०३ ०३ सुग्रीवपट्टाभिषेकः

१. इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ।
२. तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥
३. रणे दारुणविक्रान्त प्रवीर प्लवतां वर ।
४. किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे ॥
५. अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
६. गतासुरपि तां गात्रैः मां विहाय निषेवसे ॥
७. हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि ।
८. यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा ॥
९. विशुद्ध सत्त्वाभिजन प्रिययुद्ध मम प्रिय ।
१०. मामनाथां विहायैकां गतस्त्वमसि मानद ॥
११. शूराय न प्रदातव्या कन्या खलु विपश्चिता ।
१२. शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥
१३. पतिहीना तु या नारी कामं भवतु पुत्रिणी ।
१४. धनधान्यसमृद्धापि विधवेत्युच्यते जनैः ॥
१५. निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता ।
१६. यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥
१७. समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व मे ।
१८. मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितोऽह्यसि ॥
१९. रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ।
२०. उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥
२१. बालसूर्योज्वलतनुं प्रयान्तं यमसादनम् ।
२२. अभिवादय राजानं पितरं पुत्र मानदम् ॥
२३. एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।
२४. भुजाभ्यां पीनवृत्ताभ्यां अङ्गदोऽहमिति ब्रुवन् ॥
२५. अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ।
२६. दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥
२७. इष्ट्वा सम्ग्रामयज्ञेन रामप्रहरणाम्भसा ।
२८. तस्मिन्नवभृते स्नातः कथं पत्न्या मया विना ॥
२९. राज्यश्रीर्न जहाति त्वां गतासुमपि मानद ।
३०. सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥
३१. यद्यप्रियं किञ्चिदसंप्रधार्य
३२. मया कृता स्यात् तव दीर्घबाहो ।
३३. क्षमस्व मे तत् हरिवंशनाथ
३४. व्रजामि मूर्ध्ना तव वीर पादौ ॥
३५. तथा तु तारा करुणं रुदन्ती
३६. भर्तुः समीपे सह वानरीभिः ।
३७. व्यवस्यत प्रायमनिन्द्यवर्णा
३८. उपोपविष्टुं भुवि यत्र वाली ॥
३९. ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।
४०. शनैराश्वासयामास हनुमान् हरियूथपः ॥
४१. गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् ।
४२. अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥
४३. शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे ।
४४. कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥
४५. अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
४६. आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥
४७. सन्ततिश्च यथा दृष्ट्वा कृत्यं यच्चापि साम्प्रतम् ।
४८. राज्ञः तत् क्रियतां सर्वमेष कालस्य निश्चयः ॥
४९. संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् ।
५०. सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥
५१. सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
५२. अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥
५३. अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् ।
५४. हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥
५५. न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा ।
५६. पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥
५७. तामाशुवेगेन दुरासदेन
५८. त्वभिप्लुतां शोकमहार्णवेन ।
५९. पश्यन्स्तदा वाल्यनुजस्तरस्वी
६०. भ्रातुर्वधेनाप्रतिमेन तेपे ॥
६१. स बाष्पपूर्णेन मुखेन पश्यन्
६२. क्षणेन निर्विण्नमना मनस्वी ।
