१. ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधं ।
२. आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥
३. स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्।
४. घोरमिन्द्रजितः सङ्ख्ये कश्मलं प्राविशन्महत् ॥
५. उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः ।
६. पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः ॥
७. हा राक्षसचमूमुख्य मम वत्स महाबल ।
८. जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥
९. अद्य वैवस्वतो राजा भूयो बहुमतो मम ।
१०. येनाद्य त्वं महाबाहो संयुक्तः कालचोदितः ॥
११. अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।
१२. एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥
१३. यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ।
१४. मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः ॥
१५. मम नाम त्वया वीर गतस्य यमसादनम्।
१६. प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥
१७. एवमादि विलापार्तं रावणं राक्षसाधिपम्।
१८. आविवेश महान् कोपः पुत्रव्यसनसम्भवः ॥
१९. तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च ।
२०. रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥
२१. दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः ।
२२. यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव ॥
२३. कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत ।
२४. तस्यां तस्यां भयत्रस्ता राक्षसा संविलिल्यिरे ॥
२५. प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ।
२६. दीनो दीनस्वरान् सर्वान्स्तानुवाच निशाचरान् ॥
२७. मायया मम वत्सेन वञ्चनार्थं वनौकसाम्।
२८. किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम्॥
२९. तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।
३०. वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्॥
३१. इत्येवमुक्त्वा सचिवान् भृशमाकुलचेतनः ।
३२. निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ।
३३. सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥
३४. मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।
३५. ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्॥
३६. तं निशम्य सनिस्त्रिंशं सुहृद्भिरनिवर्तिनं ।
३७. सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥
३८. बहुशश्चोदयामास भर्तारं मामनुव्रताम्।
३९. सोऽयं ममानुपस्थाने व्यक्तं मां हन्तुमुद्यतः ॥
४०. अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ।
४१. विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥
४२. हनूमतस्तु तद्वाक्यं न कृतं क्षुद्रया मया ।
४३. यद्यहं तस्य पृष्ठेन तदा यायामनिर्जिता ॥
४४. एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः ।
४५. सुपार्श्वो नाम मेधावी इदं वचनमब्रवीत् ॥
४६. कथं नाम दशग्रीव साक्षाद् वैश्रवणानुज ।
४७. स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर ॥
४८. त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ।
४९. अभ्युथानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्।
५०. कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥
५१. शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः ।
५२. हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्॥
५३. स तद् दुरात्मा सुहृदा निवेदितम्
५४. वचः सुधर्म्यं प्रतिगृह्य रावणः ।
५५. गृहं जगामाथ ततश्च वीर्यवान्
५६. पुनः सभां च प्रययौ सुहृद्वृतः ॥
५७. स प्रविश्य सभां राजा दीनः परमदुःखितः ।
५८. निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥
५९. अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः ॥
६०. सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ।
६१. निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः ॥
६२. इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः ।
६३. निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः ॥
६४. परिघान् पट्टिशान्श्चैव शरखड्गपरश्वधान् ।
६५. शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥
६६. वानराश्च द्रुमान्शैलान् राक्षसान् प्रति चिक्षिपुः ॥
६७. स सङ्ग्रामो महाभीमः सूर्यस्योदयनं प्रति ।
६८. रक्षसां वानराणां च तुमुलः समपद्यत ॥
६९. एवं प्रवृत्ते सङ्ग्रामे ह्यद्भुतं सुमहद्रजः ।
७०. रक्षसां वानराणां च शान्तं शोणितविस्रवैः ॥
७१. एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः ।
७२. अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥
७३. तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः ।
७४. निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः ॥
७५. राक्षसैर्वध्यमानानां वानराणां महाचमूः ।
७६. शरण्यं शरणं याताः रामं दशरथात्मजम्॥
७७. ततो रामो महातेजा धनुरादाय वीर्यवान् ।
७८. प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥
७९. चालयन्तं महासैन्यं विधमन्तं महारथान् ।
८०. ददृशुस्ते न वै रामं वातं वनगतं यथा ॥
८१. एष हन्ति गजानीकमेष हन्ति महारथान् ।
