१. स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितस्तया ।
२. तस्माद् देशादपाक्रम्य चिन्तयामास वानरः ॥
३. कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।
४. पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥
५. स ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणि ।
६. यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥
७. इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।
८. वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥
९. इदं विध्वंसयिष्यामि शुष्कं वनमिवानिलः ।
१०. अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः ॥
११. ततः समासाद्य रणे दशाननम्
१२. समन्त्रिवर्गं सबलप्रयायिनम् ।
१३. हृदिस्थितं तस्य मतं बलं च
१४. सुखेन मत्वाहमितः पुनर्व्रजे ॥
१५. ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।
१६. ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥
१७. तद्वनं मथितैर्वृक्षैः भिन्नैश्च सलिलाशयैः ।
१८. चूर्णितैः पर्वताग्रैश्च क्लान्तद्रुमलतायुतैः ।
१९. नानाशकुन्तनिरुतैः बभूवाप्रियदर्शनम् ॥
२०. ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
२१. तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥
२२. स ता दृष्ट्वा महाबाहुः महासत्त्वो महाबलः ।
२३. चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥
२४. ततस्तु गिरिसङ्काशमतिकायं महाबलम् ।
२५. राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥
२६. कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।
२७. कथं त्वया सहानेन संवादः कृत इत्युत ॥
२८. अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना ।
२९. यूयमेवास्य जानीत योऽयं यद् वा करिष्यति ॥
३०. अहिरेव ह्यहेः पादान् विजानाति न संशयः ।
३१. अहमप्यतिभीतास्मि नैव जानामि को ह्ययम् ॥
३२. वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् ।
३३. विरूपं वानरं भीमं रावणाय न्यवेदिषुः ॥
३४. अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।
३५. सीतया कृतसंवादः तिष्ठत्यमितविक्रमः ॥
३६. न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
३७. यत्र सा जानकी देवी स तेन न विनाशितः ॥
३८. तस्योग्ररूपस्योग्रं तं दण्डमाज्ञातुमर्हसि ॥
३९. राक्षसीनां वचः श्रुत्वा कोपसंवर्धितेक्षणः ।
४०. चिताग्निरिव जज्वाल रावणो राक्षसेश्वरः ॥
४१. तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।
४२. दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥
४३. आत्मनः सदृशान् वीरान् किङ्करान् नाम राक्षसान् ।
४४. व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥
४५. ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।
४६. आजग्मुर्वानरश्रेष्ठं शरैरादित्यसन्निभैः ॥
४७. मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः ।
४८. परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥
४९. हनूमानपि तेजस्वी श्रीमान् पर्वतसन्निभः ।
५०. पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन् ॥
५१. स तैः परिवृतः शूरैः सर्वतः स महाबलः ।
५२. आससादायसं भीमं परिघं तोरणाश्रितम् ॥
५३. स तं परिघमादाय जघान रजनीचरान् ।
५४. विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥
५५. सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ॥
५६. स हत्वा राक्षसान् वीरः किङ्करान् मारुतात्मजः ।
५७. युद्धाकाङ्क्षी महावीरः तोरणं समुपाश्रितः ॥
५८. ततस्तस्माद् भयान्मुक्ताः कतिचित् तत्र राक्षसाः ।
५९. निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥
६०. स राक्षसानां निहतं महाबलम्
६१. निशम्य राजा परिवृत्तलोचनः ।
६२. समादिदेशाप्रतिमं पराक्रमम्
६३. प्रहस्तपुत्रं समरे सुदुर्जयम् ॥
६४. सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
६५. जम्बुमाली महादम्ष्ट्रो निर्जगाम धनुर्धरः ॥
६६. रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
६७. हनूमान् वेगसंपन्नो जहर्ष च ननाद च ॥
६८. तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् ।
६९. जम्बुमाली महातेजा विव्याध निशितैः शरैः ॥
७०. चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
७१. ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥
७२. तरसा तां समुत्पाट्य चिक्षेप जववद् बली ।
७३. तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥
७४. विपन्नं कर्म तद् दृष्ट्वा हनूमान्श्चण्डविक्रमः ।
७५. अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
७६. परिघं पातयामास जम्बुमालेर्महोरसि ॥
