१. ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश ।
२. हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।
३. दूषणं च खरं चैव हतं त्रिशिरसा सह ।
४. जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥
५. सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।
६. उपोपविष्टं सचिवैः मरुद्भिरिव वासवम् ॥
७. आसीनं सूर्यसङ्काशे काञ्चने परमासने ।
८. रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ।
९. देवगन्धर्वभूतानां ऋषीणां च महात्मनाम् ।
१०. अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ।
११. देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।
१२. विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।
१३. विशालवक्षसं वीरं राजलक्षणशोभितम् ।
१४. स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् ।
१५. क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् ।
१६. उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।
१७. सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।
१८. अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते ।
१९. कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।
२०. अभिगम्याब्रवीत् वाक्यं राक्षसी भयविह्वला ॥
२१. प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः ।
२२. समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ॥
२३. येषां चारश्च कोशश्च नयश्च जयतां वर ।
२४. अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥
२५. अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् ।
२६. स्वजनं तु जनस्थानं हतं यो नावबुद्ध्यसे ॥
२७. चतुर्दशसहस्राणि रक्षसां क्रूरकर्मणाम् ।
२८. हतान्येकेन रामेण खरश्च सहदूषणः ॥
२९. ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।
३०. धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥
३१. अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
३२. कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥
३३. नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा ।
३४. व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥
३५. त्वं तु रावण दुर्बुद्धिः गुणैरेतैर्विवर्जितः ।
३६. यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः ॥
३७. इति स्वदोषान् परिकीर्तितान्स्तया
३८. समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ।
३९. धनेन दर्पेण बलेन चान्वितो
४०. विचिन्तयामास चिरं स रावणः ॥
४१. ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः ।
४२. अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ॥
४३. कश्च रामः कथम्वीर्यः किम्रूपः किम्पराक्रमः ।
४४. किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥
४५. आयुधं किञ्च रामस्य निहता येन राक्षसाः ।
४६. खरश्च निहतः सङ्ख्ये दूषणः त्रिशिरास्तथा ॥
४७. इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ।
४८. ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥
४९. दीर्घबाहुर्विशालाक्षः चीरकृष्णाजिनाम्बरः ।
५०. कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥
५१. शक्रचापनिभं चापं विकृश्य कनकाङ्गदम् ।
५२. दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ॥
५३. रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।
५४. निहतानि शरैस्तीक्ष्णैः तेनैकेन पदातिना ।
५५. अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ॥
५६. ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥
५७. भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।
५८. अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥
५९. अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
६०. रामस्य दक्षिणो बाहुः नित्यं प्राणो बहिश्चरः ॥
६१. रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ।
६२. धर्मपत्नी प्रिया भर्तुः नित्यं प्रियहिते रता ।
६३. सीता नाम वरारोहा वैदेही तनुमध्यमा ॥
६४. नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
६५. नैवं रूपा मया नारी दृष्टपूर्वा महीतले ॥
६६. यस्य सीता भवेत् भार्या यं च हृष्टा परिष्वजेत् ।
६७. अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥
६८. सा सुशीला वपुह्श्लाघ्या रूपेणाप्रतिमा भुवि ।
६९. तवानुरूपा भार्या स्यात् त्वं च तस्यास्तथा पतिः ॥
७०. तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।
७१. भार्यार्थे च तवानेतुं उद्यताहं वराननाम् ॥
७२. विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज ॥
७३. तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।
७४. मन्मथस्य शराणां वै त्वं विधाता भविष्यसि ॥
७५. यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।
७६. विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ॥
७७. कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।
७८. वधात्तस्य नृशम्सस्य रामस्याश्रमवासिनः ॥
७९. तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ।
८०. हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ॥
८१. रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ।
८२. क्रियतां निर्विशङ्केन वचनं मम रावण ॥
८३. ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
८४. सचिवानभ्यनुज्ञाय कार्य्यं बुद्ध्वा जगाम सः ॥
८५. तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
८६. दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।
८७. इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
८८. काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।
८९. मेघप्रतिमनादेन स तेन धनदानुजः ।
९०. राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥
९१. स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
९२. मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ।
९३. तं स्वयं पूजयित्वा तु आसनेनोदकेनच ।
९४. अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥
९५. कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर ।