६३. यशस्विनं लक्षणलक्षिताङ्गम्
६४. उपस्थितं राघवमित्युवाच ॥
६५. यथा प्रतिज्ञातमिदं नरेन्द्र
६६. कृतं त्वया दृष्टफलं च कर्म ।
६७. ममाद्य भोगेषु नरेन्द्रसूनो
६८. मनो निवृत्तं हतजीवितेन ॥
६९. अस्यां महिष्यां तु भृशं रुदत्याम्
७०. पुरेऽतिविक्रोशति दुःखतप्ते ।
७१. हते नृपे संशयितेऽङ्गदे च
७२. न राम राज्ये रमते मनो मे ॥
७३. क्रोधाद्विमर्शात् अतिविप्रधर्षात्
७४. भ्रातुर्वधो मेऽनुमतः पुरस्तात् ।
७५. हते त्विदानीं हरियूथपेऽस्मिन्
७६. सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये ॥
७७. श्रेयोऽद्य मन्ये मम शैलमुख्ये
७८. तस्मिन्श्च वासः चिरमृष्यमूके ।
७९. यथा तथा वर्तयतः स्ववृत्त्या
८०. नेमं निहत्य त्रिदिवस्य लाभः ॥
८१. न त्वा जिघासामि चरेति यन्माम्
८२. अयं महात्मा मतिमानुवाच ।
८३. तस्यैव तद् राम वचोऽनुरूपम्
८४. इदं वचः कर्म च मेऽनुरूपम् ॥
८५. भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ।
८६. मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥
८७. अचिन्तनीयं परिवर्जनीयम्
८८. अनीप्सनीयं स्वनवेक्षणीयम् ।
८९. प्राप्तोऽस्मि पाप्मानमिदं वयस्य
९०. भ्रातुर्वधात् त्वाष्‍ट्रवधादिवेन्द्रः ॥
९२. पाप्मानमिन्द्रस्य मही जलं च
९३. वृक्षाश्च कामं जगृःउः स्त्रियश्च ।
९४. को नाम पाप्मानमिहं सहेत
९५. शाखामृगस्य प्रतिपत्तुमिच्छेत् ॥
९६. सोदर्यघातापरगात्रबालह्
९७. सन्तापहस्ताक्षिशिरोविषाणः ।
९८. एनोमयो मामभिहन्ति हस्ती
९९. दृप्तो नदीकूलमिव प्रवृद्धः ॥
१००. अग्नौ विवर्णं परितप्यमानम्
१०१. किट्टं यथा राघव जातरूपम् ।
१०२. अंहो बतेदं नृवराविषह्यम्
१०३. निवर्तते मे हृदि साधुवृत्तम् ॥
१०४. महाबलानां हरियूथपानाम्
१०५. इदं कुलं राघव मन्निमित्तम् ।
१०६. अस्याङ्गदस्यापि च शोकतापात्
१०७. अर्धस्थितप्राणमितीव मन्ये ॥
१०८. अथाङ्गदो वीरवरो न जीवेत्
१०९. जीवेत माता परिपालनार्थम् ।
११०. विना तु पुत्रं परितापदीना
१११. सा नैव जीवेदिति निश्चितं मे ॥
११२. सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निम्
११३. भ्रात्रा च पुत्रेण च सख्यमिच्छन् ।
११४. इमे विचेष्यन्ति हरिप्रवीराह्
११५. सीतां निदेशे परिवर्तमाना ॥
११६. इत्येवमार्तस्य रघुप्रवीरह्
११७. श्रुत्वा वचो वालिजघन्यजस्य ।
११८. सञ्जातबाष्पः परवीरहन्ता
११९. रामो मुहूर्तं विमना बभूव ॥
१२०. तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणह्
१२१. क्षितिक्षमावान् भुवनस्य गोप्ता ।
१२२. रामो रुदन्तीं व्यसने निमग्नाम्
१२३. समुत्सुकः सोऽथ ददर्श ताराम् ॥
१२४. तां चारुनेत्रां कपिसिंहनाथाम्
१२५. पतिं समाश्लिश्य तदा शयानाम् ।
१२६. उत्थापयामासुरदीनसत्त्वाम्
१२७. मन्त्रिप्रधानाः कपिराजपत्नीम् ॥
१२८. सा विस्फुरन्ती परिरभ्यमाणा
१२९. भर्तुः समीपादपनीयमाना ।
१३०. ददर्श रामं शरचापपाणिम्
१३१. स्वतेजसा सूर्यमिव ज्वलन्तम् ॥
१३२. सुसंवृतं पार्थिवलक्षणैश्च
१३३. तं चारुनेत्रं मृगशावनेत्रा ।
१३४. अदृष्टपूर्वं पुरुषप्रधानम्
१३५. अयं स काकुत्स्थ इति प्रजज्ञे ॥
१३६. तस्येन्द्रकल्पस्य दुरासदस्य
१३७. महानुभावस्य समीपमार्या ।
१३८. आर्तातितूर्णं व्यसनं प्रपन्ना
१३९. जगाम तारा परिविह्वलन्ती ॥
१४०. तं सा समासाद्य विशुद्धसत्त्वम्
१४१. शोकेन सम्भ्रान्तशरीरभावा ।
१४२. मनस्विनी वाक्यमुवाच तारा
१४३. रामं रणोत्कर्षणलब्धलक्ष्यम् ॥
१४४. त्वमप्रमेयश्च दुरासदश्च
१४५. जितेन्द्रियश्चोत्तमधार्मिकश्च ।
१४६. अक्षय्यकीर्तिश्च विचक्षणश्च
१४७. क्षितिक्षमावान् क्षतजोपमाक्षः ॥
१४८. त्वमात्तबाणासनबाणपाणिह्
१४९. महाबलः संहननोपपन्नः ।
१५०. मनुष्यदेहाभ्युदयं विहाय
१५१. दिव्येन देहाभ्युदयेन युक्तः ॥
१५२. येनैव बाणेन हतः प्रियो मे
१५३. तेनैव बाणेन हि मां जहीहि ।
१५४. हता गमिष्यामि समीपमस्य
१५५. न मां विना वीर रमेत वाली ॥