७७. न धनुर्न रथो नाश्वाः तत्रादृश्यन्त नेषवः ।
७८. स हतस्तरसा तेन जम्बुमाली महारथः ।
७९. पपात निहतो भूमौ चूर्णिताङ्ग इव द्रुमः ॥
८०. जम्बुमालिं सुनिहतं किङ्करान्श्च महाबलान् ।
८१. चुक्रोध रावणः श्रुत्वा क्रोधसंरक्तलोचनः ॥
८२. स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
८३. प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ।
८४. सन्दिदेश दशग्रीवो वीरान् नयविशारदान् ॥
८५. यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।
८६. न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ॥
८७. दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः ।
८८. वाली च सहसुग्रीवो जाम्बवान्श्च महाबलः ॥
८९. नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।
९०. न मतिर्न बलोत्साहो न रूपपरिकल्पनम् ॥
९१. प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।
९२. आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥
९३. ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।
९४. समुत्पेतुर्महावेगा हुताशसमतेजसः ॥
९५. ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम् ।
९६. तोरणस्थं महावेगं महासत्त्वं महाबलम् ॥
९७. ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः ।
९८. किरन् शरशतैर्नेकैरभिपेदे महाबलः ॥
९९. स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।
१००. निपपात महावेगो विद्युद्राशिर्गिराविव ॥
१०१. ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।
१०२. विहाय न्यपतद् भूमौ दुर्धरस्त्यक्तजीवितः ॥
१०३. तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।
१०४. तौ जातरोषौ दुर्धर्षौ उत्पेततुररिन्दमौ ॥
१०५. स सालवृक्षमासाद्य समुत्पाट्य च वानरः ।
१०६. तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥
१०७. ततस्तान् त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।
१०८. अभिपेदे महावेगः प्रहस्य प्रघसो बली ।
१०९. भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् ॥
११०. समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
१११. जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ॥
११२. गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः ॥
११३. ततः कपिस्तान् ध्वजिनीपतीन् रणे
११४. निहत्य वीरान् सबलान् सवाहनान् ।
११५. तथैव वीरः परिगृह्य तोरणम्
११६. कृतक्षणः काल इव प्रजाक्षये ॥
११७. सेनापतीन् पञ्च स तु प्रमापितान्
११८. हनूमता सानुचरान् सवाहनान् ।
११९. निशम्य राजा समरोद्धतोन्मुखम्
१२०. कुमारमक्षं प्रसमैक्षताग्रतः ॥
१२१. स तस्य दृष्ट्यर्पणसंप्रचोदितह्
१२२. प्रतापवान् काञ्चनचित्रकार्मुकः ।
१२३. समुत्पपाताथ सदस्युदीरितो
१२४. द्विजातिमुख्यैः हविषेव पावकः ॥
१२५. स पूरयन् खं च महीं च साचलाम्
१२६. तुरङ्गमातङ्गमहारथस्वनैः ।
१२७. बलैः समेतैः सहतोरणस्थितम्
१२८. समर्थमासीनमुपागमत् कपिम् ॥
१२९. स बालभावाद् युधि वीर्यदर्पितह्
१३०. प्रवृद्धमन्युः क्षतजोपमेक्षणः ।
१३१. समाससादाप्रतिमं रणे कपिम्
१३२. गजो महाकूपमिवावृतं तृणैः ॥
१३३. स तस्य वीरः सुमुखान् पतत्रिणह्
१३४. सुवर्णपुङ्खान् सविषानिवोरगान् ।
१३५. समाधिसंयोगविमोक्षतत्त्ववित्
१३६. शरानथ त्रीन् कपिमूर्ध्न्यताडयत् ॥
१३७. स तैः शरैः मूर्ध्नि समं निपातितैह्
१३८. क्षरन्नसृग्दिग्धविवृत्तनेत्रः ।
१३९. अवैक्षताक्षं बहुमानचक्षुषा
१४०. जगाम चिन्तां स च मारुतात्मजः ॥
१४१. न खल्वियं नाभिभवेदुपेक्षितह्
१४२. पराक्रमो ह्यस्य रणे विवर्धते ।
१४३. प्रमापणं ह्यस्य ममाद्य रोचते
१४४. न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥
१४५. इति प्रवेगं तु परस्य तर्कयन्
१४६. स्वकर्मयोगं च विधाय वीर्यवान् ।
१४७. स तस्य तानष्ट वरान् महाहयान्
१४८. जघान वीरः पवनात्मजः कपिः ॥
१४९. ततस्तलेनाभिहतो महारथः
१५०. स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।
१५१. स भग्ननीडः परिवृत्तकूबरः
१५२. पपात भूमौ हतवाजिरम्बरात् ॥
१५३. स तं परित्यज्य महारथो रथम्
१५४. सकार्मुकः खड्गधरः खमुत्पतन् ।
१५५. ततोऽभियोगात् ऋषिरुग्रवीर्यवान्
१५६. विहाय देहं मरुतामिवालयम् ॥
१५७. कपिस्ततस्तं विचरन्तमम्बरे
१५८. पतत्रिराजानिलसिद्धसेविते ।
१५९. समेत्य तं मारुतवेगविक्रमः
१६०. क्रमेण जग्राह च पादयोर्दृढम् ॥
१६१. स तं समाविध्य सहस्रशः कपिः
१६२. महोरगं गृह्य इवाण्डजेश्वरः ।
१६३. मुमोच वेगात् पितृतुल्यविक्रमो
१६४. महीतले सम्यति वानरोत्तमः ॥
१६५. स भग्नबाहूरुकटीपयोधरः
१६६. क्षरन्नसृङ्ग्निर्मथितास्थिलोचनः ।
१६७. संभिन्नसन्धिः प्रविकीर्णबन्धनो
१६८. हतः क्षितौ वायुसुतेन राक्षसः ॥
