१. ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।
२. आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥
३. तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।
४. सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ।
५. बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।
६. उन्मिषन्तमिवोद्धूतैः लोचनैरिव धातुभिः ।
७. तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।
८. प्रगीतमिव विस्पष्टं नानाप्रस्रवणस्वनैः ।
९. देवदारुभिरुद्धूतैरूर्ध्वबाहुमिव स्थितम् ।
१०. प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ।
११. वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।
१२. वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ।
१३. निःश्वसन्तमिवामर्षात् घोरैराशीविषोत्तमैः ।
१४. नीहारकृतगम्भीरैः ध्यायन्तमिव गह्वरैः ।
१५. जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।
१६. आरुरोहानिलसुतः पर्वतं प्लवगोत्तमः ॥
१७. तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।
१८. सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥
१९. स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।
२०. दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ॥
२१. तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।
२२. निपेतुर्भूतले भग्नाः शक्रायुधहता इव ॥
२३. कन्दरोदरसंस्थानां पीडितानां महौजसाम् ।
२४. सिंहानां निनदो भीमो नभो भिन्दन् हि शुश्रुवे ॥
२५. त्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।
२६. विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥
२७. किन्नरोरगगन्धर्वयक्षविद्याधरास्तथा ।
२८. पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥
२९. स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।
३०. सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ॥
३१. स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।
३२. कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ॥
३३. स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
३४. तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम् ।
३५. पुनर्वसुमहामीनं लोहिताङ्गमहाद्रुमम् ।
३६. ऐरावतमहाद्वीपं स्वातीहंसविलासितम् ।
३७. वातसङ्घातजालोर्मिचन्द्राम्शुशिशिराम्बुमत् ।
३८. हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥
३९. ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।
४०. हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।
४१. अपारमपरिश्रान्तश्चाम्बुधिं समगाहत ॥
४२. नदन् नादेन महता मेघस्वनमहास्वनः ।
४३. आजगाम महातेजाः पुनर्मध्येन सागरम् ॥
४४. पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।
४५. व्यामुक्त इव नाराचो महावेगोऽभ्युपागमत् ॥
४६. स किञ्चिदारात् संप्राप्तः समालोक्य महागिरिम् ।
४७. महेन्द्रं मेघसङ्काशं सुहृद्दर्शनलालसः ।
४८. ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत् ॥
४९. तस्य नानद्यमानस्य सुपर्णाचरिते पथि ।
५०. फलतीवास्य घोषेण गगनं सार्कमण्डलम् ॥
५१. ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः ।
५२. पूर्वं संविष्ठिताः शूराः वायुपुत्रदिदृक्षवः ।
५३. महतो वायुनुन्नस्य तोयदस्यैव निस्वनम् ।
५४. शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥
५५. बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥
५६. जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।
५७. उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥
५८. सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः ।
५९. न ह्यस्याकृतकार्यस्य नाद एवं विधो भवेत् ॥
६०. तस्य बाहूरुवेगं च निनादं च महात्मनः ।
६१. निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ॥
६२. ते नगाग्रान्नगाग्राणि शिखरात् शिखराणि च ।
६३. प्रहृष्टाः समुपद्यन्त हनूमन्तं दिदृक्षवः ॥
६४. ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः ।
६५. वासांसीव प्रकाशानि समाविध्यन्त वानराः ॥
६६. ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः ।
६७. निपपात गिरेस्तस्य शिखरे पादपाकुले ॥
६८. ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।
६९. हनूमन्तं महात्मानं परिवार्योपतस्थिरे ॥
७०. उपायनानि चादाय मूलानि च फलानि च ।
७१. प्रत्यर्पयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ॥
७२. हनूमान्स्तु गुरून् वृद्धान् जाम्बवत्प्रमुखान्स्तदा ।
७३. कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥
७४. स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।
७५. दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् ॥
७६. निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।
७७. रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥
७८. ततो दृष्टेति वचनं महार्थममृतोपमम् ।
७९. निशम्य मारुतेः सर्वे मुदिता वानराभवन् ॥
८०. क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।
८१. चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे ॥
८२. केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टा कपिकुञ्जराः ।
८३. आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥
८४. अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम् ।
८५. आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः ॥
८६. उक्तवाक्यं हनूमन्तमङ्गदस्तं तदाब्रवीत् ।
