०१ ०१ वानरसैन्यप्रस्थानम्

१. श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्।
२. रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
३. कृतं हनूमता कार्यं सुमहद् भुवि दुर्लभम्।
४. मनसापि यदन्येन न शक्यं धरणीतले ॥
५. न हि तं परिपश्यामि यस्तरेत महोदधिम्।
६. अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥
७. देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
८. अप्रधृश्यां पुरीं लङ्कां रावणेन सुरक्षिताम्।
९. प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत् ॥
१०. को विशेत् सुदुराधर्षां राक्षसैश्च सुरक्षिताम्।
११. यो वीर्यबलसम्पन्नो न समः स्याद् हनूमतः ॥
१२. भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् ।
१३. स्वयं विधाय स्वबलं सदृशं विक्रमस्य च ॥
१४. यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।
१५. कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम्॥
१६. यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम्।
१७. भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम्॥
१८. नियुक्तो नृपतेः कार्यं न कुर्याद् यः समाहितः ।
१९. भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्॥
२०. तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ।
२१. न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ॥
२२. अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ।
२३. वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥
२४. इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
२५. यदिहास्य प्रियाख्यातुः न कुर्मि सदृशं प्रियम्॥
२६. एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः ।
२७. मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥
२८. इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे ।
२९. हनूमन्तं कृतात्मानं कृतकार्यमुपागतम्॥
३०. ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः ।
३१. हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥
३२. सर्वथा सुकृतं तावत् सीताया परिमार्गणम्।
३३. सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥
३४. कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः ।
३५. हरयो दक्षिणं पारं गमिष्यन्ति समागताः ॥
३६. इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः ।
३७. हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥
३८. तं तु शोकपरिद्यूनं रामं दशरथात्मजम्।
३९. उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्॥
४०. सन्तापस्य च ते स्थानं न हि पश्यामि राघव ।
४१. प्रवृत्तौ उपलब्धायां ज्ञाते च निलये रिपोः ॥
४२. मतिमान् शास्त्रवित् प्राज्ञः पण्डितश्चासि राघव ।
४३. त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम्॥
४४. निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
४५. सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥
४६. इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
४७. त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्॥
४८. तदलं विक्लवां बुद्धिं राजन् सर्वार्थनाशिनीम्।
४९. अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ॥
५०. अबद्ध्वा सागरे सेतुं घोरे च वरुणालये ।
५१. लङ्का न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः ॥
५२. सेतुरत्र यथा बध्येत् यथा पश्येम तां पुरीम्।
५३. तस्य राक्षसराजस्य तथा त्वं कुरु राघव ॥
५४. लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः ।
५५. सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥
५६. लङ्घिते तत्र तैः सैन्यं जितमित्युपधारय ।
५७. अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्॥
५८. न हि पश्याम्यहं कञ्चित् त्रिषु लोकेषु राघव ।
५९. गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥
६०. तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ।
६१. निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥
६२. किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ।
६३. निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥
६४. सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित् ।
६५. प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥
६६. तपसा सेतुबन्धेन सागरोच्छोषणेन च ।
६७. सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥
६८. कति दुर्गाणि दुर्गाया लङ्कायास्तद् ब्रवीष्व मे ।
६९. बलस्य परिमाणं च द्वारदुर्गाक्रियामपि ।
७०. गुप्तकर्म च लङ्काया रक्षसां सदनानि च ॥
७१. श्रुत्वा रामस्य वचनं (बली) राममथाब्रवीत् ।
७२. हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला ।