८२. एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह ॥
८३. इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे ।
८४. अन्योन्यं कुपिता जघ्नुः सादृश्यात् राघवस्य तु ॥
८५. न ते ददृशिरे रामं दहन्तमरिवाहिनीम्।
८६. मोहिताः परमास्त्रेण गान्धर्वेण महात्मनाम्॥
८७. ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः ।
८८. पुनः पश्यन्ति काकुत्स्थं एक एव महाहवे ॥
८९. शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम्।
९०. ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्।
९१. दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ।
९२. ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः ॥
९३. पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्।
९४. दिवसस्याष्टभागेन शरैरग्निशिखोपमैः ।
९५. हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥
९६. ते हताश्वा हतरथाः शान्ता विमथितध्वजाः ।
९७. अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥
९८. राक्षसानां सहस्राणि गदापरिघयोधिनाम्।
९९. रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ।
१००. निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः ।
१०१. दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः ॥
१०२. राक्षस्यः सह सङ्गम्य दीनाश्चिन्तापरिप्लुताः ।
१०३. विधवा हतपुत्राश्च दुःखार्ताः पर्यदेवयन् ॥
१०४. आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
१०५. रावणः करुणं शब्दं शुश्राव परिदेवितम्॥
१०६. स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः ।
१०७. उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ॥
१०८. अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
१०९. राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥
११०. नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः ।
१११. प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥
११२. सशरैरद्य वदनैः संख्ये वानरयूथपाः ।
११३. मन्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥
११४. अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः ।
११५. करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्॥
११६. द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्।
११७. आरुरोह तदा भीमं दीप्यमानं स्वतेजसा ॥
११८. ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
११९. रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्॥
१२०. ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।
१२१. द्विजाश्च नेदुर्घोराश्च सञ्चचाल च मेदिनी ॥
१२२. एतानचिन्तयन् घोरानुत्पातान् समवस्थितान् ।
१२३. निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः ॥
१२४. ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
१२५. वानराणामनीकेषु चकार कदनं महत् ॥
१२६. निकृत्तशिरसः केचित् रावणेन वलीमुखाः ।
१२७. केचिद्विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः ॥
१२८. प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।
१२९. सम्ययौ समरे तस्मिन् विधमन् रावणः शरैः ॥
१३०. कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।
१३१. आससाद ततो युद्धे त्वरितं राघवं रणे ॥
१३२. स ददर्श ततो रामं तिष्ठन्तमपराजितम्।
१३३. आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥
१३४. स राघवं समासाद्य क्रोधसंरक्तलोचनः ।
१३५. व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः ॥
१३६. तान्शरौघान्स्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ॥
१३७. राघवो रावणं तूर्णं रावणो राघवं तथा ।
१३८. अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः ॥
१३९. गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।
१४०. महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥
१४१. भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः।
१४२. न समं युद्धमित्याहुर्देवगन्धर्वकिन्नराः ॥
१४३. ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ।
१४४. सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ।
१४५. रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः ।
१४६. देवराजेन सन्दिष्टो रथमारुह्य मातलिः ।
१४७. अभ्यवर्तत काकुस्थमवतीर्य त्रिविष्टपात् ॥
१४८. अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः ।
१४९. प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥
१५०. सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
१५१. दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण ॥
१५२. इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम्।
१५३. शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिवा ॥
१५४. आरुह्येमं रथं वीर राक्षसं जहि रावणम्।
१५५. मया सारथिना देव महेन्द्र इव दानवान् ॥
१५६. इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च ।
१५७. आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ॥
१५८. तद्बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्।
१५९. रामस्य च महाबाहो रावणस्य च रक्षसः ॥
