१. तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् ।
२. विचिन्वतश्च वैदेहीं किञ्चित् शेषा निशाभवत् ॥
३. षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।
४. शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मराक्षसाम् ॥
५. अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः ।
६. प्राबोध्यत महाबाहुः दशग्रीवो महाबलः ॥
७. विबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान् ।
८. स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥
९. भृशं नियुक्तः तस्यां च मदनेन मदोत्कटः ।
१०. न तु तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥
११. स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।
१२. अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥
१३. व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
१४. समागलितकेशान्ताः सस्वेदवदनास्तथा ।
१५. घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।
१६. प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः ।
१७. बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः ॥
१८. स च कामपराधीनः पतिस्तासां महाबलः ।
१९. सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥
२०. वृतः परमनारीभिः ताराभिरिव चन्द्रमाः ।
२१. तं ददर्श महातेजाः तेजोवन्तं महाकपिः ॥
२२. रावणोऽयं महाबाहुः इति सञ्चिन्त्य वानरः ।
२३. अवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥
२४. स तथाप्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा ।
२५. पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥
२६. सीतामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।
२७. दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥
२८. ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।
२९. रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ।
३०. प्रावेपत वरारोहा प्रवाते कदली यथा ॥
३१. ऊरुभ्यां उदरं छाद्य बाहुभ्यां च पयोधरौ ।
३२. उपविष्टा विशालाक्षी रुदती वरवर्णिनी ॥
३३. दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।
३४. असंवृतायामासीनां धरण्यां संशितव्रताम् ।
३५. ददर्श दीनां दुःखार्तां नावं सन्नामिवार्णवे ।
३६. छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥
३७. समीपं राजसिंहस्य रामस्य विदितात्मनः ।
३८. सङ्कल्पहयसंयुक्तैः यान्तीमिव मनोरथैः ।
३९. चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव ।
४०. धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ।
४१. वृत्तशीले कुले जातामाचारवति धार्मिके ।
४२. पुनः संस्कारमापन्नां जातामिव च दुष्कुले ।
४३. पौर्णमासीमिव निशां तमोग्रस्तेन्दुमण्डलाम् ।
४४. वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।
४५. उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् ।
४६. हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम् ।
४७. तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ।
४८. गृहीतामालितां स्तम्भे यूथपेन विना कृताम् ।
४९. निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ।
५०. एकया दीर्घया वेण्या शोभमानामयत्नतः ।
५१. नीलया नीरदापाये वनराज्या महीमिव ।
५२. उपवासेन शोकेन ध्यानेन च भयेन च ।
५३. परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ।
५४. आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ।
५५. भावेन रघुमुख्यस्य दशग्रीवपराभवम् ।
५६. साकारैर्मधुरैर्वाक्यैः न्यदर्शयत रावणः ॥
५७. मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।
५८. अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥
५९. कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये ।
६०. सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥
६१. व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥
६२. स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः ।
६३. गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥
६४. एवं चैवमकामां त्वां न च प्रक्ष्यामि मैथिली ।
६५. कामं कामः शरीरे मे यथा कामं प्रवर्तताम् ॥
६६. देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ।
६७. प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥
६८. एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ।
६९. अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥
७०. विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ।
७१. विविधानि च वासांसि दिव्यान्याभरणानि च ।
७२. महार्हाणि च पानानि शयनान्यासनानि च ।
७३. गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिली ॥
७४. स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।
७५. इदं ते चारु सञ्जातं यौवनं ह्यतिवर्तते ।
७६. यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव ॥
७७. त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् ।
७८. न हि रूपोपमा ह्यन्या तवास्ति शुभदर्शने ॥
७९. त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।
८०. कः पुनर्नातिवर्तेत साक्षादपि पितामहः ॥
८१. यत् यत् पश्यामि ते गात्रं शीताम्शुसदृशानने ।
८२. तस्मिन्स्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥
८३. भव मैथिलि भार्या मे मोहमेनं विसर्जय ।
८४. बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥
८५. लोकेभ्यो यानि रत्नानि सप्रमथ्याहृतानि वै ।
८६. तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते ॥
८७. विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ।
८८. जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥
८९. नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ।
९०. अशक्ता प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥
९१. इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ।
९२. ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि ॥
९३. किं करिष्यसि रामेण सुभगे चीरवाससा ।
९४. निक्षिप्तविजयो रामो गतश्रीः वनगोचरः ॥
