१. अथ पञ्चवटीं गच्छन् अन्तरा रघुनन्दनः ।
२. आससाद महाकायं गृध्रं भीमपराक्रमम् ॥
३. तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ ।
४. मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥
५. स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ।
६. उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥
७. जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ।
८. सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ॥
९. इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् ।
१०. सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥
११. जटायुषं तं प्रतिपूज्य राघवो
१२. मुदा परिष्वज्य च सन्नतोऽभवत् ।
१३. पितुर्हि शुश्राव सखित्वमात्मवान्
१४. जटायुषा सङ्कथितं पुनः पुनः ॥
१५. ततः पञ्चवटिं गत्वा नानाव्यालमृगायुताम् ।
१६. उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥
१७. आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।
१८. अयं पञ्चवटीदेशः सौम्य पुष्पितकाननः ॥
१९. सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ।
२०. आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥
२१. रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ।
२२. तादृशो दृश्यतां देशो सन्निकृष्टजलाशयः ॥
२३. वनरामण्यकं यत्र स्थलरामण्यकं तथा ।
२४. सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ॥
२५. एवमुक्तस्तु रामेण लक्ष्मणः सम्यताञ्जलिः ।
२६. सीतासमक्षं काकुत्स्थं इदं वचनमब्रवीत् ॥
२७. परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।
२८. स्वयं तु रुचिरे देशे क्रियतां इति मां वद ॥
२९. सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः ।
३०. विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥
३१. स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।
३२. हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥
३३. अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः ।
३४. इहाश्रमपदं सौम्य यथावत् कर्तुमर्हसि ॥
३५. यथाख्यातमगस्त्येन मुनिना भावितात्मना ।
३६. इयं गोदावरी रम्या पद्मिनी पद्मशोभिता ॥
३७. नातिदूरेण चासन्ने मृगयूथनिपीडिताः ।
३८. मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ।
३९. दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृता ॥
४०. सालैस्तालैः तमालैश्च खर्जूरपनसाम्रकैः ।
४१. निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ।
४२. चूतैरशोकैस्तिलकैः चम्पकैः केतकैरपि ।
४३. चन्दनैः स्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि ।
४४. धवाश्वकर्णखदिरैः शमीकिम्शुकपाटलैः ॥
४५. इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ।
४६. इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥
४७. एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
४८. पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम् ।
४९. सुस्तम्भां मस्करैर्दीर्घैः कृतवम्शां सुशोभनाम् ।
५०. शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ।
५१. कुशकाशशरैः पर्णैः सुपरिच्छादितां तदा ।
५२. समीकृततलां रम्यां चकार लघुविक्रमः ।
५३. निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥
५४. ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि ।
५५. दर्शयामास रामाय तदाश्रमपदं कृतम् ॥
५६. स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया ।
५७. राघवः पर्णशालयां हर्षमाहारयद् भृशम् ॥
५८. सुसम्हृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।
५९. अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥
६०. प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।
६१. प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥
६२. भावज्ञेन कृतज्ञेअ धर्मज्ञेन च लक्ष्मण ।
६३. त्वया पुत्रेण धर्मात्मा न सम्वृत्तः पिता मम ॥
६४. एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ।
६५. तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ॥
६६. वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
६७. शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तत ॥
६८. स कदाचित् प्रभातायां शर्वर्यां रघुनन्दनः ।
६९. प्रययौ अभिषेकार्थं रम्यां गोदावरीं नदीम् ॥
७०. प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।
७१. पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ॥
७२. अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियम्वद ।
७३. नीहारपरुषो लोकः पृथिवी सस्यशालिनी ।
७४. जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥
७५. प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः ।
७६. विचरन्ति महीपाला यात्रास्था विजगीषवः ॥
७७. सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् ।
७८. विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते ॥
७९. मृदुसूर्याः सनीहाराः पटुशीताः समारुताः ।
८०. शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥
८१. निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ।
८२. शीता वृद्धतरायामाः त्रियामा यान्ति साम्प्रतम् ॥
८३. रविसङ्क्रान्तसौभाग्यः तुषारारुणमण्डलः ।
८४. निश्वासान्ध इवादर्शः चन्द्रमा न प्रकाशते ॥
८५. ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते ।
८६. सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥
८७. मयूखैरुपसर्पद्भिः हिमनीहारसम्वृतैः ।
८८. दूरमभ्युदितः सूर्यः शशाङ्क इव दृश्यते ॥
८९. स्पृशन्स्तु विपुलं शीतमुदकं द्विरदः सुखम् ।
९०. अत्यन्ततृषितो वन्यः प्रतिसम्हरते करम् ॥
९१. एते हि समुपासीना विहगा जलचारिणः ।
९२. न विगाहन्ति सलिलं अप्रगल्भा इवाहवम् ॥
९३. अवश्यायतमोनद्धा नीहारतमसावृताः ।
९४. प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥
९५. बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः ।
