०२ ०२ प्रतिज्ञाबद्धः दशरथः

१. ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।
२. प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥
३. सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
४. अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥
५. सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
६. प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम् ।
७. अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥
८. प्रहर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम् ।
९. अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥
१०. उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
११. राममाता धनं किन्नु जनेभ्यः सम्प्रयच्छति ॥
१२. अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
१३. कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः ॥
१४. विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
१५. आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् ॥
१६. श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
१७. राजा दशरथो राममभिषेचयितानघम् ॥
१८. धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
१९. कैलासशिखराकारात् प्रासादादवरोहत ॥
२०. सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ।
२१. शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥
२२. उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्त्तते ।
२३. उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥
२४. चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥
२५. एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
२६. कुब्जया पापदर्शिन्या विषादमगमत् परम् ॥
२७. कैकेयीत्वब्रवीत् कुब्जां कच्चित्क्षेमं न मन्थरे ।
२८. विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥
२९. मन्थरा तु वचः श्रुत्वा कैकेय्याः मधुराक्षरम् ।
३०. उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥
३१. अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् ।
३२. रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥
३३. अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
३४. काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥
३५. नराधिपकुले जाता महिषी त्वं महीपतेः ।
३६. उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥
३७. मन्थराया वचः श्रुत्वा शयाना सा शुभानना ।
३८. उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी ॥
३९. अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता ।
४०. एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥
४१. दत्त्वा त्वाभरणं तस्यै पुनरेवाब्रवीदिदम् ॥
४२. इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
४३. एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥
४४. रामे वा भरते वाहं विशेषं नोपलक्षये ।
४५. तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥
४६. मन्थरात्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् ।
४७. उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥
४८. हर्षं किमिदमस्थाने कृतवत्यपि बालिशे ।
४९. शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥
५०. शोच्यामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
५१. अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥
५२. भरतादेव रामस्य राज्यसाधारणाद्भयम् ।
५३. तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥
५४. प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि ।
५५. राज्यक्रमो विप्रकृष्टस्तयोस्तावत् कनीयसोः ॥
५६. विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
५७. भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥
५८. सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
५९. यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥
६०. प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
६१. उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥
६२. एवं चेत्त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि ।
६३. पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥
६४. हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
६५. अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥
६६. तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।
६७. रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥
६८. धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक् शुचिः ।
६९. रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥
७०. भ्रातृन् भृत्यान्श्च दीर्घायुः पितृवत् पालयिष्यति ।
७१. कौसल्यातोऽतिरिक्तं च सोऽनुशुश्रूषते हि माम् ॥
७२. सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥
७३. भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम् ।
७४. पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥
७५. कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता ।
७६. दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् ॥
७७. अनर्थदर्शिनी मौर्ख्यान्नात्मानं नावबुध्यसे ।
७८. शोकव्यसनविस्तीर्णे मज्जन्ती शोकसागरे ॥
७९. भविता राघवो राजा राघवस्यानु यः सुतः ।
८०. राजवंशात्तु कैकेयि भरतः परिहास्यते ॥
८१. न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
८२. स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥
८३. तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।
८४. स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥
८५. ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।
८६. देशान्तरं वा नयिता लोकान्तरमथापि वा ॥
८७. बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
८८. सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥
८९. गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।
९०. अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥
९१. तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।
९२. रामस्तु भरते पापं कुर्यादिति न संशयः ॥
९३. तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥
९४. दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
९५. राममाता सपत्नी ते कथं वैरं न यातयेत् ॥
९६. एतद्धि रोचते मह्यं भृशं चापि हितं तव ।
