१. प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
२. ददर्श रामो दुर्धर्षः तापसाश्रममण्डलम् ॥
३. विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ।
४. समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ।
५. फलमूलाशनैर्दान्तैः चीरकृष्णाजिनाम्बरैः ।
६. सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ।
७. स दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम् ।
८. अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ॥
९. ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ।
१०. लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।
११. मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥
१२. रूपसम्हननं लक्ष्मीं सौकुमार्यं सुवेशताम् ।
१३. ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥
१४. मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ।
१५. निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥
१६. धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः ।
१७. पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥
१८. ते वयं भवता रक्ष्या भवद्विषयवासिनः ।
१९. नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥
२०. न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः ।
२१. रक्षितव्यास्त्वया शश्वद् गर्भभूतास्तपोधनाः ॥
२२. एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् ।
२३. अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥
२४. कृतातिथ्यो तु रामस्तु सूर्यस्योदयनं प्रति ।
२५. आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥
२६. सीतया सह काकुत्स्थः तस्मिन् घोरमृगायुते ।
२७. ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ।
२८. गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् ।
२९. वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।
३०. अवसज्यायसे शूले विनदन्तं महास्वनम् ॥
३१. स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।
३२. अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥
३३. स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।
३४. अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥
३५. अहं वनमिदं दुर्गं विराधो नाम राक्षसः ।
३६. चरामि सायुधो नित्यं ऋषिमाम्सानि भक्षयन् ॥
३७. इयं नारी वरारोहा मम भार्या भविष्यति ।
३८. युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥
३९. तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।
४०. अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥
४१. पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् ।
४२. मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ॥
४३. ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।
४४. अद्येदानीं सकामा सा या माता मम मध्यमा ॥
४५. परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।
४६. पितुर्वियोगात् सौमित्रे स्वराज्यहरणात्तथा ॥
४७. इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते ।
४८. अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥
४९. अनाथ इव भूतानां नाथस्त्वं वासवोपमः ।
५०. मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥
५१. राज्यकामे मम क्रोधो भरते यो बभूव ह ।
५२. तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥
५३. अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ।
५४. विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥
५५. स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।
५६. अभ्यद्रवत् सुसम्क्रुद्धः तदा रामं सलक्ष्मणम् ॥
५७. तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ ।
५८. तूर्णमापततस्तस्य तदा प्रहरतां बलात् ॥
५९. स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ ।
६०. अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥
६१. तावारोप्य ततः स्कन्धं राघवौ रजनीचरः ।
६२. विराधो निनदन् घोरं जगामाभिमुखो वनम् ॥
६३. ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
६४. उच्चैः स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥
६५. मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥
६६. तस्याः तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
६७. वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥
६८. तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह ।
६९. रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥
७०. स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः ।
७१. इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥
७२. हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै ।
७३. अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
७४. तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥
७५. तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात् ।
