१. ततः प्रभाते विमले कृतकर्मा नराधिपः ।
२. विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥
३. तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।
४. राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥
५. भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ ।
६. भवानाज्ञापयतु मामाज्ञाप्यो भवताह्यहम् ॥
७. एवमुक्तस्तु धर्मात्मा जनकेन महात्मना ।
८. प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥
९. पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
१०. द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥
११. एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।
१२. दर्शनादस्य धनुषः यथेष्टं प्रतियास्यतः ॥
१३. ततः स राजा जनकः सामन्तान् व्यादिदेश ह ।
१४. धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥
१५. जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीम् ।
१६. तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥
१७. नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम् ।
१८. मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥
१९. तामादाय तु मञ्जूषां आयसीं यत्र तद्धनुः ।
२०. सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥
२१. इदं धनुर्वरं राजन् पूजितं सर्वराजभिः ।
२२. मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥
२३. तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
२४. विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥
२५. इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।
२६. राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा ।
२७. नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः ।
२८. गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥
२९. क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे ।
३०. आरोपणे समायोगे वेपने तोलनेऽपि वा ॥
३१. अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मया ।
३२. क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥
३३. वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥
३४. यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
३५. सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥
३६. विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
३७. वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥
३८. महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।
३९. मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥
४०. इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना ।
४१. यत्नवान्श्च भविष्यामि तोलने पूरणेऽपि वा ॥
४२. बाढमित्यब्रवीद्राजा मुनिश्च समभाषत ॥
४३. लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।
४४. पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥
४५. आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः ।
४६. तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
४७. तस्य शब्दो महानासीन्निर्घातसमनिस्स्वनः ।
४८. भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः ॥
४९. निपेतुश्च नराः सर्वे तस्य शब्देन मोहिताः ।
५०. वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥
५१. प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः ।
५२. उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥
५३. भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः ।
५४. अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥
५५. मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।
५६. सीता प्राणैर्बहुमता देया रामाय मे सुता ॥
५७. भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ।
५८. मम कौशिक भद्रं ते अयोध्यां त्वरिते रथैः ॥
५९. राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ॥
६०. कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।
६१. अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ।
६२. यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥
६३. जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।
६४. त्रिरात्रिमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥
६५. ते राजवचनाद् दूता राजवेश्म प्रवेशिताः ।
६६. राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥
६७. मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् ।
६८. कुशलं त्वां महाराज पृच्छते सपुरःसरम् ॥
६९. पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।
७०. कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥
७१. पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।
७२. सेयं मम सुता राजन् विश्वामित्रपुरःसरैः ।
७३. यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥
७४. तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।
७५. रामेण हि महाराज महत्यां जनसंसदि ॥
७६. अस्मै देया मया सीता वीर्यशुल्का महात्मने ।
७७. प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥
७८. सोपाध्यायो महाराज पुरोहितपुरःसरः ।
७९. शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥
८०. एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।
८१. विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥
८२. दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
८३. वसिष्ठं वामदेवं च मन्त्रिणोऽन्यान्श्च सोऽब्रवीत् ॥
८४. गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।
८५. लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥
८६. दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
८७. संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥
८८. यदि वो रोचते वृत्तं जनकस्य महात्मनः ।
८९. पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥
९०. मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।
९१. सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥
९२. राजा दशरथो हृष्टः सोपाध्यायः स बान्धवः ।
९३. गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ॥
९४. राजा तु जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ।
९५. उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः ॥
९६. स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव ।
९७. पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥
९८. दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः ।
९९. सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः ॥
१००. दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ।
१०१. राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥
१०२. श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि ।
१०३. यज्ञस्यान्ते नरश्रेष्ठ विवाहं ऋषिसम्मतम् ॥
१०४. तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः ।
१०५. वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥
१०६. प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ।
१०७. यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ॥
१०८. धर्मिष्टं च यशस्यं च वचनं सत्यवादिनः ।
१०९. श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः ॥
११०. ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
१११. उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥
११२. (कुशध्वजो मम भ्राता) यवीयानतिधार्मिकः ।
११३. साङ्काश्यां पुण्यसङ्काशां पुरीमध्यवसच्छुभाम् ॥
