१. तं मेरु शिखराकारं दीप्तामिव शतह्रदाम्।
२. गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥
३. स उवाच महाप्राज्ञः स्वरेण महता महान् ।
४. सुग्रीवं तान्श्च सम्प्रेक्ष्य खस्थ एवात्मपञ्चमः ॥
५. रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
६. तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥
७. तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्।
८. साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥
९. स च न प्रतिजग्राह रावणः कालचोदितः ।
१०. उच्यमानं हितं वाक्यं विपरीत इवौषधम्॥
११. सोऽहं परुषितस्तेन दासवच्चावमानितः ।
१२. त्यक्त्वा पुत्रान्श्च दारान्श्च राघवं शरणं गतः ॥
१३. निवेदयत मां क्षिप्रं राघवाय महात्मने ।
१४. सर्वलोकशरण्याय विभीषणमुपस्थितम्॥
१५. एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः ।
१६. लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥
१७. रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।
१८. चतुर्भिः सह रक्षोभिः भवन्तं शरणं गतः ॥
१९. प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः ।
२०. निहन्यादन्तरं लब्ध्वा उलूको वायसानिव ॥
२१. प्रणिधी राक्षसेन्द्रस्य भ्रातामित्रस्य ते प्रभो ।
२२. आगतश्च रिपोः पक्षात् कथमस्मिन् हि विश्वसेत् ॥
२३. तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥
२४. सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महायशाः ।
२५. समीपस्थानुवाचेदं हनुमत्प्रमुखान् हरीन् ॥
२६. यदुक्तं कपिराजेन रावणावरजं प्रति ।
२७. वाक्यं हेतुमदन्वर्थं भवद्भिरपि च श्रुतम्॥
२८. सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा ।
२९. समर्थेनोपसन्देष्टुं शाश्वतीं भूतिमिच्छता ॥
३०. इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः ।
३१. सोपचारं तदा राममूचुः प्रियचिकीर्षवः ॥
३२. अज्ञातं नास्ति ते किञ्चित् त्रिषु लोकेषु राघव ।
३३. आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया ॥
३४. त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः ।
३५. परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च ॥
३६. तस्मादेकैकशस्तावत् ब्रुवन्तु सचिवास्तव ।
३७. हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः ॥
३८. इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः ।
३९. विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥
४०. शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि ।
४१. विश्वासनीयः सहसा न कर्तव्यो विभीषणः ॥
४२. छादयित्वात्मभावं हि चरन्ति शठबुद्धयः ।
४३. प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥
४४. अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
४५. गुणतः सङ्ग्रहं कुर्यात् दोषतस्तु विसर्जयेत् ॥
४६. यदि दोषो महान्स्तस्मिन् त्यज्यतामविशङ्कितम्।
४७. गुणान् वापि बहून् ज्ञात्वा सङ्ग्रहः क्रियतां नृप ॥
४८. शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् ।
४९. क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम्॥
५०. प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना ।
५१. परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥
५२. जाम्बवान्स्त्वथ सम्प्रेक्ष्य नयापनयकोविदः ।
५३. वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम्॥
५४. अनुजो नाम तस्यैष रावणस्य विभीषणः ।
५५. पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर ॥
५६. भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि ।
५७. यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥
५८. अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः ।
५९. उवाच वचनं श्लक्ष्णमर्थवन् मधुरं लघु ॥
६०. न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्।
६१. अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥
६२. न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः ।
६३. वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात् ॥
६४. अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव ।
६५. तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ॥
६६. चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव ।
६७. अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते ॥
६८. अदेशकाले सम्प्राप्त इत्ययं यद्विभीषणः ।
६९. विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति ॥
७०. स एष देशः कालश्च भवतीति यथा तथा ।
७१. पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि ॥
७२. दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि ।
७३. युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥
७४. अज्ञातरूपैः पुरुषैः स राजन् पृछ्यतामिति ।
७५. यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥
७६. पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः ।
७७. तत्र मित्रं प्रदुष्येत मिथ्यापृष्टं सुखागतम्॥
७८. अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै ।
७९. अन्तरेण स्वरैर्भिन्नैर्नैपुण्यं पश्यतां भृशम्॥
८०. न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।
८१. प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥
८२. आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम्।
८३. बलाद् हि विवृणोत्येव भावमन्तर्गतं नृणाम्॥
८४. उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्।
८५. वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्।
८६. राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः ॥
८७. एतावत् तु पुरस्कृत्य युज्यते तस्य सङ्ग्रहः ॥
