१. हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।
२. सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥
३. अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
४. ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥
५. यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
६. दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥
७. यदि ह्यहं सतीमेनां शोकोपहतचेतनाम् ।
८. अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥
९. अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
१०. सर्वथा नास्ति सन्देहः परित्यक्षति जीवितम् ॥
११. सीतासन्देशरहितं मामितस्त्वरया गतम् ।
१२. निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा ॥
१३. अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः ।
१४. शनैराश्वासयाम्यद्य सन्तापबहुलामिमाम् ॥
१५. अहं ह्यतितनुश्चैव वानरश्च विशेषतः ।
१६. यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
१७. रावणं मन्यमाना मां सीता भीता भविष्यति ॥
१८. ततो जातपरित्रासा शब्दं कुर्यान् मनस्विनी ।
१९. सीतया च कृते शब्दे सहसा राक्षसीगणः ।
२०. नानाप्रहरणो घोरः समेयादन्तकोपमः ॥
२१. ततःकुर्युः समाह्वानं राक्षस्यो रक्षसामपि ॥
२२. ते शूलशरनिस्त्रिंशविविधायुधपाणयः ।
२३. मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः ॥
२४. हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ॥
२५. विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम् ।
२६. एष दोषो महान् हि स्यात् मम सीताभिभाषणे ।
२७. प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥
२८. कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।
२९. न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम ।
३०. लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥
३१. कथं नु खलु वाक्यं मे श्रुणुयात् नोद्विजेत च ।
३२. इति सञ्चिन्त्य हनुमान् चकार मतिमान् मतिम् ॥
३३. राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
३४. नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम् ॥
३५. इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
३६. शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।
३७. श्रावयिष्यामि सर्वाणि मधुरं प्रब्रुवन् गिरम् ।
३८. श्रद्धास्यति यथा सीता तथा सर्वं समादधे ॥
३९. एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः ।
४०. संश्रये मधुरं वाक्यं वैदेह्या व्याजहार ह ॥
४१. राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
४२. पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः ।
४३. राजर्षीणां गुणश्रेष्ठः घृणी सत्यपराक्रमः ॥
४४. तस्य पुत्रः प्रियो ज्येष्ठः ताराधिपनिभाननः ।
४५. रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥
४६. रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता ।
४७. रक्षिता जीवलोकस्य धर्मस्यापि परन्तपः ॥
४८. तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।
४९. सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥
५०. तेन तत्र महारण्ये मृगयां परिधावता ।
५१. राक्षसाः निहताः शूराः बहवः कामरूपिणः ॥
५२. जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।
५३. ततस्त्वमर्षापहृता जानकी रावणेन तु ।
५४. वञ्चयित्वा वने रामं मृगरूपेण मायया ॥
५५. स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।
५६. आससाद वने मित्रं सुग्रीवं नाम वानरम् ॥
५७. सुग्रीवेणाभिसन्दिष्टा हरयः कामरूपिणः ।
५८. दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः ॥
५९. अहं सम्पातिवचनात् शतयोजनमायतम् ।
६०. तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः ॥
६१. यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम् ।
६२. अश्रौषं राघवस्याहं सेयमासदिता मया ॥
६३. विररामैवमुक्त्वा स वाचं वानरपुङ्गवः ।
६४. जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥
६५. ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।
६६. उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत ॥
६७. ततः शाखान्तरे लीनं विनीतवदवस्थितम् ।
६८. वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।
६९. फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।
७०. मैथिली चिन्तयामास दृष्ट्वा चलितमानसा ॥
७१. अहो भीममिदं सत्त्वं वानरस्य दुरासदम् ।
७२. दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा ॥
७३. चिरेण सञ्ज्ञां प्रतिलभ्य चैवम्
७४. विचिन्तयामास विशालनेत्रा ।
७५. स्वप्नो ममायं विकृतोऽद्य दृष्टः ।
७६. शाखामृगः शास्त्रगणैर्निषिद्धः ॥
७७. स्वस्त्यस्तु रामाय सलक्ष्मणाय
७८. तथा पितुर्मे जनकस्य राज्ञः ।
७९. स्वप्नो हि नायं नहि मेऽस्ति निद्रा
८०. शोकेन दुःखेन च पीडितायाः ॥
८१. रामेति रामेति सदैव बुद्ध्या
८२. विचिन्त्य वाचा ब्रुवती तमेव ।
८३. तस्यानुरूपं च कथां तदर्थाम्
८४. एवं प्रपश्यामि तदा शृणोमि ॥
८५. मनोरथः स्यादिति चिन्तयामि
८६. तथापि बुद्ध्यापि वितर्कयामि ।
८७. किं कारणं तस्य हि नास्ति रूपम्
८८. सुवृत्तरूपश्च वदत्ययं माम् ॥
८९. नमोऽस्तु वाचस्पतये सवज्रिणे
९०. स्वयम्भुवे चैव हुताशनाय ।
९१. अनेन चोक्तं यदिदं ममाग्रतो
९२. वनौकसा तच्च तथास्तु नान्यथा ॥
९३. सोऽवतीर्य द्रुमात् तस्मात् विद्रुमप्रतिमाननः ।
९४. विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।
९५. तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।
९६. शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥
९७. का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
९८. द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥
९९. किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
१००. पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥
१०१. सुराणामसुराणां च नागगन्धर्वरक्षसाम् ।
१०२. यक्षाणां किन्नराणां च का त्वं भवसि शोभने ॥
१०३. किं नु चन्द्रमसा हीना पतिता विबुधालयात् ।
१०४. रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥
१०५. को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।
१०६. अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥
१०७. रोदनात् अतिनिश्वासात् भूमिसंस्पर्शनादपि ।
१०८. न त्वां देवीमहं मन्ये राज्ञः सञ्ज्ञावधारणात् ॥
१०९. व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये ।
११०. महिषी भूमिपालस्य राजकन्या च मे मता ॥
१११. रावणेन जनस्थानात् बलात् प्रमथिता यदि ।
११२. सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥
११३. यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।
११४. तपसा चान्वितो वेषः त्वं राममहिषी ध्रुवम् ॥
११५. सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।
११६. उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ॥
११७. पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ।
११८. स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः ॥
११९. दुहिता जनकस्याहं वैदेहस्य महात्मनः ।
१२०. सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः ॥
१२१. समा द्वादश तत्राहं राघवस्य निवेशने ।
१२२. भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।
१२३. ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् ।
१२४. अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥
१२५. तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने ।
१२६. कैकेयी नाम भर्तारमिदं वचनमब्रवीत् ॥
१२७. न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।
१२८. एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥
१२९. तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥
१३०. स राजा सत्यवाक् देव्या वरदानमनुस्मरन् ।
१३१. मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥
१३२. ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः ।
१३३. ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ॥
१३४. स पितुर्वचनं श्रीमान् अभिषेकात् परं प्रियम् ।
१३५. मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥
१३६. दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किञ्चिदप्रियम् ।
१३७. अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ॥
१३८. वसतो दण्दकारण्ये तस्याहममितौजसः ।
१३९. रक्षसापहृता भार्या रावणेन दुरात्मना ॥
१४०. द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।
१४१. ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्षामि जीवितम् ॥
१४२. तस्यास्तद्वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
१४३. दुःखात् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥
१४४. अहं रामस्य सन्देशात् देवि दूतस्तवागतः ।
१४५. वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् ॥
१४६. लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।
१४७. कृतवान् शोकसन्तप्तः शिरसा तेऽभिवादनम् ॥
१४८. सा तयोः कुशलं देवी निशम्य नरसिम्हयोः ।
१४९. प्रतिसंहृष्टसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥
१५०. कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
१५१. एति जीवन्तमानन्दो नरं वर्षशतादपि ॥
१५२. तस्यास्तद्वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
१५३. सीतायाः शोकतप्तायाः समीपमुपचक्रमे ॥
१५४. यथा यथा समीपं स हनूमानुपसर्पति ।
१५५. तथा तथा रावणं सा तं सीता परिशङ्कते ॥
१५६. अहो धिक् दुष्कृतमिदं कथितं हि यदस्य मे ।
१५७. रूपान्तरमुपागम्य स एवायं हि रावणः ॥
१५८. तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता ।
१५९. तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥
१६०. अवन्दत महाबाहुः ततस्तां जनकात्मजाम् ।
१६१. सा चैनं भयसन्त्रस्ता भूयो नैनमुदैक्षत ॥
१६२. तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना ।
१६३. अब्रवीत् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥
१६४. मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।
१६५. उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ॥
१६६. अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।
१६७. मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥
१६८. चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।
१६९. यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥
१७०. गुणान् रामस्य कथय प्रियस्य मम वानर ।
१७१. अहो स्वप्नस्य सुखता याहमेवं चिराहृता ।
१७२. प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥
१७३. स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।
१७४. पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥
१७५. नाहं स्वप्नमिमं मन्ये भवेद् वातगतिस्त्वियम् ।
१७६. उन्मादजो विकारो वा स्यादयं मृगतृष्णिका ॥
१७७. अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः ।
१७८. इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् ।
१७९. रक्षसां कामरूपत्वात् मेने तं राक्षसाधिपम् ॥
१८०. न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥
१८१. सीताया निश्चितं बुद्ध्वा हनुमान् मारुतात्मजः ।
१८२. श्रोत्रानुकूलैर्वचनैः तदा तां सम्प्रहर्षयत् ॥
१८३. आदित्य इव तेजस्वी लोककान्तः शशी यथा ।
१८४. राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥
१८५. विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।
१८६. सत्यवादी मधुरवाक् देवो वाचस्पतिर्यथा ॥
१८७. रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ।
१८८. स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः ।
१८९. बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥
१९०. अचिराद् रावणं युद्धे यो वधिष्यति वीर्यवान् ।
१९१. क्रोधप्रमुक्तैरिषुभिः ज्वलद्भिरिव पावकैः ॥
१९२. तेनाहं प्रेषितो दूतः त्वत्सकाशमिहागतः ।
१९३. रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
१९४. राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥
१९५. नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः ।
१९६. न चिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ॥
१९७. अहं सुग्रीवसचिवो हनूमान् नाम वानरः ।
१९८. प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ॥
१९९. त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ।
२००. नाहमस्मि तथा देवि यथा मामवगच्छसि ।
२०१. विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥
२०२. तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।
२०३. उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥
२०४. क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
२०५. वानराणां नराणां च कथमासीत् समागमः ॥
२०६. यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर ।
२०७. तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥
२०८. एवमुक्तस्तु हनुमान् वैदेह्या वानरात्मजः ।
२०९. ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥
२११. रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः ।
२१२. रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥
२१३. तेजसादित्यसङ्काशः क्षमया पृथिवीसमः ।
२१४. बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥
२१५. मर्यादानां च लोकस्य कर्ता कारयिता च सः ।
२१६. अर्चिष्मान् अर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ॥
२१७. साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।
२१८. ज्ञानवान् शीलसम्पन्नः विनीतश्च परन्तपः ॥
२१९. विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।
२२०. गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ॥
२२१. दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।
२२२. समश्च सुविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥
२२३. सत्यधर्मरतः श्रीमान् सङ्ग्रहानुग्रहे रतः ।
२२४. देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥
२२५. भ्राता चास्य च द्वैमात्रः सौमित्रिरमितप्रभः ।
२२६. अनुरागेण रूपेण गुणैश्चापि तथाविधः ॥
२२७. (आरभ्य सीताहरणात् यथावृत्तं यथाश्रुतम् ।
२२८. सर्वमाख्यातवान् देव्यै प्रश्रितं मारुतिस्तदा ॥
२२९. पुनरप्यब्रवीत् सीतां देवीं मधुरया गिरा ॥)
२३०. दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
२३१. अपनेष्यामि सन्तापं तवाधिगमशंसनात् ॥
२३२. दिष्ट्या हि न मम व्यर्थं सागरस्येह लङ्घनम् ।
२३३. प्राप्स्याम्यहमिदं देवि त्वद्दर्शनकृतं यशः ॥
२३४. राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
२३५. सपुत्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥
२३६. अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।
२३७. तन्मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ॥
२३८. सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम् ॥
२३९. एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।
२४०. उपपन्नैरभिज्ञानैः दूतं तमधिगच्छति ॥
२४१. अतुलं च गता हर्षं प्रहर्षेण तु जानकी ।
२४२. नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥
२४३. भूय एव महातेजा हनूमान् पवनात्मजः ।
२४४. अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥
२४५. रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।
२४६. प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ॥
२४७. गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम् ।
२४८. भर्तारमिव सम्प्राप्तं जानकी मुदिताभवत् ॥
२४९. चारु तद्वदनं तस्याः ताम्रशुक्लायतेक्षणम् ।
२५०. बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट् ॥
२५१. ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता ।
२५२. परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥
२५३. विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
२५४. येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥
२५५. शतयोजनविस्तीर्णः सागरो मकरालयः ।
२५६. विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥
२५७. न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।
२५८. अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ॥
२५९. यद्यसि प्रेषितस्तेन रामेण विदितात्मना ।
२६०. प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् ।
२६१. पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥
२६२. दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।
२६३. लक्ष्मणश्च महातेजा सुमित्रानन्दवर्धनः ॥
२६४. कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते ।
२६५. कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ॥
