०२ ०२ सीतादर्शनम्

१. स प्रविश्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
२. विक्रमेण महातेजा हनुमान् कपिसत्तमः ।
३. अद्वारेण महावीर्यः प्राकारमवपुप्लुवे ॥
४. निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।
५. चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥
६. हसितोत्कृष्टनिनदैः तूर्यघोषपुरस्कृतैः ।
७. वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।
८. गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥
९. तां चक्रमाल्याभरणां कपिराजहितङ्करः ।
१०. राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च ॥
११. शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम् ।
१२. स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव ॥
१३. शुश्राव काञ्चीनिनदं नूपुराणां च निस्वनम् ॥
१४. सोपाननिनदान्श्चापि भवनेषु महात्मनाम् ।
१५. शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै ॥
१६. स्वाध्यायनिरतान्श्चैव यातुधानान् ददर्श सः ॥
१७. ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ।
१८. दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः ।
१९. एकाक्षान् एकवर्णान्श्च लम्बोदरपयोधरान् ।
२०. करालान् भुग्नवक्त्रान्श्च विकटान् वामनान्स्तथा ।
२१. विरूपान् बहुरूपान्श्च सुरूपान्श्च सुवर्चसः ॥
२२. शक्तिवृक्षायुधान्श्चैव पट्टिशाशनिधारिणः ।
२३. क्षेपणीपाशहस्तान्श्च ददर्श स महाकपिः ॥
२४. ततः स मध्यङ्गतमम्शुमन्तम्
२५. ज्योत्स्नावितानं महदुद्वमन्तम् ।
२६. ददर्श धीमान् भुवि भानुमन्तम्
२७. गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥
२८. लोकस्य पापानि विनाशयन्तम्
२९. महोदधिं चापि समेधयन्तम् ।
३०. भूतानि सर्वाणि विराजयन्तम्
३१. ददर्श शीताम्शुमथाभियान्तम् ॥
३२. या भाति लक्ष्मीः भुवि मन्दरस्था
३३. यथा प्रदोषेषु च सागरस्था ।
३४. तथैव तोयेषु च पुष्करस्था
३५. रराज सा चारुनिशाकरस्था ॥
३६. हंसो यथा राजतपञ्जरस्थः
३७. सिंहो यथा मन्दरकन्दरस्थः ।
३८. वीरो यथा गर्वितकुञ्जरस्थः
३९. चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥
४०. मत्तप्रमत्तानि समाकुलानि
४१. रथाश्च भद्रासनसङ्कुलानि ।
४२. वीरश्रिया चापि समाकुलानि
४३. ददर्श धीमान् स कपिः कुलानि ॥
४४. बुद्धिप्रधानान् रुचिराभिधानान्
४५. संश्रद्धधानान् जगतः प्रधानान् ।
४६. नानाविधानान् रुचिराभिधानान्
४७. ददर्श तस्यां पुरि यातुधानान् ॥
४८. स्त्रियो ज्वलन्तीः त्रपयोपगूढाः
४९. निशीथकाले रमणोपगूढाः ।
५०. ददर्श काश्चित् प्रमदोपगूढा
५१. यथा विहङ्गा विहगोपगूढाः ॥
५२. न त्वेव सीतां परमाभिजाताम्
५३. पथिस्थिते राजकुले प्रजाताम् ।
५४. लतां प्रफुल्लामिव साधुजाताम्
५५. ददर्श तन्वीं मनसाभिजाताम् ॥
५६. अव्यक्तरेखामिव चन्द्रलेखाम्
५७. पांसुप्रदिग्धामिव हेमरेखाम् ।
५८. क्षतप्ररूढामिव वर्णरेखाम्
५९. वायुप्रभिन्नामिव मेघरेखाम् ॥
६०. सीतामपश्यन् मनुजेश्वरस्य
६१. रामस्य पत्नीं वदतां वरस्य ।
६२. बभूव दुःखोपहतश्चिरस्य
६३. प्लवङ्गमो मन्द इवाचिरस्य ॥
६४. गृहाद्गृहं राक्षसानामुद्यानानि च सर्वशः ।
६५. वीक्षमाणोऽप्यसन्त्रस्तः प्रासादान्श्च चचार सः ॥
६६. सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
६७.आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥
६८. रूप्यकोपहितैश्चित्रैः तोरणैः हेमभूषणैः ।
६९. विचित्राभिश्च कक्ष्याभिः द्वारैश्च रुचिरैर्वृतम् ।
७०. गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
७१. उपस्थितमसंहार्यैः हयैः स्यन्दनयायिभिः ।
७२. सिंहव्याघ्रतनुत्राणैः दान्तकाञ्चनराजतैः ।
७३. घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।
७४. बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम् ।
७५. विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
७६. भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् ।
७७. समुद्रमिव गम्भीरं समुद्रसमनिस्वनम् ।
७८. महात्मनो महद् वेश्म ददर्श स महाकपिः ॥
७९. ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे ।
८०. राक्षसान्श्च महाकायान् नानाप्रहरणोद्यतान् ॥
८१. रक्तान् श्वेतान् सितान्श्चापि हरीन्श्चापि महाजवान् ।
८२. कुलीनान् रूपसंपन्नान् गजान् परगजारुजान् ।
