०४ ०४ सीतामार्गणार्थं वानरप्रेषणम्

१. गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
२. वर्षरात्रोषितो रामः कामशोकाभिपीडितः ।
३. पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
४. शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ।
५. कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
६. दृष्ट्वा कालमतीतं च मुमोह परमातुरः ॥
७. स तु सञ्ज्ञां उपागम्य मुहूर्तान्मतिमान् नृपः ।
८. मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥
९. सारसारावसन्नादैः सारसारावनादिनी ।
१०. याश्रमे रमते बाला साद्य मे रमते कथम् ॥
११. पुष्पितान्श्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् ।
१२. कथं सा रमते बाला पश्यन्ती मामपश्यती ॥
१३. या पुरा कलहम्सानां कलेन कलभाषिणी ।
१४. बुद्ध्यते चारुसर्वाङ्गी साद्य मे रमते कथम् ॥
१५. निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ।
१६. पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥
१७. अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ।
१८. सुदूरं पीडयेत् कामः शरद्‍गुणनिरन्तरः ॥
१९. एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
२०. विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥
२१. ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु ।
२२. ददर्श पर्युपावृत्तो लक्ष्मीवान् लक्ष्मणोऽग्रजम् ॥
२३. स चिन्तया दुःसहया परीतम्
२४. विसञ्ज्ञमेकं विजने मनस्वी ।
२५. भ्रातुर्विषादात् त्वरितोऽतिदीनह्
२६. समीक्ष्य सौमित्रिरुवाच दीनम् ॥
२७. किमार्य कामस्य वशं गतेन
२८. किमात्मपौरुष्यपराभवेन ।
२९. अयं सदा संह्रियते समाधिह्
३०. किमत्र योगेन निवर्तितेन ॥
३१. न जानकी मानववंशनाथ
३२. त्वया सनाथा सुलभा परेण ।
३३. न चाग्निचूडां ज्वलितामुपेत्य
३४. न दह्यते वीरवरार्ह कच्चित् ॥
३५. सलक्षणं लक्ष्मणमप्रधृश्यम्
३६. स्वभावजं वाक्यमुवाच रामः ।
३७. हितं च पथ्यं च नयप्रसक्तम्
३८. ससामधर्मात्मसमाहितं च ॥
३९. निःसंशयं कार्यमवेक्षितव्यं
४०. क्रियाविशेषोह्यनुवर्तितव्यः ।
४१. न नु प्रवृत्तस्य दुरासदस्य
४२. कुमार कार्यस्य फलं न चिन्त्यम् ॥
४३. अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् ।
४४. उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥
४५. तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् ।
४६. निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥
४७. नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश ।
४८. विमदा इव मातङ्गा शान्तवेगाः पयोधराः ॥
४९. घनानां वारणानां च मयूराणां च लक्ष्मण ।
५०. नादः प्रस्रवणानां च प्रशान्तः सहसानघ ॥
५१. अभिवृष्टा महामेघैः निर्मलाश्चित्रसानवः ।
५२. अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ॥
५३. दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ।
५४. नवसङ्गमसंव्रीडा जघनानीव योषितः ॥
५५. शाखासु सप्तच्छदपादपानाम्
५६. प्रभासु तारार्कनिशाकराणाम् ।
५७. लीलासु चैवोत्तमवारणानाम्
५८. श्रियं विभज्याद्य शरत् प्रवृत्ता ॥
५९. अभ्यागतैश्चारुविशालपक्षैह्
६०. सरह्प्रियैः पद्मरजोऽवकीर्णैः ।
६१. महानदीनां पुलिनोपयातैह्
६२. क्रीडन्ति हम्साः सह चक्रवाकैः ॥
६३. नभः समीक्ष्याम्बुधरैर्विमुक्तम्
६४. विमुक्तबर्हाभरणा वनेषु ।
६५. प्रियास्वसक्ता विनिवृत्तशोभा
६६. गतोत्सवा ध्यानपरा मयूराः ॥
६७. व्यभ्रं नभः शस्त्रविधौतवर्णम्
६८. कृशप्रवाहानि नदीजलानि ।
६९. कल्हारशीताः पवनाः प्रवान्ति
७०. तमोविमुक्ताश्च दिशः प्रकाशाः ॥
७१. सूर्यातपक्रामणनष्टपङ्का
७२. भूमिः समुत्सादितसान्द्ररेणुः ।
७३. अन्योन्यवैरेण समायुतानाम्
७४. उद्योगकालोऽद्य नराधिपानाम् ॥
७५. त्यक्त्वा वराण्यात्मविभूषणानि
७६. बर्हाणि तीरोपगता नदीनाम् ।
७७. निर्भर्त्स्यमाना इव सारसौघैह्
७८. प्रयान्ति दीना विमदा मयूराः ॥
७९. वित्रास्य कारम्डवचक्रवाकान्
८०. महारवैर्भिन्नकला गजेन्द्राः ।
८१. सरस्सु बद्धाम्बुजभूषणेषु
८२. विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥
८३. व्यपेतपङ्कासु सवालुकासु
८४. प्रसन्नतोयासु सगोकुलासु ।
८५. ससारसारावनिनादितासु
८६. नदीषु हृष्टा निपतन्ति हम्साः ॥
८७. चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
८८. अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥
८९. रात्रिः शशाङ्कोदितसौम्यवक्त्रा
९०. तारागणोन्मीलितचारुनेत्रा ।
९१. ज्योत्स्नाम्शुकप्रावरणा विभाति
९२. नारीव शुक्लाम्शुकसंवृताङ्गी ॥
९३. विपक्वशालिप्रसवानि भुक्त्वा
९४. प्रहर्षिता सारसचारुपङ्क्तिः ।
९५. नभः समाक्रामति शीघ्रवेगा
९६. वातावधूता ग्रथितेव माला ॥
९७. सुप्तैकहम्सं कुमुदैरुपेतम्
९८. महाह्रदस्थं सलिलं विभाति ।
९९. घनैर्विमुक्तं निशि पूर्णचन्द्रम्
१००. तारागणाकीर्णमिवान्तरिक्षम् ॥
१०१. वनप्रचण्डा मधुपानशौण्डाह्
१०२. प्रियान्विता षट्चरणा प्रहृष्टाः ।
१०३. वनेषु मत्ताः पवनानुयात्राम्
१०४. कुर्वन्ति पद्मासनरेणुगौराः ॥
१०५. मीनोपसन्दर्शितमेखलानाम्
१०६. नदीवधूनां गतयोऽद्य मन्दाः ।
१०७. कान्तोपभुक्तालसगामिनीनाम्
१०८. प्रभातकालेष्विव कामिनीनाम् ॥
१०९. सचक्रवाकानि सशैवलानि
११०. काशैर्दुकूलैरिव संवृतानि ।
१११. सपत्रलेखानि सरोचनानि
११२. वधूमुखानीव नदीमुखानि ॥
११३. जलं प्रसन्नं कुमुदं प्रभासम्
११४. क्रौञ्चस्वनः शालिवनं विपक्वम् ।
११५. मृदुश्च वायुः विमलश्च चन्द्रह्
११६. शम्सन्ति वर्षव्यपनीतकालम् ॥

  • १२१. अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।
