१. ततः सर्वा दिशो राजा चोदयित्वा यथातथम् ।
२. कपिसेनापतिर्वीरो मुमोद सुखितः सुखम् ॥
३. एवं सञ्चोदिताः सर्वे राज्ञा वानरयूथपाः ।
४. स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥
५. नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
६. क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः ।
७. शलभा इव सन्छाद्य मेदिनीं संप्रतस्थिरे ॥
८. सराम्सि सरितः कक्षानाकाशं नगराणि च ।
९. नदीदुर्गान्स्तथा शैलान् विचिन्वन्ति समन्ततः ॥
१०. विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
११. समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥
१२. विचित्य तु दिशं पूर्वान् यथोक्तां सचिवैः सह ।
१३. अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥
१४. उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।
१५. आगतः सहसैन्येन वीरः शतबलिस्तदा ॥
१६. सुषेणः पश्चिमामाशां विचित्य सह वानरैः ।
१७. समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥
१८. तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
१९. आसीनं सहरामेण सुग्रीवमिदमब्रुवन् ॥
२०. विचिताः पर्वताः सर्वे वनानि गहनानि च ।
२१. निंनगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥
२२. विचिताश्च महागुल्मा लताविततसन्तताः ।
२३. गुहाश्च विचिताः सर्वा (न दृष्टा जनकात्मजा) ॥
२४. उदारसत्त्वाभिजनो महात्मा
२५. स मैथिलीं द्रक्ष्यति वानरेन्द्र ।
२६. दिशं तु यामेव गता तु सीता
२७. तामास्थितो वायुसुतो हनूमान् ॥
२८. सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः ।
२९. सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे ॥
३०. ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च ।
३१. पर्वताग्रनदीदुर्गान् सराम्सि विपुलद्रुमान् ।
३२. अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् ।
३३. न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥
३४. ते भक्षयन्तो मूलानि फलानि विविधान्यपि ।
३५. अन्वेषमाणा दुर्धर्षा न्यवसन्स्तत्र तत्र ह ॥
३६. ततस्ते काननान्तान्स्तु गिरीणां कन्दराणि च ।
३७. प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः ॥
३८. तत्र चापि महात्मानो नापश्यन् जनकात्मजाम् ॥
३९. क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः ।
४०. अवकीर्णं लतावृक्षैः ददृशुस्ते महाबिलम् ॥
४१. ततः पर्वतकूटाभो हनूमान् मारुतात्मजः ।
४२. अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः ॥
४३. अस्माच्चापि बिलाद् हम्साः क्रौञ्चाश्च सहसारसैः ।
४४. जलार्द्राः चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ॥
४५. नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ।
४६. तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥
४७. इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम् ॥
४८. ततस्तस्मिन् बिले भीमे नानापादपसङ्कुले ।
४९. अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥
५०. ते नष्टसञ्ज्ञाः तृषिताः सम्भ्रान्ता सलिलार्थिनः ।
५१. परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥
५२. ते कृशाः दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ।
५३. आलोकं ददृशुर्वीरा निराशा जीविते यदा ॥
५४. ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ।
५५. ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ॥
५६. जातरूपमयैर्मत्स्यैः महद्भिश्चाथ पङ्कजैः ।
५७. नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ॥
५८. तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
५९. हैमराजतभौमानि वैदूर्यमणिमन्ति च ।
६०. ददृशुस्तत्र हरयो गृःअमुख्यानि सर्वशः ॥
६१. तत्र तत्र विचिन्वन्तो बिले तस्मिन् महाबलाः ।
६२. ददृशुः वानराः शूराः स्त्रियं काञ्चिददूरतः ॥
६३. तापसीं नियताहारां चीरकृष्णाजिनाम्बराम् ॥
६४. ततो हनूमान् गिरिसन्निकाशह्
६५. कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।
६६. पप्रच्छ का त्वं भवनं बिलं च
६७. रत्नानि चेमानि वदस्व कस्य ॥
६८. एवमुक्ता हनुमता तापसी धर्मचारिणी ।
६९. प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥
७०. इदम्(अप्सरसे) दत्तं हेमायै वनमुत्तमम् ।
७१. (ब्रःमणा) कामभोगश्च गृःअं चेदं हिरण्मयम् ॥
७२. दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ।
७३. इदं रक्षामि भवनं हेमाया वानरोत्तम ॥
७४. मम प्रियसखी हेमा नृत्तगीतविशारदा ।
७५. तया दत्तवरा चास्मि रक्षामि भवनं महत् ॥
७६. किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ।
७७. कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥
७८. शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
७९. भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥
८०. तस्यास्तद्वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
८१. आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥
८२. रामो दाशरथिः श्रीमान् प्रविष्टो दण्दकावनम् ।
८३. लक्ष्मणेन सहभ्रात्रा वैदेह्या सह भार्यया ॥
८४. तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।
८५. वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ॥
