१. श्रुत्वा विनिहतं सङ्ख्ये कुम्भकर्णं महाबलम्।
२. रावणः शोकसन्तप्तो मुमोह च पपात च ॥
३. ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः ।
४. कुम्भकर्णवधाद् दीनो विललापाकुलेन्द्रियः ॥
५. हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।
६. शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि ॥
७. यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा ।
८. स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥
९. राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।
१०. कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः ॥
११. यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।
१२. ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्॥
१३. तदिदं मामनुप्राप्तं विभीषणवचः शुभम्।
१४. यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥
१५. तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।
१६. यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥
१७. प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।
१८. तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः ॥
१९. यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ।
२०. मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वपन्नगैः ॥
२१. तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।
२२. शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ॥
२३. ये योधा निर्गताः शूरा राक्षसा मम शासनात् ।
२४. ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ॥
२५. तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्।
२६. नाशयेत् सबलं वीरं ससुग्रीवं विभीषणम्॥
२७. अहो सुबलवान् रामो महदस्त्रबलं च वै ॥
२८. यस्य विक्रममासाद्य राक्षसा निधनं गताः ।
२९. तं मन्ये राघवं वीरं नारायणमनामयम्॥
३०. ततस्तु राजानमुदीक्ष्य दीनम्
३१. शोकार्णवे सम्परिपुप्लुवानम्।
३२. रथर्षभो राक्षसराजसूनु-
३३. स्तमिन्द्रजिद् वाक्यमिदं बभाषे ॥
३४. न तात मोहं परिगन्तुमर्हसे
३५. यत्रेन्द्रजिज्जीवति नैरृतेश ।
३६. अद्यैव रामं सह लक्ष्मणेन
३७. सन्तर्पयिष्यामि शरैरमोघैः ॥
३८. अद्येन्द्रवैवस्वतविष्णुरुद्र-
३९. साध्याश्च वैश्वानरचन्द्रसूर्याः ।
४०. द्रक्ष्यन्ति मे विक्रममप्रमेयम्
४१. विष्नोरिवोग्रं बलियज्ञवाटे ॥
४२. स एवमुक्त्वा त्रिदशेन्द्रशत्रु-
४३. रापृच्छ्य राजानमदीनसत्त्वः ।
४४. समारुरोहानिलतुल्यवेगम्
४५. रथं खरश्रेष्ठसमाधियुक्तम्॥
४६. समास्थाय महातेजा रथं हरिरथोपमम्।
४७. जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥
४८. तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।
४९. प्रासपट्टिशनिस्त्रिंशपरश्वधगदाधराः ।
५०. भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधाः ॥
५१. स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः ।
५२. स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥
५३. ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।
५४. जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः ॥
५५. सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः ।
५६. धनुश्चात्मरथम्चैव सर्वं तत्राभ्यमन्त्रयत् ॥
५७. तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ।
५८. सार्कग्रहेन्दुनक्षत्रं वितत्रास नभस्थलम्॥
५९. स पावकं पावकदीप्ततेजा
६०. हुत्वा नरेन्द्रप्रतिमप्रभावः ।
६१. सचापबाणासिरथाश्वसूतः
६२. खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः ॥
६३. स्वसैन्यमुत्सृज्य समेत्य तूर्णम्
६४. महाहवे वानरवाहिनीषु ।
६५. अदृश्यमानः शरजालमुग्रम्
६६. ववर्ष नीलाम्बुधरो यथाम्बु ॥
६७. ते शक्रजिद्बाणविशीर्णदेहा
६८. मायाहता विस्वरमुन्नदन्तः ।
६९. रणे निपेतुर्हरयोऽद्रिकल्पा
७०. यथेन्द्रवज्राभिहता नगेन्द्राः ॥
७१. स वै गदाभिर्हरियूथमुख्यान्
७२. निर्भिद्य बाणैस्तपनीयवर्णैः ।
७३. ववर्ष रामं शरवृष्टिजालैः
७४. सलक्ष्मणं भास्कररश्मिकल्पैः ॥
७५. स बाणवर्षैरभिवर्षमाणो
७६. धारानिपातानिव तानचिन्त्य ।
७७. समीक्षमाणः परमाद्भुतश्री
७८. रामस्तदा लक्ष्मणमित्युवाच ॥
७९. असौ पुनर्लक्ष्मण राक्षसेन्द्रो
८०. ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।
८१. निपातयित्वा हरिसैन्यमस्मा-
८२. न्शितैः शरैरर्दयति प्रसक्तम्॥
८३. स्वयम्भुवा दत्तवरो महात्मा
८४. समाहितोऽन्तर्हितभीमकायः ।
८५. बाणावपातं त्वमिहाद्य धीमन्
८६. मया सहाव्यग्रमनाः सहस्व ॥
८७. आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ
८८. निवृत्तयुद्धौ हतहर्षरोषौ ।
८९. ध्रुवं प्रवेक्ष्यत्यमरारिवास-
९०. मसौ समासाद्य रणाग्र्यलक्ष्मीम्॥
९१. ततस्तु ताविन्द्रजितोऽस्त्रजालै-
९२. र्बभूवतुस्तत्र तदाविशस्तौ ।
९३. स चापि तौ तत्र विषादयित्वा
९४. ननाद हर्षाद् युधि राक्षसेन्द्रः ॥
९५. रामं च सङ्ख्ये सह लक्ष्मणेन
९६. विषादयित्वा सहसा विवेश ।
९७. पुरीं दशग्रीवभुजाभिगुप्ताम्
९८. पित्रे च सर्वं हृषितोऽभ्युवाच ॥
९९. तयोस्तदा सादितयो रणाग्रे
१००. मुमोह सैन्यं हरियूथपानाम्।
१०१. सुग्रीवनीलाङ्गदजाम्बवन्तो
१०२. न चापि किञ्चित् प्रतिपेदिरे ते ॥