७३. महती रथसम्पूर्णा रक्षोगणनिषेविता ॥
७४. दृढबद्धकपाटानि महापरिघवन्ति च ।
७५. चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च ॥
७६. तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च ।
७७. आगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते ॥
७८. द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।
७९. शतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥
८०. सौवर्णस्तु महान्स्तस्याः प्राकारो दुष्प्रधर्षणः ।
८१. मणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः ॥
८२. सर्वतश्च महाभीमाः शीततोया महाशुभाः ।
८३. अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥
८४. द्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः ।
८५. यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥
८६. त्रायन्ते सङ्क्रमास्तत्र परसैन्यागते सती ।
८७. यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥
८८. एकस्त्वकंप्यो बलवान् सङ्क्रमः सुमहादृढः ।
८९. काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥
९०. स्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः ।
९१. उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥
९२. लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा ।
९३. नादेयं कृत्रिमं वान्यं कृत्रिमं च चतुर्विधम्॥
९४. स्थिता पारे समुद्रस्य दूरपारस्य राघव ।
९५. नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ॥
९६. शैलाग्रे रचिता दुर्गा लङ्का परमदुर्जया ।
९७. अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्॥
९८. नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्।
९९. प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्॥
१००. न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्।
१०१. शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः ॥
१०२. यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्।
१०३. ते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः ।
१०४. दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥
१०५. येन केन तु मार्गेण तराम वरुणालयम्।
१०६. हतेति नगरी लङ्का वानरैरुपधार्यताम्॥
१०७. अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसोऽनलः ।
१०८. नीलः सेनापतिश्चैव बलशेषेण किं तव ॥
१०९. प्लवमाना हि गत्वा तां रावणस्य महापुरीम्।
११०. सपर्वतवनां भित्त्वा सखातां च सतोरणाम्।
१११. सप्राकारां सभवनामानयिष्यन्ति राघव ॥
११२. एवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम्।
११३. मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥
११४. श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ।
११५. ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥
११६. अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।
११७. उक्तो मुहूर्तो विजयः प्राप्ते मध्यं दिवाकरे ॥
११८. उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
११९. उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम ।
१२०. विजयं समनुप्राप्तं शंसतीव मनोरथम्॥
१२१. सीता श्रुत्वाभियानं मे आशामेष्यति जीविते ।
१२२. जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः ॥
१२३. अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्।
१२४. वृतः शतसहस्रेण वानराणां तरस्विनाम्॥
१२५. फलमूलवता नीलशीतकाननवारिणा ।
१२६. पथा मधुमता चाशु सेनां सेनापते नय ॥
१२७. दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्।
१२८. राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥
१२९. निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।
१३०. अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्॥
१३१. यत्तु फल्गु बलं किञ्चित् तदत्रैवोपपद्यताम्।
१३२. गजश्च गिरिसङ्काशो गवयश्च महाबलः ।
१३३. गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥
१३४. यातु वानरवाहिन्या वानरः प्लवतां वरः ।
१३५. पालयन् दक्षिणं पार्श्वं ऋषभो वानरर्षभः ॥
१३६. गन्धहस्तीव दुर्धर्षः तरस्वी गन्धमादनः ।
१३७. यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥
१३८. यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
१३९. अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥
१४०. अङ्गदेनैष सम्यातु लक्ष्मणश्चान्तकोपमः ।
१४१. सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥
१४२. जाम्बवान्श्च सुषेणश्च वेगदर्शी च वानरः ।
१४३. ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः ॥
१४४. राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
१४५. व्यादिदेश महावीर्यो वानरान् वानरर्षभः ॥
