१. राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।
२. निहत्य रामो मारीचं तूर्णं पथि निवर्तते ॥
३. तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ।
४. क्रूरस्वनोऽथ गोमायुः विननादास्य पृष्ठतः ॥
५. स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।
६. चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥
७. अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ।
८. स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥
९. (राक्षसेन) तु विज्ञाय स्वरमालम्ब्य मामकम् ।
१०. विक्रुष्टं मृगरूपेण लक्ष्मणः श्रुणुयाद् यदि ।
११. स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् ।
१२. तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥
१३. निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि हि ।
१४. इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिस्वनम् ।
१५. आजगाम जनस्थानं राघवः परिशङ्कितः ॥
१६. ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ।
१७. विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥
१८. सञ्जगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् ।
१९. तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ।
२०. यदा सा तव विश्वासात् वने विरहिता मया ॥
२१. अहो लक्ष्मण गर्ह्यं ते कृतं यस्त्वं विहाय ताम् ।
२२. सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिह ॥
२३. एवमुक्तस्तु सौमित्रिः लक्ष्मणः शुभलक्षणः ।
२४. भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥
२५. न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।
२६. प्रचोदितस्तयैवोग्रैः त्वत्सकाशमिहागतः ॥
२७. आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च ।
२८. परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥
२९. सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।
३०. गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥
३१. प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।
३२. प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥
३३. अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ।
३४. न सोऽस्ति त्रिषु लोकेषु पुमान् वै राघवं रणे ।
३५. जातो वा जायमानो वा सम्युगे यः पराजयेत् ॥
३६. एवमुक्ता तु वैदेही परिमोहितचेतना ।
३७. उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥
३८. सङ्केतात् भरतेन त्वं रामं समनुगच्छसि ।
३९. रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।
४०. राघवस्यान्तरप्रेप्सुः तथैनं नाभिपद्यसे ॥
४१. एवमुक्तो हि वैदेह्या आश्रमादभिनिर्गतः ॥
४२. एवं ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः ।
४३. अब्रवीत् दुष्कृतं सौम्य तां विना यत्त्वमागतः ।
४४. जानन्नपि समर्थं मां रक्षसां विनिवारणे ॥
४५. क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः ।
४६. क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥
४७. सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।
४८. प्रतिकर्तुं नृशम्सानां रक्षसां दत्तमन्तरम् ॥
४९. विकृष्य चापं परिधाय सायकम्
५०. सलीलबाणेन च ताडितो मया ।
५१. मार्गीं तनुं त्यज्य सविक्लवस्वरो
५२. बभूव केयूरधरः स राक्षसः ॥
५३. शराहतेनैव तदार्तया गिरा
५४. स्वरं ममालम्ब्य सुदूरसम्श्रवम् ।
५५. उदाहृतं तद्वचनं सुदारुणम्
५६. त्वमागतो येन विहाय मैथिलीम् ॥
५७. न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ।
५८. विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥
५९. कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।
६०. कच्चित् प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ॥
६१. यदि मामाश्रमगतं वैदेही नाभिभाषते ।
६२. पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥
६३. इति सीतां वरारोहां चिन्तयन्नेव राघवः ।
६४. आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥
६५. भृशमाव्रजमानस्य तस्याधो वामलोचनम् ।
६६. प्रास्फुरच्चास्खलद् रामो वेपथुश्चाप्यजायत ॥
६७. उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः ।
६८. अपि क्षेमं तु सीताया इति वै व्याजहार ह ॥
६९. त्वरमाणो जगामाथ सीतादर्शनलालसः ।
७०. शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥
७१. उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः ।
७२. तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ।
७३. रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।
७४. श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् ।
७५. विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् ।
७६. दृष्ट्वा शून्यं जनस्थानं विललाप पुनः पुनः ॥
७७. वृक्षात् वृक्षं प्रधावन् स गिरेश्चाद्रिं नदान्नदीम् ।
७८. बभूव विलपन् रामः शोकपङ्कार्णवाप्लुतः ॥
७९. अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।
८०. कदम्ब यदि जानीषे शम्स सीतां शुभाननाम् ॥
८१. स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी ।
८२. शम्सस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥
८३. अथवार्जुन शम्स त्वं प्रियां तामर्जुनप्रियाम् ।
८४. जनकस्य सुता भीरुः यदि जीवति वा न वा ॥
८५. ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् ।
८६. यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥
८७. भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।
८८. एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥
८९. अशोक शोकापनुद शोकोपहतचेतसम् ।
९०. त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥
९१. यदि ताल त्वया दृष्टा पक्वतालफलस्तनी ।