१०३. ततो विषण्णं समवेक्ष्य सर्वम्
१०४. विभीषणो बुद्धिमतां वरिष्ठः ।
१०५. उवाच शाखामृगराजवीरा-
१०६. न्नाश्वासयन्नप्रतिमैर्वचोभिः ॥
१०७. मा भैष्ट नास्त्यत्र विषाद कालो
१०८. यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
१०९. स्वयम्भुवो वाक्यमथोद्वहन्तौ
११०. यत्सादिताविन्द्रजितास्त्रजालैः ॥
१११. ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः ।
११२. विभीषणवचः श्रुत्वा हनुमानिदमब्रवीत् ॥
११३. अस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम्।
११४. यो यो धारयते प्राणान्स्तन्स्तमाश्वासयावहे ॥
११५. तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ ।
११६. उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥
११७. सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।
११८. मार्गते जाम्बवन्तं च हनूमान् सविभीषणः ॥
११९. स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।
१२०. प्रजापतिसुतं वीरं शाम्यन्तमिव पावकं ।
१२१. दृष्ट्वा समभिसङ्क्रम्य पौलस्त्यो वाक्यमब्रवीत् ॥
१२२. कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥
१२३. विभीषणवचः श्रुत्वा जाम्बवान् ऋक्षपुङ्गवः ।
१२४. कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥
१२५. नैरृतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये ।
१२६. विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥
१२७. अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत ।
१२८. हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥
१२९. श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।
१३०. आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम्॥
१३१. विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् ।
१३२. अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्।
१३३. हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम्॥
१३४. ततो वृद्धमुपागम्य विनयेनाभ्यवादयत् ।
१३५. गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः ॥
१३६. श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः ।
१३७. पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥
१३८. ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।
१३९. आगच्छ हरिशार्दूल वानरान्स्त्रातुमर्हसि ।
१४०. त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥
१४१. विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ।
१४२. हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि ॥
१४३. कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन ।
१४४. तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।
१४५. सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम्॥
१४६. तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः ।
१४७. द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ॥
१४८. मृतसञ्जीवनीं चैव विशल्यकरणीमपि ।
१४९. सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ।
१५०. ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि ॥
१५१. श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः ।
१५२. आपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः ॥
१५३. स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।
१५४. हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥
१५५. हरिपादविनिर्भग्नो निषसाद स पर्वतः ।
१५६. न शशाक तदात्मानं वोढुं भृशनिपीडितः ॥
१५७. सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।
१५८. लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥
१५९. आदित्यपथमाश्रित्य जगाम स गतश्रमः ।
१६०. स्मरञ्जाम्बवतो वाक्यं हिमवन्तं महाकपिः ॥
१६१. स तं समासाद्य महानगेन्द्र-
१६२. मतिप्रवृद्धोत्तमहेमशृङ्गम्।
१६३. प्रदीप्तसर्वौषधिसम्प्रदीप्तम्
१६४. ददर्श सर्वौषधिपर्वतेन्द्रम्॥
१६५. महौषध्यस्ततस्सर्वास्तस्मिन् पर्वतसत्तमे ।
१६६. विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्॥
१६७. स ता महात्मा हनुमानपश्यन्-
१६८. श्चुकोप रोषाच्च भृशं ननाद ।
१६९. अमृष्यमाणोऽग्निसमानचक्षु-
१७०. र्महीधरेन्द्रं तमुवाच वाक्यम्॥
१७१. किमेतदेवं सुविनिश्चितं ते
१७२. यद्राघवे नासि कृतानुकंपः ।
१७३. पश्याद्य मद्बाहुबलाभिभूतो
१७४. विकीर्णमात्मानमथो नगेन्द्र ॥
१७५. स तस्य शृङ्गं सनगं सनागम्
१७६. सकाञ्चनं धातुसहस्रजुष्टम्।
१७७. विकीर्णकूटं ज्वलिताग्रसानुम्
१७८. प्रगृह्य वेगात् सहसोन्ममाथ ॥
१७९. स भास्कराध्वानमनुप्रपन्न-
१८०. स्तं भास्कराभं शिखरं प्रगृह्य ।
१८१. बभौ तदा भास्करसन्निकाशो
१८२. रवेः समीपे प्रतिभास्कराभः ॥
१८३. तं वानराः प्रेक्ष्य तदाविनेदुः
१८४. स तानपि प्रेक्ष्य मुदा ननाद ।
१८५. ततो महात्मा निपपात तस्मिन्-
१८६. शैलोत्तमे वानरसैन्यमध्ये ॥
१८७. हर्युत्तमेभ्यः शिरसाभिवाद्य
१८८. विभीषणं तत्र च सस्वजे सः ॥
१८९. तावप्युभौ मानुषराजपुत्रौ
१९०. तं गन्धमाघ्राय महौषधीनाम्।
१९१. बभूवतुस्तत्र तदा विशल्या-
१९२. वुत्तस्थुरन्येऽपि हरिप्रवीराः ॥
१९३. सर्वे विशल्या विरुजा क्षणेन