९६. हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥
९७. अस्मिन्स्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ।
९८. तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥
९९. त्यक्त्वा राज्यं च मानं च भोगान्श्च विविधान् बहून् ।
१००. तपस्वी नियताहारः शेते शीते महीतले ॥
१०१. सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।
१०२. वृतः प्रकृतिभिः नित्यं प्रयाति सरयूनदीम् ॥
१०३. अत्यन्तसुखसम्वृद्धः सुकुमारः सुखोचितः ।
१०४. कथं न्वपररात्रेषु सरयूमवगाहते ॥
१०५. धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ।
१०६. प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः ।
१०७. सन्त्यज्य विविधान् भोगान् आर्यं सर्वात्मना श्रितः ॥
१०८. जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।
१०९. वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥
११०. न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
१११. ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
११२. भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ।
११३. कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिनी ॥
११४. इत्येवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके ।
११५. परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत् ॥
११६. न तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन ।
११७. तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥
११८. निश्चितापि हि मे बुद्धिः वनवासे दृढव्रता ।
११९. भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः ॥
१२०. सम्स्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ।
१२१. हृद्यान्यमृतकल्पानि मनह्प्रह्लादनानि च ॥
१२२. कदान्वहं समेष्यामि भरतेन महात्मना ।
१२३. शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥
१२४. इत्येवं विलपन्स्तत्र प्राप्य गोदावरीं नदीम् ।
१२५. चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥
१२६. कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
१२७. तस्मात् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम् ॥
१२८. आश्रमं तमुपागम्य राघवः सहलक्ष्मणः ।
१२९. कृत्वा पौर्वाह्निकं कर्म पर्णशालामुपागमत् ॥
१३०. तं देशं राक्षसी काचित् आजगाम यदृच्छया ।
१३१. सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।
१३२. भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥
१३३. आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ।
१३४. सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ।
१३५. राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।
१३६. बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥
१३७. सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
१३८. विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ।
१३९. प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वना ।
१४०. तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ।
१४१. न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
१४२. शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥
१४३. जटी तापसरूपेण सभार्यः शरचापधृत् ।
१४४. आगतस्त्वमिमं देशं कथं राक्षससेवितम् ।
१४५. किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥
१४६. एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः ।
१४७. ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥
१४८. आसीद् दशरथो नाम राजा त्रिदशविक्रमः ।
१४९. तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥
१५०. भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः ।
१५१. इयं भार्या च वैदेही मम सीतेति विश्रुता ॥
१५२. नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ।
१५३. धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः ॥
१५४. त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ।
१५५. इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः ॥
१५६. साब्रवीत् वचनं श्रुत्वा राक्षसी मदनार्दिता ।
१५७. अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
१५८. रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः ।
१५९. प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥
१६०. अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी ।
१६१. चिराय भव मे भर्ता सीतया किं करिष्यसि ॥
१६२. विकृता च विरूपा च न चेयं सदृशी तव ।
१६३. अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥
१६४. ततः पर्वतशृङ्गाणि वनानि विविधानि च ।
१६५. पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ॥
१६६. ततः शूर्पणखां रामः कामपाशावपाशिताम् ।
१६७. स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥
१६८. कृतदारोऽस्मि भवति भार्येयं दयिता मम ।
१६९. त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥
१७०. अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः ।
१७१. श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥
१७२. एनं भज विशालाक्षि भर्तारं भ्रातरं मम ।
१७३. इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।
१७४. विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥
१७५. अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।
१७६. मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥
१७७. ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ।
१७८. कथं दासस्य मे दासी भार्या भवितुमिच्छसि ॥
१७९. सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि ।
१८०. समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनि ।
१८१. आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥
१८२. को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि ।
