०८ ०८ मृते दशरथे भरतकृत-अभिषेक-अनङ्गीकरणम्

१. अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।
२. अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥
३. सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः ।
४. क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥
५. ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
६. अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः ॥
७. दानयज्ञविवाहेषु समाजेषु महत्सु च ।
८. न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥
९. किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
१०. इति रामेण नगरं पितृवत् परिपालितम् ॥
११. वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।
१२. रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥
१३. स राजमार्गमध्येन सुमन्त्रः पिहिताननः ।
१४. यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥
१५. अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।
१६. सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥
१७. स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः ।
१८. मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥
१९. सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
२०. उत्थापयामास तदा वचनं चेदमब्रवीत् ॥
२१. इमं तस्य महाभाग दूतं दुष्करकारिणः ।
२२. वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥
२३. देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
२४. नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥
२५. सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
२६. धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥
२७. प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः ।
२८. अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥
२९. क्व नु वत्स्यति धर्मात्मा किमशिष्यति राघवः ।
३०. भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥
३१. सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
३२. राजपुत्रौ कथं पादैरवरुह्य रथाद् गतौ ॥
३३. किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
३४. सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥
३५. आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
३६. जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥
३७. इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
३८. उवाच वाचा राजानं सबाष्पपरिरब्धया ॥
३९. अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
४०. अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥
४१. सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
४२. शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥
४३. माता च मम कौसल्या कुशलं चाभिवादनम् ।
४४. अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥
४५. देवि देवस्य पादौ च देववत् परिपालय ।
४६. अभिमानं च मानं च त्यक्त्वा वर्त्तस्व मातृषु ॥
४७. कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ।
४८. अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥
४९. भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।
५०. सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥
५१. अतिक्रान्तवया राजा मास्मैनं व्यवरोरुधः ।
५२. मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥
५३. इत्येवं मां महाराज ब्रुवन्नेव महायशाः ।
५४. रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥
५५. लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन् वाक्यमब्रवीत् ।
५६. केनायमपराधेन राजपुत्रो विवासितः ॥
५७. असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।
५८. जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥
५९. अहं तावन्महाराजे पितृत्वं नोपलक्षये ।
६०. भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥
६१. जानकी तु महाराज निःश्वसन्ती मनस्विनी ।
६२. भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥
६३. अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ।
६४. तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥
६५. उद्वीक्ष्यमाणा भर्तारं मुखेन परिशुष्यता ।
६६. मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥
६७. सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
६८. बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥
६९. कैकेय्या विनियुक्तेन पापाभिजनभावया ।
७०. मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् ॥
७१. मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः ॥
७२. भवितव्यतया नूनमिदं वा व्यसनं महत् ।
७३. कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥
७४. सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् ।
७५. त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥
७६. रामशोकमहाभोगः सीताविरहपारगः ।
७७. श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ।
७८. बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
७९. प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ।
८०. ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
८१. वरवेलो नृशंसाया रामप्रव्राजनायतः ।
८२. यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना ।
८३. दुस्तरो जीवता देवि मयायं शोकसागरः ॥
८४. इति विलपति पार्थिवे प्रणष्टे
८५. करुणतरं द्विगुणं च रामहेतोः ।
८६. वचनमनुनिशम्य तस्य देवी
८७. भयमगमत् पुनरेव राममाता ॥
८८. ततो भूतोपसृष्टेव वेपमाना पुनः पुनः ।
८९. धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥
९०. नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
९१. तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥
९२. बाष्पवेगोपहतया स वाचा सज्जमानया ।
९३. इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥
९४. त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा ।
९५. व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥
९६. लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।
९७. आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥
९८. विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
९९. विस्रम्भं लभतेऽभीता रामे सन्यस्तमानसा ॥
१००. पथि पृच्छति वैदेही ग्रामाश्च नगराणि च ।
१०१. गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि ॥