१४६. शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ।
१४७. वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥
१४८. हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।
१४९. आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
१५०. भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ।
१५१. क्ष्वेलन्तो निनदन्श्चैव जग्मुर्वै दक्षिणां दिशम्॥
१५२. कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ।
१५३. महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥
१५४. तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ।
१५५. उवाच परिपूर्णार्थं स्मृतिमान् प्रतिभानवान् ॥
१५६. हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्।
१५७. समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि ॥
१५८. महान्ति च निमित्तानि दिवि भूमौ च राघव ।
१५९. शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥
१६०. अनुवाति शिवो वायुः सेनां मृदुहितः सुखः ।
१६१. पूर्णवल्गुस्वरश्चेमे प्रवदन्ति मृगद्विजाः ॥
१६२. प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।
१६३. उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥
१६४. ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।
१६५. अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्॥
१६६. त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ।
१६७. पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्॥
१६८. नैरृतं नैरृतानां च नक्षत्रमतिपीड्यते ।
१६९. मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥
१७०. सर्वं चैतद् विनाशाय राक्षसानामुपस्थितम्।
१७१. एवमार्य समीक्ष्यैतद् प्रीतो भवतुमर्हति ॥
१७२. अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी ।
१७३. ऋक्षवानरशार्दूलैर्नखदंष्‍ट्रायुधैरपि ॥
१७४. कराग्रैः चरणाग्रैश्च वानरैरुद्धतं रजः ।
१७५. भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्॥
१७६. सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ।
१७७. छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः ॥
१७८. सरांसि विमलाम्भांसि द्रुमकीर्णान्श्च पर्वतान् ।
१७९. सा स्म याति दिवारात्रं महती हरिवाहिनी ।
१८०. हृष्टा प्रमुदिता सेना सुग्रीवेणाभिपालिता ॥
१८१. वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः ।
१८२. प्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ॥
१८३. काननानि विचित्राणि नदीप्रस्रवणानि च ।
१८४. पश्यन्नतिययौ रामः सह्यस्य मलयस्य च ॥
१८५. पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ।
१८६. विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ॥
१८७. बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः ।
१८८. यथा कलमकेदारैः पक्वैरिव वसुन्धरा ॥
१८९. महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः ।
१९०. अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्॥
१९१. ततः शिखरमारुह्य रामो दशरथात्मजः ।
१९२. कूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम्॥
१९३. अवरुह्य जगामाशु वेलावनमनुत्तमम्।
१९४. रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥
१९५. अथ धौतोपलतलां तोयोघैः सहसोत्थितैः ।
१९६. वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥
१९७. सर्वाः सेनाः निवेश्यन्तां वेलायां हरिपुङ्गव ।
१९८. सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥
१९९. स्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत् ।
२००. गच्छन्तु वानराः शूराः ज्ञेयं छन्नं भयं च नः ॥
२०१. रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ।
२०२. सेनां न्यवेशयत् तीरे सागरस्य द्रुमायुते ॥
२०३. विरराज समीपस्थं सागरस्य च तद्बलम्।
२०४. मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥
२०५. तेषां निविशमानानां सैन्यसन्नाहनिस्वनः ।
२०६. अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥
२०७. दूरपारमसम्बाधं रक्षोगणनिषेवितम्।
२०८. चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ।
२०९. हसन्तमिव फेनोघैर्नृत्यन्तमिव चोर्मिभिः ।
२१०. चन्द्रोदयसमुद्‍धूतं प्रतिचन्द्रसमाकुलम्।
२११. पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥
२१२. सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्।
२१३. सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥
२१४. सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा ।
२१५. तादृग्रूपे स्म दृश्येते नानारत्नसमाकुले ॥
२१६. समुत्पतितमेघस्य वीचीमालाकुलस्य च ।
२१७. विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥
२१८. निविष्टायां तु सेनायां तीरे नदनदीपतेः ।
२१९. पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥
२२०. शोकश्च किल कालेन गच्छता ह्यपगच्छति ।
२२१. मम चापश्यतः कान्तामहन्यहनि वर्धते ॥
२२२. न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च ।
२२३. एतदेवानुशोचामि वयोऽस्याह्यतिवर्तते ॥
२२४. वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश ।
२२५. त्वयि मे गात्रसंस्पर्शः चन्द्रे दृष्टिसमागमः ॥
२२६. तन्मे दहति गात्राणि विषं पीतमिवाशये ।
२२७. हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् ॥
२२८. तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा ।
२२९. रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना ॥
२३०. अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना ।
२३१. एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत् ॥
२३२. बह्वेतत् कामयानस्य शक्यमेतेन जीवितुम्।
२३३. यदहं सा च वामोरूः एकां धरणिमाश्रितौ ॥
२३४. केदारस्येव केदारः सोदकस्य निरूदकः ।
२३५. उपस्नेहेन जीवामि जीवन्तीं यत् शृणोमि ताम्॥
२३६. कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्।
२३७. विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम्॥
२३८. कदा सुचारुदन्तोष्ठं तस्याः पद्ममिवाननम्।
२३९. ईषदुन्नम्य पास्यामि रसायनमिवातुरः ॥
२४०. तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ ।
२४१. कदा नु खलु सोत्कंपौ श्लिष्यन्त्या मां भजिष्यतः ॥
२४२. कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति ।
२४३. विधूय जलदान् नीलान् शशिरेखा शरत्स्विव ॥
२४४. स्वभावतनुका नूनं शोकेनानशनेन च ।
२४५. भूयस्तनुतरा सीता देशकालविपर्ययात् ॥
२४६. कदा नु खलु मे साध्वी सीता सुरसुतोपमा ।
२४७. सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम्॥
२४८. कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्।
२४९. सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥
२५०. एवं विलपतस्तस्य तत्र रामस्य धीमतः ।
२५१. दिनक्षयान् मन्दवपुर्भास्करोऽस्तमुपागमत् ॥
२५२. आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत ।
२५३. स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः ॥
२५४. लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्।
२५५. राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना ।
२५६. अब्रवीत् राक्षसान् सर्वान् ह्रिया किचिदवाङ्मुखः ॥
२५७. धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ।
२५८. तेन वानरमात्रेण दृष्टा सीता च जानकी ॥
२५९. प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः ।
२६०. आविला च पुरी लङ्का सर्वा हनुमता कृता ॥
२६१. वानराणां हि धीराणां सहस्रैः परिवारितः ।
२६२. रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः ॥
२६३. मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः ।
२६४. तस्माद् वै रोचये मन्त्रं रामं प्रति महाबलाः ॥
२६५. त्रिविधा पुरुषा लोके उत्तमाधममध्यमाः ।
२६६. मन्त्रिभिर्हितसंयुक्तैः समर्थैः मन्त्रनिर्णये ॥
२६७. मित्रैर्वापि समानार्थैः बान्धवैरपि वाधिकैः ।
२६८. सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ।
२६९. दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्॥
२७०. एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
२७१. एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥
२७२. गुणदोषौ न निश्चित्य त्यक्त्वा धर्मव्यपाश्रयम्।
२७३. करिष्यामीति यः कार्यमुपेक्षेत् स नराधमः ॥
२७४. ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
२७५. मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्॥
२७६. बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये ।
२७७. पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः ॥
२७८. अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
२७९. न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥
२८०. तस्मात् सुमन्त्रितं साधु भवन्तो मतिसत्तमाः ।
२८१. कार्यं सम्प्रतिपद्यन्तामेतत् कृत्यं मतं मम ॥
२८२. इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।
२८३. ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्।
२८४. द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ॥
२८५. राजन् परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम्।
२८६. सुमहन्नो बलं कस्मात् विषादं भजते भवान् ॥
२८७. त्वया भोगवतीं गत्वा निर्जिताः पन्नगाः युधि ।
२८८. कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।
२८९. सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥
२९०. विनिपात्य च यक्षौघान् विक्षोभ्य विनिगृह्य च ।
