१. रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ।
२. हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥
३. राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्।
४. अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥
५. राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
६. दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥
७. तस्मिन्स्तु दिवमारूढे सुरसारथिसत्तमे ।
८. राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥
९. परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।
१०. पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम्॥
११. अब्रवीच्च तदा रामः समीपपरिवर्तिनम्।
१२. सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम्॥
१३. विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
१४. अनुरक्तं च भक्तं च मम चैवोपकारिणम्॥
१५. एष मे परमः कामो यदीमं रावणानुजम्।
१६. लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्॥
१७. एवमुक्तस्तु सौमित्री राघवेण महात्मना ।
१८. लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।
१९. विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्।
२०. अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम्॥
२१. स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
२२. प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ॥
२३. ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम्।
२४. अब्रवीत् राघवो वाक्यं हनुमन्तं प्लवङ्गमम्॥
२५. अनुमान्य महाराजमिमं सौम्य विभीषणम्।
२६. गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ॥
२७. प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ।
२८. वैदेह्यै मां कुशलिनं ससुग्रीवं विभीषणम्।
२९. आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम्॥
३०. प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
३१. प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ॥
३२. इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः ।
३३. प्रविश्य च महातेजा रावणस्य निवेशनम्।
३४. ददर्श मृजया हीनां सातङ्कामिव रोहिणीम्।
३५. वृक्षमूले निरानन्दां राक्षसीभिः समावृताम्॥
३६. निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ।
३७. दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम्।
३८. तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताभवत् ॥
३९. सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः ।
४०. रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥
४१. वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।
४२. विभीषणसहायश्च हरीणां सहितो बलैः ॥
४३. कुशलं चाह सिद्धार्थो हतशत्रुररिन्दमः ।
४४. विभीषणसहायेन रामेण हरिभिः सह ।
४५. निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥
४६. पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।
४७. अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ॥
४८. प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।
४९. दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥
५०. लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।
५१. रावणश्च हतः शत्रुः लङ्का चेयं वशे स्थिता ॥
५२. मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।
५३. प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥
५४. सम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।
५५. विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्॥
५६. तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ॥
५७. एवमुक्ता समुत्पत्य सीता शशिनिभानना ।
५८. प्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ॥
५९. अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्।
६०. किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ॥
६१. एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।
६२. अब्रवीत् परमप्रीता हर्षगद्गदया गिरा ॥
६३. प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्।
६४. प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥
६५. न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।
६६. मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्॥
६७. न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।
६८. सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम्॥
६९. एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
७०. भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि ।
७१. तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च ।
७२. रत्नौघात् विविधाच्चापि देवराज्यात् विशिष्यते ॥
७३. तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।
७४. ततः शुभतरं वाक्यमुवाच पवनात्मजम्॥
७५. अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम्।
७६. बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्॥
७७. बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्।
७८. तेजः क्षमा धृतिर्धैर्यं विनीतत्वं न संशयः ।
७९. एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥
८०. अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।
८१. इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
८२. हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥
८३. एवमुक्ता हनुमता वैदेही जनकात्मजा ।
८४. उवाच धर्मसहितं हनुमन्तं यशस्विनी ॥
८५. राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।
८६. विधेयानां च दासीनां कः कुप्येत् वानरोत्तम ॥
८७. भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च ।
८८. मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥
८९. आज्ञप्ता रावणेनैते राक्षस्यो मामतर्जयन् ।
९०. हते तस्मिन् न कुर्युर्हि तर्जनं वानरोत्तम ॥
९१. न परः पापमादत्ते परेषां पापकर्मणाम्।
९२. समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥
९३. पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
९४. कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥
९५. एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।
९६. प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्॥
९७. युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।
९८. प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥
९९. एवमुक्ता हनुमता वैदेही जनकात्मजा ।
१००. अब्रवीत् द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥
१०१. तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
१०२. हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥
१०३. पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्।
१०४. स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्॥
१०५. तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्।
१०६. आजगाम महावेगो हनुमान् यत्र राघवः ॥
१०७. स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ।
१०८. रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्॥
१०९. यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ।
११०. तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ॥
१११. सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।
११२. मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥
११३. पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।
११४. भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्॥
११५. एवमुक्तो हनुमता रामो धर्मभृतां वरः ।
११६. अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ॥
११७. दीर्घमुष्णं विनिःश्वस्य मेदिनीमवलोकयन् ।
११८. उवाच मेघसङ्काशं विभीषणमुपस्थितम्॥
११९. दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्।