१०२. इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
१०३. कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति माम् ।
१०४. ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् ।
१०५. ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥
१०६. अध्वना वातवेगेन सम्भ्रमेणातपेन च ।
१०७. न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥
१०८. सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।
१०९. वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥
११०. गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।
१११. नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥
११२. तथापि सूतेन सुयुक्तवादिना
११३. निवार्यमाणा सुतशोककर्शिता ।
११४. न चैव देवी विरराम कूजितात्
११५. प्रियेति पुत्रेति च राघवेति च ॥
११६. कौसल्या रुदती सीता भर्तारमिदमब्रवीत् ।
११७. कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया ।
११८. दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥
११९. पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् ।
१२०. कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥
१२१. यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
१२२. जह्याद् राज्यं च कोशं च भरतेनोपभुज्यते ॥
१२३. भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् ।
१२४. ततः पश्चात् समीक्षन्ते कृतकार्या द्विजोत्तमान् ॥
१२५. तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः ।
१२६. न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥
१२७. हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः ।
१२८. नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥
१२९. तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव ।
१३०. नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥
१३१. गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः ।
१३२. तृतीया ज्ञातयो राजन्श्चतुर्थी नेह विद्यते ॥
१३३. तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ।
१३४. न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥
१३५. हतं त्वया राज्यमिदं सराष्‍ट्रम्
१३६. हतस्तथात्मा सह मन्त्रिभिश्च ।
१३७. हता सपुत्रास्मि हताश्च पौराः
१३८. सुतश्च भार्या च तव प्रहृष्टौ ॥
१३९. एवं तु क्रुद्धया राजा राममात्रा सशोकया ।
१४०. श्रावितः परुषं वाक्यं कौसल्यामाह भूपतिः ॥
१४१. प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः ।
१४२. वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥
१४३. भर्त्ता तु खलु नारीणां गुणवान् निर्गुणोऽपि वा ।
१४४. धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥
१४५. सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।
१४६. नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥
१४७. तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
१४८. कौसल्या व्यसृजद् बाष्पं प्रणालीव नवोदकम् ॥
१४९. सा मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् ।
१५०. सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥
१५१. प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।
१५२. याचितास्मि हता देव हन्तव्याहं न हि त्वया ॥
१५३. नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
१५४. उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते ॥
१५५. जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।
१५६. पुत्रशोकार्त्तया तत्तु मया किमपि भाषितम् ॥
१५७. शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।
१५८. शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥
१५९. शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः ।
१६०. सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते ॥
१६१. वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ।
१६२. यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥
१६३. तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः ।
१६४. शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥
१६५. प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः ।
१६६. कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥
१६७. यदाचरति कल्याणि शुभं वा यदि वाशुभम् ।
१६८. तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥
१६९. कश्चिदाम्रवणं छित्त्वा पलाशान्श्च निषिञ्चति ।
१७०. पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥
१७१. लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।
१७२. कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥
१७३. देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।
१७४. ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥
१७५. तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी ।
१७६. व्यायामकृतसंकल्पः सरयूमन्वगां नदीम् ॥
१७७. निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।
१७८. अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रियः ॥
१७९. अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः ।
१८०. अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥
१८१. ततोऽहं शरमुद्‍धृत्य दीप्तमाशीविषोपमम् ।
१८२. शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥
१८३. तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
१८४. हा हेति पततस्तोये बाणाभिहतमर्मणः ॥
१८५. तस्याहं करुणं श्रुत्वा निशि लालपतो बहु ।
१८६. तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः ।
१८७. अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ।
१८८. अवकीर्णजटाभारं प्रविद्धकलशोदकम् ।
१८९. पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥
१९०. स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् ।
१९१. इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥
१९२. किं तवापकृतं राजन् वने निवसता मया ।
१९३. जिहीर्षुरंभो गुर्वर्थं यदहं ताडितस्त्वया ॥
१९४. एकेन खलु बाणेन मर्मण्यभिहते मयि ।
१९५. द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥
१९६. तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ।
१९७. चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ॥
१९८. पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।
१९९. न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः ॥