८८. यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति ।
८९. प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर ॥
९०. अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ।
९१. प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्॥
९२. ममापि च विवक्षास्ति काचित् प्रति विभीषणम्।
९३. श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥
९४. मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन ।
९५. दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्॥
९६. सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
९७. ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥
९८. स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।
९९. ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥
१००. को नाम स भवेत् तस्य यमेष न परित्यजेत् ॥
१०१. वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु ।
१०२. ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्।
१०३. इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥
१०४. अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
१०५. न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥
१०६. अस्ति सूक्ष्मतरं किञ्चित् यथात्र प्रतिभाति मे ।
१०७. प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु ॥
१०८. अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
१०९. व्यसनेषु प्रहर्तारः तस्मादयमिहागतः ॥
११०. अपापाः तत्कुलीनाश्च मानयन्ति स्वकान् हितान् ।
१११. एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥
११२. यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ।
११३. तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं श्रुणु ॥
११४. न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ।
११५. पण्डिता हि भविष्यन्ति तस्मात् ग्राह्यो विभीषणः ॥
११६. अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सङ्गताः ।
११७. प्रवादश्च महानेष ततोऽस्य भयमागतम्।
११८. इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः ॥
११९. न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ।
१२०. मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥
१२१. एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ।
१२२. उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥
१२३. राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहागतः ।
१२४. प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वानघ ।
१२५. लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह ॥
१२६. स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च ।
१२७. ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥
१२८. स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।
१२९. सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ॥
१३०. पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् ।
१३१. अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥
१३२. श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
१३३. अर्चितश्च यथान्याय्यं स्वैश्च मांसैर्निमन्त्रितः ॥
१३४. स हि तं प्रतिजग्राह भार्याहर्तारमागतम्।
१३५. कपोतो वानरश्रेष्ठ किं पुनर् मद्विधो जनः ॥
१३६. ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ।
१३७. श्रुणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना ॥
१३८. बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्।
१३९. न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ॥
१४०. आर्तो वा यदि वा दृप्तः परेषां शरणं गतः ।
१४१. अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥
१४२. स चेत् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति ।
१४३. स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम्॥
१४४. विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः ।
१४५. आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥
१४६. एवं दोषो महानत्र प्रपन्नानामरक्षणे ।
१४७. अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥
१४८. करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्।
१४९. धर्मिष्टं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये ॥
१५०. सकृदेव प्रपन्नाय तवास्मीति च याचते ।
१५१. अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥
१५२. आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।
१५३. विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥
१५४. रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः ।
१५५. प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः ॥
१५६. किमत्र चित्रं धर्मज्ञ लोकनाथ शिखामणे ।
१५७. यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः ॥
१५८. मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्।
१५९. अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥
१६०. तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवति राघव ।
१६१. विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥
१६२. राघवेणाभये दत्ते सन्नतो रावणानुजः ।
१६३. खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह ॥
१६४. स तु रामस्य धर्मात्मा निपपात विभीषणः ।
१६५. पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥
१६६. अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः ।
१६७. धर्मयुक्तं च युक्तं च सांप्रतं सम्प्रहर्षणम्॥
१६८. अनुजो रावणस्याहं तेन चास्म्यवमानितः ।
