०४ ०४ कौसल्याकृतरामस्वस्त्ययनम्

१. कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।
२. प्रभाते त्वकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥
३. प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।
४. ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥
५. सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।
६. अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥
७. स मातरमभिक्रान्तामुपसङ्गृह्य राघवः ।
८. परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥
९. दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
१०. मातरं राघवः किञ्चिद्व्रीडात् प्राञ्जलिरब्रवीत् ।
११. स स्वभावविनीतश्च गौरवाच्च तदानतः ॥
१२. इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ।
१३. गमिष्ये दन्डकारण्यं किमनेनासनेन मे ॥
१४. चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
१५. मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ।
१६. भरताय महाराजो यौवराज्यं प्रयच्छति ॥
१७. सा निकृत्तेव सालस्य यष्टिः परशुना वने ।
१८. पपात सहसा देवी देवतेव दिवश्च्युता ॥
१९. तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
२०. रामस्तूत्थापयामास मातरं गतचेतसम् ॥
२१. सा राघवमुपासीनमसुखार्त्ता सुखोचिता ।
२२. उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥
२३. यदि पुत्र न जायेथा मम शोकाय राघव ।
२४. न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥
२५. एक एव हि वन्ध्यायाः शोको भवति मानसः ।
२६. अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥
२७. न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।
२८. अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥
२९. अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता ।
३०. परिवारेण कैकेय्याः समा वाप्यथवा वरा ॥
३१. त्वयि सन्निहितेप्येवमहमासं निराकृता ।
३२. किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥
३३. यो हि मां सेवते कश्चिदथवाप्यनुवर्तते ।
३४. कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥
३५. नित्यक्रोधतया तस्याः कथं न खरवादि तत् ।
३६. कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥
३७. दश सप्त च वर्षाणि तव जातस्य राघव ।
३८. आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥
३९. तदक्षयमहं दुःखं नोत्सहे सहितुं चिरम् ।
४०. विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥
४१. अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
४२. कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥
४३. उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
४४. दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥
४५. स्थिरं तु हृदयं मन्ये ममेदं यन्नदीर्यते ।
४६. प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥
४७. अथापि किञ्जीवितमद्य मे वृथा
४८. त्वया विना चन्द्रनिभाननप्रभ ।
४९. अनुव्रजिष्यामि वनं त्वयैव गौः
५०. सुदुर्बला वत्समिवानुकाङ्क्षया ॥
५१. तथा तु विलपन्तीं तां कोसल्यां राममातरम् ।
५२. उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥
५३. न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।
५४. त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥
५५. विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।
५६. नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥
५७. न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।
५८. स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥
५९. देवकल्पं ऋजुं दान्तं रिपूणामपि वत्सलम् ।
६०. अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात् ॥
६१. तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ।
६२. पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन् ॥
६३. यावदेव न जानाति कश्चिदर्थमिमं नरः ।
६४. तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥
६५. भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति ।
६६. सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते ॥
६७. गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
६८. उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥
६९. हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः ।
७०. देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥
७१. एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
७२. उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥
७३. भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।
७४. यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥
७५. यथैव राजा पूज्यस्ते गौरवेण तथाह्यहम् ।
७६. त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥
७७. यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
७८. अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ।
७९. ततस्त्वं प्राप्यसे पुत्र निरयं लोकविश्रुतम् ॥
८०. विलपन्तीं तदा दीनां कौसल्यां जननीं ततः ।
८१. उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥
८२. नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।