२९१. त्वया कैलासशिखरात् विमानमिदमाहृतम्॥
२९२. मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता ।
२९३. दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ॥
२९४. मृत्युदण्डमहाग्राहं शाल्मलीद्रुममण्डितम्।
२९५. कालपाशमहावीचिं यमकिङ्करपन्नगम्।
२९६. महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्।
२९७. अवगाह्य त्वया राजन् यमस्य बलसागरम्।
२९८. जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ॥
२९९. क्षत्रियैर्बहुभिः शूरैः शक्रतुल्यपराक्रमैः ।
३००. आसीद् वसुमती पूर्णा महद्भिरिव पादपैः ॥
३०१. प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः ।
३०२. तेषां वीर्यगुणोत्साहैः न समो राघवो रणे ॥
३०३. तिष्ठ वा किं महाराज श्रमेण तव वानरान् ।
३०४. अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति ॥
३०५. अनेन च महाराज माहेश्वरमनुत्तमम्।
३०६. इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ॥
३०७. शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम्।
३०८. गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम्।
३०९. रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्।
३१०. गजाश्वरथतोयौघं पदातिपुलिनं महत् ।
३११. अनेन हि समासाद्य देवानां बलसागरम्।
३१२. गृहीतो दैवतपतिः लङ्कां चापि प्रवेशितः ॥
३१३. तमेव त्वं महाराज विसृजेन्द्रजितं सुतम्।
३१४. यावद् वानरसेनां तां सरामां नयति क्षयम्॥
३१५. राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ।
३१६. हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्॥
३१७. ततो निकुम्भो रभसः महापार्श्वमहोदरौ ।
३१८. इन्द्रजिच्च महातेजा वज्रदंष्‍ट्रो महाबलः ।
३१९. प्रहस्तोऽथ विरूपाक्षो दुर्मुखश्चैव राक्षसः ।
३२०. धूम्राक्षश्चातिकायश्च प्रासान् शक्तिपरश्वधान् ।
३२१. चापानि च सुबाणानि खड्गान्श्च विपुलाम्बुभान् ।
३२२. प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
३२३. अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥
३२४. अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्।
३२५. कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥
३२६. तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।
३२७. अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥
३२८. अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
३२९. तस्य विक्रमकालान्स्तान् युक्तानाहुर्मनीषिणः ॥
३३०. प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।
३३१. विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥
३३२. अप्रमत्तं कथं तं तु विजिगीषुं बलस्थितम्।
३३३. जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥
३३४. बलान्यपरिमेयानि वीर्याणि च निशाचराः ।
३३५. परेषां सहसावज्ञा न कर्तव्या कथञ्चन ॥
३३६. किं च राक्षसराजस्य रामेणापकृतं पुरा ।
३३७. आजहार जनस्थानात् यस्य भार्यां यशस्विनः ॥
३३८. खरो यद्यतिवृत्तस्तु स रामेण हतो रणे ।
३३९. अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्॥
३४०. अयशस्यमनायुष्यं परदाराभिमर्षणम्।
३४१. अर्थक्षयकरं घोरं पापस्य च पुनर्भवम्॥
३४२. एतन्निमित्तं वैदेह्याः भयं नः सुमहद् भवेत् ।
३४३. आहृता सा परित्याज्या कलहार्थे कृते नु किम्॥
३४४. न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना ।
३४५. वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥
३४६. विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।
३४७. रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥
३४८. प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम ।
३४९. हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥
३५०. त्यजाशु कोपं सुखधर्मनाशनम्
३५१. भजस्व धर्मं रतिकीर्तिवर्धनम्।
३५२. प्रसीद जीवेम सपुत्रबान्धवा
३५३. प्रदीयतां दाशरथाय मैथिली ॥
३५४. विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
३५५. विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्॥
३५६. ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः ।
३५७. अग्रजस्यालयं वीरः प्रविवेश विभीषणः ॥
३५८. स रावणं महात्मानं विजने मन्त्रिसन्निधौ ।
३५९. उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्।
३६०. प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः ।
३६१. देशकालार्थसंवादी दृष्टलोकपरावरः ॥
३६२. यदा प्रभृति वैदेही सम्प्राप्तेह परन्तप ।
३६३. तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥
३६४. सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः ।
३६५. मन्त्रसन्धुक्षितोऽप्यग्निर्न सम्यगभिवर्धते ॥
३६६. अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च ।