१६९. भवन्तं सर्वभूतानां शरण्यं शरणं गतः ॥
१७०. परित्यक्ता मया लङ्का मित्राणि च धनानि च ।
१७१. भवद्गतं हि मे राज्यं जीवितं च सुखानि च ॥
१७२. तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।
१७३. वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ।
१७४. आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्॥
१७५. एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा ।
१७६. रावणस्य बलं सर्वं व्याख्यातुमुपचक्रमे ॥
१७७. अवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम्।
१७८. राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ।
१७९. रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
१८०. कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥
१८१. राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
१८२. कैलासे येन समरे मणिभद्रः पराजितः ॥
१८३. बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि ।
१८४. धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥
१८५. सङ्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम्।
१८६. अन्तर्धानगतः श्रीमानिन्द्रजित् हन्ति राघव ॥
१८७. महोदरमहपार्श्वौ राक्षसश्चाप्यकंपनः ।
१८८. अनीकपास्तु तस्यैते लोकपालसमा युधि ॥
१८९. दशकोटिसहस्राणि लङ्कापुरनिवासिनाम्।
१९०. स तैस्तु सहितो राजा लोकपालानयोधयत् ॥
१९१. विभीषणवचः श्रुत्वा रामो दृढपराक्रमः ।
१९२. अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥
१९३. यानि कर्मापदानानि रावणस्य विभीषण ।
१९४. आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्॥
१९५. अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम्।
१९६. राजानं त्वां करिष्यामि सत्यमेतत् ब्रवीमि ते ॥
१९७. अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम्।
१९८. अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥
१९९. श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः ।
२००. शिरसा वन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे ॥
२०१. राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे ।
२०२. करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्॥
२०३. इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्।
२०४. अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥
२०५. तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्।
२०६. राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥
२०७. एवमुक्तस्तु सौमित्रिरभ्यषिञ्चत् विभीषणम्।
२०८. मध्ये वानरमुख्यानां राजानं राजशासनात् ॥
२०९. अब्रवीच्च हनूमान्श्च सुग्रीवश्च विभीषणम्।
२१०. कथं सागरमक्षोभ्यं तराम वरुणालयम्।
२११. सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्॥
२१२. एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः ।
२१३. समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥
२१४. खानितः सगरेणायमप्रमेयो महोदधिः ।
२१५. कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥
२१६. एवं विभीषणेनोक्तो राक्षसेन विपश्चिता ।
२१७. आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥
२१८. ततश्चाख्यातुमारेभे विभीषणवचः शुभम्।
२१९. सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्॥
२२०. प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥
२२१. सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्।
२२२. सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत ॥
२२३. विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ।
२२४. सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः ।
२२५. उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम्॥
२२६. एवमुक्तौ ततो वीरौ उभौ सुग्रीवलक्ष्मणौ ।
२२७. समुदाचारसंयुक्तमिदं वचनमूचतुः ॥
२२८. अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये ।
२२९. लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥
२३०. विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ॥
२३१. एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।
२३२. संविवेश तदा रामो वेद्यामिव हुताशनः ॥
२३३. ततः सागरवेलायां दर्भानास्तीर्य राघवः ।
२३४. अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥
२३५. बाहुं भुजङ्गभोगाभं उपधायारिसूदनः ।
२३६. जातरुपमयैश्चैव भूषणैः भूषितं पुरा ।
२३७. भुजैः परमनारीणां अभिमृष्टमनेकधा ।
२३८. बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम्।
२३९. शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा ।
२४०. संयुगे युगसङ्काशं शत्रूणां शोकवर्धनम्।
२४१. सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम्।
२४२. दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम्।
२४३. गोसहस्रप्रदातारं ह्युपधाय भुजं महत् ।
२४४. अद्य मे मरणं वाथ तरणं सागरस्य वा ।
२४५. इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम्।
२४६. अधिशिश्ये च विधिवत् प्रयतो नियतो मुनिः ॥
२४७. तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।
२४८. नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः ॥
२४९. स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
२५०. उपासत तदा रामः सागरं सरितां पतिम्॥
२५१. न च दर्शयते रूपं मन्दो रामस्य सागरः ।
२५२. प्रयतेनापि रामेण यथार्हमभिपूजितः ॥
२५३. समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।
२५४. समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम्॥
२५५. अवलेपः समुद्रस्य न दर्शयति यः स्वयम्।
