०४ ०४ सीतापहरणम्

१. तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।
२. श्लक्ष्णकाशायसम्वीतः शिखी छत्री उपानही ।
३. वामे चाम्सेऽवसज्याथ शुभे यष्टिकमण्डलू ।
४. परिव्राजकरूपेण वैदेहीं समुपागमत् ॥
५. तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।
६. समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥
७. शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।
८. स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी ॥
९. अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।
१०. अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ॥
११. स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।
१२. अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥
१३. का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।
१४. कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ॥
१५. का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
१६. वसूनां वा वरारोहे देवता प्रतिभासि मे ॥
१७. राक्षसानामयं वासः कथं नु त्वमिहागता ।
१८. कथमेका महारण्ये न बिभेषि वरानने ॥
१९. कासि कस्य कुतश्चित्त्वं किं निमित्तं च दण्डकान् ।
२०. एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥
२१. इरि प्रशस्ता वैदेही रावणेन दुरात्मना ।
२२. सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥
२३. ततः सुवेषं मृगयागतं पतिं
२४. प्रतीक्षमाणा सहलक्ष्मणं तदा ।
२५. विवीक्षमाणा हरितं ददर्श तन्-
२६. महद्वनं नैव तु रामलक्ष्मणौ ॥
२७. रावणेन तु वैदेही तथा पृष्टा जिहीर्षता ।
२८. परिव्राजकलिङ्गेन शशम्सात्मानमात्मना ॥
२९. ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
३०. इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥
३१. दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
३२. सीता नांनास्मि भद्रं ते रामभार्या द्विजोत्तम ॥
३३. उषित्वा द्वादशसमा इक्ष्वाकूणां निवेशने ।
३४. भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥
३५. मम भर्ता महातेजा वयसा पञ्चविंशकः ।
३६. अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥
३७. रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः ।
३८. विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥
३९. मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम् ॥
४०. स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।
४१. अन्वगच्छत् धनुष्पाणिः प्रव्रजन्तं मया सह ॥
४२. ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः ।
४३. विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥
४४. समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ।
४५. आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥
४६. स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः ।
४७. एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥
४८. एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः ।
४९. प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥
५०. अहं तु रावणो नाम सीते रक्षोगणेश्वरः ।
५१. येन वित्रासिता लोकाः सदेवासुरपन्नगाः ॥
५२. चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।
५३. मनो हरसि मे कान्ते नदीकूलमिवाम्भसा ॥
५४. करान्तमितमध्यासि सुकेशी सम्हतस्तनी ॥
५५. त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
५६. रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥
५७. बह्वीनामुत्तमस्त्रीणां आहृतानामितस्ततः ।
५८. सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥
५९. लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।
६०. सागरेण परिक्षिप्ता निविष्टा नगमूर्धनि ॥
६१. तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।
६२. न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥
६३. पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः ।
६४. सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥
६५. रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
६६. प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥
६७. महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।
६८. महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥
६९. सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् ।
७०. सत्यसन्धं महाभागं अहं राममनुव्रता ॥
७१. महाबाहुं महोरस्कं सिम्हविक्रान्तगामिनम् ।
७२. नृसिम्हं सिम्हसङ्काशमहं राममनुव्रता ॥
७३. पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् ।
७४. पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥
७५. त्वं पुनर्जम्बुकः सिम्हीं मामिच्छसि सुदुर्लभाम् ।
७६. नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥
७७. पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् ।
७८. क्षुधितस्य च सिम्हस्य मृगशत्रोस्तरस्विनः ।
७९. आशीविषस्य वदनात् दम्ष्‍ट्रामादातुमिच्छसि ॥
८०. मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि ।
८१. कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥
८२. अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।
८३. अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ॥
८४. अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ।
८५. अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।
८६. रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥
८७. यदन्तरं सिम्हशृगालयोर्वने ।
८८. यदन्तरं स्यन्दिनिकासमुद्रयोः ।
८९. सुराग्र्यसौवीरकयोर्यदन्तरम् ।
९०. तदन्तरं वै तव राघव्स्य च ॥
९१. यदन्तरं काञ्चनसीसलोहयोः ।
९२. यदन्तरं चन्दनवारिपङ्कयोः ।
९३. यदन्तरं हस्तिबिडालयोर्वने ।
९४. तदन्तरं दाशरथेस्तवैव च ॥
९५. इतीव तद्वाक्यमदुष्टभावा ।
९६. सुधृष्टमुक्त्वा रजनीचरं तम् ।
९७. गात्रप्रकम्पव्यथिता बभूव।
९८. वातोद्धता सा कदलीव तन्वी ॥
९९. एवं ब्रुवन्त्यां सीतायां सम्रब्धः परुषं वचः ।
१००. ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥
१०१. भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि ।
१०२. रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥
१०३. मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि ।
१०४. विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥
१०५. यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।
१०६. तीव्राम्शुः शिशिराम्शुश्च भयात् सम्पद्यते रविः ॥
१०७. निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः ।
१०८. भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥
१०९. मम पारे समुद्रस्य लङ्का नाम पुरी शुभा ।
११०. तत्र त्वं वसती सीते राजपुत्रि मया सह ।
१११. भुञ्जाना मानुषान् भोगान् दिव्याश्च वरवर्णिनि ।
११२. न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥
११३. स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः ।
११४. मन्दवीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो ह्ययम् ॥
११५. तेन किं भ्रष्टराज्येन रामेण गतचेतसा ।
११६. करिष्यसि विशालाक्षि तापसेन तपस्विना ॥
११७. सर्वराक्षसभर्तारं कामात् स्वयमिहागतम् ।
११८. न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥
११९. प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।
१२०. चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥
१२१. अङ्गुल्या न समो रामो मम युद्धे स मानुषः ।
१२२. तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥
१२३. एवमुक्ता तु वैदेही क्रुद्धा सम्रक्तलोचना ।
१२४. अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् ॥
१२५. कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।
१२६. भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥
१२७. अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
१२८. येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥
१२९. सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
१३०. हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥
१३१. स परिव्राजकच्छद्म महाकायो विहाय तत् ।
१३२. प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ॥
१३३. सम्रक्तनयनः क्रोधात् जीमूतनिचयप्रभः ।
१३४. स तामसितकेशान्तां भास्करस्य प्रभामिव ।
१३५. वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ॥
१३६. नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ।
१३७. उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
१३८. आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥
१३९. त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।
१४०. मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥
१४१. राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
१४२. कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि ॥
१४३. इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
१४४. जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥
१४५. सा गृहीता विचुक्रोश रावणेन यशस्विनी ।
१४६. रामेति सीता दुःखार्ता रामं दूरगतं वने ॥
१४७. तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।
१४८. विवेष्टमानामादाय उत्पपाताथ रावणः ॥
१४९. ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।
१५०. भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥
१५१. जीवितं सुखमर्थाम्श्च धर्महेतोः परित्यजन् ।
१५२. ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥
१५३. न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
१५४. कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥
१५५. हन्तेदानीं सकामास्तु कैकेयी सह बान्धवैः ।
१५६. ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ॥
१५७. आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ।
१५८. क्षिप्रं रामाय शम्सध्वं सीतां हरति रावणः ॥
१५९. माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ।
१६०. क्षिप्रं रामाय शम्स त्वं सीतां हरति रावणः ॥
१६१. हम्सकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ।
१६२. क्षिप्रं रामाय शम्स त्वं सीतां हरति रावणः ॥
१६३. सा तदा करुणा वाचो विलपन्ती सुदुःखिता ।
