१. अथ राजा दशरथस्तेषां दारक्रियां प्रति ।
२. चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥
३. तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ।
४. अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः ॥
५. तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ।
६. प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ॥
७. स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
८. कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥
९. पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ।
१०. कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ॥
११. अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ।
१२. उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥
१३. यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके ।
१४. यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ।
१५. प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ।
१६. तथैवागमनं मन्ये स्वागतं ते महामुने ॥
१७. पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक ।
१८. अद्य मे सफलं जन्म जीवितं मे सुजीवितम् ॥
१९. शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ।
२०. ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥
२१. कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक ।
२२. कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥
२३. तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
२४. हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥
२५. सदृशं राजशार्दूल तवैतद्भुवि नान्यथा ।
२६. महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ॥
२७. अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
२८. तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥
२९. व्रते मे बहुशः चीर्णे समाप्त्यां राक्षसाविमौ ।
३०. मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥
३१. समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥
३२. न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।
३३. तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥
३४. स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
३५. काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥
३६. शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
३७. राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥
३८. श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
३९. त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥
४०. न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।
४१. न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥
४२. न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव ।
४३. अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥
४४. अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।
४५. वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥
४६. यदि ते धर्मलाभं च यशश्च परमं भुवि ।
४७. स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥
४८. यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।
४९. वसिष्ठप्र्मुखाः सर्वे राघवं मे विसर्जय ॥
५०. अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।
५१. दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥
५२. नात्येति कालो यज्ञस्य यथायं मम राघव ।
५३. तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥
५४. इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
५५. विरराम महातेजा विश्वामित्रो महामुनिः ॥
५६. तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
५७. मुहूर्तमिव निःसंज्ञः सञ्ज्ञावानिदमब्रवीत् ॥
५८. ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
५९. न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥
६०. इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।
६१. अनया संवृतो गत्वा योद्धाहं तैर्निशाचरैः ॥
६२. निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ॥
६३. बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
६४. न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥
६५. न चासौ रक्षसां योग्यः कूतयुद्धा हि ते भृशम् ॥
६६. षष्ठिर्वर्षसहस्राणि जातस्य मम कौशिक ।
६७. दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ॥
६८. चतुर्णामात्मजानां हि प्रीतिः परमिका मम ।
६९. ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ॥
७०. किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ।
७१. कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव ॥
७२. सर्वं मे शंस भगवन् कथं तेषां मया रणे ।
७३. स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ॥
७४. तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ।
७५. पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
७६. स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥
७७. यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ।
७८. तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ ।
७९. मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥
८०. इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
८१. न हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः ॥
८२. स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
८३. मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥
८४. देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
८५. न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥
८६. स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
८७. तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः ।
८८. सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥
८९. कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम् ।
९०. बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥
९१. इति नरपतिजल्पनाद् द्विजेन्द्रम्
९२. कुशिकसुतं सुमहान् विवेश मन्युः ।
९३. सुहुत इव समिद्भिराज्यसिक्तः
९४. समभवदुज्ज्वलितो महर्षिवह्निः ॥
९५. तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
९६. समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥
९७. पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
९८. राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥
९९. यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।
१००. मिथ्याप्रतिज्ञः काकुत्स्थ सुखीभव सबान्धवः ॥
१०१. तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
१०२. चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥
१०३. त्रस्तरूपं स विज्ञाय जगत्सर्वं महानृषिः ।
१०४. नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥
१०५. इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
१०६. धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥
१०७. संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव ।
१०८. इष्टापूर्तवधो भूयात् तस्माद्रामं विसर्जय ॥
१०९. कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राघव ।
११०. गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥
१११. एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
११२. एष बुद्ध्याधिको लोके तपसश्च परायणम् ॥
११३. एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
११४. नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥
११५. एवं वीर्यो महातेजा विश्वामित्रो महायशाः ।
११६. न रामगमने राजन् संशयं गन्तुमर्हसि ॥
११७. तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
११८. तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥
११९. तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।
१२०. प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥
१२१. कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
१२२. पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ।
१२३. स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।
१२४. ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥
१२५. तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ ।
१२६. बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ।
१२७. कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।
१२८. अनुयातौ श्रिया दीप्त्या शोभयेतामनिन्दितौ ॥
१२९. पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः ।
१३०. ततो वायुः सुखस्पर्शो प्रयाते तु महात्मनि ॥
१३१. अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।
१३२. रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥
१३३. गृहाण वत्स सलिलं मा भूत् कालविपर्ययः ।
१३४. मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥
१३५. न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।
१३६. न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः ॥
१३७. न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।
१३८. त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ॥
१३९. न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
१४०. नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥
१४१. क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।
१४२. बलामतिबलां चैव पठतः पथि राघव ॥
१४३. प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥
१४४. कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ।
१४५. तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥
१४६. ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ।
१४७. प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥
१४८. विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ।
१४९. सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥
१५०. गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
१५१. ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥
१५२. प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।
१५३. अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥
१५४. कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
१५५. उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
१५६. तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।
१५७. स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥
१५८. कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।
१५९. अभिवाद्याभिसंहृष्टौ गमनायाभिसंस्थतुः ॥
१६०. तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।
१६१. ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥
१६२. तत्राश्रमपदं पुण्यं ऋषीणां भावितात्मनाम् ।
१६३. बहुवर्षसहस्राणि तप्यतां परमं तपः ॥
१६४. तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।
१६५. ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥
१६६. कस्यायमाश्रमः पुण्यः कोऽन्वस्मिन्वसते पुमान् ।
१६७. भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥
१६८. तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
१६९. अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥
१७०. कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः ।
१७१. तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ।
१७२. कृतोद्वाहं तु देवेशं गच्छन्तं स मरुद्गणम् ।
१७३. धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना ॥
१७४. अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन ।
१७५. व्यशीर्य्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥
१७६. तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।
१७७. अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण हि ॥
१७८. अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।
१७९. स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥
१८०. तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।
१८१. शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥
१८२. इहाद्य रजनीं राम वसेम शुभदर्शन ।
१८३. पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥
१८४. अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।
१८५. स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ॥
१८६. तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ।
१८७. विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥
१८८. अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे ।
१८९. रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥
१९०. सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ।
१९१. यथार्हमजपन् सन्ध्यां ऋषयस्ते समाहिताः ॥
१९२. कथाभिरभिरामाभिरभिरामौ नृपात्मजौ ।
१९३. रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥
१९४. ततः प्रभाते विमले कृताह्निकमरिन्दमौ ।
१९५. विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥
१९६. ते च सर्वे महात्मानो मुनयः संशितव्रताः ।
१९७. उपस्थाप्य शुभं नावं विश्वामित्रमथाब्रुवन् ॥
१९८. आरोहतु भवान् नावं राजपुत्रपुरस्कृतः ।
१९९. अरिष्टं गच्छ पन्थानं मा भूत् कालविपर्ययः ॥
२००. विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च ।
२०१. ततार सहितस्ताभ्यां सरितं सागरंगमाम् ॥
२०२. ततः शुश्राव वै शब्दमतिसंरम्भवर्धितम् ।
२०३. मध्यमागम्य तोयस्य सह रामः कनीयसा ॥
२०४. अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ।
२०५. वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥
२०६. राघवस्य वचः श्रुत्वा कौतूहलसमन्वितः ।
२०७. कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥
२०८. कैलासपर्वते राम ब्रह्मणा निर्मितं सरः ।
२०९. तस्मात्सुस्राव सरसः सायोध्यामुपगूहते ।
२१०. सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।
२११. तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥
२१२. वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु ॥
२१३. ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ।
२१४. तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥
२१५. स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः ।
२१६. अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥
२१७. भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः ।
२१८. सङ्कीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम् ॥
२१९. तमुवाच महातेजा विश्वामित्रो महामुनिः ।
२२०. श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम् ॥
२२१. एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम ।
२२२. मलदाश्च करूशाश्च मुदितौ धनधान्यतः ॥
२२३. कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।
२२४. ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥
२२५. इमौ जनपदं नित्यं विनाशयति राघव ।
२२६. मलदान्श्च करूशान्श्च ताटका दुष्टचारिणी ॥
२२७. सेयं पन्थानमावार्य वसत्यध्यर्धयोजने ।
२२८. अत एव च गन्तव्यं ताटकाया वनं यतः ॥
२२९. स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ।
२३०. मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ॥
२३१. न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
२३२. चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ॥
२३३. अधर्म्यां जहि काकुत्स्थ धर्मोऽह्यस्या न विद्यते ॥
२३४. मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
२३५. राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच द्र्ढव्रतः ॥
२३६. अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
२३७. पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥
२३८. सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः ।
२३९. करिष्यामि न सन्देहस्ताटकावधमुत्तमम् ॥
२४०. एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः ।
२४१. ज्याघोषमकरोत् तीव्रं दिशः शब्देन पूरयन् ॥
२४२. तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
२४३. श्रुत्वा चाभ्यद्रवत्क्रोधाद्यतः शब्दो विनिस्सृतः ॥
२४४. उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥
२४५. विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम् ।
२४६. स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥
२४७. उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।
२४८. रजोमोहेन महता मुहूर्तं सा व्यमोहयत् ॥
