०५ ०५ सहसीतालक्ष्मणः रामः

१. अभिवाद्य च कौसल्यां रामः सम्प्रस्थितो वनम् ।
२. कृतस्वस्त्ययनो मात्रा धर्मिष्टे वर्त्मनि स्थितः ॥
३. विराजयन् राजसुतो राजमार्गं नरैर्वृतम् ।
४. हृदयान्याममन्थेव जनस्य गुणवत्तया ॥
५. वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।
६. तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥
७. देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना ।
८. अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥
९. प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
१०. प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्‍मुखः ॥
११. अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।
१२. अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ॥
१३. तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम् ।
१४. तं शोकं राघवः सोढुं ततो विवृततां गतः ॥
१५. विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।
१६. आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥
१७. अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव ।
१८. प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥
१९. अभिषेको यथा सज्जः किमिदानीमिदं तव ।
२०. अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥
२१. इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।
२२. सीते तत्रभवान् तातः प्रव्राजयति मां वनम् ॥
२३. कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।
२४. श्रुणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥
२५. राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।
२६. कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥
२७. तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।
२८. प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥
२९. चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।
३०. पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥
३१. सोऽहं त्वमागतो द्रष्टुं प्रस्थितो विजनं वनम् ।
३२. वनमद्यैव यास्यामि स्थिरा भव मनस्विनि ॥
३३. याते च मयि कल्याणि वनं मुनिनिषेवितम् ।
३४. व्रतोपवासपरया भवितव्यं त्वयानघे ॥
३५. काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।
३६. वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥
३७. माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।
३८. धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥
३९. वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।
४०. स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥
४१. भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।
४२. त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥
४३. विप्रियं न च कर्तव्यं भरतस्य कदाचन ।
४४. स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥
४५. आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
४६. राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥
४७. औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।
४८. समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥
४९. ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।
५०. तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥
५१. अहं गमिष्यामि महावनं प्रिये
५२. त्वया हि वस्तव्यमिहैव भामिनि ।
५३. यथा व्यलीकं कुरुषे न कस्यचित्
५४. तथा त्वया कार्यमिदं वचो मम ॥
५५. एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।
५६. प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥
५७. किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ।
५८. त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥
५९. आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
६०. स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥
६१. भर्तुर्भाग्यं तु भार्य्यैका प्राप्नोति पुरुषर्षभ ।
६२. अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥
६३. यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।
६४. अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥
६५. ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् ।
६६. नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥
६७. अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् ।
६८. नास्मि सम्प्रति वक्तव्या वर्त्तितव्यं यथा मया ॥
६९. त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् ।
७०. अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥
७१. इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
७२. द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥
७३. हंसकारण्डवाकीर्णाः पद्मिनीः साधु पुष्पिताः ।
७४. इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥
७५. अभिषेकं करिष्यामि तासु नित्यं यतव्रता ।
७६. सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥
७७. एवं वर्षसहस्राणां शतं वाहं त्वया सह ।
७८. व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः ॥
७९. सह त्वया गमिष्यामि वनमद्य न संशयः ।
८०. नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ॥
८१. स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।
८२. न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥
८३. सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।
८४. निवर्त्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥
८५. सीते विमुच्यतामेषा वनवासकृता मतिः ।
८६. बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥
८७. क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः ।
८८. दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥
८९. लताकण्टकसंकीर्णाः कृकवाकूपनादिताः ।
९०. निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥
९१. सुप्यते पर्णशय्यासु स्वयं भुग्नासु भूतले ।
९२. रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥
९३. उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ।
९४. जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ॥
९५. पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।
९६. बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥
९७. एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।
९८. प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥
९९. ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
१००. गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ॥
१०१. न च मां त्वत्समीपस्थामपि शक्नोति राघव ।
१०२. सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ॥
१०३. अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
१०४. पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥
१०५. लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा ।
१०६. वनवासकृतोत्साहा नित्यमेव महाबल ॥
१०७. कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः ॥
१०८. प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो ।
१०९. गमनं वनवासस्य कांक्षितं हि सह त्वया ॥
११०. भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
१११. नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥
११२. एवं बहुविधं तं सा याचते गमनं प्रति ।
११३. नानुमेने महाबाहुस्तां नेतुं विजने वने ॥
११४. सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।
११५. वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥
११६. सा तमुत्तमसंविज्ञा सीता विपुलवक्षसम् ।
११७. प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥
११८. किम्त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ।
११९. राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥
१२०. अनृतं बत लोकोऽयमज्ञानाद्यदि वक्ष्यति ।
१२१. तेजो नास्ति परं रामे तपतीव दिवाकरे ॥
१२२. किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।
१२३. यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥
१२४. स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।
१२५. शैलूष इव मां राम परेभ्यो दातुमर्हसि ॥
१२६. न च मे भविता तत्र कश्चित् पथि परिश्रमः ।
१२७. पृष्टतस्तव गच्छन्त्या विहारशयनेष्विव ॥
१२८. कुशकाशशरेषीका ये च कन्टकिनो द्रुमाः ।
१२९. तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥
१३०. महावातसमुद्‍धूतं यन्मामपकरिष्यति ।
१३१. रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् ॥
१३२. शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर ।
१३३. कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः ॥
१३४. पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।
१३५. दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥
१३६. न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः ।
१३७. आर्त्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥
१३८. न च तत्र गतः किञ्चिद् द्रष्टुमर्हसि विप्रियम् ।
१३९. मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥
१४०. यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।
१४१. इति जानन् परां प्रीतिं गच्छ राम मया सह ॥
१४२. इति सा शोकसन्तप्ता विलप्य करुणं बहु ।
१४३. चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥
१४४. सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना ।
१४५. चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥
१४६. तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम् ।
१४७. नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥
१४८. तच्चैवामलचन्द्राभं मुखमायतलोचनम् ।
१४९. पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥
१५०. तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।
१५१. उवाच वचनं रामः परिविश्वासयन्स्तदा ॥
१५२. न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।
१५३. न हि मेऽस्ति भयं किञ्चित् स्वयम्भोरिव सर्वतः ॥
१५४. तव सर्वमभिप्रायमविज्ञाय शुभानने ।
१५५. वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥
१५६. यत्सृष्टासि मया सार्धं वनवासाय मैथिलि ।
१५७. न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥
१५८. सर्वथा सदृशं सीते मम स्वस्य कुलस्य च ।
१५९. व्यवसायमतिक्रान्ता कान्ते त्वमतिशोभनम् ॥
१६०. आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।
१६१. नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते ॥
१६२. ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।
१६३. देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥
१६४. अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।
१६५. क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥
१६६. एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।
१६७. बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ।
१६८. स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।
१६९. सीतामुवाचातियशा राघवं च महाव्रतम् ॥
१७०. यदि गन्तुं कृता बुद्धिः वनं मृगगजायुतम् ।
१७१. अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥
१७२. न देवलोकाक्रमणं नामरत्वमहं वृणे ।
१७३. ऐश्वर्यं वापि लोकानां कामये न त्वया विना ॥
१७४. एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः ।
१७५. रामेण बहुभिः सान्त्वैः निषिद्धः पुनरब्रवीत् ॥
१७६. अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
१७७. किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥
१७८. ततोऽब्रवीन् महातेजा रामो लक्ष्मणमग्रतः ।
१७९. स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥
१८०. स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः ।
१८१. प्रियः प्राणसमः वश्यो भ्राता चापि सखा च मे ॥
१८२. मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।
१८३. को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥
१८४. अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।
१८५. स कामपाशपर्यस्तो महातेजा महीपतिः ॥
१८६. सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ।
१८७. दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥
१८८. न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
१८९. भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥
१९०. तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
१९१. सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥
१९२. एवं मम च ते भक्तिः भविष्यति सुदर्शिता ।
१९३. धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥
१९४. एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
१९५. प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥
१९६. तवैव तेजसा वीर भरतः पूजयिष्यति ।
१९७. कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥
१९८. कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
१९९. यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम् ॥
२००. कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
२०१. धनुरादाय सशरं खनित्रपिटकाधरः ।
२०२. अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥
२०३. आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
२०४. भवान्स्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
२०५. अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥
२०६. रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
२०७. व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥
२०८. अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
२०९. ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥
२१०. वसिष्टपुत्रं तु सुयज्ञमार्यम्
२११. त्वमानयाशु प्रवरं द्विजानाम् ।
२१२. अभिप्रयास्यामि वनं समस्तान्
२१३. अभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥
२१४. अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ।
२१५. अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥
२१६. कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्टति ।
२१७. तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय ॥
२१८. ये चेमे कठकालापा बहवो दण्डमाणवाः ।
२१९. नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किञ्चन ॥
२२०. अलसाः स्वादुकामाश्च महतां चापि सम्मताः ।
२२१. तेषामशीतियानानि रत्नपूर्णानि दापय ॥
२२२. ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ।
२२३. यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा ॥
२२४. अथाब्रवीद् बाष्पकलांस्तिष्टतश्चोपजीविनः ।
२२५. सम्प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ॥
२२६. लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम ।
२२७. अशून्यं कार्यमेकैकं यावदागमनं मम ॥
२२८. ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः ।
२२९. स राशिः सुमहान्स्तत्र दर्शनीयोऽह्यदृश्यत ॥
२३०. तत्रासीत् पिङ्गलो गार्ग्यः त्रिजटो नाम वै द्विजः ।
२३१. उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥
२३२. तमुवाच ततो रामः परिहाससमन्वितम् ॥
२३३. गवां सहस्रमप्येकं न तु विश्राणितं मया ।
२३४. परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि ॥
२३५. स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् ।
२३६. आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥
२३७. स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः ।
२३८. गोव्रजे बहुसाहस्रे पपातोक्षणसन्निधौ ॥
२३९. तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात् ।
२४०. आनयामास ता गोपैस्त्रिजटायाश्रमं प्रति ॥
२४१. उवाच च ततो रामः तं गार्ग्यमभिसान्त्वयन् ।
२४२. मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥
२४३. ततः सभार्यः त्रिजटो महामुनिः
२४४. गवामनीकं प्रतिगृह्य मोदितः ।
२४५. यशोबलप्रीतिसुखोपबृंहिणीः
२४६. तदाशिषः प्रत्यवदन्महात्मनः ॥
२४७. द्विजः सुहृद्‍भृत्यजनोऽथवा तदा
२४८. दरिद्रभिक्षाचरणश्च योऽभवत् ।
२४९. न तत्र कश्चिन्नबभूव तर्पितो
२५०. यथार्हसम्माननदानसम्भ्रमैः ॥