८६. राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।
८७. अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ॥
८८. रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।
८९. सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥
९०. विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
९१. बुभुक्षिताः परिश्रान्ताः वृक्षमूलमुपाश्रिताः ॥
९२. चारयन्तस्ततश्चक्षुः दृष्टवन्तो महद्बिलम् ।
९३. इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥
९४. एतन्नः कार्यमेतेन कृत्येन वयमागताः ।
९५. त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ॥
९६. आतिथ्यधर्मदत्तानि मूलानि च फलानि च ।
९७. अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः ॥
९८. यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ।
९९. ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥
१००. एवमुक्ता तु सर्वज्ञा (प्रत्युवाच) स्वयम्प्रभा ।
१०१. सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ।
१०२. चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥
१०३. एवमुक्तः शुभं वाक्यं हनुमानिदमब्रवीत् ।
१०४. शरणं त्वां प्रपनाः स्मः सर्वे वै धर्मचारिणीम् ॥
१०५. यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना ।
१०६. स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥
१०७. सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि ।
१०८. त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् ॥
१०९. एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।
११०. जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥
१११. तपसः सुप्रभावेण नियमोपार्जितेन च ।
११२. सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् ॥
११३. निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ।
११४. ततो निमीलिताः सर्वे सुकुमाराम्गुलैः करैः ।
११५. निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥
११६. उवाच सर्वान्स्तान्स्तत्र तापसी धर्मचारिणी ।
११७. एष विन्ध्यो गिरिः श्रीमान् सागरोऽयं महोदधिः ॥
११८. स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।
११९. इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ॥
१२०. ततस्ते ददृशुर्घोरं सागरं वरुणालयम् ।
१२१. अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥
१२२. विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे ।
१२३. उपविश्य महात्मानः चिन्तामापेदिरे तदा ॥
१२४. तत्र पुष्पातिभाराग्रान् लताशतसमावृतान् ।
१२५. द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ॥
१२६. ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।
१२७. नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥
१२८. ततस्तान् कपिवृद्धान्श्च शिष्टान्श्चैव वनौकसः ।
१२९. वाचा मधुरयाभाष्य यथावदनुमान्य च ।
१३०. युवराजो महाप्राज्ञो अङ्गदो वाक्यमब्रवीत् ॥
१३१. शासनात् कपिराजस्य वयं सर्वे विनिर्गताः ।
१३२. मासः पूर्णो बिलस्थानां हरयो किं न बुद्ध्यत ॥
१३३. वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः ।
१३४. प्रस्थितः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥
१३५. भवन्तः प्रत्ययं प्राप्ताः नीतिमार्गविशारदाः ।
१३६. हितेष्वभिरता भर्तुः निसृष्टाः सर्वकर्मसु ॥
१३७. कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः ।
१३८. मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥
१३९. हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् ।
१४०. तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ॥
१४१. अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।
१४२. ध्रुवं नो हिम्सिता राजा सर्वान् प्रतिगतानितः ॥
१४३. वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ।
१४४. तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् ॥
१४५. न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।
१४६. नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥
१४७. स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ।
१४८. घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥
१४९. इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥
१५०. एतत् श्रुत्वा कुमारेण युवराजेन भाषितम् ।
१५१. सर्वे ते वानरश्रेष्टा करुणं वाक्यमब्रुवन् ॥
१५२. तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।
१५३. अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान् ।
१५४. राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ॥
१५५. इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा ।
१५६. नो चेत् गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥
१५७. प्लवङ्गमानां तु भयार्दितानाम्
१५८. श्रुत्वा वचः तार इदं बभाषे ।
१५९. अलं विषादेन बिलं प्रविश्य
१६०. वसाम सर्वे यदि रोचते वः ॥
१६१. इदं हि मायाविहितं सुदुर्गमम्
१६२. प्रभूतपुष्पोदकभोज्यपेयम् ।
१६३. इहास्ति नो नैव भयं पुरन्दरात्
१६४. न राघवात् वानरराजतोऽपि वा ॥
१६५. तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
१६६. बुद्ध्या ह्यष्टाम्गया युक्तं चतुर्बलसमन्वितम् ।