१६९. ततस्तु रक्षोधिपतिर्महात्मा
१७०. हनूमताक्षे निहते कुमारे ।
१७१. मनः समाधाय स देवकल्पम्
१७२. समादिदेशेन्द्रजितं सरोषः ॥
१७३. त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः ।
१७४. न शेकुः समरे स्थातुं सुरेश्वरसमाहिताः ॥
१७५. भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।
१७६. देशकालविभागज्ञः त्वमेव मतिसत्तमः ॥
१७७. निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः ।
१७८. बलानि सुसमृद्धानि साश्वनागरथानि च ॥
१७९. सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ।
१८०. न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥
१८१. इदं च दृष्ट्वा निहतं महद्बलम्
१८२. कपेः प्रभावं च पराक्रमं च ।
१८३. त्वमात्मनश्चापि निरीक्ष्य सारम्
१८४. कुरुष्व वेगं स्वबलानुरूपम् ॥
१८५. ततः पितुस्तद्वचनं निशम्य
१८६. प्रदक्षिणं दक्षसुतप्रभावः ।
१८७. चकार भर्तारमतित्वरेण
१८८. रणाय वीरः प्रतिपन्नबुद्धिः ॥
१८९. स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ।
१९०. रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥
१९१. आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।
१९२. ननाद च महानादं व्यवर्धत च वेगवान् ॥
१९३. तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ।
१९४. सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥
१९५. हनूमतो वेद न राक्षसोऽन्तरम्
१९६. न मारुतिस्तस्य महात्मनोऽन्तरम् ।
१९७. परस्परं निर्विषहौ बभूवतुः
१९८. समेत्य तौ देवसमानविक्रमौ ॥
१९९. ततस्तु लक्ष्ये स विहन्यमाने
२००. शरेष्वमोघेषु च संपतत्सु ।
२०१. जगाम चिन्तां महतीं महात्मा
२०२. समाधिसंयोगसमाहितात्मा ॥
२०३. ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः ।
२०४. सन्दधे सुमहातेजाः तं हरिप्रवरं प्रति ॥
२०५. अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।
२०६. निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित् ॥
२०७. तेन बद्धः ततोऽस्त्रेण राक्षसेन स वानरः ।
२०८. अभवन्निर्विचेष्टश्च पपात च महीतले ॥
२०९. ततः स्वायम्भुवैर्मन्त्रैः ब्रह्मास्त्रं चाभिमन्त्रितम् ।
२१०. हनुमान्श्चिन्तयामास वरदानं पितामहात् ॥
२११. अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।
२१२. पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥
२१३. ग्रहणे चापि रक्षोभिः महन्मे गुणदर्शनम् ।
२१४. राक्षसेन्द्रेण संवादः तस्माद् गृह्णन्तु मां परे ॥
२१५. ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिन्दमम् ।
२१६. बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥
२१७. स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।
२१८. अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥
२१९. अस्त्रेण हनुमान् मुक्तो नात्मानमवबुद्ध्यते ।
२२०. कृष्यमाणस्तु रक्षोभिः तैश्च बन्धैर्निपीडितः ॥
२२१. हन्यमानस्ततः क्रूरैः राक्षसैः कालमुष्टिभिः ।
२२२. समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥
२२३. स ददर्श महातेजा रावणः कपिसत्तमम् ।
२२४. रक्षोभिः विकृताकारैः कृष्यमाणमितस्ततः ॥
२२५. भ्राजमानं महार्हेण काञ्चनेन विराजता ।
२२६. मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम् ।
२२७. महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् ।
२२८. विचित्रं दर्शनीयैश्च रक्ताक्षैः भीमदर्शनैः ।
२२९. दीप्ततीक्ष्णमहादम्ष्ट्रं प्रलम्बदशनच्छदैः ।
२३०. शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।
२३१. नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ।
२३२. महति स्फाटिके चित्रे रत्नसंयोगचित्रिते ।
२३३. उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ।
२३४. हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत ॥
२३५. अलङ्कृताभिरत्यर्थं प्रमदाभिः समन्ततः ।
२३६. वालव्यजनहस्ताभिरारात् समुपसेवितम् ।
२३७. मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः ।
२३८. आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ।
२३९. मनसा चिन्तयामास तेजसा तस्य मोहितः ॥
२४०. अहो रूपमहो धैर्यमहो सत्त्वमहोद्युतिः ।
२४१. अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥
२४२. यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।
२४३. स्यादयं सुरलोकस्य सशक्तस्यापि रक्षिता ॥
२४४. अस्य क्रूरैः नृशंसैश्च कर्मभिर्लोककुत्सितैः ।
२४५. सर्वे बिभ्यति खल्वस्मात् लोकाः सामरदानवाः ॥
२४६. अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।
२४७. इति चिन्तां बहुविधामकरोन्मतिमान् कपिः ॥