२००. विशल्यं कुरु मे राजन् मर्म मे निशितः शरः ।
२०१. रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥
२०२. न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा ।
२०३. शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥
२०४. इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः ।
२०५. तस्यत्वानम्यमानस्य तं बाणमहमुद्धरम् ॥
२०६. स मामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणान्स्तपोधनः ॥
२०७. तदज्ञानान्महत्पापं कृत्वाहं संकुलेन्द्रियः ।
२०८. शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः ।
२०९. तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥
२१०. पदशब्दं तु मे श्रुत्वा मुनिवाक्यमभाषत ।
२११. किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥
२१२. यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।
२१३. उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥
२१४. यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।
२१५. न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥
२१६. त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।
२१७. समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥
२१८. मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम् ।
२१९. आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥
२२०. क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ।
२२१. भगवंश्चापहस्तोऽहं सरयूतीरमागतः ॥
२२२. तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः ।
२२३. द्विपोऽयमिति मत्वायं मया गजजिघांसुना ।
२२४. विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥
२२५. स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ।
२२६. मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥
२२७. यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् ।
२२८. फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥
२२९. अज्ञानाद् हि कृतं यस्मादिदं तेनैव जीवसि ।
२३०. अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान् ॥
२३१. नय नौ नृप तं देशमिति मां चाभ्यभाषत ।
२३२. अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥
२३३. अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।
२३४. अस्पर्शयदहं पुत्रं तं मुनिं सह भार्यया ॥
२३५. तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।
२३६. निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥
२३७. नाभिवादयसे माद्य न च मामभिभाषसे ।
२३८. न त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक ।
२३९. किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥
२४०. उभावपि च शोकार्तावनाथौ कृपणौ वने ।
२४१. क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् ॥
२४२. अपापोऽसि यदा पुत्र निहतः पापकर्मणा ।
२४३. तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥
२४४. एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
२४५. ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥
२४६. स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।
२४७. स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥
२४८. स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।
२४९. मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥
२५०. पुत्रव्यसनजं दुःखं यदेतन् मम साम्प्रतम् ।
२५१. एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥
२५२. एवं शापं मयि न्यस्य विलप्य करुणं बहु ।
२५३. चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥
२५४. तस्यायं कर्मणो देवि विपाकः समुपस्थितः ।
२५५. यदहं पुत्रशोकेन सन्त्यक्षाम्यद्य जीवितम् ॥
२५६. चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मां स्पृश ।
२५७. इत्युक्त्वा स रुदन्स्त्रस्तो भार्यामाह च भूमिपः ॥
२५८. कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।
२५९. वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ॥
२६०. हा राघव महाबाहो हा ममायासनाशन ।
२६१. हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥
२६२. इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
२६३. राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥
२६४. अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
२६५. वन्दिनः पर्युपातिष्ठन् तत् पार्थिवनिवेशनम् ॥
२६६. राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।
२६७. प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥
२६८. हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः ।
२६९. आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥
२७०. मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।
२७१. उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥
२७२. अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
२७३. ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥
२७४. ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टासञ्चलनादिषु ।
२७५. ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ॥
२७६. कौसल्या च सुमित्रा च पुत्रशोकपराजिते ।
२७७. प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते ॥
२७८. ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् ।
२७९. सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥
२८०. ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ।
२८१. करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥
२८२. तासामाक्रन्दशब्देन सहसोद्गतचेतने ।
२८३. कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥
२८४. कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ।
२८५. हा नाथेति परिक्रुश्य पेततुर्धरणीतले ॥
२८६. ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ।
२८७. रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ॥
२८८. तमग्निमिव संशान्तं अम्बुहीनमिवार्णवम् ।
२८९. हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ।
२९०. कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता ।
२९१. उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥
२९२. सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् ।
२९३. त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥
२९४. विहाय मां गतो रामो भर्ता च स्वर्गतो मम ।
२९५. विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥
२९६. साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।
२९७. इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥
२९८. तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम् ।
२९९. व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ।
३००. तैलद्रोण्यामथामात्याः ततो रक्षन्ति भूमिपम् ॥
३०१. तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् ।
३०२. हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥
३०३. निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ।
३०४. पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥
३०५. गते तु शोकात् त्रिदिवं नराधिपे
३०६. महीतलस्थासु नृपाङ्गनासु च ।
३०७. निवृत्तचारः सहसा गतो रविः
३०८. प्रवृत्तचारा रजनी ह्युपस्थिता ॥
३०९. व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।
३१०. समेत्य राजकर्तारः पृथग्वाचमुदीरयन् ।
३११. वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥
३१२. अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।
३१३. अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे ॥
३१४. स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।
३१५. लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह ॥
३१६. इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
३१७. अराजकं हि नो राष्‍ट्रं न विनाशमवाप्नुयात् ॥
३१८. नाराजके जनपदे विद्युन्माली महास्वनः ।
३१९. अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥
३२०. नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ।
३२१. नाराजके जनपदे यज्ञशीला द्विजातयः ।
३२२. सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥
३२३. नाराजके जनपदे उद्यानानि समागताः ।
३२४. नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥
३२५. नाराजके जनपदे धनवन्तः सुरक्षिताः ।
३२६. शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥
३२७. नाराजके जनपदे शरान् सततमस्यताम् ।
३२८. श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥
३२९. नाराजके जनपदे वणिजो दूरगामिनः ।
३३०. गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥
३३१. नाराजके जनपदे स्वकं भवति कस्यचित् ।
३३२. मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥
३३३. ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः ।
३३४. तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥
३३५. यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।
३३६. अगोपाला यथा गावः तथा राष्‍ट्रमराजकम् ॥
३३७. राजा सत्यञ्च धर्मश्च राजा कुलवतां कुलम् ।
३३८. राजा माता पिता चैव राजा हितकरो नृणाम् ॥
३३९. स नः समीक्ष्य द्विजवर्य वृत्तम्
३४०. नृपं विना राज्यमरण्यभूतम् ।
३४१. कुमारमिक्ष्वाकुसुतं वदान्यम्
३४२. त्वमेव राजानमिहाभिषिञ्च ॥
३४३. तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
३४४. यदसौ मातुलकुले पुरे राजगृहे सुखी ।
३४५. भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः ।
३४६. तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः ॥
३४७. पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः ।
३४८. त्यक्तशोकैरिदं वाच्यः शासनाद् भरतो मम ॥
३४९. पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
३५०. त्वरमाणश्च निर्याहि कृत्यमात्ययिकं मया ॥
३५१. मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
३५२. भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् ॥
३५३. कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
३५४. क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥
३५५. ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् ।
३५६. वसिष्टेनाभ्यनुज्ञाता दूताः सन्त्वरिता ययुः ॥
३५७. भर्तुः प्रियार्थं कुलरक्षणार्थम्
३५८. भर्तुश्च वंशस्य परिग्रहार्थम् ।
३५९. अहेडमानास्त्वरया स्म दूता
३६०. रात्र्यां तु ते तत्पुरमेव याताः ॥
३६१. यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।
३६२. भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥
३६३. व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।
३६४. पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥
३६५. तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
३६६. आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥
३६७. स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः ।
३६८. गोष्ठीहास्यानि कुर्वद्भिः न प्राहृष्यत राघवः ॥
३६९. तमब्रवीत् प्रियसखो भरतं सखिभिर्वृतम् ।
३७०. सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥
३७१. एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।
३७२. स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् ।
३७३. पतन्तमद्रिशिखरात् कलुषे गोमयह्रदे ॥
३७४. त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।
३७५. रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥
३७६. नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ।
३७७. अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ॥
३७८. एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये ।
३७९. शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ॥
३८०. भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः ।
३८१. प्रविश्यासह्यपरिघं रम्यं राजगृहं पुरम् ।
३८२. समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः ।
३८३. राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥
३८४. पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
३८५. त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥
३८६. इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
३८७. प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥
३८८. प्रतिगृह्य तु तत्सर्वं स्वनुरक्तः सुहृज्जने ।
३८९. दूतानुवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥
३९०. कच्चित् सुकुशली राजा पिता दशरथो मम ।
३९१. कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥
३९२. आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।
३९३. अरोगा चापि कौसल्या माता रामस्य धीमतः ॥
३९४. कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
३९५. शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥
३९६. आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी ।