९२. कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥
९३. अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम् ।
९४. कर्णिकारप्रिया साध्वी शम्स दृष्टा प्रिया यदि ॥
९५. चूतनीपमहासालान् पनसान् कुरवान् धवान् ।
९६. दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ।
९७. मल्लिकामाधवीश्चैव चम्पकान् केतकीस्तथा ।
९८. पृच्छन् रामो वने भ्रान्तः उन्मत्त इव लक्ष्यते ॥
९९. अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् ।
१००. मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥
१०१. गज सा गजनासोरूः यदि दृष्टा त्वया भवेत् ।
१०२. तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥
१०३. किं धावसि प्रिये दूरं दृष्टासि कमलेक्षणे ।
१०४. वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥
१०५. त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये ।
१०६. आवृणोषि शरीरं ते मम शोकविवर्धिनी ॥
१०७. कदलीकाण्डसदृशौ कदल्या सम्वृतौ उभौ ।
१०८. ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ॥
१०९. परिहासेन किं सीते परिश्रान्तस्य मे प्रिये ।
११०. अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥
१११. यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।
११२. एते हीनास्त्वया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ॥
११३. क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।
११४. केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥
११५. शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।
११६. अपि गोदावरीं सीता पद्मान्यानयितुं गता ॥
११७. एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
११८. नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ॥
११९. तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ।
१२०. नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥
१२१. लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः ।
१२२. रामः समभिचक्राम स्वयं गोदावरीं नदीम् ॥
१२३. स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ।
१२४. न तु साभ्यवदत् सीतां पृष्टा रामेण शोचता ॥
१२५. निराशस्तु तया नद्या सीताया दर्शने कृतः ।
१२६. उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥
१२७. एषा गोदावरी सौम्य किञ्चिन्न प्रतिभाषते ।
१२८. किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥
१२९. मातरं चैव वैदेह्या विना तामहमप्रियम् ॥
१३०. व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।
१३१. विभज्याम्गानि सर्वाणि मया विरहिता प्रिया ॥
१३२. सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण ।
१३३. मृतं शोकेन महता सीताहरणजेन माम् ।
१३४. परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥
१३५. कथं प्रतिज्ञां सम्श्रुत्य मया त्वमभियोजितः ।
१३६. अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥
१३७. कामवृत्तमनार्यं मां मृषावादिनमेव च ।
१३८. धिक्त्वामिति परे लोके व्यक्तं वक्षति मे पिता ॥
१३९. अनासादयमानं तं सीतां दशरथात्मजम् ।
१४०. पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।
१४१. लक्ष्मणो राममत्यर्थं उवाच हितकाम्यया ॥
१४२. मा विषादं महाबाहो कुरु यत्नं मया सह ।
१४३. इदं च हि वनं शूर बहुकन्दरशोभितम् ।
१४४. प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली ।
१४५. सा वनं वा प्रविष्टा स्यात् नलिनीं वा सुपुष्पिताम् ॥
१४६. वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ॥
१४७. एवमुक्तस्तु सौहार्दात् लक्ष्मणेन समाहितः ।
१४८. सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥
१४९. तौ वनानि गिरीन्श्चैव सरितश्च सराम्सि च ।
१५०. तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ।
१५१. निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ॥
१५२. विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ।
१५३. नेह पश्यामि सौमित्रे प्राणेभ्योऽपि गरीयसीम् ॥
१५४. एवं स विलपन् रामः सीताहरणकर्शितः ।
१५५. दीनशोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥
१५६. स लक्ष्मणं शोकवशाभिपन्नम्
१५७. शोके निमग्नो विपुले तु रामः ।
१५८. उवाच वाक्यं व्यसनानुरूपम्
१५९. उष्णं विनिःश्वस्य रुदन् सशोकम् ॥
१६०. न मद्विधो दुष्कृतकर्मकारी
१६१. मन्ये द्वितीयोऽस्ति वसुन्धरायाम् ।
१६२. शोकेन शोको हि परम्पराया
१६३. मामेति भिन्दन् हृदयं मनश्च ॥
१६४. पूर्वं मया नूनमभीप्सितानि
१६५. पापानि कर्माण्यसकृत् कृतानि ।
१६६. तत्रायमद्यापतितो विपाको
१६७. दुःखेन दुःखं यदहं विशामि ॥
१६८. राज्यप्रणाशः स्वजनैर्वियोगह्
१६९. पितुर्विनाशो जननीवियोगः ।
१७०. सर्वाणि मे लक्ष्मण शोकवेगम्
१७१. आपूरयन्ति प्रविचिन्तितानि ॥
१७२. सर्वं तु दुःखं मम लक्ष्मणेदम्
१७३. शान्तं शरीरे वनमेत्य शून्यम् ।
१७४. सीतावियोगात् पुनरप्युदीर्णम्
१७५. काष्ठैरिवाग्निः सहसा प्रदीप्तः ॥
१७६. मया विहीना विजने वने या
१७७. रक्षोभिराहृत्य विकृष्यमाणा ।
१७८. नूनं विनादं कुररीव दीना
१७९. सा मुक्तवत्यायतकान्तनेत्रा ॥
१८०. अस्मिन् मया सार्धमुदारशीला
१८१. शिलातले पूर्वमुपोपविष्टा ।
१८२. कान्तस्मिता लक्ष्मण जातहासा
१८३. त्वामाह सीता बहुवाक्यजातम् ॥
१८४. आदित्य भो लोककृताकृतज्ञ
१८५. लोकस्य सत्यानृतकर्मसाक्षिन् ।
१८६. मम प्रिया सा क्व गता हृता वा
१८७. शम्सस्व मे शोकवशस्य नित्यम् ॥
१८८. लोकेषु सर्वेषु च नास्ति किञ्चित्
१८९. यत्ते न नित्यं विदितं भवेत् तत् ।
१९०. शम्सस्व वायो कुलशालिनीं ताम्
१९१. हृता मृता वा पथि वर्तते वा ॥
१९२. इतीव तं शोकविधेयदेहम्
१९३. रामं विसञ्ज्ञं विलपन्तमेवम् ।
१९४. उवाच सौमित्रिरदीनसत्त्वो
