०१ ०१ समुद्रोल्लङ्घनम्

१. ततो रावणनीतायाः सीतायाः शत्रुकर्षणः ।
२. इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥
३. दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः ।
४. समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ॥
५. अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
६. धीरः सलिलकल्पेषु विचचार यथासुखम् ॥
७. द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
८. मृगान्श्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी ॥
९. स तस्य गिरिवर्यस्य तले नागवरायुते ।
१०. तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥
११. स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
१२. भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥
१३. प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
१४. ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥
१५. निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।
१६. बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥
१७. स चचालाचलश्चाशु मुहूर्तं कपिपीडितः ।
१८. तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥
१९. तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
२०. सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥
२१. रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥
२२. गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
२३. गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥
२४. स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः ।
२५. पृथिवीं पूरयामास दिशश्चोपवनानि च ॥
२६. शिरोभिर्पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः ।
२७. वमन्तः पावकं घोरं ददम्शुर्दशनैः शिलाः ॥
२८. तास्तदा सविषैर्दष्टाः कुपितैस्तैः महाशिलाः ।
२९. जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥
३०. यानि त्वौषधजालानि तस्मिन् जातानि पर्वते ।
३१. विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥
३२. भिद्यतेऽयं गिरिर्धूर्तैः इति मत्वा तपस्विनः ।
३३. त्रस्ता विद्याधरास्तस्मात् उत्पेतुः स्त्रीगणैः सह ॥
३४. हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
३५. विस्मिताः सस्मिताः तस्थुः आकाशे रमणैः सह ॥
३६. शुश्रुवुश्च तदा शब्दं ऋषीणां भावितात्मनाम् ।
३७. एष पर्वतसङ्काशो हनूमान् मारुतात्मजः ।
३८. रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ।
३९. समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥
४०. दुधुवे च स रोमाणि चकम्पे चानलोपमः ।
४१. ननाद च महानादं सुमहानिव तोयदः ॥
४२. आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम् ।
४३. उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥
४४. तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः ।
४५. ददृशे गरुडेनेव ह्रियमाणो इवोरगः ॥
४६. बाहू संस्तम्भयामास महापरिघसन्निभौ ।
४७. ससाद च कपिः कट्यां चरणौ सञ्चुकोच च ॥
४८. संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम् ।
४९. तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥
५०. मार्गमालोकयन् दूरात् ऊर्ध्वप्रणिहितेक्षणः ।
५१. रुरोध हृदये प्राणान् आकाशमवलोकयन् ॥
५२. पद्भ्यां द्र्ढमवस्थानं कृत्वा कर्णौ निकुच्य च ।
५३. वानरान् वानरश्रेष्ठः इदं वचनमब्रवीत् ॥
५४. यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।
५५. गच्छेत् तद्वत् गमिष्यामि लङ्कां रावणपालिताम् ॥
५६. न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।
५७. अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥
५८. यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ।
५९. बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥
६०. सर्वथा कृतकार्योऽहं एष्यामि सहसीतया ।
६१. एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ।
६२. उत्पपाताथ वेगेन वेगवान् अविचारयन् ॥
६३. स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।
६४. उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥
६५. ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः ।
६६. प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥
६७. स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
६८. शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥
६९. तस्य वेगसमुद्‍धूतैः पुष्पैस्तोयमदृश्यत ।
७०. ताराभिरिव रामाभिः उदिताभिरिवाम्बरम् ॥
७१. तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।
७२. पर्वताग्रात् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥
७३. पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् ।
७४. पिपासुरिव चाकाशं ददृशे स महाकपिः ॥
७५. तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।
७६. नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥
७७. मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।
७८. सन्ध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम् ॥
७९. लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।
८०. अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ॥
८१. लाङ्गूलचक्रो हनुमान् शुक्लदम्ष्‍ट्रोऽनिलात्मजः ।
८२. व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥
८३. स्फिग्देशेनातिताम्रेण रराज स महाकपिः ।
८४. महता दारितेनेव गिरिर्गैरिकधातुना ॥
८५. तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।
८६. कक्षान्तरगतो वायुः जीमूत इव गर्जति ॥
८७. यं यं देशं समुद्रस्य जगाम स महाकपिः ।
८८. स तु तस्याङ्ग वेगेन सोन्माद इव लक्ष्यते ॥
८९. कपिवातश्च बलवान् मेघवातश्च निर्गतः ।