३९७. अरोगा चापि मे माता कैकेयी किमुवाच ह ॥
३९८. कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ।
३९९. श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥
४००. बभूव ह्यस्य हृदये चिन्ता सुमहती तदा ।
४०१. त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥
४०२. स मातामहमापृच्छ्य मातुलं च युधाजितम् ।
४०३. रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥
४०४. तस्मै हस्त्युत्तमान् चित्रान् कम्बलानजिनानि च ।
४०५. अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥
४०६. अन्तःपुरेऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् ।
४०७. दंष्‍ट्रायुधान् महाकायान् शुनश्चोपायनं ददौ ॥
४०८. स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत ।
४०९. भरतः केकयीपुत्रो गमनत्वरया तदा ॥
४१०. स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ।
४११. यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ॥
४१२. शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।
४१३. तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥
४१४. स गङ्गां प्राग्वटे तीर्त्वा विनते गोमतीं नदीम् ।
४१५. कलिङ्गनगरे चापि प्राप्य सालवनं तदा ।
४१६. भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः ॥
४१७. वनं च समतीत्यशु शर्वर्यामरुणोदये ।
४१८. अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह ॥
४१९. तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि ।
४२०. अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ॥
४२१. अरण्यभूतेव पुरी सारथे प्रतिभाति मे ।
४२२. नह्यत्र यानैर्दृश्यन्ते न गजैर्नच वाजिभिः ।
४२३. निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥
४२४. चन्दनागुरुसम्पृक्तो धूपसम्मूर्च्छितोऽमलः ।
४२५. प्रवाति पवनः श्रीमान् किन्नु नाद्य यथापुरम् ॥
४२६. भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ।
४२७. किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ॥
४२८. किमहं त्वरयानीतः कारणेन विनानघ ।
४२९. अशुभाशंकि हृदयं शीलं च पततीव मे ॥
४३०. सम्मार्जनविहीनानि परुषाण्युपलक्षये ।
४३१. असंयतकवाटानि श्रीविहीनानि सर्वशः ॥
४३२. अपेतमाल्यशोभान्यप्यसम्मृष्टाजिराणि च ।
४३३. देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥
४३४. सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु ॥
४३५. इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः ।
४३६. तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥
४३७. अपश्यन्स्तु ततस्तत्र पितरं पितुरालये ।
४३८. जगाम भरतो द्रष्टुं मातरं मातुरालये ॥
४३९. अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
४४०. उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥
४४१. स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।
४४२. भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥
४४३. सा तं मूर्द्धन्युपाघ्राय परिष्वज्य यशस्विनम् ।
४४४. अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥
४४५. अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः ।
४४६. अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥
४४७. आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव ।
४४८. प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥
४४९. एवं पृष्टस्तु कैकेय्या प्रियं पार्थिवनन्दनः ।
४५०. आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ॥
४५१. राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः ।
४५२. यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ॥
४५३. राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।
४५४. तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥
४५५. तं प्रत्युवाच कैकेयी प्रियवद् घोरमप्रियम् ।
४५६. अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥
४५७. या गतिः सर्वभूतानां तां गतिं ते पिता गतः ।
४५८. राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥
४५९. तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवान् शुचिः ।
४६०. पपात सहसा भूमौ पितृशोकबलार्दितः ॥
४६१. ततः शोकेन संवीतः पितुर्मरणदुःखितः ।
४६२. विललाप महातेजा भ्रान्ताकुलितचेतनः ॥
४६३. स रुदित्वा चिरं कालं भूमौ विपरिवृत्य च ।
४६४. जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥
४६५. अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।
४६६. धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥
४६७. न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।
४६८. उपजिघ्रेद्धि मां मूर्ध्नि तातः सन्नम्य सत्वरम् ॥
४६९. धर्मविद् धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
४७०. आर्यः किमब्रवीद्राजा पिता मे सत्यविक्रमः ॥
४७१. पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः ॥
४७२. इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ।
४७३. रामेति राजा विलपन् हा सीते लक्ष्मणेति च ।
४७४. स महात्मा परं लोकं गतो गतिमतां वरः ॥
४७५. इमां तु पश्चिमां वाचं व्याजहार पिता तव ।
४७६. सिद्धार्थास्तु नरा राममागतं सीतया सह ।
४७७. लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥
४७८. तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात् ।
४७९. विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥
४८०. क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ।
४८१. लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥
४८२. तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे ।
४८३. मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ॥
४८४. स हि राजसुतः पुत्र चीरवासा महावनम् ।
४८५. दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः ॥
४८६. तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया ।
४८७. स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे ॥
४८८. कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित् ।
४८९. कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥
४९०. कच्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते ।
४९१. कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः ॥
४९२. एवमुक्ता तु कैकेयी भरतेन महात्मना ।
४९३. उवाच वचनं हृष्टा मूढा पण्डितमानिनी ॥
४९४. न ब्राह्मणधनं किञ्चिद्धृतं रामेण कस्यचित् ।
४९५. कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।