    १२२. उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥
    १२३. न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥
    १२४. चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।
    १२५. मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ।
    १२६. चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् ।
    १२७. विषमं दण्डकारण्यमुद्यानमिव या गता ॥
    १२८. प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।
    १२९. दयां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥
    १३०. अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।
    १३१. दीनो दूरगृःअः कामी मां चैव शरणं गतः ॥
    १३२. इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ।
    १३३. अहं वानरराजस्य परिभूतः परन्तप ॥
    १३४. स कालं परिसङ्ख्याय सीतायाः परिमार्गणे ।
    १३५. कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्ध्यते ॥
    १३६. स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम् ।
    १३७. मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥
    १३८. अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
    १३९. आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥
    १४०. शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
    १४१. सत्येन परिगृःणाति स वीरः पुरुषोत्तमः ॥
    १४२. कृतार्थाह्यकृतार्थानां मित्राणां न भवन्ति ये ।
    १४३. तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥
    १४४. उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।
    १४५. मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥
    १४६. न च संकुचितः पन्था येन वाली हतो गतः ।
    १४७. समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥
    १४८. एक एव रणे वाली शरेण निहतो मया ।
    १४९. त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥
    १५०. स पूर्वजं तीव्रविवृद्धकोपम्
    १५१. लालप्यमानं प्रसमीक्ष्य दीनम् ।
    १५२. चकार तीव्रां मतिमुग्रतेजा
    १५३. हरीश्वरे मानववंशनाथः ॥
    १५४. मतिक्षयात् ग्राम्यसुखेषु सक्तह्
    १५५. तव प्रसादाप्रतिकारबुद्धिः ।
    १५६. हतोऽग्रजं पश्यतु वीर तस्य
    १५७. न राज्यमेवं विगुणस्य देयम् ॥
    १५८. न धारये कोपमुदीर्णवेगम्
    १५९. निहन्मि सुग्रीवमसत्यमद्य ।
    १६०. हरिप्रवीरैः सह वालिपुत्रो
    १६१. नरेन्द्रपत्न्या विचयं करोतु ॥
    १६२. तमात्तबाणासनमुत्पतन्तम्
    १६३. निवेदितार्थं रणचण्डकोपम् ।
    १६४. उवाच रामः परवीरहन्ता
    १६५. स्ववेक्षितं सानुनयं च वाक्यम् ॥
    १६६. न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
    १६७. पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥
    १६८. सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।
    १६९. वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥
    १७०. सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः ।
    १७१. प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥
    १७२. शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम् ।
    १७३. प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥
    १७४. लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ।
    १७५. सालतालाश्वकर्णान्श्च तरसा पातयन् बलात् ॥
    १७६. पर्यस्यन् गिरिकूटानि द्रुमानन्याम्श्च वेगितः ।
    १७७. कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः ।
    १७८. प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः ॥
    १७९. शिलान्श्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः ।
    १८०. दूरमेकपदं त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥
    १८१. रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः ।
    १८२. ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान् ॥
    १८३. तं ते भयपरीताङ्गाः क्षुब्धं दृष्ट्वा प्लवङ्गमाः ।
    १८४. कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥
    १८५. ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः ।
    १८६. क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥
    १८७. तारया सहितः कामी सक्तः कपिवृषो रहः ।
    १८८. न तेषां कपिसिंहानां शुश्राव वचनं तदा ॥
    १८९. बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ।
    १९०. स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ।
    १९१. सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ।
    १९२. बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ॥
    १९३. तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ।
    १९४. समासाद्याङ्गदस्त्रासात् विषादमगमत् भृशम् ॥
    १९५. सोऽङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः ।
    १९६. सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥
    १९७. एष रामानुजः प्राप्तः त्वत्सकाशमरिन्दम ।
    १९८. भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः ॥
    १९९. तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर ।
    २००. इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ॥
    २०१. लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।