१२०. इह सीतां शिरस्स्नातामुपस्थापय मा चिरम्॥
१२१. एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।
१२२. प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥
१२३. दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।
१२४. यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥
१२५. एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्।
१२६. अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥
१२७. तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।
१२८. यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥
१२९. तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।
१३०. भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥
१३१. ततः सीतां शिरःस्नातां युवतीभिरलङ्कृताम्।
१३२. महार्हाभरणोपेतां महार्हाम्बरधारिणीम्।
१३३. आरोप्य शिबिकां दीप्तां परार्घ्याम्बरसंवृताम्।
१३४. रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥
१३५. सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्।
१३६. प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥
१३७. तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्।
१३८. हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥
१३९. ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।
१४०. विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ॥
१४१. राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।
१४२. वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ॥
१४३. स तद्वचनमाज्ञाय राघवस्य विभीषणः ।
१४४. तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥
१४५. तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।
१४६. वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥
१४७. उत्सार्यमाणान्स्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् ।
१४८. दाक्षिण्यात् तदमर्षाच्च वारयामास राघवः ॥
१४९. किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः ।
१५०. निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥
१५१. न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।
१५२. नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥
१५३. व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयम्वरे ।
१५४. न क्रतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥
१५५. सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।
१५६. दर्शनेऽस्याः न दोषः स्यात् मत्समीपे विशेषतः ॥
१५७. एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।
१५८. रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ॥
१५९. ततो लक्ष्मणसुग्रीवौ हनुमान्श्च प्लवङ्गमः ।
१६०. निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्॥
१६१. कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।
१६२. अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्॥
१६३. लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।
१६४. विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥
१६५. सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।
१६६. रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥
१६७. विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।
१६८. उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥
१६९. अथ समपनुदन् मनःक्लमं सा
१७०. सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।
१७१. वदनमुदितपूर्णचन्द्रकान्तम्
१७२. विमलशशाङ्कनिभानना तदानीम्॥
१७३. तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्।
१७४. हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥
१७५. एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।
१७६. पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम्॥
१७७. गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता ।
१७८. अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥
१७९. लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम्।
१८०. सफलं तस्य तच्छ्लाघ्यं महत् कर्म हनूमतः ॥
१८१. युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।
१८२. सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥
१८३. निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।
१८४. विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥
१८५. इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।
१८६. मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥
१८७. पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ।
१८८. प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥
१८९. स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेषितलोचनः ।
१९०. अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम्॥
१९१. विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः ।
१९२. स तीर्णः सुहृदां वीर्यात् न त्वदर्थं मया कृतः ॥
१९३. प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता ।
१९४. दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्॥
१९५. तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।
१९६. एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥
१९७. रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।
१९८. कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ॥
१९९. एवमुक्ता तु वैदेही परुषं रोमहर्षणम्।
२००. राघवेण सरोषेण भृशं प्रव्यथिताभवत् ॥
२०१. सा तदश्रुतपूर्वं हि जने महति मैथिली ।
२०२. श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् ॥
२०३. प्रविशन्त्येव गात्राणि स्वान्येव जनकात्मजा ।
२०४. वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥
२०५. ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम्।
२०६. शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥
२०७. किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्।
२०८. रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥
२०९. न तथास्मि महाबाहो यथा त्वमवगच्छसि ।
२१०. प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥
२११. यद्यहं गात्रसंस्पर्शात् गतास्मि विवशा प्रभो ।
२१२. कामकारो न मे तत्र दैवं तत्रापराध्यति ॥
२१३. मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते ।
२१४. पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥
२१५. सहसंवृद्धभावाच्च संसर्गेण च मानद ।
२१६. यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम्॥
२१७. प्रेषितस्ते यदा वीरो हनुमानवलोककः ।
२१८. लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ॥
२१९. प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम्।
२२०. त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥
२२१. न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्।
२२२. सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥
२२३. त्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।
२२४. लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्॥
२२५. अपदेशेन जनकात् नोत्पत्तिर्वसुधातलात् ।
२२६. मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्॥
२२७. न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
२२८. मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्॥
२२९. एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी ।
२३०. अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम्॥
२३१. अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।
२३२. या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्॥
२३३. एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।
२३४. अमर्षवशमापन्नो राघवाननमैक्षत ॥
२३५. स विज्ञाय ततश्छन्दं रामस्याकारसूचितम्।