४९६. न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ॥
४९७. मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।
४९८. याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥
४९९. स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् ।
५००. रामश्च सहसौमित्रिः प्रेषितः सीतया सह ॥
५०१. तमपश्यन् प्रियं पुत्रं महीपालो महायशाः ।
५०२. पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ॥
५०३. त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ।
५०४. त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥
५०५. मा शोकं मा च सन्तापं धैर्यमाश्रय पुत्रक ।
५०६. त्वदधीना हि नगरी राज्यं चैतदनामयम् ॥
५०७. श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ ।
५०८. भरतो दुःखसन्तप्त इदं वचनमब्रवीत् ॥
५०९. किं नु कार्यं हतस्येह मम राज्येन शोचतः ।
५१०. विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च ॥
५११. दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः ।
५१२. राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् ॥
५१३. त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः ।
५१४. तीव्रदुःखाभिसन्तप्तो वृत्तो दशरथो नृपः ॥
५१५. कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते ।
५१६. दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम ॥
५१७. ननु त्वार्य्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।
५१८. वर्त्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते ॥
५१९. तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी ।
५२०. त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते ॥
५२१. अपापदर्शनं शूरं कृतात्मानं यशस्विनम् ।
५२२. प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् ॥
५२३. अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ ।
५२४. केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥
५२५. तं हि नित्यं महाराजो बलवन्तं महाबलः ।
५२६. अपाश्रितोऽभूद् धर्मात्मा मेरुर्मेरुवनं यथा ॥
५२७. सोऽहं कथमिमं भारं महाधुर्य्यसमुद्‍धृतम् ।
५२८. दम्यो धुरमिवासाद्य वहेयं केन चौजसा ॥
५२९. अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा ।
५३०. सकामां न करिष्यामि त्वामहं पुत्रगर्द्धिनीम् ॥
५३१. मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।
५३२. न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥
५३३. किं नावबुद्ध्यसे क्रूरे नियतं बन्धुसंश्रयम् ।
५३४. ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् ॥
५३५. अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ।
५३६. तस्मात् प्रियतमो मातुः प्रियत्वान्नतु बान्धवः ॥
५३७. अन्यदा खिल धर्मज्ञा सुरभिः सुरसम्मता ।
५३८. वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥
५३९. तावर्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले ।
५४०. रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥
५४१. यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् ।
५४२. किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ॥
५४३. एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।
५४४. तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥
५४५. न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
५४६. यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा ॥
५४७. न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे ।
५४८. गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥
५४९. सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
५५०. राज्ञामेतत् समं तत्स्यादिक्ष्वाकूणां विशेषतः ॥
५५१. एष त्विदानीमेवाहमप्रियार्थं तवानघम् ।
५५२. निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम् ॥
५५३. निवर्त्तयित्वा रामं च तस्याहं दीप्ततेजसः ।
५५४. दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥
५५५. सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान् विश ।
५५६. रज्जुं बधान वा कण्ठे न हि तेऽन्यत् परायणम् ॥
५५७. इति नाग इवारण्ये तोमरांकुशचोदितः ।
५५८. पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः ॥
५५९. तथैव क्रोशतस्तस्य भरतस्य महात्मनः ।
५६०. कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥
५६१. आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ।
५६२. तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥
५६३. एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा ।
५६४. प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥
५६५. स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा ।
५६६. प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥
५६७. ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ।
५६८. पर्य्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् ॥
५६९. भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ।
५७०. इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् ।
५७१. सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥
५७२. प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
५७३. कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥
५७४. क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हसि ।
५७५. हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥
५७६. इत्यादि बहुभिर्वाक्यैः क्रूरैः संभर्त्सितोऽनघः ।
५७७. विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ॥
५७८. एवं विलपमानां तां भरतः प्राञ्जलिस्तदा ।
५७९. कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥
५८०. आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् ।
५८१. विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ॥
५८२. कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन ।
५८३. सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः ॥
५८४. कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।
५८५. अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥
५८६. बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।
५८७. अधर्मो यस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥
५८८. उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
५८९. स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥
५९०. विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् ।