    २०२. पितुः समीपमागम्य सौमित्रिरयमागतः ॥
    २०३. स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान् ।
    २०४. बभूव मदमत्तश्च मदनेन च मोहितः ॥
    २०५. अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।
    २०६. प्लक्षश्चैव प्रभावश्च मन्त्रिणौ अर्थधर्मयोः ।
    २०७. वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ प्रशम्सतुः ॥
    २०८. सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।
    २०९. मनुष्यभावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ ॥
    २१०. तयोरेको धनुष्पाणिः लक्ष्मणो वाक्यसारथिः ।
    २११. व्यवसायरथः प्राप्तः तस्य रामस्य शासनात् ॥
    २१२. अयं च तनयो राजन् ताराया दयितोऽङ्गदः ।
    २१३. लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ ॥
    २१४. सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ।
    २१५. गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम् ॥
    २१६. यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ।
    २१७. राजन् तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥
    २१८. लक्ष्मणं कुपितं श्रुत्वा सुग्रीवः सचिवैः सह ।
    २१९. मन्त्रज्ञो मन्त्रकुशलैः मुमोचासनमात्मवान् ॥
    २२०. स च तानब्रवीत् वाक्यं निश्चित्य गुरुलाघवम् ।
    २२१. न मे दुर्व्याहृतं किञ्चित् नापि मे दुरनुष्ठितम् ॥
    २२२. लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥
    २२३. असुहृद्भिः ममामित्रैः नित्यमन्तरदर्शिभिः ।
    २२४. मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥
    २२५. मित्रं त्वस्थानकुपितं जनयत्येव सम्भ्रमम् ।
    २२६. सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् ॥
    २२७. अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥
    २२८. अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना ।
    २२९. यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥
    २३०. सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुङ्गवः ।
    २३१. उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥
    २३२. सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर ।
    २३३. न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम् ॥
    २३४. राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।
    २३५. त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥
    २३६. सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः ।
    २३७. भ्रातरं संप्रहितवान् लक्ष्मणं लक्ष्मिवर्धनम् ॥
    २३८. त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।
    २३९. फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरत् शुभा ॥
    २४०. प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ।
    २४१. कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् ।
    २४२. अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥
    २४३. नियुक्तैः मन्त्रिभिः वाच्यो ह्यवश्यं पार्थिवो हितम् ।
    २४४. इत एव भयं त्यक्त्वा ब्रवीम्यवभृतं वचः ॥
    २४५. अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ।
    २४६. सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥
    २४७. तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ।
    २४८. राजन् तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥
    २४९. अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ।
    २५०. हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ।
    २५१. दिव्यमालावृतं शुभ्रं तप्तकाञ्चनतोरणम् ।
    २५२. सुग्रीवस्य गृःअं रम्यं प्रविवेश महाबलः ॥
    २५३. अवार्यमाणः सौमित्रिः महाभ्रमिव भास्करः ।
    २५४. स सप्तकक्ष्या धर्मात्मा नानाजनसमाकुलाः ।
    २५५. प्रविश्य सुमहद्‍गुप्तं ददर्शान्तह्पुरं महत् ॥
    २५६. बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।
    २५७. स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥
    २५८. कूजितं नूपुराणां च काञ्चीनां निस्वनं तथा ।
    २५९. स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत् ॥
    २६०. रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् ।
    २६१. चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥
    २६२. चारित्रेण महाबाहुः अपकृष्टः स लक्ष्मणः ।
    २६३. तस्थौ एकान्तमाश्रित्य रामकोपसमन्वितः ॥
    २६४. तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः ।
    २६५. विज्ञायागमनं त्रस्तः स चचाल वरासनात् ॥
    २६६. अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः ।
    २६७. बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥
    २६८. ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् ।
    २६९. उवाच हितमव्यग्रः त्राससम्भ्रान्तमानसः ॥
    २७०. किं नु रुट्‍कारणं सुभ्रु प्रकृत्या मृदुमानसः ।
    २७१. स रोष इव संप्राप्तो येनायं राघवानुजः ॥
    २७२. न खल्वकारणे कोपमाहरेन्नरपुङ्गवः ॥
    २७३. यद्यस्य कृतमस्माभिः बुध्यसे किञ्चिदप्रियम् ।
    २७४. तद्‍बुद्ध्या संप्रधार्याशु क्षिप्रमेवाभिधीयताम् ॥
    २७५. अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि ।
    २७६. वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥
    २७७. त्वद्दर्शने विशुद्धात्मा न स कोपं करिष्यति ।