८३. शिक्षितान् गजशिक्षायामैरावतसमान् युधि ।
८४. निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः ॥
८५. लतागृहाणि चित्राणि चित्रशालागृहाणि च ।
८६. क्रीडागृहाणि चान्यानि दारुपर्वतकानि च ।
८७. कामस्य गृहकं रम्यं दिवागृहकमेव च ।
८८. ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥
८९. अर्चिभिश्चापि रत्नानां तेजसा रावणस्य च ।
९०. विरराज च तद्वेश्म रश्मिवानिव रश्मिभिः ॥
९१. या हि वैश्रवणे लक्ष्मीः या चन्द्रे हरिवाहने ।
९२. सा रावणगृहे रम्या नित्यमेवानपायिनी ॥
९३. या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।
९४. तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥
९५. तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम् ।
९६. बहुनिर्यूहसंयुक्तं ददर्श पवनात्मजः ।
९७. ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा ।
९८. विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ।
९९. परेण तपसा लेभे यत् कुबेरः पितामहात् ।
१००. कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः ॥
१०१. ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः ।
१०२. सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ।
१०३. मेरुमन्दरसङ्काशैः उल्लिखद्भिरिवाम्बरम् ।
१०४. कूटागारैः शुभागारैः सर्वतः समलङ्कृतम् ।
१०५. जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि ।
१०६. इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ।
१०७. विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥
१०८. यथा नगाग्रं बहुधातुचित्रम्
१०९. यथा नभश्च ग्रहचन्द्रचित्रम् ।
११०. ददर्श युक्तीकृतचारुमेघ-
१११. चित्रं विमानं बहुरत्नचित्रम् ॥
११२. मही कृता पर्वतराजिपूर्णा
११३. शैलाः कृता वृक्षवितानपूर्णाः ।
११४. वृक्षाः कृता पुष्पवितानपूर्णाः
११५. पुष्पं कृतं केसरपत्रपूर्णम् ॥
११६. कृताश्च वैडूर्यमया विहङ्गाः
११७. रूप्यप्रवालैश्च तथा विहङ्गाः ।
११८. चित्राश्च नानावसुभिर्भुजङ्गाः
११९. जात्यानुरूपाः तुरगाः शुभाङ्गाः ॥
१२०. न तत्र किञ्चिन्न कृतं प्रयत्नतो
१२१. न तत्र किञ्चिन्न महार्हरत्नवत् ।
१२२. न ते विशेषा नियताः सुरेष्वपि
१२३. न तत्र किञ्चिन्न महाविशेषवत् ॥
१२४. तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसंभवम् ।
१२५. दिव्यं सम्मूर्च्छितं जिघ्रद् रूपवन्तमिवानिलम् ॥
१२६. स गन्धस्तं महासत्त्वं बन्धुर्बन्धुरिवोत्तमम् ।
१२७. इत एहीत्युवाचेव तत्र यत्र स रावणः ॥
१२८. ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् ।
१२९. रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ।
१३०. मणिसोपाननिकृतां हेमजालविराजिताम् ।
१३१. स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ।
१३२. समैः ऋजुभिरित्युच्चैः समन्तात् सुविभूषितैः ।
१३३. स्तम्भैः पक्षैरिवात्युच्चैः दिवं संप्रस्थितामिव ।
१३४. महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया ।
१३५. धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम् ।
१३६. मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम् ।
१३७. तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीमिव ॥
१३८. इन्द्रियाणीन्द्रियार्थैस्तु पञ्चपञ्चभिरुत्तमैः ।
१३९. तर्पयामास मातेव तदा रावणपालिता ॥
१४०. स्वर्गोऽयं देवलोकोऽयं इन्द्रस्यापि पुरी भवेत् ।
१४१. सिद्धिर्वेयं परा हि स्यात् इत्यमन्यत मारुतिः ॥
१४२. प्रध्यायत इवापश्यत् प्रदीपान्स्तत्र काञ्चनान् ।
१४३. धूर्तानिव महाधूर्तैः देवनेन पराजितान् ॥
१४४. ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम् ।
१४५. सहस्रं वरनारीणां नानावेषविभूषितम् ।
१४६. परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् ।
१४७. क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा ॥
१४८. तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम् ।
१४९. निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥
१५०. तासां संवृतदन्तानि मीलिताक्षीणि मारुतिः ।
१५१. अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥
१५२. प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये ।