१८३. मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः ॥
१८४. इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।
१८५. मन्यते तद्वचः तथ्यं परिहासाविचक्षणा ॥
१८६. सा रामं पर्णशालायामुपविष्टं परन्तपम् ।
१८७. सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥
१८८. एनां विरूपामसतीं करालां निर्णतोदरीम् ।
१८९. वृद्धां भार्यामवष्टभ्य मां न त्वं बहु मन्यसे ॥
१९०. अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ।
१९१. त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥
१९२. इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा ।
१९३. अभ्यधावत् सुसङ्क्रुद्धा महोल्का रोहिणीमिव ॥
१९४. तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ।
१९५. निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥
१९६. क्रूरैरनार्यैः सौमित्रे परिहासः कथञ्चन ।
१९७. न कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम् ॥
१९८. इमां विरूपामसतीमतिमत्तां महोदरीम् ।
१९९. राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥
२००. इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः ।
२०१. उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः ॥
२०२. विकृत्तकर्णनासा तु विस्वरं सा विनद्य च ।
२०३. यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥
२०४. ततस्तु सा राक्षससङ्घसम्वृतम्
२०५. खरं जनस्थानगतं विरूपिता ।
२०६. उपेत्य तं भ्रातरमुग्रदर्शनम्
२०७. पपात भूमौ गगनाद्यथाशनिः ॥
२०८. तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
२०९. भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥
२१०. उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
२११. व्यक्तमाख्याहि केन त्वमेवम्रूपा विरूपिता ॥
२१२. कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
२१३. तुदत्यभिसमापन्नमम्गुल्यग्रेण लीलया ॥
२१४. कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते ।
२१५. यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥
२१६. उपलभ्य शनैः सञ्ज्ञां तं मे शम्सितुमर्हसि ।
२१७. येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥
२१८. इति भ्रातुर्वचस्तस्य क्रुद्धस्य च विशेषतः ।
२१९. ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥
२२०. तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
२२१. पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।
२२२. फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
२२३. पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ।
२२४. गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
२२५. देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥
२२६. तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।
२२७. दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥
२२८. ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
२२९. इमामवस्थां नीताहं यथानाथासती तथा ॥
२३०. तस्याश्चानृजुवृत्तायाः तयोश्च हतयोरहम् ।
२३१. सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥
२३२. इति तस्यां ब्रुवाणायां चतुर्दशमहाबलान् ।
२३३. व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥
२३४. मानुषौ रूपसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।
२३५. प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥
२३६. तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ ।
२३७. इयं च रुधिरं तेषां भगिनी मम पास्यति ॥
२३८. इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
२३९. तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥
२४०. ते रामं पर्णशालायामुपविष्टं महाबलम् ।
२४१. ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥
२४२. तान् दृष्ट्वा राघवश्चापं चामीकरविभूषितम् ।
२४३. चकार सज्यं धर्मात्मा तानि रक्षाम्सि चाब्रवीत् ॥
२४४. पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।
२४५. फलमूलाशनौ दान्तौ किमर्थमुपहिम्सथ ॥
२४६. युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे ।
२४७. ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥
२४८. तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।
२४९. यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥
२५०. तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
२५१. ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥
२५२. क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
२५३. त्वमेव हास्यसे प्राणान् अद्यास्माभिर्हतो युधि ॥
२५४. इत्येवमुक्त्वा सम्क्रुद्धा राक्षसास्ते चतुर्दश ।
२५५. चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥
२५६. तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ।
२५७. तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥
२५८. ततः पश्चात् महातेजा लक्ष्यानुद्दिश्य राक्षसान् ।
२५९. मुमोच राघवो बाणान् चतुर्दश शिलाशितान् ॥
२६०. ते भित्त्वा रक्षसां वेगात् वक्षाम्सि रुधिराप्लुताः ।
२६१. विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥
२६२. ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।
२६३. निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥
२६४. तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्छिता ।
२६५. उपगम्य खरं सा तु ससर्ज निनदं मुहुः ॥
२६६. विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥
२६७. प्रेषितास्ते त्वया वीर राक्षसास्ते चतुर्दश ।
२६८. ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।
२६९. समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥
२७०. तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान् ।
२७१. शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥
२७२. मयि ते यद्यनुक्रोशो यदि रक्षह्सु तेषु च ।