११४. तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः ।
११५. प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥
११६. शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।
११७. समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥
११८. आज्ञयाथ नरेन्द्रस्य आजगाम कुशध्वजः ।
११९. स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥
१२०. उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ ।
१२१. प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् ॥
१२२. गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ।
१२३. आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ॥
१२४. औपकार्यं स गत्वा तु रघूणां कुलवर्धनम् ।
१२५. ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥
१२६. अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ।
१२७. स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥
१२८. मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।
१२९. सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥
१३०. वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥
१३१. विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ।
१३२. वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः ॥
१३३. विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
१३४. एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥
१३५. तूष्णीम्भूते दशरथे वसिष्ठो भगवान् ऋषिः ।
१३६. उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥
१३७. अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
१३८. तस्मान् मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ।
१३९. विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ।
१४०. मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥
१४१. इकष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ।
१४२. रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
१४३. सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥
१४४. एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।
१४५. राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेनकर्मणा ।
१४६. निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥
१४७. (निमिवंशोद्भवौ आवां भ्रातरौ मुनिसत्तम)।
१४८. कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।
१४९. ददामि परमप्रीतौ वध्वौ ते मुनिपुङ्गव ।
१५०. सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥
१५१. रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।
१५२. मघाह्यद्य महाबाहो तृतीये दिवसे विभो ।
१५३. फल्गुन्यामुत्तरे राजन्स्तस्मिन् वैवाहिकं कुरु ॥
१५४. तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः ।
१५५. उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥
१५६. अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव ।
१५७. इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥
१५८. सद्र्शो धर्मसम्बन्धः सदृशो रूपसंपदा ।
१५९. रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥
१६०. वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ।
१६१. भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ।
१६२. अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
१६३. सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥
१६४. भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ॥
१६५. विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा ।
१६६. जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥
१६७. कुलं धन्यमिदं मन्ये येषां नौ मुनिपुङ्गवौ ।
१६८. सदृशं कुलसम्बन्धं यदाज्ञापयथः स्वयम् ॥
१६९. परो धर्मः कृतं मह्यं शिष्योऽस्मि भवतोः सदा ।
१७०. प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ ॥
१७१. एकाह्ना राजपुत्रीणां चतसृणां महामुने ।
१७२. पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥
१७३. उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
१७४. वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥
१७५. राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ।
१७६. युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
१७७. स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ॥
१७८. स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
१७९. प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥
१८०. यस्मिन्स्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।
१८१. तस्मिन्स्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥
१८२. दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ।
१८३. केकयाधिपती राजा स्नेहात् कुशलमब्रवीत् ॥
१८४. स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः ।
१८५. तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥
१८६. श्रुत्वात्वहमयोध्यायां विवाहार्थं तवात्मजान् ।
१८७. मिथिलामुपयातान्स्तु त्वया सह महीपते ।
१८८. त्वरयाभ्युपयातोऽहं द्रष्टुकामो स्वसुः सुतम् ॥
१८९. अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
१९०. दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥
१९१. युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।
१९२. भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ॥
१९३. वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ।
१९४. राजा दशरथो राजा कृतकौतुकमङ्गलैः ।
१९५. पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥
१९६. इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।
१९७. प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥
१९८. कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्षते ।
१९९. स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥
२००. कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।
२०१. मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥
२०२. सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।
२०३. अविघ्नं कुरु तां राजा किमर्थमवलम्बते ॥
२०४. तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।
२०५. प्रवेशयामास सुतान् सर्वान् ऋषिगणानपि ॥
२०६. विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ।
२०७. प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ।
२०८. अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
२०९. जुहावाग्नौ महातेजा वसिष्ठो भगवान् ऋषिः ॥
२१०. ततः सीतां समानीय सर्वाभरणभूषिताम् ।
२११. समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ।
२१२. अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥
२१३. इयं सीता मम सुता सहधर्मचरी तव ।
२१४. प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥
२१५. पतिव्रता महाभागा छायेवानुगता सदा ।
२१६. इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥
२१७. साधु साध्विति देवानां ऋषीणां वदतां तदा ।
२१८. देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ॥
२१९. एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ।
२२०. अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥
२२१. लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ।
२२२. प्रतीच्छ पाणिं गृह्णीष्व माभूत् कालस्य पर्ययः ॥
२२३. तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।
२२४. गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥
२२५. शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
२२६. श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥
२२७. अग्निं प्रदक्षिणीकृत्य वेदिं राजानमेव च ।
२२८. ऋषीन्श्चैव महात्मानः सभार्या रघुसत्तमाः ।
२२९. यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम् ॥
२३०. ननृतुश्चाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् ।
२३१. विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥
२३२. ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।
२३३. त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥
२३४. अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
२३५. आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥
२३६. विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
२३७. आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ॥
२३८. अथ राजा विदेहानां ददौ कन्याधनं बहु ॥
२३९. दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ।
२४०. प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ॥
२४१. गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ।
२४२. घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ॥
२४३. तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ।
२४४. भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ॥
२४५. वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।
२४६. ससञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ॥
२४७. तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।
२४८. ददर्श भीमसङ्काशं जटामण्डलधारिणम् ।
२४९. भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ।
२५०. स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।
२५१. प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥
२५२. तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् ।
२५३. वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ।
२५४. सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः ॥
२५५. पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
२५६. क्षत्रस्योत्सादनं भूयो नखल्वस्य चिकीर्षितम् ॥
२५७. एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।
२५८. ऋषयो रामरामेति वचो मधुरमब्रुवन् ॥
२५९. प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
२६०. रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥
२६१. राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् ।
२६२. धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥
२६३. तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।
२६४. तदिदं वैष्णवं राम पितृपैतामहं महत् ।
२६५. क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥
२६६. इदं च वैष्णवं राम धनुः परपुरञ्जयम् ।
२६७. ऋचीके भार्गवे प्रादाद्विष्णुः सम्न्यासमुत्तमम् ॥
२६८. ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
२६९. पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥
२७०. योजयस्व धनुश्श्रेष्ठे शरं परपुरञ्जयम् ।
२७१. यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥
२७३. श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।
२७४. गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥
२७५. वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।
२७६. अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥
२७७. इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।
२७८. शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥
२७९. आरोप्य स धनू रामः शरं सज्यं चकार ह ।
२८०. जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥
२८१. ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च ।
२८२. तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शुभम् ॥
२८३. इमां पादगतिं राम तपोबलसमार्जितान् ।
२८४. लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥
२८५. जडीकृते तदा लोके रामे वरधनुर्धरे ।
२८६. निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ॥
२८७. तेजोऽभिहितवीर्यत्वाज्जामदग्न्यो जडीकृतः ।
२८८. रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ॥
२८९. लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
२९०. जहि तान् शरमुख्येन मा भूत्कालस्य पर्ययः ॥
२९१. अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।
२९२. धनुषोऽस्य परामर्षात् स्वस्ति तेऽस्तु परन्तप ॥
२९३. तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
२९४. रामो दाशरथिः श्रीमान् चिक्षेप शरमुत्तमम् ॥
२९५. स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान् ।
२९६. जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥
२९७. ततो वितिमराः सर्वा दिशश्चोपदिशस्तथा ।
२९८. सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥
२९९. अभिवाद्य ततो रामो वसिष्ठप्रमुखान् ऋषीन् ।
३००. पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥
३०१. जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।
३०२. अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥
३०३. रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।
३०४. बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।
३०५. गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ॥
३०६. पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।
३०७. चोदयामास तां सेनां जगामाशु ततः पुरीम् ॥
३०८. पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ।
३०९. सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
३१०. राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ।
३११. संपूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ॥
३१२. अभिवाद्याभिवाद्यान्श्च सर्वा राजसुतास्तदा ।
३१३. रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥
३१४. कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।
३१५. भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ॥
३१६. अयं केकयराजस्य पुत्रो वसति पुत्रक ।
३१७. त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ॥
३१८. श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।
३१९. गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥
३२०. आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।
३२१. मातृश्चापि नरश्रेष्ठो शत्रुघ्नसहितो ययौ ॥
३२२. गते च भरते रामो लक्ष्मणश्च महाबलः ।
३२३. पितरं देवसङ्काशं पूजयामासतुस्तदा ॥
३२४. पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।
३२५. चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥
३२६. एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा ।
३२७. रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥
३२८. रामस्तु सीतया सार्धं विजहार बहूनृतून् ।
३२९. मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ॥
३३०. प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
३३१. गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत ॥
३३२. तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।
३३३. अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥
३३४. तस्य भूयो विशेषेण मैथिली जनकात्मजा ।
३३५. देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥
३३६. तया स राजर्षि सुतोऽभिरामया
३३७. समेयिवानुत्तमराजकन्यया ।
३३८. अतीव रामः शुशुभेऽतिकामया
३३९. विभुः श्रिया विष्णुरिवामरेश्वरः ॥
॥ बालकाण्डम् समाप्तम्॥