१. ततः प्रभातां रजनीमुदिते च दिवाकरे ।
२. पुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ।
३. वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा ।
४. उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥
५. पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ।
६. ददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् ॥
७. स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
८. द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥
९. तमुवाच महातेजाः सूतपुत्रं विशारदम् ।
१०. वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥
११. त्वरयस्व महाराजं यथा समुदितेऽहनि ।
१२. पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥
१३. इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।
१४. स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥
१५. ततः सूतो यथाकालं पार्थिवस्य निवेशने ।
१६. सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥
१७. वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् ।
१८. ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥
१९. गता भगवती रात्रिः कृतं कृत्यमिदं तव ।
२०. बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥
२१. स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ।
२२. क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥
२३. इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
२४. अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥
२५. ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति ।
२६. शोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः ॥
२७. वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥
२८. सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
२९. प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥
३०. यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ।
३१. तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥
३२. सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ।
३३. प्रजागरपरिश्रान्तो निद्राया वशमेयिवान् ॥
३४. तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ।
३५. राममानय भद्रं ते नात्र कार्या विचारणा ॥
३६. स मन्यमानः कल्याणं हृदयेन ननन्द च ।
३७. निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥
३८. सागरह्रदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात् ।
३९. निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥
४०. अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ।
४१. राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥
४२. ते राजवचनात्तत्र समवेता महीपतिम् ।
४३. अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् ॥
४४. न पश्यामश्च राजानमुदितश्च दिवाकरः ।
४५. यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ॥
४६. इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ।
४७. अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः ॥
४८. रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम् ।
४९. पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥
५०. अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ।
५१. राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् ॥
५२. इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ।
५३. सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ॥
५४. तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ।
५५. शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥
५६. सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा ।
५७. आशीभिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥
५८. स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ।
५९. प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥
६०. राममानय सूतेति यदस्यभिहितोऽनया ।
६१. किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥
६२. न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ।
६३. इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥
६४. स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ।
६५. निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥
६६. प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ।
६७. हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥
६८. ततो ददर्श रुचिरं कैलासशिखरप्रभम् ।
६९. रामवेश्म सुमन्त्रस्तु मणिविद्रुमतोरणम् ॥
७०. स तत्र कैलासनिभाः स्वलङ्कृताः
७१. प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।
७२. प्रियान्नरान् राममते स्थितान् बहून्
७३. अपोह्य शुद्धान्तमुपस्थितो रथी ॥
७४. तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् ।
७५. ददर्श (रामम्) पर्यङ्के सौवर्णे सोत्तरच्छदे ॥
७६. स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ।
७७. उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥
७८. प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने ।
७९. राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥
८०. कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ।
८१. महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥
८२. एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः ।
८३. ततः सम्मानयामास सीतामिदमुवाच ह ॥
८४. दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
८५. सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥
८६. यादृशी परिषत्तत्र तादृशी दूत आगतः ।
८७. हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ॥
८८. सह त्वं परिवारेण सुखमास्व रमस्व च ॥
८९. पतिसम्मानिता सीता भर्त्तारमसितेक्षणा ।
९०. आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥
९१. अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ।
९२. निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥
९३. पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ।
९४. लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥
९५. ततः पावकसङ्काशमारुरोह रथोत्तमम् ।
९६. वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ॥
९७. छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ।
९८. जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥
९९. स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
१००. पताकाध्वजसम्पन्नं महार्हागरुधूपितम् ॥
१०१. अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।
१०२. पितामहैराचरितं तथैव प्रपितामहैः ।
१०३. अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥
१०४. अलमद्य हि भुक्तेन परमार्थैरलं च नः ।
१०५. यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥
१०६. ततो हि नः प्रियतरं नान्यत्किञ्चिद्भविष्यति ।
१०७. यथाभिषेको रामस्य राज्येनामिततेजसः ॥
१०८. एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः ।
१०९. आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥
११०. न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
१११. नरः शक्नोत्यपाक्रष्टुं अतिक्रान्तेऽपि राघवे ॥
११२. यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
११३. निन्दितः स वसेल्लोके स्वात्माप्येनं विगर्हते ॥
११४. चतुष्पथान् देवपथान्श्चैत्यान्यायतनानि च ।
११५. प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥
११६. तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् ।
११७. राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥
११८. ततः प्रविष्टे पितुरन्तिकं तदा
११९. जनः स सर्वो मुदितो नृपात्मजे ।
१२०. प्रतीक्षते तस्य पुनर्विनिर्गमम्
१२१. यथोदयं चन्द्रमसः सरित्पतिः ॥