१९५. न्याये स्थितः कालयुतं च वाक्यम् ॥
१९६. शोकं विमुञ्चार्य धृतिं भजस्व
१९७. सोत्साहता चास्तु विमार्गणेऽस्याः ।
१९८. उत्साहवन्तो हि नरा न लोके
१९९. सीदन्ति कर्मस्वतिदुष्करेषु ॥
२००. इतीव सौमित्रिमुदग्रपौरुषम्
२०१. ब्रुवन्तमार्तो रघुवंशवर्धनः ।
२०२. न चिन्तयामास धृतिं विमुक्तवान्
२०३. पुनश्च दुःखं महदभ्युपागमत् ॥
२०४. स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।
२०५. एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः ।
२०६. वक्तुकामा इव हि मे इम्गितान्युपलक्षये ॥
२०७. ताम्स्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ।
२०८. क्व सीतेति निरीक्षन् वै बाष्पसम्रुद्धया गिरा ॥
२०९. एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ।
२१०. दक्षिणाभिमुखाः सर्वे निरीक्षन्ते नराधिपम् ॥
२११. तेषां वचनसर्वस्वं लक्षयामास चेम्गितम् ।
२१२. उवाच लक्ष्मणो ज्येष्ठं धीमान् भ्रातरमार्तवत् ॥
२१३. क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः ।
२१४. दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ॥
२१५. साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम् ।
२१६. यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते ॥
२१७. बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ।
२१८. लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् ॥
२१९. एवं सम्भाषमाणौ तौ अन्योन्यं भ्रातरौ उभौ ।
२२०. वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ॥
२२१. तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ।
२२२. उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥
२२३. अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ।
२२४. पिनद्धानीह वैदेह्या मया दत्तानि कानने ॥
२२५. एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः ।
२२६. ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥
२२७. त्रस्ताया रामकाम्क्षिण्याः प्रधावन्त्या इतस्ततः ।
२२८. राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ॥
२२९. स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ।
२३०. भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् ।
२३१. सम्भ्रान्तहृदयो रामः शशम्स भ्रातरं प्रियम् ॥
२३२. तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः ।
२३३. आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥
२३४. मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।
२३५. भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥
२३६. तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः ।
२३७. बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥
२३८. मुक्तामणिमयं चेदं तपनीयविभूषितम् ।
२३९. धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥
२४०. काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः ।
२४१. भीमरूपा महाकायाः कस्य वा निहता रणे ॥
२४२. रथाक्षमात्रा विशिखाः तपनीयविभूषणाः ।
२४३. कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥
२४४. शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ।
२४५. प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः ॥
२४६. भक्षितायां तु वैदेह्यां हृतायामपि लक्ष्मण ।
२४७. के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥
२४८. मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ।
२४९. निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥
२५०. मां प्राप्य हि गुणो दोषः सम्वृत्तः पश्य लक्ष्मण ॥
२५१. ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण ।
२५२. निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥
२५३. सन्निरुद्धग्रहगणं आवारितनिशाकरम् ।
२५४. विप्रणष्टानलमरुद्भास्करद्युतिसम्वृतम् ।
२५५. विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ।
२५६. ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ।
२५७. त्रैलोक्यं तु करिष्यामि सम्युक्तं कालधर्मणा ॥
२५८. नैव देवा न दैतेया न पिशाचा न राक्षसाः ।
२५९. भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।
२६०. हृतां मृतां वा सौमित्रे न दास्यन्ति यदि प्रियाम् ॥
२६१. इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् ।
२६२. शरमादाय सन्दीप्तं घोरमाशीविषोपमम् ।
२६३. (सन्दधे) धनुषि श्रीमान् रामः परपुरञ्जयः ॥
२६४. तप्यमानं तथा रामं सीताहरणकर्शितम् ।
२६५. लोकानामभवे युक्तं सम्वर्तकमिवानलम् ।
२६६. वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः ।
२६७. अदृष्टपूर्वं सम्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।
२६८. अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥
२६९. पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ।
२७०. न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥
२७१. चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
२७२. एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥
२७३. एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि ।
२७४. न तु जानामि कस्यायं भग्नः साम्ग्रामिको रथः ॥
२७५. एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर ॥
२७६. येन राजन् हृता सीता तमन्वेषितुमर्हसि ।
२७७. मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥
२७८. समुद्रं च विचेष्यामः पर्वताम्श्च वनानि च ।
२७९. गुहाश्च विविधा घोरा नदीः पद्मवनानि च ॥
२८०. न चेत् सांना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।
२८१. कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥
२८२. तं तथा शोकसन्तप्तं विलपन्तमनाथवत् ।
