१. तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम्।
२. अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥
३. स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
४. चन्दनानि च दिव्यानि माल्यानि विविधानि च ।
५. अलङ्कारविदश्चेमे नार्यः पद्मनिभेक्षणाः ।
६. उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥
७. प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ॥
८. एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्।
९. हरीन् सुग्रीवमुख्यान्स्त्वं स्नानेनाभिनिमन्त्रय ॥
१०. स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।
११. सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥
१२. तं विना केकयीपुत्रं भरतं धर्मचारिणम्।
१३. न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥
१४. इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम्।
१५. अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥
१६. एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।
१७. अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥
१८. पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम्।
१९. तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥
२०. अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।
२१. वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्।
२२. लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥
२३. सत्क्रियां विहितां तावत् गृहाण त्वं मयोद्यताम्।
२४. प्रणयाद् बहुमानाच्च सौहृदेन च राघव ।
२५. प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥
२६. एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्।
२७. पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप ।
२८. सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ।
२९. न खल्वेतत् न कुर्यां ते वचनं राक्षसेश्वर ।
३०. तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ।
३१. मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ॥
३२. उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।
३३. अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ।
३४. मन्युर्न खलु कर्तव्यः त्वरितं त्वानुमानये ॥
३५. राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
३६. तं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥
३७. तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
३८. विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥
३९. कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
४०. रत्नैरर्थैश्च विविधैः भूषणैश्चापि पूजय ॥
४१. धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥
४२. एवमुक्तस्तु रामेण वानरान्स्तान् विभीषणः ।
४३. रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥
४४. ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।
४५. आरुरोह ततो रामस्तद्विमानमनुत्तमम्॥
४६. अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्।
४७. लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥
४८. अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।
४९. सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्॥
५०. यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
५१. कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा ॥
५२. किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥
५३. स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।
५४. न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥
५५. अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।
५६. अभ्यनुज्ञातुमिच्छामि सर्वान्श्चामन्त्रयामि वः ॥
५७. एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।
५८. ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ॥
५९. अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।
६०. उद्युक्ता विचरिष्यामो वनानि नगराणि च ॥
६१. दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
६२. अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ॥
६३. एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।
६४. अब्रवीत् राघवः श्रीमान् ससुग्रीवविभीषणान् ॥
६५. प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।
६६. सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥
६७. क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।
६८. त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥
६९. ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
७०. अध्यारोहत् त्वरन् शीघ्रं सामात्यश्च विभीषणः ॥
७१. तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्।
७२. अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्।
७३. उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥
७४. पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
७५. अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥
७६. कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्।
७७. लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥
७८. अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
७९. तव हेतोर्विशालाक्षि रावणो निहतो मया ॥
८०. एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
८१. यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्॥
८२. एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
८३. तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥
८४. पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्।
८५. अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम्॥
८६. अत्र राक्षसराजोऽयमाजगाम विभीषणः ।
८७. एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
८८. सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥
८९. अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्।
९०. अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥
९१. सुग्रीवप्रियभार्याभिः ताराप्रमुखतो नृप ।
९२. अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृताह्यहम्।
९३. गन्तुमिच्छे सहायोध्यां राजधानीं त्वयानघ ॥
९४. एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।
९५. विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥
९६. ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।
९७. सदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥
९८. एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
९९. प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।
१००. त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