८७. सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् ॥
८८. सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।
८९. यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥
९०. अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।
९१. दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।
९२. दिष्ट्या त्यक्षति काकुत्स्थः शोकं सीतावियोगजम् ॥
९३. ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।
९४. परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥
९५. श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।
९६. दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।
९७. तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ॥
९८. तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम् ।
९९. जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम् ॥
१००. कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
१०१. तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः ॥
१०२. तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।
१०३. सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत ॥
१०४. श्रुतार्थाः चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।
१०५. यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
१०६. रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः ॥
१०७. स नियुक्तस्ततस्तेन (हनुमान् सर्वमब्रवीत् ।
१०८. सीतां संस्मृत्य हनुमान् यथोचितमनुक्रमम् ॥
) १०९. पर्वतारोहणात् पश्चात् सागरस्य च लङ्घनम् ।
११०. समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।
१११. रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।
११२. आपानभूमिगमनमवरोधस्य च दर्शनम् ।
११३. दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।
११४. अशोकवनिकायानं सीतायाश्चैव दर्शनम् ।
११५. अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ।
११६. राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।
११७. मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।
११८. (आत्मनः ग्रहणं चैव) लङ्कादाहाभिगर्जनम् ।
११९. (प्रतिप्लवनमेवाथ जगाद हरिपुङ्गवः ॥
) १२०. भूयः समुपचक्राम वचनं वक्तुमुत्तमम् ।
१२१. राघवस्य प्रसादेन भवतां चैव तेजसा ।
१२२. सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ।
१२३. सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ॥
१२४. शीलमासाद्य सीतायाः मम च प्रीणितं मनः ।
१२५. तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।
१२६. सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥
१२७. तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।
१२८. न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।
१२९. जनकस्यात्मजा कुर्यात् यत्क्रोधकलुषीकृता ॥
१३०. अस्मिन्नेवं गते कार्ये भवतां च निवेदिते ।
१३१. न्याय्यं स्म सहवैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥
१३२. अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् ।
१३३. तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ॥
१३४. किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।
१३५. कृतास्त्रैः प्लवगैः शक्तैः भवद्भिर्विजयैषिभिः ॥
१३६. अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् ।
१३७. सहपुत्रं वधिष्यामि सहोदरयुतं युधि ॥
१३८. भवतामननुज्ञातो विक्रमो मे रुणद्धि माम् ।
१३९. यदत्र प्रतिकर्तव्यं तत् सर्वमुपपद्यताम् ॥
१४०. तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।
१४१. अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
१४२. समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥
१४३. दृष्टा देवी नचानीता इति तत्र निवेदितुम् ।
१४४. न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः ॥
१४५. जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ।
१४६. सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः ॥
१४७. तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।
१४८. उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ॥
१४९. न तावदेषा मतिरक्षमा नो
१५०. यथा भवान् पश्यति राजपुत्र ।
१५१. यथा तु रामस्य मतिर्निविष्टा
१५२. तथा भवान् पश्यतु कार्यसिद्धिम् ॥
१५३. ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
१५४. अङ्गदप्रमुखा वीरा हनूमान्श्च महाकपिः ॥
१५५. प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः ।
१५६. महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः ॥
१५७. मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
१५८. छादयन्त इवाकाशं महाकाया महाबलाः ॥
१५९. सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
१६०. हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ॥
१६१. राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।
१६२. समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ॥
१६३. प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
१६४. नन्दनोपममासेदुः वनं द्रुमशतायुतम् ।
१६५. यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
१६६. अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।
१६७. यद् रक्षति महावीरः सदा दधिमुखः कपिः ।
१६८. मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ॥
१६९. ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।