९७. यदि चेद्भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥
९८. यदा हि रामः पृथिवीमवाप्स्यति
९९. ध्रुवं प्रणष्टो भरतो भविष्यति ।
१००. अतो हि सञ्चिन्तय राज्यमात्मजे
१०१. परस्य चैवाद्य विवासकारणम् ॥
१०२. एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।
१०३. दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् ॥
१०४. कथय त्वं ममोपायं केनोपायेन मन्थरे ।
१०५. भरतः प्राप्नुयाद्राज्यं न तु रामः कथञ्चन ॥
१०६. एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
१०७. रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥
१०८. किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।
१०९. यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥
११०. तव दैवासुरे युद्धे सह राजर्षिभिः पतिः ।
१११. अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥
११२. तत्राकरोन्महद्युद्धं राजा दशरथस्तदा ।
११३. असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥
११४. अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः ।
११५. तत्रापि विक्षितः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥
११६. तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
११७. स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ।
११८. गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ॥
११९. अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ।
१२०. कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥
१२१. रामाभिषेकसम्भारान्निगृह्य च निवर्तय ।
१२२. तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ॥
१२३. प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ।
१२४. एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ॥
१२५. येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
१२६. तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।
१२७. सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥
१२८. क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ।
१२९. शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥
१३०. मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ।
१३१. रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥
१३२. दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
१३३. तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥
१३४. न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
१३५. मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥
१३६. मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
१३७. दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः ॥
१३८. सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।
१३९. कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥
१४०. अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ।
१४१. हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥
१४२. कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ।
१४३. पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥
१४४. त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ।
१४५. नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ॥
१४६. सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः ।
१४७. त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ॥
१४८. आसन् याः शम्बरे मायाः सहस्रमसुराधिपे ।
१४९. सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥
१५०. अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ।
१५१. अभिषिक्ते च भरते राघवे च वनं गते ।
१५२. कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ।
१५३. परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥
१५४. तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।
१५५. पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥
१५६. इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
१५७. गतोदके सेतुबन्धो न कल्याणि विधीयते ।
१५८. उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ॥
१५९. तथा प्रोत्साहिता देवी गत्वा मन्थरया सह ।
१६०. क्रोधागारं विशालाक्षी मन्थरामिदमब्रवीत् ॥
१६१. अहं हि नैवास्तरणानि वा स्रजो
१६२. न चन्दनं नाञ्जनपानभोजनम् ।
१६३. न किञ्चिदिच्छामि न चेह जीवितं
१६४. न चेदितो गच्छति राघवो वनम् ॥
१६५. अथैतदुक्त्वा वचनं सुदारुणम्
१६६. निधाय सर्वाभरणानि भामिनी ।
१६७. असंवृतामास्तरणेन मेदिनीम्
१६८. तदाधिशिष्ये पतितेव किन्नरी ॥
१६९. उदीर्णसंरम्भतमोवृतानना
१७०. तथावमुक्तोत्तममाल्यभूषणा ।
१७१. नरेन्द्रपत्नी विमला बभूव सा
१७२. तमोवृता द्यौरिव मग्नतारका ॥
१७३. आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् ।
१७४. उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥
१७५. अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ।
१७६. प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी ॥
१७७. तत् प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ।
१७८. न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ॥
१७९. स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ।
१८०. अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ॥
१८१. न हि तस्य पुरा देवी तां वेलामत्यवर्तत ।
१८२. न च राजा गृहं शून्यं प्रविवेश कदाचन ॥
१८३. ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ।
१८४. यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥
१८५. प्रतिहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः ।
१८६. देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ॥
१८७. प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मनाः ।
१८८. विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ॥
१८९. स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ।
१९०. अपापः पापसङ्कल्पां ददर्श धरणीतले ॥
१९१. लतामिव विनिष्कृत्तां स्नेहात् परिममर्श ताम् ॥
१९२. परिमृश्य च पाणिभ्यामभिसन्त्रस्तचेतनः ।
१९३. कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥
१९४. देवि केनाभिशप्तासि केन वासि विमानिता ।
१९५. यदिदं ममदुःखाय शेषे कल्याणि पांसुषु ॥
१९६. सन्ति ते कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।
१९७. सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥
१९८. मा रोदीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम् ।
१९९. कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥
२००. अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।
२०१. दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिञ्चनः ॥
२०२. अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
२०३. करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥
२०४. किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ।
२०५. तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥
२०६. तत्ते व्यपनयिष्यामि नीहारमिव रश्मिवान् ॥
२०७. तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् ।
२०८. परिपीडयितुं भूयो भर्त्तारमुपचक्रमे ॥
२०९. तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
२१०. उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥
२११. नास्मि विप्रकृता देव केनचिन्नावमानिता ।
२१२. अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥
२१३. प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।
२१४. अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥
२१५. तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः ।
२१६. कामी हस्तेन सङ्गृह्य मूर्द्धजेषु शुचिस्मिताम् ॥
२१७. अवलिप्ते न जानासि त्वत्तः प्रियतमा मम ।
२१८. मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥
२१९. तेनाजय्येन मुख्येन राघवेण महात्मना ।
२२०. यं मुहूर्तमपश्यन्स्तु न जीवेयमहं ध्रुवम् ।
२२१. आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।
२२२. तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥
२२३. तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
२२४. निर्माध्यस्थाच्च हर्षाच्च बभाषे दुःसहं वचः ॥
२२५. यथा क्रमेण शपसि वरं मम ददासि च ।
२२६. तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः ॥
२२७. सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः ।
२२८. वरं मम ददात्येष तन्मे शृण्वन्तु देवताः ॥
२२९. स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे ।
२३०. तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
२३१. जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥
२३२. तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ॥
२३३. अभिषेकसमारम्भो राघवस्योपकल्पितः ।
२३४. अनेनैवाभिषेकेन भरतो मेऽभिषिच्यताम् ॥
२३५. नवपञ्च च वर्षाणि दण्डकारण्यमाश्रितः ।
२३६. चीराजिनजटाधारी रामो भवतु तापसः ॥
२३७. एष मे परमः कामो दत्तमेव वरं वृणे ।
२३८. अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥
२३९. ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ।
२४०. चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥
२४१. किं नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम ।
२४२. अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ।
२४३. इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥
२४४. मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
२४५. अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ।
२४६. मोहमापेदिवान् भूयः शोकोपहतचेतनः ॥
२४७. चिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः ।
२४८. कैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥
२४९. नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।
२५०. किं कृतं तव रामेण पापे पापं मयापि वा ॥
२५१. यदा ते जननीतुल्यां वृत्तिं वहति राघवः ।
२५२. तस्यैव त्वमनर्थाय किं निमित्तमिहोद्यता ॥
२५३. ननु ते राघवस्तुल्यो भरतेन महात्मना ।
२५४. बहुशो हि सुबाले त्वं कथाः कथयसे मम ॥
२५५. तस्य धर्मात्मनो देवि वने वासं यशस्विनः ।
२५६. कथं रोचयसे भीरु नववर्षाणि पञ्च च ॥
२५७. रामो हि भरताद्भूयस्तव शुश्रूषते सदा ।
२५८. विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥
२५९. सत्येन लोकान् जयति दीनान् दानेन राघवः ।
२६०. गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥
२६१. सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।
२६२. विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥
२६३. तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।
२६४. पापमाशंससे पापे महर्षिसमतेजसि ॥
२६५. जीवलोको यथा सर्वो रामस्याह गुणस्तवम् ।
२६६. अपराधं कमुद्दिश्य त्यक्षामीष्टमहं सुतम् ॥
२६७. कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।
२६८. जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥
२६९. तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ।
२७०. न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥
२७१. तदलं त्यज्यतामेष निश्चयः पापनिश्चये ।
२७२. अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥
२७३. इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।
२७४. घूर्णमानं महाराजं शोकेन समभिप्लुतम् ।
२७५. पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः ।
२७६. प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥
२७७. यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।
२७८. धार्मिकत्त्वं कथं वीर पृथिव्यां कथयिष्यसि ॥
२७९. यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।
२८०. तस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥
२८१. शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।
२८२. अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥
२८३. स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च ।
२८४. सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥
२८५. भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् ।
२८६. यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥
२८७. अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
२८८. पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥
२८९. एकाहमपि पश्येयं यद्यहं राममातरम् ।
२९०. अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥
२९१. भरतेनात्मना चाहं शपे ते मनुजाधिप ।
२९२. यथा नान्येन तुष्येयं ऋते राम विवासनात् ॥
२९३. एतावदुक्त्वा वचनं कैकेयी विरराम ह ।
२९४. विलपन्तं च राजानं न प्रतिव्याजहार सा ॥
२९५. श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् ।
२९६. ध्यात्वा रामेति निःश्वस्य छिन्नस्तरुरिवापतत् ॥
२९७. नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।
