०२ ०२ वालिवधः

१. वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ॥
२. राज्यं प्रशातस्तस्य पितृपैतामहं महत् ।
३. अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥
४. मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
५. तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा ॥
६. स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः ।
७. नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे ॥
८. प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम् ।
९. श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥
१०. ततोऽहमपि सौहार्दात् निःसृतो वालिना सह ॥
११. स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।
१२. असुरो जातसन्त्रासः धरण्या विवरं महत् ।
१३. प्रविवेश (तदा) वेगात् आवामासाद्य विष्ठितौ ॥
१४. मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः ।
१५. इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः ।
१६. यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ॥
१७. तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।
१८. भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः ॥
१९. अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् ।
२०. सफेनं सुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः ॥
२१. नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।
२२. न रतस्य च सङ्ग्रामे क्रोशतोऽपि स्वनो गुरोः ॥
२३. अहं त्ववगतो बुद्ध्या चिःनैस्तैः भ्रातरं हतम् ।
२४. पिधाय च बिलद्वारं शिलया गिरिमात्रया ।
२५. शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥
२६. गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।
२७. ततोऽहं तैः समागम्य समेतैरभिषेचितः ॥
२८. राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।
२९. आजगाम रिपुं हत्वा दानवं स तु वानरः ॥
३०. मानयम्स्तं महात्मानं यथावच्चाभ्यवादयम् ॥
३१. अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः ।
३२. मदीयान् मन्त्रिणो बद्ध्वा बहु तत्तदुवाच ह ॥
३३. धिक् त्वामिति च मामुक्त्वा वस्त्रेणैकेन वानरः ।
३४. निर्वासयामास तदा वाली विगतसाध्वसः ॥
३५. तेनाहमपविद्धश्च हृतदारश्च राघव ।
३६. तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा ॥
३७. ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः ।
३८. प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥
३९. वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर ।
४०. कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥
४१. एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् ।
४२. वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥
४३. अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।
४४. तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥
४५. यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।
४६. तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः ॥
४७. रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
४८. सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशम्स च ॥
४९. असंशयं प्रज्वलितैः तीक्ष्णैः मर्मातिगैः शरैः ।
५०. त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥
५१. वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या ।
५२. तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥
५३. समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् ।
५४. क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥
५५. अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।
५६. ऊर्ध्वमुत्पात्य तरसा प्रतिगृःणाति वीर्यवान् ॥
५७. महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।
५८. बलं नागसहस्रस्य धारयामास वीर्यवान् ॥
५९. स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः ।
६०. जगाम तां पुरीं तस्य किष्किन्धां वालिनः (कपेह्) ॥
६१. ततस्तद् द्वारमागम्य किष्किन्धाया महाबलः ।
६२. ननर्द कम्पयन् भूमिं दुन्दुभिः दुन्दुभिर्यथा ॥
६३. अन्तह्पुरगतो वाली श्रुत्वा शब्दममर्षणः ।
६४. निष्पपात सह स्त्रीभिः ताराभिरिव चन्द्रमाः ॥
६५. उवाच दुन्दुभिः वाक्यं रोषात् संरक्तलोचनः ।
६६. मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥
६७. अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।
६८. गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥
६९. विसृज्य ताः स्त्रियः सर्वाः ताराप्रभृतिकास्तदा ।
७०. विषाणयोः गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।
७१. आविध्यत तदा वाली विनदन् कपिकुञ्जरः ॥
७२. परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा ।
७३. आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥
७४. व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।
७५. तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥
७६. युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा ।
७७. पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥
७८. तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।
७९. चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥
८०. तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः ।
८१. प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥
८२. तान् दृष्ट्वा पतितान् तस्य मुनिः शोणितविप्रुषः ।
८३. उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥
८४. इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।
८५. वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥
८६. ततः शापभयात् भीतः ऋष्यमूकं महागिरिम् ।
८७. प्रवेष्टुं नेच्छति हरिः द्रष्टुं वापि नरेश्वर ॥
८८. तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ।
८९. विचरामि सहामात्यो विषादेन विवर्जितः ॥
९०. एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते ।
९१. वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥
९२. इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।
९३. यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥
९४. एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।
९५. कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥
९६. उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल ।
९७. त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥
९८. किन्तु तस्य बलज्ञोऽहं दुर्भ्रातुः बलशालिनः ।
९९. अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥
१००. न खल्वहं त्वां तुलये नावमन्ये न भीषये ।
१०१. कर्मभिः तस्य भीमैस्तु कातर्यं जनितं मम ॥
१०२. कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।
१०३. सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥
१०४. तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।
१०५. स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥
१०६. यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर ।
१०७. प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥
१०८. एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ।
१०९. राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।
११०. तोलयित्वा महाबाहुः चिक्षेप दशयोजनम् ॥
१११. असुरस्य तनुं शुष्कं पादाम्गुष्ठेन वीर्यवान् ।
११२. क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ॥
११३. आर्द्रः समाम्सः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।
११४. लघुः संप्रति निर्माम्सः तृणभूतश्च राघव ॥
११५. नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ।
११६. आर्द्रं शुष्कमिति ह्येतत् सुमहद्राघवान्तरम् ।
११७. सालमेकं तु निर्भिन्द्या भवेद्व्यक्तिर्बलाबले ॥
११८. एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
११९. प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥
१२०. स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
१२१. सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥
१२२. स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।
१२३. भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥
१२४. तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः ।
१२५. रामस्य शरवेगेन विस्मयं परमं गतः ॥
१२६. सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ।
१२७. स मूर्ध्ना न्यपतत् भूमौ प्रलम्बीकृतभूषणः ॥
१२८. इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।
१२९. सेन्द्रानपि सुरान् सर्वान् त्वं बाणैः पुरुषर्षभ ।
१३०. समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥
१३१. येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।
१३२. बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥
१३३. तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्
१३४. वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥
१३५. ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
१३६. प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥
१३७. अस्माद् गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।
१३८. गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥
१३९. सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
१४०. वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने ॥
१४१. सुग्रीवोऽप्यनदद् घोरं वालिनोऽह्वानकारणात् ।
१४२. तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।
१४३. निष्पपात सुसंक्रुद्धो भास्करोऽस्ततटादिव ॥
१४४. ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।
१४५. गगने गृःअयोर्घोरं बुधाङ्गारकयोरिव ॥
१४६. ततो रामो धनुष्पाणिः तावुभौ समुदैक्षत ।
१४७. अन्योन्यसदृशौ वीरौ उभौ देवौ इवाश्विनौ ॥
१४८. यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः ।
१४९. ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ॥
१५०. एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ।
१५१. अपश्यन् राघवं नाथं ऋष्यमूकं प्रदुद्रुवे ॥
१५२. क्लान्तो रुधिरसिक्ताङ्गः प्रहारैः जर्जरीकृतः ।
१५३. वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥
१५४. तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः ।
१५५. मुक्तोऽह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ॥
१५६. राघवोऽपि सह भ्रात्रा सह चैव हनूमता ।
१५७. तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ॥
१५८. तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ।
१५९. ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥
१६०. आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।
१६१. वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥
१६२. तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।
१६३. वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥
१६४. तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
१६५. करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥
१६६. सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ।
१६७. कारणं येन बाणोऽयं स मया न विसर्जितः ॥
१६८. अलङ्कारेण वेषेण प्रमाणेन गतेन च ।
१६९. स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।
१७०. विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥
१७१. ततोऽहं रूपसादृश्यात् मोहितो वानरोत्तम ।
१७२. नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥
१७३. त्वयि वीर विपन्ने हि अज्ञानात् लाघवान्मया ।
१७४. मौढ्यं च मम बाल्यं च स्थापितं स्यात् कपीश्वर ॥
१७५. तस्माद् युद्ध्यस्व भूयस्त्वं मा मा शङ्कीश्च वानर ।
१७६. अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।
१७७. येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥
१७८. एतन्मुहूर्ते तु मया पश्य वालिनमाहवे ।
१७९. निरस्तमिषुणैकेन चेष्टमानं महीतले ॥
१८०. गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ।