२४९. ततो मायां समास्थाय शिलावर्षेण राघवौ ।
२५०. अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥
२५१. शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।
२५२. प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥
२५३. ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।
२५४. सौमित्रिरकरोत् क्रोधात् हृतकर्णाग्रनासिकाम् ॥
२५५. कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः ।
२५६. अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥
२५७. तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।
२५८. शरेणोरसि विव्याध सा पपात ममार च ॥
२५९. ततो मुनिवरः प्रीतस्ताटकावधतोषितः ।
२६०. मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥
२६१. इहाद्य रजनीं राम वसाम शुभदर्शन ।
२६२. श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम ॥
२६३. विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
२६४. उवास रजनीं तत्र ताटकाया वने सुखम् ॥
२६५. मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ।
२६६. रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥
२६७. अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
२६८. प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥
२६९. परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
२७०. प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥
२७१. देवासुरगणान् वापि सगन्धर्वोरगानपि ।
२७२. यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥
२७३. धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
२७४. गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ॥
२७५. शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।
२७६. ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
२७७. आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
२७८. वायव्यं प्रथनं नाम ददामि च तवानघ ।
२७९. गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ।
२८०. एतान् राम महाबाहो कामरूपान् महाबलान् ।
२८१. गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥
२८२. स्थितस्तु प्राङ्ग्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
२८३. ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥
२८४. सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
२८५. तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥
२८६. जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
२८७. उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥
२८८. ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
२८९. इमे स्म परमोदाराः किङ्करास्तव राघव ॥
२९०. प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
२९१. मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥
२९२. प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।
२९३. गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥
२९४. गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरासुरैः ।
२९५. अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥
२९६. एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः ।
२९७. संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥
२९८. बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।
२९९. जग्राह मन्त्रग्रामं तेऽप्युपतस्थुश्च राघवम् ॥
३००. रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।
३०१. इमे स्म नरशार्दूल शाधि किं करवाम ते ॥
३०२. मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।
३०३. गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥
३०४. अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।
३०५. एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥
३०६. स च तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
३०७. गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥
३०८. निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ।
३०९. अनया त्ववगच्छामि देशस्य सुखवत्तया ।
३१०. सर्वं मे शंस भगवन् कस्याश्रमपदम्त्विदम् ॥
३११. अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।
३१२. विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥
३१३. इह राम महाबाहो विष्णुर्देववरः प्रभुः ।
३१४. वर्षाणि सुबहून्येव तथा युगशतानि च ।
३१५. तपश्चरणयोगार्थमुवास सुमहातपाः ॥
३१६. एष पूर्वाश्रमो राम वामनस्य महात्मनः ।
३१७. सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥
३१८. तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
३१९. मया तु भक्त्या तस्यैष वामनस्योपभुज्यते ॥
३२०. एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
३२१. अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥
३२२. अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।
३२३. तदाश्रमपदं तात तवाप्येतद् यथा मम ॥
३२४. प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
३२५. शशीव गतनीहारः पुनर्वसुसमन्वितः ॥
३२६. तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ।
३२७. यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
३२८. तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥
३२९. मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ ।
३३०. प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥
३३१. अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव ।
३३२. सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥
३३३. एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।
३३४. प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः ॥
३३५. कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
३३६. प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च ।
३३७. स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।
३३८. हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥
३३९. अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ ।
३४०. देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥
३४१. भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
३४२. संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥
३४३. एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
३४४. सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥
३४५. अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।
३४६. दीक्षां गतो ह्येष मुनिः मौनित्वं च गमिष्यति ॥
३४७. तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
३४८. अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥
३४९. अथ काले गते तस्मिन् षष्ठेऽहनि समागते ।
३५०. सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥
३५१. रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
३५२. प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥
३५३. आकाशे च महान् शब्दः प्रादुरासीद् भयानकः ।
३५४. आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।
३५५. तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥
३५६. मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।
३५७. आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ॥
३५८. तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
३५९. मानवं परमोदारमस्त्रं परमभास्वरम् ।
३६०. चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥
३६१. स तेन परमास्त्रेण मानवेन समाहतः ।
३६२. संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे ॥
३६३. सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।
३६४. सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥
३६५. शेषान् वायव्यमादाय निजघान महायशाः ।
३६६. राघवः परमोदारो मुनीनां मुदमावहन् ॥
३६७. स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
३६८. ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥
३६९. अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
३७०. निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥
३७१. कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
३७२. सिद्धाश्रममिदं सत्यं कृतं राम महायशः ॥