२९८. हृततेजा यथा सर्पो बभूव जगतीपतिः ॥
२९९. दीनया तु गिरा राजा इति होवाच कैकयीम् ॥
३००. यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।
३०१. विरमैतेन भावेन त्वमेतेनानृतेन वा ॥
३०२. न कथञ्चिदृते रामाद् भरतो राज्यमावसेत् ।
३०३. रामादपि हि तं मन्ये धर्मतो बलवत्तरम् ॥
३०४. यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः ।
३०५. परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥
३०६. अनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् ।
३०७. धिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥
३०८. बालिशो बत कामात्मा राजा दशरथो भृशम् ।
३०९. स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥
३१०. नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।
३११. स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥
३१२. प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥
३१३. किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।
३१४. किञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥
३१५. यदा यदा हि कौसल्या दासीवच्च सखीव च ।
३१६. भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति ।
३१७. सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।
३१८. न मया सत्कृता देवी सत्कारार्हा कृते तव ॥
३१९. इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ।
३२०. अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥
३२१. अनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे ।
३२२. गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥
३२३. रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ।
३२४. बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥
३२५. राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ।
३२६. मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥
३२७. प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ।
३२८. मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥
३२९. मृते मयि गते रामे वनं पुरुषपुङ्गवे ।
३३०. सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥
३३१. कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ।
३३२. पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥
३३३. महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः ।
३३४. काषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥
३३५. कस्यैतद्दारुणं वाक्यमेवं विधमचिन्तितम् ।
३३६. रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥
३३७. परित्यजेयुः पितरो नु पुत्रान्
३३८. भार्याः पतीन्श्चापि कृतानुरागाः ।
३३९. कृत्स्नं हि सर्वं कुपितं जगत् स्यात्
३४०. दृष्ट्वैव रामं व्यसने निमग्नम् ॥
३४१. प्रताम्य वा प्रज्वल वा प्रणश्य वा
३४२. सहस्रशो वा स्फुटिता महीं व्रज ।
३४३. न ते करिष्यामि वचः सुदारुणम्
३४४. ममाहितं केकयराजपांसनि ॥
३४५. अतदर्हं महाराजं शयानमतथोचितम् ।
३४६. अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी ।
३४७. पुनराकारयामास तमेव वरमङ्गना ॥
३४८. त्वं कत्थसे महाराज सत्यवादी दृढव्रतः ।
३४९. मम चेमं वरं कस्माद् विधारयितुमिच्छसि ॥
३५०. एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
३५१. प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥
३५२. यदि दुःखमकृत्वाद्य मम सङ्क्रमणं भवेत् ।
३५३. अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥
३५४. नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् ।
३५५. किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥
३५६. तथा विलपतस्तस्य परिभ्रमितचेतसः ।
३५७. अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत ॥
३५८. तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः ।
३५९. विललापार्तवद्दुःखं गगनासक्तलोचनः ॥
३६०. न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ।
३६१. क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः ॥
३६२. एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ।
३६३. प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥
३६४. साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ।
३६५. प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ॥
३६६. प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ।
३६७. लभतामसितापाङ्गे यशः परमवाप्नुहि ॥
३६८. मम रामस्य लोकस्य गुरूणां भरतस्य च ।
३६९. प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे ॥
३७०. विशुद्धभावस्य हि दुष्टभावा
३७१. ताम्रेक्षणस्याश्रुकलस्य राज्ञः ।
३७२. श्रुत्वा विचित्रं करुणं विलापम्
३७३. भर्तुर्नृशंसा न चकार वाक्यम् ॥
३७४. पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि ।
३७५. विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥
३७६. सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
३७७. स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ।
३७८. प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥
३७९. समयं च ममाद्येमं यदि त्वं न करिष्यसि ।
३८०. अग्रतस्ते परित्यक्ता परित्यक्षामि जीवितम् ॥
३८१. एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
३८२. कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥
३८३. यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।
३८४. तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥
३८५. रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ।
३८६. त्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया ॥
३८७. तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
३८८. प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥
३८९. ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
३९०. उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥
३९१. किमिदं भाषसे राजन् वाक्यं गररुजोपमम् ।
३९२. आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥
३९३. स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
३९४. निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥
३९५. स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
३९६. राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥
३९७. धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना ।
३९८. ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