१६७. चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ॥
१६८. शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ।
१६९. बृःअस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।
१७०. भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशरदः ।
१७१. अभिसन्धातुमारेभे हनुमानङ्गदं ततः ॥
१७२. स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।
१७३. भेदयामास तान् सर्वान् वानरान् वाक्यसंपदा ॥
१७४. तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ।
१७५. भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः ॥
१७६. त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् ।
१७७. दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥
१७८. नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव ।
१७९. त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।
१८०. न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।
१८१. दन्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥
१८२. यां चैमां मन्यसे धात्रीं एतद् बिलमिति श्रुतम् ।
१८३. एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम् ॥
१८४. स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
१८५. खेदिता दुःखशय्याभिः त्वां करिष्यन्ति पृष्ठतः ॥
१८६. स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।
१८७. तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि ॥
१८८. न च जातु न हिम्स्युस्त्वां घोरा लक्ष्मणसायकाः ।
१८९. अपवृत्तं जिघाम्सन्तो महावेगा दुरासदाः ॥
१९०. अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।
१९१. आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥
१९२. धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।
१९३. शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत् ॥
१९४. प्रियकामश्च ते मातुः तदर्थं चास्य जीवितम् ।
१९५. तस्यापत्यं च नास्त्यन्यत् तस्मात् अङ्गद गम्यताम् ॥
१९६. श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।
१९७. स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥
१९८. स्थैर्यमात्ममनःशौचमानृशम्स्यमथार्जवम् ।
१९९. विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥
२००. भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।
२०१. धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ।
२०२. कथं स धर्मं जानीते येन भात्रा दुरात्मना ।
२०३. युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥
२०४. सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः ।
२०५. विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥
२०६. लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा ।
२०७. आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत् ॥
२०८. तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि ।
२०९. आर्यः को विश्वसेत् जातु तत्कुलीनो विशेषतः ॥
२१०. राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा ।
२११. कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥
२१२. बन्धनाच्चावसादान्मे श्रेयो प्रायोपवेशनम् ।
२१३. अनुजानन्तु मां सर्वे गृःअं गच्छन्तु वानराः ॥
२१४. इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ।
२१५. अभिवादनपूर्वं तु सुग्रीवो वानरेश्वरः ।
२१६. वाच्यस्तातो यवीयान् च राघवौ बलशालिनौ ।
२१७. आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥
२१८. मातरं चैव मे तारामाश्वासयितुमर्हथ ।
२१९. प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ।
२२०. विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥
२२१. एतावदुक्त्वा वचनं वृद्धान्स्तानभिवाद्य च ।
२२२. विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥
२२३. तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ।
२२४. नयनेभ्यः प्रमुमुचुः उष्णं वै वारि दुःखिताः ॥
२२५. सुग्रीवं चैव निन्दन्तः प्रशम्सन्तश्च वालिनम् ।
२२६. परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥
२२७. रामस्य वनवासं च क्षयं दशरथस्य च ।
२२८. जनस्थानवधं चैव वधं चैव जटायुषः ।
२२९. हरणं चैव वैदेह्या वालिनश्च वधं तथा ।
२३०. रामकोपं च वदतां हरीणां भयमागतम् ॥
२३१. संपातिर्नाम नांना तु चिरञ्जीवी विहङ्गमः ।
२३२. भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः ।
२३३. कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।
२३४. उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥
२३५. विधिः किल नरं लोके विधानेनानुवर्तते ।
२३६. यथायं विहितो भक्ष्यः चिरान् मह्यमुपागतः ॥
२३७. परं पराणां भक्षिष्ये वानराणां मृतं मृतम् ॥
२३८. तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ।
२३९. अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥
२४०. पश्य सीतापदेशेन साक्षात् वैवस्वतो यमः ।
२४१. इमं देशमनुप्राप्तः वानराणां विपत्तये ॥
२४२. (तदा) तस्यापकारार्थं त्यजतात्मानमात्मना ।
२४३. प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥
२४४. स सुखी गृध्रराजस्तु रावणेन हतो रणे ।
२४५. मुक्तश्च सुग्रीवभयात् गतश्च परमां गतिम् ॥
