१. दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।
२. जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥
३. ततः प्रासादहर्म्याणि विमानशिखराणि च ।
४. अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥
५. पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ।
६. ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥
७. यं यान्तमनुयाति स्म चतुरङ्गबलं महत् ।
८. तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥
९. ऐश्वर्यस्य रसज्ञस्सन् कामिनां चैव कामदः ।
१०. नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥
११. या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
१२. तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥
१३. अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।
१४. निर्गुणस्यापि पुत्रस्य कथं स्याद् विप्रवासनम् ।
१५. किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥
१६. आनृशंस्यमनुक्रोशः श्रुतं शीलः दमः शमः ।
१७. राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥
१८. तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
१९. औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् ॥
२०. मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः ।
२१. पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥
२२. उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
२३. एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥
२४. मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ।
२५. अपेतोदकधूमानि हीनसम्मार्जनानि च ।
२६. अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥
२७. राघवेण वने सर्वे सह वत्स्याम निर्वृताः ॥
२८. इत्येवं विविधा वाचो नानाजनसमीरिताः ।
२९. शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥
३०. विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
३१. ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥
३२. ततः कमलपत्राक्षः श्यामो निरुदरो महान् ।
३३. उवाच रामः तं सूतं पितुराख्याहि मामिति ॥
३४. स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः ।
३५. तं वर्द्धयित्वा राजानं सूतः पूर्वं जयाशिषा ।
३६. भयविक्लवया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥
३७. अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।
३८. ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥
३९. गमिष्यति महारण्यं तं पश्य जगतीपते ॥
४०. स सत्यवादी धर्मात्मा नरेन्द्रः प्रत्युवाच तम् ।
४१. दारैः परिवृतः सर्वैः द्रष्टुमिच्छामि धार्मिकम् ॥
४२. आगतेषु च दारेषु समवेक्ष्य महीपतिः ।
४३. उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥
४४. स सुतो राममादाय लक्ष्मणं मैथिलीं तदा ।
४५. जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥
४६. स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम् ।
४७. उत्पपातासनात्तूर्णमार्त्तः स्त्रीजनसंवृतः ॥
४८. सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।
४९. तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः ॥
५०. तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः ।
५१. विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥
५२. अथ रामो मुहूर्तेन लब्धसञ्ज्ञं महीपतिम् ।
५३. उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥
५४. आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।
५५. प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥
५६. लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।
५७. कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥
५८. अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ॥
५९. प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।
६०. उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥
६१. अहं राघव कैकेय्या वरदानेन मोहितः ।
६२. अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥
६३. एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
६४. प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥
६५. अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥
६६. नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
६७. पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥
६८. रुदन्नार्त्तः प्रियं पुत्रं सत्यपाशेन संयतः ।
६९. कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥
७०. श्रेयसे वृद्धये तात पुनरागमनाय च ।
७१. गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥
७२. न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।
७३. विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥
७४. न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।
७५. छन्नया छलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥
७६. न चैतदाश्चर्यतमं यस्त्वं ज्येष्ठः सुतो मम ।
७७. अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥
७८. मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम् ।
७९. तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥
८०. अथ रामस्तथा श्रुत्वा पितुरार्त्तस्य भाषितम् ।
८१. लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥
८२. प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
८३. उपक्रमणमेवातः सर्वकामैरहं वृणे ॥
८४. इयं सराष्ट्रा सजना धनधान्यसमाकुला ।
८५. मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥
८६. नैवाहं राज्यमिच्छामि न सुखं नैव मैथिलीम् ।
८७. नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम् ।
८८. त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ॥
८९. अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव ।
९०. मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥
९१. मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् ।
९२. प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥
९३. चतुर्दशसु वर्षेषु गतेषु नरसत्तम ।
९४. पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥
९५. एवं स राजा व्यसनाभिपन्नः
९६. शोकेन दुःखेन च ताम्यमानः ।
९७. आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञो
९८. मोहं गतो नैव चिचेष्ट किञ्चित् ॥
९९. देव्यस्तदा संरुरुदुः समेताः
१००. तां वर्जयित्वा नरदेवपत्नीम् ।
१०१. रुदन् सुमन्त्रोऽपि जगाम मूर्च्छाम्
१०२. हाहाकृतं तत्र बभूव सर्वम् ॥
१०३. ततो निर्धूय सहसा शिरो निःश्वस्य चासकृत् ।
१०४. मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
१०५. वाक्यवज्रैरनुपमैः निर्भिन्दन्निव चाशुगैः ।
१०६. कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥
१०७. नह्यकार्यतमं किञ्चित्तव देवीह विद्यते ।
१०८. पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥
१०९. राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् ।
११०. वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥
१११. न हि ते विषये कश्चित् ब्राह्मणो वस्तुमर्हति ।
११२. तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥
११३. मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् ।
११४. भर्त्तारं लोकभर्त्तारं असद्धर्ममुपादधाः ॥
११५. ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
११६. रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥
११७. परिवादो हि ते देवि महान् लोके चरिष्यति ।
११८. यदि रामो वनं याति विहाय पितरं नृपम् ॥
११९. इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि ।
१२०. सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥
१२१. नैव सा क्षुभ्यते देवी न च स्म परिदूयते ।
१२२. न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥
१२३. ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
१२४. स बाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः ॥
१२५. सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।
१२६. राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥
१२७. आयुधानि च मुख्यानि नागराः शकटानि च ।
१२८. अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः ॥
१२९. धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।
१३०. तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥
१३१. एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।
१३२. मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुद्ध्यत ॥
१३३. सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।
१३४. राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥
१३५. राज्यं गतजनं साधो पीतमण्डां सुरामिव ।
१३६. निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥
१३७. तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।
१३८. असमञ्ज इति ख्यातं तथायं गन्तुमर्हति ॥
१३९. एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् ।
१४०. व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥
१४१. तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
१४२. शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥
१४३. असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान् ।
१४४. सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥
१४५. रामः किमकरोत् पापं येनैवमुपरुध्यते ॥
१४६. अथवा देवि दोषं त्वं कञ्चित् पश्यसि राघवे ।
१४७. तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ॥
१४८. अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च ।
१४९. निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥
१५०. श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरः स्वनः ।
१५१. शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥
१५२. एतद्वचो नेच्छसि पापवृत्ते
१५३. हितं न जानासि ममात्मनो वा ।
१५४. अनुव्रजिष्याम्यहमद्य रामम्
१५५. राज्यं परित्यज्य सुखं धनं च ।
१५६. सहैव राज्ञा भरतेन च त्वम्
१५७. यथासुखं भुङ्क्ष्व चिराय राज्यम् ॥
१५८. महामात्रवचः श्रुत्वा रामो दशरथं तदा ।
१५९. अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥
१६०. त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः ।
१६१. किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥
१६२. यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः ।
१६३. रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥
१६४. सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥
१६५. अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।
१६६. उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥
१६७. स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
१६८. सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥
१६९. लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।
१७०. तापसाच्छादने चैव जग्राह पितुरग्रतः ॥
१७१. अथात्मपरिधानार्थं सीता कौशेयवासिनी ।
१७२. समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ॥
१७३. सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः ।
१७४. कैकेयीकुशचीरे ते जानकी शुभलक्षणा ।
१७५. अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ।
१७६. गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत् ॥
१७७. कथं नु चीरं बध्नन्ति मुनयो वनवासिनः ।
१७८. इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥
१७९. कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।
१८०. तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥
१८१. तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वरः ।
१८२. चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥
१८३. रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।
१८४. अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ।
१८५. ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् ॥
१८६. लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक ।
१८७. नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥
१८८. तासामेवं विधां वाचः शृण्वन् दशरथात्मजः ।
१८९. बबन्धैव तदा चीरं सीतया तुल्यशीलया ॥
१९०. चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
१९१. निवार्य सीतां कैकेयीं वसिष्टो वाक्यमब्रवीत् ॥
१९२. न गन्तव्यं वनं देव्या सीतया शीलवर्जिते ।
१९३. अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥
१९४. आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् ।
१९५. आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥
१९६. अथ यास्यति वैदेही वनं रामेण सङ्गता ।
१९७. वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥
१९८. भरतश्च सशत्रुघ्नः चीरवासा वनेचरः ।
१९९. वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥
२००. ततः शून्यां गतजनां वसुधां पादपैः सह ।
२०१. त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥
२०२. न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ।
२०३. तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥
२०४. तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।
२०५. प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥
२०६. तेन तत्र प्रणादेन दुःखितः स महीपतिः ।
२०७. चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥
२०८. स निःश्वस्योष्णमैक्ष्वाकः तां भार्यामिदमब्रवीत् ।
२०९. कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥
२१०. सुकुमारी च बाला च सततं च सुखोचिता ।
२११. नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥
२१२. चीराण्यपास्याज्जनकस्य कन्या
२१३. नेयं प्रतिज्ञा मम दत्तपूर्वा ।
२१४. यथासुखं गच्छतु राजपुत्री
२१५. वनं समग्रा सह सर्वरत्नैः ॥
२१६. एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम् ।
२१७. अवाक्छिरसमासीनमिदं वचनमब्रवीत् ॥
२१८. इयं धार्मिक कौसल्या मम माता यशस्विनी ।
२१९. वृद्धा चाक्रुद्धशीला च न च त्वां देव गर्हते ॥
२२०. मया विहीनां वरद प्रपन्नां शोकसागरम् ।
२२१. अदृष्ट्पूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥
२२२. रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।
२२३. स मुहूर्तमिवासञ्ज्ञो दुःखितश्च महीपतिः ।
२२४. विललाप महाबाहू राममेवानुचिन्तयन् ॥
२२५. मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।
२२६. प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥
२२७. न त्वेवानागते काले देहाच्च्यवति जीवितम् ।
२२८. कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥
२२९. एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः ।
२३०. रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥
२३१. सञ्ज्ञां तु प्रतिलभ्यैव मुहुर्त्तात् स महीपतिः ।
२३२. नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥
२३३. औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
२३४. प्रापयैनं महाभागमितो जनपदात् परम् ॥
२३५. राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।
२३६. योजयित्वाययौ तत्र रथमश्वैरलङ्कृतम् ॥
२३७. राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये ।
२३८. उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम् ॥