१८१. कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥
१८२. ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् ।
१८३. लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥
१८४. स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ।
१८५. मालयेव बलाकानां ससन्ध्य इव तोयदः ॥
१८६. ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।
१८७. जगाम सह सुग्रीवो वालिविक्रमपालिताम् ।
१८८. समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।
१८९. शराम्श्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ॥
१९०. अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।
१९१. सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥
१९२. पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् ।
१९३. तारश्चैव महातेजा हरियूथपयूथपः ॥
१९४. सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
१९५. वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥
१९६. अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः ।
१९७. दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ॥
१९८. हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ।
१९९. प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् ॥
२००. प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा ।
२०१. सफलां कुरु तां क्षिप्रं लतां काल इवागतः ॥
२०२. एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ।
२०३. तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः ॥
२०४. कृताभिज्ञानचिःनस्त्वमनया गजसाह्वया ।
२०५. शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया ।
२०६. विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥
२०७. अद्य वालिसमुत्थं ते भयं वैरं च वानर ।
२०८. एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥
२०९. अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता ।
२१०. धर्मलोभपरीतेन न च वक्ष्ये कथञ्चन ॥
२११. सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम् ।
२१२. प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः ॥
२१३. सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः ॥
२१४. रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे ।
२१५. जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ॥
२१६. स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ।
२१७. ननर्द क्रूरनादेन विनिर्भिन्दन् इवाम्बरम् ॥
२१८. तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ।
२१९. राजदोषपरामृष्टा कुलस्त्रिय इवाकुलाः ॥
२२०. द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः ।
२२१. पतन्ति च खगा भूमौ क्षीणपुण्य इव ग्रहाः ॥
२२२. अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ।
२२३. शुश्रावान्तह्पुरगतो वाली भ्रातुरमर्षणः ॥
२२४. श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।
२२५. मदश्चैकपदे नष्टः क्रोधश्चापादितो महान् ॥
२२६. ततो रोषपरीताङ्गो वाली स कनकप्रभः ।
२२७. उपरक्त इवादित्यो सद्यो निष्प्रभतां गतः ॥
२२८. वाली दंष्‍ट्राकरालस्तु क्रोधात् दीप्ताग्निलोचनः ।
२२९. भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥
२३०. शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।
२३१. वेगेन च पदन्यासैः दारयन्निव मेदिनीम् ॥
२३२. तं तु तारा परिष्वज्य स्नेहात् दर्शितसौहृदा ।
२३३. उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥
२३४. साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।
२३५. शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥
२३६. काल्यमेतेन सम्ग्रामं करिष्यसि च वानर ।
२३७. वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥
२३८. सहसा तव निष्क्रामो मम तावन्नरोचते ।
२३९. श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते ॥
२४०. त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
२४१. इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥
२४२. नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।
२४३. अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥
२४४. प्रकृत्या निपुणश्चैव बुद्धिमान्श्चैव वानरः ।
२४५. नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति ॥
२४६. पूर्वमेव मया वीर श्रुतं कथयतो वचः ।
२४७. अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥
२४८. प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता ॥
२४९. अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ ।
२५०. इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥
२५१. सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ॥
२५२. स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि ।
२५३. निवासवृक्षः साधूनामापन्नानां परागतिः ।
२५४. आर्तानां संश्रयश्चैव यशसश्चैव भाजनम् ।
२५५. ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ।
२५६. धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥
२५७. तत्क्षमो न विरोधस्ते सह तेन महात्मना ।
२५८. श्रूयतां क्रियतां चैव तव वक्ष्यामि यद् हितम् ॥
२५९. यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।
२६०. विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा ॥
२६१. अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ।
२६२. लालनीयो हि ते भ्राता यवीयानेष वानरः ।
२६३. तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ।
२६४. न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन ॥
२६५. यदि ते मत्प्रियं कार्यं यदि चावैहि मां हिताम् ।
२६६. याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे ॥
२६७. तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
२६८. वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥
२६९. गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोः विशेषतः ।
२७०. मर्षयिष्यामि केनापि कारणेन वरानने ॥
