०४ ०४ विश्वामित्रकथा

१. अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।
२. ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥
३. प्रभातायां तु शर्वर्यां कृतपौर्वाह्निकक्रियौ ।
४. अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
५. ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥
६. इमौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ ।
७. आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥
८. एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः ।
९. विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥
१०. मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
११. यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥
१२. त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
१३. अद्भुतं धनुरत्नं च तत्र तद् द्रष्टुमर्हसि ॥
१४. आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
१५. अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥
१६. एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।
१७. सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥
१८. ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
१९. वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥
२०. रामोऽपि सह सौ‍मित्रिर्मुनीन्स्तानभिपूज्य च ।
२१. अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥
२२. अथ रामो महातेजा विश्वामित्रं महामुनिम् ।
२३. पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥
२४. भगवन् कस्य देशोऽयं समृद्धवनशोभितः ।
२५. श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥
२६. चोदितो रामवाक्येन कथयामास सुव्रतः ।
२७. तस्य देशस्य निखिलं ऋषिमध्ये महातपाः ॥
२८. ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
२९. अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥
३०. स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।
३१. वैदर्भ्यां जनयामास सदृशान् चतुरः सुतान् ॥
३२. कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ।
३३. दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥
३४. तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
३५. क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥
३६. ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
३७. निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥
३८. कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
३९. कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥
४०. आधूर्तरजसो राम धर्मारण्यं महीपतिः ।
४१. चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥
४२. एषा वसुमती राम वसोस्तस्य महात्मनः ।
४३. एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥
४४. सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।
४५. पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥
४६. सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
४७. पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥
४८. कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः ।
४९. जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥
५०. स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
५१. कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥
५२. एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
५३. देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥
५४. गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
५५. निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः ॥
५६. निष्पन्दाः तरवस्सर्वे निलीना मृगपक्षिणः ।
५७. नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥
५८. शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।
५९. नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥
६०. उत्तिष्ठति हि शीतांशुः शशी लोकतमोनुदः ।
६१. ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ॥
६२. नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
६३. यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥
६४. रामोऽपि सहसौ‍मित्रिः किञ्चिदागतविस्मयः ।
६५. प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥
६६. उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
६७. निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥
६८. सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते ।
६९. उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥
७०. तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्निकीं क्रियाम् ।
७१. गमनं रोचयामास वाक्यं चेदमुवाच ह ॥
७२. अयं शोणः शुभजलो गाधः पुलिनमण्डितः ।
७३. कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम् ॥
७४. एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
७५. एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥
७६. एवमुक्त्वा महर्षयो विश्वामित्रेण धीमता ।
७७. पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥
७८. ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
७९. जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥
८०. तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ॥
८१. ततः स्नात्वा यथान्यायं सन्तर्प्य पितृदेवताः ।
८२. विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ।
८३. विश्वामित्रं महात्मानं परिवार्य समन्ततः ॥
८४. अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ।
८५. भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ॥
८६. त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥
८७. चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
८८. वृद्धिं जन्म च गङ्गायाः प्रवक्तुमुपचक्रमे ॥
८९. शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।
९०. तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥
९१. या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
९२. नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥
९३. तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
९४. उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥
९५. अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया ।
९६. शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥
९७. ददौ धर्मेण हिमवान्स्तनयां लोकपावनीम् ।
९८. स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥
९९. प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।
१००. गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥
१०१. अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।
१०२. सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजाः ॥
१०३. वैदर्भदुहिता राम केशिनी नाम नामतः ।
१०४. ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥
१०५. अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
१०६. द्वितीया सगरस्यासीत् पत्नी सुमतिसञ्ज्ञिता ॥
१०७. ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवान्स्तपः ।
१०८. हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥
१०९. अथ वर्षशते पूर्णे तपसाराधितो मुनिः ।