१९४. हरिप्रवीराश्च हताश्च ये स्युः ।
१९५. गन्धेन तासां प्रवरौषधीनाम्
१९६. सुप्ता निशान्तेष्विव सुप्रबुद्धाः ॥
१९७. यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः ।
१९८. तदा प्रभृति मानार्थमाज्ञया रावणस्य च ।
१९९. ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।
२००. हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥
२०१. ततो हरिर्गन्धवहात्मजस्तु
२०२. तमोषधीशैलमुदग्रवेगः ।
२०३. निनाय वेगाद्धिमवन्तमेव
२०४. पुनश्च रामेण समाजगाम ॥
२०५. ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः ।
२०६. अर्थ्यं विज्ञापयन्श्चापि हनूमन्तमिदं वचः ॥
२०७. ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः ।
२०८. लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥
२०९. ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे ।
२१०. लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥
२११. गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ।
२१२. प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्॥
२१३. तेषां गृहसहस्राणि ददाह हुतभुक् तदा ।
२१४. प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥
२१५. अगुरुर्दह्यते तत्र परं चैव सुचन्दनम्।
२१६. क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम्॥
२१७. हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम्।
२१८. सीधुपानचलाक्षाणां मदविह्वलगामिनाम्।
२१९. कान्तालम्बितवस्त्राणां खादतां पिबतामपि ।
२२०. शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।
२२१. त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।
२२२. अदहत् पावकस्तत्र जज्वाल च पुनः पुनः ॥
२२३. ज्वलनेन परीतानि तोरणानि चकाशिरे ।
२२४. विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥
२२५. हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।
२२६. बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥
२२७. अश्वं मुक्तं गजो दृष्ट्वा क्वचिद् भीतोऽपसर्पति ।
२२८. भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥
२२९. लङ्कायां दह्यमानायां शुशुभे च महोदधिः ।
२३०. छायासंसक्तसलिलो लोहितोद इवार्णवः ॥
२३१. चन्द्राभा भूषणाभा च गृहाणां ज्वलतां च भा ।
२३२. हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥
२३३. तेषु वानरमुख्येषु दीप्तोल्कोज्वलपाणिषु ।
२३४. स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥
२३५. रोषेण महताविष्टो दन्तान् कटकटापयन् ।
२३६. कुपितश्च तदा तत्र किङ्कार्यमिति चिन्तयन् ।
२३७. आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम्॥
२३८. जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।
२३९. अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥
२४०. तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।
२४१. यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ॥
२४२. सोऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः ।
२४३. आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः ॥
२४४. स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।
२४५. सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥
२४६. स तु वैहायसरथो युधि तौ रामलक्ष्मणौ ।
२४७. अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः ॥
२४८. तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः ।
२४९. बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥
२५०. तेन विद्धाश्च हरयो निहताश्च गतासवः ।
२५१. बभूवुः शतशस्तत्र पतिता धरणीतले ॥
२५२. लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
२५३. ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वराक्षसाम्॥
२५४. तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्।
२५५. नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥
२५६. अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।
२५७. पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि ॥
२५८. तस्यैव तु वधे यत्नं करिष्यामि महाभुज ॥
२५९. यद्येष भूमिं विशते दिवं वा
२६०. रसातलं वापि नभस्तलं वा ।
२६१. एवं विगूढोऽपि ममास्त्रदग्धः
२६२. पतिष्यते भूमितले गतासुः ॥
२६३. इत्येवमुक्त्वा वचनं महार्थम्
२६४. रघुप्रवीरः प्लवगर्षभैर्वृतः ।
२६५. वधाय रौद्रस्य नृशंसकर्मण-
२६६. स्तदा महात्मा त्वरितं निरीक्षते ॥
२६७. इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
२६८. रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥
२६९. इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा ।
२७०. मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।
२७१. हन्तुं (ताम्) स व्यवसितो वानराभिमुखो ययौ ॥
२७२. तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः ।
२७३. क्रोशन्तीं रामरामेति मायया योजितां रथे ॥
२७४. गृहीतमूर्धजां दृष्ट्वा रामस्य महिषीं प्रियाम्।
२७५. दुःखजं वारि नेत्राभ्यामुत्सृजन् मारुतात्मजः ।
२७६. अब्रवीत् परुषं वाक्यं क्रोधात् रक्षोधिपात्मजम्॥