२७१. सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।
२७२. सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम् ॥
२७३. न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
२७४. धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥
२७५. प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।
२७६. दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥
२७७. कृतं तारे सहायत्वं दर्शितं सौहृदं मयि ।
२७८. शापितासि मम प्राणैः निवर्तस्व जनेन च ॥
२७९. तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
२८०. चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥
२८१. ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी ।
२८२. अन्तह्पुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥
२८३. प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।
२८४. नगर्या निर्ययौ (वाली) महासर्प इव श्वसन् ।
२८५. सर्वतः चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ॥
२८६. स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ॥
२८७. तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् ।
२८८. गाढं परिदधे वासो वाली परमकोपनः ॥
२८९. स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
२९०. सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ।
२९१. श्लक्ष्णं मुष्टिं समुद्यम्य संरब्धतरमागतः ॥
२९२. तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।
२९३. प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥
२९४. परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ।
२९५. तौ शोणिताक्षौ युद्ध्येतां वानरौ वनचारिणौ ॥
२९६. मेघाविव महाशब्दैः तर्जमानौ परस्परम् ।
२९७. मुष्टिभिः जानुभिः पद्भिः बाहुभिश्च पुनः पुनः ॥
२९८. तयोर्युद्धमभूत् घोरं वृत्रवासवयोरिव ।
२९९. ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।
३००. वालिना भग्नदर्पस्तु सुग्रीवो परिहीयत ॥
३०१. हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् ।
३०२. प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥
३०३. ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
३०४. (वीरो) धनुषि सन्धाय शरमाशीविषोपमम् ।
३०५. पूरयामास तच्चापं कालचक्रमिवान्तकः ॥
३०६. तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
३०७. प्रदुद्रुवुः मृगाश्चैव युगान्त इव मोहिताः ॥
३०८. मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
३०९. राघवेण महाबाणो वालिवक्षसि पातितः ॥
३१०. ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः ।
३११. वेगेनाभिहतो वाली निपपात महीतले ॥
३१२. इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले ।
३१३. आश्वयुक्समये मासि गतश्रीको विचेतनः ॥
३१४. अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे ।
३१५. नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी ॥
३१६. भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
३१७. न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥
३१८. शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता ।
३१९. दधार हरिमुख्यस्य प्राणान्स्तेजः श्रियं च सा ॥
३२०. स तया मालया वीरो हैमया हरियूथपः ।
३२१. सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥
३२२. तस्य माला च देहश्च मर्मघाती च यः शरः ।
३२३. त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥
३२४. तं तथा पतितं संख्ये गतार्चिषमिवानलम् ।
३२५. ययातिमिव पुण्यान्ते देवलोकादिह च्युतम् ।
३२६. आदित्यमिव कालेन युगान्ते भुवि पातितम् ।
३२७. महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।
३२८. व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।
३२९. लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥
३३०. तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।
३३१. अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम् ॥
३३२. त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः ।
३३३. पराङ्‍मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः ॥
३३४. रामः करुणवेदी च प्रजानां च हिते रतः ।
३३५. सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।
३३६. इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि ॥
३३७. दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः ।
३३८. पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥
३३९. तान् गुणान् संप्रधार्याहमग्र्यं चाभिजनं तव ।
३४०. तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ॥
३४१. न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।
३४२. जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥
३४३. सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।
३४४. नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥
३४५. विषये वा पुरे वा ते यदा नापकरोम्यहम् ।
३४६. न च त्वामवजाने च कस्मात्त्वं हम्स्यकिल्बिषम् ।
३४७. फलमूलाशनं नित्यं वानरं वनगोचरम् ।
३४८. मामिहाप्रतियुद्ध्यन्तमन्येन च समागतम् ॥
३४९. भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च ।
३५०. तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥
३५१. नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ।
३५२. राजवृत्तिरसङ्कीर्णा न नृपा कामवृत्तयः ॥
३५३. हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ।
३५४. किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥
३५५. राजहा ब्रःमहा गोघ्नः चोरः प्राणिवधे रतः ।
३५६. नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥
३५७. सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ।
३५८. लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ॥
३५९. पञ्च पञ्चनखा भक्ष्या ब्रःमक्षत्रेण राघव ।
३६०. शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥
३६१. चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः ।
३६२. अभक्ष्यानि च माम्सानि सोऽहं पञ्चनखो हतः ॥