९५. व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ।
९६. न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।
९७. पुरोबलाकैरसितैः मेघैः ज्योत्स्नामिवावृताम् ॥
९८. न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः ॥
९९. चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।
१००. मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥
१०१. क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् ।
१०२. त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥
१०३. न रामस्तपसा देवि न बलेन न विक्रमैः ।
१०४. न धनेन मया तुल्यः तेजसा यशसापि वा ॥
१०५. पिब विहर रमस्व भुङ्क्ष्व भोगान्
१०६. धननिचयं प्रदिशामि मेदिनीं च ।
१०७. मयि लल ललने यथा सुखं त्वम्
१०८. त्वयि च समेत्य ललन्तु बान्धवास्ते ॥
१०९. कुसुमिततरुजालसन्ततानि
११०. भ्रमरयुतानि समुद्रतीरजानि ।
१११. कनकविमलहारभूषिताङ्गी
११२. विहर मया सह भीरु काननानि ॥
११३. तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।
११४. चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।
११५. तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥
११६. निवर्तय मनो मत्तः स्वजने प्रीयतां मनः ।
११७. न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ॥
११८. नाहमौपयिकी भार्या परभार्या सती तव ।
११९. साधुधर्ममवेक्षस्व साधु साधुव्रतं चर ॥
१२०. यथा तव तथान्येषां रक्ष्या दारा निशाचर ।
१२१. आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ॥
१२२. अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् ।
१२३. नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥
१२४. इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।
१२५. यथा हि विपरीता ते बुद्धिराचारवर्जिता ॥
१२६. अकृतात्मानमासाद्य राजानमनये रतम् ।
१२७. समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥
१२८. तथैव त्वां समासाद्य लङ्का रत्नौघसङ्कुला ।
१२९. अपराधात् तवैकस्य न चिराद् विनशिष्यति ॥
१३०. शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।
१३१. अनन्या राघवेणाहं भास्करेण यथा प्रभा ॥
१३२. अहमौपयिकी भार्या तस्यैव च धरापतेः ।
१३३. व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः ॥
१३४. मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।
१३५. बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥
१३६. विदितः सर्वधर्मज्ञः शरणागतवत्सलः ।
१३७. तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥
१३८. प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ।
१३९. मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥
१४०. एवं हि ते भवेत् स्वस्ति संप्रदाय रघूत्तमे ।
१४१. अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम् ॥
१४२. रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।
१४३. शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥
१४४. इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।
१४५. इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः ॥
१४६. अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिम्दम ।
१४७. असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥
१४८. आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः ।
१४९. गोचरं गतयोः भ्रात्रोः अपनीता त्वयाधम ॥
१५०. न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।
१५१. शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥
१५२. क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।
१५३. तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥
१५४. सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः ।
१५५. प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥
१५६. यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।
१५७. यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥
१५८. सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।
१५९. द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥
१६०. वामः कामो मनुष्याणां यस्मिन् किल निबध्यते ।
१६१. जने तस्मिन्स्त्वनुक्रोशः स्नेहश्च किल जायते ॥
१६२. एतस्मात् कारणात् न त्वां घातयामि वरानने ।
१६३. वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥
१६४. परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।
१६५. तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥
१६६. द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
१६७. ततः शयनमारोह मम त्वं वरवर्णिनि ॥
१६८. द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
१६९. मम त्वां प्रातराशार्थे सूदाः छेत्स्यन्ति खण्डशः ॥
१७०. तां भर्त्स्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।
१७१. देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥
१७२. ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापरा ।
१७३. सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥
१७४. ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।
१७५. उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम् ॥
१७६. राक्षसाधम रामस्य भार्याममिततेजसः ।
१७७. उक्तवानपि यत् पापं क्व गतस्तस्य मोक्षसे ॥
१७८. यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने ।
१७९. तथा द्विरदवत् रामः त्वं नीच शशवत् स्मृतः ॥
१८०. इमे ते नयने क्रूरे विकृते कृष्णपिङ्गले ।
१८१. क्षितौ न पतिते कस्मात् मामनार्य निरीक्षतः ॥
१८२. तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च ।
१८३. कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति ॥
१८४. असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
१८५. न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥
१८६. नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।
१८७. विधिस्तव वधार्थाय विहितो नात्र संशयः ॥
१८८. सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।