    २७८. न हि स्त्रीषु महात्मानः कच्चित् कुर्वन्ति दारुणम् ॥
    २७९. त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् ।
    २८०. ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥
    २८१. सा प्रस्खलन्ती मदविह्वलाक्षी
    २८२. प्रलम्बकाञ्चीगुणहेमसूत्रा ।
    २८३. सलक्षणा लक्ष्मणसन्निधानम्
    २८४. जगाम तारा नमिताङ्गयष्टिः ॥
    २८५. स तां समीक्ष्यैव हरीशपत्नीम्
    २८६. तस्थौ उदासीनतया महात्मा ।
    २८७. अवाङ्मुखोऽभूत् मनुजेन्द्रपुत्रह्
    २८८. स्त्रीसन्निकर्षात् विनिवृत्तकोपः ॥
    २८९. सा पानयोगाच्च निवृत्तलज्जा
    २९०. दृष्टिप्रसादाच्च नरेन्द्रसूनोः ।
    २९१. उवाच तारा प्रणयप्रगल्भम्
    २९२. वाक्यं महार्थं परिसान्त्वरूपम् ॥
    २९३. किं कोपमूलं मनुजेन्द्रपुत्र
    २९४. कस्ते न तिष्ठति वाङ्‍निदेशे ।
    २९५. कः शुष्कवृक्षं वनमापतन्तम्
    २९६. दावाग्निमासीदति निर्विशङ्कः ॥
    २९७. स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः ।
    २९८. भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ॥
    २९९. किमयं कामवृत्तस्ते लुप्तधर्मार्थसङ्ग्रहः ।
    ३००. भर्ता भर्तृहिते युक्ते न चैनमवबुद्ध्यसे ॥
    ३०१. स मासान्श्चतुरो कृत्वा प्रमाणं प्लवगेश्वरः ।
    ३०२. व्यतीतान्स्तान् मदव्यग्रो विहरन् नावबुद्ध्यते ॥
    ३०३. न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते ।
    ३०४. पानादर्थश्च कामश्च धर्मश्च परिहीयते ॥
    ३०५. धर्मलोपो महान्स्तावत् कृते ह्यप्रतिकुर्वतः ।
    ३०६. अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥
    ३०७. तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् ।
    ३०८. तत्कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि ॥
    ३०९. सा तस्य धर्मार्थसमाधियुक्तम्
    ३१०. निशम्य वाक्यं मधुरस्वभावम् ।
    ३११. तारा गतार्थे मनुजेन्द्रकार्ये
    ३१२. विश्वासयुक्तं तमुवाच भूयः ॥
    ३१३. कोपं कथं नाम गुणप्रकृष्टह्
    ३१४. कुमार कुर्यादपकृष्टसत्त्वे ।
    ३१५. कस्त्वद्विधः कोपवशं हि गच्छेत्
    ३१६. सत्त्वावरुद्धः तपसः प्रसूतिः ॥
    ३१७. जानामि रोषं हरिवीरबन्धोह्
    ३१८. जानामि कार्यस्य च कालसङ्गम् ।
    ३१९. जानामि कार्यं त्वयि यत्कृतं नह्
    ३२०. तच्चापि जानामि यदत्रकार्यम् ॥
    ३२१. महर्षयो धर्मतपोऽभिरामाह्
    ३२२. कामानुकामाः प्रतिबद्धमोहाः ।
    ३२३. अयं प्रकृत्या चपलः कपिस्तु
    ३२४. कथं न सज्जेत सुखेषु राजा ॥
    ३२५. न देशकालौ हि यथार्थधर्मौ
    ३२६. अवेक्षते कामरतिर्मनुष्यः ।
    ३२७. क्षमस्व तावत् परवीरहन्तह्
    ३२८. त्वद्भ्रातरं वानरवंशनाथम् ॥
    ३२९. उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम ।
    ३३०. कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥
    ३३१. आगता हि महावीर्याः हरयो कामरूपिणः ।
    ३३२. कोटीः शतसहस्राणि नानानगनिवासिनः ॥
    ३३३. तदागच्छ महाबाहो चारित्रं रक्षितं त्वया ।
    ३३४. अच्छलं मित्रभावेन सतां दारावलोकनम् ॥
    ३३५. तारया चाभ्यनुज्ञातः त्वरया चापि चोदितः ।
    ३३६. प्रविवेश महाबाहुः अभ्यन्तरमरिन्दमः ॥
    ३३७. ततः सुग्रीवमासीनं काञ्चने परमासने ।
    ३३८. दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ॥
    ३३९. संरब्धतररक्ताक्षो ददर्शादित्यसन्निभम् ॥
    ३४०. क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।
    ३४१. भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ।
    ३४२. उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ॥
    ३४३. उत्पतन्तमनुत्पेतू रुमाप्रभृतयः स्त्रियः ॥
    ३४४. संरक्तनयनः श्रीमान् सञ्चचार कृताञ्जलिः ।
    ३४५. बभूवावस्थितो ह्यत्र कल्पवृक्षो महानिव ॥
    ३४६. रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
    ३४७. अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥
    ३४८. सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ।
    ३४९. कृतज्ञः सत्यवादी च राजा लोके महीयते ॥
    ३५०. यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।
    ३५१. मिथ्याप्रतिज्ञां कुरुते को नृशम्सतरस्ततः ॥
    ३५२. गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।
    ३५३. निष्कृतिः विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥
    ३५४. ननु नाम कृतार्थेन त्वया रामस्य वानर ।
    ३५५. सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥
    ३५६. स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
    ३५७. न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥
    ३५८. न स सङ्कुचितः पन्था येन वाली हतो गतः ।
    ३५९. समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥
    ३६०. तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
    ३६१. अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥
    ३६२. नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
    ३६३. हरीणामीश्वरः श्रोतुं तव वक्त्रात् विशेषतः ॥
    ३६४. नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।
    ३६५. नैवानृतकथो वीर न जिःमश्च कपीश्वरः ॥
    ३६६. उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
    ३६७. रामेण वीर सुग्रीवो यदन्यैः दुष्करं रणे ॥
    ३६८. रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् ।