२५६. प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।
२५७. असामर्थ्यफलाह्येते निर्गुणेषु सतां गुणाः ॥
२५८. आत्मप्रशंसिनं धृष्टं दुष्टं विपरिधावकम्।
२५९. सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्॥
२६०. न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।
२६१. प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि ॥
२६२. क्षमया हि समायुक्तं मामयं मकरालयः ।
२६३. असमर्थं विजानाति धिक् क्षमां ईदृशे जने ॥
२६४. चापमानय सौमित्रे शरान्श्चाशीविषोपमान् ।
२६५. समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ॥
२६६. अद्याक्ष्योभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्।
२६७. निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्॥
२६८. एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः ।
२६९. बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥
२७०. अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।
२७१. अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥
२७२. शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।
२७३. मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥
२७४. मत्कार्मुकविसृष्टेन शरवर्षेण सागर ।
२७५. परं तीरं गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥
२७६. विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्।
२७७. दानवालय सन्तापं मत्तो नाधिगमिष्यसि ॥
२७८. ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्।
२७९. संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥
२८०. तस्मिन् विकृष्टे सहसा राघवेण शरासने ।
२८१. रोदसी सम्पफालेव पर्वताश्च चकंपिरे ॥
२८२. तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
२८३. प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥
२८४. प्रचकाशे तदाकाशमुल्काशतविदीपितम्।
२८५. अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥
२८६. बभञ्ज च तदा वृक्षान् जलदानुद्वहन्नपि ।
२८७. अरुजन्श्चैव शैलाग्रान् शिखराणि प्रभञ्जनः ॥
२८८. शिश्यिरे चापि भूतानि संत्रस्तान्युद्विजन्ति च ।
२८९. सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ॥
२९०. सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ।
२९१. सहसाभूत् ततो वेगात् भीमवेगो महोदधिः ॥
२९२. योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ।
२९३. तं तदा समतिक्रान्तं नातिचक्राम राघवः ।
२९४. समुद्धतममित्रघ्नो रामो नदनदीपतिम्॥
२९५. पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत ।
२९६. स्निग्धवैडूर्यसङ्काशो जाम्बूनदविभूषितः ॥
२९७. सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम्।
२९८. धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव ॥
२९९. विपुलेनोरसा बिभ्रत् कौस्तुभस्य सहोदरम्।
३००. आघूर्णिततरङ्गौघः कालिकानिलसङ्कुलः ।
३०१. गङ्गासिन्धुप्रधानाभिः सापगाभिः समावृतः ।
३०२. सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान् ।
३०३. अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्॥
३०४. पृथिवी वायुराकाशमापो ज्योतिश्च राघव ।
३०५. स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥
३०६. तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः ।
३०७. अयं सौम्य नलो नाम तनयो विश्वकर्मणः ॥
३०८. एष सेतुं महोत्साहः करोतु मयि वानरः ।
३०९. तमहं धारयिष्यामि यथा ह्येष पिता तथा ॥
३१०. एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः ।
३११. अब्रवीत् वानरश्रेष्ठो वाक्यं रामं महाबलम्॥
३१२. अहं सेतुं करिष्यामि विस्तीर्णे मकरालये ।
३१३. पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः ॥
३१४. न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान् ।
३१५. समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये ॥
३१६. तस्मात् अद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥
३१७. ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः ।
३१८. अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥
३१९. स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ।
३२०. सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतिं शतयोजनम्॥
३२१. दण्डान्यन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥
३२२. वानराः शतशस्तत्र रामस्याज्ञापुरस्सरैः ।
३२३. मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे ॥
३२४. पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः ।
३२५. पाषाणान्श्च गिरिप्रस्थान् गिरीणां शिखराणि च ॥
३२६. दृश्यन्ते परिधावन्तो गृह्य दानवसन्निभाः ।
३२७. हस्तिमात्रान् महाकायाः पाषाणान्श्च महाबलाः ।
३२८. पर्वतान्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥
३२९. प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम्।
३३०. समुत्ससर्प चाकाशं अवासर्पत् ततः पुनः ॥
३३१. कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ।
३३२. द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः ।
३३३. अह्ना तृतीयेन तथा एकविंशतिरेव च ।
३३४. चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा ।
३३५. योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
३३६. पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ।
३३७. योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै ॥
३३८. स नलेन कृतः सेतुः सागरे मकरालये ।
३३९. शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ॥
३४०. दशयोजनविस्तीर्णं शतयोजनमायतम्।
३४१. ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्॥