९६. आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥
९७. एवमुक्तो महातेजा मारीचेन स रावणः ।
९८. तं तु पश्चादिदं वाक्यमब्रवीत् वाक्यकोविदः ॥
९९. मारीच श्रूयतां तात वचनं मम भाषतः ।
१००. आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ॥
१०१. आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।
१०२. जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ॥
१०३. चतुर्दशसहस्राणि रक्षसामुग्रतेजसाम् ।
१०४. निहतानि शरैस्तीक्ष्णैः मानुषेण पदातिना ॥
१०५. खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः ।
१०६. हतश्च त्रिशिराश्चापि निर्भयाः दण्डकाः कृताः ॥
१०७. पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।
१०८. स हन्ता तस्य सैन्यस्य रामः क्षत्रियपाम्सनः ॥
१०९. दुह्शीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ।
११०. त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥
१११. येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ।
११२. कर्णनासापहरणात् भगिनी मे विरूपिता ॥
११३. तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् ।
११४. आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥
११५. त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ।
११६. भ्रातृभिश्च सुरान् युद्धे समग्रान् नाभिचिन्तये ॥
११७. उपायज्ञो महान् शूरः सर्वमायाविशारदः ।
११८. वीर्ये युद्धे च दर्पे च नह्यस्ति सदृशस्तव ॥
११९. तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।
१२०. शुष्कं समभवत् वक्त्रं परित्रस्तो बभूव ह ॥
१२१. ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिशैरिव ।
१२२. मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥
१२३. स रावणं त्रस्तविषण्णचेता
१२४. महावने रामपराक्रमज्ञः ।
१२५. कृताञ्जलिस्तत्त्वमुवाच वाक्यम्
१२६. हितं च तस्मै हितमात्मनश्च ॥
१२७. सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।
१२८. अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
१२९. आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।
१३०. त्वया राक्षसशार्दूल को न नन्दति निन्दितः ॥
१३१. अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम् ।
१३२. अपि रामो न सङ्क्रुद्धो कुर्याल्लोकमराक्षसम् ॥
१३३. अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।
१३४. अपि सीतानिमित्तं च न भवेद् व्यसनं मम ॥
१३५. अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।
१३६. न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥
१३७. त्वद्विधः कामवृत्तो हि दुह्शीलः पापमन्त्रितः ।
१३८. आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥
१३९. रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ।
१४०. राजा सर्वस्य लोकस्य देवानां मघवानिव ॥
१४१. कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
१४२. इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥
१४३. कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् ।
१४४. व्यचरन् दण्डकारण्ये ऋषिमाम्सानि भक्षयन् ।
१४५. (विश्वामित्राश्रमे) वेदिमभ्यधावं कृतत्वरः ॥
१४६. अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ।
१४७. एकवस्त्रधरो धन्वी शिखी कनकमालया ।
१४८. अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥
१४९. मां तु दृष्ट्वा धनुः सज्यं असम्भ्रान्तश्चकार सः ।
॥
१५०. तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ॥
१५१. तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने ।
१५२. प्राप्य सञ्ज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ॥
१५३. एवमस्मि तदा मुक्तः (तन्निबोध निशाचर) ।
१५४. अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ॥
१५५. वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
१५६. गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ॥
१५७. अपि रामसहस्राणि भीतः पश्यामि रावण ।
१५८. रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥
१५९. रकारादीनि नामानि रामत्रस्तस्य रावण ।
१६०. रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ॥
१६१. अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥
१६२. बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।
१६३. परेषामपराधेन विनष्टाः सपरिच्छदाः ॥
१६४. सोऽहं तवापराधेन विनश्येयं निशाचर ।
१६५. कुरु यत्ते क्षमं तत्वमहं त्वां नानुयामि ह ॥
१६६. तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।
१६७. करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥
१६८. जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
१६९. यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥
१७०. दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।
१७१. आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।
१७२. हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥
१७३. मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः ।
१७४. उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥
१७५. तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
१७६. अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ॥
१७७. सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
१७८. उद्यताञ्जलिना राज्ञे य इच्छेद् भूतिमात्मनः ॥
१७९. वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।
१८०. उपचारेण युक्तं च वक्तव्यं वसुधाधिपः ॥
१८१. त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
१८२. अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥
१८३. गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।
१८४. मयोक्तं तव चैतावत् सम्प्रत्यमितविक्रम ॥
१८५. सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
१८६. आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥
१८७. त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया ।
१८८. आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥
१८९. अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर ।