    ३६९. प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥
    ३७०. सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
    ३७१. प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥
    ३७२. सत्त्वयुक्ता हि पुरुषाः त्वद्विधा पुरुषर्षभ ।
    ३७३. अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥
    ३७४. प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता ।
    ३७५. महान् रोषः समुत्पन्नः संरम्भः त्यज्यतामयम् ॥
    ३७६. रुमां मां चाङ्गदं राज्यं धनधान्यावसूनि च ।
    ३७७. रामप्रियार्थं सुग्रीवः त्यजेदिति मतिर्मम ॥
    ३७८. समानेष्यति सुग्रीवः सीतया सह राघवम् ।
    ३७९. शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम् ॥
    ३८०. शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।
    ३८१. न शक्यो रावणो हन्तुमहत्वा तान्श्च राक्षसान् ॥
    ३८२. त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः ।
    ३८३. आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान् ॥
    ३८४. ताम्श्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् ।
    ३८५. राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥
    ३८६. अद्य तैः वानरैः सर्वैः आगन्तव्यं महाबलैः ।
    ३८७. ऋक्षकोटिसहस्राणि गोलाङ्‍गूलशतानि च ॥
    ३८८. अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ॥
    ३८९. इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
    ३९०. मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥
    ३९१. तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
    ३९२. लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥
    ३९३. ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
    ३९४. चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः ॥
    ३९५. सलक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
    ३९६. अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥
    ३९७. प्रणष्टा श्रीश्च सौमित्रे कपिराज्यं च शाश्वतम् ।
    ३९८. रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया ॥
    ३९९. कः शक्तः तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
    ४००. तादृशं प्रतिकुर्वीत अम्शेनापि नृपात्मज ॥
    ४०१. सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
    ४०२. सहायमात्रेण च मया राघवः स्वेन तेजसा ॥
    ४०३. सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।
    ४०४. गिरिश्च वसुधा चैव बाणेनैकेन दारिताः ॥
    ४०५. धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।
    ४०६. सशैला कम्पिता भूमिः सहायैः किन्नु तस्य वै ॥
    ४०७. अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ ।
    ४०८. गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥
    ४०९. यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा ।
    ४१०. प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥
    ४११. इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
    ४१२. अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह ॥
    ४१३. सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।
    ४१४. त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥
    ४१५. यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम् ।
    ४१६. अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमम् ॥
    ४१७. सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।
    ४१८. वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥
    ४१९. धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः ।
    ४२०. उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥
    ४२१. दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ।
    ४२२. वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥
    ४२३. सदृशश्चासि रामेण विक्रमेण बलेन च ।
    ४२४. सहायो देवतैर्दत्तः चिराय हरिपुङ्गव ॥
    ४२५. किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह ।
    ४२६. सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ॥
    ४२७. यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
    ४२८. मया त्वं परुषाण्युक्तः तत् क्षमस्व सखे मम ॥
    ४२९. तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।
    ४३०. सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥
    ४३१. एवं भवतु गच्छाम स्थेयं त्वच्छासने मया ।
    ४३२. एहीत्युच्चैः हरिवरान् सुग्रीवः समुदाहरत् ॥
    ४३३. तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ।
    ४३४. समुपस्थापयामासुः शिबिकां शुभदर्शनाम् ॥
    ४३५. तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।
    ४३६. बहुभिः हरिभिः युक्तामारुरोह सलक्ष्मणः ॥
    ४३७. शङ्खभेरीनिनादैश्च वन्दिभिश्चाभिनन्दितः ।
    ४३८. परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥
    ४३९. आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ।
    ४४०. कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवन्स्तथा ॥
    ४४१. तटाकमिव तं दृष्ट्वा रामः कुट्मलपङ्कजम् ।
    ४४२. वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥
    ४४३. पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।