२४६. राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः ।
२४७. कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ॥
२४८. तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् ।
२४९. अब्रवीत् वचनं गृध्रः तीक्ष्णतुण्डो महास्वनः ॥
२५०. कोऽयं गिरैः घोषयति प्राणैः प्रियतरस्य मे ।
२५१. जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥
२५२. नामधेयमिदं भ्रातुः चिरस्याद्य मया श्रुतम् ।
२५३. यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥
२५४. अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् ।
२५५. तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥
२५६. भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
२५७. सूर्याम्शुदग्धपक्षत्वात् न शक्नोमि विसर्पितुम् ॥
२५८. इच्छेयं पर्वतादस्मात् अवतर्तुमरिन्दमाः ॥
२५९. शोकात् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः ।
२६०. श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥
२६१. ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।
२६२. चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥
२६३. सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ।
२६४. कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥
२६५. एतां बुद्धिं ततः चक्रुः सर्वे ते हरियूथपाः ।
२६६. अवतार्य गिरेः शृङ्गात् (अङ्गदोऽख्यातवान् द्विजम्) ॥
२६७. (रामस्य वनवासं च वैदेह्या हरणं तथा ।
२६८. जटायुषः वधं चापि वालिनश्च वधं तथा ।
२६९. मार्गणार्थं हि वैदेह्याः वानराणां च चोदनम् ।
२७०. अज्ञानात्तु प्रविष्टानां बिले कालव्यतिक्रमम् ।
२७१. सुग्रीवकोपभीतानां तत्र प्रायोपवेशनम् ॥
) २७२. (तच्छ्रुत्वा करुणाख्यानं अङ्गदेनेरितं तदा) ।
२७३. सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥
२७४. यवीयान् स मम भ्राता जटायुर्नाम वानराः ।
२७५. यमाख्यात हतं युद्धे रावणेन बलीयसा ॥
२७६. वृद्धभावात् अपक्षत्वात् शृण्वन्स्तदपि मर्षये ॥
२७७. न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥
२७८. पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ ।
२७९. आदित्यमुपयातौ स्वः ज्वलन्तं रश्मिमालिनम् ॥
२८०. आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम् ।
२८१. मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति ॥
२८२. तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।
२८३. पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम् ॥
२८४. निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः ।
२८५. अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये ॥
२८६. जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ।
२८७. युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥
२८८. जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।
२८९. आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥
२९०. ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः ।
२९१. आत्मानुरूपं वचनं वानरान् संप्रहर्षयन् ॥
२९२. निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः ।
२९३. वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥
२९४. तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।
२९५. ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ।
२९६. क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।
२९७. भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ॥
२९८. सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।
२९९. असिते राक्षसे भाति यथा वा तटिदम्बुदे ॥
३००. तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।
३०१. श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥
३०२. पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।
३०३. अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥
३०४. इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने ।
३०५. तस्मिन् लंकापुरी रम्या निर्मिता विश्वकर्मणा ॥
३०६. तस्यां वसति वैदेही दीना कौशेयवासिनी ।
३०७. रावणान्तह्पुरे रुद्धा राक्षसीभिः सुरक्षिता ॥
३०८. संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् ।
३०९. आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥
३१०. उपायो दृश्यतां कश्चित् लङ्घने लवणाम्भसः ।
३११. अभिगम्य तु वैदेहीं समृद्धार्थो गमिष्यथ ॥
३१२. समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।
३१३. प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥
३१४. ततो नीत्वा तु तं देशं तीरे नदनदीपतेः ।
३१५. निर्दग्धपक्षं संपातिं वानराः सुमहौजसः ।
३१६. तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम् ।
३१७. बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥
३१८. आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः ।
३१९. सङ्गताः प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ॥
३२०. हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः ।
३२१. दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् ॥
३२२. सन्निवेशं ततश्चक्रुः हरिवीरा महाबलाः ॥