२४८. तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।
२४९. रोषेण महताविष्टो रावणो लोकरावणः ।
२५०. शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम् ॥
२५१. किमेष भगवान् नन्दी भवेत् साक्षादिहागतः ।
२५२. येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा ॥
२५३. स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
२५४. कालयुक्तमुवाचेदं वचो विपुलमर्थवत् ॥
२५५. दुरात्मा पृच्छतामेष कुतः किं वास्य कारणम् ।
२५६. वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने ॥
२५७. आयोधने वा किं कार्यं पृच्छ्यतामेष दुर्मतिः ॥
२५८. रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
२५९. समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥
२६०. तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
२६१. अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥
२६२. यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम् ।
२६३. यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
२६४. विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।
२६५. चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥
२६६. न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।
२६७. अथ वा यन्निमित्तस्ते प्रवेशो रावणालये ॥
२६८. एवमुक्तो हरिवरः तदा रक्षोगणेश्वरम् ।
२६९. अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च ॥
२७०. धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।
२७१. जातिरेव मम त्वेषा वानरोऽहमिहागतः ॥
२७२. वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ॥
२७३. ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।
२७४. रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे ॥
२७५. अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ।
२७६. राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥
२७७. केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम् ।
२७८. दूतोऽहमिति विज्ञाय राघवस्यामितौजसः ।
२७९. श्रूयतामेव वचनं मम पथ्यमिदं प्रभो ॥
२८०. अहं सुग्रीवसन्देशादिह प्राप्तस्तवान्तिके ।
२८१. राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥
२८२. रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः ।
२८३. तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता ॥
२८४. मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः ।
२८५. ऋष्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः ॥
२८६. तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् ।
२८७. सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥
२८८. ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् ।
२८९. सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः ॥
२९०. त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः ।
२९१. स तेन निहतः सङ्ख्ये शरेणैकेन वानरः ॥
२९२. स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः ।
२९३. हरीन् संप्रेषयामास दिशः सर्वाः हरीश्वरः ॥
२९४. तां हरीणां सहस्राणि शतानि नियुतानि च ।
२९५. दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे ॥
२९६. वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः ।
२९७. असङ्गगतयः शीघ्रा हरिवीरा महाबलाः ॥
२९८. अहं तु हनुमन्नाम मारुतस्यौरसः सुतः ।
२९९. सीतायास्तु कृते तूर्णं शतयोजनमायतम् ।
३००. समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः ॥
३०१. भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ।
३०२. तद् भवान् दृष्टधर्मात्मः तपःकृतपरिग्रहः ।
३०३. परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥
३०४. न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।
३०५. मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥
३०६. तपःसन्तापलब्धस्ते सोऽयं धर्मपरिग्रहः ।
३०७. न स नाशयितुं न्याय्यः आत्मप्राणपरिग्रहः ॥
३०८. न तु धर्मोपसंहारमधर्मफलसंहितम् ।
३०९. तदेव फलमन्वेति धर्मश्चाधर्मनाशनः ॥
३१०. प्राप्तं धर्मफलं तावत् भवता नात्र संशयः ।
३११. फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे ॥
३१२. यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे ।
३१३. कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ॥
३१४. तदलं कालपाशेन सीताविग्रहरूपिणा ।
३१५. स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् ॥
३१६. जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा ।