२७३. रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।
२७४. दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥
२७५. शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।
२७६. मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥
२७७. निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ।
२७८. अपयाहि जनस्थानात् त्वरितः सहबान्धवः ॥
२७९. एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।
२८०. अब्रवीद् दूषणं नाम (शूरम्) सेनापतिं तदा ॥
२८१. चतुर्दशसहस्राणि मम चित्तानुवर्तिनाम् ।
२८२. रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ।
२८३. सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥
२८४. उपस्थापय मे क्षिप्रं रथं सौम्य धनूम्षि च ।
२८५. अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।
२८६. वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥
२८७. इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।
२८८. सदश्वैः शबलैः युक्तमाचचक्षेऽथ दूषणः ॥
२८९. ध्वजनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम् ।
२९०. सदश्वयुक्तं सामर्षादारुरोह खरो रथम् ॥
२९१. निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः ।
२९२. तस्थुः सम्परिवार्यैनं दूषणं च महाबलम् ॥
२९३. ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् ।
२९४. निर्जगाम जनस्थानात् महानादं महाजवम् ॥
२९५. तस्मिन् याते जनस्थानात् अशिवं शोणितोदकम् ।
२९६. अभ्यवर्षन् महामेघस्तुमुलो गर्दभारुणः ॥
२९७. बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।
२९८. दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥
२९९. सम्लीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ।
३००. उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ॥
३०१. आश्रमं प्रतियाते तु खरे खरपराक्रमे ।
३०२. तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥
३०३. तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् ।
३०४. प्रजानामहितान् दृष्ट्वा (रामो) लक्ष्मणमब्रवीत् ॥
३०५. इमान् पश्य महाबाहो सर्वभूतापहारिणः ।
३०६. समुत्थितान् महोत्पातान् सम्हर्तुं सर्वराक्षसान् ॥
३०७. सम्प्रहारस्तु सुमहान् भविष्यति न संशयः ।
३०८. अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ।
३०९. सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् ॥
३१०. रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः ।
३११. आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥
३१२. अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
३१३. आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥
३१४. तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ।
३१५. गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम् ॥
३१६. त्वं हि शूरश्च बलवान् हन्यां ह्येतान् न संशयः ।
३१७. स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥
३१८. एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ।
३१९. शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥
३२०. तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।
३२१. हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥
३२२. स चापमुद्यम्य महच्छरान् आदाय वीर्यवान् ।
३२३. बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन् दिशः ॥
३२४. रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः ।
३२५. बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥
३२६. ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् ।
३२७. अनीकं यातुधानानां समन्तात् प्रत्यदृश्यत ॥
३२८. तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।
३२९. दुद्रुवुः यत्र निःशब्दं पृष्ठतो न व्यलोकयन् ॥
३३०. रामोऽपि चारयन् चक्षुः सर्वतो रणपण्डितः ।
३३१. ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥
३३२. ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
३३३. रामं नानाविधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥
३३४. मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः ।
३३५. राक्षसा समरे रामं निजघ्नू रोषतत्पराः ॥
३३६. तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।
३३७. प्रतिजग्राह विशिखैः नद्योघानिव सागरः ॥
३३८. स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।
३३९. बभूव रामः सन्ध्याभ्रैः दिवाकर इवावृतः ॥
३४०. ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः ।
३४१. ससर्ज विशिखान् बाणान् शतशोऽथ सहस्रशः ॥
३४२. स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।
३४३. सम्योजयत गान्धर्वं राक्षसेषु महाबलः ॥
३४४. ततः शरसहस्राणि निर्ययुः चापमण्डलात् ।
३४५. सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥
३४६. नाददानं शरान् घोरान् न मुञ्चन्तं शिलीमुखान् ।
३४७. विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥
३४८. युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।
३४९. युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥
३५०. निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।
३५१. तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥
३५२. रामस्य बाणाभिहतैः विचित्रैः शूलपट्टिशैः ।
३५३. विच्छिन्नैः समरे भूमिः विकीर्णाभूद् भयङ्करा ॥
३५४. अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।
३५५. खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥
३५६. तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ।
३५७. अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥
३५८. ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।
३५९. शरैरशनिकल्पैस्तं राघवं समवाकिरत् ॥
३६०. ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः ।
