०१ ०१ रामाभिषेकनिश्चयः

१. गच्छता मातुलकुलं भरतेन तदानघः ।
२. शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥
३. स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः ।
४. मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥
५. तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
६. भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥
७. राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
८. उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥
९. सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
१०. स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥
११. तेषामपि महातेजा रामो रतिकरः पितुः ।
१२. स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥
१३. स हि रूपोपपन्नश्च वीर्य्यवाननसूयकः ।
१४. स तु नित्यं प्रशान्तात्मा मृदुपूर्वं प्रभाषते ।
१५. उच्च्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥
१६. कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।
१७. न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥
१८. शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
१९. कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥
२०. बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
२१. उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥
२२. वीर्यवान् न च वीर्येण महता तेन विस्मितः ॥
२३. अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ।
२४. दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥
२५. अरोगस्तरुणो वाग्ग्मी वपुष्मान् देशकालवित् ।
२६. सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ॥
२७. धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
२८. लौकिके समयाचारे कृतकल्पो विशारदः ॥
२९. निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
३०. अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥
३१. दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः ।
३२. निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ।
३३. शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
३४. यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥
३५. आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित् ।
३६. आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥
३७. धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः ।
३८. अभियाता प्रहर्ता च सेनानयविशारदः ॥
३९. स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
४०. बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥
४१. तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम् ।
४२. लोकपालोपमं नाथमकामयत मेदिनी ॥
४३. अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।
४४. प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥
४५. एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते ।
४६. कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥
४७. आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ।
४८. प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ॥
४९. नानानगरवास्तव्यान् पृथग्जानपदानपि ।
५०. समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ॥
५१. न तु केकयराजानं जनकं वा नराधिपः ।
५२. त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥
५३. ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
५४. हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥
५५. दुन्दुभिस्वनकल्पेन गंभीरेणानुनादिना ।
५६. स्वरेण महता राजा जीमूत इव नादयन् ॥
५७. विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
५८. पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥
५९. ममाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
६०. प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥
६१. इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
६२. पाण्डरस्यातपत्रस्य च्छायायां जरितं मया ॥
६३. राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।
६४. परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥
६५. सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
६६. सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥
६७. अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
६८. पुरन्दरसमो वीर्ये रामः परपुरञ्जयः ॥
६९. तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
७०. यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥
७१. अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
७२. त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥
७३. यदीदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम् ।
७४. भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥
७५. यद्यप्येषा मम प्रीतिः हितमन्यद्विचिन्त्यताम् ।
७६. अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥
७७. इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।
७८. वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥
७९. स्निग्धोऽनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ।
८०. जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥
८१. तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।
८२. ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥
८३. समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।
८४. ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥
८५. अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।
८६. स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ।
८७. इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
८८. गजेन महता यान्तं रामं छत्रावृताननम् ॥
८९. इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
९०. अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥
९१. श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
९२. राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥
९३. कथं नु मयि धर्मेण पृथिवीमनुशासति ।
९४. भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥
९५. ते तमूचुर्महात्मानं पौरजानपदैः सह ।
९६. बहवो नृप कल्याणगुणाः पुत्रस्य सन्ति ते ॥
९७. इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ।
९८. रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।
९९. साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥
१००. धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ।
१०१. क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥
१०२. संयग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ।
१०३. कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥
१०४. यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ।
१०५. गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥
१०६. सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।
१०७. पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ॥
१०८. व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
१०९. उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥
११०. प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः ।
१११. शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ॥
११२. वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।
११३. बलमारोग्यमायुश्च रामस्य विदितात्मनः ।
११४. आशंसते जनः सर्वो राष्‍ट्रे पुरवरे तथा ।
११५. आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥
११६. स्त्रियो वृद्धास्तरुण्यश्च सायम्प्रातः समाहिताः ।
११७. सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥
११८. तं देवदेवोपममात्मजं ते
११९. सर्वस्य लोकस्य हिते निविष्टम् ।
१२०. हिताय नः क्षिप्रमुदारजुष्टम्
१२१. मुदाभिषेक्तुं वरद त्वमर्हसि ॥
१२२. तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
१२३. प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥
१२४. अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
१२५. यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥
१२६. चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
१२७. यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥
१२८. राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
१२९. शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ।
१३०. वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥
१३१. अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
१३२. तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥
१३३. ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ।
१३४. रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥
१३५. स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ।
१३६. रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥
१३७. प्रासादस्थो (दशरथः) ददर्शायान्तमात्मजम् ।
१३८. गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।
१३९. दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥
१४०. चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ।
१४१. रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥
१४२. घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ।
१४३. न ततर्प समायान्तं पश्यमानो नराधिपः ॥
१४४. स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।
१४५. नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥
१४६. तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।
१४७. गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥
१४८. तेन विभ्राजता तत्र सा सभाभिव्यरोचत ।
१४९. विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥
१५०. स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।
१५१. उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ॥
१५२. ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।
१५३. उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥
१५४. यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।
१५५. तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥
१५६. कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।
१५७. गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् ॥
१५८. भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
१५९. कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥
१६०. परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ।
१६१. अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ॥
१६२. तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।
१६३. त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥
१६४. सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।
१६५. व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥
१६६. अथाभिवाद्य राजानं रथमारुह्य राघवः ।
१६७. ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥
१६८. ते चापि पौरा नृपतेर्वचस्तत्
१६९. श्रुत्वा तदा लाभमिवेष्टमाशु ।
१७०. नरेन्द्रमामन्त्र्य गृहाणि गत्वा
१७१. देवान् समानर्चुरभिप्रहृष्टाः ॥
१७२. गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
१७३. मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥
१७४. श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।
१७५. रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥
१७६. अथान्तर्गृहमाविश्य राजा दशरथस्तदा ।
१७७. सूतमामन्त्रयामास रामं पुनरिहानय ॥
१७८. प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
१७९. रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥
१८०. द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।
१८१. श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥
१८२. प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।
१८३. यदागमनकृत्यं ते भूयस्तद् ब्रूह्यशेषतः ॥
१८४. तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ।
१८५. श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥
१८६. इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।
१८७. प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥
१८८. प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः ।
१८९. ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥
१९०. प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
१९१. प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥
१९२. राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।
१९३. देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥
१९४. न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
१९५. अपि चाद्याशुभान् राम स्वप्ने पश्यामि दारुणान् ॥
१९६. तद्यावदेव मे चेतो न विमुञ्चति राघव ।
१९७. तावदेवाभिषेचस्व चला हि प्राणिनां मतिः ॥
१९८. श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ।
१९९. श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप ॥
२००. तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना ।
२०१. सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥
२०२. सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
२०३. भवन्ति बहुविघ्नानि कार्याण्येवं विधानि हि ॥
२०४. विप्रोषितश्च भरतो यावदेव पुरादितः ।
२०५. तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥
२०६. कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
२०७. ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥
२०८. किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।
२०९. सतां तु धर्मनित्यानां कृतशोभि च राघव ॥
२१०. इत्युक्तः सोऽभ्यनुज्ञातः श्वो भाविन्यभिषेचने ।
२११. व्रजेति रामः पितरमभिवाद्याभ्ययाद् गृहम् ॥
२१२. प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने ।
२१३. तत्क्षणेन च निर्गम्य मातुरन्तःपुरं ययौ ॥
२१४. तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।
२१५. वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥
२१६. प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा ।
२१७. सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥
२१८. तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।
२१९. श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
२२०. प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥
२२१. तथा सन्नियमामेव सोऽभिगम्याभिवाद्य च ।
२२२. उवाच वचनं रामो हर्षयन्स्तामिदं तदा ।
२२३. अंब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
२२४. भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥
२२५. सीतयाप्युपवस्तव्या रजनीयं मया सह ।
२२६. एवं ऋत्विगुपाध्यायैः सह मामुक्तवान् पिता ॥
२२७. यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।
२२८. तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥
२२९. एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।
२३०. हर्षबाष्पकलं वाक्यमिदं राममभाषत ॥
२३१. वत्स राम चिरञ्जीव हतास्ते परिपन्थिनः ।
२३२. ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥
२३३. अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।
२३४. येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥
२३५. इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
२३६. प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥
२३७. लक्ष्मणेयं मया सार्धं प्रशाधि त्वं वसुन्धराम् ।
२३८. द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥
२३९. सौमित्रे भुङ्क्ष्व भोगान्स्त्वमिष्टान् राज्यफलानि च ।
२४०. जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥
२४१. इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
२४२. अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥
२४३. ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
२४४. प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥
२४५. सिताभ्रशिखराभेषु देवतायतनेषु च ।
२४६. चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ।
२४७. सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।
२४८. ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवन्स्तदा ॥
२४९. कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।
२५०. राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥
२५१. प्रकाशकरणार्थं च निशागमनशङ्कया ।
२५२. दीपवृक्षान्स्तथा चक्रुरनुरथ्यासु सर्वशः ॥
२५३. रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ।
२५४. रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ॥
२५५. चिरञ्जीवतु धर्मात्मा राजा दशरथोऽनघः ।
२५६. यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥
२५७. सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः ।
२५८. चिराय भविता गोप्ता दृष्टलोकपरावरः ॥
२५९. अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
२६०. यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥
२६१. एवं विधं कथयतां पौराणां शुश्रुवुस्तदा ।
२६२. दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥
२६३. जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
२६४. पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