१७०. कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ॥
१७१. ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन् ।
१७२. अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ॥
१७३. तानुवाच हरिश्रेष्ठः हनुमान् वानरर्षभः ।
१७४. अव्यग्रमनसो यूयं मधु सेवत वानराः ।
१७५. अहमावर्जयिष्यामि युष्माकं परिपन्थिनः ॥
१७६. श्रुत्वा हनुमतो वाक्यं हरीनां प्रवरोऽङ्गदः ।
१७७. प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु ॥
१७८. अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।
१७९. अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् ॥
१८०. ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः ।
१८१. ते प्रविष्टा मधुवनं पालान् आक्रम्य शक्तितः ॥
१८२. उत्पत्य च ततः सर्वे वनपालान् समागतान् ।
१८३. ते ताडयन्तः शतशः सक्ता मधुवने तदा ।
१८४. मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।
१८५. पिबन्ति सहिताः सर्वे निघ्नन्ति स्म तथापरे ॥
१८६. भक्षयन्तः सुगन्धीनि मूलानि च फलानि च ।
१८७. जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः ॥
१८८. गायन्ति केचित् प्रहसन्ति केचित्
१८९. नृत्यन्ति केचित् प्रणमन्ति केचित् ।
१९०. पतन्ति केचित् प्रचरन्ति केचित्
१९१. प्लवन्ति केचित् प्रलपन्ति केचित् ॥
१९२. परस्परं केचिदुपाश्रयन्ति
१९३. परस्परं केचिदतिब्रुवन्ति ।
१९४. द्रुमात् द्रुमं केचिदभिद्रुवन्ति
१९५. क्षितौ नगाग्रात् निपतन्ति केचित् ॥
१९६. महीरुहात् केचिदुदीर्णवेगा
१९७. महाद्रुमाग्राण्यभिसंपतन्ति ।
१९८. गायन्तमन्यः प्रहसन्नुपैति
१९९. हसन्तमन्यः प्ररुदन्नुपैति ॥
२००. तुदन्तमन्यः प्रणुदन्नुपैति
२०१. समाकुलं तत् कपिसैन्यमासीत् ।
२०२. न तत्र कश्चित् न बभूव मत्तो
२०३. न चात्र कश्चित् न बभूव दृप्तः ॥
२०४. येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु ।
२०५. तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ।
२०६. जानुभिस्तु प्रकृष्टाश्च देवमार्गं च दर्शिताः ॥
२०७. अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ।
२०८. हनूमता दत्तवरैः हतं मधुवनं महत् ॥
२०९. तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।
२१०. हतं मधुवनं श्रुत्वा सुप्रगृह्य महातरुम् ।
२११. समभ्यधावत् वेगेन यत्र ते कपिकुञ्जराः ॥
२१२. सवृक्षं तं महाबाहुमापतन्तं महाबलम् ।
२१३. वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः ॥
२१४. मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः ।
२१५. अथैनं निष्पिपेषाशु वेगेन वसुधातले ॥
२१६. स कथञ्चित् विमुक्तस्तैर्वानरैर्वानरर्षभः ।
२१७. उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान् ॥
२१८. एतागच्छत गच्छामो भर्ता नो यत्र वानरः ।
२१९. सुग्रीवो विपुलग्रीवो सह रामेण तिष्ठति ॥
२२०. सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे ।
२२१. अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥
२२२. इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः ॥
२२३. एवमुक्त्वा दधिमुखो वनपालैः समन्वितः ।
२२४. जगाम सहसोत्पत्य सुग्रीवो यत्र वानरः ॥
२२५. स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् ।
२२६. सुग्रीवस्याशु तौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥
२२७. ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
२२८. दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥
२२९. उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।
२३०. अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम् ॥
२३१. कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥
२३२. स समाश्वासितस्तेन सुग्रीवेण महात्मना ।
२३३. उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् ॥
२३४. नैवर्क्षरजसा राजन् न त्वया न च वालिना ।
२३५. वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः ॥
२३६. न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः ।
२३७. अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च ॥
२३८. निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि ।
२३९. इमे हि संरब्धतरास्तता तैः संप्रधर्षिताः ॥
२४०. पाणिभिर्निहता केचित् केचिज्जानुभिराहताः ।
२४१. कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते ॥
२४२. एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
२४३. अपृच्छत् तं महाप्राज्ञो लक्ष्मणः परवीरहा ॥
२४४. किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।
२४५. किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥
२४६. एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
२४७. लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥
२४८. आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।
२४९. अङ्गदप्रमुखैर्वीरैः भक्षितं मधु वानरैः ॥
२५०. नैषामकृतकार्याणामीदृशः स्यात् व्यतिक्रमः ।
२५१. दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥
२५२. कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गवे ।
२५३. व्यवसायं च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ॥
२५४. जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।
२५५. हनुमान्श्चाप्यधिष्ठाता न तत्र गतिरन्यथा ॥
२५६. न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।
२५७. वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥
२५८. श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।
२५९. प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः ॥
२६०. वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।
२६१. प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः ।
२६२. धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ॥
२६३. गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि ।
२६४. शीघ्रं प्रेषय सर्वान्स्तान् हनूमत्प्रमुखान् कपीन् ॥
२६५. सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।
२६६. संप्रणम्य च सुग्रीवं राघवौ च महाबलौ ।
२६७. स यथैवागतः पूर्वं तथैव त्वरितं गतः ॥
२६८. स प्रविष्टो मधुवनं बद्ध्वा करपुटाञ्जलिम् ।
२६९. उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥
२७०. सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम् ।
२७१. अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः ॥
२७२. श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु ।
२७३. युवराजस्त्वमीशश्च वनस्यास्य महाबल ॥
२७४. मौर्ख्यात् पूर्वं कृतो रोषस्तद्भवान् क्षन्तुमर्हसि ॥
२७५. आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।
२७६. इहोपयानं सर्वेषामेतेषां वनचारिणाम् ॥
२७७. भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः ।
२७८. प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥
२७९. शीघ्रं प्रेषय सर्वान्स्तानिति होवाच पार्थिवः ॥
२८०. श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः ।
२८१. अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥
२८२. शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ।
२८३. अयं च हर्षात् आख्याति तेन जानामि हेतुना ॥
२८४. तत् क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।
२८५. सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः ।
२८६. तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥
२८७. आज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ।
२८८. अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात् ॥
२८९. ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम् ।
२९०. प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥
२९१. एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।
२९२. ऐश्वर्यमदमत्तो हि सर्वोऽहमितिमन्यते ॥
२९३. तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।
२९४. सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥
२९५. सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।
२९६. स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥
२९७. त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम् ।
२९८. क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं नु ते ॥
२९९. एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।
३००. बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।
३०१. कृत्वाकाशं निराकाशं यन्त्रोक्षिप्ता इवोपलाः ॥
३०२. अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः ।
३०३. उवाच शोकसन्तप्तं रामं कमललोचनम् ॥
३०४. समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।
३०५. नागन्तुमिह शक्यं तैरतीतसमयैरिह ॥
३०६. न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।
३०७. युवराजो महाबाहुः प्लवतामङ्गदो वरः ॥
३०८. न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम् ।
३०९. कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ॥
३१०. ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।
३११. हनूमत्कर्मदृप्तानां नदतां काननौकसाम् ।
३१२. किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥
३१३. ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।
३१४. आयताञ्चितलाङ्गूलः सोऽभवद् हृष्टमानसः ॥
३१५. अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।
३१६. निपेतुर्हरिराजस्य समीपे राघवस्य च ॥
३१७. हनूमान्श्च महाबाहुः प्रणम्य शिरसा ततः ।
३१८. नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥
३१९. दृष्टा देवीति हनुमद्वदनादमृतोपमम् ।
३२०. आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥
३२१. निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे ।
३२२. लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ॥
३२३. प्रीत्या च परयोपेतो राघवः परवीरहा ।
३२४. बहुमानेन महता हनूमन्तमवैक्षत ॥
३२५. वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।
३२६. क्व सीता वर्तते देवी कथं च मयि वर्तते ।
३२७. एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥
३२८. रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
३२९. चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥
३३०. श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः ।
३३१. प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।
३३२. तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा ।
३३३. दत्त्वा रामाय हनुमान् ततः प्राञ्जलिरब्रवीत् ॥
३३४. समुद्रं लङ्घयित्वाहं शतयोजनमायतम् ।
३३५. अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ॥
३३६. तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
३३७. दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ॥
३३८. तत्र सीता मया दृष्टा रावणान्तःपुरे सती ।
३३९. त्वयि सन्न्यस्य जीवन्ती रामा राम मनोरथम् ॥