१६४. वनस्पतिगतं गृध्रं ददर्शायतलोचना ॥
१६५. सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ।
१६६. समाक्रन्दत् भयपरा दुःखोपहतया गिरा ॥
१६७. जटायो पश्य मामार्य ह्रियमाणामनाथवत् ।
१६८. अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥
१६९. रामाय तु यथातत्त्वं जटायो हरणं मम ।
१७०. लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥
१७१. तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
१७२. निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥
१७३. दशग्रीव स्थितो धर्मे पुराणे सत्यसम्श्रयः ।
१७४. जटायुर्नाम नांनाहं गृध्रराजो महाबलः ॥
१७५. राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
१७६. लोकानां च हिते युक्तो रामो दशरथात्मजः ॥
१७७. तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।
१७८. सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥
१७९. कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
१८०. रक्षणीया विशेषेण राजदारा महाबल ॥
१८१. निवर्तय मतिं नीचां परदाराभिमर्षनात् ।
१८२. यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥
१८३. विषये वा पुरे वा ते यदा रामो महाबलः ।
१८४. नापराद्ध्यति धर्मात्मा कथं तस्यापराद्ध्यसि ॥
१८५. स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।
१८६. तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥
१८७. यत्कृत्वा न भवेत् धर्मो न कीर्तिर्न यशो भुवि ।
१८८. शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥
१८९. वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी ।
१९०. तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥
१९१. तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ।
१९२. वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥
१९३. इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।
१९४. क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥
१९५. ततो नालीकनाराचैः तीक्ष्णाग्रैश्च विकर्णिभिः ।
१९६. अभ्यवर्षन् महाघोरैः गृध्रराजं महाबलः ॥
१९७. स तानि शरजालानि गृध्रः पत्ररथेश्वरः ।
१९८. जटायुः प्रतिजग्राह रावणास्त्राणि सम्युगे ॥
१९९. शरैरावारितस्तस्य सम्युगे पतगेश्वरः ।
२००. कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा ॥
२०१. स तानि शरवर्षाणि पक्षाभ्यां च विधूय सः ।
२०२. चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥
२०३. काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् ।
२०४. ताम्श्चास्य जवसम्पन्नान् जघान समरे बली ॥
२०५. वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् ।
२०६. मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥
२०७. पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह ।
२०८. पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥
२०९. सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः ।
२१०. पुनर्व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥
२११. स भग्नधन्वा विरथो हताश्वो हतसारथिः ।
२१२. अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥
२१३. परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् ।
२१४. उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥
२१५. तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् ।
२१६. समावार्य महातेजा जटायुरिदमब्रवीत् ॥
२१७. बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ।
२१८. वधाय बडिशं गृह्य सामिषं जलजो यथा ॥
२१९. यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।
२२०. तस्कराचरितो मार्गो नैष वीर निषेवितः ॥
२२१. युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण ।
२२२. शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥
२२३. एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ।
२२४. निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥
२२५. ततः क्रोधात् दशग्रीवः सीतामुत्सृज्य रावणः ।
२२६. मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥
२२७. ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः ।
२२८. राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥
२२९. तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ।
२३०. पक्षौ पार्श्वौ च पादौ च खड्गमुद्धृत्य सोऽच्छिनत् ॥
२३१. स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा ।
२३२. निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥
२३३. तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ।
२३४. अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥
२३५. आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा ।
२३६. विललाप सुदुःखार्ता सीता शशिनिभानना ॥
२३७. नूनं राम न जानासि महद्व्यसनमात्मनः ।
२३८. अयं हि पापचारेण मां त्रातुमभिसङ्गतः ।
२३९. शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः ॥
२४०. त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।
२४१. सुसन्त्रस्ता समाक्रन्दत् शृण्वतां तु यथान्तिके ॥