२८३. ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।
२८४. रामं सम्बोधयामास चरणौ चाभिपीडयन् ॥
२८५. महता तपसा राम महता चापि कर्मणा ।
२८६. राज्ञा दशरथेनासि लब्धोऽमृत इवामरैः ॥
२८७. यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे ।
२८८. प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ॥
२८९. दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते ।
२९०. आर्ताः प्रजाः नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥
२९१. या चेयं जगतां माता देवी लोकनमस्कृता ।
२९२. अस्याश्च चलनं भूमेः दृश्यते सत्यसम्श्रव ॥
२९३. सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।
२९४. न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥
२९५. तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय ।
२९६. बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥
२९७. त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः ।
२९८. अनुशिष्याद्धि को नु त्वामपि साक्षाद् बृहस्पतिः ॥
२९९. बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ।
३००. शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥
३०१. पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
३०२. सारग्राही महासारं प्रतिजग्राह राघवः ॥
३०३. सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ।
३०४. अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥
३०५. किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
३०६. केनोपायेन पश्येयं सीतामिति विचिन्तय ॥
३०७. ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।
३०८. ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥
३०९. तं दृष्ट्वा गिरिशृम्गाभं रामो लक्ष्मणमब्रवीत् ।
३१०. अनेन सीता वैदेही भक्षिता नात्र संशयः ॥
३११. एनं वधिष्ये दीप्तास्यैः घोरैर्बाणैरजिह्मगैः ।
३१२. इत्युक्त्वाभ्यपतत् गृध्रं सन्धाय धनुषि क्षुरम् ॥
३१३. तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।
३१४. अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥
३१५. यामोषधिमिवायुष्मन् अन्वेषसि महावने ।
३१६. सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥
३१७. सीतामभ्यवपन्नोऽहं रावणश्च रणे मया ।
३१८. विध्वम्सितरथश्चात्र पातितो धरणीतले ॥
३१९. एतदस्य धनुर्भग्नं एतदस्य शरावरम् ।
३२०. अयमस्य रथो राम भग्नः साम्ग्रामिको मया ॥
३२१. अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ।
३२२. परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ।
३२३. सीतामादाय वैदेहीमुत्पपात विहायसम् ॥
३२४. रक्षसा निहतं पूर्वं न मां हन्तुं त्वमर्हसि ॥
३२५. रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ।
३२६. द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथाम् ।
३२७. गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ।
३२८. निपपातावशो भूमौ रुरोद सह लक्ष्मणः ॥
३२९. राज्याद्भ्रम्शो वने वासः सीता नष्टो द्विजो हतः ।
३३०. ईदृशीयं ममालक्ष्मीः निर्दहेदपि पावकम् ॥
३३१. सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् ।
३३२. सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः ॥
३३३. अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।
३३४. शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥
३३५. इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।
३३६. जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥
३३७. रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् ।
३३८. सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥
३३९. अयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते ।
३४०. तथा हि स्वरहीनोऽयं विक्लवः समुदीक्षते ॥
३४१. जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ।
३४२. सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥
३४३. किन्निमित्तोऽहरत् सीतां रावणस्तस्य किं मया ।
३४४. अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥
३४५. कथं वीर्यः कथं रूपः किम्कर्मा स च राक्षसः ।
३४६. क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥
३४७. तमुदीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् ।
३४८. वाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥
३४९. परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः ।
३५०. सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम् ॥
३५१. न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ।
३५२. वैदेह्या रम्स्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥
३५३. असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ।
३५४. आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥
३५५. ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः ।
३५६. त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥
३५७. तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ।
३५८. रामः सुबहुभिः दुःखैः दीनः सौमित्रिमब्रवीत् ॥
३५९. पश्य लक्ष्मण गृध्रोऽयं उपकारी हतश्च मे ।
३६०. सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥
३६१. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।
३६२. शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥
३६३. सीताहरणजं दुःखं न मे सौम्य तथागतम् ।
३६४. यथा विनाशे गृध्रस्य मत्कृते च परन्तप ॥
३६५. सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।
३६६. गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥
३६७. या गतिर्यज्ञशीलानां आहिताग्नेश्च या गतिः ।