३६३. शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
३६४. कथं दशरथेन त्वं जातो पापो महात्मना ॥
३६५. छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ।
३६६. त्यक्तधर्मांकुशेनाहं निहतो रामहस्तिना ॥
३६७. उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः ।
३६८. अपकारिषु ते राम नैवं पश्यामि विक्रमम् ॥
३६९. दृश्यमानस्तु युद्ध्येथा मया युधि नृपात्मज ।
३७०. अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥
३७१. सुग्रीवप्रियकामेन यदहं निहतस्त्वया ।
३७२. मामेव यदि पूर्वं त्वमेतदर्थमचोदयः ।
३७३. मैथिलीमहमेकाःना तव चानीतवान् भवेः ॥
३७४. युक्तं यत् प्राप्नुयात् राज्यं सुग्रीवः स्वर्गते मयि ।
३७५. अयुक्तं यदधर्मेण त्वयाहं निहतो मया ॥
३७६. काममेवं विधो लोकः कालेन विनियुज्यते ।
३७७. क्षमं चेत् भवता प्राप्तुमुत्तरं साधु चिन्त्यताम् ॥
३७८. इत्येवमुक्त्वा परिशुष्कवक्त्रह्
३७९. शराभिघातात् व्यथितो महात्मा ।
३८०. समीक्ष्य रामं रविसन्निकाशम्
३८१. तूष्णीं बभूवामरराजसूनुः ॥
३८२. इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
३८३. तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।
३८४. उक्तवाक्यं हरिश्रेष्ठं उपशान्तमिवानलम् ।
३८५. अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत् ॥
३८६. धर्ममर्थं च कामं च समयं चापि लौकिकम् ।
३८७. अविज्ञाय कथं बाल्यात् मामिहाद्य विगर्हसे ॥
३८८. इक्ष्वाकूणामियं भूमिः सशैलवनकानना ।
३८९. मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि ॥
३९०. तां पालयति धर्मात्मा भरतः सत्यवान् शुचिः ।
३९१. धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥
३९२. तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
३९३. चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ॥
३९४. ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः ।
३९५. भरताज्ञां पुरस्कृत्य निगृःणीमो यथाविधि ॥
३९६. तदेतत् कारणं पश्य यदर्थं त्वं मया हतः ।
३९७. त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः ।
३९८. कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥
३९९. अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
४००. भ्रातुर्वर्तसि भार्यायां स्नुषायां पापकर्मकृत् ॥
४०१. यवीयान् आत्मनः पुत्रः शिष्यश्चापि गुणोदितः ।
४०२. पुत्रवत् ते त्रयः चिन्त्या धर्मश्चैवात्र कारणम् ॥
४०३. औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।
४०४. प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ॥
४०५. सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।
४०६. दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥
४०७. प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ ।
४०८. प्रतिज्ञा च कथं शक्ष्या मद्विधेनानवेक्षितुम् ॥
४०९. सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ।
४१०. वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥
४११. राजभिः धृतदम्डाश्च कृत्वा पापानि मानवाः ।
४१२. निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥
४१३. शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते ।
४१४. राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम् ॥
४१५. तदलं परितापेन धर्मतः परिकल्पितः ।
४१६. वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥
४१७. शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव ।
४१८. तत् श्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि ॥
४१९. वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ।
४२०. प्रतिच्छन्नाश्च दृश्याश्च गृःणन्ति सुबहून् मृगान् ॥
४२१. विध्यन्ति विमुखान्श्चापि न च दोषोऽत्र विद्यते ।
४२२. तस्मात् त्वं निहतो युद्धे मया बाणेन वानर ।
४२३. अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखामृगो ह्यसि ॥
४२४. दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।
४२५. राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥
४२६. तान् न हिम्स्यात् न चाक्रोशेत् नाक्षिपेत् नाप्रियं वदेत् ।
४२७. देवा मानुषरूपेण चरन्त्येते महीतले ॥
४२८. त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।
४२९. विदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥
४३०. एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ।
४३१. प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥
४३२. यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः ।
४३३. प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥
४३४. यदयुक्तं मया पूर्वं प्रमादात् वाक्यमप्रियम् ।
४३५. तत्रापि खलु मां दोषं कर्तुं नार्हसि राघव ॥
४३६. न चात्मानमहं शोचे न तारां नापि बान्धवान् ।
४३७. यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥
४३८. बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ।
४३९. तारेयो राम भवता रक्षणीयो महाबलः ॥
४४०. सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।
४४१. त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः ॥
४४२. या ते नरपते वृत्तिः भरते लक्ष्मणे च या ।
४४३. सुग्रीवे चाङ्गदे राजन् तां त्वमाधातुमर्हसि ॥
४४४. त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ।
४४५. शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥
४४६. त्वत्तोऽहं वधमाकाङ्क्षन् वार्यमाणोऽपि तारया ।
४४७. सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ॥
४४८. इत्युक्त्वा वानरो रामं विरराम हरीश्वरः ।
४४९. स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम् ॥
४५०. साधु सम्मतया वाचा धर्मतत्त्वार्थयुक्तया ।
४५१. न सन्तापस्त्वया कार्यः एतदर्थं प्लवङ्गम ॥
४५२. वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ।
४५३. त्यज शोकं च मोहं च भयं च हृदये स्थितम् ॥
४५४. यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर ।
४५५. तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥
४५६. स वानरमहाराजः शयानः शरपीडितः ।