७६. इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥
७७. अप्यर्धयोजने तात महर्षिः सूर्यसन्निभः ।
७८. तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥
७९. अवटे चापि मां राम प्रक्षिप्य कुशली व्रज ।
८०. रक्षसां गतसत्त्वानां एष धर्मः सनातनः ॥
८१. एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ।
८२. बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥
८३. ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् ।
८४. अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥
८५. प्रहृष्ट रूपाविव रामलक्ष्मणौ
८६. विराधमुर्व्याः प्रदरे निहत्य तौ ।
८७. ननन्दतुर्वीतभयौ महावने
८८. शिलाभिरन्तर्दधतुश्च राक्षसम् ॥
८९. हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
९०. आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥
९१. तस्य पादौ च सम्गृह्य रामः सीता च लक्ष्मणः ।
९२. निषेदुः समनुज्ञाता लब्धवासा निमन्त्रिताः ॥
९३. (स रामं पुण्डरीकाक्षं सत्कृत्य भगवान् ऋषिः ।
९४. शरभङ्गो महाप्राज्ञः प्राञ्जलिर्वाक्यमब्रवीत् ॥)
९५. त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना ।
९६. समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ॥
९७. अक्षया नरशार्दूल मया लोका जिताः शुभाः ।
९८. ब्राह्म्याश्च नाकपृष्टाश्च प्रतिगृह्णीष्व मामकान् ॥
९९. एवमुक्तो नरव्याघ्रः राघवो वाक्यमब्रवीत् ।
१००. अहमेवाहरिष्यामि सर्वलोकान् महामुने ।
१०१. आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥
१०२. राघवेणैवमुक्तस्तु शरभङ्गोऽब्रवीद् वचः ।
१०३. इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः ।
१०४. वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ॥
१०५. सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।
१०६. रमणीये वनोद्देशे स ते वासं विधास्यति ॥
१०७. इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ।
१०८. एष पन्था नरव्याघ्र मुहूर्तं तात पश्य माम् ।
१०९. यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥
११०. ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित् ।
१११. शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥
११२. स च पावकसङ्काशः कुमारः समपद्यत ।
११३. स लोकानाहिताग्नीनां ऋषीणां च महात्मनाम् ।
११४. देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥
११५. शरभङ्गे दिवं याते मुनिसम्घाः समागताः ।
११६. अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥
११७. सर्वे ब्राह्म्या श्रिया जुष्टाः दृढयोगाश्च तापसाः ।
११८. ऊचुः परमधर्मज्ञं ऋषिसंघाः समाहिताः ॥
११९. त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ ।
१२०. प्रधानश्चासि नाथश्च देवानां मघवानिव ॥
१२१. विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
१२२. पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥
१२३. त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
१२४. अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥
१२५. सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।
१२६. त्वन्नाथोऽनाथवद् राम राक्षसैर्बाध्यते भृशम् ॥
१२७. एहि पश्य शरीराणां मुनीनां भावितात्मनाम् ।
१२८. हतानां राक्षसैर्घोरैः बहूनां बहुधा वने ॥
१२९. ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।
१३०. परिपालय नो राम वध्यमानान् निशाचरैः ॥
१३१. परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते ॥
१३२. एतच्छ्रुत्वा तु काकुत्स्थः तापसानां तपस्विनाम् ।
१३३. इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥
१३४. नैवमर्हथ मां वक्तुं आज्ञप्तोऽहं तपस्विनाम् ।
१३५. पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ।
१३६. भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ॥
१३७. तस्य मेऽयं वने वासो भविष्यति महाफलः ॥
१३८. दत्त्वाभयं चापि तपोधनानाम्
१३९. धर्मे धृतात्मा सह लक्ष्मणेन ।
१४०. तपोधनैश्चापि सभाज्यवृत्तह्
१४१. सुतीक्ष्णमेवाभिजगाम वीरः ॥
१४२. स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।
१४३. ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥
१४४. तत्र तापसमासीनं मलपङ्कजटाधरम् ।
१४५. रामः सुतीक्ष्णं विधिवत् तपोवृद्धमभाषत ॥
१४६. रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।
१४७. त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥
१४८. स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।
१४९. समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥
१५०. स्वागतं खलु ते वीर राम धर्मभृतां वर ।
१५१. आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥
१५२. चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।
१५३. अयमेवाश्रमो राम गुणवान् रम्यतामिह ॥
१५४. ऋषिसम्घानुचरितः सदा मूलफलान्वितः ।
१५५. इममाश्रममागम्य मृगसम्घा महायशः ।
१५६. अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ।