११०. सगराय वरं प्रादात् भृगुः सत्यवतां वरः ॥
१११. अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
११२. असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥
११३. सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
११४. षष्ठिः पुत्राः सहस्राणि तुम्बभेदाद्विनिःसृताः ॥
११५. स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसम्भवः ।
११६. बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ।
११७. प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।
११८. एवं पापसमाचारः सज्जनप्रतिबाधकः ।
११९. पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ॥
१२०. तस्य पुत्रोऽंशुमान् नाम असमञ्जस्य वीर्यवान् ।
१२१. सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥
१२२. ततः कालेन महता मतिः समभिजायत ।
१२३. सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥
१२४. स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ।
१२५. यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥
१२६. तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ।
१२७. अंशुमानकरोत्तात सगरस्य मते स्थितः ॥
१२८. तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ।
१२९. राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ॥
१३०. ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ।
१३१. षष्ठिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥
१३२. गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ।
१३३. मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ॥
१३४. समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत ।
१३५. यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम् ॥
१३६. इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।
१३७. जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥
१३८. योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।
१३९. बिबिधुर्धरणीं वीरा रसातलमनुत्तमम् ॥
१४०. ते तु सर्वे महात्मानो भीमवेगा महाबलाः ।
१४१. ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥
१४२. हयं च तस्य देवस्य चरन्तमविदूरतः ॥
१४३. ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।
१४४. अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥
१४५. अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।
१४६. दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ॥
१४७. श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।
१४८. रोषेण महताविष्टो हुङ्कारमकरोत्तदा ॥
१४९. ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
१५०. भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥
१५१. पुत्रान् चिरगतान् ज्ञात्वा सगरो रघुनन्दन ।
१५२. नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥
१५३. शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
१५४. पितृणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥
१५५. एवमुक्तोऽंशुमान् सम्यक् सगरेण महात्मना ।
१५६. धनुरादाय खड्गं च जगाम लघुविक्रमः ॥
१५७. स खातं पितृभिर्मार्गमन्तर्भौ‍मं महात्मभिः ।
१५८. प्रापद्यत नरश्रेष्ठस्तेन राज्ञाभिचोदितः ॥
१५९. भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥
१६०. स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
१६१. चुक्रोश परमार्थस्तु वधात्तेषां सुदुःखितः ॥
१६२. यज्ञीयं च हयं तत्र चरन्तमविदूरतः ।
१६३. ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥
१६४. स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
१६५. सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥
१६६. विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् ।
१६७. पितृणां मातुलं राम सुपर्णमनिलोपमम् ॥
१६८. स चैवमब्रवीद् वाक्यं वैनतेयो महाबलः ।
१६९. मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥
१७०. कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
१७१. गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
१७२. तस्यां कुरु महाबाहो पितृणां तु जलक्रियाम् ॥
१७३. भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
१७४. तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
१७५. षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥
१७६. गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ ।
१७७. यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ॥
१७८. सुपर्णवचनं श्रुत्वा सोऽंशुमानतिवीर्यवान् ।
१७९. त्वरितं हयमादाय पुनरायान् महायशाः ॥
१८०. ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
१८१. न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥
१८२. तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः ।
१८३. यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥
१८४. स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।
१८५. गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥
१८६. कालधर्मं गते राम सगरे पृथिवीजनाः ।
१८७. राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥
१८८. स राजा सुमहानासीदंशुमान् रघुनन्दन ।
१८९. तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः ॥
१९०. तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन ।
१९१. तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥
१९२. दिलीपस्तु महातेजा श्रुत्वा पैतामहं वधम् ।
१९३. अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।
१९४. राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ।
१९५. इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ॥
१९६. भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।
१९७. स तपो दीर्घमातिष्ठत् प्रजाकामः स चाप्रजः ॥
१९८. सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ।
१९९. भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥
२००. भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर ।
२०१. तपसा च सुतप्तेन वरं वरय सुव्रत ॥
२०२. तमुवाच महातेजाः सर्वलोकपितामहम् ।
२०३. यदि मे भगवन् प्रीतो यद्यस्ति तपसो फलम् ।
२०४. गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
२०५. स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥
२०६. देया च सन्ततिर्देव नावसीदेत् कुलं च नः ॥
२०७. उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
२०८. प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षरम् ॥
२०९. इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।
२१०. तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ।
२११. गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति ॥
२१२. देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।
२१३. कृत्वा वसुमतीं राम संवत्सरमुपासत ॥
२१४. अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
२१५. उमापतिः पशुपती राजानमिदमब्रवीत् ॥
२१६. प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तवप्रियम् ।
२१७. शिरसा धारयिष्यामि शैलराजसुतामहम् ॥
२१८. ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
२१९. आकाशादपतद् राम शिवे शिवशिरस्युत ॥
२२०. सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ।