५९१. विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥
५९२. पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
५९३. स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥
५९४. राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
५९५. भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥
५९६. आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
५९७. अर्थिनां वितथां कुर्यात् यस्यार्योऽनुमते गतः ॥
५९८. धर्मदारान् परित्यज्य परदारान् निषेवताम् ।
५९९. त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥
६००. तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् ।
६०१. लभते तस्य यत्पापं यस्यार्योऽनुमते गतः ॥
६०२. विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ।
६०३. एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥
६०४. तथा तु शपथैः कष्टैः शपमानमचेतनम् ।
६०५. भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् ॥
६०६. मम दुःखमिदं पुत्र भूयः समुपजायते ।
६०७. शपथैः शपमानो हि प्राणानुपरुणत्सि मे ॥
६०८. इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम् ।
६०९. परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ॥
६१०. तमेवं शोकसन्तप्तं भरतं कैकयीसुतम् ।
६११. उवाच वदतां श्रेष्ठो वसिष्ठो श्रेष्ठवाग् ऋषिः ॥
६१२. अलं शोकेन भद्रं ते राजपुत्र महायशः ।
६१३. प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥
६१४. तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।
६१५. ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥
६१६. ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद् बहिष्कृताः ।
६१७. ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥
६१८. शिबिकायामथारोप्य राजानं गतचेतसम् ।
६१९. बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥
६२०. हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
६२१. प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥
६२२. ततः संवेशयामासुश्चितामध्ये तमृत्विजः ।
६२३. तथा हुताशनं दत्वा (जगुः) सामानि सामगाः ॥
६२४. प्रसव्यं चापि तं चक्रुः ऋत्विजोऽग्निचितं नृपम् ।
६२५. स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥
६२६. कृत्वोदकं ते भरतेन सार्धम्
६२७. नृपाङ्गना मन्त्रिपुरोहिताश्च ।
६२८. पुरं प्रविश्याश्रुपरीतनेत्रा
६२९. भूमौ दशाहं व्यनयन्त दुःखम् ॥
६३०. ततः प्रभातसमये दिवसे च चतुर्दशे ।
६३१. तुष्टुवुर्वाग्विशेषज्ञाः भरतं सूतमागधाः ॥
६३२. सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः ।
६३३. दध्मुः शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ॥
६३४. स तूर्यघोषः सुमहान् दिवमापूरयन्निव ।
६३५. भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत् ॥
६३६. ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च ।
६३७. नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥
६३८. पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।
६३९. विसृज्य मयि दुःखानि राजा दशरथो गतः ॥
६४०. तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।
६४१. परिभ्रमति राज्यश्रीः नौरिवाकर्णिका जले ॥
६४२. यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।
६४३. अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥
६४४. तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् ।
६४५. सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥
६४६. स काञ्चनमयं पीठं सुखास्तरणसंवृतम् ।
६४७. अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥
६४८. ब्राह्मणान् क्षत्रियान् वैश्यानमात्यान् गणवल्लभान् ।
६४९. क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः ॥
६५०. सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ।
६५१. युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ॥
६५२. ततो हलहलाशब्दः सुमहान् समपद्यत ।
६५३. रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ॥
६५४. ततो भरतमायान्तं शतक्रतुमिवामराः ।
६५५. प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ॥
६५६. तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् ।
६५७. ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव ॥
६५८. सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
६५९. अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥
६६०. राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।
६६१. इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥
६६२. तात राजा दशरथः स्वर्गतो धर्ममाचरन् ।
६६३. धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥
६६४. रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् ।
६६५. नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥
६६६. पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।
६६७. तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥
६६८. तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः ।
६६९. जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥
६७०. स बाष्पकलया वाचा कलहंसस्वरो युवा ।
६७१. विललाप सभामध्ये जगर्हे च पुरोहितम् ॥
६७२. चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः ।
६७३. धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥
६७४. कथं दशरथाज्जातो भवेद्राज्यापहारकः ।
६७५. राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ॥
६७६. अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।
६७७. इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥
६७८. राममेवानुगच्छामि राजा स द्विपदां वरः ।
६७९. त्रयाणामपि लोकानां राज्यमर्हति राघवः ॥
६८०. तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः ।
६८१. हर्षान् मुमुचुरश्रूणि रामे निहितचेतसः ॥
६८२. यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।
६८३. वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा ॥
६८४. क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।
६८५. रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥
६८६. तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् ।
६८७. यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥
६८८. एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना ।
६८९. हृष्टस्तदादिशत् सर्वं यथासन्दिष्टमिष्टवत् ॥