८३. प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥
८४. अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।
८५. खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः ॥
८६. नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये ।
८७. पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥
८८. पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते ॥
८९. तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।
९०. तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
९१. विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदाम् ॥
९२. धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
९३. धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥
९४. तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।
९५. धर्ममाश्रय मा तैक्ष्ण्यं मद्‍बुद्धिरनुगम्यताम् ॥
९६. तमेवमुक्त्वा सौहार्दात् भ्रातरं लक्ष्मणाग्रजः ।
९७. उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥
९८. अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।
९९. शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥
१००. तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।
१०१. ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥
१०२. प्रसादयन्नरवृषभः स्वमातरम्
१०३. पराक्रमाज्जिगमिषुरेव दण्डकान् ।
१०४. अथानुजं भृशमनुशास्य दर्शनम्
१०५. चकार तां हृदि जननीं प्रदक्षिणम् ॥
१०६. अथ तं व्यथया दीनं रोषविस्फारितेक्षणम् ।
१०७. आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् ।
१०८. उवाचेदं स धैर्येण धारयन् सत्वमात्मवान् ॥
१०९. निगृह्य शोकं रोषं च धैर्यमाश्रित्य केवलम् ।
११०. यस्या मदभिषेकार्थे मानसं परितप्यते ।
१११. माता मे सा यथा न स्यात् सविशङ्का तथा कुरु ॥
११२. न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन ।
११३. मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥
११४. कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।
११५. राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥
११६. कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने ।
११७. यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥
११८. जानासि हि यथा सौम्य न मातृषु ममान्तरम् ।
११९. भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥
१२०. सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः ।
१२१. उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात् समर्थये ॥
१२२. कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा ।
१२३. ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥
१२४. यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते ।
१२५. व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥
१२६. असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते ।
१२७. निवर्त्त्यारम्भमारब्धं ननु दैवस्य कर्म तत् ॥
१२८. एतया तत्त्वया बुद्ध्या संस्थम्भ्यात्मानमात्मना ।
१२९. व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥
१३०. तस्मादपरितापः संस्त्वमप्यनुविधाय माम् ।
१३१. प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥
१३२. एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।
१३३. मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥
१३४. अथवा किं ममैतेन राजद्रव्यमतेन तु ।
१३५. उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥
१३६. मा च लक्ष्मण सन्तापं कार्षीर्लक्ष्म्या विपर्यये ।
१३७. राज्यं वा वनवासो वा वनवासो महोदयः ॥
१३८. इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः ।
१३९. श्रुत्वा मध्यं जगामेव मनसा धैर्यहर्षयोः ॥
१४०. तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
१४१. निशश्वास महासर्पो बिलस्थ इव रोषितः ॥
१४२. अग्रहस्तं विधुन्वन्स्तु हस्तिहस्तमिवात्मनः ।
१४३. तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ।
१४४. अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ॥
१४५. कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ।
१४६. यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ॥
१४७. सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुद्ध्यसे ।
१४८. तयोः सुचरितं स्वार्थं शाठ्‍यात् परिजिहीर्षतोः ॥
१४९. यदि नैवं व्यवसितं स्याद् हि प्रागेव राघव ।
१५०. तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥
१५१. कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ।
१५२. करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥
१५३. विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।
१५४. वीरः सम्भावितात्मानः न दैवं पर्युपासते ॥
१५५. अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् ।
१५६. प्रधावितमहं दैवं पौरुषेण निवर्तये ॥
१५७. यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः ।
१५८. अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥
१५९. अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।
१६०. अभिषेकविघातेन पुत्रराज्याय वर्तते ॥
१६१. ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् ।