१२२. स ददर्शासने रामो निषण्णं पितरं शुभे ।
१२३. कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥
१२४. स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।
१२५. ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥
१२६. रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः ।
१२७. शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥
१२८. तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
१२९. रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥
१३०. निःश्वसन्तं महाराजं व्यथिताकुलतेजसम् ।
१३१. ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।
१३२. उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥
१३३. चिन्तयामास च तदा रामः प्रियहिते रतः ।
१३४. किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥
१३५. अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
१३६. तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥
१३७. स दीन इव शोकार्तो विषण्णवदनद्युतिः ।
१३८. कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥
१३९. कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता ।
१४०. कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥
१४१. शारीरो मानसो वापि कच्चिदेनं न बाधते ।
१४२. सन्तापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥
१४३. कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम ।
१४४. उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥
१४५. एवमुक्ता तु कैकेयी राघवेण महात्मना ।
१४६. उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥
१४७. न राजा कुपितो राम व्यसनं नास्य किञ्चन ।
१४८. किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥
१४९. प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।
१५०. तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥
१५१. यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।
१५२. करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥
१५३. एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।
१५४. उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥
१५५. अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ।
१५६. नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ।
१५७. भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥
१५८. तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ॥
१५९. करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥
१६०. तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।
१६१. उवाच रामं कैकेयी वचनं भृशदारुणम् ॥
१६२. पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।
१६३. रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥
१६४. तत्र मे याचितो राजा भरतस्याभिषेचनम् ।
१६५. गमनं दण्डकारण्ये तव चाद्यैव राघव ॥
१६६. त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ।
१६७. भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।
१६८. त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥
१६९. एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः ।
१७०. शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥
१७१. एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।
१७२. सत्येन महता राम तारयस्व नरेश्वरम् ॥
१७३. तदप्रियममित्रघ्नो वचनं मरणोपमम् ।
१७४. श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥
१७५. एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ।
१७६. जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥
१७७. इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
१७८. नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दमः ॥
१७९. हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।
१८०. नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥
१८१. अलीकं मानसं त्वेकं हृदयं दहतीव मे ।
१८२. स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥
१८३. अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च ।
१८४. हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥
१८५. गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
१८६. भरतं मातुलकुलादद्यैव नृपशासनात् ॥
१८७. दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः ।
१८८. अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥
१८९. सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।
१९०. प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥
१९१. एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।
१९२. भरतं मातुलकुलादपावर्तयितुं नराः ॥
१९३. तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।
१९४. राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥
१९५. व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ।
१९६. नैतत् किञ्चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् ॥
१९७. यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् ।
१९८. पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा ॥
१९९. धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।
२००. मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ॥
२०१. रामोऽप्युत्थाय राजानं कैकेय्याभिप्रचोदितः ।
२०२. कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥
२०३. तदप्रियमनार्याया वचनं दारुणोदयम् ।
२०४. श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥
२०५. नाहमर्थपरो देवि लोकमावस्तुमुत्सहे ।
२०६. विद्धि मां ऋषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥
२०७. न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।
२०८. यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥
२०९. अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
२१०. वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥
२११. यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।
२१२. ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥
२१३. भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
२१४. तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥
२१५. स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता ।
२१६. शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥
२१७. वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।
२१८. कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥
२१९. स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।
२२०. निष्क्रम्यान्तःपुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ॥
२२१. तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
२२२. लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥
२२३. आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
२२४. शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥
२२५. न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
२२६. लोककान्तस्य कान्तत्वाच्छीतरष्मेरिव क्षपा ॥
२२७. न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।
२२८. सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥
२२९. प्रतिषिध्य शुभं छत्रं व्यजने च स्वलङ्कृते ।
२३०. विसर्जयित्वा स्वजनं रथं पौरान्स्तथा जनान् ।
२३१. धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च ।
२३२. प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥
२३३. वाचा मधुरया रामः सर्वं सम्मानयन् जनम् ।
२३४. मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥
२३५. तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ।
२३६. शौमि त्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