१६०. स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः ।
१६१. अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥
१६२. ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।
१६३. उवाच रावणं वीरः प्रहस्य परुषं वचः ॥
१६४. मया विरहितां दीनां वर्तमानां महावने ।
१६५. वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥
१६६. स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।
१६७. कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥
१६८. यदि मत्सन्निधौ सीता धर्षिता स्यात् त्वया बलात् ।
१६९. भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥
१७०. अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्।
१७१. क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥
१७२. अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।
१७३. कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥
१७४. इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः ।
१७५. राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥
१७६. बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।
१७७. रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः ॥
१७८. प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।
१७९. प्रहर्षाच्च महातेजा शीघ्रहस्ततरोऽभवत् ॥
१८०. हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।
१८१. हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥
१८२. यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम्।
१८३. नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना ।
१८४. सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्।
१८५. शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत् ॥
१८६. स तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।
१८७. क्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥
१८८. किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।
१८९. त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ॥
१९०. त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्।
१९१. यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥
१९२. यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते ।
१९३. सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥
१९४. न हि तद् विद्यते कर्म सुहृदो हितकांक्षिणः ।
१९५. रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्॥
१९६. निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।
१९७. यदि वाध्युषितोऽसि त्वं स्मर्यन्ते यदि मे गुणाः ॥
१९८. एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।
१९९. अब्रवीद् रावणं सूतो हितं सानुनयं वचः ॥
२००. न भीतोऽस्मि न मूढोऽस्मि नोऽपजप्तोऽस्मि शत्रुभिः ।
२०१. न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥
२०२. मया तु हितकामेन यशश्च परिरक्षता ।
२०३. स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्॥
२०४. श्रमं तवावगच्छामि महता रणकर्मणा ।
२०५. न हि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये ॥
२०६. रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः ।
२०७. दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥
२०८. तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्।
२०९. स्वेच्छया न मया वीर रथोऽयमपवाहितः ॥
२१०. आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।
२११. तत् करिष्याम्यहं वीर गतानृण्येन चेतसा ॥
२१२. सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।
२१३. प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥
२१४. रथं शीघ्रमिमं सूत राघवाभिमुखं नय ।
२१५. नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥
२१६. एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः ।
२१७. ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्॥
२१८. श्रुत्वा रावणवाक्यानि सारथिः सन्न्यवर्तत ।
२१९. रावणस्य रथं क्षिप्रं चोदयामास (रंहसा ) ॥
२२०. तमापतन्तं सहसा स्वनवन्तं महाध्वजम्।
२२१. रथं राक्षसराजस्य नरराजो ददर्श ह ॥
२२२. स दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।
२२३. विस्फारयन् वै वेगेन बालचन्द्राननं धनुः ।
२२४. उवाच मातलिं रामः सहस्राक्षस्य सारथिम्॥
२२५. मातले पश्य संरब्धमापतन्तं रथं रिपोः ।
२२६. तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः ॥
२२७. अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्।
२२८. रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम्॥
२२९. कामं न त्वं समाधेयः पुरन्दररथोचितः ।
२३०. युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥
२३१. परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
२३२. अपसव्यं ततः कुर्वन् रावणस्य महारथम्।
२३३. चक्रसम्भूतरजसा रावणं व्यवधूनयत् ॥
२३४. ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।
२३५. रथप्रतिमुखं रामं सायकैरवधूनयत् ॥
२३६. धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।