३६८. अपरावर्तिनां या च या च भूमिप्रदायिनाम् ।
३६९. मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ।
३७०. गृध्रराज महासत्त्व सम्स्कृतश्च मया व्रज ॥
३७१. एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।
३७२. ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥
३७३. ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ।
३७४. उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥
३७५. कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ ।
३७६. अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥
३७७. तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।
३७८. अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥
३७९. व्यतिक्रम्य तु वेगेन व्यालसिम्हनिषेवितम् ।
३८०. सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥
३८१. तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।
३८२. सञ्जज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥
३८३. तं शब्दं काम्क्षमाणस्तु रामः कक्षे सहानुजः ।
३८४. ददर्श सुमहाकायं राक्षसं विपुलोरसम् ।
३८५. विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ॥
३८६. भक्षयन्तं महाघोरान् ऋक्षसिम्हमृगद्विपान् ।
३८७. घोरौ भुजौ विकुर्वाणं उभौ योजनमायतौ ॥
३८८. स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।
३८९. जग्राह सहितौ एव राघवौ पीडयन् बलात् ॥
३९०. खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ ।
३९१. भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥
३९२. एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ।
३९३. पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः ॥
३९४. कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ।
३९५. घोरं देशमिमं प्राप्तौ मम भक्षौ उपस्थितौ ॥
३९६. ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः ॥
३९७. तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ।
३९८. उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥
३९९. कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ।
४००. त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ॥
४०१. शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।
४०२. कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥
४०३. तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
४०४. उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः ॥
४०५. त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
४०६. तस्मादसिभ्यां अस्याशु बाहू छिन्दावहे गुरू ॥
४०७. एतत् सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
४०८. विदार्यास्यं तदा रौद्रः तौ भक्षयितुमारभत् ॥
४०९. ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
४१०. अच्छिन्दतां सुसम्हृष्टौ बाहू तस्याम्सदेशतः ॥
४११. स पपात महाबाहुः छिन्नबाहुर्महास्वनः ।
४१२. खं च गां च दिशश्चैव नादयन् जलदो यथा ॥
४१३. स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
४१४. दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥
४१५. इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।
४१६. शशम्स राघवं तस्य कबन्धस्य महात्मनः ॥
४१७. अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।
४१८. अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥
४१९. अस्य देवप्रभावस्य वसतो विजने वने ।
४२०. रक्षसापहृता पत्नी यामिच्छन्तौ इहागतौ ॥
४२१. त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
४२२. आस्येनोरसि दीप्तेन भग्नजम्घो विवेष्टसे ॥
४२३. एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
४२४. उवाच परमप्रीतः तदिन्द्रवचनं स्मरन् ॥
४२५. श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।
४२६. इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ॥
४२७. स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।
४२८. अभिशापकृतस्येति तेनेदं भाषितं वचः ॥
४२९. यदा छित्त्वा भुजौ रामः त्वां दहेद् विजने वने ।
४३०. तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥
४३१. एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ।
४३२. इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥
४३३. रावणेन हृता भार्या मम सीता यशस्विनी ।
४३४. निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् ॥
४३५. नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।
४३६. निवासं वा प्रभावं वा वयं तस्य न विद्महे ॥
४३७. स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता ।
४३८. कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः ॥
४३९. एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ।
४४०. प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥
४४१. अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ।
४४२. मित्रं चैवोपदेक्ष्यामि युवाभ्यां सम्स्कृतोऽग्निना ॥
४४३. किन्तु यावन्न यास्त्यस्तं सविता श्रान्तवाहनः ।
४४४. तावन् मामवटे क्षिप्त्वा दह राम यथाविधि ॥
४४५. एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ ।
४४६. गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥
४४७. तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ।
४४८. मेदसा पच्यमानस्य मन्दं दहति पावकः ॥
४४९. स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः ।
४५०. अरजे वाससी बिभ्रन् मालां दिव्यां महाबलः ।
४५१. अन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् ॥
४५२. श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ।