१९०. हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥
१९१. तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
१९२. अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥
१९३. अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
१९४. आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥
१९५. एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
१९६. राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥
१९७. न चेत् करोषि मारीच हन्मि त्वामहमद्य वै ।
१९८. एतत् कार्यमवश्यं मे बलादपि करिष्यसि ॥
१९९. राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥
२००. आज्ञप्तोऽराजवद् वाक्यं प्रतिकूलं निशाचरः ।
२०१. अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ॥
२०२. केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।
२०३. यस्त्वामिच्छन्ति नश्यन्तं स्वकृतेन निशाचर ॥
२०४. वध्याः खलु न हन्यन्ते सचिवास्तव रावण ।
२०५. ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥
२०६. अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
२०७. निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥
२०८. राजमूलो हि धर्मश्च जयश्च जयतां वर ।
२०९. तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥
२१०. अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
२११. येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥
२१२. तदिदं काकतालीयं घोरमापादितं मया ।
२१३. मां निहत्य तु रामश्च न चिरात् त्वां वधिष्यति ॥
२१४. अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ।
२१५. दर्शनादेव रामस्य हतं मामुपधारय ॥
२१६. आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया ।
२१७. नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः ॥
२१८. निवार्यमाणस्तु मया हितैषिणा
२१९. न मृष्यसे वाक्यमिदं निशाचर ।
२२०. परेतकल्पा हि गतायुषो नरा
२२१. हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥
२२२. एवमुक्त्वा तु वचनं मारीचो रावणं ततः ।
२२३. गच्छावेत्यब्रवीद्दीनो भयाद् रात्रिञ्चरप्रभोः ॥
२२४. न हि रामं पराक्रम्य जीवन् प्रतिनिवर्तते ।
२२५. किन्नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि ।
२२६. एष गछाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥
२२७. प्रहृष्टस्त्वभवत् तेन वचनेन स रावणः ।
२२८. परिष्वज्य सुसम्हृष्टमिदं वचनमब्रवीत् ॥
२२९. एतत् शौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् ।
२३०. इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥
२३१. ततो रावणमारीचौ विमानमिव तं रथम् ।
२३२. आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ॥
२३३. तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ।
२३४. गिरीन्श्च सरितः सर्वा राष्ट्राणि नगराणि च ॥
२३५. समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।
२३६. ददर्श सह मारीचो रावणो राक्षसाधिपः ॥
२३७. अवतीर्य रथात् तस्मात् मारीचो राक्षसस्तदा ।
२३८. (भव्यम्) रूपं समास्थाय महदद्भुतदर्शनम् ।
२३९. मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।
२४०. किञ्चिदभ्युन्नतग्रीवः इन्द्रनीलदलाधरः ।
२४१. विचरन् गच्छते तस्मात् शाद्वलानि समन्ततः ॥
२४२. रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः ।
२४३. विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह ॥
२४४. सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः ।
२४५. परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥
२४६. समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः ।
२४७. उपागम्य समाघ्राय विद्रवन्ति दिशो दश ॥
२४८. राक्षसः सोऽपि तान्वन्यान् मृगान् मृगवधे रतः ।
२४९. प्रच्छादनार्थं भावस्य न भक्षयति सम्स्पृशन् ॥
२५०. तस्मिन्नेव ततः काले वैदेही शुभलोचना ।
२५१. कुसुमापचयव्यग्रा पादपानभ्यवर्तत ॥
२५२. कर्णिकारानशोकान् च चूतान्श्च मदिरेक्षणा ।
२५३. कुसुमान्यपचिन्वन्ती चचार रुचिरानना ॥
२५४. अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् ।
२५५. मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥
२५६. सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् ।
२५७. विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥
२५८. स च तां रामदयितां पश्यन् मायामयो मृगः ।
२५९. विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ॥
२६०. सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।
२६१. हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।
२६२. भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥
२६३. तथाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।
२६४. वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥
२६५. शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
२६६. मृगो ह्येवम्विधो रत्नविचित्रो नास्ति राघव ।
२६७. जगत्यां जगतीनाथ मायैषा हि न संशयः ॥
२६८. एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।
२६९. उवाच सीता सम्हृष्टा चर्मणा हृतचेतना ॥
२७०. आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः ।
२७१. आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥
२७२. अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना ।
२७३. मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥
२७४. यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।
२७५. समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
२७६. अन्तह्पुरविभूषार्थो मृग एष भविष्यति ॥
२७७. भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
२७८. मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥
२७९. जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
२८०. अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥
२८१. तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा ।
२८२. तारुणादित्यवर्णेन नक्षत्रपथवर्चसा ।
२८३. बभूव राघवस्यापि मनो विस्मयमागतम् ॥
२८४. लोभितस्तेन रूपेण सीतया च प्रचोदितः ।
२८५. उवाच राघवो हृष्टो भ्रातरं लक्षणं वचः ॥