२६६. कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः ।
२६७. कच्चिन्न विगतस्नेहो विवासान्मयि राघवः ॥
२६८. कच्चिन्मां व्यसनादस्मात् मोक्षयिष्यति राघवः ॥
२६९. वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।
२७०. मत्कृते हरिभिर्वीरैः वृतो दन्तनखायुधैः ॥
२७१. कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।
२७२. अस्त्रवित् शरजालेन राक्षसान् विधमिष्यति ॥
२७३. रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे ।
२७४. द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥
२७५. न चास्य माता न पिता न चान्यः
२७६. स्नेहाद् विशिष्टोऽस्ति मया समो वा ।
२७७. तावद्ध्यहं दूत जिजीविषेयम्
२७८. यावत् प्रवृत्तिं श्रुणुयां प्रियस्य ॥
२७९. सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।
२८०. शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥
२८१. न त्वामिहस्थां जानीते रामः कमललोचनः ।
२८२. तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ॥
२८३. श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः ।
२८४. चमूं प्रकर्षन् महतीं हर्यर्क्षगणसेविताम् ॥
२८५. विष्ठम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ।
२८६. करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥
२८७. तवादर्शनजेनार्ये शोकेन परिपूरितः ।
२८८. न शर्म लभते वीरः सिंहार्दित इव द्विपः ॥
२८९. न मांसं राघवो भुङ्क्ते न चैव मधु सेवते ।
२९०. वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥
२९१. नैव दंशान् न मशकान् न कीटान् न सरीसृपान् ।
२९२. राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना ॥
२९३. नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।
२९४. नान्यच्चिन्तयते नित्यं स तु कामवशं गतः ॥
२९५. अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः ।
२९६. सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ॥
२९७. दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत् स्त्रीमनोहरम् ।
२९८. बहुशो हा प्रियेत्येवं श्वसन्स्त्वामभिभाषते ॥
२९९. सा रामसङ्कीर्तनवीतशोका
३००. रामस्य शोकेन समानशोका ।
३०१. शरन्मुखेनाम्बुदशेषचन्द्रा
३०२. निशेव वैदेहसुता बभूव ॥
३०३. सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।
३०४. हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ॥
३०५. अमृतं विषसम्पृक्तं त्वया वानर भाषितम् ।
३०६. यच्च नान्यमना रामो यच्च शोकपरायणः ॥
३०७. ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
३०८. रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥
३०९. विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।
३१०. सौमित्रिं मां चा रामं च व्यसनैः पश्य मोहितान् ॥
३११. शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति ।
३१२. प्लवमानः परिक्रान्तो हतनौः सागरे यथा ॥
३१३. राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
३१४. लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥
३१५. असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
३१६. अन्तरात्मा हि मे शुद्धः तस्मिन्श्च बहवो गुणाः ॥
३१७. उत्साहः पौरुषं सत्त्वं आनृशंस्यं कृतज्ञता ।
३१८. विक्रमश्च प्रभावश्च सन्ति वानर राघवे ॥
३१९. न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
३२०. अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा ॥
३२१. इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् ।
३२२. अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः ॥
३२३. द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।
३२४. पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ॥
३२५. त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।
३२६. यथैवाहमिह प्राप्तः तथैवाहमसंशयम् ।
३२७. यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥
३२८. मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।
३२९. हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् ॥
३३०. हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि ।
३३१. तदेव खलु ते मन्ये कपित्वं हरियूथप ॥
३३२. कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
३३३. सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥
३३४. सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः ।
३३५. चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥
३३६. न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा ।
३३७. तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः ॥
३३८. इति सञ्चिन्त्य हनुमान् तदा प्लवगसत्तमः ।
३३९. दर्शयामास सीतायाः स्वरूपमरिमर्दनः ॥
३४०. स तस्मात् पादपात् धीमानाप्लुत्य प्लवगर्षभः ।
३४१. ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥
३४२. मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।
३४३. अग्रतो व्यवतस्थे च वैदेहीमिदमब्रवीत् ॥
३४४. सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् ।
३४५. लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥
३४६. तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।
३४७. विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥
३४८. तं दृष्ट्वाचलसङ्काशमुवाच जनकात्मजा ।
३४९. तव सत्त्वं बलं चैव विजानामि महाकपे ॥
३५०. प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।
३५१. जानामि गमने शक्तिं नयने चापि ते मम ॥
३५२. अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह ।