२७७. धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ।
२७८. किं तवैषापराद्धा हि यदेनां हन्तुमर्हसि ॥
२७९. स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्।
२८०. हनूमन्तं हरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह ॥
२८१. सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ।
२८२. तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः ॥
२८३. तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम्।
२८४. शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम्॥
२८५. तथा तु सीतां विनिहत्य दुर्मतिः
२८६. प्रहृष्टचेताः स बभूव रावणिः ।
२८७. तं हृष्टरूपं समुदीक्ष्य वानरा
२८८. विषण्णरूपाः समभिप्रदुद्रुवुः ॥
२८९. त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रियचिकीर्षवः ।
२९०. यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ॥
२९१. इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।
२९२. तौ यत् प्रतिविधास्येते तौ करिष्यामहे वयम्॥
२९३. इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् ।
२९४. शनैः शनैरसन्त्रस्तो सबलः सन्न्यवर्तत ॥
२९५. ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ।
२९६. स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम्॥
२९८. (हनूमान्) सह सैन्येन सन्निकर्षं महायशाः ।
२९९. शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥
३००. समरे युध्यमानानामस्माकं प्रेक्षतां च सः ।
३०१. जघान रुदतीं सीतामिन्द्रजिद् रावणात्मजः ॥
३०२. तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः ।
३०३. निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥
३०४. तं भूमौ देवसङ्काशं पतितं दृश्य राघवम्।
३०५. अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥
३०६. आसिञ्चन् सलिलैश्चेनं पद्मोत्पलसुगन्धिभिः ॥
३०७. तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः ।
३०८. उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम्॥
३०९. शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्।
३१०. अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥
३११. मम चेदं मतं तात धर्मोऽयमिति राघव ।
३१२. धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता त्वया ॥
३१३. यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
३१४. यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पन्डितः ॥
३१५. यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।
३१६. यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥
३१७. हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।
३१८. अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥
३१९. त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते ।
३२०. रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥
३२१. तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्।
३२२. कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥
३२३. उत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत ।
३२४. किमात्मानं महात्मानमात्मानं नावबुद्ध्यसे ॥
३२६. राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले ।
३२७. निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ॥
३२८. राघवं स महात्मानमिक्ष्वाकुकुलनन्दनम्।
३२९. ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥
३३०. व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः ।
३३१. पुष्कलार्थमिदं वाक्यं विसञ्ज्ञं राममब्रवीत् ॥
३३२. अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।
३३३. सीतां प्रति महाबाहो न च घातं करिष्यति ॥
३३४. वानरान् मोहयित्वा तु प्रतियातः स राक्षसः ।
३३५. मायामयीं महाबाहो तां विद्धि जनकात्मजाम्॥
३३६. त्यजैनं नरशार्दूल मिथ्यासन्तापमागतम्।
३३७. सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्॥
३३८. चैत्यं निकुम्भिलामद्य मेघनादः करिष्यति ।
३३९. हुतवानुपयातो हि देवैरपि सवासवैः ।
३४०. दुराधर्षो भवत्येष सङ्ग्रामे रावणात्मजः ॥
३४१. इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ।
३४२. लक्ष्मणं प्रेशयास्माभिः सह सैन्यानुकर्शिभिः ॥
३४३. एष तं नरशार्दूलो रावणिं निशितैः शरैः ।
३४४. त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥
३४५. तत् सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम्।
३४६. राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥
३४७. तस्य तद्वचनं श्रुत्वा राघवः शोककर्षितः ।
३४८. ततो धैर्यमवष्टभ्य (विभीषणमथाब्रवीत् ) ॥
३४९. जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ।
३५०. तस्यान्तरिक्षे चरतः सरथस्य महायशः ।
३५१. न गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसम्प्लवे ॥
३५२. राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ।
३५३. लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥
३५४. यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ।
३५५. जहि तं रावणसुतं मायाबलसमन्वितम्॥