२३६. चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥
२३७. अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम्।
२३८. उपासर्पत वैदेही दीप्यमानं हुताशनम्॥
२३९. प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
२४०. बद्धाञ्जलिपुटाचेदमुवाचाग्निसमीपतः ॥
२४१. यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
२४२. तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
२४३. यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
२४४. तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
२४५. कर्मणा मनसा वाचा यथा नातिचराम्यहम्।
२४६. राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥
२४७. एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्।
२४८. विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ॥
२४९. तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः ।
२५०. रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥
२५१. ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।
२५२. दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥
२५३. ततो सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ।
२५४. षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।
२५५. सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ।
२५६. एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
२५७. आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्॥
२५८. अब्रुवन्स्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्।
२५९. कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।
२६०. उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥
२६१. इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।
२६२. अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ॥
२६३. आत्मानं मानुषं मन्ये रामं दशरथात्मजम्।
२६४. योऽहं यस्य यतश्चाहं भगवान्स्तद् ब्रवीतु मे ॥
२६५. इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ।
२६६. अब्रवीच्छ्रुणु मे राम सत्यं सत्यपराक्रम ॥
२६७. भवान् नारायणो देवः श्रीमान् चक्रायुधो विभुः ।
२६८. सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः ।
२६९. वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्॥
२७०. एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्।
२७१. अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥
२७२. तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम्।
२७३. रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्।
२७४. ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥
२७५. अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ।
२७६. एषा ते राम वैदेही पापमस्यां न विद्यते ॥
२७७. नैव वाचा न मनसा नानुध्यानात् न चक्षुषा ।
२७८. सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ॥
२७९. विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव ॥
२८०. एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः ।
२८१. अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥
२८२. अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम्।
२८३. अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्॥
२८४. प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ।
२८५. उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्॥
२८६. विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।
२८७. न हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥
२८८. इतीदमुक्त्वा विदितं महाबलैः
२८९. प्रशस्यमानः स्वकृतेन कर्मणा ।
२९०. समेत्य रामः प्रियया महाबलः
२९१. सुखं सुखार्होऽनुबभूव राघवः ॥
२९२. एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्।
२९३. इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥
२९४. दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।
२९५. अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम्॥
२९६. एष राजा विमानस्थः पिता दशरथस्तव ।
२९७. इन्द्रलोकं गतः श्रीमान् त्वया पुत्रेण तारितः ।
२९८. लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥
२९९. महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः ।
३००. विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥
३०१. हर्षेण महताविष्टो विमानस्थो महीपतिः ।
३०२. प्राणैः प्रियतरं दृष्ट्वा ततो वाक्यं समाददे ॥
३०३. न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः ।
३०४. त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥
३०५. त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्।
३०६. अद्य दुःखात् विमुक्तोऽस्मि नीहारादिव भास्करः ॥
३०७. सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्।
३०८. वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥
३०९. सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गताम्।
३१०. जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम्॥
३११. कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ।
३१२. भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥
३१३. इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।
३१४. कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ।
३१५. सपुत्रा त्वां त्यजामीति यदुक्ता कैकयी त्वया ।
३१६. स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥
३१७. स तथेति महाराजो राममुक्त्वा कृताञ्जलिम्।
३१८. लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥
३१९. रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।
३२०. रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥
३२१. अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।
३२२. रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥
३२३. स तथोक्त्वा महाबाहुः लक्ष्मणं प्राञ्जलिं स्थितम्।
३२४. उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्॥
३२५. कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।
३२६. रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥
३२७. इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्।
३२८. इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥
३२९. प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः ।
३३०. अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्॥
३३१. अमोघं दर्शनं राम तवास्माकं परन्तप ।
३३२. प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥
३३३. एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।
३३४. लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥
३३५. यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर ।
३३६. वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥
३३७. मम हेतोः पराक्रान्ता ये गता यमसादनम्।
३३८. ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥
३३९. नीरुजो निर्व्रणान्श्चैव सम्पन्नबलपौरुषान् ।
३४०. गोलाङ्गूलान् तथैवर्क्षान् द्रष्टुमिच्छामि मानद ॥
३४१. अकाले चापि मुख्यानि मूलनि च फलानि च ।
३४२. नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥
३४३. श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।
३४४. महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्॥
३४५. महानयं वरस्तात त्वयोक्तो रघुनन्दन ।
३४६. द्विर्मया नोक्तपूर्वं हि तस्मादेतत् भविष्यति ॥
३४७. ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।
३४८. बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥
३४९. ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥
३५०. काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।
३५१. विमानैः सूर्यसङ्काशैः हृष्टा जग्मुः सुरा दिवम्॥