२३९. वासांसि च महार्हाणि भूषणानि वराणि च ।
२४०. वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥
२४१. नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।
२४२. प्रायच्छत् सर्वमाहृत्य सीतायै सममेव तत् ॥
२४३. सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
२४४. भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥
२४५. तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।
२४६. असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
२४७. भर्त्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥
२४८. साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते श्रमे ।
२४९. स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥
२५०. स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।
२५१. तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा ॥
२५२. विज्ञाय वचनं सीता तस्या धर्मात्मसंहितम् ।
२५३. कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥
२५४. करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।
२५५. अभिज्ञास्मि यथा भर्तुः वर्तितव्यं श्रुतं च मे ॥
२५६. नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
२५७. नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥
२५८. मितं ददाति हि पिता मितं माता मितं सुतः ।
२५९. अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥
२६०. सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् ।
२६१. शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥
२६२. तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।
२६३. रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥
२६४. क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ।
२६५. सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च ॥
२६६. एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।
२६७. त्रयश्शतशतार्धाश्च ददर्शावेक्ष्य मातरः ॥
२६८. धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥
२६९. संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् ।
२७०. तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥
२७१. जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।
२७२. मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥
२७३. अथ रामश्च सीता च लक्ष्मणश्च महाद्युतिः ।
२७४. उपसङ्गृह्य राजानं चक्रुर्दीना प्रदक्षिणम् ॥
२७५. तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
२७६. राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥
२७७. अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ।
२७८. अथ मातुः सुमित्रायाः जग्राह चरणौ पुनः ॥
२७९. तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।
२८०. हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥
२८१. सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
२८२. रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥
२८३. व्यसनी वा समृद्धो वा गतिरेष तवानघ ।
२८४. इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ॥
२८५. रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
२८६. अयोध्यामटवीं विद्धि गच्छ तात यथा सुखम् ॥
२८७. ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् ।
२८८. रथमारोह भद्रं ते राजपुत्र महायशः ।
२८९. क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ॥
२९०. तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
२९१. आरुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥
२९२. वनवासं हि सङ्ख्याय वासांस्याभरणानि च ।
२९३. भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥
२९४. अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
२९५. तमारुरुहतुस्तूर्णौ भ्रातरौ रामलक्ष्मणौ ॥
२९६. सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् ।
२९७. सुमन्त्रः सम्मतानश्वान् वायुवेगसमान् जवे ॥
२९८. ततः सबालवृद्धा सा पुरी परमपीडिता ।
२९९. राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा ॥
३००. पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।
३०१. बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥
३०२. संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः ।
३०३. मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥
३०४. कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
३०५. न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥
३०६. अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् ।
३०७. भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥
३०८. एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।
३०९. नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥
३१०. अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।
३११. निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥
३१२. निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
३१३. पतितैरभ्यवहितं प्रशशाम महीरजः ॥
३१४. सुस्राव नयनैः स्त्रीणां अस्रमायाससम्भवम् ।
३१५. मीनसङ्क्षोभचलितैः सलिलं पङ्कजैरिव ॥
३१६. दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् ।
३१७. निपपातैव दुःखेन हतमूल इव द्रुमः ॥
३१८. प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
३१९. बद्धवत्सा यथा धेनू राममाताभ्यधावत ॥
३२०. अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।
३२१. राजानं मातरं चैव ददर्शानुगतौ पथि ॥
३२२. रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।
३२३. असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम् ॥
३२४. पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।
३२५. दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥
३२६. रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् ।
३२७. व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥
३२८. यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् ।
३२९. इत्यमात्या महाराजमूचुर्दशरथं वचः ॥
३३०. तेषां वचः सर्वगुणोपपन्नं
३३१. प्रस्विन्नगात्रः प्रविषण्णरूपः ।
३३२. निशम्य राजा कृपणः सभार्यो
३३३. व्यवस्थितस्तं सुतमीक्षमाणः ॥
३३४. तस्मिन्स्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ ।
३३५. आर्तशब्दोऽथ सञ्जज्ञे स्त्रीणामन्तःपुरे महान् ॥
३३६. अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
३३७. यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति ॥
३३८. न क्रुद्ध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
३३९. क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्वचिद् गतः ॥
३४०. कौसल्यायां महातेजा यथा मातरि वर्तते ।
३४१. तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥
३४२. इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
३४३. रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥
३४४. नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः ।
३४५. अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥
३४६. व्यसृजन् कवलान्नागा गावो वत्सान् न पाययन् ।
३४७. पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥
३४८. दिशः पर्याकुलः सर्वास्तिमिरेणेव संवृताः ।
३४९. न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥
३५०. अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ।
३५१. आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥
३५२. अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।
३५३. सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