३१७. रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः ॥
३१८. कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् ।
३१९. शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि ॥
३२०. रामेण च प्रतिज्ञातं हर्यृक्षगणसन्निधौ ।
३२१. उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता ॥
३२२. अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः ।
३२३. न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः ॥
३२४. अवध्यतां तपोभिर्यां भवान् समनुपश्यति ।
३२५. आत्मनः सासुरैर्देवैः हेतुस्तत्राप्ययं महान् ॥
३२६. सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः ।
३२७. मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः ।
३२८. तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि ॥
३२९. स्वानि मित्राणि मन्त्रीन्श्च ज्ञातीन् भ्रातॄन् सुतान् हितान् ।
३३०. भोगान् दारान्श्च लङ्कां च मा विनाशमुपानय ॥
३३१. तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च ।
३३२. मन्यस्व नरदेवाय जानकी प्रतिदीयताम् ॥
३३३. सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान् ।
३३४. पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः ॥
३३५. सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः ।
३३६. यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम् ॥
३३७. ब्रह्मा स्वयम्भूश्चतुराननो वा
३३८. रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा ।
३३९. इन्द्रो महेन्द्रः सुरनायको वा
३४०. स्थातुं न शक्ता युधि राघवस्य ॥
३४१. तस्य तद् वचनं श्रुत्वा वानरस्य महात्मनः ।
३४२. आज्ञापयत् वधं तस्य रावणः क्रोधमूर्च्छितः ॥
३४३. वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।
३४४. निवेदितवतो दौत्यं नानुमेने विभीषणः ॥
३४५. निश्चितार्थः ततः साम्ना पूज्यं शत्रुजिदग्रजम् ।
३४६. उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥
३४७. धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।
३४८. परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥
३४९. गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः ।
३५०. ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥
३५१. तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।
३५२. युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम् ॥
३५३. राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।
३५४. तव चासदृशं वीर कपेरस्य प्रमापणम् ॥
३५५. वैरूप्यमङ्गेषु कशाभिघातः
३५६. मौन्ड्यं तथा लक्षणसन्निपातः ।
३५७. एतान् हि दूते प्रवदन्ति दण्डान्
३५८. वधस्तु दूतस्य न नः श्रुतोऽस्ति ॥
३५९. न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।
३६०. तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥
३६१. साधुर्वा यदि वा साधुः परैरेष समर्पितः ।
३६२. ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ॥
३६३. अस्मिन् विनष्टे न हि भूतमन्यम्
३६४. पश्यामि यस्तौ नरराजपुत्रौ ।
३६५. युद्धाय युद्धप्रिय दुर्विनीतौ
३६६. उद्वेजयेत् वै भवता विरुद्धौ ॥
३६७. पराक्रमोत्साहमनस्विनां च
३६८. सुरासुराणामपि दुर्जयेन ।
३६९. त्वया मनोनन्दन नैरृतानाम्
३७०. युद्धायतिर्नाशयितुं न युक्तम् ॥
३७१. तदेकदेशेन बलस्य तावत्
३७२. केचित् तवादेशकृतोऽद्य यान्तु ।
३७३. तौ राजपुत्रौ उपगृह्य मूढौ
३७४. परेषु ते भावयितुं प्रभावम् ॥
३७५. तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः ।
३७६. देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥
३७७. सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
३७८. कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ॥
३७९. तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।
३८०. ततः पश्यन्त्वमुं घोरमङ्गवैरूप्यकर्शितम् ।
३८१. समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्ज्जनाः ॥
३८२. आज्ञापयत् राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।
३८३. लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥
३८४. तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः ।
३८५. वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः ॥
३८६. संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।
३८७. शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम् ॥
३८८. तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन् ।
३८९. लाङ्गूलेन प्रदीप्तेन राक्षसान्स्तानताडयत् ॥
३९०. रोषामर्षपरीतात्मा बालसूर्यसमाननः ।