१५६. स्वर्गेऽपि शोकं च विवर्णतां च
१५७. मया विना प्राप्स्यति वीर वाली ।
१५८. रम्ये नगेन्द्रस्य तटावकाशे
१५९. विदेहकन्यारहितो यथा त्वम् ॥
१६०. तत् त्वं प्रजानन् जहि मां न वाली
१६१. दुःखं ममादर्शनजं भजेत ।
१६२. आत्मेयमस्येति च मां जहि त्वम्
१६३. न स्त्रीवधः स्यान्मनुजेन्द्र पुत्र ॥
१६४. दारप्रदानाद् हि न दानमन्यत्
१६५. प्रदृश्यते ज्ञानवतां हि लोके ।
१६६. आर्तामनाथां अपनीयमानाम्
१६७. एवं गतां नार्हसि मामहन्तुम् ॥
१६८. इत्येवमुक्तस्तु विभुर्महात्मा
१६९. तारां समाश्वास्य हितं बभाषे ।
१७०. मा वीरभार्ये विमतिं कुरुष्व
१७१. लोको हि सर्वो विहितो विधात्रा ॥
१७२. तं चैव सर्वं सुखदुःखयोगम्
१७३. लोकोऽब्रवीत् तेन कृतं विधात्रा ।
१७४. त्रयोऽपि लोका विहितं विधानम्
१७५. नातिक्रमन्ते वशगा हि तस्य ॥
१७६. प्रीतिं परां प्राप्स्यसि तां तथैव
१७७. न शूरपत्न्यः परिदेवयन्ति ॥
१७८. आश्वासिता तेन महात्मना तु
१७९. प्रभावयुक्तेन परन्तपेन ।
१८०. सा वीरपत्नी ध्वनता मुखेन
१८१. सुवेषरूपा विरराम तारा ॥
१८२. स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः ।
१८३. समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥
१८४. न शोकपरितापेन श्रेयसा युज्यते मृतः ।
१८५. यदत्रानन्तरं कार्यं तत् समाधातुमर्हसि ॥
१८६. लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ।
१८७. न कालादुत्तरं किञ्चित् कर्म शक्यमुपासितुम् ॥
१८८. नियतिः कारणं लोके नियतिः कर्मसाधनम् ।
१८९. नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥
१९०. न कर्ता कस्यचित् कश्चित् नियोगे नापि चेश्वरः ।
१९१. स्वभावे वर्तते लोकः तस्य कालः परायणम् ॥
१९२. न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ।
१९३. न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ।
१९४. धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥
१९५. इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् ।
१९६. सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः ॥
१९७. स्वधर्मस्य च संयोगात् जितस्तेन महात्मना ।
१९८. स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥
१९९. तदलं परितापेन प्राप्तकालमुपास्यताम् ॥
२००. वचनान्ते तु रामस्य लक्ष्मणः परवीरहा ।
२०१. अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ।
२०२. कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥
२०३. समाश्वसय चैनं तमङ्गदं दीनचेतसम् ।
२०४. मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥
२०५. ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ।
२०६. आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥
२०७. सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन् ।
२०८. चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥
२०९. ततोऽग्निं विधिवत् दत्त्वा सोऽपसव्यं चकार ह ॥
२१०. संस्कृत्य वालिनं तं तु विधिवत् प्लवगर्षभाः ।
२११. सुग्रीवतारासहिताः निषिचुर्वानरा जलम् ॥
२१२. ततोऽथ तं वालिनमग्र्यपौरुषम्
२१३. प्रकाशमिक्ष्वाकुवरेषुणा हतम् ।
२१४. प्रदीप्य दीप्ताग्निसमौजसं तदा
२१५. सलक्ष्मणं राममुपेयिवान् हरिः ॥
२१६. ततः काञ्चनशैलाभः तरुणार्कनिभाननः ।
२१७. अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
२१८. अब्रवीत् प्राञ्जलिर्वाक्यं हनुमान् मारुतात्मजः ॥
२१९. भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत् ।
२२०. महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो ॥
२२१. भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।
२२२. संविधास्यति कार्याणि (सुग्रीवह्) ससुहृद्गणः ॥
२२३. स्नातोऽयं विविधैर्गन्धैः औषधैश्च यथाविधि ।
२२४. अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः ॥
