१. दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः ।
२. वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ।
३. अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ॥
४. न राज्याद् भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
५. मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥
६. पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
७. शिखरैः खमिवोद्बिद्धैः धातुमद्भिर्विभूषितम् ॥
८. नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।
९. अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥
१०. आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।
११. बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ।
१२. पुष्पवद्भिः फलोपेतैः छायावद्भिर्मनोरमैः ।
१३. एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥
१४. जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् ।
१५. स्रवद्भिर्भात्ययं शैलः स्रवन् मन्द इव द्विपः ॥
१६. गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
१७. घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥
१८. यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते ।
१९. लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥
२०. अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
२१. पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥
२२. निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
२३. ओषध्यः स्वप्रभालक्ष्म्या भ्राजमानाः सहस्रशः ॥
२४. अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
२५. अदर्शयद् शुभजलां रम्यां मन्दाकिनीं नदीम् ॥
२६. अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ॥
२७. विचित्रपुलिनां रम्यां हंससारससेविताम् ।
२८. कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥
२९. क्वचिन्मणिनिकाशोदां क्वचिद्पुलिनशालिनीम् ।
३०. क्वचिद् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥
३१. निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।
३२. पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥
३३. तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
३४. अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥
३५. दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।
३६. अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥
३७. सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
३८. कमलान्यवमज्जन्ती विगाहस्व मया सह ॥
३९. त्वं पौरजनवद् व्यालानयोध्यामिव पर्वतम् ।
४०. मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥
४१. लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
४२. त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥
४३. नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥
४४. तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
४५. निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥
४६. इदं मेध्यमिदं साधु निष्टप्तमिदमग्निना ।
४७. एवमास्ते स धर्मात्मा सीतया सह राघवः ॥
४८. तथा तत्रासतस्तस्य भरतस्योपयायिनः ।
४९. सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥
५०. एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ।
५१. अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥
५२. तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
५३. उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥
५४. हन्त लक्ष्मण पश्येह तुमुलः श्रूयते स्वनः ।
५५. राजा वा राजमात्रो वा मृगयामटते वने ।
५६. अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥
५७. स लक्ष्मणः सन्त्वरितो सालमारुह्य पुष्पितम् ।
५८. प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत ॥
५९. रथाश्वगजसम्बाधां ददर्श महतीं चमूम् ।
६०. शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥
६१. अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।
६२. सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥
६३. सम्पन्नं राज्यमिच्छन्स्तु व्यक्तं प्राप्याभिषेचनम् ।
६४. आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥
६५. एष वै सुमहान् श्रीमान् कोविदारध्वजो रथे ॥
६६. यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
६७. सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे ॥
६८. पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
६९. एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥
७०. अद्येमं संयतं क्रोधमसत्कारं च मानद ।
७१. मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥
७२. सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम् ।
७३. रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥
७४. किमत्र धनुषा कार्यमसिना वा सचर्मणा ।
७५. महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥
७६. भ्रातॄणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥
७७. नेयं मम मही सौम्य दुर्लभा सागराम्बरा ।
७८. नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥
७९. श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् ।
८०. जानक्या सहितं वीर त्वया च पुरुषर्षभ ।
८१. स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः ।
८२. द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागतः ॥
८३. अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् ।
८४. प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥
८५. अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥
८६. विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ।
८७. ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥
८८. नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
८९. अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥
९०. यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
९१. वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥
९२. तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।
९३. लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥
९४. व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।
९५. वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः ॥
९६. अवतीर्य तु सालाग्रात्तस्मात् स समितिञ्जयः ।
९७. लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥
९८. निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
९९. भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥
१००. यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ।
१०१. भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥
१०२. यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।
१०३. शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥
१०४. यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
१०५. अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ॥
१०६. सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।
१०७. मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥
१०८. कृतकृत्या महाभागा वैदेही जनकात्मजा ।
१०९. भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति ॥
११०. सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।
१११. यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥
११२. कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।
११३. यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥
११४. एवमुक्त्वा महातेजा भरतः पुरुषर्षभः ।
११५. जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥
११६. ऋषिं वसिष्ठं सन्दिश्य मातृर्मे शीघ्रमानय ।
११७. इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥
११८. ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् ।
११९. मृगाणां महिषाणां च करीषैः शीतकारणात् ॥
१२०. कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥
१२१. गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा ।
१२२. शत्रुघ्नं चाब्रवीद्हृष्टस्तानमात्यान्श्च सर्वशः ॥
१२३. मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।
१२४. नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥
१२५. उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।
१२६. अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥
१२७. यमेवाधातुमिच्छन्ति तापसाः सततं वने ।
१२८. तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥
१२९. अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् ।
१३०. आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥
१३१. मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।