४५३. दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः ।
४५४. भ्रात्रा विवासितो राम राज्यहेतोः महाबलः ।
४५५. ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते ।
४५६. निवसत्यात्मवान् वीरः चतुर्भिः वानरैः सह ॥
४५७. स ते सहायो मित्रं च सीतायाः परिमार्गणे ।
४५८. भविष्यति हि ते राम मा च शोके मनः कृथाः ॥
४५९. गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् ।
४६०. वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ॥
४६१. स च ते नावमन्तव्यः सुग्रीवो वानराधिपः ।
४६२. कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥
४६३. शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ।
४६४. कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति ॥
४६५. वानरान्श्च महाकायान् प्रेषयिष्यति राघव ।
४६६. दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥
४६७. एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
४६८. प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥
४६९. तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् ।
४७०. फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ॥
४७१. तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ।
४७२. चङ्क्रमन्तौ वरान् देशान् शैलात् शैलं वनाद् वनम् ।
४७३. ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ॥
४७४. तत्र हम्साः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।
४७५. वल्गुस्वना निकूजन्ति पम्पासलिलगोचराः ॥
४७६. नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ।
४७७. घृतपिण्डोपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः ४७८. रोहितान् वक्रतुण्डान्श्च नडमीनान्श्च राघव ।
४७९. निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान् ।
४८०. तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ॥
४८१. मतम्गशिष्यास्तत्रासन् ऋषयः सुसमाहिताः ।
४८२. तेषामद्यापि तत्रैव दृश्यते परिचारिणी ।
४८३. श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥
४८४. त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ।
४८५. दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥
४८६. ऋष्यमूकश्च पम्पायाः पुरस्तात् पुष्पितद्रुमः ।
४८७. सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ॥
४८८. राम तस्य तु शैलस्य महती शोभते गुहा ।
४८९. तस्यां वसति सुग्रीवः चतुर्भिः वानरैः सह ।
४९०. कदाचित् शिखरे तस्य पर्वतस्यावतिष्ठते ॥
४९१. तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।
४९२. प्रतस्थतुः दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥
४९३. तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
४९४. अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥
४९५. तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।
४९६. सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥
४९७. तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ।
४९८. रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥
४९९. पाद्यमाचमनीयं च सर्वं प्रादात् यथाविधि ॥
५००. तामुवाच ततो रामः श्रमणीं सम्शितव्रताम् ।
५०१. कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ॥
५०२. कच्चित्ते नियतः क्रोध आहारश्च तपोधने ।
५०३. कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ॥
५०४. कच्चित्ते गुरुशुष्रूषा सफला चारुभाषिणि ॥
५०५. रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता ।
५०६. शशम्स शबरी वृद्धा रामाय प्रत्युपस्थिता ॥
५०७. अद्य प्राप्ता तपह्सिद्धिः तव सन्दर्शनान्मया ।
५०८. अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः ॥
५०९. अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।
५१०. त्वयि देववरे राम पूजिते पुरुषर्षभ ॥
५११. चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन ।
५१२. गमिष्याम्यक्षयान् लोकान् त्वत्प्रसादादरिन्दम ॥
५१३. चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।
५१४. इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥
५१५. तैश्चाहमुक्ता धर्मज्ञैः महाभागैर्महर्षिभिः ।
५१६. आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥
५१७. स ते प्रतिगृहीतव्यः सौमित्रिसहितोऽतिथिः ।
५१८. तं च दृष्ट्वा वरान् लोकानक्षयान् त्वं गमिष्यसि ॥
५१९. मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ ।
५२०. तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥
५२१. एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।
५२२. राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥
५२४. दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः ।
५२५. श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे ॥
५२६. एतत्तु वचनं श्रुत्वा रामवक्त्रात् विनिःसृतम् ।
५२७. शबरी दर्शयामास तावुभौ तद्वनं महत् ॥
५२८. पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।
५२९. मतम्गवनमित्येव विश्रुतं रघुनन्दन ॥
५३०. इह ते भावितात्मानो गुरवो मे महावने ।
५३१. जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ॥
५३२. तेषां तपह्प्रभावेन पश्याद्यापि रघूद्वह ।
५३३. द्योतयन्ति दिशः सर्वाः श्रिया वेद्यतुलप्रभा ॥
५३४. कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।
५३५. तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम् ॥
५३६. तामुवाच ततो रामः श्रमणीं सम्शितव्रताम् ।
५३७. अर्चितोऽहं त्वया भक्त्या गच्छ कामं यथासुखम् ॥
५३८. अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।
५३९. ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा ॥