३६७. सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥
३६८. गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः ।
३६९. दीनमश्वा प्रहेषन्ते नवग्रासाभिनन्दिनः ॥
३७०. खरोष्‍ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति च ।
३७१. न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः ॥
३७२. वायसाः सङ्घशः क्रूराः व्याहरन्ति समन्ततः ।
३७३. समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥
३७४. तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्रमम्।
३७५. रोचसे वीर वैदेही राघवाय प्रदीयताम्॥
३७६. इदं च यदि वा मोहात् लोभात् वा व्याहृतं मया ।
३७७. तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥
३७८. अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते ।
३७९. रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥
३८०. श्रवणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः ।
३८१. अवश्यं च मया वाच्यं यद्दृष्टमपि वा श्रुतम्॥
३८२. सम्प्रधार्य यथान्यायं तद् भवान् कर्तुमर्हति ॥
३८३. हितं महार्थं मृदुहेतुसंहितम्
३८४. व्यतीतकालायतिसम्प्रतिक्षमम्।
३८५. निशम्य तद्वाक्यमुपस्थितज्वरः
३८६. प्रसङ्गवानुत्तरमेतदब्रवीत् ॥
३८७. भयं न पश्यामि कुतश्चिदप्यहम्
३८८. न राघवः प्राप्स्यति जातु मैथिलीम्।
३८९. सुरैः सहेन्द्रैरपि सङ्गरे कथम्
३९०. ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥
३९१. इत्येवमुक्त्वा सुरसैन्यनाशनो
३९२. महाबलः संयति चण्डविक्रमः ।
३९३. दशाननो भ्रातरमाप्तवादिनम्
३९४. विसर्जयामास तदा विभीषणम्॥
३९५. अतीतसमये काले तस्मिन् वै युधि रावणः ।
३९६. अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥
३९७. राक्षसैः स्तूयमानः सन् जयाशीर्भिररिन्दमः ।
३९८. आससाद महातेजा सभां विरचितां तदा ॥
३९९. ततः शशासेश्वरवत् दूतान् लघुपराक्रमान् ।
४००. समानयत मे क्षिप्रमिहैतान् राक्षसानिति ।
४०१. कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत् ॥
४०२. राक्षसाः तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः ।
४०३. अनुगेहमवस्थाय विहारशयनेषु च ।
४०४. उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥
४०५. ते समेत्य सभायां वै राक्षसा राजशासनात् ।
४०६. यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम्॥
४०७. न चुक्रुशुर्नानृतमाह कश्चित्
४०८. सभासदो नापि जजल्पुरुच्चैः ।
४०९. संसिद्धार्थाः सर्व एवाग्रवीर्या
४१०. भर्तुः सर्वे ददृशुश्चाननं ते ॥
४११. स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः ।
४१२. सुखेप्सुः सुहृदां मध्ये व्याजहार सरावणः ॥
४१३. प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते ।
४१४. धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम्॥
४१५. मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ।
४१६. सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा ॥
४१७. अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः ।
४१८. कुम्भकर्णस्य स्वपनात् नेममर्थमचोदयम्॥
४१९. अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः ।
४२०. सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥
४२१. कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः ।
४२२. बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ ॥
४२३. दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
४२४. अदेया च यथा सीता वध्यौ दशरथात्मजौ ॥
४२५. भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम्।
४२६. न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
४२७. सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥
४२८. तस्य कामपरीतस्य निशम्य परिदेवितम्।
४२९. कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥
४३०. सर्वमेतन्महाराज कृतमप्रतिमं तव ।
४३१. विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥
४३२. न्यायेन राजकार्याणि यः करोति दशानन ।
४३३. न स सन्तप्यते पश्चात् निश्चितार्थमतिर्नृपः ॥
४३४. अनुपायेन कर्माणि विपरीतानि यानि च ।
४३५. क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥
४३६. यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
४३७. पूर्वं चापरकार्याणि न स वेद नयानयौ ॥
४३८. त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्।
४३९. अहं समीकरिष्यामि हत्वा शत्रून्स्तवानघ ॥
४४०. रमस्व कामं पिब चाग्र्यवारुणीम्
४४१. कुरुष्व कार्याणि हितानि विज्वरः ।
४४२. मया तु रामे गमिते यमक्षयम्
४४३. चिराय सीता वशगा भविष्यति ॥
४४४. रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः ।
४४५. मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥
४४६. यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम्।
४४७. न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत् ॥
४४८. ईश्वरस्येश्वरो कोऽस्ति तव शत्रुनिबर्हण ।
४४९. रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥
४५०. बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल ।
४५१. आक्रम्याक्रम्य सीतां वै तथा भुङ्क्ष्व रमस्व च ॥
४५२. लब्धकामस्य ते पश्चादागमिष्यति किं भयम्।
४५३. प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि ॥
४५४. इह प्राप्तान् वयं सर्वान् शत्रून्स्तव महाबल ।
४५५. वशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥
४५६. एवमुक्तस्तदा राजा महापार्श्वेन रावणः ।
४५७. तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत् ॥
४५८. महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मनः ।
४५९. चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया ॥
४६०. पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्।
४६१. चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥
४६२. सा प्रसह्य मया भुक्ता कृता विवसना ततः ।
४६३. स्वयम्भुभवनं प्राप्ता लोलिता नलिनी यथा ॥
४६४. तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः ।
४६५. अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत् ॥
४६६. अद्य प्रभृति यामन्यां बलान्नारीं गमिष्यसि ।
४६७. तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥
४६८. इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्।
४६९. नारोहये बलात् सीतां वैदेहीं शयने शुभे ॥
४७०. सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
४७१. नैतद् दाशरथिर्वेद ह्यासादयति तेन माम्॥
४७२. क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकैश्च्युतैः ।
४७३. राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥
४७४. तच्चास्य बलमादास्ये बलेन महता वृतः ।
४७५. उदितः सविता काले नक्षत्राणां प्रभामिव ॥
४७६. निशाचरेन्द्रस्य निशम्य वाक्यम्
४७७. स कुम्भकर्णस्य च गर्जितानि ।
४७८. विभीषणो राक्षसराजमुख्यम्
४७९. उवाच वाक्यं हितमर्थयुक्तम्॥
४८०. वृतो हि बाह्वन्तरभोगराशिः
४८१. चिन्ताविषः सुस्मिततीक्ष्णदंष्‍ट्रः ।
४८२. पञ्चाङ्गुलीपञ्चशिरोऽतिकायः
४८३. सीतामहाहिस्तव केन राजन् ॥
४८४. यावन्न गृह्णन्ति शिरांसि बाणा
४८५. रामेरिता राक्षसपुङ्गवानाम्।
४८६. वज्रोपमा वायुसमानवेगाः
४८७. प्रदीयतां दाशरथाय मैथिली ॥
४८८. जीवन्स्तु रामस्य न मोक्ष्यसे त्वम्
४८९. गुप्तः सवित्राप्यथवा मरुद्भिः ।
४९०. न वासवस्याङ्कगतो न मृत्योः
४९१. नभो न पातालमनुप्रविष्टः ॥
४९२. निशम्य वाक्यं तु विभीषणस्य
४९३. ततः प्रहस्तो वचनं बभाषे ।
४९४. न नो भयं विद्म न दैवतेभ्यो
४९५. न दानवेभ्योऽप्यथवा कदाचित् ॥
४९६. न यक्षगन्धर्वमहोरगेभ्यो
४९७. भयं न सङ्ख्ये पतगोत्तमेभ्यः ।
४९८. कथं नु रामात् भविता भयं नो
४९९. नरेन्द्रपुत्रात् समरे कदाचित् ॥
५००. प्रहस्तवाक्यं त्वहितं निशम्य
५०१. विभीषणो राजहितानुकाङ्क्षी ।
५०२. ततो महार्थं वचनं बभाषे
५०३. धर्मार्थकामेषु निविष्टबुद्धिः ॥
५०४. वधस्तु रामस्य मया त्वया च
५०५. प्रहस्त सर्वैरपि राक्षसैर्वा ।
५०६. कथं भवेदर्थविशारदस्य
५०७. महार्णवं तर्तुमिवाप्लवस्य ॥
५०८. अयं च राजा व्यसनाभिभूतो
५०९. मित्रैरमित्रप्रतिमैर्भवद्भिः ।
५१०. अन्वास्यते राक्षसनाशनार्थे
५११. तीक्ष्णः प्रकृत्याप्यसमीक्ष्यकारी ॥
५१२. अनन्तभोगेन सहस्रमूर्ध्ना
५१३. नागेन भीमेन महाबलेन ।
५१४. बलात् परिक्षिप्तमिमं भवन्तो
५१५. राजानमुत्क्षिप्य विमोचयन्तु ॥
५१६. यावद्धि केशग्रहणात् सुहृद्भिः
५१७. समेत्य सर्वैः परिपूर्णकामैः ।
५१८. निगृह्य राजा परिरक्षितव्यो
५१९. भूतैर्यथा भीमबलैर्गृहीतः ॥
५२०. संहारिणा राघवसागरेण
५२१. प्रच्छाद्यमानस्तरसा भवद्भिः ।
५२२. युक्तस्त्वयं तारयितुं समेत्य
५२३. काकुत्स्थपातालमुखे पतन् सः ॥
५२४. इदं पुरस्यास्य सराक्षसस्य
५२५. राज्ञश्च पथ्यं ससुहृज्जनस्य ।
५२६. सम्यक् हि वाक्यं स्वमतं ब्रवीमि
५२७. नरेन्द्रपुत्राय ददातु मैथिलीम्॥
५२८. परस्य वीर्यं स्वबलं च बुद्ध्वा
५२९. स्थानं क्षयं चैव तथैव वृद्धिम्।
५३०. तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या
५३१. वदेत् क्षमं स्वामिहितं स मन्त्री ॥
५३२. बृहस्पतेस्तुल्यमतेर्वचस्तन्-
५३३. -निशम्य यत्नेन विभीषणस्य ।
५३४. ततो महात्मा वचनं बभाषे
५३५. तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥
५३६. किं नाम ते तात कनिष्ठवाक्यम्
५३७. अनर्थकं वै बहुभीतवच्च ।
५३८. अस्मिन् कुले योऽपि भवेन्नजातः
५३९. सोऽपीदृशं नैव वदेन्न कुर्यात् ॥
५४०. सत्त्वेन वीर्येण पराक्रमेण
५४१. धैर्येण शौर्येण च तेजसा च ।
५४२. एकः कुलेऽस्मिन् पुरुषो विमुक्तो