३४२. विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
३४३. अशोभत महासेतुः सीमन्त इव सागरे ॥
३४४. ततः पारे समुद्रस्य गदापाणिर्विभीषणः ।
३४५. परेषामभिघातार्थमतिष्ठत् सचिवैः सह ॥
३४६. तानि कोटिसहस्राणि वानराणां महौजसाम्।
३४७. बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥
३४८. अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
३४९. जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥
३५०. घोषेण महता घोषं सागरस्य समुच्छ्रितम्।
३५१. भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥
३५२. वानराणां हि सा तीर्णा वाहिनी नलसेतुना ।
३५३. तीरे निविविशे राज्ञो बहुमूलफलोदके ॥
३५४. तदद्भुतं राघवकर्म दुष्करम्
३५५. समीक्ष्य देवाः सह सिद्धचारणैः ।
३५६. उपेत्य रामं सहसा महर्षिभिः
३५७. तमभ्यषिञ्चन् सुशुभैः जलैः पृथक् ॥
३५८. निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
३५९. सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ॥
३६०. बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।
३६१. लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्॥
३६२. वाताश्च कलुषा वान्ति कंपते च वसुन्धरा ।
३६३. दीना दीनस्वरा क्रूराः सर्वतो मृगपक्षिणः ।
३६४. प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम्॥
३६५. आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ।
३६६. रजसा महता चापि नक्षत्राणि हतानि च ॥
३६७. शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः ।
३६८. भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥
३६९. क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्।
३७०. अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥
३७१. इत्येवमुक्त्वा धन्वी सः रामः संग्रामहर्षणः ।
३७२. प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥
३७३. सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
३७४. प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे ॥
३७५. बलं च तद्वै विभजन् शास्त्रदृष्टेन कर्मणा ।
३७६. शशास कपिसेनाया बलमादाय (राघवः) ॥
३७७. सुविभक्तमहाव्यूहा महावानररक्षिता ।
३७८. अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ॥
३७९. प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ।
३८०. आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे ॥
३८१. सबले सागरं तीर्णे रामे दशरथात्मजे ।
३८२. अमात्यौ रावणः श्रीमानब्रवीत् शुकसारणौ ॥
३८३. समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्॥
३८४. भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ ।
३८५. परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ।
३८६. मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः ।
३८७. रामस्य व्यवसायं च वीर्यं प्रहरणानि च ।
३८८. लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः ॥
३८९. इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।
३९०. हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्॥
३९१. ततस्तद् वानरं सैन्यमचिन्त्यं लोमहर्षणम्।
३९२. सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥
३९३. तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः ।
३९४. आचचक्षे स रामाय गृहीत्वा शुकसारणौ ॥
३९५. तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा ।
३९६. कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥
३९७. आवामिहागतौ सौम्य रावणप्रहितावुभौ ।
३९८. परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन ॥
३९९. तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ।
४००. अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः ॥
४०१. यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः ।
४०२. यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्॥
४०३. अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः ।
४०४. विभीषणो वा कार्त्स्न्येन पुनः सन्दर्शयिष्यति ॥
४०५. न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति ।
४०६. न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः ॥
४०७. प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः ।
४०८. वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥
४०९. यद् बलं त्वं समाश्रित्य सीतां मे हृतवानसि ।
४१०. तद् दर्शय यथाकामं ससैन्यश्च सबान्धवः ॥
४११. श्वः काल्ये नगरीं पश्य शरैर्विध्वंसितां मया ॥
४१२. इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।
४१३. आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्॥
४१४. विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर ।
४१५. दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ॥
४१६. रामो दाशरथिः श्रीमान् लक्ष्मणश्च विभीषणः ।
४१७. सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः ॥
४१८. एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्।
४१९. उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः ॥
४२०. यादृशं तद् हि रामस्य रूपं प्रहरणानि च ।
४२१. वधिष्यति पुरीं लङ्कां एकस्तिष्ठन्तु ते त्रयः ॥
४२२. प्रहृष्टयोधा ध्वजिनी महात्मनाम्
४२३. वनौकसां सम्प्रति योद्धुमिच्छताम्।
४२४. अलं विरोधेन शमो विधीयताम्
४२५. प्रदीयतां दाशरथाय मैथिली ॥
४२६. तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम्।
४२७. निशम्य रावणो राजा प्रत्यभाषत सारणम्॥
४२८. यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः ।
४२९. नैव सीतामहं दद्यां सर्वलोकभयादपि ॥
४३०. त्वं तु सौम्य परित्रस्तो हरिभिः पीडितः भृशम्।