३५६. अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ।
३५७. अभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति ॥
३५८. राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।
३५९. सन्नद्धः कवची खड्गी सशरी वामचापभृत् ।
३६०. रामपादावुपस्पृश्य कृत्वा चापि प्रदक्षिणम्।
३६१. निकुम्भिलामभिययौ चैत्यं रावणिपालितम्॥
३६२. स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ।
३६३. राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम्॥
३६४. अविदूरं ततो गत्वा प्रविश्य तु महद्वनम्।
३६५. नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम्।
३६६. तेजस्वी रावणभ्राता राघवाय न्यवेदयत् ॥
३६७. इहोपहारं भूतानां बलवान् रावणात्मजः ।
३६८. उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ॥
३६९. अभिद्रवाशु यावद् वै नैतत्कर्मसमाप्यते ।
३७०. जहि वीर दुरात्मानं मायापरमधार्मिकम्॥
३७१. विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।
३७२. ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥
३७३. वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।
३७४. उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥
३७५. स रथेनाग्निवर्णेन बलवान् रावणात्मजः ।
३७६. इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत ॥
३७७. तमुवाच महातेजाः पौलस्त्यमपराजितम्।
३७८. समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥
३७९. एवमुक्तो महातेजा मनस्वी रावणात्मजः ।
३८०. अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्॥
३८१. इह त्वं जातसंवृद्धः साक्षात् भ्राता पितुर्मम ।
३८२. कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥
३८३. शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।
३८४. यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥
३८५. क्व च स्वजनसंवासः क्व च नीचपराश्रयः ।
३८६. गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा ।
३८७. निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥
३८८. यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
३८९. स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥
३९०. इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।
३९१. अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥
३९२. कुले यद्यप्ययं जातो रक्षसां क्रूरकर्मणाम्।
३९३. गुणो यः प्रथमं नॄणां तन्मे शीलमराक्षसम्॥
३९४. धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम्।
३९५. त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥
३९६. परस्वानां च हरणं परदाराभिमर्षणम्।
३९७. अभिमानश्च रोषश्च वैरत्वं प्रतिकूलता ।
३९८. एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ॥
३९९. बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।
४००. युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।
४०१. हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम्॥
४०२. विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः ।
४०३. हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्।
४०४. उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥
४०५. अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥
४०६. रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः ।
४०७. शायितौ तौ मया भूयो विसञ्ज्ञौ सपुरःसरौ ।
४०८. स्मृतिर्नतेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्।
४०९. आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः ॥
४१०. तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा ।
४११. अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥
४१२. वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ।
४१३. अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा ।
४१४. तस्कराचरितो मार्गो नैव वीरनिषेवितः ॥
४१५. एवमुक्तो धनुर्भीमं परामृश्य महाबलः ।
४१६. ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः ॥
४१७. स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ।
४१८. शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ॥
४१९. ततः शरान् दाशरथिः सन्धायामित्रकर्षणः ।
४२०. ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥
४२१. तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत् ।
४२२. व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥
४२३. विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ।
४२४. इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ॥
४२५. ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः ।
४२६. बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः ॥
४२७. व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु ॥
४२८. कृतप्रतिकृतान्योन्यं बभूवतुररिन्दमौ ।
४२९. अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि ॥
४३०. शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ।
४३१. सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।