१५७. नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ॥
१५८. तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।
१५९. उवाच वचनं धीरो विकृष्य सशरं धनुः ॥
१६०. तानहं सुमहाभाग मृगसम्घान् समागतान् ।
१६१. हन्यां निशितधारेण शरेणाशनिवर्चसा ।
१६२. भवान्स्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः ॥
१६३. एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।
१६४. तमेवमुक्त्वा वरदं रामः सन्ध्यामुपागमत् ॥
१६५. रामस्तु सह सौमित्रिः सुतीक्ष्णेनाभिपूजितः ।
१६६. परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत ॥
१६७. उदयन्तं दिनकरं दृष्ट्वा विगतकल्मशः ।
१६८. सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रवीत् ॥
१६९. सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः ।
१७०. आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥
१७१. त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ।
१७२. ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥
१७३. अविषह्यातपो यावत् सूर्यो नातिविराजते ।
१७४. अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ।
१७५. तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ।
१७६. ववन्दे सहसौमित्रिः सीतया सह राघवः ॥
१७७. अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।
१७८. सीतया चानया सार्धं छाययेवानुवृत्तया ॥
१७९. गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।
१८०. आगन्तव्यं त्वया तात पुनरेवाश्रमं मम ॥
१८१. एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सह लक्ष्मणः ।
१८२. प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥
१८३. ततः शुभतरे तूणी धनुषी चायतेक्षणा ।
१८४. ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ॥
१८५. सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।
१८६. हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥
१८७. सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज ।
१८८. त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥
१८९. तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥
१९०. प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ।
१९१. ऋषीणां रक्षणार्थाय वधः सम्यति रक्षसाम् ॥
१९२. एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।
१९३. प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥
१९४. ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।
१९५. नहि मे रोचते वीर गमनं दण्डकान् प्रति ॥
१९६. त्वं हि बाणधनुष्पाणिः भ्रात्रा सह वनं गतः ।
१९७. दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् ॥
१९८. क्षत्रियाणां च हि धनुर्हुताशस्येन्धनानि च ।
१९९. समीपतः स्थितं तेजोबलमुच्छ्रियते भृशम् ॥
२००. पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः ।
२०१. कस्मिम्श्चिदभवत् पुण्ये वने रतमृगद्विजे ॥
२०२. तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ।
२०३. खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ॥
२०४. तस्मिम्स्तदाश्रमपदे निशितः खड्ग उत्तमः ।
२०५. स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥
२०६. स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ।
२०७. यत्र गच्छत्युपादातुं मूलानि च फलानि च ।
२०८. न विना याति तं खड्गं रक्षन् प्रत्ययमात्मनः ॥
२०९. नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः ।
२१०. चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥
२११. ततः स रौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः ।
२१२. तस्य शस्त्रस्य सम्वासात् जगाम नरकं मुनिः ॥
२१३. एवमेतत् पुरावृत्तं शस्त्रसम्योगकारणम् ।
२१४. अग्निसम्योगवद्धेतुः शस्त्रसम्योग उच्यते ॥
२१५. स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ॥
२१६. न कथञ्चन सा कार्या गृहीतधनुषा त्वया ।
२१७. बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् ।
२१८. अपराधं विना हन्तुं लोकान् वीर न कामये ॥
२१९. क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् ।
२२०. धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥
२२१. क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।
२२२. पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥
२२३. नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।
२२४. सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥
२२५. स्त्रीचापलादेतदुदाहृतं मे
२२६. धर्मं च वक्तुं तव कः समर्थः ।
२२७. विचार्य बुद्ध्या तु सहानुजेन
२२८. यद्रोचते तत्कुरु माचिरेण ॥
२२९. वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया ।
२३०. श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥
२३१. हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।
२३२. कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥
२३३. किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।