३२३. आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः ।
३२४. विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन् ॥
३२५. विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् ।
३२६. आश्वासयामास हरीन् वालिसूनुर्महाबलः ॥
३२७. न विषादे मनः कार्यं विषादो दोषवत्तरः ।
३२८. विषादं हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥
३२९. यो विषादं प्रसहते विक्रमे समुपस्थिते ।
३३०. तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥
३३१. तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह ।
३३२. हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥
३३३. ततस्तान् हरिवृद्धान्श्च तच्च सैन्यमरिम्दमः ।
३३४. अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ॥
३३५. को वीरो योजनशतं लङ्घयेत प्लवङ्गमः ।
३३६. कः करिष्यति सुग्रीवं सत्यसन्धमरिम्दमम् ॥
३३७. कस्य प्रसादात् रामं च लक्ष्मणं च महाबलम् ।
३३८. अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम् ॥
३३९. कस्य प्रसादात् दारान्श्च पुत्रान्श्चैव गृःआणि च ।
३४०. इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥
३४१. यदि कश्चित् समर्थो वः सागरप्लवने हरिः ।
३४२. स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥
३४३. अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत् ।
३४४. स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी ॥
३४५. पुनरेवाङ्गदः प्राह तान् हरीन् कपिसत्तमः ।
३४६. सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥
३४७. व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ।
३४८. नहि वो गमने सङ्गः कदाचित् कस्यचित् क्वचित् ।
३४९. ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥
३५०. अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः ।
३५१. स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥
३५२. मैन्दस्तु वानरस्तत्र वानरान्स्तानुवाच ह ।
३५३. योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥
३५४. ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
३५५. गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥
३५६. सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः ।
३५७. अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे ॥
३५८. तेषां कथयतां तत्र सर्वान्स्ताननुमान्य च ।
३५९. ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥
३६०. पूर्वमस्माकमप्यासीत् कश्चित् गतिपराक्रमः ।
३६१. ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥
३६२. साम्प्रतं कालभेदेन या गतिस्तां निबोधत ।
३६३. नवतिं योजनानां तु गमिष्यामि न संशयः ॥
३६४. नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥
३६५. अथोत्तरमुदारार्थमब्रवीत् अङ्गदस्तदा ॥
३६६. अहमेतद् गमिष्यामि योजनानां शतं महत् ।
३६७. निवर्तने तु मे शक्तिः स्यान्नवेति न निश्चिता ॥
३६८. तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ।
३६९. योजनानां भवान् शक्तः गन्तुं प्रतिनिवर्तितुम् ॥
३७०. न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।
३७१. भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥
३७२. अपि वै तस्य कार्यस्य भवान् मूलमरिन्दम ।
३७३. मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ॥
३७४. मूले हि सति सिद्ध्यन्ति गुणाः पुष्पफलोदयाः ॥
३७५. उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
३७६. प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥
३७७. यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ।
३७८. पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥
३७९. तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति ॥
३८०. सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
३८१. जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥
३८२. अस्य ते वीर कार्यस्य न किञ्चित् परिहीयते ।
३८३. एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥
३८४. ततः प्रतीतं प्लवतां वरिष्ठम्
३८५. एकान्तमाश्रित्य सुखोपविष्टम् ।
३८६. सञ्चोदयामास हरिप्रवीरह्
३८७. हरिप्रवीरं हनुमन्तमेव ॥
३८८. अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
३८९. जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥
३९०. वीर वानरलोकस्य सर्वशास्त्रविदां वर ।
३९१. तूष्णीमेकान्तमाश्रित्य हनूमान् किं न जल्पसि ॥
३९२. हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।
३९३. रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥
३९४. बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।
३९५. विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे ॥
३९६. दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।
३९७. अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥
३९८. विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी ।
३९९. अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥
४००. दृष्ट्वा तां शुभसर्वाङ्गीं तनुमध्यां यशस्विनीम् ।
४०१. मन्मथाविष्टसर्वाङ्गो पर्यष्वजत मारुतः ॥