१८९. निवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥
१९०. स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् ।
१९१. श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः ॥
१९२. सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ।
१९३. यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।
१९४. तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥
१९५. प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।
१९६. आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥
१९७. इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।
१९८. काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ॥
१९९. उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।
२००. परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥
२०१. मया क्रीड महाराज सीतया किं तवानया ।
२०२. विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥
२०३. अकामां कामयानस्य शरीरमुपतप्यते ।
२०४. इच्छतीं कामयानस्य प्रीतिर्भवति शोभना ॥
२०५. एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।
२०६. प्रहसन् मेघसङ्काशो राक्षसः स न्यवर्तत ॥
२०७. निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।
२०८. राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥
२०९. परं परुषया वाचा वैदेहीमिदमब्रुवन् ।
२१०. प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः ।
२११. मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥
२१२. पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।
२१३. नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥
२१४. तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।
२१५. तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥
२१६. प्रियां बहुमतां भार्यां त्वामुपैष्यति रावणः ।
२१७. यस्य सूर्यो न तपति भीतो यस्य स मारुतः ।
२१८. न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे ॥
२१९. पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।
२२०. शैलाः सुस्रुवुः पानीयं जलदाश्च यदेच्छति ॥
२२१. तस्य नैर्ऋतराजस्य राजराजस्य भामिनि ।
२२२. किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥
२२३. साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।
२२४. गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥
२२५. राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।
२२६. नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥
२२७. यदिदं लोकविद्विष्टमुदाहरत सङ्गताः ।
२२८. नैतन् मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥
२२९. न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
२३०. कामं खादत मां सर्वा न करिष्यामि वो वचः ॥
२३१. दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।
२३२. तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ॥
२३३. यथा शची महाभागा शक्रं समुपतिष्ठति ।
२३४. अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।
२३५. तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥
२३६. सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।
२३७. भर्त्सयन्ति स्म परुषैः वाक्यैः रावणचोदिताः ॥
२३८. अवलीनः स निर्वाक्यो हनुमान् शिम्शुपाद्रुमे ।
२३९. सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ॥
२४०. तामभिक्रम्य सङ्क्रुद्धा वेपमानां समन्ततः ।
२४१. भृशं सम्लिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ॥
२४२. संभर्त्स्यमाना भीमाभी राक्षसीभिर्वराङ्गना ।
२४३. सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥
२४४. ततस्तु विनता नाम राक्षसी भीमदर्शना ।
२४५. अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥
२४६. सीते पर्याप्तमेतावत् भर्तुः स्नेहः प्रदर्शितः ।
२४७. सर्वत्रातिकृतं भद्रे मरणायोपकल्पते ॥
२४८. परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।
२४९. ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥
२५०. मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।
२५१. अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव ॥
२५२. एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।
२५३. अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥
२५४. अन्या तु विकटा नाम लम्बमानपयोधरा ।
२५५. अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती ॥
२५६. बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।
२५७. अनुक्रोशात् मृदुत्वाच्च सोढानि तव मैथिलि ॥
२५८. आनीतासि समुद्रस्य पारमन्यैः दुरासदम् ।
२५९. रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि ॥
२६०. न त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः ।
२६१. जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम् ॥
२६२. यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि ।
२६३. सीते राक्षसराजेन परिक्रीड यथासुखम् ॥
२६४. उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।
२६५. यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ॥
२६६. एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा ।
२६७. राक्षसीभिर्विरूपाभिः धैर्यमुत्सृज्य रोदिति ॥
२६८. सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।
२६९. चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥
२७०. तस्याः सा दीर्घबहुला वेपन्त्याः सीतया तदा ।
२७१. ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥
२७२. सा निःश्वसन्ती शोकार्ता कोपोपहतचेतना ।
२७३. आर्ता व्यसृजदश्रूणि मैथिली विललाप च ॥
२७४. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।
२७५. अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥
२७६. यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।
२७७. जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥
२७८. तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।
२७९. धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥
२८०. कीदृशं तु महापापं मया देहान्तरे कृतम् ।
२८१. येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥
२८२. जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।
२८३. राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ॥
२८४. धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।
२८५. न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ॥
२८६. प्रसक्ताश्रुमुखीत्येवं ब्रुवती जनकात्मजा ।
२८७. अधोगतमुखी बाला विलप्तुमुपचक्रमे ॥
२८८. उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।
२८९. उपावृत्ता किशोरीव विचेष्टन्ती महीतले ॥
२९०. ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
२९१. सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥
२९२. इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ॥
२९३. यदि मामिह जानीयात् वर्तमानां हि राघवः ।
२९४. अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।
२९५. निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम् ॥
२९६. रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥
२९७. ततो निहतनाथानां राक्षसीनां गृहे गृहे ।
२९८. यथाहमेवं रुदती तथा भूयो न संशयः ॥
२९९. यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ।
३००. अचिरेणैव कालेन भविष्यति हतप्रभा ॥
३०१. अनेन तु नृशंसेन रावणेनाधमेन मे ।
३०२. समयो यस्तु निर्दिष्टः तस्य कालोऽयमागतः ॥
३०३. ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति ॥
३०४. साहं कथं करिष्यामि तं विना प्रियदर्शनम् ।
३०५. रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ॥
३०६. नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।
३०७. देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥
३०८. धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
३०९. मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥
३१०. अथवा न हि तस्यार्थो धर्मकामस्य धीमतः ।
३११. मया रामस्य राजर्षेः भार्यया परमात्मनः ॥
३१२. दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ॥
३१३. अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।
३१४. छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥
३१५. साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।
३१६. प्राणान्स्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥
३१७. इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।
३१८. काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥
३१९. ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः ।
३२०. पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥
३२१. अद्यैदानीं तवानार्ये सीते पापविनिश्चये ।
३२२. राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम् ॥
३२३. सीतां ताभिरनार्याभिः दृष्ट्वा सन्तर्जितां तदा ।
३२४. राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत् ॥
३२५. आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।
३२६. जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥
३२७. स्वप्नोह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
३२८. राक्षसानामभावाय भर्तुरस्या भवाय च ॥
३२९. गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।
३३०. युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः ।
३३१. शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः ॥
३३२. स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।
३३३. सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता ॥
३३४. रामेण सङ्गता सीता भास्करेण प्रभा यथा ॥
३३५. रावणश्च मया दृष्टः मुण्डस्तैलसमुक्षितः ।
३३६. रक्तवासा पिबन् मत्तः करवीरकृतस्रजः ॥
३३७. रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
३३८. पिबन्स्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।
३३९. गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥
३४०. कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।
३४१. रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ॥
३४२. एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ।
३४३. शुक्लमाल्याम्बरधरः शुक्लमाल्यानुलेपनः ॥
३४४. लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा ।
३४५. सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥
३४६. अपगच्छत नश्यध्वं सीतामाप स राघवः ।
३४७. घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥
३४८. प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।
३४९. भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥
३५०. तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।
३५१. अभियाचाम वैदेहीमेतद् हि मम रोचते ॥
३५२. यस्यामेवम्विधः स्वप्नो दुःखितायां प्रदृश्यते ।
३५३. सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥
३५४. प्रणिपातप्रसना हि मैथिली जनकात्मजा ।
३५५. अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥
३५६. अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।
३५७. विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ॥
३५८. छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् ॥
३५९. पक्षी च शाखानिलयः प्रहृष्टः
३६०. पुनः पुनश्चोत्तमसान्त्ववादी ।
३६१. सुस्वागतां वाचमुदीरयानः
३६२. पुनः पुनः चोदयतीव हृष्टः ॥
३६३. तथागतां तां व्यथितामनिन्दिताम्
३६४. व्यतीतहर्षां परिदीनमानसाम् ।
३६५. शुभां निमित्तानि शुभानि भेजिरे
३६६. नरं श्रिया जुष्टमिवोपसेविनः ॥
३६७. तस्याः शुभं वाममरालपक्ष्म-
३६८. राज्यावृतं कृष्णविशालशुक्लम् ।
३६९. प्रास्पन्दतैकं नयनं सुकेश्या
३७०. मीनाहतं पद्ममिवाभिताम्रम् ॥
३७१. भुजश्च चार्वञ्चितवृत्तपीनः
३७२. परार्घ्यकालागुरुचन्दनार्हः ।
३७३. अनुत्तमेनाध्युषितः प्रियेण
३७४. चिरेण वामः समवेपताशु ॥
३७५. एतैर्निमित्तैरपरैश्च सुभ्रूः
३७६. सञ्चोदिता प्रागपि साधुसिद्धैः ।
३७७. वातातपक्लान्तमिव प्रणष्टम्
३७८. वर्षेण बीजं प्रतिसञ्जहर्ष ॥