३९१. निबद्धः कृतवान् वीरः तत्कालसदृशीं मतिम् ॥
३९२. सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।
३९३. किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥
३९४. लङ्का चारयितव्या मे पुनरेव भवेदिति ।
३९५. रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।
३९६. अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥
३९७. ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।
३९८. शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः ।
३९९. राक्षसाः क्रूरकर्माणः चारयन्ति स्म तां पुरीम् ॥
४००. चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।
४०१. घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः ॥
४०२. स्त्रीबालवृद्धाः निर्जग्मुः तत्र तत्र कुतूहलात् ।
४०३. तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः ॥
४०४. दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ।
४०५. राक्षस्यस्ता विरूपाक्ष्यः शंसुः देव्यास्तदप्रियम् ॥
४०६. यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।
४०७. लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ॥
४०८. श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।
४०९. वैदेही शोकसन्तप्ता हुताशनमुपागमत् ॥
४१०. मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ।
४११. उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥
४१२. यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
४१३. यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः ॥
४१४. यदि किञ्चिदनुक्रोशः तस्य मय्यस्ति धीमतः ।
४१५. यदि वा भाग्यशेषो मे शीतो भव हनूमतः ॥
४१६. यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ।
४१७. स विजानाति धर्मात्मा शीतो भव हनूमतः ॥
४१८. ततस्तीक्ष्णाग्निरव्यग्रः प्रदक्षिणशिखोऽनलः ।
४१९. जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः ॥
४२०. हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः ।
४२१. ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ॥
४२२. दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।
४२३. प्रदीप्तोऽग्निरयं कस्मान्न मां दहति पावकः ॥
४२४. दृश्यते च महाज्वालः करोति च न मे रुजम् ।
४२५. शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः ॥
४२६. यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।
४२७. रामार्थं संभ्रमस्तादृक् किमग्निर्न करिष्यति ॥
४२८. सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।
४२९. पितुश्च मम सख्येन न मां दहति पावकः ॥
४३०. स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।
४३१. ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥
४३२. पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।
४३३. विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥
४३४. वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।
४३५. वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥
४३६. किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।
४३७. यदेषां रक्षसां भूयः सन्तापजननं भवेत् ॥
४३८. वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।
४३९. बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥
४४०. दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।
४४१. अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः ॥
४४२. यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ।
४४३. अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥
४४४. ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।
४४५. भवनाग्रेषु लङ्काया विचचार महाकपिः ॥
४४६. गृहात् गृहं राक्षसानां उद्यानानि च वानरः ।
४४७. वीक्षमाणो ह्यसन्त्रस्तः प्रासादान्श्च चचार सः ॥
४४८. वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
४४९. क्रममाणः क्रमेणैव भवनेषु महायशाः ।
४५०. गृहेष्वृद्धिमतां ऋद्धिं ददाह कपिकुञ्जरः ॥
४५१. प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ॥
४५२. अभूत् श्वसनसंवेगादतिवेगो हुताशनः ॥
४५३. तानि काञ्चनजालानि मुक्तामणिमयानि च ।
४५४. भवनानि व्यशीर्यन्त रत्नवन्ति महान्ति च ॥
४५५. तानि भग्नविमानानि निपेतुर्वसुधातले ।
४५६. भवनानीव सिद्धानामम्बरात् पुण्यसङ्क्षये ॥
४५७. सञ्जज्ञे तुमुलः शब्दः राक्षसानां प्रधावताम् ।
४५८. स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।
४५९. नूनमेषोऽग्निरायातः कपिरूपेण हा इति ॥
४६०. क्रन्दन्त्यः सहसा पेतुः स्तनन्धयधराः स्त्रियः ।