५४०. यत्र ते सुकृतत्मानो विहरन्ति महर्षयः ।
५४१. तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥
५४२. दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा ।
५४३. हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥
५४४. दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ।
५४५. प्रणष्टमशुभं तत्तत् कल्याणं समुपस्थितम् ।
५४६. तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥
५४७. हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ॥
५४८. तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ।
५४९. ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ॥
५५०. अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।
५५१. तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥
५५२. आश्रमात्तु ततस्तस्मात् निष्क्रम्य स विशाम्पतिः ।
५५३. आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥
५५४. स ददर्श ततः पुण्यामुदारजनसेविताम् ।
५५५. नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम् ।
५५६. प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् ।
५५७. पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ।
५५८. नीलां कुवलयोद्घाटैः बहुवर्णां कुथामिव ॥
॥ आरण्यकाण्डम् समाप्तम् ॥
लघुवाल्मीकीयम् |
An abridged version of VaalmIkiraamaayaNam |
Abridgement
By G.S.S.Murthy |
Notes on abridgement
Ramayana, an epic poem written by sage Valmiki in Sanskrit thousands of years back has been a perennial source of inspiration for the Indian civilization and has an exalted position in classical literature of the world. The poem in seven cantos narrates the story of Rama, a legendary prince of Ayodhya, who forsook his right to be the crown-prince and departed to the forests along with his wife Sita and brother Lakshmana in order to obey his father king Dasaratha , who was influenced by Rama’s step-mother Kaikeyi who wanted her son Bharata to be the crown prince. Sita is kidnapped in the forests by a demon-king Ravana and imprisoned in his kingdom-island of Lanka. Rama seeks the help of monkey chief Sugriva whose minister Hanuman leaps across the ocean and locates Sita in Lanka. Rama with the help of monkey hordes of Sugriva crosses the ocean, vanquishes the powerful armies of Ravana and finally kills Ravana in a fierce battle. When he returns to Ayodhya along with his wife Sita, his step brother Bharata who has all along the years been unwillingly looking after the kingdom as just a representative of Rama is too glad to make over the reigns to Rama, who is enthroned as king.
This is the gist of the story of the first six cantos of the epic. The seventh canto deals with Rama’s reign after his coronation when Rama abandons his pregnant wife Sita to forests in order to silence a section of the society which did not approve of his taking back Sita who had been kidnapped and held for months by Ravana.
It is generally recognized by scholars that the seventh canto is a later addition and that the poet wrote only the first six cantos.
Ramayana has over twenty thousand stanzas (Slokaas) in the first six cantos and is a formidable epic to read, study and digest. Although the poet has a lucid and beautiful style the very length of the epic often deters one from going through it.
To encourage lovers of Sanskrit literature to enjoy the poetry of Valmiki, an humble attempt has been made here to present an abridged version which is long enough to preserve most of the beauty of the original but is short enough to attract the modern day reader.
The following features of Ramayana facilitate its abridgment. \
- There are portions of the text, which are recognized by scholars as later interpolations, which do not seamlessly blend with the remaining. \
- There are a number of episodes which have a very marginal relevance to the main story, which could be omitted without unduly affecting the flow of the main story or the grandeur of the epic. \
- Valmiki in a leisurely pace suited to his times indulges in grand descriptions and repetitions which provide scope for abridgment.
The technique adopted in abridgment of the epic is what may be called “the cut and paste technique”, in which portions of continuous text of the original are removed and the remaining re-pasted to form a seamless narration as true to the original as possible. In this process a part of one stanza is sometimes dovetailed on to the corresponding remaining part of another stanza. In rare occasions where this technique was not found to be suitable a few bridging words, phrases, and stanzas have been added which are not in the original. These bridges have been indicated by enclosing them in brackets. ().
The entire seventh canto has been omitted in this abridged version. Some stories narrated by the characters in the epic as also details of a number of battles where the monkey chiefs kill their antagonists do not find a place here.