१५३. पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥
१५४. याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः ।
१५५. इमास्ताः सङ्गताः कृत्स्नाः इति मेने हरिस्तदा ॥
१५६. पानव्यायामकालेषु निद्रोपहतचेतसः ।
१५७. व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः ॥
१५८. पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ।
१५९. मुक्ताहारवृताश्चान्याः काश्चित् प्रस्रस्तवाससः ॥
१६०. व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥
१६१. अकुण्डलधराश्चान्याः विच्छिन्नमृदितस्रजः ।
१६२. गजेन्द्रमृदिताः फुल्लाः लता इव महावने ॥
१६३. चन्द्राम्शुकिरणाभाश्च हाराः कासाञ्चिदुद्गताः ।
१६४. हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥
१६५. अपरासाञ्च वैडूर्याः कादम्बा इव पक्षिणः ।
१६६. हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥
१६७. हंसकारण्डवोपेताः चक्रवाकोपशोभिताः ।
१६८. आपगा इव ता रेजुः जघनैः पुलिनैरिव ॥
१६९. किङ्किणीजालसङ्काशास्ता हेमविपुलाम्बुजाः ।
१७०. भावग्राहा यशस्तीरा सुप्ता नद्य इवाबभुः ॥
१७१. मृदुष्वङ्गेषु कासाञ्चित् कुचाग्रेषु च संस्थिताः ।
१७२. बभूवुर्भूषणानीव शुभा भूषणराजयः ॥
१७३. अम्शुकान्ताश्च कासाञ्चित् मुखमारुतकम्पिताः ।
१७४. उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥
१७५. ताः पताका इवोद्‍धूता पत्नीनां रुचिरप्रभाः ।
१७६. नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥
१७७. ववल्गुश्चात्र कासाञ्चित् कुण्डलानि शुभार्चिषाम् ।
१७८. मुखमारुतसंसर्गात् मन्दं मन्दं च योषिताम् ॥
१७९. रावणाननशङ्काश्च काश्चित् रावणयोषितः ।
१८०. मुखानि च सपत्नीनां उपाजिघ्रन् पुनः पुनः ॥
१८१. अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।
१८२. अस्वतन्त्राः सपत्नीनां प्रियमेवाचरन्स्तदा ॥
१८३. ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः ।
१८४. परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ।
१८५. अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा ।
१८६. मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदाः ॥
१८७. लतानां माधवे मासि फुल्लानां वायुसेवनात् ।
१८८. अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ।
१८९. प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम् ।
१९०. आसीद् वनमिवोद्‍धूतं स्त्रीवनं रावणस्य तत् ॥
१९१. राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः ।
१९२. रक्षसां चाभवन् कन्याः तस्य कामवशं गताः ॥
१९३. युद्धकामेन ताः सर्वाः रावणेन हृताः स्त्रियः ।
१९४. समदा मदनेनैव मोहिताः काश्चिदागताः ॥
१९५. न तत्र काश्चित् प्रमदा प्रसह्य
१९६. वीर्योपपन्नेन गुणेन लब्धाः ।
१९७. न चान्यकामापि न चान्यपूर्वा
१९८. विना वरार्हां जनकात्मजां तु ॥
१९९. न चाकुलीना न च हीनरूपा
२००. नादक्षिणा नानुपचारयुक्ता ।
२०१. भार्याभवत् तस्य न हीनसत्त्वा
२०२. न चापि कान्तस्य न कामनीया ॥
२०३. बभूव बुद्धिस्तु हरीश्वरस्य
२०४. यदीदृशी राघवधर्मपत्नी ।
२०५. इमा महाराक्षसराजभार्याः
२०६. सुजातमस्येति हि साधुबुद्धेः ॥
२०७. पुनश्च सोऽचिन्तयदार्तरूपो
२०८. ध्रुवं विशिष्टा गुणतो हि सीता ।
२०९. अथायमस्यां कृतवान् महात्मा
२१०. लङ्केश्वरः कष्टमनार्यकर्म ॥
२११. तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।
२१२. अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥
२१३. तस्मिन् जीमूतसङ्काशं प्रदीप्तोज्ज्वलकुण्डलम् ।
२१४. लोहिताक्षं महाबाहुं महारजतवाससम् ।
२१५. लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना ।
२१६. सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ।
२१७. वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।
२१८. सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ।
२१९. प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ।
२२०. भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ।
२२१. क्रीडित्वोपरतं रात्रौ ददर्श स महाकपिः ॥
२२२. निःश्वसन्तं यथा नागं रावणं वानरोत्तमः ।
२२३. आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत् ॥
२२४. अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।