२३४. क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥
२३५. मां सीते स्वयमागम्य शरण्याः शरणं गताः ।
२३६. ते चार्ता दण्डकारण्ये मुनयः सम्शितव्रताः ॥
२३७. सर्वैरेतैः समागम्य वागियं समुदाहृता ।
२३८. राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।
२३९. अर्दिताः स्म दृढं राम भवान् नस्तत्र रक्षतु ॥
२४०. कामं तपह्प्रभावेन शक्ता हन्तुं निशाचरान् ।
२४१. चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥
२४२. मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ।
२४३. ऋषीणां दण्डकारण्ये सम्श्रुतं जनकात्मजे ॥
२४४. अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।
२४५. न तु प्रतिज्ञां सम्श्रुत्य ब्राह्मणेभ्यो विशेषतः ॥
२४६. तदवश्यं मया कार्यं ऋषीणां परिपालनम् ।
२४७. अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥
२४८. मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयानघे ।
२४९. परितुष्टोऽस्म्यहं सीते नह्यनिष्टोऽनुशास्यते ॥
२५०. इत्येवमुक्त्वा वचनं महात्मा
२५१. सीतां प्रियां मैथिलराजपुत्रीम् ।
२५२. रामो धनुष्मान् सह लक्ष्मणेन
२५३. जगाम रम्याणि तपोवनानि ॥
२५४. अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।
२५५. पृष्ठतस्तु धनुष्पाणिः लक्ष्मणोऽनुजगाम ह ॥
२५६. तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च ।
२५७. नदीश्च विविधा रम्या जग्मतुः सीतया सह ॥
२५८. ते गत्वा दूरमध्वानं (प्राप्ता) आश्रममण्डलम् ।
२५९. कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ॥
२६०. तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ।
२६१. उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।
२६२. जगाम चाश्रमाम्स्तेषां पर्यायेण तपस्विनाम् ।
२६३. येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ॥
२६४. क्वचित् परिदशान् मासानेकं सम्वत्सरं क्वचित् ।
२६५. त्रीन् मासानष्टमासाम्श्च राघवो न्यवसत् सुखम् ॥
२६६. तथा सम्वसतस्तस्य मुनीनामाश्रमेषु वै ।
२६७. रमतश्चानुकूल्येन ययुः सम्वत्सरा दश ॥
२६८. परिवृत्य च धर्मज्ञो राघवः सह सीतया ।
२६९. सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ॥
२७०. अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम् ।
२७१. उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥
२७२. अस्मिन्नरण्ये भगवन् अगस्त्यो मुनिसत्तमः ।
२७३. वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥
२७४. कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ।
२७५. अगस्त्यमभिगच्छेयं अभिवादयितुं मुनिम् ॥
२७६. इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।
२७७. सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥
२७८. योजनान्याश्रमादस्मात् तथा चत्वारि वै ततः ।
२७९. दक्षिणेन महान् श्रीमान् अगस्त्यभ्रातुराश्रमः ॥
२८०. तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ।
२८१. दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥
२८२. यदि बुद्दिः कृता द्रष्टुं अगस्त्यं तं महामुनिम् ।
२८३. अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥
२८४. इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।
२८५. प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥
२८६. सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।
२८७. इदं परमसम्हृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥
२८८. एतदेवाश्रमपदं नूनं तस्य महात्मनः ।
२८९. अगस्त्यस्य मुनेर्भ्रातुः दृश्यते पुण्यकर्मणः ॥
२९०. तत्र तत्र च दृश्यन्ते सम्क्षिप्ताः काष्ठसञ्चयाः ।
२९१. लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥
२९२. एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ।
२९३. पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥
२९४. विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः ।
२९५. पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ॥
२९६. एवं कथयमानस्य तस्य सौमित्रिणा सह ।
२९७. रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥
२९८. उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ।
२९९. प्रविवेशाश्रमपदं तंऋषिं सोऽभ्यवादयत् ॥
३००. सम्यक्प्रतिगृहीतश्च मुनिना तेन राघवः ।
३०१. न्यवसत् तां निशामेकां प्राश्य मूलफलानि च ॥
३०२. तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।
३०३. भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥
३०४. गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।
३०५. यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥
३०६. ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः ।
३०७. पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥
३०८. स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।
३०९. आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥
३१०. अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।
३११. निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।