४३१. प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ॥
४३२. इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।
४३३. आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्॥
४३४. ताभ्यां चराभ्यां सहितो रावणोऽथ दिदृक्षया ।
४३५. ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः ॥
४३६. तदपारमसह्यं च वानराणां महाबलम्।
४३७. आलोक्य रावणो राजा परिपप्रच्छ सारणम्॥
४३८. एषां के वानरा मुख्याः के शूराः के महाबलाः ।
४३९. सारणाचक्ष्व मे सर्वं किं प्रभावाः प्लवङ्गमाः ॥
४४०. सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।
४४१. आबभाषेऽथ मुख्यज्ञो मुख्यान्स्तत्र वनौकसः ॥
४४२. यूथपानां सहस्राणां शतेन परिवारितः ।
४४३. बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥
४४४. एष वानरराजेन सुग्रीवेणाभिषेचितः ।
४४५. युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे ।
४४६. वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ॥
४४७. अनुवालिसुतस्यापि बलेन महता वृतः ।
४४८. वीरस्तिष्ठति सङ्ग्रामे सेतुहेतुरयं नलः ॥
४४९. स एष जाम्बवान् नाम महायूथपयूथपः ।
४५०. प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥
४५१. एतेन साह्यं तु महत् कृतं शक्रस्य धीमता ।
४५२. देवासुरे जाम्बवतो लब्धाश्च बहवो वराः ॥
४५३. सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्।
४५४. बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥
४५५. स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान् ।
४५६. न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव ।
४५७. एते दुष्प्रसहा राजन् बलिनः कामरूपिणः ॥
४५८. दैत्यदानवसङ्काशाः युद्धे देवपराक्रमाः ।
४५९. एषां कोटिसहस्राणि नव पञ्च च सप्त च ।
४६०. तथा शङ्कुसहस्राणि तथा वृन्दशतानि च ॥
४६१. एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।
४६२. हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥
४६३. यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ।
४६४. मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि ॥
४६५. एनं पश्य पुरा दृष्टं वानरं पुनरागतम्।
४६६. ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ॥
४६७. हनुमानिति विख्यातो लङ्घितो येन सागरः ।
४६८. कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः ॥
४६९. अनिवार्यगतिश्चैव यथा सततगः प्रभुः ।
४७०. नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्॥
४७१. एष आशंसते लङ्कामेको मथितुमोजसा ।
४७२. येन जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ।
४७३. लङ्कायां निहितश्चापि कथं विस्मरसे कपिम्॥
४७४. यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ।
४७५. इक्ष्वाकूणामतिरथो लोके विश्रुतपौरुषः ।
४७६. यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते ।
४७७. यो ब्राह्ममस्त्रं वेदान्श्च वेद वेदविदां वरः ।
४७८. यो भिन्द्यात् गगनं बाणैर्मेदिनीं वापि दारयेत् ।
४७९. यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।
४८०. यस्य भार्या जनस्थानात् सीता चापि हृता त्वया ।
४८१. स एष रामस्त्वां योद्धुं राजन् समभिवर्तते ॥
४८२. यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ।
४८३. विशालवक्षाः ताम्राक्षो नीलकुञ्चितमूर्धजः ।
४८४. एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ॥
४८५. नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः ।
४८६. अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
४८७. रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥
४८८. यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ।
४८९. रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ॥
४९०. श्रीमता राजराजेन लङ्कायामभिषेचितः ॥
४९१. यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्।
४९२. सर्वशाखामृगेन्द्राणां भर्तारममितौजसम्॥
४९३. तेजसा यशसा बुद्ध्या बलेनाभिजनेन च ।
४९४. यः कपीनतिबभ्राज हिमवानिव पर्वतः ।
४९५. किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्।
४९६. दुर्गां पर्वतदुर्गम्यां प्रधानैः सहयूथपैः ।
४९७. यस्यैषा काञ्चनी माला शोभते शतपुष्करा ॥
४९८. एतां मालां च तारां च कपिराज्यं च शाश्वतम्।
४९९. सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥
५००. इमां महाराज समीक्ष्य वाहिनीम्
५०१. उपस्थितां प्रज्वलितग्रहोपमाम्।
५०२. ततः प्रयत्नः परमो विधीयताम्
५०३. यथा जयः स्यात् न परैः पराभवः ॥
५०४. शुकेन तु समादिष्टान् दृष्ट्वा स हरियूथपान् ।
५०५. किञ्चिदाविग्नहृदयो जातक्रोधश्च रावणः ।
५०६. भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥
५०७. न तावत् सदृशं नाम सचिवैरुपजीविभिः ।
५०८. विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः ॥
५०९. आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः ।
५१०. सारं यत् राजशास्त्राणामनुजीव्यं न गृह्यते ।
५११. गृहीतो वा न विज्ञातो भारोऽज्ञानस्य वाह्यते ॥
५१२. ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्।
५१३. किन्नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः ।
५१४. यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्॥
५१५. अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
५१६. राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः ॥
५१७. हन्यामिह त्विमौ पापौ शत्रुपक्षप्रशंसिनौ ।
५१८. यदि पूर्वोपकारैर्मे क्रोधो न मृदुतां व्रजेत् ।
५१९. अपध्वंसत नश्यध्वं सन्निकर्शादितो मम ॥
५२०. एवमुक्तौ तु सव्रीडौ तौ दृष्ट्वा शुकसारणौ ।
५२१. रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ॥