२२५. सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥
२२६. शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम् ।
२२७. गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥
२२८. काञ्चनाङ्गदसन्नद्धौ ददर्श स महात्मनः ।
२२९. विक्षिप्तौ राक्षसेन्द्रस्य भुजौ इन्द्रध्वजोपमौ ॥
२३०. ऐरावतविषाणाग्रैः आपीडनकृतव्रणौ ।
२३१. वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ।
२३२. पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ ।
२३३. सलक्षणनखाङ्गुष्टौ स्वङ्गुलीयकलक्षितौ ।
२३४. विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ।
२३५. उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ ।
२३६. यक्षपन्नगगन्धर्वदेवदानवराविणौ ।
२३७. ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ ॥
२३८. चूतपुन्नागसुरभिः वकुलोत्तमसंयुतः ।
२३९. मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ।
२४०. शयानस्य विनिःश्वासः निश्चक्राम महामुखात् ॥
२४१. मुक्तामणिविचित्रेण काञ्चनेन विराजितम् ।
२४२. मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ।
२४३. रक्तचन्दनदिग्धेन तथा हारेण शोभिना ।
२४४. पीनायतविशालेन वक्षसाभिविराजितम् ।
२४५. पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।
२४६. महार्हेण सुसंवीतं पीतेनोत्तरवाससा ।
२४७. माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् ।
२४८. गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ।
२४९. चतुर्भिः काञ्चनैः दीपैः दीप्यमानं चतुर्दिशम् ।
२५०. प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ।
२५१. पादमूलगताश्चापि ददर्श सुमहात्मनः ।
२५२. पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥
२५३. शशिप्रकाशवदना वरकुण्डलभूषणाः ।
२५४. नृत्यवादित्रकुशलाः राक्षसेन्द्रभुजाङ्कगाः ।
२५५. वराभरणधारिण्यो निषण्णा ददृशे कपिः ॥
२५६. तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ।
२५७. विरराज विमानं तन्नभस्तारागणैरिव ॥
२५८. मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ।
२५९. तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥
२६०. आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ।
२६१. निपीड्‍य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥
२६२. तासामेकान्तविन्यस्ते शयानां शयने शुभे ।
२६३. ददर्श रूपसंपन्नामथ तां स कपिः स्त्रियम् ॥
२६४. मुक्तामणिसमायुक्तैः भूषणैः सुविभूषिताम् ।
२६५. विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ।
२६६. गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् ।
२६७. कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ।
२६८. स तां दृष्ट्वा महाबाहुः भूषितां मारुतात्मजः ।
२६९. तर्कयामास सीतेति रूपयौवनसंपदा ।
२७०. हर्षेण महता युक्तो ननन्द हरियूथपः ॥
२७१. अवधूय च तां बुद्धिं बभूवावस्थितस्तदा ।
२७२. जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥
२७३. न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
२७४. न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ।
२७५. नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ॥
२७६. न हि रामसमः कश्चित् विद्यते त्रिदशेष्वपि ॥
२७७. अन्येयमिति निश्चित्य भूयस्तत्र चचार सः ।
२७८. पानभूमौ हरिश्रेष्ठः सीतासन्दर्शनोत्सुकः ॥
२७९. सर्वकामैरुपेतां च पानभूमिं महात्मनः ।
२८०. ददर्श कपिशार्दूलः तस्य रक्षःपतेर्गृहे ॥
२८१. मृगाणां महिषाणां च वराहाणां च भागशः ।
२८२. तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥
२८३. लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च ।
२८४. कृकलान् विविधान् छागान् हनुमानन्ववैक्षत ॥
२८५. तथाम्ललवणोत्तंसैः विविधै रागखाण्डवैः ।
२८६. महानूपुरकेयूरैः अपविद्धैः महाधनैः ।
२८७. पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ।
२८८. कृतपुष्पोपहारा भूः अधिकां पुष्यति श्रियम् ॥
२८९. तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः ।
२९०. पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥
२९१. बहुप्रकारैर्विविधैः वरसंस्कारसंस्कृतैः ।
२९२. मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ।