३१२. दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ॥
३१३. मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
३१४. निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्धते ॥
३१५. एष लोकार्चितः साधुः हिते नित्यरतः सताम् ।
३१६. अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥
३१७. आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ।
३१८. निवेदयेह मां प्राप्तं ऋषये सीतया सह ॥
३१९. स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ।
३२०. अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥
३२१. राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।
३२२. रामः प्राप्तो मुनिं द्रष्टुं सीतया सह भार्यया ॥
३२३. लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।
३२४. अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥
३२५. ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् ।
३२६. द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥
३२७. ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।
३२८. वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥
३२९. दिष्ट्या रामः चिरस्याद्य द्रष्टुं मां समुपागतः ।
३३०. मनसा काम्क्षितं ह्यस्य मयाप्यागमनं प्रति ॥
३३१. प्रवेष्यतां समीपं मे सभार्यः सह लक्ष्मणः ॥
३३२. ततो निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।
३३३. क्वासौ रामो मुनिं द्रष्टुं एतु प्रविशतु स्वयम् ॥
३३४. प्रविवेश ततो रामः सीतया सह लक्ष्मणः ।
३३५. प्रशान्तहरिणाकीर्णं आश्रमं ह्यवलोकयन् ॥
३३६. ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ।
३३७. तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥
३३८. जग्राह परमप्रीतस्तस्य पादौ परन्तपः ॥
३३९. प्रतिजग्राह काकुत्स्थं अर्चयित्वासनोदकैः ।
३४०. उवाच राममासीनं धर्मज्ञो मुनिपुङ्गवः ॥
३४१. राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।
३४२. अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥
३४३. राजा सर्वस्य लोकस्य धर्मचारी महारथः ।
३४४. पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ॥
३४५. अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।
३४६. व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥
३४७. एषा हि सुकुमारी च दुःखैश्च न विमानिता ।
३४८. प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥
३४९. शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
३५०. गरुडानिलयोः शैघ्र्यं अनुगच्छन्ति योषितः ॥
३५१. इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
३५२. श्लाघ्या च व्यपदेश्या च यथा देवीह्यरुन्धती ॥
३५३. अलम्कृतोऽयं देशश्च यत्र सौमित्रिणा सह ।
३५४. वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥
३५५. एवमुक्तः स मुनिना राघवः सम्यताञ्जलिः ।
३५६. उवाच प्रश्रितं वाक्यं ऋषिं दीप्तमिवानलम् ॥
३५७. धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः ।
३५८. गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥
३५९. किन्तु व्यादिश मे देशं सोदकं बहुकाननम् ।
३६०. यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥
३६१. ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।
३६२. ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥
३६३. इतो द्वियोजने तात बहुमूलफलोदकः ।
३६४. देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ॥
३६५. तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह ।
३६६. रम्स्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥
३६७. गोदावर्याः समीपे च मैथिली तत्र रम्स्यते ।
३६८. प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ।
३६९. विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥
३७०. तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।
३७१. धन्यस्ते जनको राम स राजा रघुनन्दन ।
३७२. यस्त्वया राजपुत्रेण ययातिरिव तारितः ॥
३७३. भवानपि सदारश्च शक्तश्च परिरक्षणे ।
३७४. अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥
३७५. इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ।
३७६. वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥
३७७. अमोघः सूर्यसम्काशो ब्रह्मदत्तः शरोत्तमः ।
३७८. दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ॥
३७९. महारजतकोशोऽयमसिर्हेमविभूषितः ॥
३८०. अनेन धनुषा राम हत्वा सम्ख्ये महासुरान् ।
३८१. आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥
३८२. तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।
३८३. जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥
३८४. अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ।
३८५. सत्कृत्यामन्त्रयामास तंऋषिं सत्यवादिनम् ॥
३८६. गृहीतचापौ तु नराधिपात्मजौ
३८७. विषक्ततूणौ समरेष्वकातरौ ।
३८८. यथोपदिष्टेन पथा महर्षिणा
३८९. प्रजग्मतुः पञ्चवटीं समाहितौ ॥