४३२. ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥
४३३. अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ।
४३४. चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥
४३५. नह्याधानं न सन्धानं धनुषो वा परिग्रहः ।
४३६. न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम्।
४३७. अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥
४३८. ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ।
४३९. विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥
४४०. तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ।
४४१. मुखेन मुखमाहत्य सन्निपेततुरोजसा ॥
४४२. सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः ।
४४३. सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् ॥
४४४. तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च ।
४४५. सङ्ग्रामे शतधा यातौ मेदिन्यां चैव पेततुः ॥
४४६. शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ।
४४७. व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥
४४८. सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ।
४४९. रौद्रं महेन्द्रजिद्युद्धेऽप्यसृजद् युधि निष्ठितः ॥
४५०. तेन तद्विहतं शस्त्रं वारुणं परमाद्भुतम्॥
४५१. ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः ।
४५२. आग्नेयं सन्दधे दीप्तं स लोकं संक्षिपन्निव ॥
४५३. सौरेणास्त्रेण तद्वीरो लक्ष्मणः पर्यवारयत् ॥
४५४. अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः ।
४५५. हुताशनसमस्पर्शं रावणात्मजदारणम्॥
४५६. येन शक्रो महातेजा दानवानजयत् प्रभुः ।
४५७. पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः ।
४५८. अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।
४५९. शरश्रेष्ठं धनुश्रेष्ठे विकर्षन्निदमब्रवीत् ॥
४६०. धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ।
४६१. पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम्॥
४६२. इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।
४६३. ऐन्द्रास्त्रेण समायुज्य ससर्जेन्द्रजितं प्रति ॥
४६४. तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुन्डलम्।
४६५. प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥
४६६. हतः स निपपाताथ धरण्यां रावणात्मजः ।
४६७. शान्तरश्मिरिवादित्यो निर्वाण इव पावकः ।
४६८. बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥
४६९. यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः ।
४७०. तथा तस्मिन्निपतिते राक्षसा ते गता दिशः ॥
४७१. प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान् ।
४७२. बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥
४७३. आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ।
४७४. शुद्धा आपो नभश्चैव जहृषुर्देवदानवाः ॥
४७५. विभीषणो हनूमान्श्च जाम्बवान्श्चर्क्षयूथपः ।
४७६. विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्॥
४७७. क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
४७८. लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥
४७९. रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।
४८०. बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे ॥
४८१. आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ ।
४८२. विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥
४८३. निष्टननन्निव चागत्य राघवाय महात्मने ।
४८४. आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥
४८५. रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ।
४८६. न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥
४८७. रामस्तु दुःखसन्तप्तं तं तु निःश्वासपीडितम्।
४८८. लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् ।
४८९. उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्।
४९०. शल्यसम्पीडितं शस्तं पुनःपुनरुदैक्षत ॥
४९१. उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ।
४९२. कृतं परमकल्याणं कर्म दुष्करकर्मणा ॥
४९३. अद्य मन्ये हते पुत्रे रावणं निहतं युधि ।
४९४. त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ।
४९५. न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे ॥
४९६. रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ।
४९७. विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ॥
४९८. ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम्।
४९९. येचाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ।
५००. तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥
५०१. एवमुक्तः स रामेण महात्मा हरियूथपः ।
५०२. लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्॥
५०३. स तस्या गन्धमाघ्राय विशल्यः समपद्यत ।
५०४. तदा निर्वेदनश्चैव संरूढव्रण एव च ॥
५०५. विभीषणमुखानां च सुहृदां राघवाज्ञया ।
५०६. सर्ववानरमुख्यानां चिकित्सामकरोत् तदा ॥
५०७. ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः ।
५०८. सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः ॥