२२५. इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि ।
२२६. कुरुष्व स्वामिसम्बन्धं वानरान् संप्रहर्षय ॥
२२७. एवमुक्ते हनुमता राघवः परवीरहा ।
२२८. प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः ॥
२२९. चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् ।
२३०. न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ॥
२३१. सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ।
२३२. प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥
२३३. एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।
२३४. वृत्तज्ञो वृत्तसंपन्नमुदारबलविक्रमम् ॥
२३५. इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय ।
२३६. ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च ।
२३७. अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥
२३८. पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ।
२३९. प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसम्ज्ञिताः ॥
२४०. नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।
२४१. अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥
२४२. इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
२४३. प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥
२४४. कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
२४५. एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥
२४६. अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय ॥
२४७. इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः ।
२४८. प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥
२४९. ततः प्रकृतयः सर्वाः दृष्ट्वा हरिगणेश्वरम् ।
२५०. प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥
२५१. सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ।
२५२. भ्रातुरन्तह्पुरं सौम्यं प्रविवेश महाबलः ॥
२५३. ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।
२५४. प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ।
२५५. शास्त्रदृष्टेन विधिना महर्षिविहितेन च ।
२५६. गजो गवाक्षो गवयो हनूमान् जाम्बवान्स्तथा ।
२५७. अभ्यषिञ्चन्त सुग्रीवं वसवो वासवं यथा ॥
२५८. रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः ।
२५९. अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत् ॥
२६०. अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ।
२६१. साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन् ॥
२६२. रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।
२६३. प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तति ॥
२६४. हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।
२६५. बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥
२६६. अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
२६७. आजगाम सहभ्रात्रा रामः प्रस्रवणं गिरिम् ॥
२६८. तस्य शैलस्य शिखरे महतीमायतां गुहाम् ।
२६९. प्रत्यगृःणीत वासार्थं रामः सौमित्रिणा सह ॥
२७०. कृत्वा च समयं रामः सुग्रीवेण सहानघः ।
२७१. विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ।
२७२. कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥
२७३. इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
२७४. अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिन्दम ॥
२७५. इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता ।
२७६. नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥
२७७. प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ।
२७८. प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।