३६१. चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् ॥
३६२. हत्वा चाश्वान् शरैस्तीक्ष्णैः अर्धचन्द्रेण सारथेः ।
३६३. शिरो जहार तद्रक्षः त्रिभिर्विव्याध वक्षसि ॥
३६४. स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
३६५. जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥
३६६. तं महोरगसङ्काशं प्रगृह्य परिघं रणे ।
३६७. दूषणोऽभ्यद्रवद् रामं क्रूरकर्मा निशाचरः ॥
३६८. तस्याभिपतमानस्य दूषणस्य स राघवः ।
३६९. द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥
३७०. स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
३७१. विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥
३७२. तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
३७३. साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥
३७४. चतुर्दशसहराणि रक्षसां भीमकर्मणाम् ।
३७५. हतान्येकेन रामेण मानुषेण पदातिना ॥
३७६. तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।
३७७. राक्षसः त्रिशिराश्चैव रामश्च रिपुसूदनः ॥
(नियोजितो राक्षसेन खरेन स चमूपतिः ।
) ३७८. त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।
३७९. अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥
३८०. आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।
३८१. धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥
३८२. स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।
३८३. बभुवातीव बलिनोः सिम्हकुञ्जरयोरिव ॥
३८४. अमर्षी कुपितो रामः शरानाशीविषोपमान् ।
३८५. त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥
३८६. चतुर्भिः तुरगानस्य शरैः सन्नतपर्वभिः ।
३८७. न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥
३८८. अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।
३८९. ततो हतरथात् तस्मात् उत्पतन्तं निशाचरम् ।
३९०. बिभेद रामस्तं बाणैः हृदये सोऽभवज्जडः ॥
३९१. सायकैश्चाप्रमेयात्मा सामर्षः तस्य रक्षसः ।
३९२. शिराम्स्यपातयत् रामो वेगवद्भिः त्रिभिः शितैः ॥
३९३. स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।
३९४. न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः ॥
३९५. निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
३९६. ततः सूर्यनिकाशेन रथेन महता खरः ।
३९७. आससाद रणे रामं पतङ्ग इव पावकम् ॥
३९८. ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् ।
३९९. चकार समरे मार्गान् शरै रथगतः खरः ॥
४००. तं सिम्हमिव विक्रान्तं सिम्हविक्रान्तगामिनम् ।
४०१. दृष्ट्वा नोद्विजते रामः सिम्हः क्षुद्रमृगं यथा ॥
४०२. ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
४०३. खरः चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥
४०४. ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।
४०५. चकारान्ताय स रिपोः सज्यमन्यद् महद्धनुः ॥
४०६. सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।
४०७. वरं तद्धनुरुद्यम्य खरं समभिधावत ॥
४०८. ततः पश्चान् महातेजा नाराचान् भास्करोपमान् ।
४०९. जिघाम्सू राक्षसं क्रुद्धः त्रयोदश समाददे ॥
४१०. ततोऽस्य युगमेकेन चतुर्भिः चतुरो हयान् ।
४११. षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ।
४१२. त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।
४१३. द्वादशेन तु बाणेन खरस्य सशरं धनुः ।
४१४. छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
४१५. त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥
४१६. प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।
४१७. गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥
४१८. खरं तु विरथं रामो गदापाणिमवस्थितम् ।
४१९. मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥
४२०. उद्वेजनीयो भूतानां नृशम्सः पापकर्मकृत् ।
४२१. त्रयाणामपि लोकानां ईश्वरोऽपि न तिष्ठति ॥
४२२. वसतो दण्डकारण्ये तापसान् धर्मचारिणः ।
४२३. किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥
४२४. अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।
४२५. घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥
४२६. पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
४२७. अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥
४२८. ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।
४२९. तानद्य निहतः सङ्ख्ये ससैन्योऽनुगमिष्यसि ॥
४३०. एवमुक्तस्तु रामेण क्रुद्धः सम्रक्तलोचनः ।
४३१. प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः ॥
४३२. प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज ।
४३३. आत्मना कथमात्मानमप्रशस्यं प्रशम्ससि ॥
४३४. सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।
४३५. सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥
४३६. पर्याप्तोऽहं गदापाणिः हन्तुं प्राणान् रणे तव ।
४३७. त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥
४३८. इत्युक्त्वा परमक्रुद्धः तां गदां परमाङ्गदः ।
४३९. खरः चिक्षेप रामाय प्रदीप्तमशनिं यथा ॥
४४०. तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् ।
४४१. अन्तरिक्षगतां रामः चिच्छेद बहुधा शरैः ॥
४४२. ततः पावकसङ्काशं वधाय समरे शरम् ।
४४३. खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥
४४४. स तं दत्तं मघवता सुरराजेन धीमता ।
४४५. सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति ॥
४४६. स विमुक्तो महाबाणो निर्घातसमनिस्वनः ।
४४७. रामेण धनुरायम्य खरस्योरसि चापतत् ॥
४४८. स पपात खरो भूमौ दह्यमानः शराग्निना ।
४४९. रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः ॥
४५०. ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
४५१. प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥
४५२. तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
४५३. बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