४५७. प्रत्युक्तो हेतुमद्वाक्यैः नोत्तरं प्रत्यपद्यत ॥
४५८. अश्मभिः परिभिन्नाङ्गो पादपैराहतो भृशम् ।
४५९. रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥
४६०. तं भार्या बाणमोक्षेण रामदत्तेन संयुगे ।
४६१. हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥
४६२. सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् ।
४६३. निष्पपात भृशं तस्मात् उद्विग्ना गिरिकन्दरात् ॥
४६४. ये त्वङ्गदपरीवारा वानरा हि महाबलाः ।
४६५. ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥
४६६. तानुवाच समासाद्य दुःखितान् दुःखिता सती ।
४६७. रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः ॥
४६८. वानरा राजसिंहस्य यस्य यूयं पुरःसराः ।
४६९. तं विहाय सुवित्रस्ताः कस्माद् द्रवथ दुर्गताः ॥
४७०. कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः ।
४७१. प्राप्तकालमविश्लिष्टं ऊचुर्वचनमङ्गनाम् ॥
४७२. जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् ।
४७३. अन्तको रामरूपेण हत्वा नयति वालिनम् ॥
४७४. अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ।
४७५. रक्ष्यतां नगरी शूरैः अङ्गदश्चाभिषिच्यताम् ॥
४७६. पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥
४७७. अथवा रुचिरं स्थानमिह ते रुचिरानने
४७८. आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः ॥
४७९. अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना ।
४८०. आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥
४८१. पुत्रेण मम किं कार्यं राज्येनापि किमात्मना ।
४८२. कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥
४८३. पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ।
४८४. योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥
४८५. एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता ।
४८६. शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥
४८७. आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ।
४८८. हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ।
४८९. क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् ॥
४९०. अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम् ।
४९१. रामं रामानुजं चैव भर्तुश्चैवानुजं शुभम् ॥
४९२. तानतीत्य समासाद्य भर्तारं निहतं रणे ।
४९३. समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह ॥
४९४. सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी ।
४९५. रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः ॥
४९६. तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् ।
४९७. वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।
४९८. आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥
४९९. सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् ॥
५००. कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥
५०१. युगपद्विहितं तात न मन्ये सुखमावयोः ।
५०२. सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥
५०३. प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।
५०४. मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥
५०५. जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ।
५०६. प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥
५०७. अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।
५०८. यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि ॥
५०९. सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।
५१०. बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ॥
५११. मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ।
५१२. मया हीनमहीनार्थं सर्वतः परिपालय ॥
५१३. त्वमप्यस्य पिता दाता परित्राता च सर्वशः ।
५१४. भयेष्वभयदश्चैव यथार्हं प्लवगेश्वर ॥
५१५. एष तारात्मजः श्रीमान् त्वया तुल्यपराक्रमः ।
५१६. रक्षसां च वधे तेषामग्रतस्ते भविष्यति ॥
५१७. अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।
५१८. करिष्यत्येव तारेयः तेजस्वी तरुणोऽङ्गदः ॥
५१९. सुषेणदुहिता चेयं अर्थसूक्ष्मविनिश्चये ।
५२०. औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥
५२१. यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् ।
५२२. न हि तारामतं किञ्चिदन्यथा परिवर्तते ॥
५२३. राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।
५२४. स्यादधर्मो ह्यकरणे त्वां च हिम्स्याद्विमानितः ॥
५२५. इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।
५२६. उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥
५२७. इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।
५२८. जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥
५२९. तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम् ।
५३०. संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥
५३१. देशकालौ भजस्वाद्य रममाणः प्रियाप्रिये ।
५३२. सुखदुःखसहः काले सुग्रीववशगो भव ॥
५३३. यथा हि त्वं महाबाहो लालितः सततं मया ।
५३४. स तथा वर्तमानं त्वां सुग्रीवो बहुमन्यते ॥
५३५. नास्यामित्रैः गतं गच्छेः मा शत्रुभिररिन्दम ।
५३६. भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥
५३७. न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ।
५३८. उभयं हि महादोषं तस्मादन्तरदृक् भव ॥
५३९. इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् ।
५४०. विवृतैर्दशनैर्भीमैः बभूवोत्क्रान्तजीवितः ॥
५४१. उद्वबर्ह शरं नीलः तस्य गात्रगतं तदा ।
५४२. गिरिगह्वरसम्लीनं दीप्तमाशीविषं यथा ॥
५४३. अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव ।
५४४. पेतुः क्षतजधारास्तु धारा इव धराधरात् ॥
५४५. ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः ।
५४६. परिदेवयमानास्ते सर्वे प्लवगसत्तमाः ॥
५४७. ततस्तु तारा व्यसनार्णवप्लुता
५४८. मृतस्य भर्तुः वदनं समीक्ष्य सा ।
५४९. जगाम भूमिं परिरभ्य वालिनम्
५५०. महाद्रुमं छिन्नमिवाश्रिता लता ॥