३५३. वायुवेगसवेगस्य वेगो मां मोहयेत् तदा ॥
३५४. प्रपतेयं हि ते पृष्ठात् भयार्ता कपिसत्तम ।
३५५. ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
३५६. अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥
३५७. कथञ्चित् साम्पराये त्वां जयेयुः कपिसत्तम ।
३५८. अहं वापि विपद्येयं रक्षोभिरभितर्जिता ॥
३५९. त्वत् प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥
३६०. कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् ।
३६१. राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः ॥
३६२. त्वया हि सह रामस्य महानागमने गुणः ।
३६३. भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
३६४. नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम ॥
३६५. यदहं गात्रसंस्पर्शं रावणस्य गता बलात् ।
३६६. अनीशा किं करिष्यामि विनाथा विवशा सती ॥
३६७. यदि रामो दशग्रीवमिह हत्वा सराक्षसम् ।
३६८. मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत् ॥
३६९. ततः स हरिशार्दूलस्तेन वाक्येन तोषितः ।
३७०. सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥
३७१. युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
३७२. सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥
३७३. स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम् ।
३७४. मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥
३७५. द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
३७६. रामादन्यस्य नार्हामि संसर्गमिति जानकि ।
३७७. एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः ॥
३७८. श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
३७९. चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः ॥
३८०. लङ्काया दुष्प्रवेशत्वात् दुस्तरत्वान्महोदधेः ।
३८१. सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥
३८२. इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना ।
३८३. गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥
३८४. यदि नोत्सहसे यातुं मया सार्धमनिन्दिते ।
३८५. अभिज्ञानं प्रयच्छ त्वं जानीयात् राघवो हि यत् ॥
३८६. एवमुक्ता हनुमता सीता सुरसुतोपमा ।
३८७. उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥
३८८. इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
३८९. शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे ।
३९०. परिश्रमात् प्रसुप्ता हे राघवाङ्केऽस्म्यहं चिरम् ।
३९१. पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥
३९२. ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम् ।
३९३. वायसः सहसागम्य विददार स्तनान्तरे ॥
३९४. ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः ।
३९५. स मां दृष्ट्वा महाबाहुः वितुन्नां स्तनयोस्तदा ।
३९६. आशीविष इव क्रुद्धः वायसं समवैक्षत ।
३९७. नखैः सरुधिरैः तीक्ष्णैः मामेवाभिमुखं स्थितम् ॥
३९८. ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः ।
३९९. स दर्भसम्स्तरात् गृह्य ब्रह्मणोऽस्त्रेण योजयत् ॥
४००. स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।
४०१. ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥
४०२. अनुसृष्टस्तदा काको जगाम विविधां गतिम् ।
४०३. त्रीन् लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥
४०४. स तं निपतितं भूमौ शरण्यः शरणागतम् ।
४०५. वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥
४०६. स रामाय नमस्कृत्वा राज्ञे दशरथाय च ।
४०७. विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥
४०८. मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् ।
४०९. कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते ॥
४१०. जानामि त्वां महावीर्यं महोत्साहं महाबलम् ।
४११. अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् ।
४१२. भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥
४१३. एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि ।
४१४. किमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥
४१५. सीतायस्तद्वचः श्रुत्वा हनुमान् मारुतात्मजः ।
४१६. शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥
४१७. क्षिप्रमेष्यति काकुत्स्थः हर्यृक्षप्लवगैर्वृतः ।
४१८. यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥
४१९. न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
४२०. यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः ॥
४२१. त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥
४२२. तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।
४२३. जानकी बहुमेने तं वचनं चेदमब्रवीत् ॥
४२४. अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
४२५. सुमहान्स्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।
४२६. कथन्नुखलु दुष्पारं तरिष्यन्ति महोदधिम् ।
४२७. तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥
४२८. त्रयाणामेव भूतानां सागरस्येह लङ्घने ।
४२९. शक्तिः स्यात् वैनतेयस्य तव वा मारुतस्य वा ॥
४३०. तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
४३१. निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥
४३२. देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
४३३. सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः ॥
४३४. तस्य विक्रमसम्पन्ना सत्त्ववन्तो महाबलाः ।
४३५. मनह्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥
४३६. असकृत् तैर्महोत्साहैः ससागरधराधरा ।