२४२. तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ।
२४३. अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥
२४४. क्रोशन्तीं राम रामेति रामेण रहितां वने ।
२४५. जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ॥
२४६. स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च ।
२४७. जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥
२४८. तरुप्रवालरक्ता सा नीलाङ्गं रक्षसेश्वरम् ।
२४९. प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥
२५०. तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ।
२५१. बभौ सचपलो नीलः सघोष इव तोयदः ॥
२५२. उत्पन्नवाताभिहता नानाद्विजगणायुताः ।
२५३. मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥
२५४. नलिन्यो ध्वस्तकमलाः त्रस्तमीनजलेचराः ।
२५५. सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम् ॥
२५६. समन्तादभिसम्पत्य सिम्हव्याघ्रमृगद्विजाः ।
२५७. अभ्यधावन् तदा रोषात् सीतां छायानुगामिनः ॥
२५८. जलप्रपाताश्रुमुखाः शृङ्गैरुच्छ्रितबाहुभिः ।
२५९. सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥
२६०. वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ।
२६१. उद्वीक्ष्योद्वीक्ष्य नयनैः आस्रपाताविलेक्षणाः ॥
२६२. दुःखिता परमोद्विग्ना भये महति वर्तिनी ।
२६३. रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।
२६४. रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥
२६५. न व्यपत्रपसे नीच कर्मणानेन रावण ।
२६६. ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥
२६७. त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।
२६८. ममापवाहितो भर्ता मृगरूपेण मायया ॥
२६९. यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ।
२७०. गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥
२७१. धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवान्स्तदा ।
२७२. कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥
२७३. न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।
२७४. ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥
२७५. येन त्वं व्यवसायेन बलान् मां हर्तुमिच्छसि ।
२७६. व्यवसायः स ते नीच भविष्यति निरर्थकः ॥
२७७. न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ।
२७८. उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ॥
२७९. न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ।
२८०. धरितुं शक्यसि चिरं विषं पीत्वेव निर्घृणः ॥
२८१. एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।
२८२. भयशोकसमाविष्टा करुणं विललाप ह ॥
२८३. ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।
२८४. ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥
२८५. तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
२८६. उत्तरीयं वरारोहा शुभान्याभरणानि च ।
२८७. मुमोच यदि रामाय शम्सेयुरिति मैथिली ॥
२८८. वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ।
२८९. सम्भ्रमात्तु दशग्रीवः तत्कर्म न स बुद्धवान् ॥
२९०. पिङ्गाक्षाः तां विशालाक्षीं नेत्रैरनिमिषैरिव ।
२९१. विक्रोशन्तीं तथा सीतां ददृशुः वानरर्षभाः ॥
२९२. तां जहार सुसम्हृष्टो रावणो मृत्युमात्मनः ।
२९३. उत्सङ्गेनैव भुजगीं तीक्ष्णदम्ष्‍ट्रां महाविषाम् ॥
२९४. वनानि सरितः शैलान् सराम्सि च विहायसा ।
२९५. स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥
२९६. सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ।
२९७. सम्रूढकक्ष्याबहुलं स्वमन्तह्पुरमाविशत् ॥
२९८. तत्र तामसितापाङ्गां शोकमोहपरायणाम् ।
२९९. निदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥
३००. अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ।
३०१. मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ।
३०२. यद्यदिच्छेत् तदेवास्या देयं मच्छन्दतो यथा ॥
३०३. या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ।
३०४. अज्ञानाद्यदि वा ज्ञानात् न तस्या जीवितं प्रियम् ॥
३०५. तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ।
३०६. आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यममन्यत ॥
३०७. स चिन्तयानो वैदेहीं कामबाणसमर्पितः ।
३०८. प्रविवेश गृहं रम्यं सीतां द्रष्टुम्भित्वरन् ॥
३०९. स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः ।
३१०. अपश्यत् राक्षसीमध्ये सीतां शोकपरायणाम् ॥
३११. तां तु शोकपरां दीनामवशां राक्षसाधिपः ।
३१२. स बलाद् दर्शयामास गृहं देवगृहोपमम् ॥
३१३. दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् ।
३१४. सोपानं काञ्चनं चित्रमारुरोह तया सह ॥
३१५. दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः ।
३१६. हेमजालावृताश्चासन् तत्र प्रासादपङ्क्तयः ॥
३१७. सुधामणिविचत्राणि भूमिभागानि सर्वशः ।
३१८. दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥
३१९. दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् ।
३२०. उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छता ॥
३२१. दश राक्षसकोट्यश्च द्वाविंशतिरथापराः ।