२७९. गुहायाः पूर्वतः पश्य त्रिकूटे जाःनवीमिव ॥
२८०. पुलिनैरतिरम्यैश्च हम्ससारससेविता ।
२८१. प्रहसन्तीव भात्येषा नानारत्नसमन्विता ॥
२८२. क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित् ।
२८३. क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः ॥
२८४. पश्य चन्दनवृक्षाणां पङ्‍क्तीः सुरचिता इव ।
२८५. ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥
२८६. अहो सुरमणीयोऽयं देशः शत्रुनिषूदन ।
२८७. दृढं रम्स्याव सौमित्रे साध्वत्र निवसावहे ॥
२८८. इतश्च नातिदूरे सा किष्किन्धा चित्रकानना ।
२८९. सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥
२९०. गीतवादित्रनिर्घोषः श्रूयते जयतां वर ।
२९१. नदतां वानराणां च मृदङ्गाडम्बरैः सह ॥
२९२. लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः ।
२९३. ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ॥
२९४. इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः ।
२९५. सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे ॥
२९६. वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।
२९७. हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥
२९८. उदयाभ्युदितं दृष्टवा शशाङ्कं च विशेषतः ।
२९९. आविवेश न तं निद्रा निशासु शयनं गतम् ॥
३००. तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ।
३०१. तुल्यदुःखोऽब्रवीत् भ्राता लक्ष्मणोऽनुनयं वचः ॥
३०२. अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ।
३०३. शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते ॥
३०४. भवान् क्रियापरो लोके भवान् देवपरायणः ।
३०५. आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥
३०६. न ह्यव्यवसितः हन्तुं राक्षसं तं विशेषतः ।
३०७. समर्थस्त्वं रणे हन्तुं विक्रमे जिःमकारिणम् ॥
३०८. समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु ।
३०९. ततः सपरिवारं तं राक्षसं हन्तुमर्हसि ॥
३१०. पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् ।
३११. परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम् ॥
३१२. शरत्कालं प्रतीक्षस्व प्रावृट्‍कालोऽयमागतः ।
३१३. ततः सराष्‍ट्रं सगणं रावणं तं वधिष्यसि ॥
३१४. अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये ।
३१५. दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥
३१६. लक्ष्मणस्य हि तद्वाक्यं प्रतिपूज्य हितं शुभम् ।
३१७. राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥
३१८. वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ।
३१९. सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥
३२०. एष शोकः परित्यक्तः सर्वकार्यावसादकः ।
३२१. विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥
३२२. शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव ।
३२३. सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥
३२४. उपकारेण वीरस्तु प्रतिकारेण युज्यते ।
३२५. अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥
३२६. स तथा वालिनं हत्वा सुग्रीवमभिषिच्य च ।
३२७. वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥
३२८. अयं स कालः संप्राप्तः समयोऽद्य जलागमः ।
३२९. संपश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः ॥
३३०. नवमासधृतं गर्भं भास्करस्य गभस्तिभिः ।
३३१. पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥
३३२. शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ।
३३३. कुटजार्जुनमालाभिः अलङ्कर्तुं दिवाकरम् ॥
३३४. सन्ध्यारागोत्थितैस्ताम्रैः अन्तेष्वपि च पाण्डुभिः ।
३३५. स्निग्धैरभ्रपटच्छेदैः बद्धव्रणमिवाम्बरम् ॥