४३७. प्रदक्षिणीकृता भूमिः वायुमार्गानुसारिभिः ॥
४३८. मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
४३९. मत्तः प्रत्यवरः कश्चित् नास्ति सुग्रीवसन्निधौ ॥
४४०. न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥
४४१. तदलं परितापेन देवि शोको व्यपैतु ते ।
४४२. एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥
४४३. मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
४४४. त्वत्सकाशं महासङ्घौ नृसिंहौ आगमिष्यतः ॥
४४५. सगणं रावणं हत्वा राघवो रघुनन्दनः ।
४४६. त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति ॥
४४७. तदाश्वसिहि भद्रं ते भव त्वं कालकांक्षिणी ।
४४८. न चिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥
४४९. यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
४५०. प्रीतिसञ्जननं भूयस्तस्य त्वं दातुमर्हसि ॥
४५१. ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
४५२. प्रदेयो राघवायेति सीता हनुमते ददौ ॥
४५३. प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
४५४. अङ्गुल्या योजयामास नह्यस्य प्राभवत् भुजम् ॥
४५५. मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् ।
४५६. अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः ॥
४५७. मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति ।
४५८. वीरो जनन्या मम च राज्ञो दशरथस्य च ॥
४५९. अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
४६०. क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥
४६१. मनःशिलायास्तिलको गण्दपार्श्वे निवेशितः ।
४६२. त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥
४६३. एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
४६४. एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥
४६५. एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ॥
४६६. अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।
४६७. असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ॥
४६८. राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम् ।
४६९. धारयिष्यामि मासं तु जीवितं शत्रुसूदन ॥
४७०. मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।
४७१. घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ॥
४७२. त्वां च श्रुत्वा विषज्जन्तं न जीवेयमहं क्षणम् ॥
४७३. वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
४७४. अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥
४७५. त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
४७६. रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ॥
४७७. दृष्टा कथञ्चिद् भवती न कालः परिशोचितुम् ।
४७८. इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥
४७९. हत्वा तु समरे क्रूरं रावणं सह बान्धवैः ।
४८०. राघवौ तु विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥
४८१. ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः ।
४८२. सुग्रीवो वापि तेजस्वी हरयो वा समागताः ॥
४८३. इत्युक्तवति तस्मिन्श्च सीता पुनरथाब्रवीत् ।
४८४. कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।
४८५. तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥
४८६. पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ।
४८७. अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजा ।
४८८. आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।
४८९. अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ।
४९०. सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ।
४९१. पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।
४९२. ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।
४९३. वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता ।
४९४. राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।
४९५. मम प्रियकरो नित्यं भ्राता रामस्य लक्ष्मणः ।
४९६. नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।
४९७. यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ।
४९८. स ममार्थाय कुशलं वक्तव्यो वचनान् मम ॥
४९९. सुग्रीवं च सहामात्यं वृद्धान् सर्वान्श्च वानरान् ।
५००. ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥
५०१. स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।
५०२. शिरसा वन्द्य वैदेहीं गमनायोपचक्रमे ॥
५०३. ततस्तं प्रस्थितं (ज्ञात्वा) वीक्षमाणा पुनः पुनः ।
५०४. भर्तृस्नेहान्वितं वाक्यम् (उवाच जनकात्मजा ॥)
५०५. यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
५०६. कस्मिन्श्चित् सम्वृते देशे विश्रान्तः श्वो गमिष्यसि ॥
५०७. मम चैवाल्पभाग्यायाः सान्निध्यात् तव वानर ।
५०८. अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥
५०९. तवादर्शनजः शोको भूयो मां परितापयेत् ।
५१०. दुःखात् दुःखपरामृष्टां दीपयन्निव वानर ॥
५११. तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम् ।
५१२. वर्धमानं महावेगमुवाच जनकात्मजा ॥
५१३. इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ।
५१४. जीवितं धारयिष्यामि मासं दशरथात्मज ॥
५१५. ऊर्ध्वं मासान्नजीवेयं सत्येनाहं ब्रवीमि ते ॥
५१६. इदं च तीव्रं मम शोकवेगम्
५१७. रक्षोभिरेभिः परिभर्त्सनं च ।
५१८. ब्रूयास्तु रामस्य गतः समीपम्
५१९. शिवश्च तेऽध्वास्तु हरिप्रवीर ॥
५२०. स राजपुत्र्या प्रतिवेदितार्थः
५२१. कपिः कृतार्थः परिहृष्टचेताः ।
५२२. तदल्पशेषं प्रसमीक्ष्य कार्यम्
५२३. दिशं ह्युदीचीं मनसा जगाम ॥