२९३. दिव्या प्रसन्ना विविधा सुराः कृतसुरा अपि ।
२९४. शर्करासवमाध्वीकाः पुष्पासवफलासवाः ।
२९५. वासचूर्णैश्च विविधैः दृष्टास्तैस्तैः पृथक् पृथक् ।
२९६. सन्तता शुशुभे भूमिः माल्यैश्च बहुसंस्थितैः ॥
२९७. क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः ।
२९८. क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥
२९९. अन्यत्रापि वरस्त्रीणां रूपसम्लापशायिनाम् ।
३००. सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह ॥
३०१. एवं सर्वमशेषेण रावणान्तःपुरं कपिः ।
३०२. ददर्श स महातेजा न ददर्श च जानकीम् ॥
३०३. निरीक्षमाणश्च ततः ताः स्त्रियः स महाकपिः ।
३०४. जगाम महतीं शङ्कां धर्मसाध्वसशङ्कितः ॥
३०५. परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् ।
३०६. इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥
३०७. तस्य प्रादुरभूत् चिन्ता पुनरन्या मनस्विनः ।
३०८. निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥
३०९. कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः ।
३१०. न तु मे मनसा किञ्चित् वैकृत्यमुपपद्यते ॥
३११. मनो हि हेतुः सर्वेषां इन्द्रियाणां प्रवर्तने ।
३१२. शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥
३१३. नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् ।
३१४. स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे ॥
३१५. नशक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ।
३१६. तदिदं मार्गितं तावत् शुद्धेन मनसा मया ॥
३१७. रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥
३१८. तामपश्यन् कपिस्तत्र पश्यन्श्चान्या वरस्त्रियः ।
३१९. आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे ॥
३२०. भूमीगृहान्श्चैत्यगृहान् गृहातिगृहकानपि ।
३२१. उत्पतन् निपतन्श्चापि तिष्ठन् गच्छन् पुनः क्वचित् ।
३२२. अपावृण्वन्श्च द्वाराणि कपाटान्यवघट्टयन् ।
३२३. प्रविशन् निष्पतन्श्चापि प्रपतन्नुत्पतन्निव ।
३२४. सर्वमप्यवकाशं स विचचार महाकपिः ॥
३२५. चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते ।
३२६. रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥
३२७. प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः ।
३२८. श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥
३२९. राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।
३३०. दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥
३३१. रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः ।
३३२. दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥
३३३. प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद् हृताः ।
३३४. दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥
३३५. उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ।
३३६. व्यर्थं वीक्ष्यानिलसुतः चिन्तां पुनरुपागतः ॥
३३७. पल्वलानि तटाकानि सरांसि सरितस्तथा ।
३३८. नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ।
३३९. लोलिता वसुधा सर्वा न च पश्यामि जानकीम् ॥
३४०. इह संपातिना सीता रावणस्य निवेशने ।
३४१. आख्याता गृध्रराजेन न च सा दृश्यते न किम् ॥
३४२. किं नु सीताथ वैदेही मैथिली जनकात्मजा ।
३४३. उपतिष्ठेत विवशा रावणेन हृता बलात् ॥
३४४. उपर्युपरि सा नूनं सागरं क्रमतस्तदा ।
३४५. विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥
३४६. अहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः ।
३४७. अबन्धुः भक्षिता सीता रावणेन तपस्विनी ॥
३४८. अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा ।
३४९. अदुष्टा दुष्टभावाभिः भक्षिता सा भविष्यति ॥
३५०. अथवा निहिता मन्ये रावणस्य निवेशने ।
३५१. भृशं लालप्यते सीता पञ्जरस्थेव सारिका ॥
३५२. जनकस्य कुले जाता रामपत्नी सुमध्यमा ।
३५३. कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥
३५४. विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ।
३५५. रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥
३५६. निवेद्यमाने दोषः स्यात् दोषः स्यात् अनिवेदने ।
३५७. कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥
३५८. यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ।
३५९. गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥
३६०. गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः ।
३६१. न दृष्टेति मया सीता ततस्त्यक्षति जीवितम् ॥
३६२. कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः ।
३६३. रामं तथागतं दृष्ट्वा ततस्त्यक्षति जीवितम् ॥
३६४. घोरमारोदनं मन्ये गते मयि भविष्यति ।
३६५. इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥
३६६. सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।
३६७. मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ।
३६८. आशया तौ धरिष्येते वानराश्च मनस्विनः ॥
३६९. सागरानूपजे देशे बहुमूलफलोदके ।
३७०. चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥
३७१. सुजातमूला सुभगा कीर्तिमाला यशस्विनी ।
३७२. प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥
३७३. अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् ।
३७४. अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥
३७५. करोति सफलं जन्तोः कर्म यच्च करोति सः ।
३७६. तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम् ॥
३७७. विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ।
३७८. तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥
३७९. यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम् ।
३८०. तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥
३८१. अशोकवनिका चापि महतीयं महाद्रुमा ।
३८२. इमामधिगमिष्यामि न हीयं विचिता मया ॥
३८३. स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः ।
३८४. उदतिष्ठन् महातेजा हनूमान् मारुतात्मजः ॥
३८५. नमोऽस्तु रामाय सलक्ष्मणाय
३८६. देव्यै च तस्यै जनकात्मजायै ।
३८७. नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
३८८. नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः ॥
३८९. स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः ।
३९०. दिशः सर्वाः समालोक्य सोऽशोकवनिकां प्रति ।
३९१. स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।
३९२. उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥
३९३. सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह ।
३९४. सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
३९५. दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः ॥
३९६. स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
३९७. ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥
३९८. सालानशोकान् भव्यान्श्च चम्पकान्श्च सुपुष्पितान् ।
३९९. उद्दालकान् नागवृक्षान् चूतान् कपिमुखानपि ।
४००. पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥
४०१. वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
४०२. कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ।
४०३. प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम् ।
४०४. उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ॥
४०५. मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् ।
४०६. सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥
४०७. उत्पतद्भिः द्विजगणैः पक्षैः सालैः समाहताः ।
४०८. अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥
४०९. पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः ।
४१०. अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥
४११. दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम् ।
४१२. दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥
४१३. वृक्षेभ्यः पतितैः पुष्पैः अवकीर्णा पृथग्विधैः ।
४१४. रराज वसुधा तत्र प्रमदेव विभूषिता ॥
४१५. तरस्विना ते तरवः तरसाभिप्रकम्पिताः ।
४१६. निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः ।
४१७. निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥
४१८. विधूतकेशी युवतिः यथा मृदितवर्णका ।
४१९. निपीतशुभदन्तोष्टी नखैर्दन्तैश्च विक्षता ।
४२०. तथा लाङ्गूलहस्तैस्तु चरणाभ्यां च मर्दिता ।
४२१. तथैवाशोकवनिका प्रभग्नवनपादपा ॥
४२२. ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् ।