२२१. नैव निर्गमनं लेभे जटामण्डलमोहिता ॥
२२२. तामपश्यन् पुनस्तत्र तपः परममास्थितः ।
२२३. अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन ॥
२२४. विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।
२२५. तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे ।
२२६. तिस्रः प्राचीदिशं जग्मुर्गङ्गाश्शिवजलाश्शुभाः ।
२२७. तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥
२२८. सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ।
२२९. भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
२३०. प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥
२३१. यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
२३२. जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ।
२३३. जगाम च पुनर्गङ्गा भगीरथरथानुगा ।
२३४. सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा ॥
२३५. भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः ।
२३६. पितामहान् भस्मकृतानपश्यद् दीनचेतनः ॥
२३७. अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
२३८. प्लावयद् धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥
२३९. भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
२४०. यथाक्रमं यथान्यायं स्वपुरं प्रविवेश ह ॥
२४१. एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
२४२. स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालोऽतिवर्तते ॥
२४३. ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।
२४४. उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥
२४५. तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।
२४६. नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
२४७. भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥
२४८. तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
२४९. सन्तारं कारयामास सर्षिसङ्घः सराघवः ॥
२५०. उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा ।
२५१. गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥
२५२. अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
२५३. पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥
२५४. कतरो राजवंशोऽयं विशालायां महामुने ।
२५५. तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ॥
२५६. आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥
२५७. एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ।
२५८. इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।
२५९. अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ॥
२६०. तेन चासीदिह स्थाने विशालेति पुरी कृता ।
२६१. विशालस्य सुतो राम हेमचन्द्रो महाबलः ॥
२६२. (विशालस्यैव वंशस्थः) काकुत्स्थ इति विश्रुतः ।
२६३. तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् ।
२६४. आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥
२६५. इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
२६६. दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥
२६७. इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।
२६८. श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥
२६९. सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
२७०. श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन् महायशाः ॥
२७१. पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
२७२. प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥
२७३. धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः ।
२७४. संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥
२७५. पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
२७६. अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ।
२७७. पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥
२७८. ततः परमसत्कारं सुमतेः प्राप्य राघवौ ।
२७९. उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥
२८०. मिथिलोपवने तत्र आश्रमं दृश्य राघवः ।
२८१. पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ॥
२८२. श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् ।
२८३. श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥
२८४. तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ।
२८५. प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥
२८६. गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ।
२८७. आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ॥
२८८. स चेह तप आतिष्ठद् अहल्यासहितः पुरा ।
२८९. वर्षपूगाननेकान्श्च राजपुत्र महायशः ॥
२९०. तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ।
२९१. मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ॥
२९२. ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते ।
२९३. सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥
२९४. मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन ।
२९५. मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥
२९६. अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
२९७. कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥
२९८. एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः ।
२९९. गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ॥
३०१. अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।
३०२. दुर्वृत्तं वृत्तसंपन्नो रोषाद् वचनमब्रवीत् ॥
३०३. मम रूपं समास्थाय कृतवानसि दुर्मते ।
३०४. अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ॥
३०५. तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ॥
३०६. इह वर्षसहस्राणि तप्यन्ती भस्मशायिनी ।
३०७. अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ॥
३०८. यदा चैतद्वनं घोरं रामो दशरथात्मजः ।
३०९. आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥
३१०. एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ।
३११. हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥
३१२. तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।
३१३. तारयैनां महाभागामहल्यां देवरूपिणीम् ॥
३१४. विश्वामित्रवचः श्रुत्वा राघवः सह लक्ष्मणः ।
३१५. विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥
३१६. ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
३१७. सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥
३१८. सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ।
३१९. शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥
३२०. राघवौ त्वतिथी तस्या पादौ जगृहतुस्तदा ।
३२१. स्मरन्ती राघववचः प्रतिजग्राह सा च तौ ।
३२२. पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता ॥
३२३. पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनः ।
३२४. गौतमोऽपि महातेजा अहल्यासहितः सुखी ।
३२५. रामं संपूज्य विधिवत् तपस्तेपे महातपाः ॥
३२६. रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
३२७. सकाशाद् विधिवत्प्राप्य जगाम मिथिलां ततः ॥
३२८. ततः प्रागुत्तरां गत्वा रामः सौ‍मित्रिणा सह ।
३२९. विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥
३३०. विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