    ४४४. प्रेंणा च बहुमानाच्च राघवः परिषस्वजे ॥
    ४४५. परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ।
    ४४६. निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् वचः ॥
    ४४७. धर्ममर्थं च कामं च काले यस्तु निषेवते ।
    ४४८. विभज्य सततं वीर स राजा हरिसत्तम ॥
    ४४९. हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ।
    ४५०. स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुद्ध्यते ॥
    ४५१. अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ।
    ४५२. त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते ॥
    ४५३. उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ।
    ४५४. सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥
    ४५५. एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ।
    ४५६. प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
    ४५७. त्वत्प्रसादात् महाबाहो पुनः प्राप्तमिदं मया ॥
    ४५८. कृतं न प्रतिकुर्याद् यः पुरुषाणां स दूषकः ॥
    ४५९. एते वानरमुख्याश्च शतशः शत्रुसूदन ।
    ४६०. प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥
    ४६१. ऋक्षाश्च वानराः शूराः गोलाङ्‍गूलाश्च राघव ।
    ४६२. कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ।
    ४६३. देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।
    ४६४. स्वैः स्वैः परिवृता सैन्यैः वर्तन्ते पथि राघव ॥
    ४६५. मेघपर्वतसङ्काशा मेरुविन्ध्यकृतालयाः ।
    ४६६. ते त्वामभिगमिष्यन्ति राक्षसं योद्‍धुमाहवे ॥
    ४६७. निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम् ॥
    ४६८. इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।
    ४६९. बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥
    ४७०. यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति ।
    ४७१. आदित्योऽसौ सहस्राम्शुः कुर्यात् वितिमरं नभः ॥
    ४७२. चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम् ।
    ४७३. त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परन्तप ॥
    ४७४. त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् ।
    ४७५. न चिरात् तं वधिष्यामि रावणं निशितैः शरैः ॥
    ४७६. एतस्मिन्नन्तरे चैव रजः समभिवर्धत ।
    ४७७. उष्णतीक्ष्णां सहस्राम्शोः छादयन् गगने प्रभाम् ॥
    ४७८. दिशः पर्याकुलाश्चासन् तमसा तेन दूषितः ।
    ४७९. चचाल च मही सर्वा सशैलवनकानना ॥
    ४८०. ततो नगेन्द्रसङ्काशैः तीक्ष्णदंष्‍ट्रैः महाबलैः ।
    ४८१. कोटीशतपरीवारैः वानरैः हरियूथपैः ।
    ४८२. नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः ।
    ४८३. हरिभिः मेघनिर्ह्रादैः अन्यैश्च वनवासिभिः ।
    ४८४. तरुणादित्यवर्णैश्च श्वेतैः हेमकृतालयैः ।
    ४८५. कृत्स्ना सम्छादिता भूमिः असङ्ख्येयैः प्लवङ्गमैः ॥
    ४८६. ततः काञ्चनशैलाभः ताराया वीर्यवान् पिता ।
    ४८७. अनेकैः बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥
    ४८८. तथापरेण कोटीनां सहस्रेण समन्वितः ।
    ४८९. पिता रुमायाः संप्राप्तः सुग्रीवश्वशुरो विभुः ॥
    ४९०. अनेकैः बहुसाहस्रैः वानराणां समन्वितः ।
    ४९१. पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥
    ४९२. नीलाञ्जनचयाकारो नीलो नामैष यूथपः ।
    ४९३. अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥
    ४९४. ऋक्षराजो महातेजा जाम्बवान् नाम नामतः ।
    ४९५. कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः ॥
    ४९६. नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।
    ४९७. कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥
    ४९८. एते चान्ये च बहवो वानराः कामरूपिणः ।
    ४९९. आवृत्य पृथिवीं सर्वां पर्वताम्श्च वनानि च ।
    ५००. यूथपाः समनुप्राप्ताः येषां सङ्ख्या न विद्यते ॥
    ५०१. आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
    ५०२. अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥
    ५०३. कुर्वाणा बहुशब्दान्श्च प्रकृष्टा बाहुशालिनः ।
    ५०४. शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥
    ५०५. सुग्रीवस्त्वरितो रामे सर्वान्स्तान् वानरर्षभान् ।
    ५०६. निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥
    ५०७. पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ।
    ५०८. ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ॥
    ५०९. पृथिव्यम्बुचरा राम नानानगनिवासिनः ।
    ५१०. कोट्यौघाश्च इमे प्राप्ता वानरास्तव किङ्कराः ॥
    ५११. निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः ।
    ५१२. अभिप्रेतुमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥
    ५१३. यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ।
    ५१४. त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥
    ५१५. काममेषामिदं कार्यं विदितं मम तत्त्वतः ।
    ५१६. तथापि तु यथायुक्तमाज्ञापयितुमर्हसि ॥
    ५१७. तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ।
    ५१८. बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥
    ५१९. ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा ।
    ५२०. स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥
    ५२१. अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