४२३. ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥
४२४. ददर्श च नगात् तस्मात् नदीं निपतितां कपिः ।
४२५. अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥
४२६. जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।
४२७. वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ।
४२८. पुनरावृत्ततोयान्श्च ददर्श स महाकपिः ।
४२९. प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥
४३०. लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ।
४३१. काञ्चनीं शिंशपामेकां ददर्श स महाकपिः ॥
४३२. तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ।
४३३. इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।
४३४. वनमेष्यति साद्येह रामचिन्तानुकर्शिता ।
४३५. सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
४३६. नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी ।
४३७. यदि जीवति सा देवी ताराधिपनिभानना ॥
४३८. एवं तु मत्वा हनुमान् महात्मा
४३९. प्रतीक्षमाणो मनुजेन्द्रपत्नीम् ।
४४०. अवेक्षमाणश्च ददर्श सर्वम्
४४१. सपुष्पिते पर्णघने निलीनः ॥
४४२. स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।
४४३. अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥
४४४. शातकुम्भनिभाः केचित् केचिदग्निशिखप्रभाः ।
४४५. नीलाञ्जननिभाः केचित् तत्राशोकाः सहस्रशः ॥
४४६. द्वितीयमिवचाकाशं पुष्पज्योतिर्गणायुतम् ।
४४७. पुष्परत्नशतैः चित्रं पञ्चमं सागरं यथा ।
४४८. सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ।
४४९. नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः ।
४५०. अनेकगन्धप्रवहं मारुतिः समुदैक्षत ॥
४५१. अशोकवनिकायां तु तस्यां वानरपुङ्गवः ।
४५२. मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ।
४५३. प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ।
४५४. मुष्णन्तमिव चक्षूम्षि द्योतमानमिव श्रिया ।
४५५. निर्मलं प्राम्शुभावत्वात् उल्लिखन्तमिवाम्बरम् ।
४५६. स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ॥
४५७. स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।
४५८. विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।
४५९. कालायसमहाशूलकूटमुद्गरधारिणीः ।
४६०. वराहमृगशार्दूलमहिषाजशिवामुखाः ।
४६१. मांसशोणितदिग्धाङ्गीः मांसशोणितभोजनाः ।
४६२. स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥
४६३. तस्याधस्ताच्च तां देवीं राक्षसीभिः समावृताम् ।
४६४. उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ।
४६५. अश्रुपूर्णमुखीं भीरुं नित्यं दुःखपरायणाम् ।
४६६. प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।
४६७. स्वगणेन मृगीं हीनां श्वगणेनावृतामिव ।
४६८. वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।
४६९. चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ।
४७०. क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।
४७१. सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम् ।
४७२. सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ।
४७३. पिनद्धां धूमजालेन शिखामिव विभावसोः ।
४७४. ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ।
४७५. तां स्मृतीमिव सन्दिग्धां ऋद्धिं निपतितामिव ।
४७६. विहतामिव च श्रद्धामाशां प्रतिहतामिव ।
४७७. सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।
४७८. अभूतेनापवादेन कीर्तिं निपतितामिव ।
४७९. आम्नायानामयोगेन विद्यां प्रशिथिलामिव ।
४८०. संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ।
४८१. भूमौ सुतनुमासीनां नियतामिव तापसीम् ।
४८२. मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।
४८३. संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ॥
४८४. तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ।
४८५. तर्कयामास सीतेति कारणैरुपपादिभिः ॥
४८६. सुकृतौ कर्णवेष्टौ च श्वदम्ष्‍ट्रौ च सुसंस्थितौ ।
४८७. मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ।
४८८. श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च ।
४८९. तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥
४९०. तत्र यान्यवहीनानि तान्यहं नोपलक्षये ॥
४९१. पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।
४९२. उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥
४९३. भूषणानि च मुख्यानि दृष्टानि धरणीतले ।
४९४. अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥
४९५. तां दीनां दीनवदनामदीनां भर्तृतेजसा ।
४९६. भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् ।
४९७. मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ।
४९८. दहन्तीमिव निश्वासैः वृक्षान् पल्लवधारिणः ।
४९९. अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।
५००. सङ्घातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ।
५०१. लक्षयामास लक्ष्मीवान् हनूमान् जनकात्मजाम् ॥
५०२. सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता ।
५०३. मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥
५०४. तां क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।
५०५. प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥
५०६. हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।
५०७. मुमोच हनुमान्स्तत्र नमश्चक्रे च राघवम् ॥
५०८. एवं सीतां तथा दृष्ट्वा हृष्टः पवनसंभवः ।
५०९. जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥
५१०. इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।
५११. प्रणष्टापि सती यस्य मनसो न प्रणश्यति ॥
५१२. इयं सा यत्कृते रामः चतुर्भिरिह तप्यते ।
५१३. कारुण्येनानृशंस्येन शोकेन मदनेन च ॥
५१४. स्त्री प्रणष्टेति कारुण्यात् आश्रितेत्यानृशंस्यतः ।
५१५. पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥
५१६. अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।
५१७. रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥
५१८. अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम् ।
५१९. तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥
५२०. दुष्करं कृतवान् रामो हीनो यदनया प्रभुः ।
५२१. धारयत्यात्मनो देहं न शोकेनावसीदति ॥
५२२. स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
५२३. सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ॥
५२४. अस्या हेतोर्विशालाक्ष्याः हतो वाली महाबलः ।
५२५. यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् ।
५२६. अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥
५२७. राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा ।
५२८. त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥
५२९. मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया ।
५३०. यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः ॥
५३१. रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।
५३२. नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥
५३३. तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
५३४. राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥
५३५. इयं सा धर्मशीलस्य जनकस्य महात्मनः ।
५३६. सुता मैथिलराजस्य सीता भर्तृदृढव्रता ॥
५३७. विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः ।
५३८. स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥
५३९. धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः ।
५४०. इयं सा दयिता भार्या राक्षसीवशमागता ॥
५४१. सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी ।
५४२. सहते यातनामेतामनर्थानामभागिनी ॥
५४३. कामभोगैः परित्यक्ता हीना बन्धुजनेन च ।
५४४. धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥
५४५. नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् ।
५४६. एकस्थहृदया नूनं राममेवानुपश्यति ॥
५४७. भर्ता नाम परं नार्याः शोभनं भूषणादपि ।
५४८. एषा हि रहिता तेन शोभनार्हा न शोभते ॥
५४९. हिमहतनलिनीव नष्टशोभा
५५०. व्यसनपरम्परया निपीड्‍यमाना ।
५५१. सहचररहितेव चक्रवाकी
५५२. जनकसुता कृपणां दशां प्रपन्ना ॥
५५३. इत्येवमर्थं कपिरन्ववेक्ष्य
५५४. सीतेयमित्येव तु जातबुद्धिः ।
५५५. संश्रित्य तस्मिन् निषसाद वृक्षे
५५६. बली हरीणामृषभस्तरस्वी ॥