३३१. शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ।
३३२. प्रत्युज्जगाम सहसा विनयेन समन्वितः ॥
३३३. अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ।
३३४. धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ।
३३५. यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह ॥
३३६. इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
३३७. अश्विनाविव रूपेण समुपस्थितयौवनौ ।
३३८. वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।
३३९. पद्मपत्रविशालाक्षौ श्रोतुमिच्छामि तत्त्वतः ॥
३४०. तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।
३४१. न्यवेदयन् महात्मानौ पुत्रौ दशरथस्य तौ ॥
३४२. सिद्धाश्रमनिवासं च राक्षसानां वधं तदा ।
३४३. तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ।
३४४. अहल्यादर्शनं चैव गौतमेन समागमम् ।
३४५. महाधनुषि जिज्ञासां कर्तुमागमनं तथा ।
३४६. एतत्सर्वं महातेजा जनकाय महात्मने ।
३४७. निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥
३४८. तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
३४९. शतानन्दो महातेजा रामं वचनमब्रवीत् ॥
३५०. स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ।
३५१. विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥
३५२. नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।
३५३. गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥
३५४. श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।
३५५. यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥
३५६. राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।
३५७. धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥
३५८. कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।
३५९. अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥
३६०. आश्रमान् क्रमशो राम विचरन्नाजगाम ह ।
३६१. वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ॥
३६२. स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
३६३. प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥
३६४. आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥
३६५. कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।
३६६. मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥
३६७. ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन ।
३६८. विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥
३६९. आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।
३७०. तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥
३७१. राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥
३७२. एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
३७३. फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।
३७४. पाद्येनाचमनीयेन भगवद्दर्शनेन च ।
३७५. सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ॥
३७६. गमिष्यामि नमस्तेस्तु मैत्रेणेक्षस्व चक्षुषा ॥
३७७. एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
३७८. न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥
३७९. बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
३८०. यथा प्रियं भगवतस्तथास्तु मुनिसत्तम ॥
३८१. एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
३८२. आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥
३८३. एह्येहि शबले क्षिप्रं शृणु चापि वचो मम ।
३८४. सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ॥
३८५. भोजनेन महार्हेण सत्कारं संविधत्स्व मे ।
३८६. यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।
३८७. तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम ॥
३८८. एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
३८९. विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् ॥
३९०. इक्षून् मधूंस्तथा लाजान् मैरेयान्श्च वरासवान् ।
३९१. पानानि च महार्हाणि भक्ष्यान्श्चोच्चावचांस्तथा ॥
३९२. सर्वमासीत् सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।
३९३. विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥
३९४. विश्वामित्रोऽपि राजर्षिः हृष्टः पुष्टस्तदाभवत् ।
३९५. युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥
३९६. पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
३९७. श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥
३९८. गवां शतसहस्रेण दीयतां शबला मम ।
३९९. रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ॥
४००. यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।
४०१. तावद्ददामि तत्सर्वं शबला दीयतां मम ॥
४०२. एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
४०३. न दास्यामीति शबलां प्राह राजन् कथञ्चन ॥
४०४. एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
४०५. एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥
४०६. अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः ।
४०७. बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥
४०८. कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
४०९. तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥
४१०. नीयमाना तु शबला राम राज्ञा महात्मना ।
४११. निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ।
४१२. जगामानिलवेगेन पादमूलं महात्मनः ॥
४१३. शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
४१४. वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥
४१५. भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत ।
४१६. यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥
४१७. एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
४१८. शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥
४१९. न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ।
४२०. एष त्वां नयते राजा बलान्मत्तो महाबलः ॥
४२१. न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ॥
४२२. इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
४२३. हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥
४२४. एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
४२५. वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥
४२६. ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ।
४२७. नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम् ।
४२८. तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥
४२९. इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।
४३०. सृजस्वेति तदोवाच बलं परबलारुजम् ॥
४३१. तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ।
४३२. तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप ।
४३३. नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥
४३४. स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ।
४३५. पप्लवान्नाशयामास शस्त्रैरुच्छावचैरपि ॥
४३६. दृष्ट्वा निषूदितं सैन्यं मुमोचास्त्राणि पार्थिवः ।
४३७. यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥
४३८. वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
४३९. विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥
४४०. वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
४४१. वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ॥
४४२. विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ।
४४३. आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
४४४. दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥
४४५. एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
४४६. आग्नेयमस्त्रमुत्क्षिप्य तिष्ठतिष्ठेति चाब्रवीत् ॥
४४७. ब्रह्मदन्डं समुत्क्षिप्य कालदन्डमिवापरम् ।
४४८. वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥
४४९. क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय ।
४५०. नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥
४५१. क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
४५२. पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥
४५३. तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
४५४. ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥
४५५. वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
४५६. ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥
४५७. तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥
४५८. तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥
४५९. तदप्यस्त्रं महाघोरं ब्राह्मं ब्रह्मेण तेजसा ।
४६०. वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥
४६१. ब्रह्मास्त्रं ग्रसमाणस्य वसिष्ठस्य महात्मनः ।
४६२. त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥
४६३. प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
४६४. विधूम इव कालाग्निर्यमदण्ड इवापरः ॥
४६५. ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ।
४६६. निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
४६७. प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥
४६८. एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
४६९. विश्वामित्रोऽपि निकृतो विनिश्वस्येदमब्रवीत् ॥
४७०. धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।
४७१. एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥
४७२. ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः ।
४७३. विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ।
४७४. स दक्षिणां दिशं गत्वा महिष्या सह राघव ।
४७५. तताप परमं घोरं विश्वामित्रो महत्तपः ॥
४७६. पुर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
४७७. अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥
४७८. जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ।
४७९. अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥
४८०.विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः ।
४८१. दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥
४८२. तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
४८३. देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ॥
४८४. एवं निश्चित्य मनसा भूय एव महातपाः ।
४८५. तपश्चकार काकुत्स्थ परमं परमात्मवान् ।
४८६. पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥
४८७. पुर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।
४८८. अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥
४८९. अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
४९०. ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥
४९१. विश्वामित्रो महातेजा जेतुकामो महायशाः ।
४९२. कौशिकीतीरमासाद्य भूयस्तेपे महत्तपः ॥
४९३. तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
४९४. उत्तरे पर्वते राम देवतानामभूद्भयम् ॥
४९५. आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ।
४९६. महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ॥
४९७. देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
४९८. अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥
४९९. महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ।
५००. महत्त्वं ऋषिमुख्यत्त्वं ददामि तव कौशिक ॥
५०१. प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपितामहम् ।
५०२. प्रत्युवाच ततो वाचं विश्वामित्रो महामुनिः ॥
५०३. महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
५०४. यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः ॥
५०५. तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।
५०६. यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥
५०७. अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।
५०८. पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥
५०९. मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।
५१०. चकाराप्रतिमं राम तपः परमदुष्करम् ॥
५११. तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ।
५१२. भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम ॥
५१३. इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥
५१४. तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।
५१५. निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः ।
५१६. न किञ्चिदवदद् विप्रं मौनव्रतमुपस्थितः ॥
५१७. तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।
५१८. त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥
५१९. ततः सुरगणाः सर्वे पितामहपुरोगमाः ।
५२०. विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥
५२१. ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।
५२२. ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥
५२३. दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ॥
५२४. पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
५२५. कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥
५२६. ब्राह्मण्यं यदि ते प्राप्तं दीर्घमायुस्तथैवच ।
५२७. ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥
५२८. क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।
५२९. ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।
५३०. यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥
५३१. ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।
५३२. सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥
५३३. एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।
५३४. एष राम मुनिश्रेष्ठ एष विग्रहवान्स्तपः ।
५३५. एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ॥
५३६. एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥
५३७. शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।
५३८. जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥
५३९. विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।
५४०. श्रुतं मया महातेजो रामेण च महात्मना ॥
५४१. अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।
५४२. अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥
५४३. श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।
५४४. स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥
५४५. एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।
५४६. विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