४०२. तां तु तत्रैव सम्भ्रान्तां सुव्रतां वाक्यमब्रवीत् ।
४०३. न त्वां हिम्सामि सुश्रोणि मा भूत् ते मनसो भयम् ॥
४०४. मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनीम् ।
४०५. वीर्यवान् बुद्धिसंपन्नस्तव पुत्रो भविष्यति ॥
४०६. महासत्त्वो महातेजा महाबलपराक्रमः ।
४०७. लङ्घने प्लवने चैव भविष्यति मया समः ॥
४०८. एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।
४०९. गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ ॥
४१०. अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।
४११. फलं चेति जिघृक्षुस्त्वं उत्प्लुत्याभ्युद्गतो दिवम् ॥
४१२. शतानि त्रीणि गत्वाथ योजनानां महाकपे ।
४१३. तेजसा तस्य निर्धूतः न विषादं गतस्ततः ॥
४१४. त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे ।
४१५. क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा ॥
४१६. तदा कैलास शिखरे वामो हनुरभज्यत ।
४१७. ततो हि नामधेयं ते हनूमानिति कीर्तितम् ॥
४१८. ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।
४१९. त्रैलोक्यं भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ॥
४२०. सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।
४२१. प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ॥
४२२. प्रसादिते च पवने ब्रःमा तुभ्यं वरं ददौ ।
४२३. अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥
४२४. सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।
४२५. स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो ॥
४२६. स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रम ।
४२७. मारुतस्यौरसः पुत्रः प्लवने चापि तत्समः ॥
४२८. वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।
४२९. दाक्ष्यविक्रमसंपन्नः कपिराज इवापरः ॥
४३०. तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि ।
४३१. त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी ॥
४३२. उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।
४३३. परा हि सर्वभूतानां हनूमन् या गतिस्तव ॥
४३४. विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे ।
४३५. विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव ॥
४३६. ततः कपीनामृषभेण चोदितह्
४३७. प्रतीतवेगः पवनात्मजः कपिः ।
४३८. प्रहर्षयन्स्तां हरिवीरवाहिनीम्
४३९. चकार रूपं महदात्मनस्तदा ॥
४४०. तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।
४४१. वेगेनापूर्यमाणं च सहसा वानरोत्तमम् ।
४४२. सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः ।
४४३. विनेदुः तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥
४४४. तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः ।
४४५. तेजसा पूर्यमाणस्य रूपमासीदनुत्तमम् ॥
४४६. यथा विजृम्भते सिंहो विवृते गिरिगह्वरे ।
४४७. मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते ॥
४४८. अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
४४९. अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥
४५०. हरीणामुत्थितो मध्यात् संप्रहृष्टतनूरुहः ।
४५१. अभिवाद्य हरीन् वृद्धान् हनुमानिदमब्रवीत् ॥
४५२. मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ।
४५३. उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।
४५४. मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥
४५५. उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
४५६. अनस्तमितमादित्यमहं गन्तुं समुत्सहे ॥
४५७. सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम् ।
४५८. पर्वतान्श्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः ॥
४५९. निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।
४६०. सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥
४६१. भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।
४६२. विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव ॥
४६३. भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ।
४६४. अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥
४६५. तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम् ।
४६६. प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ॥
४६७. तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ।
४६८. उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः ॥
४६९. वीर केसरिणः पुत्र हनुमन् मारुतात्मज ।
४७०. ज्ञातीनां विपुलः शोकः त्वया तात प्रणाशितः ॥
४७१. तव कल्याणरुचयः कपिमुख्याः समागताः ।
४७२. मङ्गलान्यर्थसिद्द्यर्थं करिष्यन्ति समाहिताः ॥
४७३. ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।
४७४. गुरूणां च प्रसादेन संप्लव त्वं महार्णवम् ॥
४७५. स्थास्यामश्चैकपादेन यावदागमनं तव ।
४७६. त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् ॥
४७७. ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ।
४७८. आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥
४७९. स वेगवान् वेगसमाहितात्मा
४८०. हरिप्रवीरः परवीरहन्ता ।
४८१. मनः समाधाय महानुभावो
४८२. जगाम लङ्कां मनसा मनस्वी ॥
॥ किष्किन्धाकाण्डम् समाप्तम् ॥