    ५२२. प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥
    ५२३. नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः ।
    ५२४. त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥
    ५२५. त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ।
    ५२६. त्वं हि जानासि मे कार्यं मम वीर न संशयः ॥
    ५२७. एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ।
    ५२८. अब्रवीत् रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥
    ५२९. वृतः शतसहस्रेण वानराणां तरस्विनाम् ।
    ५३०. अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥
    ५३१. तत्र सीतां च वैदेहीं निलयं रावणस्य च ।
    ५३२. मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ॥
    ५३३. नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
    ५३४. कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥
    ५३५. सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।
    ५३६. ब्रःममूलान् विदेहाम्श्च मालवान् काशिकोसलान् ॥
    ५३७. मागधाम्श्च महाग्रामान् पुण्ड्राम्स्त्वङ्गाम्स्तथैव च ।
    ५३८. सर्वं च तद् विचेतव्यं मार्गयद्भिः ततस्ततः ॥
    ५३९. ये च नोक्ता मयोद्देशा विचेया तेषु जानकी ।
    ५४०. एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
    ५४१. अभास्करममर्यादं न जानीमः ततः परम् ॥
    ५४२. अभिगम्य तु वैदेहीं निलयं रावणस्य च ।
    ५४३. मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥
    ५४४. ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
    ५४५. सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥
    ५४६. ततः प्रस्थाप्य सुग्रीवः तन्महद्वानरं बलम् ।
    ५४७. दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥
    ५४८. नीलमग्निसुतं चैव हनूमन्तं च वानरम् ।
    ५४९. पितामहसुतं चैव जाम्बवन्तं महौजसम् ।
    ५५०. मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम् ।
    ५५१. अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ।
    ५५२. वेगविक्रमसंपन्नान् सन्दिदेश विशेषवित् ॥
    ५५३. ये केचन समुद्देशाः तस्यां दिशि सुदुर्गमाः ।
    ५५४. कपीशः कपिमुख्यानां स तेषां समुदाहरत् ॥
    ५५५. सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।
    ५५६. नर्मदां च नदीं रम्यां महोरगनिषेविताम् ।
    ५५७. ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।
    ५५८. वरदां च महाभागां महोरगनिषेविताम् ।
    ५५९. मेखलां उत्कलान्श्चैव दशार्णनगराण्यपि ।
    ५६०. आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत ॥
    ५६१. विदर्भान् ऋषिकान्श्चैव रम्यान् माहिषकानपि ।
    ५६२. तथा वङ्गान् कलिङ्गान्श्च कौशिकान्श्च समन्ततः ।
    ५६३. अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहाम् ।
    ५६४. नदीं गोदावरीं चैव सर्वमेवानुपश्यत ।
    ५६५. तथैवान्ध्रान्श्च पुण्ड्रान्श्च चोलान् पान्ड्यान्श्च केरलान् ॥
    ५६६. अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ।
    ५६७. सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥
    ५६८. ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम् ।
    ५६९. तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ॥
    ५७०. तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।
    ५७१. द्रक्ष्यथादित्यसङ्काशमगस्त्यं ऋषिसत्तमम् ॥
    ५७२. ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
    ५७३. ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥
    ५७४. सा चन्दनवनैः चित्रैः प्रच्छन्नद्वीपवारिणी ।
    ५७५. कान्तेव युवती कान्तं समुद्रमवगाहते ॥
    ५७६. ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
    ५७७. युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥
    ५७८. अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ।
    ५७९. चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥
    ५८०. जातरूपमयो श्रीमानवगाढो महार्णवम् ।
    ५८१. द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः ॥
    ५८२. अगम्यो मानुषैर्दीप्तः तं मार्गध्वं समन्ततः ॥
    ५८३. तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥
    ५८४. स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।
    ५८५. राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥
    ५८६. एतावदेव युष्माभिः वीरा वानरपुङ्गवाः ।
    ५८७. शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥
    ५८८. सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते ।
    ५८९. गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥
    ५९०. यश्च मासान्निवर्तोऽग्रे दृष्ट्वा सीतेति वक्ष्यति ।
    ५९१. मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥
    ५९२. कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥
    ५९३. अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम् ।
    ५९४. तारायाः पितरं राजा सुषेणं नाम वानरम् ।
    ५९५. महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।
    ५९६. मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान् ।
    ५९७. ऋषिपुत्रान्श्च तान् सर्वान् प्रतीचीमादिशत् दिशम् ॥
    ५९८. अब्रवीत् प्राञ्जलिर्वाक्यं श्वशुरं भीमविक्रमम् ।