४६१. काश्चिदग्निपरीताङ्ग्यो हर्म्येभ्यो मुक्तमूर्धजाः ।
४६२. पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥
४६३. युगान्तकालानिलतुल्यरूपः
४६४. समारुतोऽग्निर्ववृधे दिवस्पृक् ।
४६५. विधूमरश्मिर्भवनेषु सक्तो
४६६. रक्षःशरीराज्यसमर्पितार्चिः ॥
४६७. आदित्यकोटीसदृशः सुतेजा
४६८. लङ्कां समस्तां परिवार्य तिष्ठन् ।
४६९. शब्दैरनेकैरशनिप्ररूढैः
४७०. भिन्दन्निवाण्डं प्रबभौ महाग्निः ॥
४७१. तत्राम्बरादग्निरतिप्रवृद्धः
४७२. रूक्षप्रभः किम्शुकपुष्पचूडः ।
४७३. निर्वाणधूमानलराजयश्च
४७४. नीलोत्पलाभा प्रचकाशिरेऽभ्राः ॥
४७५. वज्री महेन्द्रः त्रिदशेश्वरो वा
४७६. साक्षाद् यमो वा वरुणोऽनिलो वा ।
४७७. रौद्रोऽग्निरर्को धनदश्च सोमो
४७८. न वानरोऽयं स्वयमेव कालः ॥
४७९. इत्येवमूचुर्बहवो विशिष्टा
४८०. रक्षोगणास्तत्र समेत्य सर्वे ।
४८१. सप्राणिसङ्घां सगृहां सवृक्षाम्
४८२. दग्धां पुरीं तां सहसा समीक्ष्य ॥
४८३. ततस्तु लङ्का सहसा प्रदग्धा
४८४. सराक्षसा साश्वरथा सनागा ।
४८५. सपक्षिसङ्घा समृगा सवृक्षा
४८६. रुरोद दीना तुमुलं सशब्दम् ॥
४८७. गृहाग्रशृङ्गाग्रतले विचित्रे
४८८. प्रतिष्ठितो वानरराजसिंहः ।
४८९. प्रदीप्तलाङ्गूलकृतार्चिमाली
४९०. व्यराजतादित्य इवार्चिमाली ॥
४९१. लङ्कां समस्तां संपीड्य लाङ्गूलाग्निं महाकपिः ।
४९२. निर्वापयामास तदा समुद्रे हरिपुङ्गवः ॥
४९३. सन्दीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम् ।
४९४. अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ॥
४९५. तस्याभूत् सुमहान्स्त्रासः कुत्सा चात्मन्यजायत ।
४९६. लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ॥
४९७. धन्यास्ते पुरुषश्रेष्ठा यो बुद्ध्या कोपमुत्थितम् ।
४९८. निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥
४९९. क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्यात् गुरूनपि ।
५००. क्रुद्धः परुषया वाचा नरः साधून् अधिक्षिपेत् ॥
५०१. वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।
५०२. नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥
५०३. यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
५०४. यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥
५०५. धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।
५०६. विनष्टा जानकी नूनं नह्यदग्धा प्रदृश्यते ।
५०७. लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥
५०८. यदर्थमयमारम्भः तत्कार्यमपसादितम् ।
५०९. मया च दहता लङ्कां न सीता परिरक्षिता ॥
५१०. ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।
५११. तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥
५१२. मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।
५१३. प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥
५१४. कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः ।
५१५. तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥
५१६. इहैव प्राणसन्यासो ममापि ह्यद्य रोचते ।
५१७. किमग्नौ निपताम्यद्य आहोस्वित् बडवामुखे ॥
५१८. शरीरमिह सत्त्वानां दद्मि सागरवासिनाम् ।
५१९. इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे ।
५२०. पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् ॥
५२१. अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।
५२२. न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥
५२३. न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।
५२४. स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥
५२५. नूनं रामप्रभावेण वैदेह्या सुकृतेन च ।
५२६. यन्मां दहनकर्मायं नादहद् हव्यवाहनः ॥
५२७. पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा ।
५२८. हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥
५२९. तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।
५३०. असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥
५३१. स तथा चिन्तयन्स्तत्र देव्या धर्मपरिग्रहम् ।
५३२. शुश्राव हनुमान्स्तत्र चारणानां महात्मनाम् ॥
५३३. अहो खलु कृतं कर्म दुर्विगाहं हनूमता ।
५३४. दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा ॥
५३५. जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥
५३६. स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
५३७. ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ॥
५३८. ततः कपिः प्राप्तमनोरथार्थः
५३९. तमक्षतां राजसुतां विदित्वा ।
५४०. प्रत्यक्षतस्तां पुनरेव दृष्ट्वा
५४१. प्रतिप्रयाणाय मतिं चकार ॥