०९ ०९ भरतस्य वनगमनम्

१. अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।
२. कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।
३. समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥
४. लतावल्लीश्च गुल्मान्श्च स्थाणूनश्मन एव च ।
५. जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥
६. बबन्धुर्बन्धनीयान्श्च क्षोद्यान् सञ्चुक्षुदुस्तदा ।
७. बिबिधुर्भेदनीयान्श्च तांस्तान् देशान्नरास्तदा ॥
८. अचिरेणैव कालेन प्रपुष्पितमहीरुहः ।
९. ससुधाकुट्टिमतलः पताकाभिरलङ्‍कृतः ।
१०. बह्वशोभत सेनायाः पन्थाः सुरपथोपमः ॥
११. ताः प्रहृष्टाः प्रकृतयो बलाध्य्क्षा बलस्य च ।
१२. श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥
१३. ततो योधाङ्गनाः सर्वा भर्तृन् सर्वान् गृहे गृहे ।
१४. यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ॥
१५. ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च महाजवैः ।
१६. सहयोधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥
१७. सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ ।
१८. प्रययौ (रथमास्थाय) रामदर्शनकाङ्क्षया ॥
१९. अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।
२०. अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥
२१. कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
२२. रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥
२३. मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
२४. कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥
२५. दृष्ट एव हि नः शोकमपनेष्यति राघवः ।
२६. तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥
२७. इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः ।
२८. परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥
२९. समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
३०. गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥
३१. प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् ।
३२. भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥
३३. ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
३४. समासेदुस्ततो गङ्गां शृंगिवेरपुरं प्रति ॥
३५. ततो निविष्टां ध्वजिनीं गंगामन्वाश्रितां नदीम् ।
३६. निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत् ॥
३७. महतीयमितः सेना सागराभा प्रदृश्यते ।
३८. नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥
३९. यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ।
४०. स एष हि महाकायः कोविदारध्वजो रथे ॥
४१. अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ।
४२. भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥
४३. भर्ता चैव सखा चैव रामो दाशरथिर्मम ।
४४. तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥
४५. यदा तुष्टस्तु भरतो रामस्येह भविष्यति ।
४६. सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥
४७. इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
४८. अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥
४९. लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
५०. आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥
५१. निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।
५२. निवेदयामस्ते सर्वे स्वके दासकुले वस ॥
५३. अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।
५४. आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥
५५. आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
५६. अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥
५७. एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् ।
५८. प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥
५९. ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे ।
६०. यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥
६१. कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
६२. गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥
६३. तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
६४. अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥
६५. दाशास्त्वानुगमिष्यन्ति धन्विनः सुसमाहिताः ।
६६. अहं त्वानुगमिष्यामि राजपुत्र महायशः ॥
६७. कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः ।
६८. इयं ते महती सेना शङ्कां जनयतीव मे ॥
६९. तमेवमभिभाषन्तमाकाश इव निर्मलः ।
७०. भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥
७१. माभूत् स कालो यत्कष्टं न मां शंकितुमर्हसि ।
७२. राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥
७३. तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ।
७४. बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥
७५. स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।
७६. पुनरेवाब्रवीद् वाक्यं भरतं प्रति हर्षितः ॥
७७. धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
७८. अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥
७९. शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति ।
८०. यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥
८१. एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।
८२. बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥
८३. रामचिन्तामयः शोको भरतस्य महात्मनः ।
८४. उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥
८५. अन्तर्दाहेन दहनः सन्तापयति राघवम् ।
८६. वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ॥
८७. प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् ।
८८. यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम् ॥
८९. ध्याननिर्दरशैलेन विनिःश्वसितधातुना ।
९०. दैन्यपादपसङ्घेन शोकायासाधिशृंगिणा ।
९१. प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना ।
९२. आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥
९३. विनिःश्वसन् वै भृशदुर्मनास्ततः
९४. प्रमूढसञ्ज्ञः परमापदं गतः ।
९५. सुदुर्मनास्तं भरतं तदा पुनर्-
९६. गुहः समाश्वासयदग्रजं प्रति ॥
९७. आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः ।
९८. भरतायाप्रमेयाय गुहो गहनगोचरः ॥
९९. तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।
१००. भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ॥
१०१. इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।
१०२. प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥
१०३. उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ।
१०४. धर्मात्मन्स्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥
१०५. न हि रामात् प्रियतरो ममास्ति भुवि कश्चन ।
१०६. सोऽहं प्रियसखं रामं शयानं सह सीतया ।
१०७. रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥
१०८. नहि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा ।
१०९. चतुरङ्गं ह्यपिबलं प्रसहेम वयं युधि ॥
११०. एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।
१११. अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥
११२. कथं दाशरथौ भूमौ शयाने सह सीतया ।
११३. शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥
११४. यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
११५. तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥
११६. महता तपसा लब्धो विविधैश्च परिश्रमैः ।
११७. एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥
११८. अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
११९. विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥
१२०. अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
१२१. निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥
१२२. परिदेवयमानस्य तस्यैवं सुमहात्मनः ।
१२३. तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥
१२४. गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।
१२५. ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥
१२६. प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।
१२७. पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥
१२८. कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ।
१२९. परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥
१३०. पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।
१३१. कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ॥
१३२. त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
१३३. वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥
१३४. स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।
१३५. कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥
१३६. भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।
१३७. अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥
१३८. सोऽब्रवीद् भरतं हृष्टो निषादाधिपतिर्गुहः ।
१३९. यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥
१४०. रामायाभ्यवहारार्थं बहु चोपहृतं मया ।
१४१. न तु तत् प्रत्यगृह्णात् सः क्षत्रधर्ममनुस्मरन् ॥
१४२. लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।
१४३. औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥
१४४. ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।
१४५. सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् ॥
१४६. तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया ।
१४७. प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥
१४८. एतत्तदिंगुदीमूलमिदमेव च तत्तृणम् ।
१४९. यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥
१५०. तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।
१५१. इंगुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ।
१५२. अब्रवीज्जननीः सर्वा इह तेन महात्मना ।
१५३. शर्वरी शयिता भूमाविदमस्य विमर्दितम् ।
१५४. स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥
१५५. प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।
१५६. हैमराजतभौमेषु वरास्तरणशालिषु ।
१५७. पुष्पसञ्चयचित्रेषु चन्दनागुरुगन्धिषु ।
१५८. पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ।
१५९. उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ।
१६०. गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः ।
१६१. मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ।
१६२. जातो दशरथेनोर्व्यां कथं शेते महीतले ॥
१६३. अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।
१६४. मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥
१६५. मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे ।
१६६. तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥
१६७. मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
१६८. सुकुमारी सती दुःखं न विजानाति मैथिली ॥
१६९. धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः ।
१७०. भ्रातरं विषमे काले यो राममनुवर्तते ॥
१७१. सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।
१७२. वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥
१७३. अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।
१७४. फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥
१७५. तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।
१७६. तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥
१७७. अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।
१७८. अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥
१७९. व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
१८०. भरतः काल्यमुत्थाय (गुहं वचन)मब्रवीत् ॥
१८१. सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् ।
१८२. गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥
१८३. ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
१८४. सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ॥
१८५. तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।
१८६. कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
१८७. पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
१८८. अनन्तरं राजदारास्तथैव शकटापणाः ॥
१८९. नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
१९०. अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥
१९१. सा पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् ।
१९२. मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥
१९३. आश्वासयित्वा च चमूं महात्मा
१९४. निवेशयित्वा च यथोपजोषम् ।
१९५. द्रष्टुं भरद्वाजमृषिप्रवर्यम्
१९६. ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥
१९७. भरद्वाजाश्रमं द्र्ष्ट्वा क्रोशादेव नरर्षभः ।
१९८. बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ।
१९९. पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ॥
२००. वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।
२०१. सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥
२०२. समागम्य वसिष्ठेन भरतेनाभिवादितः ।
२०३. अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥
२०४. ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
२०५. आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ।
२०६. अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
२०७. जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥
२०८. वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
२०९. शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥
२१०. तथेति तत् प्रतिज्ञाय भरद्वाजो महातपाः ।
२११. भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥
२१२. किमिहागमने कार्यं तव राज्यं प्रशासतः ॥
२१३. सुषुवे यममित्रघ्नं कौसल्यानन्दवर्धनम् ।
२१४. भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।
२१५. कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
२१६. अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥
२१७. एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
२१८. पर्यश्रुनयनो दुःखाद् वाचा संसज्जमानया ॥
२१९. हतोऽस्मि यदि मामेवं भगवानपि मन्यते ।
२२०. मत्तो न दोषमाशङ्के नैवं मामनुषाधि हि ॥
२२१. अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।
२२२. प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥
२२३. त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि ।
२२४. शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥
२२५. वसिष्ठादिभिर्‍ऋत्विग्भिः याचतो भगवांस्ततः ।
२२६. उवाच तं भरद्वाजः प्रसादाद् भरतं वचः ॥
२२७. त्वय्येतत् पुरुषव्याघ्र युक्तं राघववंशजे ।
२२८. गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥
२२९. जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।
२३०. अपृच्छं त्वां तथात्यर्थं कीर्तिं समभिवर्धयन् ॥
२३१. जाने च रामं धर्मज्ञं ससीतं सहलक्ष्मणम् ।
२३२. असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥
२३३. श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।
२३४. एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥
२३५. ततस्तथेत्येवमुदारदर्शनः
२३६. प्रतीतरूपो भरतोऽब्रवीद्वचः ।
२३७. चकार बुद्धिं च तदा तदाश्रमे
२३८. निशानिवासाय नराधिपात्मजः ॥
२३९. कृतबुद्धिं निवासाय तत्रैव समुनिस्तदा ।
२४०. भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥
२४१. अब्रवीद् भरतस्त्वेनं नन्विदं भवता कृतम् ।
२४२. पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥
२४३. अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
२४४. जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥
२४५. सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
२४६. किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ॥
२४७. भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ॥
२४८. वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
२४९. प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥
२५०. ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
२५१. न हिंस्युरिति तेनाहमेक एव समागतः ॥
२५२. आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
२५३. ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥
२५४. अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
२५५. (आतिथ्यार्थं भरद्वाजो) विश्वकर्माणमाह्वयत् ॥
२५६. आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
२५७. आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ॥
२५८. आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥
२५९. मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
२६०. आजग्मुस्तानि सर्वाणि दैवतानि पृथक् पृथक् ॥
२६१. प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः ।
२६२. प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥
२६३. अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना ।
२६४. उपानृत्यन्स्तु भरतं भरद्वाजस्य शासनात् ॥
२६५. यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
२६६. प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥
२६७. बिल्वाः मार्दङ्गिका आसन् शम्याग्राहा बिभीतकाः ।
२६८. अश्वत्थाः नर्तकाश्चासन् भरद्वाजस्य शासनात् ॥
२६९. शिंशुकामलकी जम्ब्वो याश्चान्या काननेषु ताः ।
२७०. प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् ॥
२७१. सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।
२७२. मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छत ॥
२७३. हयान् गजान् खरानुष्‍ट्रांस्तथैव सुरभेः सुतान् ।
२७४. अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥
२७५. नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः ।
२७६. मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥
२७७. तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।
२७८. अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥
२७९. नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
२८०. कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥
२८१. नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।
२८२. समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥
२८३. व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
२८४. दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥
२८५. इत्येवं रममाणानां देवानामिव नन्दने ।
२८६. भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥
२८७. ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ।
२८८. कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥
२८९. तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च ।
२९०. सुखोषितोऽस्मि भगवन् समग्रबलवाहनः ।
२९१. तर्पितः सर्वकामैश्च सामात्यो बलवत्तया ॥
२९२. आमन्त्रयेऽहं भगवन् कामं त्वां ऋषिसत्तम ।
२९३. समीपं प्रस्थितं भ्रातुः मैत्रेणेक्षस्व चक्षुषा ॥
२९४. आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
२९५. आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥
२९६. इति पृष्टस्तु भरतं प्रत्युवाच महातपाः ।
२९७. भरतार्धतृतीयेषु योजनेष्वजने वने ।
२९८. चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥
२९९. उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
३००. तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥
३०१. दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
३०२. गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।
३०३. वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥
३०४. प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ।
३०५. हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् ॥
३०६. वेपमाना कृशा दीना सह देव्या सुमित्रया ।
३०७. कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥
३०८. असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
३०९. कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥
३१०. तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
३११. अदूराद् भरतस्यैव तस्थौ दीनमनास्तदा ॥
३१२. ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
३१३. विशेषं ज्ञातुमिच्छामि मातृणां तव राघव ॥
३१४. एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।
३१५. उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥
३१६. यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
३१७. एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
३१८. कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥
३१९. अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
३२०. एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।
३२१. उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥
३२२. यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
३२३. राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ।
३२४. ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
३२५. यतोमूलं हि पश्यामि व्यसनं महदात्मनः ॥
३२६. इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
३२७. स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥
३२८. भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
३२९. प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥
३३०. न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
३३१. रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥
३३२. अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
३३३. आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ॥
३३४. ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
३३५. अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥
३३६. सा प्रयाता महासेना गजवाजिरथाकुला ।
३३७. दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥
३३८. सागरौघनिभा सेना भरतस्य महात्मनः ।
३३९. महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥
३४०. स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।
३४१. उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥
३४२. व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।
३४३. अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ॥
३४४. अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।
३४५. तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥
३४६. साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
३४७. यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥
३४८. भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
३४९. विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥
३५०. ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
३५१. नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ ॥
३५२. तच्छ्रुत्वा भरतस्तेषां वचनं साधु सम्मतम् ।
३५३. सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥
३५४. यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।
३५५. अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥
३५६. एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।
३५७. भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