९०. सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम् ॥
९१. मेरुमन्दरसङ्काशान् उद्गतान् सुमहार्णवे ।
९२. अत्यक्रामन् महावेगः तरङ्गान् गणयन्निव ॥
९३. तिमिनक्रझषाः कूर्माः दृश्यन्ते विवृतास्तदा ।
९४. वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥
९५. श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
९६. तस्य सा शुशुभे छाया पतिता लवणाम्भसि ॥
९७. येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।
९८. तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥
९९. पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
१००. कपिना कृश्यमाणानि महाभ्राणि चकाशिरे ॥
१०१. प्रविशन्नभ्रजालानि निष्पतन्श्च पुनः पुनः ।
१०२. प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते ॥
१०३. तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम् ।
१०४. सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥
१०५. ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
१०६. जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम् ॥
१०७. तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
१०८. इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥
१०९. अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।
११०. इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम् ॥
१११. तथा मया विधातव्यं विश्रमेत यथा कपिः ।
११२. शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति ॥
११३. इति कृत्वा मतिं साध्वीं समुद्रः छन्नमम्भसि ।
११४. हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥
११५. स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।
११६. हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः ॥
११७. अस्य साह्यं मयाकार्यमिक्ष्वाकुकुलवर्तिनः ।
११८. कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥
११९. सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।
१२०. हनुमान्स्त्वयि विश्रान्तः ततः शेषं गमिष्यति ॥
१२१. हिरण्यगर्भो मैनाकः निशम्य लवणाम्भसः ।
१२२. उत्पपात जलात्तूर्णं महाद्रुमलतावृतः ॥
१२३. समुत्थितमसङ्गेन हनूमानग्रतः स्थितम् ।
१२४. मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥
१२५. स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।
१२६. उरसा पातयामास जीमूतमिव मारुतः ॥
१२७. तमाकाशगतं वीरमाकाशे समुपस्थितः ।
१२८. प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम् ॥
१२९. दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ।
१३०. निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम् ॥
१३१. राघवस्य कुले जातैः उदधिः परिवर्धितः ।
१३२. स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥
१३३. कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥
१३४. त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः ॥
१३५. अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।
१३६. धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥
१३७. पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
१३८. तेऽपि जग्मुः दिशः सर्वाः गरुडा इव वेगिनः ॥
१३९. भूतानि च भयं जग्मुः तेषां पतनशङ्कया ।
१४०. ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।
१४१. पक्षान्श्चिच्छेद वज्रेण ततः शतसहस्रशः ॥
१४२. स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
१४३. ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥
१४४. अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
१४५. गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ॥
१४६. ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते ।
१४७. श्रमं मोक्षय पूजां च गृहाण हरिसत्तम ।
१४८. प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥
१४९. एवमुक्तः कपिश्रेष्ठः तं नगोत्तममब्रवीत् ।
१५०. प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥
१५१. त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
१५२. प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ॥
१५३. इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।
१५४. जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥
१५५. स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
१५६. पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे ॥
१५७. तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
१५८. प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥
१५९. ततो देवाः सगन्धर्वा सिद्धाश्च परमर्षयः ।
१६०. अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ॥
१६१. अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।
१६२. हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥
१६३. बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
१६४. त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥
१६५. एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
१६६. समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ।
१६७. प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥
१६८. मम भक्ष्यः प्रविष्टस्त्वमीश्वरैः प्लवगर्षभ ।
१६९. अहं त्वां भक्षयिष्यामि प्रविश त्वं ममाननम् ॥
१७०. वर एष पुरा दत्तो मम धात्रेति सत्वरा ।
१७१. व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥
१७२. एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत् ।
१७३. रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
१७४. लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥
१७५. तस्य सीता हृता भार्या रावणेन यशस्विनी ।
१७६. तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥
१७७. कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ।
१७८. अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
१७९. आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥
१८०. एवमुक्ता हनुमता सुरसा कामरूपिणी ।
१८१. अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥
१८२. प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ॥
१८३. तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्।
१८४. सुसङ्क्षिप्यात्मनः कायं बभूवाङ्गुष्ठमातृकः ॥
१८५. सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।
१८६. अन्तरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् ॥
१८७. प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
१८८. गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ॥
१८९. तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
१९०. अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥
१९१. अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
१९२. समानयस्व वैदेहीं राघवेण महात्मना ॥
१९३. तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
१९४. साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥
१९५. स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
१९६. ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ।
१९७. विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ।
१९८. जगाम वायुमार्गे च गरुत्मानिव मारुतिः ॥
१९९. प्रविशन्नभ्रजालानि निष्पतन्श्च पुनः पुनः ।
२००. प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशन्स्तदा ॥
२०१. प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
२०२. मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥
२०३. अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
२०४. इदं मम महासत्त्वं चिरस्य वशमागतम् ॥
२०५. इति सञ्चिन्त्य मनसा च्छायामस्य समाक्षिपत् ॥
२०६. छायायां गृह्यमाणायां चिन्तयामास वानरः ।
२०७. समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ।
२०८. प्रतिलोमेन वातेन महानौरिव सागरे ॥
२०९. तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः ।
२१०. ददर्श स महासत्त्वमुत्थितं लवणाम्भसि ॥
२११. स तां बुद्ध्वार्थतत्वेन सिंहिकां मतिमान् कपिः ।
२१२. व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥
२१३. तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।
२१४. वक्त्रं प्रसारयामास पातालाम्बरसन्निभम् ॥
२१५. घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥
२१६. स तस्या विकृते वक्त्रे वज्रसंहननः कपिः ।
२१७. सङ्क्षिप्य मुहुरात्मानं निपपात महाबलः ॥
२१८. आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
२१९. ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥
२२०. ततस्तस्या नखैस्तीक्ष्णैः मर्माण्युत्कृत्य वानरः ।
२२१. उत्पपाताथ वेगेन मनःसंपातविक्रमः ॥
२२२. हृतहृत्सा हनुमता पपात विधुराम्भसि ॥
२२३. तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।
२२४. भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥
२२५. भीममद्य कृतं कर्म महत् सत्त्वं त्वया हतम् ।
२२६. साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥
२२७. यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
२२८. धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥
२२९. स तैः संपूजितः पूज्यः प्रतिपन्नप्रयोजनः ।
२३०. जगामाकाशमाविश्य पन्नगाशनवत् कपिः ॥
२३१. योजनानां शतस्यान्ते वनराजिं ददर्श सः ।
२३२. ददर्श च पतन्नेव विविधद्रुमभूषितम् ।
२३३. द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥
२३४. सागरस्य च पत्नीनां मुखान्यपि विलोकयत् ॥
२३५. स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ।
२३६. निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ॥
२३७. कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।
२३८. मयि कौतूहलं कुर्युः इति मेने महामतिः ॥
२३९. ततः शरीरं सङ्क्षिप्य तन्महीधरसन्निभम् ।
२४०. पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥
२४१. तद्‍रूपमतिसङ्क्षिप्य हनूमान् प्रकृतौ स्थितः ।
२४२. त्रीन् क्रमान् इव विक्रम्य बलिवीर्यहरो हरिः ॥
२४३. स सागरं दानवपन्नगायुतम्
२४४. बलेन विक्रम्य महोर्मिमालिनम् ।
२४५. निपत्य तीरे च महोदधेस्तदा
२४६. ददर्श लङ्काममरावतीमिव ॥
२४७. स सागरमनाधृष्यमतिक्रम्य महाबलः ।
२४८. त्रिकूटशिखरे लङ्कां स्थितः स्वस्थो ददर्श ह ॥
२४९. योजनानां शतं श्रीमान् तीर्त्वाप्युत्तमविक्रमः ।
२५०. अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥
२५१. गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।
२५२. पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।
२५३. वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।
२५४. शतघ्नीशूलकेशान्तां अट्टालकवतंसकाम् ।
२५५. मनसेव कृतां लङ्कां ददर्श हनुमान् कपिः ॥
२५६. अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ।
२५७. दम्ष्‍ट्रिभिः बहुभिः शूरैः शूलपट्टिशपाणिभिः ।
२५८. रक्षितां राक्षसैर्घोरैः गुहां आशीविषैरिव ।
२५९. तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
२६०. रावणं च रिपुं घोरं चिन्तयामास वानरः ॥
२६१. इमां त्वविषमां लङ्कां दुर्गां रावणपालिताम् ।
२६२. प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः ॥
२६३. अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते ।
२६४. न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥
२६५. यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
२६६. तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥
२६७. अनेन रूपेण मया न शक्या रक्षसां पुरी ।
२६८. प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥
२६९. केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।
२७०. अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥
२७१. न विनश्येत् कथं कार्यं रामस्य विदितात्मनः ।
२७२. एकामेकस्तु पश्येयं रहिते जनकात्मजाम् ॥
२७३. भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
२७४. विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥
२७५. अर्थानर्थान्तरे बुद्धिः निश्चितापि न शोभते ।
२७६. घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥
२७७. न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
२७८. अपि राक्षसरूपेण किमुतान्येन केनचित् ॥
२७९. इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
२८०. विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति ॥
२८१. तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
२८२. लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥
२८३. इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः ।
२८४. आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥
२८५. सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः ।
२८६. वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः ॥
२८७. प्रदोषकाले हनुमान् तूर्णमुत्पत्य वीर्यवान् ।
२८८. प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम् ॥
२८९. चन्द्रोऽपि साचिव्यमिवास्य कुर्वन्
२९०. तारागणैर्मध्यगतो विराजन् ।
२९१. ज्योत्स्नावितानेन वितत्य लोकान्
२९२. उत्तिष्ठते नैकसहस्ररश्मिः ॥
२९३. शङ्खप्रभं क्षीरमृणालवर्णम्
२९४. उद्गच्छमानं व्यवभासमानम् ।
२९५. ददर्श चन्द्रं स कपिप्रवीरः
२९६. पोप्लूयमानं सरसीव हंसम् ॥
२९७. रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ।
२९८. शारदाम्बुधरप्रख्यैः भवनैरुपशोभिताम् ।
२९९. सागरोपमनिर्घोषां सागरानिलसेविताम् ।
३००. शातकुम्भेन महता प्राकारेणाभिसंवृताम् ।
३०१. किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।
३०२. आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥
३०३. जाम्बूनदमयैर्द्वारैः वैदूर्यकृतवेदिकैः ।
३०४. वज्रस्फटिकमुक्ताभिः मणिकुट्टिमभूषितैः ।
३०५. तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः ।
३०६. वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।
३०७. चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ।
३०८. क्रौञ्चबर्हिणसङ्घुष्टैः राजहंसनिषेवितैः ।
३०९. तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम् ।
३१०. वस्वोकसारप्रतिमां तां वीक्ष्य नगरीं ततः ।
३११. खमिवोत्पतितुङ्कामां जहर्ष हनुमान् कपिः ॥
३१२. तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् ।
३१३. अनुत्तमां ऋद्धिमतीं चिन्तयामास वानरः ॥
३१४. नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
३१५. विवस्वतस्तनूजस्य मैन्दद्विविदयोरपि ।
३१६. कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।
३१७. ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत् ॥
३१८. समीक्ष्य च महाबाहोः राघवस्य पराक्रमम् ।
३१९. लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः ॥
३२०. अथ सा कपिशार्दूलं प्रविशन्तं महाकपिम् ।
३२१. नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥
३२२. स्वयमेवोत्थिता तत्र विकृताननदर्शना ।
३२३. पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत ॥
३२४. मुञ्चमाना महानादमब्रवीत् पवनात्मजम् ।
३२५. कस्त्वं केन च कार्येण इह प्राप्तो वनालय ॥
३२६. कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते ।
३२७. अहं राक्षसराजस्य रावणस्य महात्मनः ।
३२८. आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥
३२९. अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥
३३०. लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।
३३१. आबभाषेऽथ मेधावी सत्त्ववान् प्ल्वगर्षभः ॥
३३२. द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।
३३३. इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥
३३४. तस्य तद्वचनं श्रुत्वा बभाषे कामरूपिणी ।
३३५. मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।
३३६. न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम ॥
३३७. ततः कृत्वा महानादं स वै लङ्का भयङ्करम् ।
३३८. तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥
३३९. ततः स हरिशार्दूलो लङ्कया ताडितो भृशम् ।
३४०. मुष्टिनाभिजघानैनां हनुमान् क्रोधमूर्च्छितः ॥
३४१. स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ॥
३४२. सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ।
३४३. पपात सहसा भूमौ विकृताननदर्शना ॥
३४४. ततो वै भृशमुद्विग्ना लङ्का सा गद्गदाक्षरम् ।
३४५. उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥
३४६. प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।
३४७. समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥
३४८. अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ।
३४९. निर्जिताहं त्वया वीर विक्रमेण महाबल ॥
३५०. इदं च तथ्यं श्रुणु मे ब्रुवन्त्या वै हरीश्वर ।
३५१. स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम ॥
३५२. यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत् ।
३५३. तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥
३५४. स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ।
३५५. स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ॥
३५६. तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।
३५७. विधत्स्व सर्वकार्याणि यानि यानीह वान्छसि ॥