१०१. अयोध्यां दर्शयिष्यामो सर्वा दशरथस्त्रियः ॥
१०२. तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः ।
१०३. अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ॥
१०४. ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
१०५. ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥
१०६. दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः ।
१०७. ऋष्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥
१०८. अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
१०९. समयश्च कृतः सीते वधार्थं वालिनो मया ॥
११०. दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः ।
१११. खरश्च निहतो यत्र दूषणश्च निपातितः ॥
११२. पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।
११३. यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥
११४. असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
११५. यत्र मां कैकयीपुत्रः प्रसादयितुमागतः ॥
११६. शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ।
११७. एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
११८. एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।
११९. अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥
१२०. ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
१२१. उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम्॥
१२२. पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।
१२३. भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्॥
१२४. सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्।
१२५. शृणोषि कच्चित् भगवन् सुभिक्षानामयं पुरे ॥
१२६. कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ॥
१२७. एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।
१२८. प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥
१२९. पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।
१३०. पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥
१३१. त्वां पुरा चीरवसनं प्रविशन्तं महावनम्।
१३२. दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ॥
१३३. सांप्रतं सुसमृद्धार्थं समित्रगणबान्धवम्।
१३४. समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥
१३५. सर्वं च सुखदुःखं ते विदितं मम राघव ।
१३६. अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।
१३७. अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ॥
१३८. तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।
१३९. बाढमित्येव संहृष्टो धीमान् वरमयाचत ॥
१४०. अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।
१४१. फलान्यमृतकल्पानि बहूनि विविधानि च ।
१४२. भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥
१४३. तथेति च प्रतिज्ञाते वचनात् समनन्तरम्।
१४४. अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ॥
१४५. अयोध्यां तु समालोक्य चिन्तयामास राघवः ।
१४६. चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम्॥
१४७. शृङ्गिवेरपुरं प्राप्य गुहं गहनगोचरम्।
१४८. निषादाधिपतिं ब्रूहि कुशलं वचनान् मम ॥
१४९. अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ।
१५०. निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥
१५१. भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ।
१५२. सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥
१५३. उपयातं च मां सौम्य भरतस्य निवेदय ॥
१५४. एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा ।
१५५. स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ॥
१५६. ज्ञेयाश्च सर्वे वृत्तान्ताः भरतस्येङ्गितानि च ।
१५७. तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥
१५८. सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम्।
१५९. पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥
१६०. तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।
१६१. यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥
१६२. इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।
१६३. मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ॥
१६४. शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।
१६५. स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ॥
१६६. सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः ।
१६७. सहसीतः ससौमित्रिः स त्वां कौशलमब्रवीत् ॥
१६८. पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः ।
१६९. भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम्॥
१७०. एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः ।
१७१. उत्पपात महावेगो वेगवानविचारयन् ॥
१७२. स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ।
१७३. आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ॥
१७४. क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्।
१७५. ददर्श भरतं दीनं कृशमाश्रमवासिनम्॥
१७६. जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्।
१७७. फलमूलाशिनं दान्तं तापसं धर्मचारिणम्॥
१७८. पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम्॥
१७९. तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम्।
१८०. उवाच प्राञ्जलिर्वाक्यं हनुमान् मारुतात्मजः ॥
१८१. वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्।
१८२. अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥
१८३. प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्।
१८४. अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥
१८५. निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्।
१८६. उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥
१८७. एवमुक्तो हनुमता भरतो भ्रातृवत्सलः ।
१८८. पपात सहसा हृष्टो हर्षान् मोहं जगाम ह ॥
१८९. ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ।
१९०. हनुमन्तमुवाचेदं भरतः प्रियवादिनम्॥
१९१. अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ।
१९२. सिषेच भरतः श्रीमान् विपुलैरस्रबिन्दुभिः ॥
१९३. देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।
१९४. प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥
१९५. गवां शतसहस्रं च ग्रामाणां च शतं परम्॥
१९६. बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।
१९७. शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥
१९८. कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
१९९. एति जीवन्तमानन्दो नरं वर्षशतादपि ॥
२००. राघवस्य हरीणां च कथमासीत् समागमः ।
२०१. कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥
२०२. स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः ।