३२२. तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥
३२३. यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् ।
३२४. जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥
३२५. बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः ।
३२६. तासां त्वमीश्वरा सीते मम भार्या भव प्रिये ॥
३२७. यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह ॥
३२८. न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु ।
३२९. अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥
३३०. राज्यभ्रष्टेन दीनेन तापसेन गतायुषा ।
३३१. किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥
३३२. दर्शने मा कृथा बुद्धिं राघवस्य वरानने ।
३३३. कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥
३३४. न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः ।
३३५. दीप्यमानस्य वाप्यग्नेः ग्रहीतुं विमलां शिखाम् ॥
३३६. लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ।
३३७. त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः ॥
३३८. अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ॥
३३९. दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ।
३४०. यश्च ते सुकृतो धर्मः तस्येह फलमाप्नुहि ॥
३४१. पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ।
३४२. विमानं सूर्यसङ्काशं तरसा निर्जितं मया ॥
३४३. विशालं रमणीयं च तद्विमानमनुत्तमम् ।
३४४. तत्र सीते मया सार्धं विहरस्व यथासुखम् ॥
३४५. वदनं पद्मसङ्काशं विमलं चारुदर्शनम् ।
३४६. शोकार्तं तु वरारोहे न भ्राजति वरानने ॥
३४७. एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ।
३४८. पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ॥
३४९. ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम् ।
३५०. उवाच वचनं पापो रावणो राक्षसेश्वरः ॥
३५१. अलं व्रीडेन वैदेहि धर्मलोपकृतेन च ।
३५२. आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति ॥
३५३. एतौ पादौ महास्निग्धौ शिरोभिः परिपीडितौ ।
३५४. प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ॥
३५५. इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ।
३५६. न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ॥
३५७. एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ।
३५८. कृतान्तवशमापन्नः ममेयमिति मन्यते ॥
३५९. सा तथोक्ता तु वैदेही निर्भया शोककर्शिता ।
३६०. तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥
३६१. यदा विनाशो भूतानां दृश्यते कालचोदितः ।
३६२. तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥
३६३. मां प्रधृश्य स ते कालः प्राप्तोऽयं राक्षसाधम ।
३६४. आत्मनो राक्षसानां च वधायान्तह्पुरस्य च ॥
३६५. यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा ।
३६६. रक्षः त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥
३६७. स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।
३६८. अपनेष्यति गात्रेभ्यः शरवर्षेण सम्युगे ॥
३६९. न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता ।
३७०. द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम् ॥
३७१. तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता ।
३७२. त्वया स्प्रष्टुं न शक्यास्मि राक्षसाधम पापिना ॥
३७३. क्रीडन्ती राजहम्सेन पद्मषण्डेषु नित्यदा ।
३७४. हम्सी सा तृणमध्यस्थं कथं पश्येत मद्गुकम् ॥
३७५. इदं शरीरं निस्सञ्ज्ञं बन्ध वा खादयस्व वा ।
३७६. नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ।
३७७. न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ॥
३७८. एवमुक्त्वा तु वैदेही क्रोधात् सुपुरुषं वचः ।
३७९. रावणं मैथिली तत्र पुनर्नोवाच किञ्चन ॥
३८०. सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।
३८१. प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः ॥
३८२. श्रुणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि ।
३८३. कालेनानेन नाभ्येषि यदि मां चारुहासिनि ।
३८४. ततस्त्वं प्रातराशार्थं सूदाः छेत्स्यन्ति लेशशः ॥
३८५. इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।
३८६. राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ।
३८७. प्रचाल्य चरणोत्कर्षैः चालयन्निव मेदिनीम् ॥
३८८. अशोकवनिकामध्ये मैथिली नीयतामियम् ।
३८९. तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥
३९०. तत्रैवान्तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ।
३९१. आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥
३९२. इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।
३९३. अशोकवनिकां जग्मुः मैथिलीं प्रतिगृह्य तु ।
३९४. सर्वकालफलैर्वृक्षैः नानापुष्पफलैर्वृताम् ।
३९५. सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥
३९६. सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ।
३९७. न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥
३९८. न विन्दते तत्र तु शर्म मैथिली
३९९. विरूपनेत्राभिरतीव तर्जिता ।
४००. पतिं स्मरन्ती दयितं च दैवतम्
४०१. विचेतनाभूत् भयशोकपीडिता ॥