२३७. जग्राह सुमहावेगमैन्द्रं युधि शरासनम्॥
२३८. ततो देवास्सगन्धर्वाः देवाश्च परमर्षयः ।
२३९. समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः ॥
२४०. समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
२४१. रावणस्य विनाशाय राघवस्योदयाय च ॥
२४२. महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले ।
२४३. येन येन रथो याति तेन तेन प्रधावति ॥
२४४. सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।
२४५. दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा ॥
२४६. प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन् ।
२४७. तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्॥
२४८. एवंप्रकारा बहवः समुत्पाता भयावहाः ।
२४९. रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ॥
२५०. रामस्यापि निमित्तानि सौम्यानि च शिवानि च ।
२५१. बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥
२५२. तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ ।
२५३. कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥
२५४. ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता ।
२५५. शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्॥
२५६. नानिमित्तोऽभवद् बाणो नातिभेत्ता न निष्फलः ।
२५७. अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ॥
२५८. तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ।
२५९. प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्॥
२६०. चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्॥
२६१. रावणस्य हयान् रामो हयान् रामस्य रावणः ।
२६२. जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ ॥
२६३. तौ तथा युध्यमानौ तु समरे रामरावणौ ।
२६४. ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥
२६५. रक्षसां रावणं चापि वानराणां च राघवम्।
२६६. पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥
२६७. नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्।
२६८. रामरावणयोर्युद्धं विराममुपगच्छति ॥
२६९. गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्।
२७०. गगनं गगनाकारं सागरः सागरोपमः ।
२७१. रामरावणयोर्युद्धं रामरावणयोरिव ।
२७२. एवं ब्रुवन्तो ददृशुः तद् युद्धं रामरावणम्॥
२७३. ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः ।
२७४. सन्धाय धनुषा रामः शरमाशीविषोपमम्।
२७५. रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुन्डलम्॥
२७६. तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ।
२७७. तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः ॥
२७८. तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ।
२७९. द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ॥
२८०. छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते ।
२८१. तदप्यशनिसङ्काशैश्छिन्नं रामस्य सायकैः ॥
२८२. एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्।
२८३. न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥
२८४. ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः ।
२८५. मार्गणैर्बहुभिर्युक्तैश्चिन्तयामास राघवः ॥
२८६. मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।
२८७. क्रौञ्चावटे विराधस्तु कबन्धो दन्डकावने ।
२८८. यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ।
२८९. त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ।
२९०. किं नु तत् कारणं येन रावणे मन्दतेजसः ॥
२९१. अथ संस्मारयामास मातली राघवं तदा ।
२९२. अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥
२९३. विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।
२९४. विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥
२९५. ततः संस्मारितो रामस्तेन वाक्येन मालतेः ।
२९६. जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥
२९७. यं तस्मै प्रथमं प्रादातगस्त्यो भगवान् ऋषिः ।
२९८. ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान् ॥
२९९. यस्य वाजेषु पवनः फले पावकभास्करौ ।
३००. शरीरमाकाशमयं गौरवे मेरुमन्दरौ ।
३०१. जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्।
३०२. वज्रसारं महानादं नानासमितिदारुणम्।
३०३. सर्ववित्रासनं भीमं यमरूपं भयावहम्।
३०४. अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।
३०५. वेदप्रोक्तेन विधिना सन्दधे कार्मुकी बली ॥
३०६. तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे ।
३०७. सर्वभूतानि सन्त्रेसुश्चचाल च वसुन्धरा ॥
३०८. स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम्।
३०९. चिक्षेप परमायत्तः शरं मर्मविदारणम्॥
३१०. स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।
३११. कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥
३१२. स विसृष्टो महावेगः शरीरान्तकरः परः ।
३१३. बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥
३१४. स शरो रावणं हत्वा रुधिरार्द्रीकृतच्छविः ।
३१५. कृतकर्मा निभृतवत् स्वतूणीं पुनराविशत् ॥
३१६. गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः ।