३३६. एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता ।
३३७. सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति ॥
३३८. मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः ।
३३९. शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥
३४०. एष फुल्लार्जुनः शैलः केतकैरभिवासितः ।
३४१. सुग्रीव इव शान्तारिः धाराभिरभिषिच्यते ॥
३४२. मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ।
३४३. मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥
३४४. कशाभिरिव हैमीभिः विद्युद्भिरभिताडितम् ।
३४५. अन्तस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥
३४६. नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे ।
३४७. स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥
३४८. विद्युत्पताकाः सबलाकमालाह्
३४९. शैलेन्द्रकूटाकृतिसन्निकाशाः ।
३५०. गर्जन्ति मेघा समुदीर्णनादा
३५१. मत्ता गजेन्द्रा इव संयुगस्थाः ॥
३५२. समुद्वहन्तः सलिलातिभारम्
३५३. बलाकिनो वारिधरा नदन्तः ।
३५४. महत्सु शृङ्गेषु महीधराणाम्
३५५. विश्रम्य विश्रम्य पुनः प्रयान्ति ॥
३५६. मेघाभिरामा परिसंपतन्ती
३५७. सम्मोदिता भाति बलाकपङ्क्तिः ।
३५८. वातावधूता वरपौण्डरीकी
३५९. लम्बेव माला रुचिराम्बरस्य ॥
३६०. निद्रा शनैः केशवमभ्युपैति
३६१. द्रुतं नदी सागरमभ्युपैति ।
३६२. हृष्टा बलाका घनमभ्युपैति
३६३. कान्ता सकामा प्रियमभ्युपैति ॥
३६४. अङ्गारचूर्णोत्करसन्निकाशैह्
३६५. फलैः सुपर्याप्तरसैः समृद्धैः ।
३६६. जम्बूद्रुमाणां प्रविभान्ति शाखा
३६७. निपीयमाना इव षट्पदौघैः ॥
३६८. मार्गानुगः शैलवनानुसारी
३६९. संप्रस्थितो मेघरवं निशम्य ।
३७०. युद्धाभिकामः प्रतिनादशङ्की
३७१. मत्तो गजेन्द्रः प्रतिसन्निवृत्तः ॥
३७२. क्वचित् प्रगीता इव षट्पदौघैह्
३७३. क्वचित् प्रनृत्ता इव नीलकण्ठैः ।
३७४. क्वचित् प्रमत्ता इव वारणेन्द्रैह्
३७५. विभान्त्यनेकाश्रयिणो वनान्ताः ॥
३७६. मुक्तासमाभं सलिलं पतद् वै
३७७. सुनिर्मलं पत्रपुटेषु लग्नम् ।
३७८. हृष्टा विवर्णच्छदना विहङ्गाह्
३७९. सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥
३८०. षट्पादतन्त्रीमधुराभिधानम्
३८१. प्लवङ्गमोदीरितकण्ठतालम् ।
३८२. आविष्कृतं मेघमृदङ्गनादैह्
३८३. वनेषु सङ्गीतमिव प्रवृत्तम् ॥
३८४. नद्यः समुद्वाहितचक्रवाकाह्
३८५. तटानि शीर्णान्यपवाहयित्वा ।
३८६. दृप्ता नवप्रावृतपूर्णभोगा
३८७. द्रुतं स्वभर्तारमुपोपयान्ति ॥
३८८. नवाम्बुधाराहतकेसराणि
३८९. द्रुतं परित्यज्य सरोरुहाणि ।
३९०. कदम्बपुष्पाणि सकेसराणि
३९१. नवानि हृष्टाः भ्रमराः पिबन्ति ॥
३९२. मत्ता गजेन्द्रा मुदिता गवेन्द्रा
३९३. वनेषु विश्रान्ततरा मृगेन्द्राः ।
३९४. रम्या नगेन्द्रा निभृता नरेन्द्राह्
३९५. प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥
३९६. सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः ।
३९७. पतन्ति चाकुला दिक्षु तोयधाराः समन्ततः ॥
३९८. विलीयमानैर्विहगैः निमीलद्भिश्च पङ्कजैः ।
३९९. विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥
४००. वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते ।
४०१. वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥
४०२. मासि प्रौष्ठपदे ब्रःम ब्राःमणानां विवक्षताम् ।
४०३. अयमध्यायसमयः सामगानामुपस्थितः ॥
४०४. विवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः ।
४०५. आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥
४०६. नूनमापूर्यमाणायाः सरय्वा वर्धते रयः ।
४०७. मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥
४०८. इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते ।
४०९. विजितारिः सदारश्च राज्ये महति च स्थितः ॥
४१०. अहं तु हृतदारश्च राज्याच्च महतश्च्युतः ।