१३२. सर्वान् कामान् परित्यज्य वने वसति राघवः ॥
१३३. एवं स विलपन्स्तस्मिन् वने दशरथात्मजः ।
१३४. ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।
१३५. सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
१३६. विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।
१३७. शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
१३८. रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥
१३९. निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
१४०. उटजे राममासीनं जटामण्डलधारिणम् ॥
१४१. तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।
१४२. ददर्श राममासीनमभितः पावकोपमम् ॥
१४३. तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः ।
१४४. अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥
१४५. दृष्ट्वैव विललापार्तो प्रस्विन्नमुखपङ्कजः ।
१४६. पादावप्राप्य रामस्य पपात भरतो रुदन् ॥
१४७. बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।
१४८. आर्येत्वेवाथ सङ्क्रुश्य व्याहर्तुं नाशकत्तदा ॥
१४९. शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।
१५०. तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत् ॥
१५१. जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
१५२. ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥
१५३. आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
१५४. अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥
१५५. कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः ।
१५६. कच्चिच्छुश्रूयसे तात पितरं सत्यविक्रमम् ॥
१५७. स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
१५८. इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥
१५९. सा तात कच्चित् कौसल्या सुमित्रा च प्रजावती ।
१६०. सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥
१६१. मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
१६२. कच्चिन् मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
१६३. कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥
१६४. कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
१६५. क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥
१६६. कच्चित् सहस्रान्मूर्खाणां एकमिच्छसि पण्डितम् ।
१६७. एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
१६८. राजानं राजमात्रं वा प्रापयेन्महतीं श्रियाम् ॥
१६९. कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
१७०. जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥
१७१. बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।
१७२. दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥
१७३. कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
१७४. सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥
१७५. कच्चिन्न लोकायतिकान् ब्राह्मणान्स्तात सेवसे ।
१७६. अनर्थकुशलाह्येते बालाः पण्डितमानिनः ॥
१७७. वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।
१७८. कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥
१७९. विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ।
१८०. कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥
१८१. कच्चित्ते दयिताः सर्वे कृषिगोरक्षिजीविनः ।
१८२. वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥
१८३. कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
१८४. कच्चिन्न श्रद्धधास्यासां कच्चिद् गुह्यं न भाषसे ॥
१८५. कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ।
१८६. सर्वे वा पुनरुत्सृष्टा मध्यमेनात्र कारणम् ॥
१८७. आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः ।
१८८. अपात्रेषु न ते कच्चित् कोशो गच्छति राघव ॥
१८९. कच्चिदार्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा ।
१९०. अपृष्टः कार्यकुशलैर्न लोभाद् बध्यते शुचिः ॥
१९१. गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।
१९२. कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥
१९३. कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
१९४. विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥
१९५. नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
१९६. अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।
१९७. एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।
१९८. निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।
१९९. कच्चित्त्वं वर्जयस्येतान् राजदोषान्श्च (राघव) ॥
२००. कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
२०१. आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥
२०२. रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।
२०३. किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥
२०४. केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।
२०५. दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥
२०६. उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।
२०७. अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥
२०८. प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।
२०९. अक्षय्यं भवतीत्याहुर्भवान्श्चैव पितुः प्रियः ॥
२१०. त्वामेव शोचन् तव दर्शनेप्सुः
२११. त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
२१२. त्वया विहीनस्तवशोकरुग्णः
२१३. त्वां संस्मरन्नस्तमितः पिता ते ॥
२१४. तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
२१५. प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथाद्रुमः ।
२१६. वने परशुना कृत्तस्तथा भुवि पपात ह ॥
२१७. तथा निपतितं रामं जगत्यां जगतीपतिम् ।
२१८. भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।
२१९. रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥
२२०. स तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।
२२१. उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥
२२२. किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
२२३. निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥
२२४. किं नु तस्य मया कार्यं दुर्जातेन महात्मनः ।
२२५. यो मृतो मम शोकेन मया चापि न संस्कृतः ॥
२२६. अहो भरत सिद्धार्थो येन राजा त्वयानघ ।
२२७. शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥
२२८. पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।
२२९. वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥
२३०. एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।
२३१. उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥
२३२. सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।
२३३. भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥
२३४. सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।
२३५. नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥
२३६. सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
२३७. उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥
२३८. आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
२३९. जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥
२४०. ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
२४१. सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥
२४२. ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
२४३. न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत् ॥
२४४. इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।
२४५. यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥
२४६. ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
२४७. परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥
२४८. तेषां तु रुदतां शब्दात् त्रस्ता भरतसैनिकाः ।
२४९. अब्रुवन्श्चापि रामेण भरतः सङ्गतो ध्रुवम् ॥
२५०. अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
२५१. द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥
२५२. भ्रातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम् ।
२५३. ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥
२५४. तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
२५५. मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥
२५६. ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।
२५७. आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥
२५८. तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।
२५९. पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥
२६०. स तत्र कान्श्चित् परिषस्वजे नरान्
२६१. नराश्च केचित्तु तमभ्यवादयन् ।
२६२. चकार सर्वान् सवयस्यबान्धवान्
२६३. यथार्हमासाद्य तदा नृपात्मजः ॥