३४०. दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
३४१. राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ॥
३४२. दुःखमापद्यते देवी त्वया वीर सुखोचिता ।
३४३. रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥
३४४. एकवेणीधरा दीना त्वयि चिन्तापरायणा ।
३४५. अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥
३४६. रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
३४७. देवी कथञ्चित् काकुत्स्थ त्वन्मना मार्गिता मया ॥
३४८. इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ।
३४९. सा मया नरशार्दूल शनैर्विश्वासिता तदा ॥
३५०. ततः संभाषिता देवी सर्वमर्थं च दर्शिता ।
३५१. रामसुग्रीवसख्यं च श्रुत्वा हर्षमुपागता ॥
३५२. नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि ।
३५३. एवं मया महाभाग दृष्टा जनकनन्दिनी ।
३५४. उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥
३५५. अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके ॥
३५६. चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।
३५७. विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया ।
३५८. अखिलेन यथा दृष्टमिति मामाह जानकी ॥
३५९. अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
३६०. ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥
३६१. एष निर्यातितः श्रीमान् मया ते वारिसंभवः ।
३६२. एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥
३६३. मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत् ॥
३६४. जीवितं धारयिष्यामि मासं दशरथात्मज ।
३६५. ऊर्ध्वं मासान्नजीवेयं रक्षसां वशमागता ॥
३६६. इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी ।
३६७. रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ॥
३६८. एतदेव मयाख्यातं सर्वं राघव यद् यथा ।
३६९. सर्वथा सागरजले सन्तारः प्रविधीयताम् ॥
३७०. एवमुक्तो हनुमता रामो दशरथात्मजः ।
३७१. तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः ॥
३७२. तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।
३७३. नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥
३७४. यथैव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला ।
३७५. तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात् ॥
३७६. मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।
३७७. वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥
३७८. अयं हि जलसंभूतो मणिः प्रवरपूजितः ।
३७९. यज्ञे परमतुष्टेन दत्तं शक्रेण धीमता ॥
३८०. इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् ।
३८१. अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ॥
३८२. अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।
३८३. किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।
३८४. परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥
३८५. इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ।
३८६. मणिं पश्यामि सौमित्रे वैदेहीमागतां विना ॥
३८७. चिरं जीवति वैदेही यदि मासं धरिष्यति ।
३८८. क्षणं वीर न जीवेयं विना तामसितेक्षणाम् ॥
३८९. नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।
३९०. न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥
३९१. कथं सा मम सुश्रोणी भीरुभीरुः सती तदा ।
३९२. भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥
३९३. शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुधेः ।
३९४. आवृतो वदनं तस्या न विराजति साम्प्रतम् ॥
३९५. किमाह सीता हनुमन् तत्त्वतः कथयस्व मे ।
३९६. एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥
३९७. मधुरा मधुरालापा किमाह मम भामिनी ।
३९८. मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥
३९९. एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
४००. सीताया भाषितं सर्वं न्यवेदयत राघवे ॥
४०१. इदमुक्तवती देवी जानकी पुरुषर्षभ ।
४०२. मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ।
४०३. किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥
४०४. न दानवा न गन्धर्वा नासुरा न मरुद्गणाः ।
४०५. तव राम रणे शक्ताः तथा प्रतिसमासितुम् ॥
४०६. तव वीर्यवतः कश्चित् मम यद्यस्ति संभ्रमः ।
४०७. क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ॥
४०८. भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।
४०९. स किमर्थं नरवरो न मां रक्षति राघवः ॥
४१०. शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
४११. सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥
४१२. ममैव दुष्कृतं किञ्चित् महदस्ति न संशयः ।
४१३. समर्थौ सहितौ यन्मां न रक्षेते परन्तपौ ॥
४१४. गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।
४१५. विवर्धमानं च हि मामुवाच जनकात्मजा ॥
४१६. हनुमन् सिंहसङ्काशौ उभौ तौ रामलक्ष्मणौ ।
४१७. सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम् ॥
४१८. यथा च स महाबाहुर्मां तारयति राघवः ।
४१९. अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥
४२०. इमं च तीव्रं मम शोकवेगम्
४२१. रक्षोभिरेभिः परिभर्त्सनं च ।
४२२. ब्रूयास्तु रामस्य गतः समीपम्
४२३. शिवस्तु तेऽध्वास्तु हरिप्रवीर ॥
४२४. ततो मया वाग्भिरदीनभाषिणा
४२५. शिवाभिरिष्टाभिरभिप्रसादिता ।
४२६. एतच्च बुद्ध्वा गदितं मया त्वम्
४२७. श्रद्धत्स्व सीतां कुशलां समग्राम् ॥
॥ सुंदरकाण्डम् समाप्तम्॥