    ५९९. द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ।
    ६००. सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ ॥
    ६०१. सौराष्‍ट्रान् सहबाह्लीकान् चन्द्रचित्रान्स्तथैव च ।
    ६०२. स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि च ।
    ६०३. प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः ।
    ६०४. तथा केतकखण्डान्श्च मार्गध्वं हरिपुङ्गवाः ॥
    ६०५. तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः ।
    ६०६. ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ ॥
    ६०७. मुरवीपत्तनं चैव रम्यं चैव जटापुरम् ।
    ६०८. अवन्तीं अङ्गलेपाञ्च तथा चालक्षितं वनम् ॥
    ६०९. सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः ।
    ६१०. महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥
    ६११. योजनानि चतुःषष्टिः वराहो नाम पर्वतः ।
    ६१२. सुवर्णशृङ्गः सुमहान् सागरे वरुणालये ॥
    ६१३. तत्र प्राग्जोतिषं नाम जातरूपमयं पुरम् ।
    ६१४. यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥
    ६१५. एतावज्जीवलोकस्य भास्करो रजनीक्षये ।
    ६१६. कृत्वा वितिमरं सर्वमस्तं गच्छति पर्वतम् ॥
    ६१७. एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
    ६१८. अवगम्य तु वैदेहीं निलयं रावणस्य च ।
    ६१९. अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥
    ६२०. ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
    ६२१. सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥
    ६२२. श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।
    ६२३. अतोऽन्यदपि यत् कार्यं कार्यस्यास्य प्रियं भवेत् ।
    ६२४. संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥
    ६२५. ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।
    ६२६. वाक्यमात्महितं चैव रामस्य च हितं तदा ।
    ६२७. उवाच राजा सर्वज्ञः वीरं शतबलिं कपिम् ॥
    ६२८. वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।
    ६२९. वैवस्वतसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥
    ६३०. दिशं ह्युदीचीं विक्रान्तां हिमशैलावतम्सकाम् ।
    ६३१. सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥
    ६३२. कृतं हि प्रियमस्माकं राघवेण महात्मना ।
    ६३३. तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥
    ६३४. अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
    ६३५. तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥
    ६३६. इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च ।
    ६३७. भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा ॥
    ६३८. तत्र म्लेच्छान् पुलिन्दान्श्च कुरून्श्च सहमद्रकैः ।
    ६३९. काम्बोजयवनान्श्चैव शकानां पत्तनानि च ।
    ६४०. चीनान् परमचीनान्श्च नीहारान्श्च पुनः पुनः ।
    ६४१. अन्वीक्ष्य दरदान्श्चैव हिमवन्तं विचिन्वथ ॥
    ६४२. तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
    ६४३. सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥
    ६४४. वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मशाः ।
    ६४५. प्रष्टव्या चापि सीताया प्रवृत्तिः विनयान्वितैः ॥
    ६४६. एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
    ६४७. सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् ।
    ६४८. यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥
    ६४९. विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् ।
    ६५०. स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥
    ६५१. न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।
    ६५२. नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥
    ६५३. गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।
    ६५४. पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥
    ६५५. त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ।
    ६५६. देशकालानुवृत्तिश्च नयश्च नयपण्डित ।
    ६५७. तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय ॥
    ६५८. ततः कार्यसमासङ्गमुपगम्य हनूमति ।
    ६५९. विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥
    ६६०. सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ।
    ६६१. निश्चितार्थतरश्चापि हनुमान् कार्यसाधने ॥
    ६६२. तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।
    ६६३. भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥
    ६६४. तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।
    ६६५. कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः ।
    ६६६. ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।
    ६६७. अङ्‍गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥
    ६६८. अनेन त्वां हरिश्रेष्ठ चिःनेन जनकात्मजा ।
    ६६९. मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥
    ६७०. व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।
    ६७१. सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥
    ६७२. स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः ।
    ६७३. वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