In the original epic each canto (Kanda) has been sectionalized into untitled “Sarga"s. In this version as Sargas have often merged, each canto has been split into titled sections, each section being much longer than an average Sarga. The title of a section indicates one of the main episodes narrated in the section. This abridged version being called “Laghuvalmikiyam”- which means “lighter version of Valmiki’s epic”- has about 17250 lines of poetry, which roughly works out to one third the length of the original (including the seventh canto).
This work has been made freely accessible to the lovers of Sanskrit literature on the Internet as a PDF file for non-commercial purposes.
G.S.S.Murthy
October, 2013
Bangalore
भूमिका
सर्वसद्गुणसम्पन्नं सर्वभूतहिते रतम्।
सत्यधर्मव्रतं रामं प्रपन्नार्तिहरं भजे॥
“कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥”
फुनर्ग्रथितवाणीयं वाल्मीकेर्ह्लादकारिणी।
मोदाय चावबोधाय सतां भूयात् सुभाषिणी ॥
प्रक्षिप्तभागानुत्सृज्य पोषयन् काव्यवैभवम् ।
श्रीमद्रामायणं कृत्स्नं सङ्गृहीतं यथामति ॥
क्वचित् सर्गः क्वचित् श्लोकः श्लोकार्धः पाद एव च ।
सन्क्षेपणार्थं ग्रथिताः अतिक्रम्य क्रमं क्वचित् ॥
वाल्मीकेर्गौरवं मत्वा मदीयं लाघवं तथा।
बहुमानेन सदयं समीक्ष्येतां गुणागुणौ ॥
लघुवाल्मीकीयमेतत् समीक्ष्य सुजना यदि।
आदिकाव्यास्वादपरा भवन्ति सफलः श्रमः ॥
सङ्ग्राहकः श्रीनिवासमूर्तिरात्रेयगोत्रजः।
गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽस्मि शम् ॥
पुण्यस्मरणम्
यस्य प्रचोदनेनैव प्राधीतं संस्कृतं मया ।
श्रीशेल्वपिल्लैय्यङ्गार्यो नाम्ना यो प्रथितोऽभवत् ।
शिष्टः सद्गुणसम्पन्नः श्रीवैष्णवसुधीरिति ।
मत्पित्रे सादरं तस्मै कृतिरेषा समर्पिता ॥
Dedication
Dedicated to the memory
of my revered father
Gorur Selvapillai
but for whose steady encouragement and gentle pursuasion
I would not have studied Sanskrit.
\
विषयानुक्रमणी
पृष्ठम्
पृष्ठम्
४. किष्किन्धाकाण्डम्
४.१ रामसुग्रीवयोः मैत्री- - – - - - - - - - - - - - - 190
४.२ वालिवधः- - - - - - - - - - - - - - - - - - - - -198
४.३ सुग्रीवपट्टाभिषेकः- - - - - - - - - - - - - - - 211
४.४ सीतामार्गणार्थं वानरप्रेषणम् - - - - - - - - - - 221
४.५ हनूमता सुमुद्रोल्लङ्घननिश्चयः- - - - - - - - - 236_
_५. सुन्दरकाण्डम्
५.१ समुद्रोल्लङ्घनम्- - - - - - - - - - - - - - – - 249
५.२ सीतादर्शनम् - - - - - - - - - - - - - - – - - -257
५.३ रावणकृतसीताभर्त्सनम् - - - - - - - - - - - - 269
५.४ हनूमत्सीतासम्भाषणम् - - - - - - - - - - - - -277
५.५ लङ्कादहनम्_ - - - – - - - - - - - - - - - - - _-289
५.६ दृष्टा देवी- - - - - - - - - - - - - - - - - - - - - 301_
_६. युद्धकाण्डम्
६.१ वानरसैन्यप्रस्थानम्- - - - - - - - - - - – - - - 312
६.२ सेतुनिर्माणम्- - - - - - - - - - - - - - - - - - 326
६.३ नागपाशबन्धनम् - - - - - - - - - - - - - - - - 338
६.४ कुम्भकर्णहननम् - - - - - - - - - - - - - - - - 355
६.५ इन्द्रजिद्वधः- - - - - - - - - - - - - - - - - - - -364_ _
६.६ रावणवधः - - - - - - - - - - - - - - - - - - – 376
६.७ सीतायाः अग्निपरीक्षा - - - - - - - - - - - - - -387
६.८ रामपट्टाभिषेकः- - - - - - - - - - - - - - - - - 395
- - - –
॥ ओम् ॥
॥ लघुवाल्मीकीयम् ॥