३१७. पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥
३१८. तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।
३१९. हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥
३२०. ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।
३२१. वदन्तो राघवजयं रावणस्य च तद्वधम्॥
३२२. अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ।
३२३. दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥
३२४. निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।
३२५. किरन्ती राघवरथं दुरावापा मनोहरा ॥
३२६. ततस्तु सुग्रीवविभीषणाङ्गदाः
३२७. सुहृद्विशिष्टाः सहलक्ष्मणास्तदा ।
३२८. समेत्य हृष्टा विजयेन राघवम्
३२९. रणेऽभिरामं विधिनाभ्यपूजयन् ॥
३३०. भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम्।
३३१. शोकवेगपरीतात्मा विललाप विभीषणः ॥
३३२. वीर विक्रान्त विख्यात विनीत नयकोविद ।
३३३. महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥
३३४. गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
३३५. गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता ॥
३३६. आदित्यः पतितो भूमौ मग्नः तमसि चन्द्रमाः ।
३३७. चित्रभानुः प्रशान्तार्चिः व्यवसायो निरुद्यमः ।
३३८. अस्मिन् निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥
३३९. धृतिप्रवालः प्रसहाग्र्यपुष्पः
३४०. तपोबलः शौर्यनिबद्धमूलः ।
३४१. रणे महान् राक्षसराजवृक्षः
३४२. सम्मर्दितो राघवमारुतेन ॥
३४३. तेजोविषाणः कुलवंशवंशः
३४४. कोपप्रसादापरगात्रहस्तः ।
३४५. इक्ष्वाकुसिंहावगृहीतदेहः
३४६. सुप्तः क्षितौ रावणगन्धहस्ती ॥
३४७. पराक्रमोत्साहविजृम्भितार्चिः
३४८. निश्वासधूमः स्वबलप्रतापः ।
३४९. प्रतापवान् संयति राक्षसाग्निः
३५०. निर्वापितो रामपयोधरेण ॥
३५१. वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम्।
३५२. रामः शोकसमाविष्टमित्युवाच विभीषणम्॥
३५३. नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
३५४. वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥
३५५. येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता ।
३५६. तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्॥
३५७. नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
३५८. परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे ॥
३५९. इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता ।
३६०. क्षत्रियो निहतः सङ्ख्ये न शोच्य इति निश्चयः ॥
३६१. तदेव निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
३६२. यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥
३६३. तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
३६४. उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम्॥
३६५. अनेन दत्तानि सुपूजितानि
३६६. भुक्ताश्च भोगा निभृताश्च भृत्याः ।
३६७. धनानि मित्रेषु समर्पितानि
३६८. वैराण्यमित्रेष्वपि यापितानि ॥
३६९. एषोऽहिताग्निश्च महातपाश्च
३७०. वेदान्तगः कर्मसु चाग्र्यवीर्यः ।
३७१. एतस्य यत् प्रेतगतस्य कृत्यम्
३७२. तत्कर्तुमिच्छामि तव प्रसादात् ॥
३७३. स तस्य वाक्यैः करुणैर्महात्मा
३७४. सम्बोधितः साधु विभीषणेन ।
३७५. आज्ञापयामास नरेन्द्रसूनुः
३७६. स्वर्गीयमाधानमदीनसत्त्वः ॥
३७७. मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।
३७८. क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥
३७९. रावणं निहतं श्रुत्वा राघवेण महात्मना ।
३८०. अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः ॥
३८१. ददृशुस्तं महावीर्यं महाकायं महाद्युतिम्।
३८२. रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥
३८३. ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।
३८४. निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव ॥
३८५. बहुमानात् परिष्वज्य काचिदेनं रुरोद ह ।
३८६. चरणौ काचिदालिङ्ग्य काचित् कण्ठेऽवलम्ब्य च ॥
३८७. काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।
३८८. स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥
३८९. एवमार्ता पतिं दृष्ट्वा रावणं निहतं भुवि ।
३९०. चुक्रुशुः बहुधा शोकात् भूयस्ता पर्यदेवयन् ॥
३९१. अशृण्वतां च सुहृदां सततं हितवादिनाम्।
३९२. मरणायाहृता सीता घातिताश्च निशाचराः ॥
३९३. यदि निर्यातिता ते स्यात् सीता रामाय मैथिली ।
३९४. न नः स्यात् व्यसनं घोरमिदं मूलहरं महत् ॥
३९५. वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत् ।
३९६. वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥
३९७. न कामकारः कामं वा तव राक्षसपुङ्गव ।
३९८. दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥
३९९. विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।
४००. कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥
४०१. तासां विलपमानानां तथा राक्षसयोषिताम्।
४०२. ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥
४०३. दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।
४०४. पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥
४०५. हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ।
४०६. त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥
४०७. ननु नाम तवोद्वेगात् चारणाश्च दिशो गताः ।
४०८. स त्वं मानुषमात्रेण रामेण युधि निर्जितः ॥
४०९. यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः ।
४१०. खरस्तव हतो भ्राता तदेवासौ न मानुषः ॥
४११. यदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे ।
४१२. तदैव हृदयेनाहं शङ्के रामममानुषम्॥
४१३. व्यक्तमेष महायोगी परमात्मा सनातनः ।
४१४. अनादिमध्यनिधनो महतः परमो महान् ॥
४१५. तमसः परमो धाता शङ्खचक्रगदाधरः ।
४१६. श्रीवत्सवक्षा नित्यश्रीः अजय्यः शाश्वतो ध्रुवः ॥
४१७. मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ।
४१८. सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥
४१९. सर्वलोकेश्वरः साक्षात् लोकानां हितकाम्यया ।
४२०. सराक्षसपरीवारं हतवान्स्त्वां महाद्युतिः ॥
४२१. इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
४२२. स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥
४२३. क्रियतामविरोधश्च राघवेणेति यन्मया ।
४२४. उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥
४२५. वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम्।
४२६. सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्।
४२७. आनयित्वा तु तां दीनां छद्मनात्मस्वदूषण ।
४२८. पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥
४२९. शुभकृत् शुभमाप्नोति पापकृत् पापमश्नुते ।
४३०. विभीषणः सुखं प्राप्तः त्वं प्राप्तः पापमीदृशम्॥
४३१. न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।
४३२. मयाधिका वा तुल्या वा त्वं तु मोहान्न बुद्ध्यसे ॥
४३३. हा राज सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम्।
४३४. कान्तिश्रीद्युतिभिस्तुल्यं इन्दुपद्मदिवाकरैः ॥
४३५. किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्।
४३६. विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्।
४३७. तदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो ॥
४३८. हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी ।
४३९. या मयासीन्न सम्बुद्धा कदाचिदपि मन्दया ॥
४४०. पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ।
४४१. पुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम्॥
४४२. त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ।
४४३. जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ।
४४४. दृप्तानां निगृहीतारं आविष्कृतपराक्रमम्।
४४५. स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम्।
४४६. अस्माकं कामभोगानां दातारं रथिनां वरम्।
४४७. एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्।
४४८. स्थिरास्मि या देहमिमं धारयामि हतप्रिया ॥
४४९. प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम्।
४५०. नय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥
४५१. दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम्।
४५२. निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो ॥
४५३. उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
४५४. अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥
४५५. प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम्।
४५६. अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्॥
४५७. इत्येवं विलपन्त्येव बाष्पव्याकुललोचना ।
४५८. स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥
४५९. तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः ।
४६०. पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम्॥
४६१. एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ।
४६२. संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥
४६३. तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।
४६४. रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥
४६५. त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ।
४६६. नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम्॥
४६७. भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ।
४६८. रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ॥
४६९. तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ।
४७०. विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम्॥
४७१. अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ।
४७२. तेजस्वी बलवान् शूरो संयुगेषु च नित्यशः ॥
४७३. त्वत्सकाशात् दशग्रीवः संस्कारं विधिपूर्वकम्।
४७४. प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि ॥
४७५. राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।
४७६. संस्कारेणानुरूपेण योजयामास रावणम्॥
४७७. ददौ च पावकं तस्य विधियुक्तं विभीषणः ।
४७८. प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ।
४७९. गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥
४८०. प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।
४८१. रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ॥