२०३. आचचक्षे ततः सर्वं रामस्य चरितं वने ॥
२०४. श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।
२०५. हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥
२०६. देवतानि च सर्वाणि चैत्यानि नगरस्य च ।
२०७. सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥
२०८. सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा ।
२०९. अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्॥
२१०. भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।
२११. विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् ॥
२१२. राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ।
२१३. ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ।
२१४. निर्ययुः तुरगाक्रान्तैः रथैश्च सुमहारथाः ॥
२१५. ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।
२१६. कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥
२१७. कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ॥
२१८. उपवासकृशो दीनः चीरकृष्णाजिनाम्बरः ।
२१९. प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥
२२०. समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्।
२२१. कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ।
२२२. न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम्॥
२२३. अथैवमुक्ते वचने हनुमानिदमब्रवीत् ।
२२४. अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम्॥
२२५. निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्।
२२६. मन्ये वानरसेना सा नदीं तरति गोमतीम्॥
२२७. तदेतत् दृश्यते दूरात् विमलं चन्द्रसन्निभम्।
२२८. विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्॥
२२९. एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ ।
२३०. सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥
२३१. ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ।
२३२. स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥
२३३. प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।
२३४. स्वागतेन यथार्थेन ततो राममपूजयत् ॥
२३५. ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्।
२३६. हंसयुक्तं महावेगं निष्पपात महीतले ॥
२३७. आरोपितो विमानं तत् भरतः सत्यविक्रमः ।
२३८. राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥
२३९. तं समुत्थाप्य काकुत्स्थः चिरस्याक्षिपथं गतम्।
२४०. अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥
२४१. ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत् ।
२४२. अथाब्रवीत् राजपुत्रः सुग्रीवं वानरर्षभम्।
२४३. परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥
२४४. त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः ।
२४५. सौहार्दात् जायते मित्रमपकारोऽरिलक्षणम्॥
२४७. विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत् ।
२४८. दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥
२४९. शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्।
२५०. सीतायाश्चरणौ पश्चात् विनयादभ्यवादयत् ॥
२५१. रामो मातरमासाद्य विषण्णां शोककर्शिताम्।
२५२. जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥
२५३. अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्।
२५४. स मातॄश्च ततः सर्वाः पुरोहितमुपागमत् ॥
२५५. स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।
२५६. इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥
२५७. तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ।
२५८. व्याकोशानीव पद्मानि ददर्श भरताग्रजः ॥
२५९. पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्।
२६०. चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ॥
२६१. अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ।
२६२. एतत्ते रक्षितं राजन् राज्यं निर्यातितं मया ।
२६३. अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ।
२६४. यस्त्वं पश्यामि राजानमयोध्यां पुनरागतम्॥
२६५. अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम्।
२६६. भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥
२६७. तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्।
२६८. मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥
२६९. ततः प्रहर्षात् भरतमङ्कमारोप्य राघवः ।
२७०. ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥
२७१. भरताश्रममासाद्य ससैन्यो राघवस्तदा ।
२७२. अवतीर्य विमानाग्रादवतस्थे महीतले ॥
२७३. अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम्।
२७४. वह वैश्रवणं देवमनुजानामि गम्यताम्॥
२७५. ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्।
२७६. उत्तरां दिशमागम्य जगाम धनदालयम्॥
२७७. शिरस्यञ्जलिमाधाय कैकेयीनन्दवर्धनः ।
२७८. बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥
२७९. पूजिता मामिका माता दत्तं राज्यमिदं मम ।
२८०. तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥
२८१. धुरमेकाकिना न्यस्तां ऋषभेण बलीयसा ।
२८२. किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥
२८३. वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
२८४. दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥
२८५. गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
२८६. नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥
२८७. जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
२८८. प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥
२८९. यावदावर्तते चक्रं यावती च वसुन्धरा ।
२९०. तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥
२९१. भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
२९२. तथेति प्रतिजग्राह निषसादासने शुभे ॥
२९३. ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
२९४. सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥
२९५. विशोधितजटः स्नातः चित्रमाल्यानुलेपनः ।
२९६. महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥
२९७. प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
२९८. आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥
२९९. ततो वानरपत्नीनां सर्वासामेव शोभनम्।
३००. चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ॥
३०१. ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः ।
३०२. योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥
३०३. अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा मनोहरम्।
३०४. आरुरोह महाबाहू रामः सत्यपराक्रमः ॥
३०५. हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
३०६. प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥
३०७. जग्राह भरतो रश्मीन् शत्रुघ्नः छत्रमाददे ।
३०८. लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥
३०९. श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः ।
३१०. अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥
३११. ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्।
३१२. आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥
३१३. नवनागसहस्राणि ययुरास्थाय वानराः ।
३१४. मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥
३१५. ददृशुस्ते समायान्तं राघवं सपुरःसरम्।
३१६. विराजमानं वपुषा रथेनातिरथं तदा ॥
३१७. ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
३१८. अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥
३१९. सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
३२०. वानराणां च तत्कर्म राक्षसानां च तद्बलम्।
३२१. विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम्॥
३२२. श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ॥
३२३. द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
३२४. ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥
३२५. अथाब्रवीत् राजसुतो भरतं धर्मिणां वरम्।
३२६. यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
३२७. मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥
३२८. तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
३२९. पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥
३३०. उवाच च महातेजाः सुग्रीवं राघवानुजः ।
३३१. अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥
३३२. सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
३३३. ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥
३३४. यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्।
३३५. पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥
३३६. जाम्बवान्श्च हनूमान्श्च वेगदर्शी च वानराः ।
३३७. ऋषभश्चैव कलशान् जलपूर्णानथानयन् ॥
३३८. ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्।
३३९. अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।
३४०. पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥
३४१. ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
३४२. रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥
३४३. वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
३४४. कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ।
३४५. अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
३४६. सलिलेन सहस्राक्षं वसवो वासवं यथा ॥
३४७. छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम्।
३४८. श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।
३४९. अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥
३५०. प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
३५१. अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥
३५२. भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
३५३. गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥
३५४. अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्।
३५५. सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥
३५६. वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
३५७. वालिपुत्राय धृतिमान् अङ्गदायाङ्गदे ददौ ॥
३५८. मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम्।
३५९. सीताया प्रददौ रामश्चन्द्ररश्मिसमप्रभम्॥
३६०. अवमुच्यात्मनः कण्ठात् हारं जनकनन्दिनी ।
३६१. अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥
३६२. तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्।
३६३. प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
३६४. पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥
३६५. ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
३६६. हनुमान्स्तेन हारेण शुशुभे वानरर्षभः ।
३६७. चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥
३६८. सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
३६९. वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥
३७०. विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवान्स्तथा ।
३७१. सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ।
३७२. यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ॥
३७३. नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ।
३७४. विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥
३७५. लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥
३७६. स राज्यमखिलं शासन् निहतारिः महायशाः ।
३७७. राघवः परमोदारः शशास परया मुदा ॥
३७८. उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥
३७९. आतिष्ठ धर्मज्ञ मया सहेमाम्
३८०. गां पूर्वराजाध्युषितां बलेन ।
३८१. तुल्यं मया त्वं पितृभिर्धृता या
३८२. तां यौवराज्ये धुरमुद्वहस्व ॥
३८३. सर्वात्मना पर्यनुनीयमानो
३८४. यदा न सौमित्रिरुपैति योगम्।
३८५. नियुज्यमानोऽपि च यौवराज्ये
३८६. ततोऽभ्यषिञ्चद् भरतं महात्मा ॥
३८७. राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।
३८८. शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥
३८९. न पर्यदेवन् विधवा न व्यालकृतं भयम्।
३९०. न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥
३९१. निर्दस्युरभवल्लोको नानर्थः कञ्चिदस्पृशत् ।
३९२. न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥
३९३. सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् ।
३९४. राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥
३९५. आसन् पुत्रसहस्राणि तथा पुत्रसहस्रिणः ।
३९६. निरामया विशोकाश्च रामे राज्यं प्रशासति ॥
३९७. रामो रामो राम इति प्रजानामभवन् कथाः ।
३९८. रामभूतं जगदभूत् रामे राज्यं प्रशासति ॥
३९९. नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।
४००. काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥
४०१. आसन् प्रजा धर्मरता रामे शासति नानृताः ।
४०२. सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥
४०३. दशवर्षसहस्राणि दशवर्षशतानि च ।
४०४. भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥
४०५. धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम्।
४०६. आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम्।
४०७. यः पठेत् शृणुयाल्लोके नरः पापाद्विमुच्यते ॥
४०८. आयुष्यमारोग्यकरं यशस्यम्
४०९. सौभ्रातृकं बुद्धिकरं शुभं च ।
४१०. श्रोतव्यमेतन्नियमेन सद्भिः
४११. आख्यानमोजस्करमृद्धिकामैः ॥
॥ युद्धकाण्डम् समाप्तम्॥
॥ लघुवाल्मीकीयम् समाप्तम् ॥
॥ओम् शान्तिः शान्तिः शान्तिः ॥