४११. नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥
४१२. शोकश्च मम विस्तीर्णः वर्षाश्च भृशदुर्गमाः ।
४१३. रावणश्च महान् शत्रुः अपारः प्रतिभाति मे ॥
४१४. अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ।
४१५. आत्मकार्यगरीयस्त्वात् वक्तुं नेच्छामि वानरम् ॥
४१६. स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।
४१७. उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥
४१८. तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ।
४१९. सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥
४२०. समीक्ष्य विमलं व्योम गतविद्युत्बलाहकम् ।
४२१. सारसाकुलसङ्‍घुष्टं रम्यज्योत्स्नानुलेपनम् ।
४२२. प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ।
४२३. स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
४२४. विहरन्तमहो रात्रं कृतार्थं विगतज्वरम् ।
४२५. मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ।
४२६. उच्छिन्नराज्यसन्देहं कामवृत्तमिव स्थितम् ।
४२७. निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ।
४२८. हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ।
४२९. प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
४३०. हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत् ॥
४३१. राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
४३२. मित्राणां सङ्ग्रहः शेषः तद् भवान् कर्तुमर्हति ॥
४३३. यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।
४३४. तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ॥
४३५. यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।
४३६. समान्येतानि सर्वाणि स राज्यं महदश्नुते ॥
४३७. सन्त्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते ।
४३८. सम्भ्रमाद् विकृतोत्साहः सोऽनर्थेनावरुध्यते ॥
४३९. यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते ।
४४०. स कृत्वा महतोऽप्यर्थात् न मित्रार्थेन युज्यते ॥
४४१. तदिदं मित्रकार्यं नः कालातीतमरिन्दम ।
४४२. क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् ॥
४४३. न च कालमतीतं ते निवेदयति कालवित् ।
४४४. त्वरमाणोऽपि स प्राज्ञः तव राजन् वशानुगः ॥
४४५. कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
४४६. अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥
४४७. न हि तावद् भवेत् कालः व्यतीतः चोदनादृते ।
४४८. चोदितस्य हि कार्यस्य भवेद् कालव्यतिक्रमः ॥
४४९. अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ।
४५०. किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च ॥
४५१. कामं खलु शरैः शक्तः सुरासुरमहोरगान् ।
४५२. वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामपेक्षते ॥
४५३. प्राणत्यागाविशङ्केन कृतं तेन महत् प्रियम् ।
४५४. तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥
४५५. तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु ।
४५६. हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥
४५७. तस्य तद्वचनं श्रुत्वा काले साधु निरूपितम् ।
४५८. सुग्रीवः सत्त्वसंपन्नः चकार मतिमुत्तमाम् ॥
४५९. सन्दिदेशातिमतिमान् नीलं नित्यकृतोद्यमम् ।
४६०. दिक्षु सर्वासु सर्वेषां सैन्यानामुपसम्ग्रहे ॥
४६१. यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
४६२. समागच्छन्त्यसङ्गेन तथा सेनाग्रणीः कुरु ॥
४६३. त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः ।
४६४. तस्य प्राणान्तिको दण्डः नात्र कार्या विचारणा ॥
४६५. हरीन्श्च वृद्धानुपयातु साङ्गदो
४६६. भवान् ममाज्ञामधिकृत्य निश्चितम् ।
४६७. इति व्यवस्थां हरिपुङ्गवेश्वरो
४६८. विधाय वेश्म प्रविवेश वीर्यवान् ॥