५४३. विभीषणस्तात कनिष्ठ एषः ॥
५४४. किं नाम तौ मानुषराजपुत्रौ
५४५. अस्माकमेकेन हि राक्षसेन ।
५४६. सुप्राकृतेनापि निहन्तुमेतौ
५४७. शक्यौ कुतौ भीषयसे स्म भीरो ॥
५४८. त्रिलोकनाथो ननु देवराजः
५४९. शक्रो मया भूमितले निविष्टः ।
५५०. भयार्पिताश्चापि दिशः प्रपन्नाः
५५१. सर्वे तदा देवगणाः समग्राः ॥
५५२. सोऽहं सुराणामपि दर्पहन्ता
५५३. दैत्योत्तमानामपि शोककर्ता ।
५५४. कथं नरेन्द्रात्मजयोः न शक्तो
५५५. मनुष्ययोः प्राकृतयोः सुवीर्यः ॥
५५६. अथेन्द्रकल्पस्य दुरासदस्य
५५७. महौजसस्तद् वचनं निशम्य ।
५५८. ततो महार्थं वचनं बभाषे
५५९. विभीषणः शस्त्रभृतां वरिष्ठः ॥
५६०. न तात मन्त्रे तव निश्चयोऽस्ति
५६१. बालस्त्वमद्याप्यविपक्वबुद्धिः ।
५६२. तस्मात् त्वयाप्यात्मविनाशनाय
५६३. वचोऽर्थहीनं बहु विप्रलप्तम्॥
५६४. पुत्रप्रवादेन तु रावणस्य
५६५. त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।
५६६. यस्येदृशं राघवतो विनाशम्
५६७. निशम्य मोहादनुमन्यसे त्वम्॥
५६८. त्वमेव वध्यश्च सुदुर्मतिश्च
५६९. स चापि वध्यो य इहानयत् त्वाम्।
५७०. बालं दृढं साहसिकं च योऽद्य
५७१. प्रावेशयत् मन्त्रकृतां समीपम्॥
५७२. को ब्रह्मदण्डप्रतिमप्रकाशान्
५७३. अर्चिष्मतः कालनिकाशरूपान् ।
५७४. सहेत बाणान् यमदण्डकल्पान्
५७५. समक्षमुक्तान् युधि राघवेण ॥
५७६. धनानि रत्नानि सुभूषणानि
५७७. वासांसि दिव्यानि मणीन्श्च चित्रान् ।
५७८. सीतां च रामाय निवेद्य देवीम्
५७९. वसेम राजन् इह वीतशोकाः ॥
५८०. सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्।
५८१. अब्रवीत् परुषं वाक्यं रावणः कालचोदितः ॥
५८२. वसेत् सह सपत्नेन क्रुद्धेनाशीविषेन च ।
५८३. न तु मित्रप्रवादेन संवसेत् शत्रुसेविना ॥
५८४. जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ।
५८५. हृष्यन्ति व्यसनेष्वेते ज्ञातिनां ज्ञातयः सदा ॥
५८६. नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः ।
५८७. प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥
५८८. श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।
५८९. पाशहस्तान् नरान् दृष्ट्वा शृणुष्व गदतो मम ॥
५९०. नाग्निर्नान्यानि शस्त्राणि न नः पाशाः भयावहाः ।
५९१. घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥
५९२. उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः ।
५९३. कृत्स्नात् भयात् ज्ञातिभयं कुकष्टं विहितं च नः ॥
५९४. ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ।
५९५. ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्न्यवस्थितः ॥
५९६. यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
५९७. न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥
५९८. यथा शरदि मेघानां सिञ्चतामपि गर्जताम्।
५९९. न भवत्यम्बुसङ्क्लेदः तथानार्येषु सौहृदम्॥
६००. यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि ।
६०१. रसमत्र न विन्देत तथानार्येषु सौहृदम्॥
६०२. यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।
६०३. दूषयत्यात्मनो देहं तथानार्येषु सौहृदम्॥
६०४. योऽन्यस्त्वेवं विधं ब्रूयात् वाक्यमेतन्निशाचर ।
६०५. अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसनम्॥
६०६. इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः ।
६०७. उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥
६०८. अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः ।
६०९. अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम्॥
६१०. स त्वं भ्रान्तोऽसि मे राजन् ब्रूहि मां यद्यदिच्छसि ।
६११. ज्येष्ठो मान्यो पितृसमः न च धर्मपथे स्थितः ॥
६१२. इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते ।
६१३. सुनीतं हितकामेन वाक्यमुक्तं दशानन ॥
६१४. न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ।
६१५. बद्धं कालस्य पाशेन सर्वभूतापहारिणः ॥
६१६. न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा ॥
६१७. दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः ।
६१८. न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥
६१९. शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे ।
६२०. कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥
६२१. तन्मर्षयतु यच्चोक्तं गुरुत्वात् हितमिच्छता ।
६२२. आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्॥
६२३. स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥
६२४. निवार्यमाणस्य मया हितैषिणा
६२५. न रोचते ते वचनं निशाचर ।
६२६. परान्तकाले हि गतायुषो नरा
६२७. हितं न गृह्णन्ति सुहृद्भिरीरितम्॥
६२८. इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।
६२९. आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