१६२. आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥
१६३. मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ।
१६४. अहमेको महीपालान् अलं वारयितुं बलात् ॥
१६५. न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।
१६६. नासिराबन्धनार्थाय न शरा स्तम्भहेतवः ॥
१६७. अमित्रमदनार्थं मे सर्वमेतच्चतुष्टयम् ॥
१६८. ब्रवीहि कोऽद्यैव मया वियुज्यताम्
१६९. तवासुहृत्प्राणयशः सुहृज्जनैः ।
१७०. यथा तवेयं वसुधा वशे भवेत्
१७१. तथैव मां शाधि तवास्मि किङ्करः ॥
१७२. विमृज्य बाष्पं परिसान्त्व्य चासकृत्
१७३. स लक्ष्मणं राघववंशवर्धनः ।
१७४. उवाच पित्र्ये वचने व्यवस्थितम्
१७५. निबोध मामेव हि सौम्य सत्पथे ॥
१७६. तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने ।
१७७. कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥
१७८. अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः ।
१७९. मयि जातो दशरथात् कथमुञ्छेन वर्तयेत् ॥
१८०. यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते ।
१८१. कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥
१८२. अयं तु मामात्मभवः तवादर्शनमारुतः ।
१८३. विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ।
१८४. चिन्ताबाष्पमहाधूमः तवादर्शनचित्तजः ।
१८५. कर्शयित्वा भृशं पुत्र निःश्वासायाससम्भवः ।
१८६. त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
१८७. प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥
१८८. कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति ।
१८९. अहं त्वानुगमिष्यामि पुत्र यत्र गमिष्यसि ॥
१९०. तां तथा रुदतीं रामो रुदन् वचनमब्रवीत् ।
१९१. कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ।
१९२. भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥
१९३. यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः ।
१९४. शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः ॥
१९५. भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।
१९६. भवतीमनुवर्तेत स हि धर्मरतः सदा ॥
१९७. यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ।
१९८. श्रमं नावाप्नुयात् किञ्चिदप्रमत्ता तथा कुरु ॥
१९९. व्रतोपवासनिरता या नारी परमोत्तमा ।
२००. भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ॥
२०१. भर्तृशुश्रूषया नारी लभते स्वर्गमुत्तमम् ।
२०२. अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥
२०३. प्राप्स्यसे परमं कामं मयि प्रत्यागते सति ।
२०४. यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥
२०५. तथा हि रामं वनवासनिश्चितम्
२०६. समीक्ष्य देवी परमेण चेतसा ।
२०७. उवाच रामं शुभलक्षणं वचो
२०८. बभूव च स्वस्त्ययनाभिकांक्षिणी ॥
२०९. सापनीय तमायासमुपस्पृश्य जलं शुचिः ।
२१०. चकार माता रामस्य मङ्गलानि मनस्विनी ॥
२११. न शक्यसे वारयितुं गच्छेदानीं रघूत्तम ।
२१२. शीघ्रं च विनिवर्तस्व वर्त्तस्व च सतां क्रमे ॥
२१३. यं पालयसि धर्मं त्वं धृत्या च नियमेन च ।
२१४. स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥
२१५. यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ।
२१६. तानि त्वामभिरक्षन्तु वने सह महर्षिभिः ॥
२१७. पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा ।
२१८. सत्येन च महाबाहो चिरञ्जीवाभिरक्षितः ॥
२१९. आगमास्ते शिवाः सन्तु सिद्ध्यन्तु च पराक्रमाः ।
२२०. सर्व सम्पत्तये राम स्वस्तिमान् गच्छ पुत्रक ॥
२२१. यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
२२२. वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम् ॥
२२३. यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
२२४. अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
२२५. अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
२२६. अदितिर्मङ्गलं प्रादात् तत्ते भवतु मङ्गलम् ॥
२२७. त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
२२८. यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥
२२९. ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते ।
२३०. मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥
२३१. इति पुत्रस्य शेषान्श्च कृत्वा शिरसि भामिनी ।
२३२. गन्धैश्चापि समालभ्य राममायतलोचना ।
२३३. ओषधीन्श्चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।
२३४. चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥
२३५. उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी ।
२३६. वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥
२३७. आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ।
२३८. अवदत् पुत्र सिद्धार्थो गच्छ राम यथा सुखम् ॥
२३९. अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।
२४०. पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥
२४१. मङ्गलैरुपसम्पन्नो वनवासादिहागतः ।
२४२. वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ॥
२४३. इतीव चाश्रुप्रतिपूर्णलोचना
२४४. समाप्य च स्वस्त्ययनं यथाविधि ।
२४५. प्रदक्षिणं चैव चकार राघवम्
२४६. पुनः पुनःश्चापि निपीड्‍य सस्वजे ॥
२४७. तथा तु देव्या स कृतप्रदक्षिणो
२४८. निपीड्‍य मातुश्चरणौ पुनः पुनः ।
२४९. जगाम सीतानिलयं महायशाः
२५०. स राघवः प्रज्वलितः स्वया श्रिया ॥