथाः परं ब्रूयुः
पराः पूर्वं तथैैव च ॥

इति भवतु नाम - समानकथायां कृति-क्रम-व्यत्यासो ऽसम्भाव्यः।
न क्वापि पुराणादौ - “रामो वालिम् अहनत्।” इति वचनात् परं
“राम-सुग्रीव-सख्यं घटितम्” इत्य् उक्तं यथा दृश्यते।

जयात् परम् अपि न पूजा

अयोध्यां प्रति त्वरया गच्छतो रामस्य लिङ्गप्रतिष्ठाऽवकाशो नावर्ततेत्य् अभिप्रायो गृह्यताम्। एवं तर्हि, इतिहास-पुराणयोर् विरोधे सति,

संक्षेपोक्त-विरोधे तु
गुणोक्तिश्च सतां यथा

इति श्रीमध्वोक्तसमाधानं वरम्।

रावणो न ब्राह्मणः

न हि रावणस्य राक्षसाधिपतेः पुलस्त्यपुत्रस्याप्य् ऋषिविद्वेषिणो ब्राह्मण्यं सम्भवति - यथा न कुबेरस्य।

Ravana is called as lokakantaka as well as a man-eater and to claim that killing him begets brahmahatya flies against logic. Two - one cannot do praayashchitta for the sin before even committing it. - रविलोचनः

वाल्मीकि-रामायणे रामेण रावणः क्षतियो मतः -

वदन्तं हेतुमद् वाक्यं
परिदृष्टार्थ-निश्चयम् ।
रामः शोक-समाविष्टम्
इत्य् उवाच विभीषणम् ॥ १३ ॥

नायं विनष्टो निश्चेष्टः
समरे चण्ड-विक्रमः ।
अत्युन्नत-महोत्साहः
पतितो ऽयम् अशङ्कितः ॥ १४ ॥

नैवं विनष्टाः शोचन्ते
क्षत्र-धर्म-व्यवस्थिताः ।
वृद्धिम् आशंसमाना ये
निपतन्ति रणाजिरे ॥ १५ ॥

ऐतिहासिकी दृष्टिः

सद्य उपलभ्यमाने वाल्मीकीये रामायणे रामश्वरे रामकृता शिवप्रतिष्ठा नोक्ता न च सूचिता।
तत् तु शैवैः कालक्रमेण पुराणान्तरे योजिता।