२८६. न वने नन्दनोद्देशे न चैत्ररथसम्श्रये ।
२८७. कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः ॥
२८८. प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।
२८९. शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥
२९०. पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।
२९१. जिह्वां मुखात् निस्सरन्तीं मेघादिव शतह्रदाम् ॥
२९२. एतस्य मृगरत्नस्य परार्घ्ये काञ्चनत्वचि ।
२९३. उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥
२९४. यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण ।
२९५. मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥
२९६. इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् ।
२९७. अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ॥
२९८. यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ।
२९९. अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥
३००. तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
३०१. बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥
३०२. तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।
३०३. अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ॥
३०४. दृश्यमानमदृश्यं च वनोद्देषेषु केषुचित् ।
३०५. छिन्नाभ्रैरिव सम्वीतं शारदं चन्द्रमण्डलम् ॥
३०६. मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते ।
३०७. दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् ।
३०८. सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥
३०९. आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।
३१०. अथावतस्थे सम्भ्रान्तः छायामाश्रित्य शाद्वले ॥
३११. स तमुन्मादयामास मृगरूपो निशाचरः ।
३१२. मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥
३१३. ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत ॥
३१४. दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।
३१५. सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ।
३१६. सन्धाय सुदृढे चापे विकृश्य बलवद् बली ।
३१७. मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ॥
३१८. शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
३१९. मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥
३२०. तालमात्रमथोत्प्लुत्य न्यपतत् स शरातुरः ।
३२१. विनदन् भैरवं नादं धरण्यामल्पजीवितः ॥
३२२. स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् ।
३२३. सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥
३२४. तेन मर्मणि निर्विद्धः शरेणानुपमेन च ।
३२५. मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ।
३२६. चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥
३२७. तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ।
३२८. रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले ।
३२९. जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥
३३०. हा सीते लक्ष्मणेत्येवं श्रुत्वा सीता कथं भवेत् ।
३३१. लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।
३३२. इति रामं भयं तीव्रमाविवेश विषादजम् ॥
३३३. त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥
३३४. आर्तस्वरं तु तं भर्तुः विज्ञाय सदृशं वने ।
३३५. उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥
३३६. न हि मे हृदयं स्थाने जीवितं वावतिष्ठति ।
३३७. क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥
३३८. आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।
३३९. तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥
३४०. रामं विना क्षणमपि नहि जीवामि भूतले ॥
३४१. न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ।
३४२. अब्रवील्लक्षमणस्त्रस्तां सीतां मृगवधूमिव ॥
३४३. पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ।
३४४. अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ॥
३४५. हृदयं निर्वृतं तेऽस्तु सन्तापस्त्यज्यतामयम् ।
३४६. आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥
३४७. कृतवैराश्च वैदेहि वयमेतैः निशाचरैः ।
३४८. खरस्य निधनादेव जनस्थानवधं प्रति ॥
३४९. राक्षसा विविधा वाचो विसृजन्ति महावने ।
३५०. हिम्साविहारा वैदेहि न चिन्तयितुमर्हसि ॥
३५१. न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।
३५२. रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥
३५३. लक्ष्मणेनैवमुक्ता सा क्रुद्धा सम्रक्तलोचना ।
३५४. अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥
३५५. सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ।
३५६. यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ॥
३५७. इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।
३५८. लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥
३५९. गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।
३६०. पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ॥
३६१. न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥
३६२. इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।
३६३. पाणिभ्यां रुदती दुःखात् उदरं प्रजघान ह ॥
३६४. इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।
३६५. अब्रवीलक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥
३६६. उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।
३६७. वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिली ॥
३६८. न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ।
३६९. श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसन्निभम् ॥
३७०. उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।
३७१. न्यायवादी यथान्यायमुक्तोऽहं परुषं त्वया ॥
३७२. गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ।
३७३. रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥
३७४. ततस्तु सीतामभिवाद्य लक्ष्मणह्
३७५. कृताञ्जलिः किञ्चिदभिप्रणम्य च ।
३७६. अन्वीक्षमाणो बहुशश्च मैथिलीम्
३७७. जगाम रामस्य समीपमात्मवान् ॥